कार्यसमः
(६८) प्रमाणपद्धतिः
।। कार्यसमः ।। हेतोः सन्दिग्धासिद्ध्या प्रत्यवस्थानं कार्यसम इति केचित् । यथा शब्दो नित्यः प्रयत्नानन्तरीयकत्वादित्युक्ते प्रयत्नानन्तरीयकत्वमुत्पाद्यत्वेन व्यङ्ग्यत्वेन वेति सन्दिह्यत इति । इदमप्यन्यथासिद्ध्युद्भावनत्वात्सदुत्तरमेव । तस्मात्पक्षादीनामन्यतमस्यासिद्धिमुद्भाव्य तत्साधकत्वेन स्वयमुत्प्रेक्षितस्य दूषणेन वादिसाधनभङ्गः कार्यसम इत्युदयनः । यथा शब्दो नित्यः कार्यत्वादित्युक्ते कार्यत्वमसिद्धम् । तत्साधनं च प्रयत्नानन्तरीयकत्वं वाच्यम् । तच्चान्यथासिद्धमिति । इदमप्यनभिप्रेततात्पर्यारोपाच्छलमेवेति ।
जयतीर्थविजय
।। केचिदिति । जरन्नैयायिका इत्यर्थः ।। अन्यथासिद्धीति । हेतोरिति शेषः ।। उत्प्रेक्षितस्येति । हेतोरिति शेषः । एतदप्युक्तं वरदराजेन ।
असिद्धतां वादिहेतोरुक्त्वा तं साधयेत्स्वयम् ।
तद्दूषणान्मूलहेतुभङ्ग कार्यसमो भवेत् ।। इति ।।
अन्यथासिद्धमिति । तथा चासिद्धो हेतुरिति भावः ।। छलमेवेति । सामान्यछलमेवेत्यभिप्रायः ।
अभिनवामृतम्
।। तस्मात्पक्षादीनामिति । स्वोत्प्रेक्षितहेतुदूषणं पाक्षिकजयहेतुरिति बुद्धिरुत्थानबीजम् । अङ्गासिद्धिरारोप्या ।
आदर्शः
।। कार्यसम इति । अत्र व्यवहर्तव्यं च द्वैतदर्शनमुत्थानबीजमित्युक्तम् । प्रमाणलक्षणटीकायां द्वैतभेदः सदसत्त्वदर्शनमिति तदर्थः । एवं च सर्वत्रापि व्यवहारविषये सत्त्वनिश्चयायोगेन प्रमाणावश्यं वक्तव्यमेव । कुत्रापि सत्त्वनिश्चयाभावात् । प्रमाणं च प्रसिद्धमेव भवेदिति स्वयं तत्कल्पयतीति भावः । अन्ये तु । कथायां वक्तव्यहेतौ साधकत्वेनाभिमतप्रमाणसिद्ध्यसिद्धिरूपभेददर्शनम् । अथवा प्रकृते हेतुसाधकत्वेनाभिमते साधकत्वासाधकत्वरूपवैलक्षण्यदर्शनमित्याहुः ।। इदमपीति । असिद्धिरेव दोषत्वेनोद्भावनीयत्वम् । तत्परिहारो वादिना वक्तव्यः । तथा च सिद्धोक्त्यैवाकाङ्क्षाया निवृत्तत्वादधिकस्य तत्प्रमाणोक्त्यादेरसङ्गतत्वादसङ्गतावन्तर्भाव इति वक्तव्यम् । तथाऽपि छलस्यासङ्गतिरूपत्वाच्छलोक्तावसङ्गतिरुक्तैव भवति । तदभिमतनिरनुयोज्यप्रभेदरूपछलत्वेनास्य जातित्वेन ग्रहणमनुपपन्नतरमिति तस्याकौशल्यप्रदर्शनाय तथोक्तमिति ध्येयम् । स्वन्यायविरोधस्त्विति तस्याभिप्रायान्तरं कल्पयित्वा तस्य दूषणोक्तिसम्भवात् । तथाऽप्यभिप्रायान्तरस्यासिद्धत्वेन सिद्धत्वरूपजात्यङ्गहीनत्वान्न जातित्वमित्याशयः ।
श्रीविट्टलभट्ट
।। हेतोः सन्दिग्धासिद्ध्येति ।। प्रयत्नानन्तरीयकत्वादिति । प्रयत्नानन्तरभावित्वादित्यर्थः ।। इदमपीति । यथा प्रयत्नानुमानेन प्रत्यवस्थानं प्रकरणसम इत्येतत्सदुत्तरम् । यथा सन्दिग्धासिद्ध्या प्रत्यवस्थानमन्यथासिद्ध्युद्भावनत्वात्साध्येन वाऽन्येनापि सह हेतुसत्त्वोद्भावनत्वात्साध्येन वाऽन्येनापि सह हेतुसत्त्वोद्भावनत्वात्सदुत्तरमेव न जात्युत्तरमित्यर्थः ।। पक्षादीनामिति । साधनादिशब्द आदिशब्दार्थः ।। तत्साधकत्वेन स्वयमुत्प्रेक्षितस्य दूषणेनेति । एतद्विशेषणं वाद्यभिमतस्य पक्षादिसाधकस्य दूषणेन पक्षादीनामन्यतरस्यासिद्ध्युद्भावनेन वादिसाधनभङ्गस्य सदुत्तरस्य व्यवच्छेदायेदमपीति । उपलब्धिसमवत्कार्यसमरूपं जात्युत्तरमप्यनभिमतारोपाद्वक्तुरनभिप्रेते पक्षादन्यतमस्य साधके तात्पर्यारोपात्कारणाच्छलमेव नान्यदित्यर्थः । अनभिप्रेतार्थदूषणेन वादिसाधनभङ्गः छलः । इदमपि तादृशत्वात्तत्रान्तर्गतमिति भावः । इतिशब्दो जात्यन्तर्भावकथनपरिसमाप्तौ वर्तते ।