‘इन्द्रो मायाभिः पुरुरूप ईयते’ इत्यत्रापीश्वरस्य विचित्रशक्तिभिर्मत्स्या द्यनेकरूपत्वमेवोच्यते
४७. इन्द्रो मायाभिरिति श्रुत्यर्थविचारः
न्यायामृतम्
‘इन्द्रो मायाभिः पुरुरूप ईयते’ इत्यत्रापीश्वरस्य विचित्रशक्तिभिर्मत्स्या द्यनेकरूपत्वमेवोच्यते । न त्वज्ञानेन घटादिरूपत्वम् । ‘रूपं रूपं प्रतिरूपो बभूव’ इति पूर्वोक्तानां जीवाख्यप्रतिबिम्बानि प्रतिबिम्बभूत भगवद्रूपाणामेवेह रूपशब्देन प्रत्यभिज्ञानात्, उत्तरत्र च ‘अयं वै हरयोऽवं वै दश च सहस्राणि च बहूनि चानन्तानि च’ इति हरिशब्दवाच्यविष्णुरूपाणां दशत्वादिना बहु-त्वोक्तेः । ‘तदेतद् ब्रह्मापूर्वमनपरम्’ इत्यादिना तेषां रूपाणां ब्रह्मत्वोक्तेश्च । चिन्मात्रस्यैव नानारूपप्रपञ्चाधिष्ठानत्वेन परमैश्वर्यवाचीन्द्रशब्दास्वारस्याच्च । ‘मायां तु प्रकृतिं विद्यात्’ इत्यस्यापि मायया सन्निरुद्ध इति पूर्वोक्ता या माया सा प्रकृतिः त्रिगुणात्मकं प्रधानमित्यर्थः । न तु या प्रकृतिर्जगदुपादानं सा माया मिथ्येति पूर्वनिर्दिष्टस्य मायाशब्दार्थस्य बुभुत्सितत्वात् प्राथम्येन मायाया एवोद्देश्यत्वाच्च । प्रकृतिशब्दस्य श्रुतिषु प्रधाने प्रसिद्धत्वाच्च । मायाशब्दस्य सत्येऽपि प्रयोगाच्च ।
।। इति इन्द्रो मायाभिरित्यादिश्रुत्यर्थः ।।
न्यायामृततरङ्गिणी
ननु ‘इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच तदेतदृषिः पश्यन्नवोचत् । रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शतादशेत्ययं वै हरयोऽयं वै दशसहस्राणि बहूनि चानन्तानि तदे-तद्ब्रह्मापूर्वम् अनपरमनन्तरमबाह्यमयमात्मा ब्रह्मा सर्वानुभूरित्यनुशासनम्’ इति श्रुतौ सर्वस्य ब्रह्मरूपत्वं प्रतिपाद्यते । तथा हि बृहदारण्यकभाष्ये व्याख्यातम् । यन्मधु प्रवर्ग्यप्रकरणे सूचितं नाविष्कृतम् इहापि इयं पृथिवीत्यादिना पूर्वम् अनन्तरनिर्दिष्टं यच्च त्वाष्ट्रं यद्दस्रावपि कक्ष्यं वाम्’ इत्यत्र कक्ष्यशब्देन निर्दिष्टं कक्ष्यं गोप्यम् आत्म-सम्बन्धित्वात्तद्विज्ञानाख्यं मधु प्रस्तुतम् । तदिदं मधु अथर्वणः कुले भवो दध्यङ् एतन्नामा ऋषिः अश्विभ्यामुवाच ।
कीदृशं तदात्मज्ञानरूपं मधु इत्याशङ्कायामुच्यते तदेतत् मधु ऋषिर्मन्त्रः पश्यन्नपि रूपं रूपमित्यनेन मन्त्रेण । परमेश्वर एव हि नामरूपे कुर्वाणो यादृक्-संस्थानौ मातापितरौ तत्संस्थानस्तादृग्रूप एव पुत्रादिरूपेण जायते । न हि चतुष्पदो द्विपाज्जायते । द्विपदो वा चतुष्पात् । किमर्थं पुनः प्रतिरूपागमनं तस्येत्यत उच्यते तदस्यात्मनो रूपं प्रतिचक्षणाय प्रतिख्यापनाय । यदि