पञ्चमेऽपि सत् किं सत्ताजातिमद्विवक्षितम्? अबाध्यं वा? ब्रह्म वा? नाद्यः
११. पञ्चममिथ्यात्वभङ्गः
न्यायामृतम्
पञ्चमेऽपि सत् किं सत्ताजातिमद्विवक्षितम्? अबाध्यं वा? ब्रह्म वा? नाद्यः । त्वन्मते घटादौ जातेस्सत्त्वात् । द्वितीये बाध्यत्वं मिथ्यात्वमिति स्यात् । तच्च निरस्तम् । न तृतीयः । सिद्धसाधनात् । नृशृृङ्गादावपि सद्रूपत्वाभावादन्यस्या-सत्त्वस्याभावेनात्यन्तासत्त्वापाताच्च । मन्मते अबाध्यत्वादिरूपस्य सत्त्वस्याभि-धेयत्वादिवत्स्वाश्रितत्वेन ब्रह्मणि सत्त्वाभावे सद्रूपत्वासिद्धेश्च । तस्मात्–
अनिर्वाच्येऽप्रसिद्ध्यादिः प्रतीते प्रतिषेध्यता ।
स्वाश्रयेऽत्यन्तविरहः सद्विलक्षणता तथा ।।
इति पक्षत्रयेऽत्यन्तासत्त्वं स्यादनिवारितम् ।
धीनाश्यत्वे त्वनित्यत्वमेव स्यान्न मृषात्मता ।।
मम त्वत्यन्तासत्त्वमेव मिथ्यात्वमिति नास्मत्प्रतिबन्दी ।
इति मिथ्यात्वनिरुक्तिभङ्गः ।।
अद्वैतसिद्धिः
सद्विविक्तत्वं वा मिथ्यात्वम् । सत्त्वं च प्रमाणसिद्धत्वम् । प्रमाणत्वं च दोषासहकृत-ज्ञानकरणत्वम्, तेन स्वप्नादिवत्प्रमाणसिद्धभिन्नत्वेन मिथ्यात्वं सिध्यति । प्रमाणसिद्धत्वं चाबाध्यत्व-व्याप्यमित्यन्यत् । अत्राप्यसति निर्धर्मके ब्रह्मणि चातिव्याप्तिवारणाय सत्त्वेन प्रतीयमानत्वं विशेषणं देयम् । तयोः सत्त्वप्रकारकप्रतीतिविषयत्वाभावात् । अत एव सद्विविक्तत्वमित्यत्र सत्त्वं सत्ता-जात्यधिकरणत्वं वा? अबाध्यत्वं वा? ब्रह्मरूपत्वं वा? आद्ये घटादावाविद्यकजातेस्त्वयाभ्युपगमेना-सम्भवः, द्वितीये बाध्यत्वरूपमिथ्यात्वपर्यवसानम्, तृतीये सिद्धसाधनमिति निरस्तम्, अनभ्युप-गमादेव । सदसद्विलक्षणत्वपक्षोक्तयुक्तयश्चात्रानुसन्धेयाः । अवशिष्टं च दृष्टान्तसिद्धौ वक्ष्यामः ।। इत्यद्वैतसिद्धौ पञ्चममिथ्यात्वनिरुक्तिः ।।
न्यायामृततरङ्गिणी
सद्विविक्तत्वमिति पक्षं दूषयति ।। पञ्चमेऽपीति ।। त्वन्मतेऽपीति ।। तथाचासम्भवः, ब्रह्मण्यतिव्याप्तिश्च ।। सिद्धसाधनादिति ।। प्रपञ्चे ब्रह्मभेदस्य मयाऽप्यङ्गीकृतत्वादित्यर्थः । ‘सद्रूपत्वाभावः’ इत्यस्य ब्रह्मण्यतिव्याप्तिश्चेत्याह – मन्मत इति ।। ननु ब्रह्मणः सत्त्वाभावेऽपि न सद्रूपत्वासिद्धिः । सत्त्वे सत्त्वान्तराभावेऽपि सद्रूपत्वमिव ब्रह्मणोऽपि तथात्वोपपत्तेरित्यत उक्तम् – सत्त्वस्याभिधेयत्ववत् स्वाश्रितत्वेनेति ।। ननु सत्त्वस्य स्वाश्रितत्वे आत्माश्रयः स्यात् । अभिधेयत्वे तु नात्माश्रयः । अभिधेयत्वेऽप्यभिधानविषयत्वस्य प्रमितत्वादित्यत उक्तम्– अबाध्यत्वादिरूपस्येति ।। यथा घटादावबाध्यत्वेन तादृशं सत्त्वम्, तथाऽबाध्यत्वस्याप्य-बाधितत्वात् तादृशसत्त्ववत्त्वं प्रमितम् । अतो नात्माश्रयदोष इति भावः ।
