ओतुसमः

(६०) प्रमाणपद्धतिः

।। २० ।। (२) (१६) ।। ओतुसमः ।। हेतोः साध्यापेक्षया पूर्वापरसह भावनिरासेनाहेतुत्वचोदनमहेतुसमः । यथा न तावत्सर्वसाधनं साध्यपूर्वम् । साध्याभावे तन्निरूप्य साधनत्वायोगात् । नापि साधनं पश्चाद्भावि । साधनाभावे साध्यायोगात् । नापि द्वयोर्यौगपद्यम् । अविशेषेण साध्यसाधनभावायोगादिति । अत्र कृतौ पूर्वभाविनः साधनत्वम् । साधनशक्तेः परानपेक्ष्यत्वात् तद्य्ववहारस्य बुद्धिस्थेनैव साध्येनोपपत्तेः । ज्ञप्तौ तु यथायथं पक्ष त्रयमपि । ज्ञातत्वाज्ञातत्वाभ्यां विशेष इत्युत्तरं वाच्यम् । तदनङ्गीकारे तु स्वन्यायविरोध इति ।

जयतीर्थविजय

।। हेतोरिति । साध्यापेक्षयेत्येतदन्तरं पूर्वापरसहभावान्विकल्प्येति शेषः । एतदेवाह वरदराजः ।

हेतोर्विकल्प्य साध्यार्थपूर्वापरसहोदयम् ।

त्रिधापि तस्य हेतुत्वभङ्गोऽहेतुसमो भवेत् ।। इति ।

अत्राहेतुत्वचोदनमहेतुसम इत्येवोक्तेऽनैकान्त्यादिना हेतुत्वचोदने सदुत्तरेऽतिव्याप्तिः । तद्वारणाय हेतोरित्यादि । सर्वमुदाहृत्य दर्शयति ।। यथेति ।। साध्याभाव इति । पूर्वकाल इति शेषः ।। साधनत्वायोगादिति । पूर्वभावनिरूपकसाध्याभावे तद्धटितसाधनं न युज्यत इत्यर्थः । तथा च साधने सति साध्यं साध्ये सति साधनमित्यन्योन्याश्रय इति भावः ।। पश्चादिति । साध्यापेक्षयेति शेषः ।। साधनाभाव इति । साध्यात्पूर्वमिति शेषः । तथा च पुनरन्योन्याश्रय इति भावः । स्वव्याहतिं वक्तुमुत्तरकथाप्रवृत्तिप्रकारमाह ।। अत्रेत्यादिना । साधनस्य साध्यापेक्षया पूर्वापरसहभावः किमुत्पत्तौ विकल्प्यत उत ज्ञप्तौ वेति विकल्प्योत्पत्तिपक्षवादिना प्रतिवादिनं प्रत्युत्तरदानप्रकारमाह ।। कृताविति । उत्पत्तावित्यर्थः । अत्र यदुक्तं प्राक् प्रतिवादिना साध्याभावे तन्निरूपितसाधनत्वायोगादिति तत्र साधनशक्तिः साध्यापेक्षयेत्यभिमतमुत साधनव्यवहारः साध्यापेक्षयेति विकल्प्याद्यं निराचष्टे ।। साधनशक्तेरिति । द्वितीयं पराकरोति ।। तद्य्ववहारस्येति । किमुत्पत्तौ ज्ञप्तौ वेत्यत्र द्वितीयपक्षे वादिनोत्तरदानप्रकारमाह ।। ज्ञप्ताविति । यथायथं विशिष्टमेघोन्नत्यादेर्वृष्ट्याद्यपेक्षया पूर्वभावित्वं धूमादेर्वह्न्याद्यपेक्षया पश्चाद्भावो रसादेरूपाद्यपेक्षया सहभाव इत्यर्थः । सहभावपक्षे प्रतिवादिना यदुक्तमविशेषेण साध्यसाधनत्वायोगादिति तत्र देयमुत्तरमाह ।। ज्ञातत्वेति । निश्चितत्वानिश्चितत्वाभ्यामित्यर्थः । विशेषो निश्चितं साधनमनिश्चितं साध्यमित्येवंरूप इत्यर्थः ।। स्वन्यायेति । प्रतिषेधहेतुरपि किं प्रतिषेध्यापेक्षया पूर्वभावीत्यादेर्वक्तुं शक्यत्वाद्य्वाघात इत्यर्थः ।

