अवर्ण्यसमः

(५१) प्रमाणपद्धतिः

।। २० ।। (२) (६) अवर्ण्यसमः । दृष्टान्तवत्पक्षस्याप्यसाध्यत्वचोदनमवर्ण्यसम इत्येके । अत्रापि सिद्धत्वाभिमानेन चोदने सदुत्तरम् । अन्यथा निर्बीजत्वम् । साधनसाहचर्यबलेनापादने तूत्कर्षसम एव । तस्माद्दृष्टान्तमात्रविवक्षितसिद्धार्थत्वादिरूपवद्धेतुमत्त्वतदभावयोः पक्षस्यासाध्यत्वचोदनमवर्ण्यसम इत्युदयनः । यथा सिद्धार्थं धूमवत्त्वं महानस इव पर्वते वर्तते चेत्साध्यस्य सिद्धत्वादसाध्यत्वम् । न चेदुपायाभावादसाध्यत्वमिति । अस्यापि पूर्ववदन्तर्भावो वाच्य इति ।

जयतीर्थविजय

।। साधनसाहचर्यबलेनेति । साधनस्यासाध्यत्वेन साकं दृष्टान्ते साहचर्यबलेनेत्यर्थः ।। असाध्यत्वमिति । स्यादिति शेषः ।। न चेदिति । धूमवत्त्वमित्यनुवर्तते ।। असाध्यत्वमिति । पर्वतस्येति शेषः । एतदेवाह वरदराजः ।

सपक्षवृत्तिनो हेतोर्यादृग्रूपं विवक्षितम् ।

पक्षेऽपि तादृगेव स्यादन्यथा हेत्वसिद्धता ।

सपक्षवत्तदा साध्य इत्यवर्ण्यसमाकृति ।। इति ।।

पूर्ववदिति । वर्ण्यसमवदित्यर्थः ।। अन्तर्भाव इति । स्वन्यायविरोधान्तर्भाव इत्यर्थः । अन्तर्भावप्रकारस्तु नायं पक्षः साधनाङ्गम् । असिद्धहेतुकत्वात्सम्मतवदिति प्रतिषेधानुमानेऽपि पक्षस्यासाध्यत्वापातादिति ।

भावदीपः

।। अन्यथेति । सिद्धत्वाभिमानाभावेऽपि तदापादन इत्यर्थः ।। साधनेति । दृष्टान्ते साधनस्य निश्चितसाध्यसाहचर्यमुपलब्धमिति तद्बलेन पक्षस्यासाध्यतापादन इत्यर्थः ।। उत्कर्षसम एवेति । वादिसाधनबलेन दृष्टान्तात्कस्यचिदनिष्टधर्मस्य पक्ष उत्कर्षणरूपत्वादुत्कर्षसम एवायमित्यर्थः ।। सिद्धार्थत्वादीति । निश्चितार्थकत्वमारब्धसाध्यज्ञापनशक्तिहीनत्वं व्याप्तिग्राहकमानवत्त्वमित्यादिरूपवद्धेतुमत्त्वतदभावयोर्निमित्तयोरित्यर्थः ।। अस्यापीति । दृष्टान्ते प्रमितस्य हेतोः पक्षधर्मतामात्रेण साध्यसाधनसम्भवात्किं दृष्टान्तमात्रविवक्षितरूपचिन्तयेत्युत्तरं वाच्यम् । तदावश्यकत्वोक्तौ तु धूमवत्त्वमसाधकं सिद्धविषयकत्वादसिद्धत्वाद्वा वह्निरनुष्णो जलत्वादिति वदिति जातिवादिनोक्ते प्रतिषेधानुमानेऽपि दृष्टान्ते विवक्षितसिद्धार्थकत्वादिरूपवद्धेतुः पक्षेऽस्ति चेदसाधकत्वेन धूमवत्त्वमसाध्यं स्यात् । न चेदुपायाभावादसाध्यं स्यादिति स्वोक्तन्यायेन स्वस्य विरोध इति स्वन्यायविरोधेऽन्तर्भावो वाच्य इत्यर्थः ।

श्रीविजयीन्द्रतीर्थ

।। अस्यापीति । अयुक्ताङ्गाधिकत्वं स्वन्यायविरोधेऽन्तर्भावश्च वाच्य इत्यर्थः ।

श्रीवेदेशभिक्षु

अत्रापि युक्ताङ्गाधिकत्वमाह ।। अत्रापीति ।। दृष्टान्तमात्रेति । पूर्वं वैपरीत्येन सिद्धार्थत्वप्रवृत्तसाध्यज्ञापनाय शक्तित्वाभावः । व्याप्तिग्राहकप्रमाणवत्त्वं निश्चयसमानविषयत्वं रूप विशेषश्चेत्येतानि हेतोर्दृष्टान्तमात्रविवक्षितानि रूपाणि द्रष्टव्यानि ।। अस्यापीति । अयुक्ताङ्गाधिकत्वकथनपुरःसरमुद्भाव्योऽन्तर्भावश्च वाच्य इत्यर्थः ।