अत्र वदन्ति – ‘प्रमाणसिद्धत्वमेव सत्त्वम् । प्रमाणत्वं च दोषासहकृतज्ञानकरणत्वम् । तेन स्वप्नादिवत् प्रमाणसिद्धभिन्नत्वेन मिथ्यात्वं सिद्ध्यति । प्रमाणसिद्धत्वं चाबाध्यत्वव्याप्य-मित्यन्यत् । अथाप्यसति निर्धर्मके ब्रह्मणि चातिव्याप्तिवारणाय सत्त्वेन प्रतीयमानत्वं विशेषणं देयम्, तयोः सत्त्वप्रकारकप्रतीतिविषयत्वाभावादि’ति ।
अत्रोच्यते; प्रमाणासिद्धत्वस्य सुखादौ तव मते सत्त्वेऽपि घटादावसत्त्वादव्याप्तिः । यच्चोक्तं ‘प्रमाणसिद्धत्वमबाध्यत्वव्याप्यमि’ति, तन्न । प्रमाणासिद्धस्यापि ब्रह्मणोऽबाध्यत्वात्, प्रमाणसिद्धस्यापि प्रपञ्चस्य बाध्यत्वाच्चेति ।।
संगृह्णाति – तस्मादिति ।। अनिर्वाच्ये सदसद्विलक्षणत्वे । प्रतीते प्रतिपन्नोपाधौ । प्रतिषेध्यता त्रैकालिकनिषेधप्रतियोगित्वम् । ननु तव मते शुक्तिरजतादेर्मिथ्यात्वात् त्वयाऽपि तत् निर्वक्तव्यम्, इति न ममैव पर्यनुयोग इत्यत आह– मम त्विति ।। मदभिमतं मिथ्यात्वं तु न त्वया प्रपञ्चस्येष्यत इति भावः ।।
मिथ्यात्वपक्षाः पञ्चत्वं प्रापिताः पूर्वपक्षिभिः ।
दूरं निरस्तास्ते तर्कैरिति संशृृणवामहै ।।
व्यासाद्रिसृततर्काम्बुपूरैः पक्षयुगं युजि ।
न्यायामृततरङ्गिण्यां मिथ्याभावोक्तिभङ्ग ऐत् ।।
न्यायामृतकण्टकोद्धारः
पञ्चमेऽपीति ।। अत्र कश्चित् – सत्त्वं प्रमाणसिद्धत्वम् । तथा च प्रमाणसिद्धभिन्नत्वं मिथ्यात्वम् । न च निर्धर्मके ब्रह्मण्यसति चातिव्याप्तिरिति वाच्यम्; सत्त्वप्रकारकप्रतीतिविषयत्वे सतीति विशेषणस्य दत्तत्वात् । तयोश्च सत्त्वप्रकारकप्रतीतिविषयत्वाभावात् – इत्याह,तन्न । ब्रह्मण्यसति चातिव्याप्तेः । तयोरपि ‘‘तत् सत्यम्’’ ‘‘तद्वैक आहुरि’’त्यादिना सत्त्वप्रकारक-प्रतीतिविषयत्वात् । न च प्रतीतिपदं प्रमापरमिति वाच्यम् । व्याहतत्वेन साधयितुमशक्यत्वात् । शुक्तिरूप्यादावव्याप्तेश्चेत्यलमतिप्रसङ्गेन ।