हि कार्यकारणात्मना नामरूपे न व्याक्रियेते तदास्यात्मनो निरुपाधिकं प्रज्ञानघनाख्यं रूपं न प्रतिख्यायेत । इन्द्रः परमेश्वरो नामरूपमिथ्याभिमानरूपाभिर्मायाभिः न तु परमार्थतः पुरुषो बहुरूपो बभूव एकरूप एव सन् । कस्मात्पुनः कारणात् । रथे वाजिन इव, स्वविषय प्रकाशनाय हि यस्मात् हरणात् इन्द्रियाख्या हरयः युक्ताः सम्बद्धाः । ते च प्राणि-भेद बाहुल्यात् शता शतानि दश च । तस्मादिन्द्रियविषयबाहुल्यात्तत्प्रकाशनायैव युक्तानीन्द्रियाणि नात्मानं प्रकाशयन्ति । पराञ्चि खानि व्यतृणात् स्वयम्भूरिति हि काठके । तस्मात्तैरेव विषयस्वरूपैरीयते न प्रज्ञानघनेन स्वेन रूपेण ।
एवं तर्ह्ययमन्यः परमेश्वरोऽन्ये च हरय इति प्राप्त उच्यते । अयं वै हरयोऽयं वै दशेत्यादि, प्राणिबाहुल्यात् । किं बहुना तदेतद् ब्रह्मणः आत्मा अपूर्वं नास्य कारणं पूर्वं वर्तते अनपरं नास्यापरं कार्यं वर्तते नास्य जात्यन्तरमन्तराले विद्यत इत्य-नन्तरम् । नास्य बहिर्वर्तत इत्यबाह्यम् । किं पुनस्तन्निरन्तरं ब्रह्म अयमात्मा कोऽसौ यः प्रत्यगात्मा श्रोता द्रष्टा मन्ता विज्ञाता सर्वात्मना सर्वमनुभवतीति सर्वानुभूः । इत्येतदनुशासनं सर्ववेदान्तोपदेश इति । तस्मादिदमद्वैते मानमित्य-तस्तद्व्याख्याति– इत्यत्रापीति ।। न ह्यत्र पूर्वार्धर्चे पितृसम्बन्धेन बहुरूपत्वं परमेश्वरस्योच्यते किन्तु जीवाख्यप्रतिबिम्बान्प्रति तदुपास्यानि बिम्बाख्यानि भगवद्रूपाणि । तान्येवोत्तरार्धर्चेऽपि रूपशब्देन प्रत्यभिज्ञायन्ते । तथा च काठके ।
वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ।
सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः ।
एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ।
इत्यादिना पुण्यपापदुःखादिसम्बन्धरहितानि भगवद्रूपाण्युच्यन्ते न तु तद्वन्ति पितृजन्यानि जीवरूपाणि । मन्त्रान्तरं च ।
रूपं रूपं मघवा बोभवीति मायाः कृण्वानस्तन्वं परिस्वाम् ।
त्रिर्यद्दिवः परिमुहूर्तमागात् स्वैर्मन्त्रैरनृतुपा ऋतावा ।
अस्यार्थो माधवीये । मघवा धनवानिन्द्रो यद्यद्रूपं कामयते तत्तद्रूपं बोभवतीति तत्तद्रूपात्मको भवति । तत्र कारणमुच्यते मायाः कृण्वानः मायाः प्रज्ञाः । तन्नामसु पाठात् । अनेकरूपग्रहणसामर्थ्यानि आविष्कुर्वन् । तर्हि तानि रूपाणि पित्रादि जन्यानि किं, नेत्याह तन्वं परिस्वां पञ्चम्यर्थे परिः । स्वतनोः सकाशादाविष्क-रोति । स्वां तनुं नानाविधरूपोपेतां करोति । यद्यस्मात् स्वैर्मन्त्रैः स्वकीयैः स्तुतिलक्षणै र्वाक्यैराहूतः अनृतुपाः न