श्रीविजयीन्द्रतीर्थ

।। अस्यापीति । अयुक्ताङ्गाधिकत्वं स्वन्यायविरोधेऽन्तर्भावश्च वाच्य इत्यर्थः ।

अभिनवामृतम्

।। तस्माद् दृष्टान्तमात्रेति । पक्षे स्वयमेव दृष्टान्तमात्रविवक्षितसिद्धार्थत्वादिरूपवद्धेतुमत्त्वमस्तीति न वेति विकल्पवादिनः पक्षस्वीकारमनपेक्ष्यैव पक्षद्वयेऽप्यसाध्यत्वचोदनमवर्ण्यसम इत्युदयनो वक्तीत्यर्थः । नन्वाद्यपक्षे कथं साधनवैकल्यम् । साधनसत्त्वपक्षस्य तद्वैकल्यविरुद्धत्वादित्यत आहाद्ये कथं स्वरूपासिद्धिः । तत्सत्त्वस्य तद्विरोधत्वादत आह ।। यथा सिद्धार्थमिति । महानस इव सिद्धार्थं धूमवत्त्वमस्तीत्यङ्गीक्रियते चेत्सिद्धसाधनता स्यात् । न च तदिष्टमिति साध्यं सन्दिग्धासिद्धमिति वाच्यम् । तथा च साधनासम्भवात्पक्षस्य साध्यवत्तया साधनायोग्यत्वमिति भावः ।। न चेदिति । स्वरूपासिद्धत्वं स्पष्टमिति भावः । दृष्टान्ते विवक्षितरूपवद्धेतुमत्त्वाभावेन प्रत्यवस्थाने पाक्षिकजयबुद्धिरुत्थानबीजं स्वरूपासिद्धत्वमारोप्यम् । परस्य तद्भ्रान्त्युत्पादः फलम् ।। अस्यापीति । अत्रापि हेतुस्वरूपसद्भावमात्रेण साधनत्वोपपत्तौ रूपविशेषचिन्ता व्यर्थेति वाच्यम् । तदावश्यकत्वाभ्युपगमे तु स्वन्यायविरोध इत्यन्तर्भावो वाच्य इत्यर्थः ।

आदर्शः

।। दृष्टान्तमात्रेति । सिद्धार्थत्वं प्रवृत्तसाध्यज्ञापनशक्तिमत्त्वाभावः । व्याप्तिग्राहकप्रमाणवत्त्वं निश्चयसमानविषयत्वं स्वरूपं चेत्येतानि सपक्षमात्रवृत्तिरूपाणि ।। अस्यापीति । स्वन्यायविरोध इत्यर्थः । अत्रापादकविशिष्टहेत्वभावस्य सिद्धत्वाद्वादिनः सिद्धत्वम् । अपकर्षसमायां तु व्यापकनिवृत्तिर्नापादिका येन सिद्धिः स्यात्किन्तु तत्त्वेन स्वाभिमतस्य निवृत्तिः साक्षिसिद्धैवेति भावः । उत्तरस्य वचनरूपत्वात्तस्योच्चारणेनैव सिद्धेर्युक्तित्वेनाभिमतस्य सिद्धत्वमेव । अङ्गं तत्प्रतिपादकत्वमुत्तरस्येति ज्ञातव्यम् ।

वाक्यार्थमञ्जरी

।। अन्तर्भावो वाच्य इति । हेतुसद्भावमात्रेण पक्षत्वाद्युपपत्तौ रूपविशेषचिन्ता व्यर्था । तदावश्यकत्वाभ्युपगमे तु स्वन्यायविरोध इत्यन्तर्भावो वाच्य इत्यर्थः । अयमाशयः । अत्र हि प्रतिवादिनाऽऽद्ये सन्दिग्धसाध्यत्वाभावेन पर्वतस्यापक्षत्वं द्वितीये स्वरूपासिद्धिरित्युभयथाऽपि हेतोः पक्षधर्मत्वाभावमापाद्य नायं धूमः साध्यसाधकः पक्षधर्मताशून्यत्वाच्चाक्षुषत्ववदिति वादिसाधनस्यासाधकत्वं साधनीयम् । अयं दोषोऽत्रापि प्राप्नोति । तथा हि । सिद्धार्थत्वं पक्षधर्मताशून्यत्वं चाक्षुषत्व इव धूमेऽप्यस्ति न वा । अस्ति चेत्साध्यस्य सिद्धत्वादसाध्यत्वम् । द्वितीये उपायादसाध्यत्वम् । न च हेतुस्वरूपसद्भावमात्रेण पक्षत्वाद्युपपत्तौ रूपविशेषचिन्ता व्यर्थेति वाच्यम् । तस्यावश्यकत्वस्य त्वयैवोक्तत्वादिति । तथा च स्वरूपविशेषचिन्ताया आवश्यकत्वमिति तद्वाक्यन्यायेनैवायं धूमः साधनाङ्गमित्यादितद्वाक्यस्य विरोधात्स्वन्यायविरोधान्तर्भाव इति भावः ।