एतेन – नृसिंहाश्रमेणोक्तं ‘स्वानधिकरणानधिकरणात्यन्ताभावप्रतियोगित्वं मिथ्यात्व-मि’ति तल्लक्षणम् । अस्यार्थः – स्वस्य मिथ्यात्वधर्मिणः शुक्तिरजतस्य यदनधिकरणं घटादि, तदधिकरणं न भवति यस्यात्यन्ताभावस्य, तत्प्रतियोगित्वमिति । शुक्तिरूप्यादेर्घटादि-निष्ठाभावादन्य एव ‘नेदं रजतमि’ति प्रतीयमानोऽभावः । स च तदधिकरणं ब्रह्मेत्युक्तमिति नासम्भवः । प्रमाणं त्वत्र स्वसमानाधिकरणात्यन्ताभावप्रतियोगि शुक्तिरजतम्, स्वानधिकरण-मात्रावृत्त्यत्यन्ताभावाप्रतियोगि, दृश्यत्वात्; संयोगवत् । स्वाधिकरणवृत्त्यत्यन्ताभाव-प्रतियोगित्वेनार्थान्तरत्ववारणाय पक्षविशेषणम् । एतत् साध्यं त्वत्यन्ताभावस्य रजताधिकरण-कत्वेन, अवृत्तित्वेन वा सिद्ध्यति । तत्र च पक्षविशेषणमहिम्ना प्रथमस्य पक्षे बाधाद-वृत्त्यत्यन्ताभावप्रतियोगित्वमेव सिद्ध्यति, इत्युक्तमिथ्यात्वसिद्धिः । न च घटादौ व्यभिचारः; तस्य पक्षसमत्वादिति – निरस्तम्; अत्राप्यत्यन्ताभावस्य पारमार्थिकत्वादिदूषणग्रासात् । न च अत्यन्ताभावस्य ब्रह्मरूपत्वात् पारमार्थिकत्वेन नाद्वैतहानिरिति वाच्यम् । सोपाधिक-निरुपाधिकयोरैक्यासम्भवस्योक्तत्वात् । किञ्च – ‘अत्र रजतं ने’ति प्रतीत्या ‘‘नेह नाने’’ति श्रुत्या च प्रतीयमानात्यन्ताभावस्य ब्रह्माधिकरणत्वेन प्रतीत्याऽऽधाराधेययोश्च भेदस्याऽवश्यकत्वेन तयोरभेदानुपपत्तिः । अपि चाभावद्वैविध्यकल्पने प्रमाणाभावात् शुक्तिरूप्यादावव्याप्तिः; तदत्यन्ताभावस्य पारमार्थिकत्वायोगात् । न च – तत्रापि ब्रह्मैवाधिष्ठानम्; ‘इदमि’ति शुक्तेरधिष्ठानत्वेन प्रतीतेः । एकेनैवाभावेन प्रतीति–व्यवहारोपपत्तेश्चानुमानमर्थान्तरताग्रस्तम् । अवृत्त्यत्यन्ताभावप्रतियोगित्वस्याऽकाशात्यन्ताभावादाविव सत्त्वेनाऽप्युपपत्तेः । न च अभावैक-स्वभावोऽभावो विवक्षित इति वाच्यम् । ब्रह्मस्वरूपात्यन्ताभावस्याभावैकस्वभावत्वासिद्धेः । किञ्च ब्रह्मणि दृश्यत्वस्याग्र उपपादयिष्यमाणत्वेन तत्र व्यभिचाराद् विपक्षे बाधकाभावेना-प्रयोजकत्वम् । न च अपरोक्षतया प्रतीयमानस्य रजतस्य तत्र सत्त्वे त्रैकारिकाभाव-प्रमानुपपत्तिरिति वाच्यम् । असत्त्वेनाप्युपपत्तेः । न चासत्त्वेऽपरोक्षप्रतीतिविषयत्वानुपपत्तिः । परोक्षप्रतीतिविषयत्ववदपरोक्षप्रतीतिविषयत्वस्याप्युपपत्तेः । न चेन्द्रियसंनिकर्षाभावे कथमपरोक्ष-प्रतीतिविषयत्वमिति वाच्यम् । प्रातिभासिकवद् दोषवशेनासन्निकृष्टस्यापि प्रत्यक्षविषयत्वोप-पत्तेरिति दिक् ।
न्यायामृतप्रकाशः