केवलमृतुष्वेव पिबति किन्तु अनृतुष्वपि बहुशः सोमं पिबन्नित्यर्थः । ऋतावा सत्यवान् । सत्यजगत्कर्तेति यावत् । त्रिः त्रिषु सवनेषु । आगात् आगच्छति । एवं महाभागः परमेश्वरो नानारूपो भवतीति युक्तमेव । बोभवीतीति यङ्लुगन्तम् । आगात् इणो लुङि रूपम् । यद्वृत्तयोगा-न्निघाताभावः । तस्मात्पूर्वार्द्धर्चे भगवद्रूपाण्येव रूपशब्देन प्रस्तुतानि ।
मायाशब्देन प्रज्ञापरपर्याया शक्तिरुच्यते । माया प्रज्ञा वयुनमिति नैघण्टु-वचनादित्याह– विचित्रशक्तिभिरिति ।। हरिशब्देनापि नेन्द्रियाणि, लक्षणापत्तेः । दशादिसङ्ख्याया अस्वारस्यं वा । किन्तु रूढ्या भगवद्रूपाणि निर्दिश्यन्त इत्याह– उत्तरत्र चेति ।। बुभुत्सितत्वादिति ।। तथा च माया व्याख्येया, प्रकृतिस्त-द्व्याख्यानम् इत्यर्थः ।। सत्येऽपीति ।। मन्त्रौषधादावित्यर्थः ।।
न्यायामृतकण्टकोद्धारः
नन्विन्द्रो मायाभिरित्यत्र मायाभिरज्ञानैर्घटादिबहुरूपत्वस्योक्तत्वात् अज्ञानकल्पितत्व इयमेव श्रुतिः प्रमाणमित्यत आह– इन्द्र इति । नन्वत्र रूपशब्देन भगवद्रूपमेव विवक्षितमिति कुत इत्यत्राह रूपं रूपमिति । भगवान् रूपं रूपं जीवाख्यप्रतिबिम्बानि प्रति प्रतिरूपो बिम्बरूपो बभूव । तद् भगवतो रूपम् अस्य जीवस्य प्रतिचक्षणाय दर्शनाय भवतीति भगवद्रूपाणामेव सन्निहितत्वात् तत्परित्यागेना-सन्निहितघटादिरूपग्रहणायोग इति भावः । ननु भगवद्रूपाणां बहुत्वम् अप्रामाणिक-मित्यत आह– उत्तरत्रेति । ननु येषां बहुत्वमुक्तं हरिशब्दवाच्यानां तेषां ब्रह्मत्वं कुत इत्यत आह– तदेतदिति । मायाशब्दस्य शक्तिवाचित्वं प्रसिद्धमेवेति भावः । ननु मायां तु प्रकृतिं विद्यादित्यत्र प्रकृतिमनूद्य तस्या मायात्वं मिथ्यात्वं निश्चीयते । तदनु-रोधादत्रापि मायाशब्दस्य मिथ्यार्थकत्वमित्यत आह– मायां त्विति । अत्र मायामुद्दिश्य प्रकृतित्वं विधीयते । अतो नैतस्य मिथ्यात्वपरत्वमिति भावः । मायाशब्दार्थस्योद्देश्यत्वं कुत इत्यत आह– पूर्वेति । ननु दध्ना जुहोतीत्यत्र पश्चादुक्तस्यापि होमस्योद्देश्यत्वं दृष्टम् । तदिहापि किं न स्यादित्यत आह– प्रकृतिशब्दस्य इति । तथा च माया-शब्दस्याप्रसिद्धार्थत्वं तस्यैवोद्देश्यत्वमिति भावः । मायाशब्दस्येति । महामायेत्यस्यां श्रुताविति भावः ।
न्यायामृतप्रकाशः
इन्द्रो मायाभिरिति ।। अज्ञानेन घटपटादिबहुरूपत्वस्यात्रोक्तत्वात् । तच्च तदारोपा-धिष्ठानत्वमेवेति मिथ्यात्वसिद्धिरिति भावः । रूपशब्देनेति ।
।। इति इन्द्रो मायाभिरिति श्रुत्यर्थविवरणम् ।।
न्यायकल्पलता
