प्रमाणपद्धतिः

(३१) प्रमाणपद्धतिः

।। ७ ।। निरर्थकम् ।। अवाचकपदप्रयोगो निरर्थकम् । यथा शब्दो नित्यः कचटतपानां जबगडदत्वादित्यादि । इदं त्वनुक्तिरेव ।

जयतीर्थविजय

।। अवाचकेति । अत्र पदव्यावर्त्यानि स्पष्टानि । एतदप्युक्तं वरदराजेन । अवाचकप्रयोगे स्यान्निरर्थकसमुद्भव इति । इत्यादीत्यादिशब्देन लिङ्गविभक्तिविपर्यासः कृत्तद्धितसमासाख्यातविपर्यासः संस्कृतभाषयोपक्रम्य भाषान्तरेण वचनमित्यादेर्ग्रहणम् । कथञ्चिदज्ञापकत्वात्कथमेतन्निग्रहस्थानमिति चेन्मैवम् । न हि कथञ्चिज्ज्ञापकत्वं शब्दधर्मः । प्रकरणादिनैव तत्र ज्ञानोदयात् । भाषान्तरसङ्करोऽपि समसमयत्वाभावे निग्रहस्थानम् । अन्यथा ज्ञानसङ्गूहनार्थं स्वभाषया प्रत्यवतिष्ठमानं प्रति तदनभिज्ञस्योत्तराभावप्रसङ्गात् । इत्याशङ्क्य समाहितं प्रमाणलक्षणटीकायाम् । वरदराजेनैव माशङ्क्य मैवं मीमांसकादीनामपि वाचकावाचक विभागस्य सिद्धत्वात् । यस्याप्ययमसिद्धस्तस्यापि समानपदैर्वक्तव्यम् । अन्यथा स्वाज्ञानसंवरणार्थं स्वभाषया प्रत्यवतिष्ठमाने दाक्षिणात्ये तूष्णीं भाववदाचरणमार्यस्येत्यज्ञानमेवावशिष्यत इति । न च दुर्ज्ञानं समानसमयत्वम् । परबुद्धेरप्रत्यक्षत्वादिति वाच्यम् । प्रथमत एवोभयसिद्धव्याकरणादि व्यवहाराङ्गीकारेण लिङ्गविपर्यासादीनां समानसमयत्वाभावनिश्चयोपपत्तेरिति समाहितम् ।। अनुक्तिरेवेति । परबोधार्थं वक्तव्यस्य सद्धेतोरवचनादिति भावः ।

भावदीपः

।। अनुक्तिरेवेति । परबोधनार्थमवश्यवक्तव्यस्यावचनरूपत्वादिति भावः ।

श्रीविजयीन्द्रतीर्थ

।। अवाचकेति । पदार्थानुपस्थापकेत्यर्थः । न चैकाक्षरस्य स्वार्थोपस्थापकत्वेना सम्भवः । पदजन्यशाब्दबोधविषयान्वयप्रतियोग्यनुस्थापकमित्यर्थत्वात् ।। इदमिति । अत्राप्यवश्यवक्तव्य हेत्वनुक्तेरनुक्तिरेव दोष इत्यर्थः ।

श्रीवेदेशभिक्षु

।। अनुक्तिरेवेति । परबोधनार्थं वक्तव्यस्यावचनादिति भावः ।

अभिनवामृतम्

।। अवाचकपदप्रयोग इति । अत्र पदशब्देन विभक्त्यन्ततया प्रतीयमानो वर्णसमुदाय उच्यते । तेन पदं न तर्ह्यवाचकं यद्यवाचकं न तर्हि पदमिदं वाचकं चेति विप्रतिषिद्धमिति परास्तम् ।