पञ्चमे सद्विविक्तत्वपक्षे ।। सत्त्वादिति ।। तथाचान्योन्याभावस्य प्रतियोगितावच्छेदकविरुद्धत्वा-त्सत्ताजातिमद्विविक्तत्वाभावादसम्भव इति भावः ।। सिद्धसाधनादिति ।। ब्रह्मवैलक्षण्याङ्गीकारादिति भावः । सद्विविक्तत्वं नाम सद्रूपत्वाभाव इत्यर्थस्योक्तत्वात्पक्षेऽत्यन्तासत्त्वापत्तिरित्याह– नृशृङ्गा-दावपीति ।। अनेन मिथ्यात्वलक्षणस्य नृशृङ्गादावतिव्याप्तिश्च स्यादिति सूचितं भवतीति ज्ञातव्यम् । ब्रह्मण्यपि सद्रूपत्वाभावस्य सत्त्वादतिव्याप्तिश्च स्यादित्याह– मन्मत इति ।। सत्त्वरूपधर्मस्य निर्धर्मकब्रह्मण्यभावेन सद्रूपत्वमपि तत्र नास्ति । ननु ब्रह्म सत्त्वरहितत्वात्सद्रूपं न भवतीत्युक्तौ सत्त्व एव व्यभिचारस्स्यात् । आत्माश्रयप्रसङ्गेन सत्त्वे सत्त्वाभावात् । सत्त्वं सदिति प्रतीत्यासद्रूपत्वं चास्तीति चेन्न । अबाध्यत्वादिरूपसत्त्वस्याभिधेयत्वादिवत्स्वाश्रितत्वांगीकारेण हेतोरेवाभावान्न व्यभिचारः । तथाचात्माश्रयस्य प्रामाणिकत्वेन सह्यत्वात् । ब्रह्मणि सद्रूपत्वाभावावश्यम्भावा-दतिव्याप्तिः स्यादेवेति भावः । मिथ्यात्वलक्षण पञ्चकदूषणमपि सङ्गृह्णाति ।। तस्मादिति ।। अनिर्वाच्ये सदसद्विलक्षणत्वपक्षे प्रतीते प्रतिपन्नोपाधौ प्रतिषेध्यता त्रैकालिकनिषेधप्रतियोगित्वं, धीनाश्यत्वे ज्ञाननिवर्त्यत्वपक्षे ।
ननु भवन्मतेपि शुक्तिरजतादेर्मिथ्यात्वात्त्वयापि तन्निर्वक्तव्यमेवेति न ममैव पर्यनुयोग इत्यत आह– ममत्विति ।। मदभिमतं मिथ्यात्वं तु न त्वया प्रपञ्चस्याङ्गीकर्तुं शक्यम् । सदसद्वै-लक्षण्याङ्गीकारेणाप सिद्धान्तापातानितिभावः ।।
न्यायकल्पलता
सद्विविक्तत्वं मिथ्यात्वमित्यन्तिमपक्षं निराचष्टे– पञ्चमेऽपीति । तत्र सच्छब्दार्थं त्रेधा विकल्पाद्या-भावे हेतुमाह । त्वन्मतेऽपीति । तथा च मिथ्यात्वलक्षणस्य सत्ताजातिमद्रूपत्वान्ताभावस्यासम्भवः लक्ष्यावृत्तित्वात् । वैशेषिकाद्यङ्गीकृतपरजात्यनभ्युपगमेऽपि व्यावहारिकसत्तायाः स्वीकृतत्वात् । यदि तु व्यावहारिकसद्रूपत्वात्यन्ताभावस्तथापि असम्भवः । अथ व्यवहारे भट्टनय इति मायावादिभिरङ्गीकारात् सच्छब्दार्थः सत्तापरजातिस्तदा जातिजातिमतोर्भेदात् तद्रूपत्वविरहः प्रपञ्चेऽस्तीति सिद्धसाधनम् । यदि च तार्किकाङ्गीकृतपरजातिमद्रूपत्वात्यन्ताभावस्तदा द्रव्यादित्रयेऽव्याप्तिः । सामान्यादौ तु सिद्धसाधनम् । ब्रह्मण्यतिव्याप्तिश्च । कल्पितात्मसद्भावादस्ति ब्रह्मणि कल्पितपरजातिमद्रूपत्वमिति चेत् तर्हि असम्भवस्तदवस्थ एव । कल्पितस्य तादृक्सरूपत्वस्य प्रपञ्चेपि सत्वात् ।
