दृश्यत्वं च न्यायदीपावलीरीत्या दृग्विषयत्वम्
५. दृश्यत्वस्वरूपविचारः
न्यायामृतम्
दृश्यत्वं च न्यायदीपावलीरीत्या दृग्विषयत्वम् । ननु यन्न मिथ्या न तद् दृश्य-मिति व्यतिरेकस्याग्रहे सन्दिग्धानैकान्त्यम् । तद्ग्रहश्च न तावदसति, तत्र सद्विविक्तत्वरूपमिथ्यात्वस्य व्यतिरेकाभावात् । मिथ्यात्वान्तरव्यतिरेकसद्भावेऽपि तत्र साध्यव्यतिरेकग्रहार्थं तस्यापि ज्ञातव्यत्वेन व्यभिचारात् । ब्रह्मणि मिथ्यात्व-व्यतिरेकग्रहे च ब्रह्मापि दृश्यमिति चेन्न । आकाशस्य स्वरूपेणापरिच्छेदेऽपि घटा-वच्छिन्नस्य परिच्छेदवद् ब्रह्मणः स्वरूपेणादृश्यत्वेऽपि व्यतिरेकावछिन्नस्य दृश्यत्वात्
।। १ ।।
यद्वा प्रमाणमालारीत्या स्वव्यवहारे स्वातिरेकिसंविदपेक्षानियतिर्दृश्यत्वम् । तथा चात्मनो ज्ञानविषयत्वेऽपि नोक्तरूपं दृश्यत्वम् ।। २ ।।
अस्वप्रकाशत्वं वा दृश्यत्वम् । स्वप्रकाशत्वं च फलाव्याप्यत्वे सत्यपरोक्ष-व्यवहारयोग्यत्वम् । फलं च वृत्तिप्रतिफलितचैतन्यम् । स्वप्रकाशत्वाभावश्च घटादौ विशेषणाभावेन धर्मादौ विशेष्याभावेनेति विशिष्टाभावोऽनुगतः । अस्मिंश्च पक्षे जडत्वमसंविद्रूपत्वमित्यसङ्करः ।
न्यायामृततरङ्गिणी
साध्यं विविच्य हेतुं विविनक्ति – दृश्यत्वञ्चेति ।। दृग्विषयत्वमिति ।। ज्ञान-विषयत्वमित्यर्थः । आत्मा च वृत्तिविषयोऽपि नेति भावः । अत एवाग्र आत्मनो ज्ञान-विषयत्वमभ्युपेत्य पक्षान्तरं वक्ष्यति ‘‘तथा चात्मनो ज्ञानविषयत्वेऽपी’’त्यादिना । नन्विति ।। मिथ्यात्वस्य व्यतिरेकिधर्मत्वेन किञ्चिदधिकरणनिष्ठात्यन्ताभावप्रतियोगित्वे निश्चिते तदधिकरणे हेतुव्यतिरेकस्याग्रहे तत्र हेतुसंशयसम्भवात् सन्दिग्धानैकान्त्यमित्यर्थः । ब्रह्मापि दृश्यमिति ।। तथा च ब्रह्मणि व्यभिचार इति भावः । व्यतिरेकावच्छिन्नस्य दृश्यत्वादिति ।। शुद्धे ब्रह्मस्वरूपे साध्यसाधनयोर्व्यतिरेकोऽस्ति । मिथ्यात्व–दृश्यत्वव्यतिरेकावच्छिन्ने च दृश्यत्व-मप्यस्ति, इति साध्यसाधनव्यतिरेकयोः सहचारग्रहो भवति । व्यतिरेकावच्छिन्नस्य दृश्यस्य मिथ्यात्वाद् व्यभिचारोऽपि नेति भावः । ननु अदृश्यस्य कथं दृश्यत्वम् ? इत्यतः सदृष्टान्त-मुपपादयितुमुक्तम्– आकाशस्येति ।। आकाशस्यापरिच्छेदपरिच्छेदाविव ब्रह्मणोऽप्यदृश्यत्व-दृश्यत्वे उपपन्ने । स्वाभाविकत्वास्वाभाविकत्वाभ्यां च तद्वदेवाविरोध इति भावः ।। १ ।।
