नापि भाविबाधकशङ्कामात्रेणेति तृतीयः
श्रीवेदव्यासाय नमः
पदवाक्यप्रमाणपारावारपारीण–सर्वतन्त्रस्वतन्त्र–श्रीव्यासतीर्थविरचितम्
न्यायामृतम्
२७. प्रत्यक्षस्य भाविबाधकशङ्काभङ्गः
नापि भाविबाधकशङ्कामात्रेणेति तृतीयः । उक्तरीत्या लिङ्गशब्दयोरबाधकत्वात्, १अक्षस्याप्रमाणतया शङ्क्यमानत्वात्, सर्वविशेषाभावे च सामान्यस्याप्यभावेन बाधकशङ्काया अनुदयात् । किञ्च त्वन्मते जाग्रदादिज्ञानस्याप्रमाणत्वेन स्वप्नादेर्बाधा-सिद्धौ कथं तद्दृष्टान्तेनान्यत्र तच्छङ्का ? तदुक्तं वार्तिके बौद्धं प्रति
‘‘प्रतियोगिनि दृष्टे च २जाग्रज्ज्ञाने मृषा भवेत् ।
स्वप्नादिबुद्धिरस्माकं तव भेदोऽपि किं कृतः ।।’’ इति ।
अपि च भ्रमकालीनापरोक्षबुद्ध्यविषयविशेषविषयैव धीर्बाधिका । न च तव विश्वबाधिका धीस्तद्विषया । किञ्च सप्रकारैव धीर्बाधिका, निर्विकल्पिकायाः सप्रकारकभ्रमाविरोधित्वात् । न च ते (तव) विश्वबाधिका धीः सप्रकारिका । किञ्च न तावत्सा सप्रकारा, नापि निष्प्रकारा शब्दजन्येति वक्ष्यते । न च त्वन्मते सा शब्दा-न्यजन्या । किञ्च ३बाधिका धीर्भ्रमस्य तद्धेतोरज्ञानस्य तद्दोषस्याध्यस्तस्य द्रष्टुश्च न बाधिकेति न भ्रमादिबाधो युक्तः । किञ्च दोषजन्यमेव बाध्यम् । न च साक्षिप्रत्यक्षं तज्जन्यम् । अद्वैतज्ञाने तु श्रुतितात्पर्यभ्रमो दोषः । किञ्च बाधकतुल्यमानसंवादि न बाध्यम् । द्वैतप्रत्यक्षं चाद्वैतश्रुतितुल्यद्वैतश्रुतिसंवादि । किञ्च बाधकधीबोध्यं न बाध्यम् । भेदश्च बाधकधीबोध्यः । तया च स्वविषयस्य भेदाभिन्नतयौदासीन्येन वा ग्रहे बाधकत्वायोगेन भिन्नतयैव ग्राह्यत्वात् । तस्मान्न बाधशङ्का युक्ता ।
श्रीमधुसूदनसरस्वतीविरचिता
अद्वैतसिद्धिः
एवं च ‘भाविबाधनिश्चयाच्च’ इति यदुक्तं तदप्युपपन्नतरमेव । प्रकारान्तरेणाबाधितस्य चन्द्रप्रादेशिकत्वप्रत्यक्षस्य यथा आगमेन बाधः तथा प्रकारान्तरेणाबाधितस्य ‘सन् घटः’ इत्यादिप्रत्यक्षस्य मिथ्यात्वबोधकागमेन बाध इति निर्णयात् । एवं च भाविबाधशङ्कामादाय यत्परैर्दूषणमुक्तं तदनुक्तोपालम्भतया अपास्तम् । वस्तुतस्तु बाधशङ्कामादायापि प्रत्यक्षस्य बाधकतोद्धारः समीचीन एव । प्रत्यक्षशब्दयोर्बलाबलविचारात् प्राक् किमयं शब्द उप-चरितार्थः, आहोस्वित् प्रत्यक्षमप्रमाणमिति शङ्कायामुभयोरबाधकत्वप्राप्तौ तात्पर्यलिङ्गैः श्रूयमाणार्थपरतया निश्चितस्यागमस्योपचरितार्थत्वशङ्काव्युदासेन लब्धावकाशत्वसम्भवात् । न च शब्दलिङ्गयोः प्रत्यक्षाबाधकतया प्रत्यक्षान्तरस्याप्रमाणतया शङ्क्यमानत्वेनाबाधकतया च बाधकसामान्याभावे निश्चिते बाधशङ्का न युक्तेति वाच्यम् । शब्दलिङ्गयोः प्रत्यक्षबाध-कत्वस्य व्यवस्थापितत्वात् प्रत्येकं विशेषाभावनिश्चयेऽपि विशेषाणामियत्तानवधारणदशायां संशयसम्भवात् । प्रत्यक्षस्याप्रमाणतया शङ्क्यमानत्वेन शङ्काविरहोपपादनस्या सम्भव-दुक्तिकत्वाच्च ।
अथैवं जाग्रदादिज्ञानस्याप्रमात्वे स्वप्नदृष्टस्य शुक्तिरूप्यादेश्च बाधासिद्धौ कथं दृष्टान्तसिद्धिः स्यादिति चेन्न, आरोप्यसत्ताधिकसत्ताकविषयत्वेनाऽपेक्षिकप्रमाणत्वेनान्यून सत्ताकविषयत्वेन वा बाधकत्वात् । अत एव यदुक्तं बौद्धं प्रति भट्टवार्तिके–
‘प्रतियोगिनि दृष्टे च जाग्रद्बोधे मृषा भवेत् ।
स्वप्नादिदृष्टिरस्माकं तव भेदोऽपि किं कृतः ।।’
इति तत्सङ्गच्छते । ननु भ्रमकालीनापरोक्षबुद्ध्यविषयविशेषविषयैव धीर्बाधिका दृष्टा । न च विश्वबाधिका धीस्तथेति चेन्न । अधिष्ठानतत्त्वज्ञानत्वेनैव भ्रमनिवर्तकत्वात् । विश्च-निवर्तकब्रह्मज्ञानस्य तथात्वात् । न च सप्रकारिकैव धीर्भ्रमनिवर्तिका, इयं तु निष्प्रकारिका कथं तथेति वाच्यम् । निवर्तकतायां सप्रकारकत्वस्य गौरवादप्रवेशात् । ननु आवश्यकः सप्रकारकत्वनियमः । व्यावृत्ताकारज्ञानत्वेनैव भ्रमनिवर्तकत्वात् । अन्यथा अनुवृत्ताकार-ज्ञानादपि तन्निवृत्त्यापत्तेरिति चेत् । सत्यम् । व्यावृत्ताकारत्वेन ज्ञानस्य भ्रमनिवर्तकता, न तु तत्र विशेषप्रकारकत्वनियमः । तथा हि – व्यावृत्ताकारता हि द्वेधा भवति । विशेषणाद् उपलक्षणाच्च । तत्राऽद्ये सप्रकारकत्वनियमः । द्वितीयेऽपि धर्मान्तरस्य यदुपलक्षणं तस्माद् व्यावृत्ताकारत्वे सप्रकारकतैव । यदि तु स्वरूपोपलक्षणाद् व्यावृत्ताकारता तदा निष्प्रकारक-तैव । उपलक्षणस्य तत्राप्रवेशात् । स्वस्य च स्वस्मिन्नप्रकारत्वात् । न च प्रमेयत्वादिवत् स्वस्यैव स्वस्मिन् प्रकारत्वमिति वाच्यम् । त्वयापि केवलान्वयिन्येवागत्या तथाऽङ्गीकारात् । न तु सर्वत्र । अथ आकारप्रकारयोरभेदाद् ब्रह्माकारतैव ब्रह्मबुद्धेस्तत्प्रकारतेति चेत् । न । विशिष्टबुद्धेर्विशेष्याकारत्वेऽपि तदप्रकारकत्वात्, आकारप्रकारयोर्भेदात् । आकारश्च वृत्ति-निष्ठः कश्चिद्धर्मोऽसाधारणव्यवहारहेतुरिति वक्ष्यते । तस्माद्यथाऽऽकाशपदाच्छब्दाश्रयत्वोप-लक्षितधर्मिस्वरूपमात्रं ज्ञायते तद्वदत्रापि द्वितीयाभावाद्युपलक्षितब्रह्मस्वरूपज्ञानं व्यावृत्ताकारं द्वैतनिवर्तकमपरोक्षम् । यथा च शब्दात्तादृग्ज्ञानसम्भवस्तथा वक्ष्यते ।
न च बाधकधियां भ्रमतद्धेत्वज्ञानदोषाध्यस्तद्रष्ट्रादीनामबाधकत्वं दृष्टमिति कथं ब्रह्म-ज्ञानस्य तद्बाधकत्वं घटतामिति वाच्यम् । यत्र हि स्वप्ने द्रष्टारं दुष्टकरणवन्तं कल्पयित्वा तस्य भ्रमं कल्पयति तत्र जागरज्ञानेन सर्वेषां निवृत्तिदर्शनात् । जाग्रद्दशायामपि यदा मनुष्यप्रतिकृतौ चैतन्यं कल्पयित्वा तत्समीपवर्तिन्यनादर्श एवादर्शत्वं कल्पयित्वा स्वप्रति-बिम्बमयं पश्यतीति कल्पयति तदा नायं चेतनो न चायमादर्श इति प्रमया सर्वनिवृत्ति-दर्शनाच्च नेयमदृष्टचरी कल्पना । तथा चेयं शुक्तिरित्याद्यधिष्ठानज्ञानं रज्ज्वां सर्पभ्रममिव द्रष्ट्राद्यध्यासं मा निवीवृतत् तत्कस्य हेतोः ? तदधिष्ठानसाक्षात्करत्वाभावात् । ब्रह्मज्ञानं त्वाकाशादिप्रपञ्चभ्रममिव द्रष्टृदोषादिभ्रममपि निवर्तयेदेव । तत्कस्य हेतोः ? अशेषभ्रमा-धिष्ठानतत्त्वसाक्षात्कारत्वात् । एवं च बाधबुद्धित्वं न दोषाद्यबाधकत्वे प्रयोजकम्, अपि तु तद्भ्रमाधिष्ठानतत्त्वसाक्षात्कारभिन्नत्वमिति द्रष्टव्यम् । ननु कल्पितत्वादुक्तदृष्टान्ते तद् बाध्यताम् । इह तु कथमिति चेत् ? हन्त ब्रह्मव्यतिरिक्तस्य सर्वस्य कल्पितत्व-मङ्गीकुर्वतामस्माकमिदमनिष्टं महदापादितं देवानाम्प्रियेण ।
ननु साक्षिप्रत्यक्षं न बाध्यम्, दोषाजन्यत्वात् । प्रत्युत श्रुतिजनिताद्वैतज्ञानमेव बाध्यम्, तात्पर्यभ्रमरूपदोषजन्यत्वादिति चेत्, न । चैतन्यस्य स्वरूपतो दोषाजन्यत्वेऽपि तदवच्छेदि-काया अविद्यावृत्तेर्दोषजन्यत्वात् । तत्प्रतिफलितचैतन्यस्यैव साक्षिपदार्थत्वात् । अद्वैत-तात्पर्यग्रहस्य च प्रत्यक्षाद्यविरोधेन प्रमारूपतया दोषत्वाभावात् न तज्जन्यमद्वैतज्ञानं बाध्यम् । भ्रमजन्यत्वस्य विषयबाधाप्रयोजकत्वाच्च । न च बाधकतुल्यमानताकद्वैत श्रुतिसंवादिद्वैतप्रत्यक्षं कथं बाध्यमिति वाच्यम् । द्वैतस्य प्रत्यक्षादिलौकिकमानसिद्धत्वेन तद्बोधकश्रुतेरनुवादकतया फलवदज्ञातस्वार्थतात्पर्यकाद्वैतश्रुतिसाम्याभावात् । ननु बाधकधी-बोध्यं न बाध्यम् । भेदश्च बाधकधीबोध्यः । तया स्वविषयस्य भिन्नत्वेनैव ग्रहात् । नेदं रजतमितिवद् अभिन्नतयोदासीनतया वा ग्रहणे बाधकत्वायोगादिति चेत्, न । बाधकधियो भेदविषयत्वानभ्युपगमात् । इयं शुक्तिरित्येव बाधबुद्ध्युदयात् । तस्यास्तु नेदं रजतमिति भेदबुद्धिः फलम् । व्यावृत्ताकारतैव बाधधिय आवश्यकी । सा च स्वरूपोपलक्षणबला-न्निष्प्रकारकब्रह्मज्ञानेऽपि अस्तीति न बाधकधीबोध्यत्वं भेदस्य ।
श्रीव्यासरामाचार्यविरचिता
न्यायामृततरङ्गिणी
प्रत्यक्षमप्रमाणमेवेति प्रथमः पक्षः स्वतःप्राप्ततत्वावेदनलक्षणप्रामाण्यस्य त्यागः किमनुमानविरोधदागमविरोधाद्वा भाविबाधकशङ्कामात्रेण वेति त्रेधा विकल्पितः । तत्राऽद्यौ निराकृतौ । तृतीयं निराकरोति ।। उक्तरीत्येति । जात्या उपक्रमादिन्यायैश्च प्रबलेन प्रत्यक्षेण विरोधाल्लिङ्गशब्दयोर्बाधाक्षमत्वादित्यर्थः । १प्रत्यक्षस्येति । प्रत्यक्षान्तरस्या-प्रमाणतया शङ्क्यमानत्वेनाबाधकत्वादित्यर्थः । सर्वविशेषेति । न च सर्वविशेषाणा-मियत्तानवधारणदशायां संशयसम्भव इति वाच्यम् । बाधकत्वेन सम्भावितानामा-गमानुमानादिप्रमाणविशेषाणामियत्तावधारणकाले तैर्बाधाभावस्य निश्चयसम्भवात् । ननु प्रत्यक्षशब्दयोर्बलावलविचारात्प्राक् किमयं शब्द उपचरितार्थः आहोस्वित्प्रत्यक्षमप्रमाण-मिति शङ्कायामुभयोरप्यबाधकत्वप्राप्तौ तात्पर्यलिङ्गैः श्रूयमाणार्थपरतया निश्चितस्यागम-स्योपचरितार्थत्वशङ्काव्युदासेन लब्धावकाशत्वसम्भव इति चेन्मैवम् । शब्दे प्रतीय-मानार्थपरतायां हेतुभूतेभ्यस्तात्पर्यलिङ्गेभ्यः सकाशात्प्रत्यक्षविषयार्थसत्यत्वे फलपर्यन्त-परीक्षाया बलवत्त्वेन प्रत्यक्षस्यैव लब्धावकाशत्वसम्भवात् । प्रत्यक्षविरुद्धे तात्पर्यलिङ्गानां तात्पर्यासाधकत्वात् । किञ्चेति । जाग्रच्छब्देन स्वप्नदृष्टस्य गजादेरभावः । आदिपदेन शुक्तिरूप्यादेरभावः । तयोर्ज्ञानमित्यर्थः । स्वप्नादेरित्यादिशब्देन शुक्तिरूप्यादि । प्रतियोगिनीति । जाग्रज्ज्ञाने स्वप्नगजादिविरोधिनि गजाद्यभावे ज्ञाते अस्माकं सत्य(त्व)मिथ्यात्वविवेकवतां स्वप्नादिबुद्धिर्मृषा मिथ्यार्थावभासिका भवेत् । तव सर्वमिथ्यात्ववादिनः बाधकत्वेनाभिमतस्य जाग्रद्गजाद्यभावज्ञानस्य मिथ्यार्थावभासत्वा-त्स्वप्नगजादेर्मिथ्यात्वं न सिध्यति । तथा च दृष्टान्तासिद्धिरिति भावः । न चारोप्य-सत्ताधिकसत्ताकविषयत्वेनाऽपेक्षिकप्रमात्वेनान्यूनसत्ताकविषयत्वेन वा जाग्रज्ज्ञानस्य नेदं रूप्यमिति ज्ञानस्य वा बाधकत्वमिति वाच्यम् । आरोप्यसत्ताधिकसत्ताकविषयकमिदं जाग्रदादिज्ञानमिति ज्ञानस्यापि बाधितत्वेन जाग्रज्ज्ञाने आरोप्यसत्ताधिकसत्ताकविषय-कत्वस्यासिद्धेः । विश्वबाधकाभिमतज्ञाने बाधकत्वव्यापकाभावमाह– भ्रमकालीनेति । भ्रमकालीनापरोक्षबुद्धिर्भ्रम एव । स्वस्य स्वकालीनत्वात् । तदविषयो विशेषः शुक्तित्वादिः । तद्विषया इयं शुक्तिरित्यादिधीर्बाधिकेत्यर्थः ।