अबाध्यं सच्छब्दार्थ इति पक्षं दूषयति । द्वितीय इति । तच्चेति । अन्योन्याश्रयादिदूषण-कलापेनापाकृतमित्यर्थः । एतेन पारमार्थिकसद्रूपत्वात्यन्ताभाव इत्यपि निरस्तम् । प्रातिभासिक-सद्रूपत्वाभावश्चेत् सिद्धसाधनम् । ब्रह्म सच्छब्दार्थ इत्यन्तिमपक्षं निराह । न तृतीय इति । ब्रह्म-वैलक्षण्यस्य प्रपञ्चे मयाङ्गीकृतत्वेन सिद्धसाधनादित्यर्थः । किञ्च प्रपञ्चास्यासद्विलक्षणस्वरूपमनुपमृद्य पारमार्थिकत्वाकारेण सद्रूपत्वात्यन्ताभाव उत स्वरूपेण । नाद्यः । निर्धर्मके ब्रह्मणीव सत्त्वेऽप्युप-पत्यार्थान्तरात् । द्वितीयाभावे हेतुमाह । नृशृृङ्गादावपीति । तथा चापसिद्धान्तो वेदान्तिब्रुवत्वात् स इदं सर्वमसृजतेत्यादिश्रुत्यादिविरोधश्चेति भावः । किञ्च । अबाध्यं सच्छब्दार्थ इति पक्षेऽप्युक्तमिथ्यात्व-लक्षणस्य ब्रह्मण्यतिव्याप्तिः । निर्विशेषब्रह्मवादिमते ब्रह्मणः सत्त्वाभावेन सद्रूपत्वाभावात् । कथ-मित्यतोऽतिव्याप्तिमुपपादयति । मन्मत इति । ननु ब्रह्मणः सत्त्वाभावेऽपि न सद्रूपत्वासिद्धिः । सत्त्वे सत्त्वान्तराभावेऽपि सद्रूपत्वमिव ब्रह्मण्यपि तथात्वोपपत्तेः । अन्यथा त्वन्मतेपि सत्वमसत्स्यादित्यत उक्तम् सत्त्वस्याभिधेयत्त्वादिवत् स्वाश्रितत्वेनेति । ननु सत्त्वस्य स्वाश्रितत्वे आत्माश्रयः स्यादभि-धेयत्वे तु नात्माश्रयस्तत्राप्यभिधानविषयत्वस्य प्रमितत्वादतः सत्वं विशेषितमबाध्यत्वादिरूपस्येति । यथा घटादावबाध्यत्वेन प्रमितत्वात्तादृशं सत्त्वं तथाऽबाध्यत्वेऽप्यबाध्यत्वस्य प्रमितत्वा-त्तादृशसत्त्ववत्वमप्रत्यूहमेव प्रमितमतो नात्माश्रयदोष इत्यर्थः ।
अत्राहुरभिनवाद्वैतवादिनः । सद्विविक्तत्वं वा मिथ्यात्वम् । सत्त्वं च प्रमाणसिद्धत्वम् । प्रमाणत्वं च दोषासहकृतज्ञानकरणत्वम् । तेन स्वप्नादिवत्प्रमाणसिद्धभिन्नत्वेन मिथ्यात्वं सिद्ध्यति । प्रमाणसिद्धत्वं चाबाध्यत्वव्याप्यमित्यन्यत् । अत्राप्यसति निर्धर्मके ब्रह्मणि चातिव्याप्तिवारणाय सत्त्वेन प्रतीयमानत्वं विशेषणं देयम् । तयोः सत्त्वप्रकारकप्रतीतिविषयत्वाभावात् । अत एव सद्विविक्तत्वमित्यत्र सत्त्वं सत्ताजात्यधिकरणत्वं वा अबाध्यत्वं वा ब्रह्मस्वरूपत्वं वा । आद्ये घटादावाविद्यकजातेस्त्वयाऽभ्युप-गमेनासम्भवः । द्वितीये बाध्यत्वरूपमिथ्यात्वपर्यवसानम्् । तृतीये सिद्धसाधनमिति निरस्तम् । अनभ्युपगमादेवेति ।
