साध्यसमः
(५३) प्रमाणपद्धतिः
।। २० ।। (२) (८) ।। साध्यसमः ।। साध्यवद्दृष्टान्तस्यापि साध्यत्वचोदनं साध्यसम इत्येके । तदसत् । विप्रतिपत्त्या चोदने सदुत्तरत्वात् । एवमेव चोदनेऽसम्भवदुक्तिकत्वात् । तेनैव हेतुना साध्यत्वापादनेऽप्येवमेव । वर्ण्यसमवद्बीजोपपादने तु तदभेदः । तस्मात् क्रोडीकृतधर्म्यादिविषयस्य लिङ्गस्य धर्म्यादावप्रयोजकत्वे साध्येऽपि तथात्वप्रसङ्गात्तेनैव हेतुना धर्म्यादेरपि साध्यत्वापादनं साध्यसम इत्युदयनः । व्याप्तिपक्षधर्मवत्तयैव प्रयोजकत्वोपपत्तेस्तत्सिद्ध तामात्रेण साधनाङ्गत्वसम्भवात्तेनैव हेतुना साधनमित्युत्तरं वाच्यम् । तदनङ्गीकारे तु स्वन्यायविरोध इति ।
जयतीर्थविजय
।। साध्यवदिति । पक्षवदित्यर्थः । तस्यापि साध्यवत्तया साधयितुं योग्यत्वात् । साधयितुं योग्यं साध्यमिति व्युत्पत्तेः । साध्यत्वचोदनं साध्यत्वेन रूपेण साधनीयत्वापादनमित्यर्थः ।। विप्रतिपत्त्येति । दृष्टान्ते साध्यसद्भावसन्देहेनेत्यर्थः ।। एवमेवेति । विप्रतिपत्त्यभावेनेत्यर्थः । लक्षणान्तरमाशङ्क्य निराकरोति ।। तेनेति । यो हेतुः साध्यविषये साधकत्वेनोपलब्धस्तेनैवेत्यर्थः ।। एवमेवेति । असम्भवदुक्तिकमेव । उत्थानबीजाभावादिति भावः । बीजमाशङ्क्य निराकरोति ।। वर्ण्यसमवदिति । पक्षे हेतुः साध्येन सहचरित उपलब्धो दृष्टान्तस्यापि तदापादयतीत्येवं रूपबीजोपपादन इत्यर्थः । वर्ण्यसमव्यावर्तकबीजकथनपूर्वकमुदयनोक्तलक्षणमाह ।। तस्मादिति ।। धर्म्यादीति । धर्मी साध्याश्रयः । आदिशब्देन साध्यहेतुदृष्टान्तानां ग्रहणम् । क्रोडीकृतोऽनपोढः स्वविषयाभावादत्याजितो धर्मी साध्यदृष्टान्तलिङ्गरूपोपनयो यस्य तस्य लिङ्गस्येत्यर्थः । अनुमितिकाले लिङ्गसाध्यतदाश्रयेति त्रयज्ञानजननसमर्थस्य व्याप्तिज्ञाने चात्यक्तदृष्टान्तलिङ्गस्येत्यर्थः । अत एवोक्तं प्रमाणलक्षणटीकायाम् । अत्र विशिष्टसाधकत्वाभिमानं उत्थानहेतुरिति । उक्तं वरदराजेन क्रोडीकृतलिङ्गधर्मी लिङ्गाविषयानुमितिजनकत्वलिङ्गस्य न हि लिङ्गधर्मिणावपोद्य साध्यमात्रप्रतीतिर्लिङ्गाज्जायत इति । टीकायां तस्मादनित्य एवायं शब्द इत्यनुमितिरूपे विशिष्टज्ञाने लिङ्गधर्मिणोरपि विषयत्वेनोल्लेखादिति भाव इति व्याख्यातम् ।। धर्म्यादाविति । पक्षदृष्टान्तहेतुष्वित्यर्थः ।। साध्येऽपीति । पक्षीयतया सिषाधयिषिते धर्म इत्यर्थः । साध्येऽपि तथात्वप्रसङ्गादित्यनेन विशिष्टसाधकत्वाभिमान उत्थानबीजमित्युक्तं भवति । साध्येऽपीत्यपिशब्देन सिद्धानामपीत्यभिप्रेतम् ।। साध्यत्वापादानमिति । पक्षादिस्वरूपाणामेव साध्यत्वापादनमित्यर्थः । न तु वर्ण्यसम इव साध्यवत्त्वेन साधनीयत्वापादनमित्यर्थः । तदुक्तं वरदराजेन