यद्वा, परमते भ्रमोऽविद्यावृत्तिः । तत्कालीनापरोक्षधीरिदमित्याकारांतःकरणवृत्तिः । तदविषयः शुक्तित्वादिकमित्यर्थः । नन्वधिष्ठानतत्वज्ञानत्वेनैव भ्रमनिवर्तकत्वम् । ब्रह्मज्ञानं च तथेति विश्वभ्रमनिवर्तकमिति । मैवम् । अधिष्ठानगतकिञ्चित्प्रकारानवगाहिनो ज्ञानस्य स्वाश्रयप्रतियोगिकान्योन्या भावासमानाधिकरणधर्मज्ञानत्वरूपतत्वज्ञानत्वासिद्धेः । अधिष्ठानतत्वस्य ज्ञानमधिष्ठानतत्वज्ञानम् । न ह्यधिष्ठानस्वरूपमेवाधिष्ठानस्य तत्वम् । तथा सति प्रमेयत्वे प्रमेयत्वप्रकारकज्ञानवत्स्वप्रकारकत्वापत्तौ ब्रह्मज्ञानस्य निष्प्रकारत्वासिद्धिः स्यात् । बाधकत्वव्यापकान्तराभावमाह– किञ्चेति । निर्विकल्पिकाया इति । जागराद्यकालीनरजतभ्रमहेतुशुक्तिरूपधर्मिज्ञानोपपादकत्वेन शुक्तिनिर्विकल्पकस्यावश्यकतया तस्य च रजतभ्रमाविरोधित्वादित्यर्थः । तस्मात्सप्रकारकमेव ज्ञानं भ्रमविरोधि ।
अत्र वदन्ति – निवर्तकतायां सप्रकारकत्वं न प्रवेश्यम् । गौरवात् । नन्वावश्यकः सप्रकारकत्वनियमः । व्यावृत्ताकारज्ञानत्वेनैव भ्रमनिवर्तकत्वात् । अन्यथा अनुवृत्ताकार-ज्ञानादपि तन्निवृत्त्यापत्तेरिति चेत्सत्यम् । व्यावृत्ताकारत्वेन ज्ञानस्य भ्रमनिवर्तकता । न तु तत्र विशेषप्रकारकत्वनियमः । तथा हि– व्यावृत्ताकारता हि द्वेधा भवति । विशेषणा-दुपलक्षणाच्च । तत्राऽद्ये सप्रकारत्वनियमः । द्वितीयेऽपि धर्मान्तरं चेदुपलक्षणं तस्मा-द्व्यावृत्ताकारत्वे सप्रकारकतैव । यदि तु स्वरूपोपलक्षणाद्व्यावृत्ताकारता तदा निष्प्रकारक-तैव । उपलक्षणस्य तत्राप्रवेशात् । स्वस्य च स्वस्मिन्नप्रकारत्वात् । न च प्रमेयत्वादि-वत्स्वस्यैव स्वस्मिन्प्रकारत्वमिति वाच्यम् । त्वयापि केवलान्वयिन्येवागत्या तथाङ्गीकारान्न सर्वत्र । अथाऽकारप्रकारयोरभेदाद्ब्रह्माकारतैव ब्रह्मबुद्धेस्तत्प्रकारत्वमिति चेन्न । विशिष्ट-बुद्धेर्विशेष्याकारत्वेऽपि तदप्रकारत्वादाकारप्रकारयोर्भेदात् । आकारश्च वृत्तिनिष्ठः कश्चि-द्धर्मोऽसाधारणव्यवहारहेतुः । तस्माद्यथाऽकाशपदाच्छब्दाश्रयत्वोपलक्षितधर्मिस्वरूपमात्रं ज्ञायते तद्वदत्रापि द्वितीयाभावाद्युपलक्षितब्रह्मस्वरूपज्ञानं व्यावृत्ताकारं द्वैतनिवर्तकमपरोक्षं वेदान्तवाक्यादिति ।
अत्रोच्यते । उपलक्ष्ये किञ्चिद्धर्ममादधत एवोपलक्षणत्वम् । अत एवेत्थम्भूतलक्षणे तृतीया । किञ्चित्प्रकारं प्राप्त इत्थम्भूतः । तस्य लक्षणे ज्ञापने तृतीयेति पाणिनि-सूत्रव्याख्याने । तथा चोपलक्ष्ये ब्रह्मण्युपलक्षणस्य द्वितीयाभावस्य स्वसंसृष्टप्रमाजनकत्वमेवा द्वितीयादिशब्दानां न निष्प्रकारकज्ञानजनकत्वम् । अस्त्वेतद्यथा तथा । तथापि पराभि-प्रेतस्य निष्प्रकारकज्ञानस्य न बाधकत्वम् । निष्प्रकारकज्ञानस्य स्वरूपमात्रविषयकस्य भ्रमविषयीभूतस्वरूपानपहारकत्वात् । अर्थापहाराद्बाध इति परैरप्यभ्युपगतमिति ।
विश्वबाधिका धीः किं शब्दजन्या शब्दाजन्या वा । आद्येऽपि किं सप्रकारा निष्प्रकारा वा । त्वदनभिप्रेतत्वान्नाद्य इत्याह ।। न तावत्सेति । शब्दस्य निष्प्रकारकज्ञान-जनकत्वासिद्धेर्न द्वितीय इत्याह ।। नापीति । नान्त्य इत्याह– न च त्वन्मत इति । लिङ्गशब्दयोरबाधकत्वादित्यत्र प्रमाणस्याबाधकत्वमुक्तम् । इह तु ज्ञानस्येति भेदः ।। किञ्च बाधकधीरिति ।। अत्राध्यस्तस्येति परमते इष्टत्वोपपादनाय । तथा च भ्रमादेर-बाध्यतया सत्यत्वेन तत्रैव दृश्यत्वादेर्व्यभिचार इति भावः ।
अत्र वदन्ति– ‘‘यदा हि स्वप्ने द्रष्टारं दुष्टकरणवन्तं कल्पयित्वा तस्य भ्रमं कल्पयति तत्र जागरज्ञानेन सर्वेषां निवृत्तिदर्शनात्, जाग्रद्दशायामपि मनुष्यप्रतिकृतौ चैतन्यं कल्पयित्वा तत्समीपवर्तिन्यनादर्श एवादर्शत्वं कल्पयित्वा स्वप्रतिबिम्बं पश्यतीति कल्पयति तदा नायमादर्शो नायं चेतन इति प्रमया सर्वनिवृत्तिदर्शनाच्च । नेयमदृष्टचरी कल्पना । तथा चेयं शुक्तिरित्याद्यधिष्ठानज्ञानं रज्ज्वां सर्पभ्रममिव दृष्टाद्यध्यासं मा निवीवृतत् । तत्कस्य हेतोः? तदधिष्ठानसाक्षात्कारत्वाभावात् । ब्रह्मज्ञानं त्वाकाशादि-भ्रममिव द्रष्ट्रदोषादिभ्रममपि निवर्तयेदेव । तत्कस्य हेतोः? अशेषभ्रमाधिष्ठानतत्व-साक्षात्कारत्वात् । एवं च बाधबुद्धित्वं न दोषाद्यबाधकत्वे तन्त्रम् । किन्तु तद्भ्रमाधिष्ठान-तत्वसाक्षात्कारभिन्नत्वमेव । ननु कल्पितत्वादुक्तदृष्टान्ते तद्बाध्यताम् । इह तु कथमिति
चेत्, हन्त । ब्रह्मव्यतिरिक्तस्य सर्वस्य कल्पितत्वमङ्गीकुर्वतामस्माकमिदमनिष्टं महदापादित- मिति । अत्रोच्यते । यदुक्तं स्वप्ने द्रष्टारमित्यादि, तन्न युक्तम् । दुष्टकरणवतो द्रष्टु-र्गजादिवत्कल्पितत्वेन स्वप्नद्रष्ट्रत्वाभावात् । यच्च मनुष्येत्यादि, तन्न । तेषामपि दृश्यत्वेन द्रष्टृत्वासम्भवात् । तद्द्रष्टुरन्यत्वात् । यो यद्भ्रमे द्रष्टा स तद्भ्रमबाधेन न बाध्यत इति व्याप्तेरविकलत्वात् । एवं च जगद्भ्रमद्रष्टृदोषादीनां जगद्भ्रमबाधकेन बाधो न युक्त इति ।
सन् घट इति बाध्यत्वेनाभिमते ज्ञाने बाध्यत्वव्यापकाभावमाह ।। दोषजन्यमेवेति । नन्वपौरुषेयत्वेन निर्दोषश्रुतिजन्यमद्वैतज्ञानं तव मत इव मम मते दोषाजन्यमपि साक्षिज्ञानं बाध्यतामित्यत आह– अद्वैतज्ञाने त्विति । अत्राहुः– ‘‘चैतन्यस्य स्वरूपतो दोषाजन्यत्वेऽपि तदवच्छेदिकाया अविद्यावृत्तेर्दोषजन्यत्वात्तत्प्रतिफलितचैतन्यस्यैव साक्षि-पदार्थत्वादद्वैततात्पर्यग्रहस्य प्रत्यक्षाविरोधेन प्रमारूपतया दोषत्वाभावान्न तज्जन्यमद्वैतज्ञानं बाध्यम् । भ्रमजन्यत्वस्य विषयबाधाप्रयोजकत्वाच्चेति । अत्रोच्यते । अविद्यावृत्ति-प्रतिबिम्बितचैतन्यस्य साक्षिपदार्थत्वे प्रतिबिम्बनोपाधेरविद्यावृत्तेस्साक्षिविषयत्वार्थं तस्या एवोपादानं न युक्तम् । प्रतिबिम्बनोपाधिभूताया वृत्तेर्विषयिकोटिप्रवेशेन विषयत्वानुपपत्तेः । नाप्यन्यस्याः । तस्या अपि विषयत्वार्थमन्यस्या इत्यनवस्थानात् । तस्माच्चैतन्यमेव साक्षीत्यङ्गीकार्यम् । तच्च निर्दोषमेव । यच्चोक्तमद्वैततात्पर्यग्रहस्येत्यादि तदपि न । प्रत्यक्षाद्यविरोधासिद्धेरुक्तत्वात् । यच्चोक्तं भ्रमजन्यत्वस्येत्यादि । अत्र ब्रूमः । कारणीभूत-ज्ञानविषयककार्यज्ञानसम्बन्धिविषयबाधं प्रति भ्रमजन्यत्वस्य प्रयोजकत्वमस्त्येव । यथा शाब्दज्ञानविषयबाधं प्रति संसर्गाबाधरूपयोग्यताभ्रमत्वम् । तदिहाद्वैततात्पर्यभ्रमस्यापि येन केनापि रूपेणाद्वैतविषयतया तद्भ्रमत्वनिबन्धनः शाब्दाद्वैतज्ञानविषयापहारः स्यादेव । तस्मात्साधूक्तं दोषजन्यमेवेत्यादि ।
सन्घट इति ज्ञाने अबाध्यत्वव्याप्यमाह– बाधकतुल्यमानेति । ननु द्वैतस्य प्रत्यक्षादिलौकिकमानसिद्धत्वेन तद्बोधकश्रुतेरनुवादकतया फलवज्ज्ञातस्वार्थतात्पर्यका द्वैत-श्रुतिसाम्याभाव इति चेन्मैवम् । वर्तमानमात्रग्राहिप्रत्यक्षगृहीतव्यावहारिकसत्यद्वैतातिरिक्त कालत्रयाबाध्यतात्विकद्वैतग्राहकत्वोपपत्त्या द्वैतश्रुतेरननुवादकत्वात् । फलवद् ज्ञातस्वार्थ-तात्पर्यकत्वाच्च बाधकमानतुल्यमानत्वम् । बाधकधीबोध्यमिति । अधिष्ठानवदित्यर्थः । तयेति । स्वविषयस्य ब्रह्मणोऽभेदस्य वा बाध्यमानाद्भेदादभिन्नतया औदासीन्येन भेदाभेदानवगाहित्वेन वेत्यर्थः । ननु बाधकधियो भेदविषयत्वं नाभ्युपगच्छामः । इयं शुक्तिरित्येव बाधकबुद्ध्युदयात् । तस्यास्तु नेदं रजतमितिवत्तद्बुद्धिः फलम् । व्यावृत्ता-कारतैव बाधधिय आवश्यकी । सा च स्वरूपोपलक्षणबलान्निष्प्रकारज्ञानेऽप्यस्तीति न बाधकधीबोध्यत्वं भेदस्येति चेत् । मैवम् । इयं शुक्तिरित्येवं ज्ञानस्य बाधकत्वाभावात् । इदंरजतयोरिव इदंरजतशुक्तीनामप्यभेदग्रहसम्भवात् । इयं शुक्तिरिति ज्ञानेन स्वविषयस्य शुक्तेः रजतस्य च भेदे गृहीते रजतभ्रमनिवृत्तेरनुभवसिद्धत्वात् । अत एव पीतः शङ्ख इति भ्रमः शङ्खत्वप्रत्यक्षेऽप्यनुभूयते । पीतभेदप्रत्यक्षे तु नेति युक्तं भेदानवगाहिज्ञानस्य न बाधकत्वमिति बाधकधीबोध्यस्य भेदस्य न बाध्यतेति साधूक्तम् ।
श्री पाण्डुरङ्गि आनन्दभट्टारकविरचितः
न्यायामृतकण्टकोद्धारः
नापीति । ननु प्रकारान्तरेणाबाधितस्य चन्द्रप्रादेशिकत्वप्रत्यक्षस्य यथाऽऽगमेन बाधः, तथा प्रकारान्तरेणाबाधितस्य सन् घट इत्यादिप्रत्यक्षस्य मिथ्यात्वबोधकागमेन बाध इति निर्णयाद् भाविबाधकशङ्कामादाय दूषणाभिधानेऽनुक्तोपालम्भापत्तिः । वस्तुतस्तु बाधकशङ्का-मादायापि प्रत्यक्षस्य बाधकतोद्धारः समीचीन एव । प्रत्यक्षशब्दयोर्बलाबलविचारात् प्राक् किमयं शब्द उपचरितार्थ आहोस्वित् प्रत्यक्षमप्रमाणमिति शङ्कायामुभयोरपि अबाधकत्वप्राप्तौ तात्पर्यलिङ्गैः श्रूयमाणार्थपरतया निश्चितस्यागमस्योपचरितार्थत्वशङ्काव्युदासेन लब्धावकाशत्व-सम्भवादिति चेन्मैवम् । चन्द्रप्रादेशिकत्वादिप्रत्यक्षस्यागमबाध्यत्वाभावस्य प्रतिपादितत्वात् । सन् घट इत्यादिप्रत्यक्षस्य प्रबलस्यागमबाध्यत्वनिर्णयासम्भवस्योक्तत्वाच्च भाविबाधकशङ्का-मादायैव दूषणाभिधानस्य युक्तत्वान्नानुक्तोपालम्भापत्तिः । यच्च वस्तुतस्त्वित्यादि तदपि न । औतागमस्याद्वैते तात्पर्याभावस्य वक्ष्यमाणत्वेन तात्पर्यलिङ्गैः श्रूयमाणार्थपरतया निश्चितत्व-कथनस्य शिष्यधन्दनत्वादिति । उक्तरीत्येति । कालात्ययापदिष्टोच्छेदादि स्यादित्याद्युक्त-रीत्येत्यर्थः । सर्वविशेषाभावे चेति । ननु विशेषाभावनिश्चयेऽपि विशेषाणामियत्तानव-धारणदशायां संशयसम्भवात्, प्रत्यक्षस्याप्रमाणतया शङ्क्यमानत्वेन शङ्काविरहोपपादनस्या-सम्भवदुक्तिकत्वाच्चेति चेन्मैवम् । विशेषानवधारयितुर्देवानां प्रियस्येयत्तानवधारणेन संशय-सम्भवेऽपि प्रमाणत्रित्वं जानतः शास्त्राभिनिविष्टचित्तस्य संशयासम्भवेन प्रत्यक्षप्रामाण्योपपत्तेः । यच्च प्रत्यक्षेत्यादि तन्न । एतादृशशङ्काया निर्बीज पिशाचीत्वेनाप्रतिबन्धकतया जगत्प्रत्यक्षस्य बाधकत्वेन शङ्क्यमानेऽपि सुलभत्वादित्याशयः । ननु स्वप्नदृष्टस्य शुक्तिरजतादेश्च भाविबाधेन जाग्रदादिज्ञानेन बाध्यत्वस्य दृष्टत्वात् तद्दृष्टान्तेन प्रकृतेऽपि बाधशङ्काऽस्त्वित्यत आह– किञ्चेति । विपरीतप्रमात्वस्यैव बाधकत्वप्रयोजकत्वमभिप्रेत्येदमुक्तमिति भावः ।