ननु व्यतिरेकावच्छिन्नस्य विशिष्टस्य दृश्यत्वे विशिष्टानुगतविशेष्यस्य दृश्यत्वमवर्जनीयम्; विशिष्टज्ञानस्य विशेष्येऽपि संशयादिनिवर्तकत्वात् । अन्यथा ‘दण्डी देवदत्तः’ इति ज्ञानानन्तरं देवदत्ते कदाचित् संशयादिः स्यात् । तथा च व्यभिचार इत्यत आह– स्वव्यवहार इति ।। अद्वितीयत्वादिप्रकारक आत्मगोचरे व्यवहारे स्वातिरिक्तवृत्तिरूपसंविदपेक्षाऽस्ति इत्यात्मनि दृश्यत्वं मा प्रसाङ्क्षीत् इति नियतिग्रहणम् । अद्वितीयत्वादिरूप आत्मव्यवहारे तदपेक्षायामपि स्फुरणरूपे नित्यसिद्ध आत्मव्यवहारे तदभावात् तत्र नियमो नास्तीत्यर्थः । आत्मनो वृत्तिविषयत्वमपि नास्ति इति न्यायदीपावलीरीत्या दृश्यत्वं व्याख्यातम् । आनन्दबोधोक्तरीत्या तु शुद्धात्मनो वृत्तिविषयत्वेऽपि स्वव्यवहारेऽपि स्वातिरिक्तसंविदपेक्षानियतिरूपं दृश्यत्वं शुद्धात्मनि नास्तीत्याह– तथा चेति ।। २ ।।
ननु आत्मनः स्फुरणव्यवहारे उपनायकप्रमाणापेक्षाया विरहेऽप्यद्वितीयत्वादिविशिष्ट-व्यवहारे विशेषणोपनायकप्रमाणापेक्षानियमोऽस्त्येव इति व्यभिचारस्तदवस्थ इत्यत आह– अस्वप्रकाशत्वं वेति ।। घटादाविति ।। घटादेः फलव्याप्यतया फलाव्याप्यत्वरूपं विशेषणं घटादौ नास्तीत्यर्थः । धर्मादौ त्विति ।। अपरोक्षव्यवहारयोग्यत्वं विशेष्यं धर्मादौ नास्तीत्यर्थः । ननु जडत्वं नाज्ञानत्वम् वृत्तिभागेऽसिद्ध्यापत्तेः, किन्त्वस्वप्रकाशत्वमेव वाच्यम् । तथाच दृश्यत्वजडत्वयोः पूर्वोक्तयोर्हेत्वोरभेदापत्तिरित्यत आह– अस्मिंश्चेति । असंविद्रूपत्वम् अचिद्रूपत्वम् । तच्च वृत्तिरूपे ज्ञानेऽस्तीति भावः ।। ३ ।।
न्यायामृतकण्टकोद्धारः
एवं साध्यं निरूप्य हेतुं निरूपयति – दृश्यत्वं चेति ।। व्यतिरेकस्याग्रह इति ।। व्यतिरेकव्याप्त्यनिश्चय इत्यर्थः । सन्दिग्धेति ।। साध्याभाववति हेतुर्भविष्यतीति शङ्कया सन्दिग्धानैकान्त्यमित्यर्थः । ब्रह्मणीति ।। तथा च व्यभिचार इति भावः । आकाशस्येति ।। शुद्धब्रह्मणि व्यतिरेकग्रहसम्भवः । न च व्यभिचारः; शुद्धस्य स्वरूपेणादृश्यत्वाद् हेत्वभावात् । न च तर्हि व्यतिरेकावच्छिन्ने व्यभिचार इति वाच्यम् । तदवच्छिन्नस्य दृश्यत्वेऽपि मिथ्यात्व-रूपसाध्यस्यापि सत्त्वात् न तदवकाशः । एकस्यैव रूपान्तरेण वैरूप्ये दृष्टान्तमाह– आकाश-स्येति ।। न च विशिष्टस्य दृश्यत्वे विशेष्यस्यापि दृश्यत्वात् शुद्धेऽपि न व्यतिरेकग्रहः सम्भवतीति वाच्यम्; अग्निषोमयोर्देवतात्वेऽप्यग्नेरदेवतात्ववद् विशिष्टस्य दृश्यत्वेऽपि विशेष्यस्यादृश्यत्वात् ।
