प्रमाणपद्धतिः
(२८) प्रमाणपद्धतिः
।। ४ ।। प्रतिज्ञासन्न्यासः ।। स्वोक्तापलापः प्रतिज्ञासन्न्यासः । यथाऽग्निरनुष्ण इत्युक्ते प्रत्यक्षविरोधे चाभिहिते ब्रवीति न मयाऽग्निरनुष्ण इत्यभिहित इति । सोऽपि प्रमाणविरोध एव । उक्तेः प्रमितत्वात् ।
जयतीर्थविजय
।। स्वोक्तेति । एतदेवोक्तं वरदराजेन । स्वयमुक्तापलापेन प्रतिज्ञान्यासनिग्रह इति ।
श्रीवेदेशभिक्षु
स्वोक्तेत्यत्रोक्तमिति भावे क्तः । तथा च स्वस्वोक्त्यपलाप इत्यर्थः । अत एवाह ।। उक्तेरिति । साधकांश इति च प्रतिज्ञान्तरव्यावृत्त्यर्थम् ।
अभिनवामृतम्
।। सोऽपि प्रमाणविरोध एवेति । अनेन कथारूपसाधारणप्रमाणविरोधस्योदाहरणं सूचितम् ।
आदर्शः
।। सोऽपि प्रमाणविरोध एवेति । न च प्रतिज्ञासन्न्यासत्वेनोद्भावनीयता कुतोनाङ्गीक्रियते । तेन रूपेण प्रथममनुपस्थितत्वादिति । तथा हि । यदि च सन्न्यास इत्यस्य नापलापोऽर्थः किन्तु न मयोक्तमित्युक्तिमात्रं तर्हि न तस्या उक्तेः पराजयहेतुत्वम् । वस्तुतो तथाऽवक्तुः केचिद्भ्रान्त्यैवैवमुक्तमित्युक्ते सति नोक्तं मयेति वाक्यस्यापि पराजयहेतुत्वप्रसङ्गात् । किन्तूक्तौ प्रमितायां तदपलापकर्तुर्वाक्यस्योक्तिग्राहकप्रमाणेनायोग्यताज्ञाने सति वस्तुतोक्तिसत्त्वेऽपि तत्र प्रमाणाभावे तत्रायोग्यताज्ञानं नोक्तमिति न सम्भवति । अतो ह्रदो वह्निमानिति प्रतिज्ञावाक्यस्येव वह्न्यभावग्राहक प्रमाणप्रयोज्ययोग्यताविरह रूपविरोधस्येव प्रकृतेऽप्युक्तिग्राहकप्रमाणविरोधस्यैव प्रथमं स्फूर्त्या तस्यैवोद्भावनीयताया उचितत्वात् । अयं स्वपक्षसाधनाशक्तेर्वा विपर्ययस्य वाऽनुमापक इति द्रष्टव्यम् ।
श्रीविट्टलभट्ट
।। स्वोक्तापलाप इति । स्वेनोक्तस्य वचनस्यार्थस्य वाऽपलापोऽभाववचनमित्यर्थः । स्वेनानुक्तस्य यदभाववचनं तस्य प्रतिज्ञासन्न्यासत्वव्यवच्छेदाय स्वोक्तग्रहणं कृतम् । सोऽयं दोषः प्रतिज्ञायाः प्रबलप्रमाणविरोध एव न ततोऽतिरिक्त इत्यर्थः ।। उक्तेरिति ।। अग्निरनुष्ण इति । स्ववचनस्येत्यर्थः । स्वोक्तापलापस्य प्रबलप्रमाणविरोध एव पर्यवसानादयं दोषः । प्रबलप्रमाणविरोध एवेति भावः ।