प्रमाणपद्धतिः

(२) प्रमाणपद्धतिः

यद्यपि भगवत्पादैरेव प्रमाणलक्षणादिकमभिहितम् । तथाऽपि गम्भीरया वाचा विक्षिप्य वर्णितं न मन्दैः शक्यते सुखेन बोद्धुमिति तदर्थमिदं प्रकरणमारभ्यते ।

(२) जयतीर्थविजय

नन्विदं प्रकरणमनारम्भणीयम् । प्रयोजनादिशून्यत्वात् । न च प्रमाणादिबोध एवास्य प्रयोजनमिति बोधसिद्धय इत्यनेनैव सूचितमिति वाच्यम् । तस्य भगवत्पादप्रणीतप्रमाणलक्षणादिनैव सिद्धेः । न च परोक्तप्रमाणानामन्तर्भावकथनार्थमिदं प्रकरणमिति वाच्यम् । तत्राप्यभावोऽनुमाप्रत्यक्षं चेत्यादिना तत्कथनात् । न च तत्र विस्तरेण कथितस्य प्रमाणादिस्वरूपस्य सङ्क्षेपेण कथनार्थमिति वाच्यम् । तत्रापि तस्य सङ्क्षिप्तत्वात् । अत एवोक्तं प्रमाणलक्षणावसाने मानलक्षणमित्युक्तं सङ्क्षेपादिति । नाप्यस्य विषयोऽस्ति । अज्ञातसन्दिग्धविपर्यस्तानामेव ग्रन्थविषयत्वात् । प्रमाणादिस्वरूपस्य प्रमाणलक्षणादिनैव ज्ञातत्वादसन्दिग्धत्वादविपर्यस्तत्वाच्च । अत एव नाधिकारी । प्रमाणविषयज्ञानेच्छोरेव तदधिकारित्वात् । तत एव न सम्बन्धः । तस्मादनारम्भणीयमिदं प्रकरणमिति स्वयमेवाशङ्क्य निराकरोति ।। यद्यपीत्यादिनाऽऽरभ्यत इत्यन्तेन । अभिहितमित्यतः प्राक् प्रमाणलक्षणादाविति शेषः । एवकारेण भगवत्पादैरेवाभिहितं किं मयाऽभिधातव्यमस्तीत्यरुचिं सूचयति । यद्वा भगवत्पादैरभिहितमेवेत्येवशब्दसम्बन्धः । गम्भीरया गूढाभिप्रायया । विक्षिप्य व्यवधानं कृत्वा ।। मन्दैरिति । विशिष्यप्रमाणस्वरूपानभिज्ञैरित्यर्थः । सामान्याकारेणापि प्रमाणस्वरूपज्ञानाभावे प्रमाणस्वरूपप्रतिपादकैतत्प्रकरणे मन्दानां प्रविवक्षाभावप्रसङ्गात् । तस्याः सामान्याकारेण विषयज्ञानसाध्यत्वात् । तथा च सामान्याकारेण प्रमाणस्वरूपाभिज्ञाः प्रमाणलक्षणादिग्रन्थेन प्रमाणस्वरूपं विशिष्य बोद्धुमशक्ता मन्दाः । त एव बाला इति निष्कृष्टोऽर्थः । ननु प्रमाणलक्षणादिना बोद्धुमशक्तानामत्राधिकारित्वे तेन बोद्धुं शक्तानामत्राधिकारो न स्यादिति चेन्मा भूत् । नहि सर्वाधिकारिकः कोऽपि ग्रन्थोऽस्तीति हृदयम् । अत एव श्रीमद्विष्णुतत्त्वनिर्णयटीकायां क्रमात्सज्जनसंविद इत्येतव्द्याख्यानावसरे एकान्तभक्तापेक्षया संवित्पदं ज्ञानपरतया व्याख्याय तदितराधिकार्यपेक्षया संविच्छब्देन तत्साध्यो मोक्षो लक्ष्यत इत्युक्तम् । तदर्थमिति । मन्दानां सुखेन प्रमाणलक्षणादिबोधायेत्यर्थः । यद्वा तेषां प्रमाणलक्षणादीनामर्थ एवार्थोऽभिधेयो यस्येति तदर्थमित्यस्यार्थः । अनेनास्य भगवत्पादोक्तिमूलत्वेनादर्तव्यता दर्शिता । निराकृता च निर्विषयत्वशङ्का । यद्वा स प्रमाणलक्षणादिसुखबोध एवार्थः प्रयोजनं यस्य तत्तदर्थमित्यर्थः । अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिष्वित्यभिधानात् । अनेनास्य निष्प्रयोजनत्वशङ्का व्युदस्ता । इदमुक्तं भवति । न तावत्प्रयोजनाभावः । सुखेन प्रमाणादिबोधस्य प्रयोजनत्वात् । प्रमाणलक्षणादिग्रन्थेन च तदसम्भवात् । तदिदमाह न मन्दैः सुखेन शक्यते बोद्धुमितीति । नापि विषयाभावः । अविक्षिप्तत्वेन स्पष्टत्वेन चोपलक्षितस्य प्रमाणस्वरूपस्य विषयत्वात् । प्रमाणलक्षणादावविक्षेपाद्यभावात् । एतदेवाह गम्भीरयेति विक्षिप्येति च । तादृशप्रमाणजिज्ञासुराधिकारी । सम्बन्धस्तु यथायथं प्रतिपाद्यप्रतिपादकभावादिरिति । तदेवं विषयाद्यनुबन्धचतुष्टयवत्त्वादारम्भणीयमिदं प्रकरणमिति स्थितम् ।