नन्वारोप्यसत्ताधिकसत्ताविषयत्वेनापेक्षिकप्रमाणत्वेन जाग्रदादिज्ञानस्य स्वप्नादिबाधकत्वं भविष्यतीति चेन्न । त्वन्मते प्रपञ्चस्याप्यारोप्यत्वेन तज्ज्ञानस्यारोप्याधिकसत्ताकविषयत्वा-भावात् । सत्त्वेन व्यवहारमात्रं व्यावहारिकसत्त्वं, न तु वस्तुनिष्ठं सत्त्वमिति मतेऽस्यायोगाच्च । एतेन व्यावहारिकसद्विषयत्वं बाधकत्वे प्रयोजकम् । प्रपञ्चस्यारोप्यत्वेऽपि सप्रकाराबाध्यत्वेन व्यावहारिकसत्त्वाभ्युपगमात् तज्ज्ञानस्य बाधकत्वे उक्तप्रयोजकस्य सत्वादिति निरस्तम् । आरोप्यत्वाविशेषे रूप्यसत्ता प्रातिभासिकी, जगत्सत्ता व्यावहारिकीत्यस्य वक्तुमशक्यत्वात् । अस्य कल्पनस्याद्याप्यसिद्धेश्च । किञ्चोभयपक्षेऽपि भ्रमोत्तरविशेषदर्शनजन्यं भ्रमरूपं ज्ञानं बाधकं न स्यात् । उक्तप्रयोजकद्वयस्य तत्राभावात् । न चोत्तरस्य बाधकत्वमेव नेति वाच्यम् । पूर्वज्ञाने स्वकार्य(र्या)क्षमत्वरूपभ्रमत्वज्ञापकस्याबाधकत्वायोगात् । अपि च ब्रह्मज्ञानं ब्रह्मज्ञानस्य बाधकं न स्यात् । उक्तप्रयोजकद्वयाभावात् । अथैवमन्यूनसत्ताकविषयत्वेन (जाग्रज्ज्ञा)जगत्ज्ञानस्य बाधकत्वम् । भ्रमज्ञानं च न्यूनसत्ताकविषयकमेवेत्यवेहीति चेन्न । अत्राप्यन्योन्याश्रयतादव-स्थ्यात् । भ्रमज्ञानस्यापि स्वापेक्षया न्यूनसत्ताकविषयत्वेन स्वबाधकत्वापाताच्च । अन्यथा ब्रह्मज्ञानं स्वबाधकं न स्यादिति । तस्मान्मानत्वेन निश्चितत्वमेव बाधकत्वे तन्त्रम् । न च जगत्प्रत्यक्षे ते तदस्ति । प्रत्युताप्रामाण्यनिश्चय एवास्ति इति त्वया स्वीकारात् । तथा च कथं दृष्टान्तसिद्धिरिति साधूक्तं कथं तद्दृष्टान्तेनान्यत्र तच्छङ्केति ।
प्रमाणत्वेन निश्चितत्वं बाधकत्वे प्रयोजकं, न त्वन्यदित्यत्र भट्टवार्तिकसम्मतिमाह – प्रतियोगिनीति । जाग्रज्ज्ञाने प्रतियोगिनि विरोधिनि दृष्टे सति प्रमाणत्वेन निश्चिते सति स्वप्नादिबुद्धिरस्माकं मृषा भवेत् । तव तु जाग्रज्ज्ञानप्रामाण्याभावात् जाग्रत्स्वप्नादिभेदः किं कृत इति कारिकार्थः ।
बाधकज्ञानं न ब्रह्मज्ञानातिरिक्तं त्वयाऽङ्गीकर्तुं शक्यते । अपसिद्धान्तात् । नापि ब्रह्मज्ञानं, बाधकसत्त्वादित्याह – अपि चेति । विशेषविषयैव=अधिष्ठानगतासाधारणधर्मविषयैवेति यावत् । भ्रमकालीनेत्यपरोक्षबुद्धिविशेषणं अपरोक्षबुद्धेर्भ्रमरूपत्वदर्शनाय । नन्वधिष्ठानतत्त्व-ज्ञानत्वेनैव भ्रमनिवर्तकत्वात् विश्वनिवर्तकब्रह्मज्ञानस्य तथात्वात् । भ्रमाविषयविशेषविषय-त्वस्याभावेऽपि निवर्तकत्वं स्यादिति चेन्न । अधिष्ठानत्वज्ञानं किम् अधिष्ठानतत्त्वरूपज्ञानं वा विवक्षितम्, अथाधिष्ठानस्वरूपमात्रज्ञानम्, उताधिष्ठानगतसाधारणधर्मज्ञानं, तद्गतासाधारणधर्म-ज्ञानं वा, पराभिप्रेताधिष्ठाननिष्प्रकारकज्ञानं वा? नाद्यः । भ्रमस्यापि अधिष्ठानस्वरूपज्ञानत्वेन स्वनिवर्तकतापत्तेः । अन्यथा ब्रह्मज्ञानस्यापि तन्न स्यात् । स्वरूपविषयत्वाविशेषात् । न द्वितीयः । तद्धि अधिष्ठानेतराविषयकत्वे सति अधिष्ठानस्वरूपविषयत्वम् । एवं च शुक्ति-रियमिति ज्ञानस्य नेदं रजतमिति ज्ञानस्य निवर्तकत्वं न स्यात् । आद्यस्याधिष्ठानेतर-शुक्तित्वविषयत्वस्य, द्वितीयस्य रजताभावविषयत्वस्य सत्त्वेन स्वरूपमात्रविषयत्वाभावात् । शब्देन तादृशज्ञानासिद्धेर्वक्ष्यमाणत्वाच्च ।
न तृतीयः । इदं प्रमेयमिति ज्ञानस्यापि निवर्तकत्वापत्तेः । न चतुर्थः । स असाधारणधर्मः किं भ्रमे भासते, न वा? आद्ये तस्यापि निवर्तकतापत्तेः । द्वितीये घट्टकुटीप्रभातवृत्तान्तः । यतो भ्रमाविषयासाधारणधर्मविषयस्यैव ज्ञानस्य बाधकत्वाभ्युपगमः । ब्रह्मज्ञानस्यातादृशत्वात् । न पञ्चमः । नेदं रजतमिति ज्ञानस्य निवर्तकत्वानापत्तेः । तस्य निष्प्रकारकत्वाभावात् । एतेनाधिष्ठाननिश्चयत्वेन निवर्तकत्वम् । भ्रमश्च न तथेति न तस्य स्वनिवर्तकत्वम् । ब्रह्मज्ञानं च तथेति भवति तत् स्वनिवर्तकमिति निरस्तम् । उक्तविकल्पासहत्वात् । किञ्च निश्चयत्वं न तावज्जातिः । संशयधर्म्यंशे तदभावापत्तेः । जातेरव्याप्यवृत्तित्वाभावात् । नाप्युपाधिः । तदनिर्वचनात् । न च संशयभिन्नज्ञानत्वं तदिति वाच्यम् । संशयधर्म्यंशे निश्चयत्वानापत्तेः । अन्योन्याभावस्य व्याप्यवृत्तित्वात् । न च यज्ज्ञानं यद्भ्रमादिनिवृत्त्यनुकूलरूपविशेषविषयं तत् तन्निवर्तकम् । भ्रमश्च न तथेति वाच्यम् । भ्रमनिवर्तकता केन रूपेणेति प्रश्ने भ्रमनिवर्तक-रूपविशेषविषयत्वेनेत्यस्यानुत्तरत्वात् । आत्माश्रयाच्च । तस्माद् भ्रमाविषयासाधारणधर्म-विषयत्वेनैव बाधकत्वम् । ब्रह्मज्ञानं चातादृशमिति कथं तस्य बाधकत्वम्? किञ्च नेदं निवर्तकतावच्छेदकमुक्तम् । किन्तु बाधकत्वव्यापकम् । न च नेदं व्यापकं, बाधकत्वस्या-प्रयोजकत्वादिति वाच्यम् । एतदभावबाधकत्वव्यतिरेकयोर्निरुपाधिकसहचाररूपतर्कस्य विपक्षे बाधकत्वात् । तथा च ब्रह्मज्ञाने व्यापकाभावाद् व्याप्यस्य बाधकत्वस्यापि निवृत्तिः । न चैवं नेदं रजतमित्यादिज्ञानेऽपि भ्रमाविषयासाधारणधर्मविषयत्वाभावेन व्यापकाभावात् बाधकत्वा-भावः स्यादिति वाच्यम् । तस्य नेदं रजतं किन्तु शुक्तिरित्येवंरूपत्वात् । रजताभावस्य भ्रमाविषयविशेषत्वाच्चेति अलमतिपल्लवेन ।
किञ्चेति । अत्रापि सप्रकारकत्वं निवर्तकधीत्वव्यापकम् । व्यापकनिवृत्तौ व्याप्य-निवृत्तिरावश्यकीति वेदान्तजन्यब्रह्मज्ञानस्य सप्रकारकत्वाभावात् निवर्तकत्वं न स्यादित्यत्र तात्पर्यम् । तेन सप्रकारत्वं न निवर्तकतावच्छेदकम् । प्रमेयमित्यादिज्ञानस्यापि निवर्तकतापत्ते-रित्यादिदूषणमलग्नकं वेदितव्यम् । अस्तु वा सप्रकारकत्वेन निवर्तकता । न चातिप्रसङ्गः । निवर्त्यभ्रमादिविषयीकृतासाधारणप्रकारविरुद्धप्रकारकनिश्चयत्वेन निवर्तकत्वात् । निश्चयत्वं च संशयभिन्नज्ञानत्वम् । संशयेऽपि धर्म्यंशे तद्भिन्नत्वसम्भवात् । अन्योन्याभावस्याव्याप्य-वृत्तित्वाभ्युपगमात् । न च निवर्तकतायां सप्रकारत्वप्रवेशे गौरवम् । तदभावेऽपि व्यावृत्ता-कारत्वेन निवर्तकत्वसम्भवात् इति वाच्यम् । सप्रकारत्वाभावे व्यावृत्ताकारत्वस्यैवासम्भवात् । तथा हि व्यावृत्ताकारता द्वेधा भवति, विशेषणाद् उपलक्षणाद्वा । तत्राद्ये दण्डीत्यादौ सप्रकारत्वेनैव व्यावृत्ताकारता दृष्टेति सप्रकारत्वप्रवेश आवश्यकः । द्वितीयेऽपि काकवद् देवदत्तगृहमित्यादौ धर्मान्तरोपलक्षणेन व्यावृत्ताकारता दृष्टेति उपलक्षणत्वपक्षे तत्प्रवेश-स्यावश्यकत्वात् । स्वरूपमात्रोपलक्षणस्य च व्यर्थत्वात् । स्वरूपस्य नित्यसिद्धत्वात् । व्यावृत्त्यर्थं तदिति चेत्, विशेषासमर्पणे उपलक्ष्ये व्यावृत्त्यसिद्धेः । स्वरूपमात्रोपलक्षण-त्वेनाभिमतेऽप्याकाशत्वादौ आकाशपदादिना तत्प्रकारकबुद्ध्यनुभवाच्च । न चाकाशपदादिना निर्विकल्पकधीः सम्भवति । शब्दस्य निर्विकल्पकधीजनकत्वाभावस्योपपादयिष्यमाणत्वात् । तस्मादुपलक्षणस्य विशेषणस्य वा व्यावृत्ताकारत्वप्रयोजकत्वे तयोः सप्रकारकधीजनकत्वस्यैव सर्वत्र दृष्टत्वात् सप्रकारकत्वस्य निवर्तकबुद्धौ अवश्यम्भावाद् युक्तमुक्तं सप्रकारिकैव धीर्निवर्तिकेति ।
किञ्च (विश्व) बाधिका धीः किं शब्दजन्या, उत शब्दान्यजन्या? आद्येऽपि सप्रकारिका निष्प्रकारिका वा? नाद्य इत्याह– किञ्च न तावदिति । वेदान्तानां प्रकारविशिष्टज्ञानजनकत्वे विशिष्टस्य मिथ्यात्वात् तत्त्वावेदकत्वलक्षणं प्रामाण्यं न स्यात् । बाध्यसमानयोगक्षेमत्वेन बाधकत्वं च न स्यात् । आरोप्यसत्ताधिकसत्ताकविषयत्वस्यैव बाधकत्वे तन्त्रत्वादिति त्वयैवोक्तत्वादिति भावः । द्वितीयं प्रत्याह – नापीति । शब्दो हि शक्त्या लक्षणया वाऽर्थं बोधयेत् । तत्र शक्त्या बोधकत्वस्य शक्यतावच्छेदकप्रकारकत्व(स्य)नियमात् । लक्षणया तत्त्वस्य लक्ष्यतावच्छेदकप्रकारकत्वनियमात् । एतदुभयविलक्षणबोधजनकत्वस्य शब्दे कुत्राप्य-दृष्टत्वेन निष्प्रकारकबोधजनकत्वं शब्दस्य न सम्भवतीति वक्ष्यत इति भावः । न द्वितीय इत्याह – न च त्वन्मत इति । ब्रह्मण औपनिषदत्वेन शब्दान्यप्रमाणाविषयत्वात् । विषयत्वे वा सप्रकारकत्वनिष्प्रकारकत्वविकल्पासहत्वादिति भावः । न च शब्दस्य निष्प्रकारकबोधजनकत्व-मग्रे उपपादयिष्यत इति वाच्यम् । तस्य तत्रैव निराकरिष्यमाणत्वात् ।
किञ्च बाधिकेति । तथा च भ्रमादिबाधेऽदृष्टकल्पनापत्त्या विश्वबाधिकाया ब्रह्मधियो बाधकत्वं न सम्भवतीति भावः । ननु नेयमदृष्टचरी कल्पना । स्वप्नजाग्रद्दशयोः भ्रमादिबाधस्य दृष्टत्वात् । तथा हि– स्वप्ने द्रष्टारं दुष्टकरणवन्तं कल्पयित्वा तस्य (भ्रमत्वं) भ्रमं च कल्पयति । तत्र जाग्रज्ज्ञानेन सर्वेषां निवृत्तिदर्शनात् । तथा जाग्रद्दशायामपि मनुष्यप्रतिकृतौ चैतन्यं कल्पयित्वा तत्समीपवर्तिन्यनादर्श एवादर्शत्वं कल्पयित्वा स्वप्रतिबिम्बमयं पश्यतीति कल्पयति तदा नायं चेतनो न चायमादर्श इति प्रमया सर्वनिवृत्तेर्दर्शनाच्चेति चेन्मैवं मंस्थाः । न हि यथा दृष्टान्ते द्रष्टा स्वरूपेण कल्पितः तथा प्रपञ्चद्रष्टा स्वरूपेण कल्पितस्त्वन्मते । येन तद्दृष्टान्तेनात्र द्रष्टा बाध्येत । किञ्च दृष्टान्ते न कल्पितद्रष्ट्रधीबाध्यत्वं द्रष्टुः । किन्तु कल्पकधीबाध्यत्वम् । प्रकृते च प्रपञ्चद्रष्ट्रजीवधीबाध्यत्वमेव द्रष्टुः स्वीक्रियते । न हि द्रष्ट्रधीबाध्यत्वं द्रष्टुर्दृष्टचरम् । तथा च कथं नादृष्टकल्पनेति । न च प्रकृते द्रष्ट्रकल्पकयोरभेद इति वाच्यम् । किं द्रष्टा स्वात्मानमेव द्रष्ट्रत्वेन कल्पयति, स्वातिरिक्तं वा ? नाद्यः । अदृष्टकल्पनापातात् । न ह्युदाहृतस्थले द्रष्ट्रैव द्रष्टा कल्पितः । न द्वितीयः । कल्पकदृष्ट्या कल्पितबाधे दृष्टेऽपि नाकल्पितकल्पकबाधो दृष्ट इत्यदृष्टकल्पनैवेति युक्तमुक्तं ‘‘न भ्रमादिबाधो युक्त’’ इति ।