स्वव्यवहार इति ।। अत्र नियतिपदादान आत्मनोऽपि स्वप्रकाशत्वाद्वितीयत्वादि-विशिष्टात्मव्यवहारे विशेषणोपनायकप्रमाणापेक्षाया विद्यमानत्वेन तत्र दृश्यत्ववृत्तावनैकान्त्यं स्यात्, तदर्थम् – नियतिरित्युक्तम् । विशिष्टात्मव्यवहारे स्वातिरेकिसंविदपेक्षाया विद्य-मानत्वेऽप्यविशिष्टव्यवहारे तदनपेक्षणेन नियमाभावात् न व्यभिचार इति भावः ।
न्यायामृतप्रकाशः
एवं साध्यं निरुच्य हेतुं निर्वक्ति ।। दृश्यत्वं चेति । न्यायदीपावली मायावादिग्रन्थविशेषः । दृग्विषयत्वमिति ।। ज्ञानविषयत्वमित्यर्थः । दृश्यत्वहेतोर्ब्रह्मणि व्यभिचारं वक्तुं ब्रह्मणो दृश्यत्व-मुपपादयितुमाह– नन्विति ।। दृश्यत्वहेतोरन्वयव्यतिरेकित्वादिति भावः । दृश्यत्वानुमाने व्यतिरेकव्याप्तिनिश्चयोऽस्ति न वा । नेति पक्षे आह– यन्न मिथ्येति ।। इति व्याप्तौ व्यतिरेकस्य व्यतिरेकव्याप्तेरग्रहे निश्चितसाध्याभाववति हेतुसन्देहरूपं सन्दिग्धानैकान्त्यमित्यर्थः । आद्ये आह– तद्ग्रहश्चेति ।। हेतुसाध्यव्यतिरेकनिश्चयश्चेत्यर्थः । नन्वसत्ये तादृशमिथ्यात्वसत्त्वेऽपि ज्ञान-निवर्त्यत्वादिरूपमिथ्यात्वान्तरव्यतिरेकोऽस्तीति तत्र तत्र व्यतिरेकव्याप्तिग्रहः सम्भवतीति चेत्तत्राह– मिथ्यात्वान्तरेति ।। तस्यापि ज्ञातव्यत्वेनेति ।। अभावज्ञाने अधिकरणज्ञानस्य कारणत्वादित्यर्थः ।। व्यभिचारादिति ।। यत्र दृश्यत्वं तत्र मिथ्यात्वं, यत्र मिथ्यात्वाभावः तत्र दृश्यत्वाभाव इत्यन्वय-व्यतिरेकव्याप्त्योरसति व्यभिचार इत्यर्थः ।। ब्रह्मापीति ।। अन्यथा मिथ्यात्वव्यतिरेकग्रहासम्भवादिति भावः । तथा च तत्र व्यभिचार इति हृदयम् ।। घटावच्छिन्नस्येति ।। घटावच्छेदेनेत्यर्थः ।। व्यतिरेकावच्छिन्नस्येति ।। मिथ्यात्वव्यतिरेकावच्छेदेनेत्यर्थः ।। दृश्यत्वादिति ।। शुद्धस्य चेति शेषः।