भावदीपः

स्वग्रन्थकरणस्य वैय्यर्थ्यमाशङ्क्याह ।। यद्यपीति । गम्भीरयाऽत्यन्तगूढार्थया । विक्षिप्य लक्षणविभागादेः स्थलभेदमाश्रित्य । तदर्थं मन्दानां सुखबोधार्थम् । इदं प्रकरणमनेकवाक्य सन्दर्भरूपमारभ्यते क्रियत इत्यर्थः ।

श्रीविजयीन्द्रतीर्थ

भगवत्प्रणीतप्रमाणलक्षणादिना प्रमाणादितत्त्वज्ञानसिद्धेरेतत्प्रकरणस्य तदुत्तरकालीनस्यारम्भे न किञ्चित्प्रयोजनमस्तीत्याशङ्क्य गम्भीरयान्यवाचा सङ्कलय्यात्र प्रमाणादितत्त्वप्रतिपादनमनेन क्रियते इत्यक्लेशेन तज्ज्ञानमारम्भप्रयोजनमिति परिहारमाह ।। यद्यपीत्यादिनेदं प्रकरणमारभ्यत इत्यन्तेन ।

श्रीवेदेशभिक्षु

ननु नैयायिकादिभिरेव प्रमाणलक्षणादेरुक्तत्वादयं ग्रन्थो व्यर्थः । न च तदुक्तमलक्षणादिकमस्मदुक्तमेव लक्षणादिकमिति प्रतिपादनायैतदारभ्यत इति वाच्यम् । तथाऽपि भगवत्पादैरेव प्रमाणलक्षणादिग्रन्थेषु प्रमाणलक्षणादेरुक्तत्वेनास्य वैय्यर्थ्यानिस्तारादित्याशङ्क्य परिहरति ।। यद्यपीत्यादिना । अत्र भगवत्पादा एव प्रमाणलक्षणाद्यभिधानकर्तार इति वाक्यार्थः । तथा च विशेषसङ्गतैवकारेणान्ययोगव्यवच्छेदकेन यद्यपीति भावः । केवलप्रमाणचातुर्विध्यकथनावसरे ईशलक्ष्मीयोग्ययोगिभेदेनेत्यादिवाग्गम्भीरा । प्रत्यक्षं सप्तविधं साक्षिषडिन्द्रिय भेदेनेत्यादि विक्षिप्य वर्णनम् । निर्दोषार्थेन्द्रिय सन्निकर्षः प्रत्यक्षमित्यत्रैवास्य वक्तव्यत्वात् ।। इदमारभ्यत इति । स्पष्टवाचा सङ्कलय्येदमारभ्यत इत्यर्थः ।

अभिनवामृतम्

पूर्वाचार्यैरेव प्रमाणलक्षणादेर्निरूपितत्वाव्द्यर्थमिदं प्रकरणमित्याक्षिप्य समाधत्ते ।। यद्यपीति । अत एवकारेण परोक्तलक्षणानामलक्षणत्वमाचष्टे । भगवत्पादैरेव प्रमाणलक्षणादेरभिहितत्वाद्यद्यपीदं प्रकरणमनारम्भणीयम् । तथाऽपि न सर्वान्प्रत्यपितु सुज्ञान्प्रत्येव । मन्दानां सुखप्रतिपत्त्यर्थमारम्भणीयमिति भावः ।