ननु दृष्टान्ते बाधकधियो द्रष्ट्राद्यबाधकत्वे न बाधधीत्वं प्रयोजकं, किन्तु द्रष्ट्रादिभ्रमाधिष्ठान-तत्त्वसाक्षात्कारत्वाभावः । एवं च नेदं रजतं शुक्तिरेवेति बाधकस्य द्रष्ट्रादिभ्रमाधिष्ठान-तत्त्वसाक्षात्कारत्वाभावात् द्रष्ट्राद्यनिवर्तकत्वेऽपि ब्रह्मज्ञानस्य द्रष्ट्रादिभ्रमाधिष्ठानतत्त्वसाक्षात्कार-त्वात् द्रष्ट्रादिबाधकत्वं भविष्यतीति चेन्मैवम् । बाधधीत्वेन द्रष्ट्रादिभ्रमाधिष्ठानतत्त्व-साक्षात्कारत्वाभावस्यापि साधनात् । न चाप्रयोजकत्वम् । यत्र बाधधीत्वं तत्र द्रष्ट्रादि-भ्रमाधिष्ठानतत्त्वसाक्षात्कारत्वाभाव इति निरुपाधिकसहचारभङ्गरूपविपक्षबाधकसम्भवेना-प्रयोजकत्वायोगात् । न चाब्रह्मधीत्वमुपाधिः । तस्य पक्षेतरत्वेनानुपाधित्वात् । सर्वेषामपि ज्ञानानां सद्रूपब्रह्मानुविद्धत्वेन ब्रह्मधीत्वव्यतिरेकासिद्धेश्च । किञ्च सर्वेषामपि भ्रमाणां साक्षात् परम्परया वा ब्रह्माधिष्ठानकत्वात् सद्रूपब्रह्मणश्चैकत्वात् नेदं रजतमिति ज्ञानरजताभावयोरुभयोरपि ब्रह्मणि कल्पितत्वेन सद्रूपब्रह्मानुवेधस्यावश्यकत्वात् कथं द्रष्ट्रादिभ्रमाधिष्ठानतत्वसाक्षात्कारत्वा-भावः? न हि द्रष्ट्रादीनां सद्रूपादन्यदधिष्ठानम् । न च निष्प्रकारकाधिष्ठानसाक्षात्कारत्वं द्रष्ट्रादिबाधकत्वे तन्त्रम् । नेदं रजतमिति तु न तथेति न तेन द्रष्ट्रादिनिवृत्तिरिति वाच्यम् । तादृशज्ञानस्यालीकसमस्य क्वापि बाधत्वादर्शनेनादृष्टकल्पनापातात् । अन्यथा शून्यविषयक-ज्ञानत्वं द्रष्ट्रादिबाधकत्वे तन्त्रमिति ब्रह्मज्ञानस्य तादृशस्यापि बाधकत्वं न स्यादित्यलं मृत-मारणेनेति । तस्मात् बाधत्वव्यापकाभावात् ब्रह्मज्ञानस्याबाधकत्वेन नाक्षजे तदादाय बाधशङ्का युक्तेत्यलम् ।
इदानीं बाध्यत्वव्यापकाभावात् प्रत्यक्षमबाध्यमेवेत्याह– किञ्च दोषजन्यमिति । अतो न बाधशङ्का युक्तेति भावः । ननु दोषजन्यज्ञानप्रतिफलितस्यैव साक्षिपदार्थत्वात् कथं साक्षिज्ञानस्य दोषाजन्यत्वमिति चेन्न । तथात्वे साक्षिज्ञानेऽपि बाधापत्तेः, यथा रजतज्ञाने । तदभावे च दोषाजन्यत्वनिश्चयात् । किञ्च तत्प्रतिफलितस्य साक्षिपदार्थत्वे सुषुप्त्यवस्थायां दोषजन्यवृत्त्य-भावेन तत्प्रतिबिम्बितसाक्ष्यभावेऽज्ञानभानाभावेन एतावन्तं कालं न किञ्चिदवेदिषमिति परामर्शानुपपत्तेः । न च तत्र केवलचैतन्यस्यैव साक्षित्वमिति वाच्यम् । सर्वत्र तथैव साक्षित्वो-पपत्तौ तत्प्रतिबिम्बितत्वांशवैयर्थ्यात् । अन्यथा साक्षिणोऽप्रमात्वनियमेन तेनाद्वैतज्ञानप्रामाण्या-सिद्ध्या अन्यस्य तत्प्रामाण्यग्राहकस्याभावेनाद्वैतमप्रामाणिकमेव स्यादिति साधु समर्थितमद्वैत-मतम् । तस्मात् साक्षिणश्चैतन्यमात्ररूपत्वेन दोषजन्यत्वाभावात् न बाध्यत्वमिति स्थितम् ।
अद्वैतज्ञाने त्विति । नन्वद्वैततात्पर्यग्रहस्य प्रत्यक्षाद्यविरोधेन प्रमारूपत्वात् दोषाजन्यत्वात् न तज्जन्यमद्वैतज्ञानं बाध्यमिति चेन्न । अद्वैततात्पर्यग्राहकाभावादेव तद्ग्रहाभावेन प्रमात्वादे-र्दूरोत्सारितत्वात् । तात्पर्यग्राहकसत्त्वे वा प्रत्यक्षादिविरोधेन तत्प्रमात्वासिद्धेश्च । तात्पर्यस्य ब्रह्मातिरिक्तस्य मिथ्यात्वेन च तद्ग्रहस्य प्रमात्वासिद्धेः । किञ्च तात्पर्यग्रहः किं श्रुत्या लिङ्गादिना वा? नाद्यः । अनवस्थापातात् । न द्वितीयः । वेदान्तातिरिक्तस्य तत्त्वावेदकत्वा-भावात् । व्यावहारिकप्रमाणजन्यज्ञानस्य च दोषजन्यत्वनियमात् । अन्यथा प्रपञ्चज्ञानस्यापि व्यावहारिकप्रमाणजन्यत्वेन दोषजन्यत्वाभावेन प्रमात्वापत्त्या तेनापि पारमार्थिकसिद्ध्यापत्तिरिति प्रतिकूलमेवाचरितं देवानांप्रियेण । न च तात्पर्यभ्रमस्य न विषयबाधप्रयोजकत्वम् । तात्पर्यभ्रमे विद्यमानेऽपि सैन्धवमानयेत्यादौ विषयबाधाभावादिति वाच्यम् । अभिप्रेतार्थविषयबाधस्य तत्रापि सत्त्वात् । सैन्धवोऽस्तीत्यादौ तात्पर्यभ्रमस्य विषयबाधप्रयोजकत्वदर्शनाच्च । क्वचिद-बाधस्य यादृच्छिकवत् समाधेयत्वात् ।
किञ्च बाधकेति । ननु द्वैतश्रुतेरद्वैतश्रुतिसाम्यमेव नास्ति । तथा हि – अद्वैतश्रुतिः फलवती, द्वैतश्रुतिर्निष्फलेत्येकं वैषम्यम् । अद्वैतश्रुतिरपूर्वार्थत्वादननुवादिनी । द्वैतश्रुतिस्तु प्रत्यक्षादिसिद्धद्वैतानुवादिनीत्यपरम् । तथा च द्वैतश्रुतेः कथमद्वैतश्रुतिसाम्यमिति चेन्मैवम् । तत्र न तावदाद्यं वैषम्यम् । विद्याऽत्मनि भिदाबोधः, भेददृष्ट्याभिमानेनेति स्मृत्या द्वैतश्रुतेरपि सफलत्वात् । न द्वितीयम् । अद्वैतश्रुतेरपि मिथ्यात्वानुमितिसिद्धद्वितीयाभावानुवादकत्वात् । न चानुमित्यनवतारदशायां श्रुतिप्रवृत्तिसम्भवेन नानुवादकत्वमद्वैतश्रुतेरिति वाच्यम् प्रत्यक्षा-नवतारदशायां द्वैतश्रुतेरपि प्रवृत्तिसम्भवेन नानुवादकत्वमिति तुल्यम् । अनुवादकत्वाभावस्य द्वैतश्रुतेरग्रे विस्तरशो मूल एव प्रतिपादनाच्च । श्रुतिसिद्धसर्वस्य प्रत्यक्षागोचरत्वाच्च । श्रुति-प्रतिपादितैकदेशस्य प्रत्यक्षसिद्धत्वेनानुवादकत्वे अद्वैतश्रुतिप्रतिपाद्यजीवब्रह्मैक्यैकदेशजीवस्य प्रत्यक्षसिद्धत्वादनुवादकत्वापत्तिरित्यलमतिपल्लवेनेति ।
किञ्च बाधकधीबोध्यमिति । ननु शुक्तिरित्येव बाधबुद्धिः । नेदं रजतमिति तु तस्याः फलम् । तथा च कथं भेदस्य बाधकधीबोध्यत्वमिति चेत्, शृृणु । न हि नेदं रजतमिति ज्ञानमनुमितिरूपम् । येन तत् फलं स्यात् । किन्तु प्रत्यक्षेण रजतस्मृतिमतो ‘नेदं रजतं, किन्तु शुक्तिः’ इत्येकस्यैव ज्ञानस्योदयात् । अन्यथा भूतले घटो नास्तीत्यपि फलं स्यात् । ततश्च तत्पूर्वमपि किञ्चिज्ज्ञानं करणत्वेन स्वीकर्तव्यं स्यात् । किञ्च त्वन्मते नेदं रजतमित्यस्यैव बाधकत्वं वक्तव्यम् । तस्याद्वैतश्रुत्यविरुद्धत्वेन प्रमात्वनिश्चयात् । न तु शुक्तिरिति ज्ञानस्य । तस्याद्वैतश्रुतिविरुद्धत्वेनाप्रमात्वेन निश्चितत्वात् । किञ्च बाधस्यान्यथाज्ञानोल्लोठनपूर्वक-सम्यग्ज्ञानरूपत्वेनैतादृशाकारत्वस्यावश्यकत्वात् । अपि च बाधस्य विशेषदर्शनजन्यत्वेना-वधारणात्मकत्वात् । अवधारणस्य चेतरव्यवच्छेदविषयत्वेन भेदविषयत्वमावश्यकम् । अन्यथा पूर्वज्ञाने जागरूके उत्तरज्ञानोत्पत्तिरेव न स्यात् । न च व्यावृत्ताकारत्वेनैव बाधकत्वसम्भवात् न भेदस्य बाधकधीबोध्यत्वमिति वाच्यम् । भेदविषयत्वाभावे व्यावृत्ताकारत्वस्यैवानुपपत्तेः । न च कारणविशेषजन्यत्वेनैव व्यावृत्ताकारत्वमिति वाच्यम् । अयं, प्रमेयवानिति ज्ञानयोः शब्दानुमानजन्ययोर्व्यावृत्ताकारत्वाननुभवात् । तस्मात् भेदविषयत्वेनैव व्यावृत्ताकारताऽपि । न चासाधारणधर्मविषयत्वेन तदिति वाच्यम् । तस्यापि भेदविषयत्वं विनाऽयोगात् । ब्रह्मज्ञाने तदभावाच्च । तस्माद् ब्रह्मज्ञानस्य बाधकत्वासम्भवात् अन्यस्य चानङ्गीकारात् प्रत्यक्षे बाध्यत्व-व्यापकनिवृत्त्या व्याप्यस्य बाध्यत्वस्यापि निवृत्त्या भाविबाधशङ्का न युक्तेत्युपसंहरति– तस्मादिति ।
श्री श्रीनिवासतीर्थविरचितः
न्यायामृतप्रकाशः
प्रत्यक्षमप्रमाणमेवेति प्रथमः कल्पः स्वतःप्राप्ततत्त्वावेदनलक्षणप्रामाण्यस्य त्यागः किमनुमानविरोधात् आगमविरोधाद्वा भाविबाधकशङ्कया वेति त्रेधा विकल्पितः । तत्र प्रथमद्वितीयौ निराकृतौ । इदानीं तृतीयमनूद्य दूषयति ।। नापीति । सत्त्वग्राहिप्रत्यक्षस्य शङ्क्यमानं भाविबाधकं किमनुमानमागमो वा प्रत्यक्षं वा । नाद्यद्वितीयौ । कुत इत्यत आह ।। उक्तरीत्येति ।। जात्या उपक्रमादिन्यायैश्च प्रबलेन प्रत्यक्षेण विरोधान्न लिङ्गशब्दयो-र्बाधकत्वमित्यर्थः । न तृतीय इत्याह ।। अक्षस्येति ।। जगत्प्रत्यक्षवदेव तद्बाधकेऽपि प्रत्यक्षेऽप्रामाण्यशङ्कया तेन बाध्यत्वायोगादित्यर्थः । ननु सामान्यतः केनचित्प्रमाणेन बाधः शङ्क्यत इति चेत्तत्राह ।। सर्वेति ।। सत्त्वग्राहिप्रत्यक्षं बाध्यं त्रैकालिकनिषेधरूप-बाधोपेतत्वात्स्वाप्नप्रत्यक्षवदिति अनुमातव्यम् । स्वाप्नगजादिज्ञानस्य हि जाग्रत्कालीनं स्वाप्न-गजाद्यभावज्ञानमेव बाधकं वाच्यम् । तथा च जाग्रत्कालीनस्वाप्नगजाद्यभावप्रत्यक्षस्यापि भाविबाधकशङ्कयाऽप्रामाण्ये स्वाप्नप्रत्यक्षस्य बाधकाभावेन निषेधप्रतियोगित्वरूपाबाधासिद्धौ दृष्टान्ताभावेनान्यत्र सत्त्वग्राहिप्रत्यक्षेऽपि बाधकशङ्का न युक्तेत्याह ।। किञ्चेति ।। जाग्रच्छब्देन स्वप्नदृष्टस्य गजादेरभावो ग्राह्यः । शुक्तिरूप्यादेरभाव आदिशब्दार्थः । तयो-र्ज्ञानस्येत्यर्थः । स्वप्नादेरित्यादिपदेन शुक्तिरूप्यादि । बाधो निषेधप्रतियोगित्वं । वार्तिके भट्टवार्तिके । भट्टाचार्येणेति शेषः ।। प्रतियोगिनीति ।। विरोधिनीत्यर्थः । स्वाप्नगजादि-ज्ञानविरोधिनि जाग्रज्ज्ञाने जाग्रत्कालीनगजाद्यभावज्ञाने दृष्टे प्रामाणिके सति । अस्माकं सत्यमिथ्याविवेकवतां स्वप्नादिबुद्धिर्मृषा मिथ्यार्थावभासिका भवेत् । तव सर्वमिथ्यात्ववादिनः स्वाप्नजाग्रज्ज्ञानयोर्भेदः किं कृतः बाधकत्वेनाभिमतस्य जाग्रद्गजाद्यभावज्ञानस्यापि मिथ्यार्थावभासत्वात्स्वप्नगजादेर्मिथ्यात्वं न सिद्ध्यतीति वार्तिकार्थः । विश्वबाधकत्वेनाभिमत ज्ञाने बाधकत्वव्यापकाभावात्तदभाव इत्याह ।। अपि चेति ।। भ्रमकालीनापरोक्षबुद्धिर्भ्रम एव स्वस्य स्वकालीनत्वात् तदविषयो यो विशेषः शुक्तित्वादिस्तद्विषया इयं शुक्तिरिति धीर्बाधिका दृष्टेत्यर्थः । प्रकृते तदभावमाह ।। न चेति ।। धीः वेदान्तजन्यब्रह्मविषयक-चरमवृत्तिः । भ्रमाविषयविशेषविषया न भवति ब्रह्मणो निर्विशेषत्वादिति भावः । बाधकत्व-व्यापकान्तराभावमाह ।। किञ्चेति ।। सप्रकारैवेति ।। भ्रमविरोधिप्रकारप्रकारिकेत्यर्थः । कुत इत्यत आह ।। निर्विकल्पिकाया इति ।। धर्मिमात्रविषयकत्वेनाबाधकत्वादिति भावः । प्रकृते तदभावमाह ।। न चेति ।।