भावदीपः

।। पूर्वापरसहभावेति । पूर्वभावपश्चाद्भावसहभावेत्यर्थः ।। साध्यायोगादिति । साध्यत्वयोगादित्यर्थः । तथा च पश्चाद्भाविनस्तन्निरूपितसाधनत्वं दूरापास्तमिति भावः । उत्तरोक्तिप्रकारमाह ।। अत्र कृतावित्यादिना । पूर्वापरभावादिनिरासेन साधनत्वभङ्गः किं साध्यस्योत्पत्तावुत ज्ञप्तौ । तत्राद्यस्योत्तरं कृतावित्यादिना । साध्याभावे कथं साधनतेत्यत आह ।। साधनशक्तेरिति । अन्त्य आह ।। ज्ञप्तौ त्विति । यथायथमित्यव्ययीभावः ।। पक्षत्रयमिति । कारणं पूर्वभावि सदेव कार्यं ज्ञापयति । कार्यं तु पश्चाद्भावि सदेव कारणं ज्ञापयति । रसस्तु रूपसहभूतः सन्नेव रूपं ज्ञापयतीति यथायथमित्युक्तम् । ननु सहभावाविशेषात्कस्यचिज्ज्ञापकत्वमन्यस्य ज्ञाप्यत्वमिति विशेषः । कथमित्यत आह ।। ज्ञातत्वेति ।। स्वन्यायेति । वादिसाधनमसाधकं तस्य साध्यापेक्षया पूर्वापरसहभावानुपपत्तिरूपतर्कपराहतत्वादिति जातिवाद्युक्तप्रतिषेधहेतावप्यसाधकत्वरूपसाध्यापेक्षया पूर्वापरसहभावनिरासेन साधनभञ्जनस्य सुकरत्वात्स्वन्यायविरोध इति भावः ।

श्रीविजयीन्द्रतीर्थ

।। साधनशक्तेरिति । शक्तिसत्त्वं साध्यानपेक्षम् ।। साध्यज्ञानेनैवेति । साध्यसत्त्वं तत्रानुपयोगि । ज्ञप्तौ तु प्रागसदादेरपि हेतुत्वं तज्ज्ञानमेव परमपेक्षितमित्ययुक्ताङ्गाधिकत्वमिति भावः ।

श्रीवेदेशभिक्षु

उत्थानबीजमाह ।। अत्रेति । अत्रेत्यस्य वाच्यमित्यनेनान्वयः ।। शक्तेरिति । शक्तिलक्षणव्यापारस्येत्यर्थः । अत एव प्रमाणलक्षणटीकायां व्यापारेष्वन्यानपेक्षणादित्युक्तम् ।

अभिनवामृतम्

।। हेतोरिति । अत्र कृतौ साधनशक्तेः परापेक्षत्वाङ्गीकारेण प्रत्यवस्थानं ज्ञापयितुं ज्ञातत्वाज्ञातत्वाभ्यां विशेषमनङ्गीकृत्यावस्थानं पाक्षिकजयहेतुरिति बुद्धिरुत्थानबीजम् । साधनासिद्धिरारोप्या ।। स्वन्यायविरोध इति । स्वाभ्युपगतवियदादिघटकारणस्य साधनशक्तेरधीनतया स्वानुमानस्य साधनतानिर्वाहाय ज्ञातत्वाज्ञातत्वाभ्यां विशेषस्यान्यत्राङ्गीकृतत्वेन तत्प्रतिबन्दीविरोध इत्यर्थः ।

वाक्यार्थमञ्जरी

।। स्वन्यायविरोध इति । प्रतिवादिना ह्युक्तरीत्या साध्यवैकल्यमारोप्य महानसो दृष्टान्तः साध्यविकलत्वाद् ह्रदवदिति महानसस्यादृष्टान्तत्वं साधनीयम् । तत्राप्येवं वक्तुं शक्यम् । तथा हि । महनसो दृष्टान्त इत्युक्तेऽर्थादापद्यतेऽन्यः सर्वोऽपि दृष्टान्त इति । तथा च साध्यविकलो दृष्टान्तः । न चानुपपद्यमानाभावान्नेयमर्थापत्तिरिति वाच्यम् । उक्तविपरीताक्षेपमात्रमर्थापत्तिरिति त्वयैवाभ्युपगमादिति । तथाचोक्तविपरीतेत्यादि तद्वाक्यन्यायेन महानसो न दृष्टान्त इत्यादि तद्वाक्यस्य विरोधात्स्वन्यायविरोधान्तर्भाव इति भावः ।