आदर्शः

भगवत्पादकृतप्रमाणलक्षणादिनैव बालानां बोधसिद्धिसम्भवेनानारम्भणीय एवायं ग्रन्थ इत्याशङ्कां निराकरोति ।। यद्यपीति । गम्भीरया बव्हभिप्राययुक्तया विक्षिप्य क्रमं विहाय परोक्तक्रमं विहाय कस्मादाचार्यैः प्रतिपादितमित्याशङ्कापनोदायोक्तं गम्भीरयेति । अयं भावः । प्रमाणानां विभागानन्तरमेव त्रयाणां लक्षणकथनेन प्रामाण्यस्य स्वतस्त्वादिकं प्रमाणत्वेन परपरिगणितानामर्थापत्त्यादीनामत्रैवान्तर्भावश्च सूचितो भवति । तेन विभागानन्तरमेवान्येषामपि प्रमाणानां सत्त्वात्कथं त्रित्वमिति शास्त्रान्तरवासनावतामुत्पन्नायाः शङ्काया निवृत्तिः । न केवलमयं ग्रन्थो बालबोधार्थः किन्तु महाधिकारिकोऽपि । येषामेतावन्मात्रेण न निर्वाहस्तेषामर्थं स्फुटमन्तर्भावाद्युक्तिः । सङ्क्षेपविस्तराभ्यां बहुवारमुक्त्या फलाधिक्यसिद्धेः । तदुक्तम् ।