अयमर्थः । मिथ्यात्वव्यतिरेकग्रहः शुद्ध एव ब्रह्मण्यङ्गीक्रियते तर्हि तत्र दृश्यत्वहेतोर्व्यभिचार इति न वाच्यम् । शुद्धस्य ब्रह्मणः स्वरूपेणादृश्यत्वाङ्गीकारान्न व्यभिचारः । तस्यैव मिथ्यात्व-व्यतिरेकावच्छेदेन दृश्यत्वोपपत्तेर्व्यतिरेकग्रहस्यापि सम्भवात् । न चैवं दृश्यत्वादृश्यत्वे विरुद्धे अदृश्यत्वमेव स्वाभाविकं, मिथ्यात्वव्यतिरेकावच्छेदप्रयुक्तं दृश्यत्वं त्वौपाधिकमस्वाभाविकमित्यङ्गी- कारात् । स्वाभाविकमेव च दृश्यत्वं हेतुतया विवक्षितम् । अतो न तत्र व्यभिचारप्रसक्तिः ।
स्वाभाविकत्वास्वाभाविकत्वाभ्यामविरोधे दृष्टान्तः ।। आकाशस्येति ।। यथैकस्यैवाकाशस्य स्वरूपेणापरिच्छेदेऽपि घटाद्यवच्छेदेन परिच्छेदे सत्यपि स्वाभाविकत्वास्वाभाविकत्वाभ्यां न विरोधस्तद्वदित्येवैतद्ग्रन्थार्थः संप्रदायागतः । व्यतिरेकावच्छिन्नस्येत्यस्य व्यतिरेकावच्छेदेन शुद्धस्यैव दृश्यत्वादित्यव्याख्याने यथास्थितार्थाङ्गीकारे व्यतिरेकावच्छिन्ने विशिष्टे मिथ्यात्वस्यापि सत्त्वेन व्यतिरेकव्याप्तिग्रहायोगः । शुद्धे च तद्ग्रहे तस्य दृश्यत्वावश्यम्भावेन व्यभिचार इति ग्रन्थोऽसङ्गत एव स्यादिति द्रष्टव्यम् । एवमेव ‘‘व्यतिरेकावच्छिन्नस्य स्यादेव दृश्यतेति चेदि’’ति मिथ्यात्वानुमान-खण्डनटीकावाक्योपपादनमपि द्रष्टव्यम् ।
प्रमाणमालाऽपि मायावादिग्रन्थविशेषः ।। स्वव्यवहार इति ।। स्फुरणरूपनित्यसिद्धात्म-स्वरूपव्यवहारे स्वाख्यसंविदपेक्षानियतेति व्यभिचार इत्यतः स्वातिरेकीत्युक्तम् । कदाचित्तस्यैवा-द्वितीयं ब्रह्मेत्याद्यद्वितीयत्वादिविशिष्टव्यवहारे विशेषणोपनायकैकमेवाद्वितीयमित्यादिवाक्यजन्यवृत्ति- सापेक्षताऽस्तीति नियतिग्रहणम् । तथा चाद्वितीयत्वादिव्यवहारे तदपेक्षायामपि स्फुरणरूपात्मव्यवहारे तदपेक्षाभावान्न नियतिरिति तत्र दृश्यत्वाभावान्न व्यभिचार इत्यर्थः । ज्ञानविषयत्वेऽपीत्युक्त्या व्यतिरेकग्रहोपपादनम् । नोक्तरूपं दृश्यत्वमित्यनेनैतादृशस्य दृश्यत्वस्यैव हेतुतया विवक्षितत्वान्न व्यभिचार इत्युक्तं भवति ।। फलेति ।। धर्मादावतिव्याप्तिवारणाय विशेष्यम् । घटादौ तद्वारणाय विशेषणमिति द्रष्टव्यम् ।। व्यवहारयोग्यत्वमिति ।। व्यवहारविषयत्वयोग्यत्वमित्यर्थः ।। वृत्तीति ।। अन्तःकरणवृत्तीत्यर्थः । अत्र योग्यतापदं किमर्थमिति चेत् । उच्यते । यदुक्तं घटादौ विशेष्य-सद्भावेऽपि विशेषणाभावेन विशिष्टाभाव इति