किञ्च विश्वबाधिका धीः किं शब्दजन्या शब्दाजन्या वा । आद्येऽपि किं सा सप्रकारा निष्प्रकारा वा । त्वदनभिप्रेतत्वान्नाद्य इत्याह । न तावत्सेति ।। शब्दजन्या विश्वबाधिका धीः । न द्वितीयः । शब्दस्य संसर्गप्रतियोगितावच्छेदकप्रकारकज्ञानजनकतया निष्प्रकारक-ज्ञानजनकत्वासिद्धेरित्याह । नापीति ।। नान्त्य इत्याह ।। न च त्वन्मत इति ।। बाधिका धीरिति ।। नेदं रजतमित्यादिका ।। भ्रमस्येत्यादि ।। एतावत्कालं शुक्त्यज्ञानमासीद्रजत-ज्ञानमासीदित्यनुभवेनाज्ञानं भ्रमस्वरूपञ्च न बाध्यते किन्तु भ्रमविषय एव । विषयस्य बाध्यत्वेऽपि ज्ञानस्वरूपस्याबाध्यत्वं च दुःखादिविषयकसाक्षिणः परमते प्रसिद्धमिति भावः ।। नेति ।। त्वया तु बाधकत्वाभिमतचरमवृत्त्या भ्रमस्वरूपाज्ञानदोषाध्यस्तद्रष्टृभूत-जीवादिसर्वप्रपञ्चबाधाङ्गीकारेण दृष्टवैरूप्यापात इत्यर्थः । एतावत्पर्यन्तं भाविबाधकतया
शङ्क्यमानं ज्ञानं न बाधकमित्युपपाद्य तद्बाध्यत्वं सन्घट इत्यादिप्रत्यक्षे नास्ति । बाध्यत्व-व्यापकाभावादित्याह ।। किञ्चेति ।। दोषजन्यं ज्ञानम् । प्रकृते तदभावादित्याह ।। न चेति ।। साक्षीति ।। वियदादिजगत्सत्यत्वग्राहीत्यर्थः ।। तज्जन्यमिति ।। अजन्यत्वात्तस्येति भावः ।
ननु यथाऽपौरुषेयतया वेदस्य दोषाजन्याप्यद्वैतश्रुतिर्भेदश्रुतिबाध्येति भवद्भिरुच्यते । एवं दोषाजन्यमपि साक्षिज्ञानं बाध्यतामित्यत आह ।। अद्वैतज्ञाने त्विति ।। नास्माभिर्भेद-श्रुत्याऽद्वैतश्रुतिर्बाध्यत इत्युच्यते । किंनामाद्वैतश्रुतिजन्यं ज्ञानमेव । तच्चाभेदविषयक-श्रुतितात्पर्यभ्रमजन्यमेवेत्यर्थः । सन्घट इत्यादिज्ञानेऽबाध्यत्वव्याप्यस्य सत्त्वादबाध्यत्व-मङ्गीकार्यमित्याह ।। किञ्चेति ।। रूप्यज्ञानबाधकं यत् नेदं रजतमिति ज्ञानं तत्तुल्यं यन्मानं इयं शुक्तिरिति आप्तवाक्यजन्यज्ञानान्तरं तत्संवादि इयं शुक्तिरिति ज्ञानं तन्न बाध्य-मित्यर्थः । प्रकृते तत्सद्भावमाह ।। द्वैतेति ।। अबाध्यत्वव्याप्यान्तरमाह ।। किञ्चेति ।। बाधकधीबोध्यम् अनिषेध्यत्वेनेति शेषः । तेन रजतस्यापि निषेध्यतया बाधकधीबाध्यत्वाद-बाध्यत्वापत्तिरिति शङ्कानवकाशः ।। न बाध्यमिति ।। अधिष्ठानभूतशुक्तिवदित्यर्थः । प्रकृते तत्सद्भावमाह ।। भेदश्चेति ।। कथं बाधकधीबोध्यत्वं भेदस्येत्यत आह ।। तयेति ।। बाधकधियेत्यर्थः ।। स्वेति ।। चरमवृत्तिरूपबाधकधीविषयस्य ब्रह्मणोऽभेदस्य वेत्यर्थः ।। भेदेति ।। स्वबाध्यो यो भेदस्तदभिन्नतयेत्यर्थः ।
अयं भावः । द्वैतस्य बाधकं वेदान्तजन्यचरमवृत्तिरूपं ज्ञानं स्वविषयं ब्रह्म अभेदं वा निषेध्याद्भेदादभिन्नतया गृह्णाति, औदासीन्येन वा भिन्नतया वा । नाद्यः । तथात्वे भ्रमत्व-स्यैवापत्त्या बाधकत्वायोगात् । यथा नेदं रजतमिति ज्ञानं स्वविषयं शुक्तिकाशकलं निषेध्य-रजताभिन्नतया गृह्णाति चेत्तस्य भ्रमत्वमेव दृष्टम् । तथा इहापि ब्रह्म औतं वा स्वविषयं निषेध्यभेदाभिन्नतया गृह्णाति चेद्भ्रमत्वमेव स्यान्न बाधकत्वं भेदौदासीन्येन ग्रहणेऽपि तथैव । भेदादिप्रपञ्चसाधारण्येनैवैक्यग्रहणात् । तस्माद्यदा नेदं रजतमिति ज्ञानं स्वविषयभूतं शुक्ति-शकलं रजताद्भिन्नमिति यदि गृह्णाति तर्ह्येव बाधकतया दृष्टम् । अतोऽत्रापि बाधकत्वो-पपत्तये चरमवृत्तिर्ब्रह्य औतं वा स्वविषयं स्वनिषेध्यभेदाद्भिन्नमिति गृह्णातीत्यवश्यमभ्युपेयम् । ततश्च भेदस्य बाधकधीबोध्यत्वं सिद्धमिति । उपसंहरति ।। तस्मादिति ।। बाधकशङ्का भाविबाधकशङ्का ।
श्रीकूर्मनरहरिआचार्यविरचिता
न्यायकल्पलता
प्रत्यक्षमप्रमाणमेेवेति प्रथमः पक्षः । स्वतः प्राप्ततत्त्वावेदनलक्षणप्रामाण्यस्य त्यागः किमनुमानविरोधादागमविरोधाद्वा भाविबाधकशङ्कया वेति त्रेधा विकल्पितः । तेष्वाद्यौ निराकृतौ । सम्प्रति तृतीयं निराचष्टे । नापीति । उक्तरीत्येति । जात्या उपक्रमादिन्यायैश्च प्रबलेन प्रत्यक्षेण विरोधात् लिङ्गशब्दयोर्बाधाक्षमत्वादित्यर्थः । प्रत्यक्षस्येति । सम्प्रतिपन्न-प्रत्यक्षस्याप्रमाणतया शङ्क्यमानत्वेन कल्पनीयप्रत्यक्षस्यापि प्रत्यक्षत्वाविशेषादप्रामाण्यधी-कलङ्कितत्त्वेनाबाधकत्वादित्यर्थः । सर्वविशेषेति । यावद्विशेषानालिङ्गि(त)सामान्याभावा-दित्यर्थः । न च सामान्यतो विशेषाभावनिश्चयेऽपि (सर्व)विशेषाणामियत्तावधारणदशायां संशयसम्भव इति वाच्यम्् । बाधकत्वेन सम्भावितानामागमानुमानादिप्रमाणविशेषाणां त्वदभिमतानामियत्तावधारणकाले तैर्बाधाभावस्यावधारितत्वात् । एतेन प्रकारान्तरेणाबाधितस्य चन्द्रप्रादेशिकत्वप्रत्यक्षस्य यथाऽगमेन बाधः तथा प्रकारान्तरेणाबाधितस्य सन्घट इत्यादि-प्रत्यक्षस्याद्वैतागमेन बाध इति निरस्तम् । तेनानुक्तोपालम्भोऽप्यपास्तः । शब्दलिङ्गयोः प्रत्यक्ष-बाधकत्वस्य व्यवस्थापितत्त्वात् । विकल्पेनोत्थानाच्च ।
ननु तथापि भाविबाधकशङ्कामादाय प्रत्यक्षस्य बाधकतोद्धारः समीचीन एव । प्रत्यक्ष-शब्दयोर्बलाबलविचारात् प्राक् किमयं शब्द उपचरितार्थ आहोस्वित् प्रत्यक्षमप्रमाणमिति शङ्का-यामुभयोरप्यबाधकत्वप्राप्तौ तात्पर्यलिङ्गैः श्रूयमाणार्थपरतया निश्चितस्यागमस्योपचरितार्थत्व-शङ्काव्युदासेन लब्धावकाशत्वसम्भव इति चेत् । न । शब्दे प्रतीयमानार्थपरतायां हेतुभूतेभ्य-स्तात्पर्यलिङ्गानां सकाशात्प्रत्यक्षवेद्यार्थसत्यत्वे फलपर्यन्तपरीक्षाया बलवत्वेन बाह्यान्तरप्रत्यक्ष-स्यैव लब्धावकाशत्वसम्भवात् । प्रत्यक्षविरुद्धेऽर्थेऽन्योन्याश्रयेणोपक्रमादिलिङ्गानां तात्पर्या-साधकत्वाच्च । अत एव प्रत्यक्षस्याप्रमाणतया शङ्क्यमानत्वेन शङ्काविरहोपपादनमसम्भव-दुक्तिकमिति निरस्तम् । शङ्कापिशाच्याः सर्वत्र प्रसरेण प्रेक्षावद्भिरनादरणीयत्वात् ।
किञ्चेति । जाग्रच्छब्देन स्वप्नदृष्टस्य गजादेरभावः । आदिशब्देन शुक्तिरूप्यादेरभावः । तयोर्ज्ञानमित्यर्थः । स्वप्नादेरित्यादिपदेन शुक्तिरूप्यादि । स्वव्याहतब्रुवं मायिनं विचिख्यापयिषु-स्तदीयपूर्वाचार्यसम्मतिमाह । तदुक्तमिति । जाग्रद्बोधे प्रतियोगिनि स्वाप्नगजादिविरोधिनि गजाद्यभावे ज्ञातेऽस्माकं सत्यमिथ्याविवेकवतां स्वप्नादिदृष्टिः, मृषा मिथ्यावभासिका भवेत् घटते । तव सर्वमिथ्यात्ववादिनः, बाधकत्वेनाभिमतस्य जाग्रद्गजाद्यभावज्ञानस्यापि मिथ्यार्थाव-भासकत्वात् स्वप्नगजादेर्मिथ्यात्त्वं न सिद्ध्यति । तथा च दृष्टान्ताभावेन जगति बाधशङ्का-नवकाश इति भावः ।
यदत्र केनचिदुक्तम् । जाग्रदादिज्ञानस्याप्रमात्वेऽपि स्वप्नदृष्टस्य गजादेः शुक्तिरूप्यादेश्च बाधो युज्यते । आरोप्यसत्ताधिकसत्ताकार्थविषयत्वेनापेक्षिकप्रमाणत्वेनान्यूनसत्ताकार्थविषयकत्वेन वा जाग्रद्ज्ञानस्य नेदं रजतमित्यादिज्ञानस्य वा बाधकत्वात् । तथा च दृष्टान्तोपपत्तिरिति । तदपेशलम् । मिथ्यात्वसिद्धिं विना सत्ताप्रभेदस्यैवायोगात् । आरोप्यसत्ताधिकसत्ताकविषयकमिदं जाग्रदादिज्ञानमिति ज्ञानस्यापि मिथ्यार्थावभासकत्वेन बाधितत्वाज्जाग्रद्ज्ञाने आरोप्यसत्ताक-विषयत्वस्यासिद्धेश्च । विश्वबाधकाभिमतज्ञाने बाधकत्वव्यापकानुपलब्धिबाधमाह । भ्रमकाली-नेति । भ्रमदशायामपरोक्षबुद्धिर्भ्रम एव । स्वस्य स्वाकालीनत्वाभावात् । तदविषयो विशेषः शुक्तित्वादिस्तद्विषया इयं शुक्तिरित्यादिधीर्बाधिकेत्यर्थः । यद्वा परमते भ्रमो अविद्यावृत्तिः तत्कालीनापरोक्षबुद्धिरिदमित्याकारान्तःकरणवृत्तिस्तदविषयः शुक्तित्वादिकमित्यर्थः ।
न चेति । विश्वबाधकाभिमतज्ञानस्य परमते भ्रमकालीनापरोक्षधीविषयमात्रविषयकत्वा-दित्यर्थः । न चाधिष्ठानतत्वज्ञानत्वेनैव भ्रमनिवर्तकत्वं, ब्रह्मज्ञानं च तथेति भवति विश्वभ्रम-निवर्तकमिति वाच्यम् । अधिष्ठानगतासाधारणधर्मानवगाहिनो ज्ञानस्य भ्रमनिवर्तकत्वज्ञानत्वा-योगात् । स्वाश्रयप्रतियोगिकान्योन्याभावासमानाधिकरणधर्मप्रकारकज्ञानस्यैव तत्त्वज्ञानत्वात् । अन्यथेदंत्वज्ञानस्यापि तत्त्वज्ञानत्वेन भ्रमनिवर्तकत्वापातात् । किञ्चाधिष्ठानतत्वस्य ज्ञानं, अधिष्ठानतत्त्वज्ञानम् । न हि निर्विशेषमधिष्ठानस्वरूपमेवाधिष्ठानतत्त्वम् । भ्रमानुच्छेदापातात् । एवं प्रमेयत्वेवत् प्रमेयत्वप्रकारकज्ञान स्वप्रकारकत्वापत्तौ ब्रह्मज्ञानस्य निष्प्रकारकत्वं न सिध्येत् । बाधकत्वे व्यापकान्तराभावमप्यन्वाचिनोति । किञ्चेति । निर्विकल्पिकाया इति । जागराद्य-कालीनरजतभ्रमहेतुुशुक्तिरू(प)प्यधर्मिज्ञानोपपादकत्वेन शुक्तिनिर्विकल्पकस्यावश्यकतया तस्य रजतभ्रमाविरोधित्वादित्यर्थः । तस्मात्सप्रकारकमेव तत्त्वज्ञानं भ्रमविरोधि । न च तवेति । तथा च व्यापकानुपलब्धिबाध इत्यर्थः ।
अत्राहुर्मायावादिनः । निवर्तकतायां सप्रकारकत्वस्य प्रवेशो नोचितः । गौरवात् । नन्वावश्यकः सप्रकारकत्वनियमः । व्यावृत्ताकारज्ञानत्वेनैव भ्रमनिवर्तकत्वात् । अन्यथाऽनु-वृत्ताकारज्ञानादपि तन्निवृत्यापत्तेरिति चेत् । सत्यम् । व्यावृत्त्याकारत्वेन ज्ञानस्य भ्रमनिवर्त-कता । न तु तत्र विशेषप्रकारकत्वनियमः । तथा हि । व्यावृत्ताकारता हि द्वेधा भवति । विशेषणादुपलक्षणाच्च । तत्राद्ये सप्रकारकत्वनियमः । द्वितीयेऽपि धर्मान्तरस्य यदुपलक्षणं तस्माद्व्यावृत्ताकारत्वे सप्रकारतैव । यदि तु स्वरूपोपलक्षणाद्व्यावृत्ताकारता तदा निष्प्रकारक-तैव । उपलक्षणस्य तत्राप्रवेशात् । त(स्व)स्य च स्वस्मिन्नप्रकारत्वात् । न च प्रमेयत्वादि-वत्स्वस्यैव स्वस्मिन्प्रकारत्वमिति वाच्यम् । त्वयाऽपि केवलान्वयिन्येवागत्या तथाङ्गीकारात् न सर्वत्र । अथाकारप्रकारयोरभेदाद्ब्रह्माकारतैव ब्रह्मबुद्धेस्तत्प्रकारतेति चेत् । न । विशिष्ट-बुद्धेर्विशेष्याकारत्वेऽपि तदप्रकारत्वादाकारप्रकारयोर्भेदात् । आकारश्च वृत्तिनिष्ठः कश्चिद्धर्मोऽ-साधारणव्यवहारहेतुः । तस्माद्यथाऽऽकाशपदाच्छब्दाश्रयत्वोपलक्षितधर्मिस्वरूपमात्रं ज्ञायते तद्वदत्रापि द्वितीयाभावाद्युपलक्षितब्रह्मस्वरूपज्ञानं व्यावृत्ताकारं द्वैतनिवर्तकमपरोक्षं वेदान्त-वाक्यादिति ।