सङ्क्षेपविस्तराभ्यां च कथयन्ति मनीषिणः ।

बहुवारस्मृतेश्चैव फलबाहुल्यकारणादिति ।

एवं ब्रह्मतर्केऽदुष्टमिन्द्रियं त्वक्षमित्यादिवाक्ये यः क्रमो लक्षणकथनादौ सोऽप्यनुसृतो भवति । तेन ब्रह्मतर्कानुसारित्वेन समूलत्वात्प्रामाण्यमस्यैवान्येषां तु निर्मूलत्वेनाप्रामाण्यमेवोचितमित्यादि ज्ञापितं भवतीत्यादि । ननु कथमनेन लक्षणकथानदिना स्वतस्त्वादिकमन्तर्भावश्च सूचितो भवतीति चेदित्थम् । त्रीणि मानानि तेषां लक्षणानि निर्दोषत्वघटितानीति ज्ञातेऽप्रामाण्यस्यार्थाद्दोषमूलत्वं ज्ञास्यते । अन्वयव्यतिरेकयोः स्फुटतरप्रतीतेः । एवं प्रामाण्यस्य गुणाजन्यत्वमपि ज्ञास्यते । दोषाभावेनैव प्रामाण्योपपत्तौ गुणस्यान्यथासिद्धत्वज्ञानाद्दोषाभावमात्रघटितलक्षणकथनेन गुणाप्रयोज्यत्वलाभात् । एवं व्याप्तिबलेनार्थावगमकत्वरूपलक्षणज्ञाने सत्यर्थापत्त्यादीनां व्याप्त्यैवार्थावगमकत्वेनान्तर्भावज्ञानसिद्धेः । एवं परैः साक्षिसिद्धस्य प्रातिभासिकत्वेन मिथ्यात्वमेवेत्युक्तम् । तस्याप्यनादित्वान्निर्दोषत्वेन प्रामाण्यमेव तत्सिद्धस्य सत्यत्वमेव भवतीति तदयुक्तमिति ज्ञापितं भवति । एवं प्रत्यक्षं सप्तविधं साक्षिषडिन्द्रियभेदेनेति विभागकरणेन साक्षिणः सर्वज्ञानापेक्षया विलक्षणस्वभाववत्त्वं सूचितम् । वैलक्षण्यं च कदाचिदपि संशयाद्यनात्मकत्वं सुदृढत्वं स्वविषयाणां सर्वेषां सन्निकृष्टानां ग्राहकत्वं स्वप्रकाशत्वं चेत्यादि । तेन प्रामाण्यस्य ज्ञप्तावपि स्वतस्त्वं सूचितं भवति । प्रामाण्यस्य ज्ञानधर्मत्वेन सन्निकृष्टत्वेन च ज्ञानत्वादीनामिव तद्ग्राहकत्वस्यापि ज्ञापितत्वात् । न चैवमप्रामाण्यस्यापि स्वतस्त्वापत्तिः । तस्याप्यप्रमाधर्मत्वेनाप्रमावृत्तिज्ञानत्वादीनामिव तत्रापि संशयानुदयप्रसङ्ग इति वाच्यम् । दोषजन्यत्वनिश्चयरूपसहकारिसामर्थ्येनाप्रामाण्यग्रहणशक्तेस्तत्काले आविर्भावेऽपि तस्याः स्वाभाविकत्वाभावात् । अधिकं तु तत्प्रस्तावे वक्ष्यामः । एतेनैतदपि निरस्तं भवति । साक्षिणो ज्ञानग्राहकत्वस्वप्रकाशत्वप्रामाण्यग्राहकत्वादिस्वभावत्वानङ्गीकारेऽनवस्था वक्तव्या । सा च तदङ्गीकारेऽपि प्रसरति । तथा हि । ज्ञाने प्रामाण्यनिश्चयाभावे ज्ञानत्वादिसाधारणधर्मज्ञानसत्त्वेन विशेषनिर्णायकाभावेन च प्रवृत्त्यर्थं विशेषजिज्ञासाया अपि सत्त्वेन सामग्रीसम्पत्त्या प्रामाण्यसन्देहापत्तिः । ज्ञाने प्रामाण्यसंशये विषयेऽपि संशयापत्तिः । तथा च निश्चयाधीनप्रवृत्तिः कुत्रापि न स्यात् । ज्ञानज्ञानाभावे च विषये कथमपि प्रवृत्त्यभावप्रसङ्गः । प्रमाणस्वरूपसत्तामात्रेण प्रवृत्त्याद्यङ्गीकारे प्रमाणोक्तेर्वैय्यर्थ्यापत्तिः । तदर्थं जडज्ञानाङ्गीकारे तस्य स्वग्राहकत्वानुपपत्ति; । स्वोत्पत्तिक्षणे स्वस्यासन्निकृष्टत्वेन तदाकारत्वाभावेन द्वितीयक्षणे स्वाकारत्वासम्भवात् । न च जडस्य ज्ञानस्य प्रथमक्षणे स्वानवगाहित्वं द्वितीयक्षणे स्वावगाहित्वमित्यस्य कुत्राप्यदृष्टत्वात् । न च सन्निकर्षस्य तदवगाहित्वेन प्रयोजकता किन्तु तज्ज्ञानोत्पादसामग्य्रेव तज्ज्ञानावगाहित्वे प्रयोजिकेति वाच्यम् । चैत्रस्य घटादिज्ञानोत्पादकसामग्य्रा मैत्रज्ञानस्यापि