तदयुक्तम् । घटादिज्ञानानन्तरं कदाचिन्मनसो विषयान्तरसञ्चाररूपव्यासङ्गेन व्यवहारो न जातस्तत्रापरोक्षव्यवहारविषयत्वस्य फलोपधानस्याभावा-दुभयाभावप्रयुक्त एव विशिष्टाभावः किं न स्यादित्याशङ्कापरिहाराय योग्यत्वमित्युक्तम् । सहकारि-विरहप्रयुक्तकार्याभावो योग्यता वनस्थदण्डादौ यथा दृष्टा तद्वदिहापि ज्ञानेन व्यवहारे जननीये व्यासङ्गाभावः सहकारीति तदभावाद्व्यवहारो न भवति । तत्सद्भावे तु भवत्येवेत्येवं व्यासङ्गदशाया-मपि अपरोक्षव्यवहारविषयत्वयोग्यत्वरूपविशेष्यसद्भावेन विशेषणाभावेनैव विशिष्टाभावो वक्तव्यो न तूभयाभावेनेति सूचयितुं योग्यत्वमित्युक्तमित्यवगन्तव्यम् ।। चैतन्यमिति ।। तथा च ब्रह्मणः प्रकाशरूपत्वेन प्रकाशरूपे प्रकाशान्तरानुदयाच्चैतन्यरूपफलाव्याप्यत्वमस्ति स्फुरणरूपत्वेनापरोक्ष-व्यवहारयोग्यत्वमप्यस्तीत्यवगन्तव्यम् । दृष्टान्ते शुक्तिरूप्ये चेदं दृश्यत्वमस्ति । प्रातिभासिकरूप्या-काराऽविद्यावृत्तिरेव नान्तःकरणवृत्तिः । अतोऽन्तःकरणवृत्तिप्रतिबिम्बितचैतन्यरूपफलाव्याप्यत्व-सत्त्वेऽपि अपरोक्षव्यवहारयोग्यत्वरूपविशेष्याभावाद्विशिष्टाभावोऽनुगतो द्रष्टव्यः । अपरोक्षव्यवहारा-योग्येऽपि तत्र तद्व्यवहारस्तु अधिष्ठानभूतसाक्षिचैतन्यगतं यदापरोक्ष्यं तदध्यासाद्युक्तः । इदमिति व्यवहारायोग्येऽपि तस्मिन्नधिष्ठानगतेदन्तारोपादिदमिति व्यवहारवदित्यग्रे स्पष्टम् । ननु जडत्वमप्य-स्वप्रकाशत्वमेव । तथा च दृश्यत्वजडत्वहेत्वोः साङ्कर्यमित्यत आह– अस्मिंश्च पक्ष इति ।। अस्वप्रकाशत्वं दृश्यत्वमिति पक्ष इत्यर्थः ।। असंविद्रूपत्वमिति ।। अचिद्रूपत्वमित्यर्थः । इदं च पक्षैकदेशे वृत्तिज्ञानेऽप्यस्तीति न भागासिद्धिरिति भावः । ज्ञानरूपत्वाभाव इति व्याख्यानं तु वृत्तिज्ञाने भागासिद्धिप्रसङ्गाच्चिन्त्यम् ।
न्यायकल्पलता
मिथ्यात्वं हि त्वयैव पक्षान्तरनिषेधेन पञ्चधा निरुक्तमित्त्युत्तरसिद्धान्तग्रन्थासङ्गतत्वात् । न च तत्रापि तथैवाभिप्रेतमित्युक्तम् । परेणैवेत्युक्तस्य स्वयमनुपालभ्यत्वात् । अन्यथा अत्यन्तासत्वादेरपि पुनरुपालभ्यमानत्वात् । पञ्चत्वेन सङ्ग्रहानुपपत्तेश्च । मिथ्यात्वप्रकाराणां पञ्चत्वन्तु, मिथ्याशब्दोऽ-निर्वचनीयतावचन’ इति पञ्चपादिकावचनादनिर्वाच्यत्वं मिथ्यात्वम् । तच्चानिर्वाच्यत्वं