अत्रोच्यते । उपलक्ष्ये कञ्चिद्धर्ममादधत एवोपलक्षणत्वम् । छात्रेणोपाध्यायमद्राक्षीदिति यथा । अत एवेत्थम्भूतलक्षण इति पाणिनिसूत्रव्याख्यानं कञ्चित्प्रकारं प्राप्त इत्थं भूतः । सामान्यस्य भेदको विशेषः प्रकारः । तस्येत्थंभूतस्य लक्षणे ज्ञापके तृतीयेति । तथा चाद्वितीयादिशब्दानामुपलक्ष्ये ब्रह्मणि उपलक्षणभूतद्वितीयाभावसंसृष्टप्रमाजनकत्वमेव । शब्द-वदाकाशमितिवत् । न तु निष्प्रकारकज्ञानजनकत्वम् । किञ्च द्वितीयाभावस्योपलक्षणत्वं किं शब्दवदाकाशमित्यत्र शब्दस्येवायावद्द्रव्यभावित्वेन उत चित्रगुमानयेत्यत्र गवामिव कार्यानन्वयि-त्वेन । नाद्यः । द्वितीयाभावादेरनित्यत्वापातात् । न द्वितीयः । मुक्तौ द्वितीयाभावद्यसिद्धि-प्रसङ्गात् । ननु प्रयाजादिवदवान्तरतात्पर्यविषयत्वात्तत्सिद्धिरिति चेत् । न । अन्योन्याश्रयात् । वेदान्तवाक्यात् द्वितीयाभावसिद्धौ तदुपलक्षितप्रधानत्वप्रसिद्धिः । तत्सिद्धौ तद्धर्मिकद्वितीया-भावसिद्धिः । उभयोरपि शब्दैकसमधिगम्यत्वात् । ब्रह्मप्रसिद्धिं विना तदधिकरणकद्वितीया-भावस्य दुरधिगमत्वात् । तदसिद्धौ ब्रह्मासिद्धिश्चेति । अवान्तरतात्पर्यविषयस्य प्रयाजादेर-न्यशेषित्वेऽपि महातात्पर्यविषयदर्शपूर्णमाससमसत्ताकत्वदर्शनेन द्वितीयाभावस्य ब्रह्मसत्तासमान-सत्ताकत्वप्रसङ्गाच्च । न ह्येतद्भावाद्वैतमतं, येनाभावद्वैतं न भावाद्वैतं विरुणद्धीति परिहारः सङ्गच्छते । अन्यथोपलक्षणत्वाङ्गीकारवैय्यर्थ्यम् । अस्त्वेतद्यथा तथा । तथापि पराभिप्रेतस्य निष्प्रकारकज्ञानस्य न बाधकत्वम् । निष्प्रकारकज्ञानस्याधिष्ठानस्वरूपमात्रविषयस्य भ्रमविषयी-कृताध्यस्तस्वरूपानपहारकत्वात् ।
अध्यस्तार्थापहारो बाध इति परैरप्यभ्युपगतमिति । दोषान्तरमन्वाचिनोति । किञ्चेति । विश्वबाधिका धीः किं शब्दजन्या उत शब्दाजन्या । आद्येऽपि सा किं सप्रकारा वा निष्प्रकारा वा । न प्रथम इत्याह । न तावत्सेति । अखण्डार्थत्वभङ्गभिया त्वदनभिप्रेतत्वादिति भावः । द्वितीयं निराह । नापीति । शब्दस्य निष्प्रकारकज्ञानजनकत्वाभावादित्यर्थः । तृतीयं निराचष्टे । न च त्वन्मत इति । लिङ्गशब्दयोरबाधकत्वादित्यत्र करणस्याबाधकत्वमुक्तम् । इह तु फलस्येति भेदः । बाधकधियो भ्रमतद्धेत्वज्ञानदोषाध्यस्तद्रष्ट्रादीनामबाधकत्वं दृष्टमिति कथं ब्रह्मज्ञानस्य तद्बाधकत्वं घटतामित्याह । किञ्चेति । तथा च भ्रमादेरबाध्यतया सत्यत्वेन तत्रैव दृश्यत्वादेर्व्यभिचार इति बोध्यम् । ननु नेयमदृष्टचरी कल्पना । (यत्र)यदा हि स्वप्ने द्रष्टारं दुष्टकरणवन्तं कल्पयित्वा तस्य भ्रमं कल्पयति तत्र जागरज्ञानेन सर्वेषां निवृत्तिदर्शनात् । जाग्रद्दशायामपि मनुष्यप्रतिकृतौ चैतन्यं कल्पयित्वा तत्समीपवर्तिन्यनादर्श एवादर्शत्वं कल्पयित्वा स्वप्रतिबिम्बमयं पश्यतीति कल्पयति तदा नायमादर्शो न चायं चेतन इति प्रमया सर्वनिवृत्तिदर्शनाच्च । तथा चेयं शुक्तिरित्याद्यधिष्ठानज्ञानं रज्वां सर्पभ्रमवत् द्रष्ट्राध्यासं मा निवीवृतत् । तत्कस्य हेतोः । तदधिष्ठानसाक्षात्कारत्वाभावात् । ब्रह्मज्ञानं त्वाकाशादि-प्रपञ्चभ्रममिव द्रष्टृदोषादिभ्रममपि निवर्तयेदेव । तत्कस्य हेतोः । अशेषभ्रमाधिष्ठानतत्त्व-साक्षात्कारत्वात् । एवं बाधबुद्धित्वं न दोषाद्यबाधकत्वे प्रयोजकम् । अपि तु तद्भ्रमाधिष्ठान-तत्वसाक्षात्कारभिन्नत्वमेव ।
ननु कल्पितत्वादुक्तदृष्टान्ते तद्बाध्यतामिह तु कथमिति चेत् । ब्रह्मव्यतिरिक्तस्य सर्वस्य कल्पितत्वमङ्गीकुर्वतामस्माकमिदमनिष्टं महदापादितमिति चेत् । न । वियदादेर्जगतः कल्पका-भावात् । तथा हि । किं ब्रह्म चैतन्यकल्पकं उतेश्वरः कल्पक आहोस्विज्जीवः । नाद्यः । तस्यानाद्यज्ञानान्धत्वात् । न द्वितीयः । तस्य सर्वज्ञत्वेन भ्रमायोगात् । ज्ञात्वापि प्रतारयतीति चेत् । न । विप्रलम्भककल्पितत्वेन वेदस्याप्रामाण्यापातात् । न तृतीयः । असर्वज्ञत्वेन जगत्कर्तृत्वानुपपत्तेः । जीवेश्वरभावस्यापि कल्पितत्त्वेन तयोरकल्पकत्वाच्च । जीवानामनेकत्वेन कल्पकस्यैकस्यावधारयितुमशक्यत्वाच्च । ‘‘द्यावाभूमी जनयन्देव एकः’’ इत्यादिश्रुतिविरोधाच्च । एवं त्रिस्कन्धचैतन्यमतनिरासेन द्विस्कन्धचैतन्यवादोऽपि निरस्तो द्रष्टव्यः । तस्मान्न कल्पितं जगदिति ।
यदप्युक्तं स्वप्नद्रष्टारमित्यादि तदप्यपेशलम् । दुष्टकरणवतो द्रष्टुर्गजादिवत्कल्पितत्वेन स्वप्न-द्रष्ट्रत्वाभावात् । यच्चोक्तं मनुुष्यप्रतिकृतावित्यादि तदप्यसारम् । तेषामपि जाग्रद्द्रष्टृकल्पितत्वेन द्रष्टृत्वासम्भवात् । तद्द्रष्टुरन्यत्वात् । यो यद्भ्रमे द्रष्टा स तद्भ्रमबाधकाबाध्य इति व्याप्तेरविकल-त्वात् । एवं च तदिदं महत्समाहितमतिसाहसिकेन वेदान्तिब्रुवेण देवानांप्रियेण यज्जगद्द्रष्टृादीनां जगद्भ्रमत्वाभिमतबाधकेन बाध इति । प्रामाण्यग्रहणद्वारा साक्षाच्च घटादेर्गगनादेश्च सत्वग्राहि-साक्षिप्रत्यक्षे बाध्यत्वाभिमते बाध्यत्वव्यापकाभावमाह । किञ्च दोषजन्यमेवेति । नन्वपौरुषेयत्वेन निर्दोषश्रुतिजन्यमप्यद्वैतज्ञानं तत्वविन्मत इव मायिमते दोषाजन्यमपि साक्षिज्ञान्• बाध्यतामित्यत आह । अद्वैतज्ञाने त्विति । व्याख्यातृदोषादेव श्रोतुर्जीवब्रह्माद्वैतज्ञानमुत्पद्यत इत्यर्थः । तथा च साक्षिप्रत्यक्षं न बाध्यम् । दोषाजन्यत्वात् । प्रत्युत श्रुतिजनिताद्वैतज्ञानमेव बाध्यम् । तात्पर्यभ्रमरूपदोषजन्यत्वादित्युक्तं भवति ।
अत्राहुर्मायावादिनः । चैतन्यस्य स्वरूपतो दोषाजन्यत्वेऽपि तदवच्छेदिकाया अविद्या-वृत्तेर्दोषजन्यत्वात् । तत्प्रतिफलितचैतन्यस्यैव साक्षिपदार्थत्वात् । अद्वैततात्पर्यग्रहस्य च प्रत्यक्षाद्यविरोधेन प्रमारूपतया दोषत्वाभावन्न तज्जन्यमद्वैतज्ञानं बाध्यम् । भ्रमजन्यत्वस्य विषय-बाधाप्रयोजकत्वाच्चेति । मैवम् । अविद्याप्रतिभासस्य साक्षिसिद्ध्यधीनत्वात्साक्षिसिद्धावविद्या-सिद्धिः । तत्सिद्धौ चैतन्यप्रतिफलनोपाध्यविद्यावृत्तिसिद्धिस्तत्सिद्धावविद्यावृत्तिप्रतिबिम्बित-चैतन्यस्य साक्षित्वसिद्धिरिति चक्रकाद्यापातात् । अज्ञानाध्यासमन्तरेणाध्यस्तांशेऽविद्यावृत्त्यनु-पपत्तेश्च । त्वन्मते साक्षिण एवाज्ञानाध्यासरूपत्वात् । किञ्च अविद्यावृत्तिप्रतिफलितचैतन्यस्य साक्षिपदार्थत्वप्रतिफलनोपाधेरविद्यावृत्तेः साक्षिविषयत्वात्तस्या एवोपादानं न युक्तम् । प्रतिबिम्ब-नोपाधिभूताया वृत्तेर्विषयिकोटौ प्रवेशेन विषयत्त्वानुपपत्तेः । नाप्यन्यस्याः । तस्या अपि विषयत्वार्थमन्यस्या उपादानमित्यनवस्था स्यात् । तस्मादनुपहितं चैतन्यमेव साक्षीत्यङ्गीकार्यम् । तच्च निर्दोषमेव । अहमज्ञप्रतीतौ तस्यैवाज्ञानविषयित्वात् । एवं सुखादिकं गगनादिकंं घटज्ञान-प्रामाण्यादिकं च शुद्धचिद्रूपसाक्षिग्राह्यम् । अन्यथा त्वन्मते अद्वैतज्ञानतत्प्रामाण्यादेरप्यविद्या-वृत्युपहितसाक्षिग्राह्यत्वापत्या शुक्तिरूप्यवदद्वैतज्ञानमप्यध्यस्तं स्यात् । एवं चार्थज्ञानात्मको भ्रम इति त्वदङ्गीकारादद्वैतज्ञानं सहार्थेन भ्रमः स्यात् । साक्षिपदनिर्वचनविरोधश्च । साक्षा-त्स्वातन्त्र्येण पश्यतीति साक्षीति । तथा हि पाणिनिसूत्रम् । ‘‘साक्षाद्द्रष्टरि संज्ञायाम्’’ इति ।
यच्चोक्तमद्वैततात्पर्यग्रहस्येत्यादि तदप्यसारम् । प्रत्यक्षाद्यविरोधासिद्धेरुक्तत्वात् । निर्विशेष-चैतन्यैक्ये प्रत्यक्षाद्यप्रसरेण विरोध इति चेत् । न । सविशेष एव वस्तुनि प्रमाणप्रवृत्या वन्ध्या-पुत्रोपमस्य तस्य बुद्धावनारोहेण तदद्वैतस्य विविक्ततया दुर्बोधत्वात् । निर्विशेषाद्वैतं शून्याद्वेैते पर्यवस्येत् । यदप्युक्तं भ्रमजन्यत्वस्येत्यादि । तदप्यपेशलम् । यादृच्छिकसंवादिनि सत्यपि दोषे स्वरूपसदबाधितार्थत्वरूपोत्तेजकतया प्रमोत्पत्तेरप्रत्यूहत्वात् । अद्वैतश्रुतौ तूक्तरूपोत्तेजकविरह-विशिष्टदोषसत्वेन प्रमानुत्पत्तेरुक्तदोषजन्यं त्वदभिमताद्वैतज्ञानं बाध्यम् । किञ्च कारणीभूतज्ञान-विषयककार्यज्ञानसम्बन्धिविषयबाधं प्रति भ्रमजन्यत्वस्य प्रयोजकत्वमस्त्येव । यथा शाब्दज्ञान-विषयबाधं प्रति संसर्गाबाधरूपयोग्यताभ्रमजन्यत्वम् । तदिहाद्वैततात्पर्यज्ञानस्याप्यापातप्रतीत्या त्वदभिमताद्वैतविषयतया तद्भ्रमत्वनिबन्धनः शाब्दाद्वैतज्ञानविषयापहारलक्षणो बाधः स्यादेव तस्मात्साधूक्तं तत्त्वविदामग्रेसरेण दोषजन्यमेवेत्यादि । सन् घट इत्यादिजगत्सत्वग्राहि-ज्ञानेऽबाध्यत्वव्याप्यमाह । बाधकतुल्यमानेति । द्वैतज्ञानं न बाध्यं बाधकतुल्यमानताक-संवादित्वात् । यन्नैवं तन्नैवं यथा शुक्तिरूप्यज्ञानमित्यर्थः ।
ननु द्वैतस्य प्रत्यक्षादिलौकिकमानसिद्धत्वेन तद्बोधकश्रुतेरनुवादकतया फलवदज्ञातस्वार्थ-तात्पर्यकाद्वैतश्रुतिसाम्याभाव इति चेत् । न । त्वद्रीत्या वर्तमानमात्रग्राहिप्रत्यक्षगृहीत-व्यावहारिकसत्यद्वैतातिरिक्तकालत्रयाबाध्यतात्त्विकद्वैतग्राहकत्वोपपत्या द्वैतश्रुतेरननुवादकत्वात् । अपौरुषेयतया फलवदपूर्वस्वार्थतात्पर्यकत्वाच्च बाधकत्वाभिमताद्वैतश्रुतितुल्यमानताकत्वम्् । दूषणान्तरमभ्युच्चिनोति । किञ्चेति । विमतो भेदो न बाध्यः बाधकधीबोध्यत्वादधिष्ठान-वदित्याह । बाधकधीबोध्य इति । अनिषेध्यतयेति शेषः । विपक्षे बाधकं वक्ति । तयेति । स्वविषयस्याद्वैतस्य ब्रह्मणो वा बाध्यमानाद्भेदादभिन्नतया वा औदासीन्येन भेदाभेदा-नवगाहित्वेन वेत्यर्थः । ननु बाधकधियो न भेदविषयत्वमभ्युपगच्छामः । इयं शुक्तिरित्येव बाधबुध्युदयात् । तस्यास्तु नेदं रजतमिति फलम् । व्यावृत्ताकारतैव भेदबाधधिय आवश्यकी । सा च स्वरूपोपलक्षणबलान्निष्प्रकारकब्रह्मज्ञानेऽप्यस्तीति न बाधकधीबोध्यत्वं भेदस्येति चेत् । न । इयं शुक्तिरित्येवं ज्ञानस्य बाधकत्वायोगात् । इदंरजतयोरिव इदं रजतेदंकारास्पद-शुक्तीनामप्यभेदस्य गृह्यमाणत्वात् । नेदं रजतं किन्तु इयं शुक्तिरिति ज्ञानेन स्वविषयस्य शुक्तेः रजतस्य च भेदे गृहीत एव रजताभेदभ्रमनिवृत्तेरनुभवसिद्धत्वात् । अत एव पीतः शङ्ख इति भ्रमः शङ्खत्वप्रत्यक्षेऽप्यनुभूयते । पीतभेदप्रत्यक्षे तु नेति भेदानवगाहिज्ञानस्य न बाधकत्वम् । व्यावृत्ताकारतानुपपत्तेश्चेति बाधकधीबोध्यस्य भेदस्य न बाध्यतेति साधीयः ।