श्रीविट्टलभट्ट

।। असाध्यत्वचोदनमिति । साध्यवत्तयाऽन्यसाध्यत्वापादनमित्यर्थः ।। अत्रापीति । एवमापादनेऽपि सिद्धत्वाभिमानेन दृष्टान्त इव पक्षे साध्यत्वस्य निश्चितत्वदृष्ट्या चोदनेऽसाध्यत्वापादने सदुत्तरत्वम् । एवम्भूतापादनस्य सिद्धसाधनत्वोद्भावने पर्यवसानात्समीचीनदूषणत्वमित्यर्थः । तथा च नास्यासदुत्तरत्वरूपजातित्वमित्यर्थः ।। अन्यथेति । सिद्धत्वाभिमानेन विना पक्षस्यासाध्यत्वचोदन इत्यर्थः । निर्बीजत्वमुत्थानकारणशून्यत्वमित्यर्थः । तथा च कारणशून्यत्वादसम्भवदुक्तिकमिदं न जात्युत्तरमिति भावः ।। साधनसाहचर्यबलेनापादने त्विति । साधनस्य वादिहेतोः साहचर्यबलेन दृष्टान्ते साध्यत्वसकलज्ञानसामर्थ्येनापादने तु दृष्टान्तवत्पक्षस्याप्यसाध्यत्वचोदने तूत्कर्षसम एव न ततोऽतिरिक्तजातिरित्यर्थः । वादिसाधनसामर्थ्येन दृष्टान्तात्कस्यचिदनिष्टधर्मस्य पक्षे उत्कर्ष उत्कर्षसमः । अस्यापि तथात्वान्न ततोऽतिरिक्तत्वमिति भावः ।। तस्मादिति । केचित्पक्षोक्तस्यालक्षणस्यायुक्तत्वादित्यर्थः । दृष्टान्तमात्रविवक्षितसिद्धार्थत्वादिरूपवद्धेतुमत्त्व तदभावयोर्दृष्टान्तमात्रे विवक्षितानि सिद्धार्थत्वादीनि सिद्धार्थत्वमारब्धसाध्यज्ञापनशक्तिमत्त्वाभावो व्याप्तिग्राहकप्रमाणं निश्चयसमानविषयत्वं रूपभेदश्चैवमेवमात्मकानि यान्यङ्गानि तद्वतो हेतोः पक्षे सत्त्वासत्त्वयोः पक्षस्यासाध्यत्वचोदनं साध्यवत्तयाऽसाध्यत्वापादनमवर्ण्यसम इत्युदयनमतम् । पक्षे हेतुसत्त्वासत्त्वयोः पक्षस्यासाध्यत्वापादनस्य निर्बीजतयाऽसम्भवदुक्तिकत्वात् । तदसाध्यत्वोक्तिसम्भावनार्थं दृष्टान्तमात्रं विवक्षितरूपवदिति हेतुविशेषणम् । कुत्रास्यान्तर्भाव इति जिज्ञासायामाह ।। अस्यापीति । उदयनोक्तवर्णसमस्यापि पूर्ववदुदयनोक्तवर्ण्यसमवत्स्वन्यायविरोधात्मकतृतीयजातावन्तर्भावो वक्तव्य इत्यर्थः । उक्तरीत्या व्याप्यस्यासाध्यत्वमापादयतो जातिवादिनो नेदं धूमवत्त्वं साध्यसाधकं सिद्धसाधनत्वादसिद्धत्वाद्वासम्मतवदिति विवक्षितम् । अस्य प्रतिषेधहेतोरपि पक्षे दृष्टान्तमात्ररूपवद्धेतुसत्त्वासत्त्वयोः पक्षस्यासाध्यत्वापादनसम्भवादवर्ण्यसमजातेः स्वन्यायविरोधरूपतृतीयजातावन्तर्भाव इत्यनुसन्धेयम् ।