सदसत्वा-नधिकरणत्वरूपं, बाध्यत्वं वा । बाध्यत्वमपि द्वेधा । प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं, ज्ञानत्वेन ज्ञाननिवर्त्यत्वम् वा इति । एवमनिर्वचनीयत्रैविध्यान्मिथ्यात्वं त्रिविधं, पुनर्मिथ्यात्वं द्विविधं स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं सद्विविक्तत्वं वेति । एवं पञ्चधा साध्यं विविच्य हेतुं विविनक्ति– दृश्यत्वं चेति । ज्ञानविषयत्वमित्यर्थः । आत्मा च वृत्तिविषयोऽपि नेति भावः । अत एवोत्तरत्रात्मनो ज्ञानविषयत्वमभ्युपेत्य पक्षान्तरं वक्ष्यति । तथा चात्मनो ज्ञानविषयत्वेऽपीति । शङ्कते– नन्विति । यत्र मिथ्यात्वाभावस्तत्र दृश्यत्वाभाव इति व्यतिरेकसहचारोऽस्ति न वा । न तावत् द्वितीयः। व्यतिरेकिधर्मत्वात् । तथाप्यधिकरणस्य दुर्ग्रहत्वात्तदग्रह इति चेत्तत्राह– सन्दिग्धानैकान्त्यमिति । साध्याभाववति साधनाभावनियमानिश्चयेऽयं हेतुः साध्यात्यन्ताभाववद्गामी न वेति तत्र साधन-सन्देहादित्यर्थः । आद्येऽपि किं तुच्छे दर्शयितव्यः उत ब्रह्मणि । नाद्यः इत्याह– तद्ग्रहश्चेति । अनिर्वचनीयत्वादिरूपमिथ्यात्वव्यतिरेकस्य तुच्छे सत्वेऽपि तन्निश्चयार्थं तस्यापि ग्राह्यत्वेन सुस्थो व्यभिचार इत्याह– मिथ्यात्वान्तरेति । द्वितीयं निराचष्टे -ब्रह्मणीति । तथा च निश्चित-साध्यव्यतिरेकवति साधनवृत्तेर्व्यभिचार एवेति भावः । दृश्यत्वहेतोः व्यभिचारं निरस्यति– नेति । ब्रह्म द्विविधं निर्विशेषं सविशेषं च । तत्र निर्विशेषे शुद्धे ब्रह्मस्वरूपे मिथ्यात्वदृश्यत्वयोर्व्यतिरेकोऽस्ति । उक्तसाध्यसाधनव्यतिरेकोपहिते सविशेषे ब्रह्मणि च दृश्यत्वमप्यस्ति तेन तत्र मिथ्यात्वदृश्यत्वयो-र्व्यतिरेकयोः सहचारग्रहोऽप्युपपद्यते । व्यतिरेकोपाध्यवच्छिन्नदृश्यस्य ब्रह्मणोऽपि मिथ्यात्वाद् व्यभिचारोऽपि नेति भावः । नन्वदृश्यस्य ब्रह्मणः कथं दृश्यत्वं व्याहतत्वादित्यतः सदृष्टान्तमुप-पादयितुमाह ।। आकाशस्येति । यथाऽऽकाशस्य स्वाभाविकत्वास्वाभाविकत्वाभ्यामनुपहितोपहित-रूपाभ्यां चापरिच्छेदपरिच्छेदौ तथा ब्रह्मणोऽप्यदृश्यत्वदृश्यत्वे उपपद्येते तद्वदेव चाविरोधोपपत्तिरिति भावः । एतच्च वैशेषिकादिमतेन ।