श्री वनमालिमिश्रविरचितम्
न्यायामृतसौगन्ध्यम्
किञ्च शब्दलिङ्गयोः प्रत्यक्षाबाधकतया प्रत्यक्षान्तरस्याप्रमाणतया शङ्क्यमानत्वेना-बाधकतया च बाधकसामान्याभावे निश्चिते प्रत्यक्षे न भाविबाधकशङ्का । न च प्रत्येकं विशेषाभावनिश्चयेऽपि विशेषणामियत्तानवधारणदशायां संशयसम्भव इति वाच्यम् । बाधक-त्वेनाभिमतागमानुमानादीनां इयत्तावधारणादशायां तैर्बाधाभावस्य निश्चयसम्भवात् । किञ्चैवं जाग्रदादिज्ञानस्याप्रमात्वे स्वप्नदृष्टस्य शुक्तिरूप्यादेश्च बाधासिद्धौ कथं दृष्टान्तासिद्धिः । तदुक्तं बौद्धं प्रति भट्टवार्तिके
प्रतियोगिनि दृष्टे च जाग्रद्बोधे मृषा भवेत् ।
स्वप्नादिदृष्टिरस्माकं तव भेदोऽपि किङ्कृतः ।। इति ।
न चारोप्यसत्ताधिकसत्ताकविषयत्वेनापेक्षिकप्रमाणत्वेनान्यूनसत्ताकविषयत्वेन वा बाधकत्वमिति वाच्यम् । सत्ताभेदस्याद्याप्यसिद्धेः । यत्र वल्मीके स्थाणुत्वभ्रमोऽनन्तरं च पुंस्त्वभ्रमस्तत्र पुरुषत्वभ्रमेण स्थाणुत्वभ्रमस्य बाधापत्तेः । किञ्च भ्रमाग्रहीततत्वविषयिका धीः भ्रमबाधिका दृष्टा । न च विश्ववाधिका धीस्तथा । न चाधिष्ठानतत्वज्ञानत्वेनैव भ्रमनिवर्त-कत्वम् । तच्चास्ति विश्वनिवर्तकब्रह्मज्ञानस्येति वाच्यम् । भ्रमगृहीताधिष्ठानस्वरूपातिरिक्तस्य तत्त्वस्य त्वन्मतेऽभावात् । किञ्च सप्रकारकैव धीर्भ्रमनिवर्तिका, इयं तु निष्प्रकारिका । आवश्यकस्तत्र सप्रकारत्वनियमः । व्यावृत्ताकारज्ञानत्वेनैव भ्रमनिवर्तकत्वात्् । अन्यथा अनुवृत्ताकारज्ञानादपि तन्निवृत्यापत्तेः ।
ननु सप्रकारकस्य निवर्तकत्वेेऽपि न तत्र विशेषप्रकारकत्वनियमः । तथा हि– द्वेधा हि व्यावृत्ताकारता । विशेषणादुपलक्षणाच्च । तत्राद्ये सप्रकारकत्वनियमः । द्वितीयेेऽपि धर्मान्तरस्य यदुपलक्षणं तस्माद्व्यावृत्ताकारत्वे सप्रकारकतैव । यदि तु स्वरूपोपलक्षणा-द्व्यावृत्ताकारता तदा निष्प्रकारकतैव । उपलक्षणस्य तत्राप्रवेशात् । स्वस्य च स्वस्मिन्न-प्रकारत्वादिति चेन्न । स्वरूपोपलक्षणत्वव्यावर्तकत्वयोरयुक्तत्वात् ।
१यत्तु आकारश्च वृत्तिनिष्ठः कश्चिद्धर्मोऽसाधारणव्यवहारहेतुरिति । तन्न । विषयेणैव हि बुद्धेः साकारत्वम् । अन्यथा साकारवादापत्तेः । अथ यथाऽऽकाशपदाच्छब्दाश्रयत्वोप-लक्षितधर्मिस्वरूपमात्रं ज्ञायते तद्वदत्रापि द्वितीयाभावाद्युपलक्षितब्रह्मस्वरूपज्ञानं व्यावृत्ताकारं द्वैतनिवर्तकमिति चेन्न । दृष्टान्तासिद्धेः । ब्रह्मस्वरूपस्य भ्रमेेऽपि भासमानत्वाच्च ।
यत्तु तादात्म्येन पृथिवीं प्रति व्यापकतया गन्धे गृहीते सति पृथिवी गन्धाभाववतीति धीर्यथा तार्किकादिभिः न स्वीक्रियते गन्धव्याप्यत्वविशिष्टाया इव गन्धव्याप्यतागोचरोद्बुद्ध-संस्कारविषयीभूताया अपि पृथिव्या गन्ध•भाव)व्यावर्तकधर्मत्वेन व्यावर्तकतावच्छेदकेन तादात्म्यसम्बन्धेन तद्विशिष्टपृथिव्यां तदभावप्रकारकबुद्धेरनाहार्याया अनुत्पत्तेः । न हि गन्धव्याप्यवान् गन्धाभाववानित्यनाहार्यधीर्भवति, तथा द्वैताभावव्याप्यतया गृहीते ब्रह्मणि न द्वैतवत्वधीरनाहार्या जायते । ब्रह्मणि द्वैतव्यावर्तकधर्मत्वेन व्यावर्तकतावच्छेदकतादात्म्य-सम्बन्धेन तत्सम्बन्धिनि द्वैतस्योक्तबुद्ध्यसम्भव इति । तन्न । व्याप्यतावच्छेदकव्यापकता-वच्छेदकव्याप्त्यादेर्द्वैतस्य ब्रह्मणि गृहीतत्वेन व्याघातात् । वस्तुगत्या विपरीतसंस्कारविषये भ्रमे बाधकाभावात्् । संस्कारस्य फलोन्नेयत्वेन फलस्याद्याप्यसिद्धेश्च । यत्तु अपूर्ववादे आकाशपदस्य निरवच्छिन्ना शक्तिरुक्ता । तथा हि आकाशस्मृतिजनकसंस्कारस्य शब्दाश्रयत्वविषयकत्वनियमकल्पने शब्दाश्रयत्वांशेेऽपि संस्कारोद्बोधनियमसम्भवेनाकाश-शब्दादशक्यस्यापि शब्दाश्रयत्वस्य भानम् । अस्तु वा तदपि शक्यं, यदि नियतोपस्थिति-र्वस्तुनः । सैव नास्ति । अस्तु वा पदादपि निर्विकल्पकमिति निर्विकल्पकमाकाशनिष्ठा-नवच्छ्न्निविषयताकं, तेनाकाशे सुबर्थस्य संख्यादेः कर्मत्वादौ सुबर्थे चाकाशस्य प्रकारत्वेेऽपि न क्षतिः । तथा च यत्र धर्मस्य नियतोपस्थितिः धर्मिणामानन्त्येनानुगतधर्मं विना शक्तिग्रहासम्भवश्च तत्र च धर्मेेऽपि शक्तिरिति ‘जात्याकृतिव्यक्तयः पदार्थाः’ इति न्याय-सूत्राभिप्रेतम् । आकाशादिपदात्् धर्मिस्मृतिः कदाचिदष्टद्रव्यान्यत्वेनापीति शब्दाश्रय-त्वेनोपस्थित्यनियमात् धर्म्यनानन्त्याच्च । शुद्धाकाश एव तत्पदे शक्तिः स्वीक्रियत इति कारणीभूतशक्तिग्रहे शब्दाश्रयत्वादिना धर्मी भातोऽपि कार्यभूते स्मरणे शब्दानुभवे वा शुद्ध एव भातीति, धर्मिस्वरूपमात्रस्य ज्ञापकधीविषयत्वात् ।
शब्दाश्रयत्वादिकमुपलक्षणम् । तापसत्त्वविशिष्टस्य जटा इवेति यथा तार्किकैरङ्गीक्रियते तथा द्वितीयाभावविशिष्टब्रह्मज्ञानाधीन इति शुद्धब्रह्मणो भानात् द्वितीयाभावादिकमेवेति भावः । न च तथापि एकनामार्थमात्रविषयकशाब्दबोधे परासम्मतिरिति वाच्यम् । एको द्वावित्यादौ तदभावात् । तत्र शाब्दबोधानङ्गीकारे शृृणोमीत्यनुभवाद्यापत्तेः । अन्यथा शाब्दबोधमात्रमपलिप्येतेति । तन्न । शाब्दबोधनिर्विकल्पकत्वे हि मण्युदाहरणं मोहादेव । पदार्थस्मृतेर्निर्विकल्पकत्वेेऽपि शाब्दे तदनङ्गीकारात् । मध्ये सविकल्पकपदार्थोपस्थित्यङ्गी-कारेण सविकल्पकशाब्दबोधसम्भवात्् । उक्तं हि पक्षधरमिश्रैः ‘न च निर्विकल्पकस्मृतौ हेत्वभावः । समानप्रकारकस्मृतिं प्रति विशिष्टज्ञानस्य हेतुत्वादिति वाच्यम् । स्वविरुद्धा-प्रकारकस्मृतिजनकत्वात् । अनुभवे तु पदार्थान्तरस्मृतेरेव विशेषणज्ञानत्वेन तज्जन्यत्वा-द्विशिष्टधीत्वमेव’ इति । शाब्दस्य निर्विकल्पकत्वे पदार्थोपस्थितेस्तत्र कारणतानापत्तेः । विशेषणज्ञानविधया विशेषणतावच्छेदकप्रकारकज्ञानविधया वा तस्या हि तद्वाच्यम् । निर्विकल्पके तदसम्भवात् । वस्तुतस्तु निर्विकल्पकं न शक्तिज्ञानं पदान्निर्विकल्पकं च नास्ति आकाशपदस्याश्रयत्वसम्बन्धेन शब्द एव हि शक्यतावच्छेदकः । तदुक्तं गुणदीधितिकृद्युक्तिं परिष्कुर्वता नव्यतार्किकेण ‘येन रूपेण पदार्थस्मृतिस्तेनैव रूपेण शाब्दबोधः । न हि स्मृतिर्निर्विकल्पिका । अनुभवस्मृत्योः समानप्रकारकत्वेनैव कार्यकारणाभावात् । न वा निर्विकल्पकोपस्थितस्य शाब्दानुप्रवेशः । आकाङ्क्षादिविरहात् । तथा च गवादिपदस्य गोत्वादिविशिष्टे शक्तिग्रहं विना न गोत्वादिनोपस्थितिः । विशिष्टे शक्तिग्रहे च विशेषणेऽपि शक्तिसिद्धिरिति चेत्, तुल्यं प्रकृतेऽपि । न ह्याकाशादिपदादाकाशादेर्निविकल्पकं स्मरणम् । ततश्च शाब्दबोधो वा । एतेन शक्यनानास्थले तदनुगमार्थं शक्यतावच्छेदकापेक्षा । प्रकृते तदैक्यमेवेति निरस्तम् । विना लक्षणां तत्प्रकारकबोधार्थं तदवच्छिन्ने शक्तिसिद्धेः । न चाकाशशब्दात् कदाचिदष्टद्रव्यातिरिक्तद्रव्यत्वेन कदाचिच्छब्दाश्रयत्वेनोपस्थितिरिति नियता-नुपस्थितिकत्वात् शब्दाश्रयत्वादिकं नाकाशपदप्रवृत्तिनिमित्तम् । तर्हि गोगवयादिपदात् कदाचित् गवयगोसादृश्येन न कदाचिद्गोत्वगवयत्वादिनेति गोत्वादेरपि अतथात्वापत्तेः । तत्त्वेऽतिलघु गोत्वादिकमेव तथेति चेत् प्रकृतेऽपि शब्द एव तथेति । आश्रयत्वं तु संसर्गः, शब्दः को वा गो वेति चेत्, सर्व एव । अत एव शक्यतावच्छेदकतावच्छेदके शब्दत्व-मास्थीयते न तु कत्वगत्वादि, शब्दमात्रासाधारण्यात् शक्या(क्त्या)नन्त्यप्रसङ्गाच्चेति । तथा च शब्देनोपस्थितिः शक्त्या, अष्टद्रव्यातिरिक्तद्रव्यत्वादिना तु लक्षणया । कारणीभूतेत्याद्य-युक्तम् । येन रूपेण शक्तिग्रहस्तेनैव रूपेण पदार्थोपस्थितिः शाब्दस्य चोपपत्तौ भिन्नरूपेण तदङ्गीकारे तव दुराशाया एव बीजत्वात् ।
किञ्च धर्मान्तरमुत्थाप्य व्यावर्तकं उपलक्षणं ‘इत्थंभूतलक्षणे तृतीया’ इति स्मरणात् इत्थंभूतलक्षणे कञ्चित्प्रकारं प्राप्तस्य लक्षणे तृतीया स्यात् । जटाभिस्तापसः जटाज्ञाप्य-तापसत्वविशिष्ट इति वैय्याकरणैर्व्याख्यातत्वात् स्वस्यैव स्वोपलक्षणत्वं न(?) युक्तम् । न हि घटः घटस्योपलक्षणम् ।
किञ्च बाधकधियां भ्रमतद्धेत्वज्ञानदोषाध्यस्तद्रष्ट्रादीनां अबाधकत्वं दृष्टमिति कथं ब्रह्मज्ञानस्य तद्बाधकत्वम् । ननु यत्र हि स्वप्ने द्रष्टारं दुष्टकरणवन्तं कल्पयित्वा । तस्य भ्रमं कल्पयति तत्र जागरज्ञानेन सर्वेषां निवृत्तिर्दृश्यते । जाग्रद्दशायामपि मनुष्यप्रतिकृतौ चैतन्यं कल्पयित्वा तत्समीपवर्तिन्यनादर्श एवादर्शत्वं कल्पयित्वा स्वप्रतिबिम्बमयं पश्यतीति कल्पयति, तदा नायं चेतनो न चायमादर्श इति प्रमया सर्वनिवृत्तिदर्शनाच्च नेयमदृष्टचरी कल्पना । तथा चेयं शुक्तिरित्याद्यधिष्ठानज्ञानं रज्ज्वां सर्पभ्रममिव द्रष्ट्राद्यध्यासं मा निवीवृतत्, तत्कस्य हेतोः ? तदधिष्ठानसाक्षात्कारत्वाभावात्, ब्रह्मज्ञानं तु आकाशादिप्रपञ्चभ्रममिव द्रष्टुर्दाेषादिभ्रममपि निवर्तयेदेव, तत्कस्य हेतोः ? अशेषभ्रमाधिष्ठानतत्वसाक्षात्कारत्वात् । एवं च बाधबुद्धित्वं न दोषाद्यबाधकत्वे प्रयोजकंं, अपि तु तद्भ्रमाधिष्ठानतत्वसाक्षात्कार-भिन्नत्वमिति चेन्न ।