तदाकारत्वापत्तेः । न च यादृशज्ञानोत्पत्तिसामग्री या सा तज्ज्ञाननिष्ठतज्ज्ञानावगाहितायामेव प्रयोजिका । नान्यज्ञाननिष्टविषयितायामिति वाच्यम् । तथाऽपि तज्ज्ञाननिष्ठविषयिताविशेषादीनामसिध्द्यापत्तेः । तदपि तेनैव ज्ञानेन सिध्द्यतीति वाच्यम् । करणासन्निकृष्टत्वेन भानानुपपत्तेः । सन्निकर्षस्याप्रयोजकत्वे घटादिसन्निकर्षस्याप्रयोजकत्वापत्तेः । घटतद्धर्मसन्निकर्षस्याप्रयोजकत्वाङ्गीकारे घटवृत्त्यसन्निकृष्टधर्माणामपि भानापत्तिः । ज्ञानवृत्तिधर्माणामेव भाने सन्निकर्षो न प्रयोजक इति चेत् तर्हि तज्ज्ञानवृत्तिगुणत्वप्रमेयत्वादीनामपि भानापत्तिः । सन्निकर्षाप्रयोज्यत्वे प्रत्यक्षनिरूपितत्वानुपपत्तिः । उक्तनियमे मानाभावश्च । प्रामाण्ये कदाऽपि संशयानुपपत्तिश्च । प्रामाण्यभाने ज्ञानोत्पत्तिप्रयोजकसामग्रीमात्रस्य प्रयोजकत्वात् । अन्यथा ज्ञाननिष्ठविषयिताविशेषादावपि कदाचित्संशयः स्यात् । किञ्च बव्हर्थविषयकसमूहालम्बनात्मकमेकमेव जातं कालान्तरे तज्ज्ञानस्मृतिर्ममैतज्ज्ञानजातमासीदिति । तत्र विषयविशेषे उपेक्षात्मकत्वेन संस्कारस्यानुत्पादेन तत्स्मृतौ भासमानज्ञानांशे तद्विषयस्य विषयितासम्बन्धेन मानाभावस्यानुभवसिद्धस्यापलापापत्तेः । सन्निकर्षस्य प्रयोजकत्वाङ्गीकारे तु स्मृतेरपि मानसप्रत्यक्षत्वेन तदुत्पत्तौ संस्कारस्यैव सन्निकर्षत्वेनोक्तस्थले तद्विषयावगाहिसंस्काररूपसन्निकर्षाभावेन तद्विषयस्य तन्निष्ठविषयितायाश्च भानाभावः सम्भवति । तस्माज्ज्ञानस्य चक्षुरादिकरणासन्निकृष्टत्वेन तस्य तन्निष्टविषयितायाश्च चाक्षुषादिप्रत्यक्षादौ भानाङ्गीकारोऽयुक्त एव । एवं कर्तुरपि भानाङ्गीकारस्त्वयुक्तः । अतो ज्ञानप्रत्यक्षं चेतनरूपमङ्गीकार्यम् । तथा च चेतनस्य नित्यत्वेन ज्ञानोत्पत्तेः पूर्वमेव सत्त्वेन ज्ञानोत्पत्तिक्षण एव तस्य तद्गतविषयित्वादिधर्माणां च सन्निकर्षसम्भवेन तद्भासकत्वं सम्भवति । न च कारणस्य स्वद्वितीयक्षण एव कार्योत्पादकत्वेन ज्ञानोत्पत्तिक्षणे सन्निकर्षसत्त्वेऽपि तत्क्षणे भानानुपपत्तिरिति वाच्यम् । आलोकसन्निकर्षवत्प्रथमक्षण एव भासकत्वात् यथानुभवं कल्पनीयत्वात् । गुणत्वादीनां च सामान्यतो वा ज्ञानादिविषयितावच्छेदेन साक्षिविषयत्वेऽपि स्वातन्त्र्येणाविषयत्वान्न ज्ञानाद्यंशे भानम् । तस्यास्वप्रकाशत्वे तद्विषयज्ञानान्तराङ्गीकारेऽनवस्थासन्निकर्षानुपपत्तिः । अनङ्गीकारेऽसत्त्वापत्तिः । स्वप्रकाशत्वपक्षे तु विशेषबलेन स्वस्मिन्स्वसन्निकर्षस्य सदा सत्त्वान्नानुपपत्तिः । आत्मनो मानसप्रत्यक्षाङ्गीकारे न केवलमनवस्थामात्रं किन्तु सुषुप्तावात्मनो ज्ञानाभावप्रसङ्गेन तत्सम्बन्धितया सुखादेर्भानानुपपत्तिः । तथा च सुखं सुप्तोऽस्मीति स्मृत्यनुपपत्तिश्च । एवं प्रामाण्यग्रहणस्वभावत्वानङ्गीकारेऽप्यनवस्थेति वक्तव्यम् । एवमङ्गीकारेऽप्यनवस्था दुर्वा रैव । तथा हि । साक्षिण इदं ज्ञानं प्रमाणं प्रमाणमिति ज्ञानं प्रमाणमिति व्द्याकारतावत्तत्तदाकारज्ञानेषु पुनः प्रामाण्यावगाहित्वं स्यात् । यादृशाकारविशिष्टे प्रामाण्यं नावगाहते तत्र प्रामाण्यसन्देहात्तत्तद्विषयीभूतेषु ज्ञानेष्वपि