तत्र ब्रूमः । यत्तावदुक्तं प्रमाणसिद्धत्वमेव सत्त्वमिति । तदसत् असति प्रमाणाप्रवृत्त्या प्रमाण-प्रवृत्त्यौपयिकस्य सत्त्वस्य प्रमाणसिद्धत्वान्यस्यैव वक्तव्यत्वात् । प्रमाणसम्बन्धात् प्राक् सत्त्वाभावापत्तेश्च । अवच्छेदकधर्मानिरुपणे योग्यताया एव परिचेतुमशक्यत्वात् । प्रमाणेन ब्रह्मणः सम्बन्धासम्भवेन तत्सिद्धत्वानुपपत्तेश्च । आध्यासिकसम्बन्धाङ्गीकारे च प्रपञ्चवद् ब्रह्मणोऽपि स्वज्ञानेऽध्यासाङ्गी-कारापाताच्च । किञ्च प्रमाणसिद्धभिन्नत्वं प्रपञ्चस्य कथम् अभिसंहितम् । किं यावत्प्रमाणसिद्धभिन्नत्वं, यत्किञ्चित्प्रमाणसिद्धभिन्नत्वं वा । नाद्यः । औपनिषदत्वविरोधात् । नावेदविन्मनुतेदं बृहन्तम् । नेन्द्रियाणि नानुमानं वेदा ह्येवैनं वेदयन्ति । नैषा तर्केणेत्यादिश्रुतिविरोधाच्च । पराप्रकाश्यत्वलक्षण-स्वोक्तस्वप्रकाशत्वव्याघाताच्च । दृश्यत्वहेतोरनैकान्त्यापाताच्च । यथायथं प्रत्यक्षानुमानागमसिद्धान् पदार्थान् पक्षीकृत्यानुमित्सितत्वेन लक्षणासम्भवश्च । किञ्चैवमप्रामाणिकत्वं पर्यवसितं तत्प्रपञ्चग्राहि-प्रत्यक्षादिप्रामाण्यसमर्थनेनापाकरिष्यते । तुच्छब्रह्मणोरतिव्याप्तेरसांप्रतं च । न द्वितीयः । ब्रह्मणोऽपि मिथ्यात्वापातात् ।
अथ तत्त्वावेदकप्रमाणसिद्धभिन्नत्वं मिथ्यात्वमिति ब्रूषे तदान्योन्याश्रयः । मिथ्यानुमानप्रामाण्ये सति वियदादिसत्त्वावेदकागमाद्यप्रामाण्यसिद्धिस्तत्सिद्धौ च बाधकाभावेन त्वदनुमानप्रामाण्यसिद्धिरिति । प्रत्यक्षादेरुपजीव्यस्य प्रामाण्यं तदुपजीवकं त्वदनुमानविरोधपरिहारानपेक्षमेव सिद्धमिति न तत्रान्योन्या-श्रयः । भेदनिराकरणानुपपत्तिश्च । विस्तरस्तूत्तरत्र भविष्यति । किं च निरुक्तप्रमाणासिद्धत्वस्य सुखादौ तव मते सत्त्वेऽपि घटादावसत्त्वादव्याप्तिः । यच्चोक्तं प्रमाणसिद्धत्वमबाध्यत्वव्याप्यमिति । तदसारम्् । त्वन्मते प्रमाणसिद्धस्यापि प्रपञ्चस्य बाध्यत्वात् । यदबाध्यं न तत्प्रमाणसिद्धमित्यपि न । अहमिति स्वप्रकाशतया सिद्धस्य त्वन्निरुक्तप्रमाणासिद्धस्यात्मनोऽबाध्यत्वात् ।
यदप्युक्तं तुच्छब्रह्मणोरतिव्याप्तिवारणाय सत्त्वेन प्रतीयमानत्वं विशेषणं देयमिति, तदपि न साधु । असतो नृशृृङ्गादेरपि सत्त्वेन शब्दाभासादिना प्रतीयमानत्वात् । सदेव सौम्येदमग्र आसीदित्यादिश्रुतौ ब्रह्मणः सत्त्वेन प्रतीयमानत्वात् । तदिदं लौकिकमाभाणकं नातिवर्तते ‘‘दत्तेप्यौषधे न शान्तो व्याधि’’रिति । यच्चोक्तमनभ्युपगमादेवेति । तदप्यसत् । सन् घट इत्यादिसत्तावगाहिप्रत्यक्षप्रतीति-विरोधात् । निर्बाधप्रतीतिसिद्धस्यार्थस्यापह्नवानर्हत्वात् । अन्यथा घटाद्य विद्यकत्वस्यानभ्युपगमनीयत्वा-पातात् । ननु