दृष्टान्तहेतुपक्षाणां सिद्धानामपि साध्यवत् ।
साध्यत्वापादनं तस्माल्लिङ्गात् साध्यसमो भवेत् ।। इति ।
पक्षादिस्वरूपाणां तेनैव हेतुना साधने आश्रयासिद्धिस्वरूपासिद्ध्यापत्तिरिति भावः । एवं च वादिना पर्वतो वह्निमान्धूमवत्त्वादिति स्थापनाहेतौ प्रयुक्ते धूमवत्त्वहेतुर्न वह्निसाधक आश्रयासिद्धत्वादित्यादिप्रतिषेधहेतुः सूचितो भवति । असामर्थ्यं दर्शयितुमुत्तरकथाप्रकारमाह ।। व्याप्तीति । तत्सिद्धतामात्रेण तेषां पक्षादीनां येन केनचित्प्रमाणेन सिद्धिमात्रेणेत्यर्थः । साधनं पक्षादीनामिति शेषः ।। स्वन्यायविरोध इति । अयं हेतुरसाधनाङ्गमाश्रयासिद्धत्वादिति प्रतिषेधहेतावप्येवं वक्तुं शक्यत्वादिति भावः ।।
भावदीपः
।। एवमेवेति । विवादाभावेऽपि चोदन इत्यर्थः ।। एवमेवेति । असम्भवदुक्तिकत्वमेवेत्यर्थः । बीजाभावादिति भावः ।। वर्ण्यसमवदिति । धूमवत्त्वं पक्षे साध्यत्वेन सहचरितं दृष्टमिति दृष्टान्तस्य साध्यत्वमापादयतीत्येवं बीजोपादनमित्यर्थः ।। क्रोडीकृतेति । क्रोडः सूकरवृन्दयोरित्युक्तेरनुमानप्रयोगे समूहीकृतपक्षे हेतुदृष्टान्तविषयकस्य हेतोः पर्वतादिधर्म्यादिसिद्धावप्रयोजकत्वे साध्यविषयेऽपि तत्प्रसङ्गभिया तेनैव लिङ्गेन तेषामपि साध्यत्वापादनमित्यर्थः । अन्यथाऽऽश्रयासिद्ध्यादिप्रसङ्गादिति भावः ।। सिद्धतामात्रेणेति । मानान्तर (प्रमितत्व) सिद्धमात्रेणेत्यर्थः ।। तदनङ्गीकार इति । मानान्तरसिद्धतामात्रेण धर्म्यादेः साधनाङ्गताऽनङ्गीकारे वादिनोक्तं धूमवत्त्वादिकं न साध्यसाधकम् । आश्रयासिद्ध्यादिदुष्टत्वात् । सम्मतवदिति जातिवादिनोक्ते प्रतिषेधेऽप्येवं वक्तुं शक्यत्वात्स्वन्यायविरोध इत्यर्थः । नवमदशमजातीक्रमेण युगपल्लक्षयति । साधनस्येति ।। कृतिज्ञप्तीति । उत्पत्तिज्ञप्तीत्यर्थः ।। सत्तैवेति । विद्यमानेनैवेत्यर्थः । अतः प्राप्तिर्नोपेयेति प्राप्तिरूपविशेषणाभावाद्विशेषणासिद्धिरारोप्येति भावः । अप्राप्तिसमं व्यनक्ति ।। अप्राप्येति । जातिद्वयेऽप्युत्तरोक्तिप्रकारमाह ।। अत्रेति । जातिद्वये इत्युत्तरं वाच्येत्यन्वयः ।। सामर्थ्येति । जनकत्वशक्तिरूपप्राप्तीत्यर्थः ।। एतदनङ्गीकृत्येति । उक्तरूपप्राप्तिद्वयमनङ्गीकृत्येत्यर्थः । स्वरूपप्राप्त्यादीत्यादिपदेन विषयविषयिभावग्रहः ।। स्वन्यायेनेति । धूमवत्त्वं न साध्यानुमितिजननक्षमं प्रागुक्तदिशा विशेषणासिद्धत्वादप्राप्यसाधनेऽतिप्रसङ्गत्वात्सम्मतवदिति जातिवाद्युक्तप्रतिषेधेऽप्येवं सुवचत्वात् स्वन्यायेन व्याघात इत्यर्थः ।