श्रीविट्टलभट्ट

।। हेतोः साध्यापेक्षयेति । पूर्वापरसहभावनिरासेन पूर्वस्य पूर्वं विद्यमानत्वस्येत्यर्थः । अपरस्यापरत्वस्य पश्चाद्भावत्वस्येत्यर्थः । सहभावस्य यौगपद्यस्य निराकरणेनेत्यर्थः । सद्दूषणेनाहेतुत्वचोदनस्य परिहारायेदं विशेषणम् । पक्षत्रयं क्रमेण निदर्शयति ।। यथेति । न तावत्साधनं साध्यात्पूर्वं साध्यात्पूर्वभावीत्यर्थः ।। साध्याभाव इति । साध्याभावे साध्यनिरूपकसंयोगासम्भवात्साध्यनिरूपकसाधनत्वमपि न सम्भवति । निरूप्यभावे निरूपकासत्त्वस्य सत्त्वादिति शङ्कितुरभिप्रायः ।। नापि साधनमिति । साध्यादित्यनुवर्तते । पश्चाद्भावीत्यर्थः ।। साध्यायोगादिति । साध्यत्वायोगादित्यर्थः । पूर्ववत्साधनाभावे तन्निरूपितसाध्यत्वं न सम्भवतीति परस्य हृदयम् ।। अविशेषणेति । नियामकाभावेनेत्यर्थः ।। अत्रेति । एवं न हेतुत्वचोदन इत्यर्थः । अस्येत्युत्तरं वाक्यमित्येवान्वयः । पक्षत्रयनिरासेनासाधनत्वं किं साध्योत्पत्तावुद्भाव्यते उत तज्ज्ञप्ताविति विकल्पं हृदि निधायोत्पत्तिपक्षे पूर्वभाविनो हेतुत्वमङ्गीकृत्य तत्रोपपत्तिमाह ।। कृताविति । उत्पत्तावित्यर्थः । साधनं सम्भवतीति शेषः । तत्रोत्पत्तिमाह ।। साधनशक्तेरिति । साधनस्य कारणस्य शक्तेः कार्यजननसामर्थ्यस्य कार्यस्वरूपपरापेक्षाशून्यत्वादित्यर्थः । उत्पाद्यस्योत्पादकसामर्थ्ये हेतुत्वात् साधनशक्तेः परानपेक्षत्वमिति ज्ञेयम् । नन्वस्त्वैतत्साधनमिति व्यवहारस्य तत्सापेक्षत्वमित्यत आह ।। तद्य्ववहारस्येति । तत्साधनमिदमिति व्यवहारस्य साध्यबुद्ध्यैव सम्भवादित्यर्थः । एवकारेण साध्यस्वरूपसापेक्षत्वं व्यावर्तयति । ज्ञप्तिपक्षे पक्षत्रयमभ्युपेत्य समाधत्ते ।। ज्ञप्ताविति । यथायथं स्वरूपम् । यथासम्भवमिति यावत् । पक्षत्रयमपि सम्भवतीति शेषः । इदमुक्तं भवति । यत्र कारणं कार्यस्य ज्ञापकं भवति । तत्र ज्ञापकं साध्यापेक्षया पूर्वभाव्येव भवति । यत्र कार्यं कारणस्य ज्ञापकं तत्र साधनसाध्यात्पश्चाद्भाव्ये च यत्र कारणेन रसादिनाऽकारणं रूपादिकं ज्ञायते । तत्र हेतुसाध्ययोर्यौगपद्यमेवेति यथासम्भवं पक्षत्रयं सम्भवतीति भावः । यौगपद्येऽविशेषे कथं तयोरनुमेयानुमापकभाव इत्यत आह ।। ज्ञातत्वाज्ञातत्वाभ्यां विशेष इति ।। अनङ्गीकारे त्विति । उक्तिपरिहारस्यानभ्युपगमे स्वन्यायविरोधो भवतीत्यर्थः । साधनस्य साध्यात्पूर्वभावपश्चाद्भावनिरासेनाहेतुत्वचोदने प्रतितर्कपराहतत्वमुक्तं भवति । तथा च साधनं स्वसाध्यसाधकं न प्रतितर्कपराहतत्वात्सम्मतवदिति जातिवादिनो विवक्षितम् । अस्यापीति हेतोः स्वोक्तरीत्या दूषणसम्भवादहेतुसमः स्वन्यायविरोधो भवतीत्यनुसन्धेयम् ।