भवदुक्तसच्छब्दार्थत्रयमस्त्येव तथापि प्रकृते नाभ्युपगतं किन्त्वन्यदेव सत्त्वमिति चेत् । न तस्य दूषितत्वात् । तदिदमनभ्युपगमवचनमात्मनः पश्यतो हरत्वमानयतीति क्षोदीयस्यलमति-पीडयेत्युपरम्यते । उपसंहरन्नुक्तदूषणजातं सङ्गृह्णाति । तस्मादिति । उक्तदूषणकलापस्य दुष्परिहरत्वा-दित्यर्थः । अनिर्वाच्ये सदसद्विलक्षणत्वे । प्रतीते प्रतिपन्नोपाधौ । प्रतिषेध्यत त्रैकालिकनिषेध-प्रतियोगित्वम् । स्वाश्रयेत्यन्तविरहः स्वात्यन्ताभावाधिकरण एव सत्त्वेन प्रतीयमानत्वम् । न मृषात्मतेति । ध्वस्ते घटादौ मिथ्यापदप्रयोगाभावादिति भावः ।
अथ स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमेव मिथ्यात्वलक्षणमस्तु । न च प्रतियोगि-मत्यधिकरणे स्वरूपेण तदत्यन्ताभावसाधने तेजोनुष्णत्वसाधनवद्बाधः । प्रतियोग्यवृत्तिधर्मावच्छेदेन तदत्यन्ताभावसाधने सिद्धसाधनम् । त्वन्मते प्रपञ्चात्यन्ताभावस्याधिकरणब्रह्मात्मतया प्रतियोगि-समानाधिकरणत्वायोगश्चेति देश्यम् । स्वानधिकरणानधिकरणात्यन्ताभावप्रतियोगित्वस्य विवक्षितत्वादिति चेत् । न । अत्यन्ताभावस्य प्रतियोग्यनधिकरणानधिकरणत्वं प्रतियोगिसमानाधिकरण प्रतियोगि-समानाधिकरणत्वेन वा निरधिकरणकत्वेन वा । आद्ये बाधाद्यनिस्तारात् । न द्वितीयः । शुक्तिरूप्यात्यन्ताभावस्य त्वन्मते व्यावहारिकतया निरधिकरणकत्वायोगेन दृष्टान्तस्य साध्यवैकल्यात् । न च पक्षधर्मताबललभ्यसाध्यवैकल्यमादाय दृष्टान्तदूषणे अतिप्रसङ्गः इति देश्यम् । पर्वतवृत्तिधूमस्य पर्वतीयवह्निसिद्धिमन्तरेण अनुपपत्तिवदनधिकरणकात्यन्ताभावसिद्धिं विना प्रपञ्चे दृश्यत्वस्यानुपपत्यभावेन हेतोः पक्षधर्मताबलादपि निरधिकरणकात्यन्ताभावासिद्धेरित्यलमधिकेन । ननु तव मते शुक्ति-रूप्यादेर्मिथ्यात्वात् त्वयापि तन्निर्वक्तव्यमिति न ममैव पर्यनुयोज्यत्वमित्यत आह । मम त्विति । मदभिमतं मिथ्यात्वं तु प्रपञ्चस्य त्वया नेष्यत इति न समः पर्यनुयोग इति भावः । औतिभिः स्वीयकुतर्कवृन्दतो मिथ्यात्वपक्षागदितादुराग्रहात् ।
पञ्चत्वनीता अपि तन्निराकृतेः सत्यत्वसिद्धिं जगतो लभामहे ।।
विवर्तवादिभिनर्िीतं मिथ्यात्वप्रपञ्चतां तु यत् निरस्तं तद्दूरत इति सत्तकर्ेैर्मारुतेः शुभैः ।
श्रीमद्वासयतीन्द्रार्यसत्कल्पतरुसंश्रिति ।
न्यायकल्पलतायां तु मिथ्यात्वं भङ्गमेयिवः ।।
न्यायामृतसौगन्ध्यम्