श्रीविजयीन्द्रतीर्थ
।। साध्यवदिति । साध्यसाधनान्यतरवत्तया साध्यत्वेत्यर्थः ।। वर्ण्येति । असिद्धार्थत्वादिरूपपुरस्कारेण साध्यत्वापादने वर्ण्यसमाभेदप्रसङ्ग इत्यर्थः ।। क्रोडीकृतेति । विशेषणविशेष्यभावापन्नेत्यर्थः । तद्विषयत्वं तद्विषयकानुमित्यनुकूलत्वं व्याप्तीत्यनेन तेनैव सिद्धरूपा युक्ताङ्गाधिक्योक्तिः ।
श्रीवेदेशभिक्षु
साध्यवत्पक्षवत् । साध्यत्वचोदनमित्येतदुक्तार्थः ।। असम्भवदुक्तिकत्वादिति । बीजाभावादिति भावः । ननु नात्र बीजाभावः पक्षमात्रविवक्षितरूपवद्धेतुमत्त्वादिना दृष्टान्तस्याप्यसाध्यत्वचोदनस्यात्राविवक्षितत्वात् । अन्यथा साधनवैकल्याद्यापत्तेरिति बीजोपपादनादित्यत आह ।। वर्ण्यसमवदिति ।। क्रोडीकृतेति । तस्मात्पर्वतोऽग्निमानिति विशेषणविशेष्यभावापन्नधर्मिलिङ्गलिङ्गिविषयकानुमितिरूपजननस्वभावस्येत्यर्थः ।। धर्म्यादाविति । अत्रादिपदेन लिङ्गादिकं गृह्यते । प्रमाणान्तरे सिद्धस्यापीत्यर्थः । वर्ण्यसमव्यावृत्तये तेनैव हेतुनेति । अत्र तेनैव हेतुना धर्म्यादेरपि साध्यत्वापादनमेव लक्षणं शिष्टमेतज्जात्युत्थानप्रकारप्रदर्शनाय । इत्थमिह जातिवादिनोऽभिमानः । लिङ्गधर्मिणौ सिद्धावनुमानाङ्गे भवतस्तत्सिद्धिश्च न प्रमाणान्तरादुद्भूता लिङ्गस्य तत्राप्रयोजकत्वे साध्येऽप्यप्रयोजकत्वापत्तेः । क्रोडीकृतधर्मिलिङ्गलिङ्गिविषयानुमितिजनकत्वाल्लिङ्गस्य न हि लिङ्गधर्मिणावपोद्य साध्यमात्रप्रतीतिलिङ्गाज्जायतेऽतस्तेनैव हेतुना धर्म्यादेरपि साधनमावश्यकमिति ।। व्याप्तीति । न तु धर्म्यादिसाधकत्वेनापीत्यर्थः । अनेन युक्ताङ्गाधिकत्वमुक्तम् ।
अभिनवामृतम्
।। साध्यवद् दृष्टान्तस्यापीति । पर्वतवन्महानसस्य धर्मितया साध्यत्वापादनं वर्ण्यसमः । वह्निवद्धर्मतया महानसस्य साध्यत्वाच्चोदनं साध्यसम इति भेदः ।। विप्रतिपत्त्येति । महानसस्य सत्त्वासत्त्वप्रतिपत्त्या चोदनेऽसदुत्तरत्वादित्यर्थः । तेनैव हेतुना साध्यवद्दृष्टान्तस्य साध्यत्वचोदनं साध्यसम इति कश्चित् । तन्मतं दूषयति ।। तेनैव हेतुनेति ।। एवमेवेति । विप्रतिपत्त्या चोदनेऽसदुत्तरत्वमेव । एवमेव चोदनेऽसम्भवदुक्तिकत्वमेवेत्यर्थः । एतेनैवमेवचोदनेऽसम्भवदुक्तिकत्वादित्युक्तदूषणपरिहारोपायत्वाभावात्तेनैव हेतुनेति कक्षानवकाशः । ततस्तदनुवादेन दूषणाद्यभिधानं परास्तम् ।। वर्ण्यसमवदिति । पक्षहेतुः साध्यत्वेन सहचरित उपलब्धो दृष्टान्तस्य तदापादयतीति