ननु ‘इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच तदेतदृषिः पश्यन्नवोचत् । रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शतादशेत्ययं वै हरयोऽयं वै दशसहस्राणि बहूनि चानन्तानि तदेतद्ब्रह्मापूर्वमन-परमनन्तरम बाह्यमयमात्मा सर्वानुभूरित्यनुशासनम्’ इति बृहदारण्यके सर्वस्य ब्रह्मरूपत्वं प्रतिपाद्यते । तथा हि तद्भाष्ये शाङ्करीये व्याख्यातम् । यन्मधुप्रवर्ग्यप्रकरणे सूचितं नाविष्कृतम् । इहापि इयं पृथिवीत्यादिना पूर्वमनन्तरनिर्दिष्टम् । यच्च त्वाष्ट्रं ‘यद्दस्रावपि कक्ष्यं वाम्’ इत्यत्र कक्ष्यशब्देन कीर्तितम् । कक्ष्यं गोप्यम् । आत्मसम्बन्धित्वात्तद्विज्ञानाख्यं मधु प्रस्तुतम् । तदिदं मधु अथर्वणः कुले भवो दध्यङ् एतन्नामा ऋषिः । अश्विभ्या-मुवाच । कीदृशं तदात्मज्ञानरूपं मधु इत्याशङ्कायामुच्यते । तदेतन्मधु ऋषिर्मन्त्रः पश्यन्नुवाच । रूपं रूपमित्यनेन मन्त्रेण । परमेश्वर एव हि नामरूपे व्याकुर्वाणो यादृक्संस्थानौ मातापितरौ तत्संस्थानस्तादृग्रूप एव पुत्रादिरूपेण जायते । न हि चतुष्पदो द्विपाज्जायते । द्विपदो वा चतुष्पात् ।
किमर्थं पुनः प्रतिरूपागमनं तस्येत्यत उच्यते तदस्यात्मनो रूपम् । प्रतिचक्षणाय प्रतिख्यापनाय । यदि हि कार्य कारणात्मना नामरूपे न व्याक्रियेते तदाऽस्यात्मनो निरुपा धिकं प्रज्ञानघनाख्यं रूपं न प्रतिख्यायेत । इन्द्रः परमेश्वरो नामरूपमिथ्याभिमान-रूपाभिर्मायाभिः । न तु परमार्थतः । पुरुषो बहुरूपो बभूव एकरूप एव सन् । कस्मा-त्पुनः कारणात् । रथे वाजिन इव स्वविषयप्रकाशनाय । हि यस्मात् । हरणात् । इन्द्रियाख्याः हरयः युक्ताः सम्बद्धाः । ते च प्राणिभेदबाहुल्यात् । शता शतानि दश च । तस्मादिन्द्रियविषयबाहुल्यात् । तत्प्रकाशनायैव युक्तानीन्द्रियाणि नात्मानं प्रकाशयन्ति । ‘पराञ्चि खानि व्यतृणात्स्वयम्भूः’ इति हि काठके । तस्मात्तैरेव विषयस्वरूपमीयते न प्रज्ञानघनेन स्वेन रूपेण ।
एवं तर्ह्ययमन्यः परमेश्वरः, अन्ये च हरय इति प्राप्ते उच्यते ‘अयं वै हरयोऽयं वै दश’ इत्यादि । प्राणिबाहुल्यात् । किं बहुना । तदेतद्ब्रह्म य आत्मा अपूर्वं नास्य कारणं पूर्वं वर्तते । अनपरम् नास्यापरं कार्यं वर्तते । नास्य जात्यन्तरमन्तराले विद्यत इत्यनन्तरम् । नास्य बहिर्वर्तत इत्यबाह्यम् । किं पुनस्तन्निरन्तरम् । ब्रह्म अयमात्मा । कोऽसौ यः प्रत्य-गात्मा श्रोता द्रष्टा मन्ता विज्ञाता सर्वात्मना सर्वमनुभवतीति सर्वानुभूः । इत्येतदनु शासनम् सर्ववेदान्तोपदेश इति । तस्मादिदमद्वैते मानमित्यतस्तत्र कर्तृप्रतीकं गृहीत्वा व्याख्याति– इन्द्र इति ।। न ह्यत्र पूर्वार्धर्चे पितृसम्बन्धेन बहुरूपत्वं परमेश्वरस्योच्यते किन्तु जीवाख्य प्रतिबिम्बान्प्रति तदुपास्यानि बिम्बाख्यानि भगवद्रूपाणि तान्येवोत्तरार्धेऽपि रूपशब्देन प्रत्यभि ज्ञायन्ते । तथा च काठके–