विवर्तनये तु स्वत एव परिच्छिन्नत्वमाकाशस्य जन्यद्रव्यत्वादिति ज्ञेयम् । एवं न्यायदीपावली-रीत्याऽऽत्मनो वृत्तिविषयत्वमपि नास्तीति दृश्यत्वं ज्ञानविषयत्वमिति व्याख्यातम् । अधुना आनन्दबोधोक्तरीत्या तु शुद्धात्मनो वृत्तिविषयत्वेऽपि स्वव्यवहारे स्वातिरिक्तसंविदपेक्षानियतिरूपं दृश्यत्वं शुद्धात्मनि नास्तीत्यभिप्रेत्य दृश्यत्वं निर्वक्ति– यद्वेति । अद्वितीयत्वादिविशिष्टात्मगोचरे व्यवहारे स्वातिरिक्तवृत्तिरूपसंविदपेक्षाऽस्तीत्यात्मनि दृश्यत्वं मा प्रसाङ्क्षीदिति नियतिग्रहणम् । अद्वितीयत्वादि-प्रकारके आत्मगोचरव्यवहारे तदपेक्षायामपि स्फुरणरूपे नित्यसिद्धे आत्मव्यवहारे तदभावात् तत्र नियमो नास्तीत्यर्थः । न चात्मनः स्फुरणरूपनित्यसिद्धनिर्विकल्पकव्यवहारस्योपनायकप्रमाणा-पेक्षाविरहेऽप्यद्वितीयत्वाद्युपहितात्मगोचरव्यवहारे तदुपनायकप्रमाणापेक्षानियमोऽस्त्येवेति व्यभिचारस्तद-वस्थ एवेति वाच्यम् । उपहिते साध्यसद्भावेन हेतुवृत्तेरदोषत्वात् । प्रकारान्तरेण दृश्यत्वं निर्ब्रवीति । अस्वप्रकाशत्वं वेति । ननु अस्वप्रकाशत्वं स्वप्रकाशत्वविरहः । तत्र स्वप्रकाशत्वं किं स्वविषयप्रकाशत्वं उत परप्रकाशत्वम् । नाद्यः । कर्तृकर्मभावविरोधेनाद्वैतिभिरात्मन्यनङ्गीकारात् । न द्वितीयः । वेदान्त-महावाक्यजन्यसंवित्प्रकाश्यत्वेनात्मन्यसम्भवात् । एवं च प्रतियोगिनो दुर्ग्रहत्वे तद्विरहः प्रपञ्चे कथं सुग्रहः इत्यतस्तन्निर्वक्ति– स्वप्रकाशत्वं चेति । वृत्तीति । बहिरिन्द्रियद्वारा निःसृतान्तःकरणवृत्तीत्यर्थः । अत्र विशेष्यमात्रोक्तौ घटादावतिव्याप्तिरत उक्तं विशेषणम् । तावन्मात्रोक्तावतीन्द्रियेऽतिव्याप्तिरतो विशेष्यं निरदिक्षत् । आत्मनश्चिद्रूपत्वेन वृत्तीद्धचिदविषयत्वान्नासम्भवः । प्रपञ्चे विशिष्टविरहं दर्शयति -घटादाविति । घटादेस्तदाकारेन्द्रियजन्यवृत्तीद्धचैतन्यरूपफलव्याप्यतया फलाव्याप्यत्वरूपविशेषण-विरहप्रयुक्तो विशिष्टाभावस्तत्रेत्यर्थः ।। धर्मादौ त्विति । धर्मादेर्लौकिकसाक्षात्कारनियामकप्रत्य(क्षा)-नाश्रयत्वेनातीन्द्रियत्वाद्विशेष्याभावप्रयुक्तो विशिष्टाभावस्तत्रेत्यर्थः । यद्यस्वप्रकाशत्वं दृश्यत्वं हेतूकृतं, जडत्वं किमज्ञानत्वम् । तथात्वे वृत्तिभागेऽसिद्ध्यापत्तेः । अतस्तदप्येवमेव निर्वक्तव्यम् । एवं च दृश्यत्वजडत्वयोः पूर्वमुपन्यस्तयोर्हेत्वोरभेदापात इत्यत आह -अस्मिंश्चेति । असंविद्रूपत्वं अचिद्रूपत्वम् । तच्च वृत्तिरूपेऽपि ज्ञानेऽस्तीति भावः । यद्यप्युपधेयसङ्करेऽप्युपाधीनामसङ्कराज्जडत्वमनात्मत्वादिरूपतया सुवचं तथापि लाघवादिदमादृतमिति बोध्यम् ।