वर्ण्यसमवद्बीजोपपादनमित्यर्थः । धर्मितया साध्यत्वापादनं वर्ण्यसमः । धर्मतया साध्यत्वापादनं साध्यसम इत्येतावता भेदेऽतिप्रसङ्ग इति भावः ।। तस्मात्क्रोडीकृतेति । अत्र तेनैव हेतुना धर्म्यादेरपि साध्येऽपि तत्त्वाप्रसङ्गादित्युत्थानबीजाभिधानम् । एवं हि जातिवादो मन्येत । प्रसिद्धा एव लिङ्गधर्मिसपक्षा अनुमानाङ्गानि भवन्ति । न च तेषां प्रसिद्धिर्मानान्तरेण युक्ता । लिङ्गस्य तत्राप्रयोजक साध्यत्वापादनं साध्यसम इत्येव लक्षणम् । क्रोडीकृतधर्म्यादिविषयस्य लिङ्गस्य धर्म्यादावप्रयोजकत्वेसाध्येऽप्यप्रयोजकत्वप्रसङ्गात् । न हि लिङ्गधर्मिसपक्षानपोह्य साध्यमात्रप्रतीतिर्लिङ्गाज्जायते । किं नाम महानसो धूमवान्पर्वतो वह्निमानिति । लिङ्गधर्मिसपक्षैः सहैव साध्यप्रतीतिरुपजायते । ततश्च सर्वत्रापि लिङ्गस्य प्रयोजकत्वं वाच्यम् । न च तदस्तीति साध्येऽप्यप्रयोजको हेतुरित्यभिधानं पाक्षिकजयहेतुरिति । स्वरूपासिद्ध्यादिकमारोप्यम् ।। तत्सिद्धितामात्रेणेति । तेषां सिद्धितामात्रेणेत्यर्थः ।। स्वन्यायविरोध इति । जातिवादिनैव स्वाभ्युपगतप्रमेयसाधकानुमाननिर्वाहाय तेनैव लिङ्गेन धर्म्यादिसिद्धेरनङ्गत्वाभ्युपगमात्प्रतिबन्दीविरोध इत्यर्थः ।
आदर्शः
।। क्रोडीकृतेति । साध्यविशिष्टस्य धर्मिणो ज्ञानाजनकत्वेनाभिमतस्येत्यर्थः । धर्म्यादौ शुद्धधर्मिज्ञाने । आदिपदेन साध्यदृष्टान्तयोर्ग्रहणम् । दृष्टान्तस्यापि साध्यविशिष्टत्वात्तत्राप्रयोजकत्वे पक्षरूपविशिष्टज्ञानेऽपि प्रयोजकं न स्यादिति भावः ।
वाक्यार्थमञ्जरी
।। स्वन्यायविरोध इति । प्रतिवादिना ह्युक्तरीत्या धर्म्यादेः साध्यत्वमापाद्य धूमः साधको न भवति । असिद्धाश्रयत्वाद्भविष्यन्मैत्रीपुत्रश्यामत्वसाधकमैत्रीतनयत्ववदिति वादिसाधनस्या साधकत्वं साधनीयम् । तत्राप्ययं दोष आयाति । तथा हि । यदि क्रोडीकृतधर्म्यादिविषयासिद्धाश्रयत्वं धर्म्यादावप्रयोजकं स्यात्तर्हि साध्येऽपि तथा स्यादतस्तेन धूमोऽपि साधनीयः । एवं चासिद्धाश्रयो हेतुः । न च व्याप्तिपक्षधर्मतयैव प्रयोजकत्वोपपत्तेः सिद्धतामात्रेण साधनाङ्गत्वोपपत्तेस्तेनैव हेतुना साधनं व्यर्थमिति वाच्यम् । तेनैव हेतुना धर्म्यादिसाधनावश्यकत्वस्य त्वयैवोक्तत्वादिति । तथा च तेनैव हेतुना धर्म्यादिसाधनमावश्यकमिति तद्वाक्यन्यायेन धूमः साधको न भवतीत्यादि तद्वाक्यस्य विरोधात्स्वन्यायविरोधान्तर्भाव इति भावः ।
श्रीविट्टलभट्ट