प्रामाण्यसन्देहक्रमेण प्रथमज्ञानेऽपि प्रामाण्यसन्देहापत्तेः । ननु ज्ञानस्यैकत्वेनोत्पत्तिज्ञप्त्यप्रतिबन्धकत्वेन नानवस्थादोष इति चेत् । सत्यम् । विचारवेलायां तत्तदाकारताभिव्यक्तेरपेक्षितत्वेन तव्द्यक्तिपरम्परयाऽनवस्थाया दोषत्वात् । अन्यथासाक्षिणो ज्ञानप्रामाण्यमात्रग्रहणेन प्रवृत्त्याद्युपपत्तौ स्वप्रामाण्यग्रहणाङ्गीकारस्य वैफल्यापत्तेः । एवमनन्ताकारताया अनुभवविरुद्धत्वाच्चेति । अत्र ब्रूमः । साक्षी नाम जीवस्वरूपभूतं मनस्तच्चोक्तरीत्या स्वप्रकाशत्वेन स्वनिष्ठविषयितादिप्रकाशत्वेनैव सिद्धम् । अन्यथा ज्ञानप्रत्यक्षासम्भवस्योक्तत्वात् । न च नित्यानुमेयमेव ज्ञानमिति भाट्टाभिमतो युक्तः । ज्ञाततारूपलिङ्गस्य प्रत्यक्षत्वाङ्गीकारेऽपि तादृशप्रत्यक्षस्य ज्ञानाभावेन तस्य हेतुत्वानुपपत्तेः । प्रमाणाभावाज्ज्ञातता नास्तीति वादिनस्तत्र प्रत्यक्षस्यातीन्द्रियत्वेन प्रमाणान्तरस्याभावेन चासिद्धेः प्रसङ्गात् ज्ञानानुमितेरप्यतीन्द्रियत्वेन तादृशलिङ्गाद्यभावेन तज्ज्ञानाभावप्रसङ्गेन तस्यैवासत्त्वापत्त्या तद्विषयीभूतप्रथमज्ञानस्यैवासत्त्वप्रसङ्गात् । वस्तुतस्तत्र प्रमाणसत्त्वमात्रस्य प्रवर्तकत्वाद्यङ्गीकारे लोकानां प्रमाणजिज्ञासाया अभावप्रसङ्गात् । एवं परमतनिरासादेरकर्तव्यत्वापातात् । वस्तुतस्तन्निरासकप्रमाणानां सत्तामात्रेण निराससिध्द्या तदुक्तेर्विफलत्वापातात् । अनित्यस्य कस्यापि ज्ञानस्य स्वप्रकाशत्वस्य दूषितत्वात् । जीवस्वरूपेन्द्रियेषु तादृशज्ञानसत्त्वे च तत्र तत्राचार्यैरागमस्योदाहृतत्वेन तत्रागमानामपि सत्त्वात् । प्रत्यक्षस्यापि सत्त्वाच्च । तथा हि । सुखाद्युत्पत्तौ सुखमनुभवामीति । तथा चानुभवत्वस्य तदितरेन्द्रियजन्यज्ञानाद्यवृत्तित्वेन निश्चयमात्रवृत्तित्वेन सुदृढप्रमाणमात्रवृत्तित्वेन ज्ञातत्वेन तादृशधर्मस्याप्रामाण्यासमानाधिकरणत्वेन प्रत्युत तव्द्यावर्तकत्वेन तादृशानुभवत्वरूपसाक्षित्वस्य ज्ञानप्रामाण्यनिश्चयरूपे स्वप्रामाण्यनिश्चयरूपे च स्वस्मिन् गृहीतत्वेनाप्रामाण्यशङ्काया एवानुत्पत्त्या तत्र प्रामाण्यप्रकारकत्वाभिव्यक्तेरनपेक्षितत्वेनानवस्थाभावात् । न च स्वप्रामाण्यग्रहणाङ्गीकारो व्यर्थः । स्वाभाव्यादिति चेत् । तर्हि स्ववृत्तिधर्मग्रहणस्वाभाव्यादनन्ताकारताया अप्यनुभवापत्तिरिति वाच्यम् । अनुभवसामान्यं प्रमेत्याकारत्वस्यैव स्वप्रामाण्यग्राहकत्वरूपत्वात् । एतादृशाकारत्वाभावेऽनुभवत्वमात्रभानेऽप्यप्रामाण्यशङ्काऽनुत्पादे बीजाभावात् । अनुभवसामान्यं प्रमेति ज्ञानसहितस्यैवानुभवत्वज्ञानस्याप्रामाण्यधीप्रतिबन्धकत्वेन तच्छङ्काऽनुत्पादप्रयोजकत्वात् । व्यक्त्यभावेनानन्ताकारताया अनुभवा भावेऽप्यविरोधात्साक्षिणो व्यक्तस्वगतधर्मग्रहणस्वभावत्वाङ्गीकारात् । अत एव सुखाद्याकारतायाः साक्षिधर्मत्वेन तदभिन्नत्वेन सदा सत्त्वेऽपि व्यक्त्यभावेन सदाऽनुभवाभावः । एवमत्रापि सति प्रयोजने तत्तदाकारताया अभिव्यक्तिस्तथा व्यवहरति चेति । एवमुत्तरत्रापि तत्र तत्रोक्तेराशयः स्वयमूह्यः । एवमाद्यनन्तभावयुतैराचार्यैर्विक्षिप्य वर्णनादिकं कृतमित्याशयेन गम्भीरयेति वाचो विशेषणं दत्तम् ।