नापि सद्विविक्तत्वंं मिथ्यात्वम् । सत्त्वं च प्रमाणसिद्धत्वम् । प्रमाणत्वं च दोषासहकृतज्ञानकरणत्वम् । तेन स्वप्नादिवत् प्रमाणसिद्धभिन्नत्वेन मिथ्यात्वं सिद्ध्यति । प्रमाणसिद्धत्वं चाबाध्यत्वव्याप्यमित्यन्यत् । अत्राप्यसति निर्धर्मके ब्रह्मणि चातिव्याप्तिवारणाय सत्त्वेन प्रतीयमानत्वं विशेषणं देयम् । तयोः सत्त्वप्रकारकप्रतीतिविषयत्वाभावादिति वाच्यम् । क्लृप्तदोषराहित्यं हि प्रपञ्चग्राहकमानेऽप्यस्ति । कल्प्यदोषस्य त्वदभिमतप्रमाणेऽपि सम्भवात् ।
एतेनोपादानमप्यविद्यादोषविधया निमित्तकारणम् । तादृशकारणतानिरूपकं तत्त्वमस्यादि-वेदान्तवाक्याजन्यं ज्ञानम् । तस्य सर्वस्य भ्रमत्वादिति निरस्तम् । जगन्मिथ्यात्वसिद्धेः प्राक् त्वत्प्रलापस्य निरर्थकत्वात् ।
त्वदुक्तज्ञानं हि ब्रह्मातिरिक्ताभेदादिविषयकं चेत् । भ्रम एव । नो चेत् । प्रत्यक्षावान्तरवाक्यादिना ज्ञातब्रह्ममात्रविषयकं स्यात् । तथाचाज्ञातज्ञापकत्वाभावेन तज्जनकवेदान्तवाक्यस्याप्रमाणत्वं स्यादेव । किञ्च शुद्धब्रह्मणो वृत्त्यविषयत्वपक्षे त्वत्प्रलापस्य निरर्थकत्वाच्च ।
न्यायामृतमाधुरी
पञ्चमकल्पं निरस्यति– सदित्यादि । जातेराविद्यकजातेः । सद्रूपत्वाभाव एव मिथ्यात्वमिति निराकुरुते– मन्मत इति । तथा च ब्रह्मण्यतिप्रसङ्ग इति भावः । अत्राद्वैतसिद्धिकारः । सद्विविक्तत्वं मिथ्यात्वम् । सत्वं च प्रमाणसिद्धत्वम् । प्रमाणत्वं च दोषासहकृतज्ञानकरणत्वम् । तेन स्वप्नादि-वत्प्रमाणसिद्धभिन्नत्वेन मिथ्यात्वं सिध्यति । प्रमाणासिद्धत्वं चाबाध्यत्वव्याप्यमित्यन्यत् । अत्राप्य-सति निर्धर्मके ब्रह्मणि चातिव्याप्तिवारणाय सत्त्वेन प्रतीयमानत्वं विशेषणं देयम् । तयोः सत्त्वप्रकारकप्रतीतिविषयत्वाभावादित्यभाषत ।
तद्ग्रन्थं ब्रह्मानन्दस्तु दोषविधया ज्ञाने निमित्तकारणमविद्या । तादृशकारणतानिरूपकं तत्त्वमस्यादिवेदान्तवाक्याजन्यज्ञानं तस्य सर्वस्य भ्रमत्वादिति दोषासहकृतेत्यादि व्याचक्रे । तदुभयमतीव मन्दम् । विश्वमिथ्यात्वसिध्यधीनतया तादृशज्ञानभ्रमत्वसिद्धेरन्योन्याश्रयात् । शुद्धब्रह्मणो वृत्यविषयत्वपक्षे तत्रातिप्रसङ्गस्य दुर्वारत्वाच्च । भ्रमाजनकजन्यधीविषयान्यत्वं मिथ्यात्वमिति सुज्ञेयताप्रकारोक्तिरपि व्याकर्तुरसाध्व्येव । प्रपञ्चगोचरप्रतीतिसामान्यस्य भ्रमत्वसिध्यधीनसिद्धिकं हि तन्मिथ्यात्वं तदधीनं च तदिति परस्पराश्रयतादवस्थ्यात् ।
व्यासक्षीरार्णवोद्भूतन्यायपीयूषमाधुरीम् ।
लीढादलीकताकल्पमक्षिकाभङ्गतः सुधीः ।। ११ ।।
इति मिथ्यात्वनिरुक्तिभङ्गविवरणम् ।।