।। साध्यवदिति । व्यापकवत्तया साध्यत्वात्पक्षः साध्यस्तद्वदित्यर्थः । साध्यत्वचोदनं व्यापकवत्तया साध्यत्वानुपादानमित्यर्थः । पक्ष इव दृष्टान्तेऽपि विप्रतिपत्त्या साध्यसन्देहेन चोदने साध्यत्वापादनेऽसदुत्तरत्वमित्यर्थः । दृष्टान्ते साध्यसन्देहेन चोदनेऽस्य सन्दिग्धसाध्यवैकल्यरूप दृष्टान्तदोषोद्भावनपर्यवसायित्वाभावः ।। एवमेवेति । विप्रतिपत्त्या विना चोदन इत्यर्थः । निर्बीजतयेति शेषः ।। तेनैवेति । पक्षे साध्यसाधनाया वादिनो यो हेतुः प्रयुक्तस्तेनैव हेतुना दृष्टान्ते साध्यत्वापादनेऽप्येवमेव निर्बीजतयाऽसम्भवदुक्तिकमेवेत्यर्थः । वादिहेतोः साध्यत्वसाधकतायां बीजस्य व्याप्तेरभावात्तेन हेतुना साध्यत्वचोदनस्याप्यसम्भवदुक्तिकत्वमेवेति भावः ।। वर्ण्यसमवद्बीजोपपादनेत्विति । वर्ण्यसमजातिवदस्यापि जातेः पक्षे साध्यत्वसहचरितत्वरूपस्योत्थानबीजस्योपपादने तु तदभेदो वर्ण्यसमाभेदः स्यादित्यर्थः । तेनैव हेतुना पक्षवद्दृष्टान्तस्यापि साध्यत्वचोदनं वर्ण्यसम इत्यनेनोक्तस्य वर्ण्यसमलक्षणस्योक्तस्य साध्यसमलक्षणस्यैकत्वादस्यास्तदभेद इति भावः ।। तस्मादिति । पूर्वोक्तलक्षणस्यायुक्तत्वात् क्रोडीकृताः स्वीकृता मिलिता इति यावत् । धर्मो पक्षः । आदिपदोक्तौ साध्येते तौ विषयौ यस्य तस्य हेतोर्धम्यादौ पक्षे आदिपदोक्तौ हेतौ च विषयेऽप्रयोजकत्वे साध्येऽपि साध्यविषयेऽपि तथात्वप्रसङ्गादसाधकत्वप्रसङ्गात्तेनैव हेतुना प्रयुक्तेनैव हेतुना धर्म्यादेरपि धर्मिणः पक्षस्यादिपदोक्तस्य हेतोः साध्यत्वापादनं साध्यसम इत्युदयन आहेत्यर्थः । लिङ्गोपहितलैङ्गिकतानपेक्षे हेतुसाध्यविशिष्टस्य पक्षस्यानुमितौ भानाल्लिङ्गस्य पक्षसाध्यविषयकत्ववत्स्वविषयकत्वमस्तीत्यवगन्तव्यम् । तत्र तेनैव हेतुनेत्यारभ्यलक्षणोक्तिः । क्रोडीकृतधर्म्यादिविषयकस्येत्यादि तु जात्युत्थानप्रदर्शनायोक्तमिति बोध्यम् ।। प्रयोजकत्वोपपत्तेरिति । साध्यसाधकत्वोपपत्तेरित्यर्थः । सिद्धत्वमात्रेण लिङ्गधर्मिणोः प्रमितत्वमात्रेण साधनाङ्गत्वे सम्भवात् साध्यसाधनोपयोगित्वोपपत्तेः । तेनैव हेतुना साधनं धर्मिलिङ्गसाधनं व्यर्थं निष्प्रयोजनमिति । अत एवमापादने उत्तरं वाच्यमित्यर्थः ।। तदनङ्गीकारे त्विति । सिद्धत्वमात्रेण साधनत्वाङ्गीकारे स्वन्यायविरोधो भवतीत्यर्थः । तेनैव हेतुना धर्म्यसिद्ध्यभावा याऽसिद्धिरारोप्या हेत्वसिद्धौ तु स्वरूपासिद्धिरारोप्या च । तथा च वादिना साधनं कृतकत्वं न साध्यसाधकमाश्रयासिद्धत्वात् । स्वरूपासिद्धत्वाच्च । सम्मतवदिति जातिवादिनो विवक्षितम् । तथा च जात्युत्तरस्य प्रतिषेधहेतोरपि स्वोक्तन्यायेन दूषणसम्भवात्स्वन्यायविरोध इति ज्ञातव्यम् ।