आदर्शः

।। इदं त्वनुक्तिरेवेति । न चात्र प्रथममुपस्थितस्यावाचकपदप्रयोक्तृत्वस्यैवोद्भावनं युक्तं न त्वनुक्तेस्तदभावादिति वाच्यम् । तस्य व्यभिचारित्वेन पराजयानुमापकत्वात् । वादिप्रतिवादिभ्यामपि पुरुषान्तरीयबोधाय प्रयोजनसत्त्वे तादृशपदप्रयोगसम्भवात् । तादृशशब्दानामप्यर्थविशेषे सङ्केतितत्वसम्भवेन तादृशसङ्केताभिज्ञपुरुषं प्रत्यर्थविशेषबोधकत्वसम्भवात् । सङ्केतेनाप्यर्थविशेषबोधकत्वस्यावाचकत्वरूपत्वे तादृशावाचकत्वस्य सन्दिग्धत्वापत्तेः । अनाद्यनन्तकाले तत्पदं कुत्रापि न सङ्केतितमिति निश्चायकं नास्ति । पुरुषविशेषस्य बोधकत्वं तु वाचकेऽपि पदेऽपि सम्भवति । प्रकृतोपयुक्तार्थवाचकत्वरूपत्वे प्रयोजनोद्देशेन लाक्षणिक पदप्रयोक्तुर्निरूढलाक्षणिकपदप्रयोक्तुश्च तद्दोषप्रसङ्गः । सर्वथा वाचकत्वरूपत्वे सर्वेषां वर्णानां स्वस्वरूपवाचकत्वेन सर्वथाऽवाचकत्वस्य कुत्राप्यसम्भवः । सर्वथाऽवाचकत्वाङ्गीकारे च पदत्वव्याघातश्च । स्वस्वरूपातिरिक्तावाचकत्वे तादृशवर्णमालाया एव यत्र हेतुता तत्र तद्वाचकतादृशवर्णमालाया इत्यादिहेतुवाक्यं प्रयोक्तुर्निरर्थकत्वेन निग्रहप्रसङ्गः । एवं यस्य पुरुषस्य निरर्थकद्वित्रिवर्णप्रयोगो लौकिके वैदिके वाऽन्यथा व्यवहारस्यैवानिष्पत्तिः । विवक्षितहेतूक्त्यनन्तरं स्वभावादेव तादृशवर्णोच्चारयितुरपार्थकत्वरूपनिग्रहप्रसङ्गः । तस्मात्परिषदादिनिष्ठतत्कालीन जिज्ञासितार्थाबोधक पदप्रयोगो निरर्थकमिति वक्तव्यम् । अनुक्तिश्च तादृशार्थबोधकत्वविशिष्टपदाभावः । तस्य विशिष्टाभावरूपत्वेन विशेष्यवति विशिष्टाभावस्य विशेषणाभावरूपत्वात् । पदप्रयोक्तरि विशिष्टाभावो पदेषु तदर्थबोधकत्वाभावरूप एवेति तदुच्चरितपदेषु तादृशार्थबोधकत्वाभावस्य तत्रत्यपराजयानुमापकस्यानुक्तिरूपत्वमेवेति । न च तादृशार्थबोधक पदप्रयोक्तृत्वमपि पराजयहेतुः स्यादिति वाच्यम् । पदेषु तादृशार्थबोधकत्वाभावज्ञानं विना विशिष्टहेतूपस्थितेरसम्भवात् । पदेष्वबोधकत्वस्य प्रथममुपस्थितेरावश्यकत्वात्तस्यैवोद्भाव्यत्वात् । न च तादृशार्थबोधकपदप्रयोगस्य निरर्थकत्वे वह्निमान्घटादित्यस्यानिरर्थकत्वप्रसङ्गः । घटस्य जिज्ञासितत्वा भावे तद्बोधकत्वेऽपि घटपदस्य जिखासितार्थाबोधकत्वादिति वाच्यम् । गमकत्वरूपसामान्यधर्मेण सर्वस्यापि जिज्ञासितत्वात् । तत्र घटादौ व्याप्त्याद्यभावस्योद्भावनीयत्वात् । तर्हि जबगडदत्वादित्यत्रापि तत्पदवाच्यायास्तादृशानुपूर्व्या अपि सामान्यरूपेण जिज्ञासितत्वसम्भवेन न निरर्थकत्वोक्ति र्युक्तेति वाच्यम् । उत्सर्गतोऽर्थप्रकरणे प्रयुक्तस्य शब्दस्य स्वस्वरूपतात्पर्यकत्वाभावस्य दृष्टत्वेन तस्य हेतुत्वेन बोधतात्पर्याभावनिश्चयकाल एव तादृशदोषप्रसक्तेः । तत्सत्त्वकाले तु तद्दोषप्रसक्तिर्नास्त्येव । अत एव नासङ्गति प्रसक्तिः । न च हेतोरनुक्त्या न्यूनतैव स्यादिति वाच्यम् । पञ्चम्यन्तपदसत्त्वेन तस्य हेतुबोधकत्वेन भासमानत्वात् । न्यूनताया उद्भावनासम्भवान्निरर्थकत्वस्यैव प्रथममुपस्थितत्वाच्च ।

श्रीविट्टलभट्ट

।। अवाचकपदप्रयोग इति । अबोधकशब्दप्रयोगो निरर्थकमित्यर्थः । अबोधकश्च शब्दो द्विविध इति ज्ञापनाय पदादीत्युक्तम् । अबोधकपदसमूहरूपवाक्यमादिशब्दार्थः । वाचकपदादि प्रयोगरूपापार्थक व्यवच्छेदाय वाचकपदोपादानम् ।। इत्यादीति । लिङ्गविभक्तिविपर्यासादिरादिशब्दार्थः ।। इदं त्वनुक्तिरेवेति । परबोधनार्थं वक्तव्यस्यानुक्तौ पर्यवसानादस्यानुक्तित्वमिति भावः ।