न्यायामृतमाधुरी
प्रतिज्ञां विशदीकृत्य हेतुं विशदयति– दृश्यत्वं चेति । दृग्विषयत्वं ज्ञानविषयत्वम् । आत्मालीकयोस्तु वृत्तिविषयतानुपगमेन नानैकान्त्यमिति भावः । यद्वेत्यभिधास्यमानकल्पान्तरं तु, ब्रह्मणि वृत्तिविषयतामुपगच्छतां मतमनुरुध्येति ध्येयम् । प्रकृतसाध्यसाधनसहचारग्रहस्य व्याप्ति-ग्रहौपयिकत्वेऽपि तत्प्रतिबन्धकीभूतानैकान्त्यशङ्कानिरासकतया प्रकृतसाध्यसाधनव्यतिरेकसहचारग्रह-स्याप्यवश्याश्रयणीयतया साध्यविनिर्मुक्तस्यापि तादृशग्रहविषयतारूपहेतुतयाऽनैकान्त्यमित्याशयेन शङ्कते– नन्विति । अनुरूपनिदर्शनप्रदर्शनेन दृश्यत्वतद्राहित्ये ब्रह्मणः सङ्घटयति– आकाश-स्येत्यादि । एवं चानुपहितवर्तिनोः साध्यसाधनव्यतिरेकयोर्नैसर्गिकतया तत्तद्व्यतिरेकोपहितवर्तिनोः साध्यसाधनयोश्च नैसर्गिकतया विरोधाभावेन सहचारग्रहोऽनैकान्त्यनिरासश्च सङ्गच्छत इत्याशयः । विवेचयिष्यति चैतत् ग्रन्थकृदेव दृश्यत्वभङ्गे ।
अथ विशिष्टगोचराधिगतेः विशेष्यविशेषणसम्बन्धावगाहितानियमेनानुपहितेऽपि ज्ञानविषयताऽन-पायिन्येवेत्यनैकान्त्यं दुर्वारमित्यरुचेराह । स्वव्यवहार इति । अद्वितीयत्वाद्युपहितात्मगोचर-व्यवहारस्य स्वातिरिक्तवृत्तिरूपसंविन्नियन्त्रिततयाऽऽत्मनोऽपि दृश्यत्वापत्तिवारणाय नियतिपदो-पादानम् । स्वातिरिक्तसंविन्नियन्त्रितत्वव्याप्यस्वव्यवहारत्वकत्वस्य पर्यवसिततया तदधीनस्फुरणरूप-नित्यसिद्धात्मव्यवहारसाधारणस्य तस्य तदव्याप्यतया क्षत्यभावात् कल्पान्तरमाश्रियते । अस्वप्रकाशत्वं वेति । अनुगत इति । विशिष्ट•)भावावगतेर्विशेष्यविशेषणसम्बन्धान्यतम•)भाव-निबन्धनत्वादिति भावः । ननु दृश्यत्वतुल्यकक्ष्यापन्नतया हेतूकृतजडत्वस्याज्ञानत्वरूपतायां वृत्ताव-सिद्धिप्रसङ्गेनास्वप्रकाशत्वरूपस्यैव परिष्करणीयतया दृश्यत्वस्यापि ताद्द्रूप्योपगतौ पौनरुक्त्यं प्रसज्यत इत्यतो अचिद्रूपत्वरूपासंविद्रूपत्वस्य जडत्वात्मैकतया दृश्यत्वस्य च दर्शितरूपतया न क्षति-रित्याशयेनाह । अस्मिंश्चेत्यादिना ।