वाक्यार्थमञ्जरी

आचार्यैरेव प्रमाणलक्षणादेरुक्तत्वान्नेदं प्रकरणमारम्भणीयमिति शङ्कानिरासाय बालानामिति यदुक्तं तदेव शङ्काप्रदर्शनपूर्वकं विवृणोति ।। यद्यपीत्यादिना ।। गम्भीरयेति । अस्पष्टार्थतयेत्यर्थः ।। विक्षिप्येति । व्यवधानं कृत्वेत्यर्थः । वर्णितमित्यनन्तरं प्रमाणलक्षणमित्यनुवर्तते ।। तदर्थमिति । मन्दानामनायासेन प्रमाणलक्षणादिबोधार्थमित्यर्थः । ननु भगवत्पादैरेवेति विशेष्यसङ्गतैवकारेणान्ययोगव्यवच्छेदकेन भगवत्पादान्यस्मिन्प्रमाणलक्षणादिकथनयोगव्यवच्छेदलाभात्पुनस्तत्करणादिदं प्रकरणमारभ्यत इति प्रतिज्ञा व्याहन्येतेत्यत उक्तं तदर्थमिति । स भगत्पादप्रणीतप्रमाणलक्षणादिरेवार्थः प्रतिपाद्यं यस्य तत् । तदर्थे स्वातन्त्र्येण प्रमाणलक्षणादिकथनमेवान्यत्रैवकारेण व्यावर्तितम् । न तु तदनुसारेण कथनमपीति भावः । तथा च बहुज्ञान्प्रत्यस्य प्रकरणस्यानारम्भणीयत्वेऽप्यल्पज्ञान्प्रत्यारम्भणीयत्वमेवेति भावः ।

श्रीविट्टलभट्ट

ननु तथाऽपि नेदं प्रकरणमारम्भणीयम् । भगवत्पादकृतप्रमाणलक्षणादिप्रकरणेनैव बालानामपि प्रमाणलक्षणादिस्वरूपावधारणसम्भवादित्यभिप्रेत्य शङ्कते ।। यद्यपीति । एवेत्यनेन प्रारिप्सितस्यास्य प्रकरणस्य वैय्यर्थं ज्ञापयति । प्रमाणविभागप्राबल्यदौर्बल्यपरोदीरितप्रमाणलक्षणालक्षणत्वादिप्रमेयजातमादिशब्दार्थः । परहरति ।। तथाऽपीति । गम्भीरया गूढाभिप्रायेणाविस्पष्टार्थया विक्षिप्य व्यवधानं कृत्वैकत्रोद्देशमन्यत्र लक्षणप्रतिपादनमेकत्र परीक्षां कृत्वेति यावत् वर्णितम् । प्रमाणलक्षणादिकमित्यनुवर्तते । परैरल्पज्ञैः सुखेनानायासेन ज्ञातुं न शक्यत इति हेतोस्तदर्थं बालानां सुखेन बोधाय । यद्वा भगवत्पादकृतप्रमाणलक्षणादिप्रकरणस्यार्थो यस्मिंस्तदर्थं भगवत्पादकृतप्रमाणलक्षणाद्यर्थप्रतिपादकमिदं प्रकरणमारभ्यत इत्यर्थः । श्रुतिमूलकस्मृतेरिव प्रमाणलक्षणादिमूलकस्यास्य प्रकरणस्यारम्भणीयत्वं युक्तमिति भावः ।