‘वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ।
सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः ।
एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्य ।
इत्यादिना पुण्यपापदुःखादिसम्बन्धरहितानि भगवद्रूपाण्युच्यन्ते न तु तद्वन्ति पितृ-जन्यानि जीवशरीराणि । यथा भुवनं प्रविष्टः वायुर्मुख्यचेतनवायुर्जगच्चेष्टक एकः अन्यो नास्ति । अचेतनवायोः स्वातन्त्र्याभावात् । तथा सर्वभूतान्तरात्मा विष्णुरेकः । अन्यः स्वतन्त्रो जगच्चेष्टको न । यथा चाचेतनवायुस्तस्य प्रधानवायोः रूपं रूपं प्रति प्रतिरूपः प्रतिनियतस्वरूपोऽस्ति तथा जीवोऽपि विष्णोः रूपं रूपं प्रति नियामकं रूपं प्रति प्रतिरूपोऽस्ति । प्रतिनियतं सदृशं रूपं स्वरूपं यस्य स प्रतिरूपः । (च इति परां बहिः) स्वरूपं न नितरां भिन्न इत्यर्थः । तथा बाह्योऽसङ्गः परमात्मा, जीवदुःखेन न लिप्यत इति । मन्त्रान्तरं च बह्वृचा आमनन्ति–
रूपं रूपं मघवा बोभवीति मायाः कृण्वानस्तन्वं परिस्वाम् ।
त्रिर्यद्दिवः परिमुहुर्तमागात्स्वैर्मन्त्रैरनृतुपा ऋतावा ।।
अस्यार्थो माधवीये । मघवा धनवानिन्द्रो यद्यद्रूपं कामयते तत्तद्रूपं बोभवीति तत्तद्रूपात्मको भवति । तत्र कारणमुच्यते । मायाः कृण्वानः, मायाः प्रज्ञाः । तन्नामसु पाठात् । अनेकरूपग्रहणसामर्थ्यानि आविष्कुर्वन् । तर्हि रूपाणि पित्रादिजन्यानि किं, नेत्याह– तन्वं परिस्वाम् । पञ्चम्यर्थे परिः । स्वतनोः स्वदेहादाविष्करोति । स्वां तनुं नानाविधरूपोपेतां करोति । यद्यस्मात् स्वैर्मन्त्रैः स्वकीयैः स्तुतिलक्षणैर्वाक्यैराहूतः । अनृतुपाः न केवलं ऋतुष्वेव पिबति किन्तु अनृतुष्वपि बहुशः सोमं पिबन्नित्यर्थः । ऋतावा ऋतवान् । सत्यजगत्कर्तेति यावत् । तादृशः इन्द्रः दिवः स्वर्गलोकात् । परिमुहूर्तम् एकस्मिन्नेव मुहुर्ते नानादेशवर्तिषु यज्ञेषु तत्रापि, त्रिः त्रिषु सवनेषु आगच्छति । एवं महाभागः परमेश्वरो नानासद्रूपो भवतीति युक्तमेव । बोभवतीति यङ्लुङन्तम् । आगात् इणो लुङि रूपम् । यद्वृत्तयोगान्निघाताभावः । तस्मात्पूर्वार्धर्चे भगवद्रूपाण्येव रूपशब्देन प्रस्तुतानि । मायाशब्देन प्रज्ञापरपर्याया शक्तिरुच्यते । माया प्रज्ञा वयुनमिति नैघण्टुकवचनादित्याह– विचित्रशक्तिभिरिति ।। न त्विति ।। परमेश्वरस्याज्ञानस्थित्यसहिष्णुस्थितिकस्वतन्त्र स्वप्रकाशचिद्रूपत्वादिति भावः ।। प्रतिरूप इति ।। प्रतिनियतं रूपं यस्येत्यर्थः । प्रति शब्दावृत्त्या योजयति– प्रतिबिम्बानि प्रतीति ।। अन्यथा रूपं रूपमिति द्वितीयानुपपत्तेरिति भावः ।। इहेति ।। पुरुरूप इत्यत्रेत्यर्थः । हरिशब्देनापि नेन्द्रियाण्यत्रोच्यन्ते । लक्षणापत्तेः । दशादिसङ्ख्याया अस्वारस्यं च । किन्तु रूढ्या भगवद्रूपाणि निर्दिश्यन्त इत्याह– उत्तरत्र चेति ।। बहुत्वोक्तेरिति ।।
स एव दशधा प्रोक्तो विष्णुर्मत्स्यादिरूपकः ।
शतं नारायणाद्यात्मा विश्वाद्यात्मा सहस्रकः ।
परादिरूपो बहुधा सोऽनन्तात्माऽजितादिकः ।। इति स्मृत्याऽनन्तरूपत्वोक्तेरित्यर्थः ।
स्वपक्षे साधकं वक्ति– तदेतदिति ।। अपूर्वम् कारणशून्यम् । तत्र हेतुः अनपरमिति । अकार्यमित्यर्थः । अनात् मुख्यप्राणात्परमिति वा । बाधकेन परपक्षं निरस्यति ।। चिन्मात्रस्यैवेति ।। निर्विशेषचित इत्यर्थः । तदयं मन्त्रार्थः– जीवसमुदायः, भगवतो रूपं प्रति प्रतिरूपो वर्तते । अनादित्वज्ञापनाय ‘बभूव’ इति । सदेव सोम्येदमग्र आसीदिति-वत् । प्रतिनियतं रूपं स्वरूपं यस्य स तथोक्तः । तद् बिम्बरूपम् । अस्य जीवस्य प्रतिचक्षणाय मुक्तयेऽपरोक्षज्ञानाय भवति । तत्रोपपादकम् उत्तरार्धम् । अस्य परमात्मनः हरिनामकानि रूपाणि शतं दश च युक्तानि सन्ति हीति ।
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।
अस्यावयवभूतेैस्तु व्याप्तं सर्वमिदं जगत् ।। इति श्वेताश्वतरोपनिषदं व्याख्याति– मायां त्विति ।। माययेति ।।
छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यत्र वेदा वदन्ति ।
अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः ।। इति पूर्वश्लोकेत्यर्थः ।
पराभिमतां मायां प्रतिक्षिपति– न त्विति ।। बुभुत्सितत्वादिति ।। तथा च माया व्याख्येया, प्रकृतिस्तद्व्याख्यानमित्यर्थः ।। प्राथम्येनेति ।। ‘यद्वृत्तयोगः प्राथम्यमित्याद्युद्देश लक्षणम्’ इत्यभियुक्तवचनादित्यर्थः ।। श्रुतिष्विति ।। अजामेकामित्यादिश्रुतिष्वित्यर्थः ।। सत्येऽपीति ।। मन्त्रौषधादावित्यर्थः । अपिशब्दः पराभिमत(गर्हा)र्थः । अयं मन्त्रार्थः । माययेत्युक्तां मायां प्रकृतिं त्रिगुणात्मकं प्रधानं जानीयात् । तुशब्दः पराभिप्रेतव्यावृत्त्यर्थः । निरीश्वरसाङ्ख्यमतं व्युदसितुमुक्तं ‘मायिनमिति’ । मायास्वामिनमित्यर्थः । अस्य महेश्वरस्य पृथक्सिद्धस्वरूपांशैरनादिसत्ताकैरन्तर्बहिः पुरुषकालरूपैरिदं जगद्व्याप्तमिति ।।
।। इति इन्द्रो मायाभिरित्यादिश्रुत्यर्थः ।।