स्वप्ने कल्पितद्रष्ट्रादीनां दृश्यत्वेन द्रष्ट्रत्वाद्यभावात् । येन द्रष्टृनिद्राविद्यादिसंस्कारादि-दोषादिसमूहेन स्वप्ने द्रष्ट्रादयः कल्पिताः । तद्बाधकेन कल्पकद्रष्ट्रादीनामबाधात्, तदपेक्षयाऽधिकसत्ताकत्वाच्च । न च कल्पका अपि कल्पिताः । तेषां ब्रह्मान्यत्वादिति वाच्यम् । तदधिष्ठानानध्यस्तत्वमेव हि अत्र कल्पितत्वं मनुष्यप्रतिकृत्यादौ चैतन्यादिकल्पको यः द्रष्टा भ्रमबाधकज्ञानाश्रयश्च तद्बाधकेन तस्याबाधाच्च । कल्प्यानां द्रष्ट्रादीनां दृश्यानां द्रष्ट्रत्वादिकं नास्त्येव । ब्रह्मेत्ययुक्तम् । ज्ञानस्याप्यध्यस्तत्वेन निवर्त्यकोटिनिविष्टस्य निवर्तकत्वासम्भवात् । अध्यासहेतुद्रष्ट्रदोषादीनां तदध्यासाधिष्ठाने कल्पितत्वदृष्टत्वादि-युक्तत्वाच्च । आत्माश्रयापत्तेश्च द्रष्ट्रदोषाद्यन्तराङ्गीकारे अनवस्थापत्तेश्च । अत एव एवं चेत्याद्यपि निरस्तम् । द्रष्ट्रादीनां स्वहेतुकभ्रमाधिष्ठानाध्यस्तत्वस्य तत्साक्षाकारनिवर्त्यत्वस्य चासम्भवात् ।
किञ्च साक्षिप्रत्यक्षं न बाध्यं, दोषाजन्यत्वात् । प्रत्युत श्रुतिजनिताद्वैतज्ञानमेव बाध्यम् । तात्पर्यभ्रमरूपदोषजन्यत्वात् । ननु चैतन्यस्य स्वरूपतो दोषाजन्यत्वेऽपि तदव-च्छेदिकाया अविद्यावृत्तेः दोषजन्यत्वात् । तत्प्रतिफलितचैतन्यमेव साक्षी । अद्वैततात्पर्य-ग्रहस्य च प्रत्यक्षाद्यविरोधेन प्रमारूपतया दोषत्वाभावात् न तज्जन्यमद्वैतज्ञानं बाध्यम् । भ्रमजन्यत्वस्य विषयबाधाप्रयोजकत्वं चेति चेन्न । ज्ञानज्ञेययोराध्यासिकसम्बन्धं सनियम-मङ्गीकुर्वतस्ते वृत्तिप्रतिफलितस्य विषयानधिष्ठानस्य साक्षित्वाभावात् द्रष्ट्रत्वाभावाच्च । ‘साक्षात् द्रष्ट्ररि संज्ञायाम्’ इति सूत्रेण द्रष्टुरेव हि साक्षित्वमुक्तम् । वृत्तेरपि साक्ष्यधीन-सिद्धिकत्वेनान्योन्याश्रयाद्यापत्तेश्च ।
किञ्च बाधकमानतुल्यमानताकाद्वैतश्रुतिसंवादिद्वैतप्रत्यक्षं न केनापि बाध्यम् । न च द्वैतस्य प्रत्यक्षादिलौकिकमानसिद्धत्वेन तद्बोधकश्रुतेरनुवादकतया फलवदज्ञातस्वार्थ-तात्पर्यकाद्वैतश्रुतिसाम्यं नास्तीति वाच्यम् । (‘द्वासुपर्णा सयुजा सखायावि’ति श्रुतिः द्वैत-ग्राहिका । सा चाहमीश्वराभिन्न इति वर्तमानद्वैतमात्रग्राहिप्रत्यक्षागृहीतातीतानागतकाल-साधारणजीवेशद्वैतं गृह्णातीति नानुवादिकेति भावः ।) वर्तमानमात्रग्राहि प्रत्यक्षागृहीतातीता नागतकालसाधारणसत्वग्राहकश्रुतेरनुवादकत्वाभावात् । औतं हि ब्रह्मभिन्नं चेत् अखण्डार्थ-श्रुतेरगोचरो मिथ्या च स्यात् । तदभिन्नत्वे सर्वप्रत्ययवेद्यस्वप्रकाशस्वरूपाभिन्नस्या द्वैतस्य अज्ञातत्वं पुरुषार्थत्वं चासम्भवि ।
किञ्च बाधकधीबोध्यं न बाध्यम् । भेदश्च बाधकधीबोध्यः, तया स्वविषयस्य भिन्नत्वेनैव ग्रहात् । नेदं रजतमितिवत्(भिन्नाभिन्नोदासीनतया)अभिन्नतयोदासीनतया वा ग्रहणे बाधकत्वायोगात् । ननु बाधकधियो भेदविषयत्वं नाङ्गीक्रियते । इयं शुक्तिरित्येव बाध-बुद्ध्युदयात् । तस्यास्तु नेदं रजतमिति बुद्धिः फलं, व्यावृत्ताकारतैव बाधधियः आवश्यकीति चेन्न । नेदं रजतमित्येव हि धीर्बाधिका । अतः (इयं शुक्तिरिति धीस्तस्याः फलम् ।) नेेदं रजतमित्येव बुद्धिः फलं । न तु इयं शुक्तिरिति । तस्या अन्योन्याभावत्वेन धर्मिप्रतियोगि-ज्ञानसापेक्षत्वात् । शुक्तेरज्ञानेन तस्या एवासम्भवात् । ज्ञाते तु तज्ज्ञानमेव प्रतिबन्धकम्, आवश्यकत्वात्, परं त्वेतावान् विशेषः? । इयं शुक्तिरिति ज्ञानं नेदं रजतमिति ज्ञानद्वारेति सुष्ठूक्तं भेदो बाधकधीबोध्य इति । अत एव रजतत्वशुक्तित्वयोः परस्परविरोधमजानत इयं शुक्तिरिति ज्ञानस्य रजतभ्रमानिवर्तकत्वं सर्वानुभवसिद्धम् ।
श्री मन्नारी कृष्णाचार्यविरचिता
न्यायामृतमाधुरी
प्रत्यक्षमप्रमाणमेवेत्याद्यकल्पे वितर्कितकल्पत्रयीघटकाद्यद्वितीयकल्पौ प्रत्याख्याय सम्प्रति तृतीयकल्पं प्रत्याख्याति । नापीत्यादि । सर्वविशेषेति । अत्राद्वैतसिद्धिकारः शङ्कते । विशेषाणामियत्तानवधारणदशायां संशयसम्भव इति । तन्न प्राज्ञमनोरमम् । गुणत्वकर्मत्वा-भावावधारणदशायां द्रव्याव्यावृत्तिसत्तासाक्षाद्व्याप्यजातित्वावच्छिन्नाभावस्येव प्रत्यक्षस्य शङ्किताप्रामाण्यकतया बाधकप्रमाणत्वेनोरीकृतशब्दानुमानवृत्तिप्रातिस्विकधर्मावच्छिन्न-प्रतियोगिताकाभावद्वयाववधारणदशायां बाधकप्रमाणत्वावच्छ्न्निाभावावधारणसम्भवात् । पुनः स एवाशङ्किष्ट, प्रत्यक्षशब्दयोर्बलाबलविचारात् प्राक् किमयं शब्द आहोस्वित् प्रत्यक्षम-प्रमाणमिति शङ्कायामुभयोरप्यबाधकत्वप्राप्तौ तात्पर्यलिङ्गैः श्रूयमाणार्थपरतया निश्चितागम-स्योपचरितार्थत्वशङ्काव्युदासेन लब्धावकाशत्वसम्भवादिति । तदतिस्थवीयः । प्रत्यक्षविरुद्धे लिङ्गानां तात्पर्याप्रमापकत्वात् । आपातप्रतीतार्थपरताप्रत्यायकलिङ्गादपि फलपर्यन्तपरीक्षाया बलवत्वेन प्रत्यक्षस्यैव लब्धावकाशत्वसम्भवात् । किञ्चेत्यादि । जाग्रदादीत्यत्र पूर्वपदेन जाग्रद्दशायामनुभूयमानः स्वप्नानुभूतगजादिप्रतियोगिकाभावोऽभिप्रेयते । उत्तरपदेन शुक्ति-रजताद्यभावस्तद्विषयकज्ञानस्येत्यर्थः । स्वप्नादेरित्यत्र स्वप्नपदेन तदवस्थायामनुभूयमानो गजादिरादिपदेन तु शुक्तिरजतादिकमुपादीयते ।
प्रतियोगिनि बाधकाभिमते । जाग्रज्ज्ञाने स्वप्नप्रतीतगजाद्यभावज्ञाने शुक्तिरजताद्य-भावज्ञाने । दृष्टे प्रमात्वेन निश्चिते । अस्माकं ज्ञानातिरिक्तज्ञेयसद्भावमुपेयुषाम् । स्वप्नादी-त्यादिना शुक्तिरजतादिकं सङ्गृह्यते । मृषा अलीकार्थावगाहिनी । तव ज्ञानातिरिक्तं ज्ञेय-मलीकं कल्पितभेदेन ज्ञानमेव ज्ञेयमिति वादिनो योगाचारस्य ज्ञानं सर्वं तादृशमपि मिथ्येति माध्यामिकस्य च मते भेदः प्रमाभ्रमविभागः किङ्कृतः किन्निबन्धनः इति भट्टवार्तिकार्थोऽवसेयः ।
अत्राद्वैतसिद्धिकारीया, आरोप्यसत्ताधिकसत्ताकविषयत्वेनापेक्षिकप्रमात्वेनान्यूनसत्ताक-विषयकत्वेन वा बाधकत्वादित्युक्तिर्न साधीयसी । तत्समीहितसत्ताभेदरूपमनोरथोभयस्य प्राग्जगन्मिथ्यात्वसिद्धेः फलितत्वात् । वेदान्तवाक्यजनिता जगद्बाधकाभिमता धीर्न बाधिका बोधकत्वान्यूनवृत्तिबाध्याभिमतविषयतानापन्नविषयकताविनिर्मुक्तत्वादित्यभिप्रेत्याह ।। भ्रम-कालीनेति । औतिनये भ्रमोऽविद्यावृत्तिस्तत्समानकालीनापरोक्षधीरन्तःकरणवृत्तिरूपेद-मित्याकारादविषये शुक्तित्वादिकमित्यर्थः । सिद्धान्ते च भ्रमस्तत्कालीनबुद्धिश्चान्तःकरण-वृत्तिरूपैकैव । शिष्टं समानम् । यदत्रावोचदद्वैतसिद्धिकारः । अधिष्ठानतत्वज्ञानत्वेनैव भ्रम-निवर्तकत्वात् । विश्वनिवर्तकब्रह्मज्ञानस्य तथात्वादिति । अन्यविषयत्वानिरूपिताधिष्ठान-विषयताकज्ञानत्वेनेत्यर्थ इति ब्रह्मानन्दश्च व्याचकार । उभावपि न्यायपाणिनीययोर-नध्येतारौ । नेदं रजतमित्यादिबाधासङ्ग्रहात् । विपर्यस्तव्यावर्तकोपरागेणाधिष्ठानावगाहि-ज्ञानत्वस्यैवाधिष्ठानतत्वज्ञानत्वात्मकतया किञ्चिदनुपरागेण धर्मिप्रतीतेरधिष्ठानतत्वज्ञानत्वस्य दुर्निरूपत्वात् । तत्वशब्दस्य सर्वनामप्रकृतिकभावप्रत्ययनिष्पन्नत्वात् । तस्य भावस्त्वतला-विति स्मृतेः प्रकृतिजन्यबोधीयप्रकृत्यर्थनिष्ठविशेष्यतानिरूपितप्रकारतापन्नत्वं भावप्रत्यय-प्रयोगोपाधिरिति कुतः कस्मान्न भवतीति भाष्यफक्किकाव्याख्यावसरे कैय्यटेनाभिधानात् । इदं शुक्ति(क)मित्यादिज्ञानाद्रजतविपर्यासनिवृत्यापादनवारणाय तन्निवर्तकतावच्छेदककोटौ विपर्यस्तव्यावर्तकप्रकारतानिरूपकत्वांशनिवेशस्याकरनिरूढत्वाच्च । अधिष्ठानगोचरज्ञानत्वेनैव विपर्यासनिवर्तकतायां रजतविपर्यासहेतुभूतविशेष्यविशेषणसंसर्गभावानापन्नशुक्तीदंत्वसंसर्गा-वच्छिन्नतयाऽवगाहिनिर्विकल्पकस्यापि तदापत्या किञ्चिद्वृत्तिप्रकारतानिरूपकत्वांशस्य तन्निवर्तकतावच्छेदककोटिनिवेशस्य समर्थिततया प्रकारानुपरक्तावगाहित्वेनोरीकृता जगद्बाधकाभिमता धीः, तन्निवर्तकतावच्छेदानाक्रान्ता कथं तद्बाधेतेत्याह ।। किञ्चेति । यदवादीदत्राद्वैतसिद्धिकारः – निवर्तकतायां सप्रकारकत्वस्य गौरवादप्रवेशात् ।
नन्वावश्यकः सप्रकारकत्वनियमः । व्यावृत्ताकारज्ञानत्वेनैव भ्रमनिवर्तकत्वात् । अन्यथा अनुवृत्ताकारज्ञानादपि तन्निवृत्यापत्तेरिति चेत्सत्यम् । व्यावृत्ताकारत्वेन ज्ञानस्य भ्रम-निवर्तकता, न तु (तत्र विशेषप्रकारकत्वनियमः) तद्विशेषणत्वप्रकारकत्वनियमः । तथा हि । व्यावृत्ताकारता हि द्वेधा भवति । विशेषणादुपलक्षणाच्च । तत्राद्ये न सप्रकारकत्व-नियमः । द्वितीयेऽपि चेत् धर्मान्तरस्य यदुपलक्षणं तस्माद्व्यावृत्ताकारत्वे सप्रकारकतैव । यदि तु स्वरूपोपलक्षणाद् व्यावृत्ताकारता तदा निष्प्रकारकतैव । उपलक्षणस्य तत्राप्रवेशात् । स्वस्य स्वस्मिन्नप्रकारत्वात् । न च प्रमेयत्वादिवत्स्वस्यैव स्वस्मिन् प्रकारत्वमिति वाच्यम् । त्वयाऽपि केवलान्वयिन्येवागत्या तथाङ्गीकारात् । न सर्वत्र । अथाकारप्रकारयोर-भेदाद्ब्रह्माकारतैव ब्रह्मबुद्धेस्तत्प्रकारकतेति चेन्न । विशिष्टबुद्धेर्विशेष्याकारत्वेऽपि तदप्रकार-कत्वादाकारप्रकारयोर्भेदात् । आकारश्च वृत्तिनिष्ठः कश्चिद्धर्मोऽसाधारणव्यवहारहेतुरिति वक्ष्यते । तस्माद्यथाऽऽकाशपदात् शब्दाश्रयत्वोपलक्षितधर्मिस्वरूपमात्रं ज्ञायते तद्वदत्रापि द्वितीयाभावाद्युपलक्षितब्रह्मस्वरूपज्ञानं व्यावृत्ताकारं द्वैतनिवर्तकमपरोक्षम् । यथा च शब्दात्तादृशज्ञानसम्भवस्तथा वक्ष्यत इति ।
यच्च व्याकृतवान् ब्रह्मानन्दः – व्यावृत्ताकारत्वेन व्यावर्तकधर्माश्रयविषयकत्वेन । विशेषणात् व्यावृत्ताकारबुद्धौ भासमानव्यावर्तकधर्ममादाय उपलक्षणात् । उक्तबुद्धावभासमानं व्यावर्तकधर्ममादाय । धर्मान्तरस्य उत्तृणत्वादेः । उपलक्षणं काकादिकम् । तस्मात्तदादाय । सप्रकारकतैवेति । उत्तृणत्वं प्रति व्याप्यतया ज्ञापकं काकवत्वमुपलक्षणमुच्यते । उपलक्ष्यते ज्ञायते अनेनेति व्युत्पत्तेः । तथा च देवदत्तगृहाः काकवन्तः इत्यादौ काकवत्वेनोपस्थापितं उत्तृणत्वं गृहे प्रकारीभूय भातीति सप्रकारकत्वनियम इति भावः । स्वरूपोपलक्षणात् धर्मान्तरानुपस्थापकात् । स्वोपलक्षितस्य शुद्धस्यैव स्वाश्रयस्यैव लक्षणयोपस्थापकमादायेति यावत् । निष्प्रकारकेति ।। प्रकृष्टप्रकाशश्चन्द्र इत्यादिवाक्यजन्यबोधे लोके तथा दर्शनात् । उपलक्षणस्य विशेषणत्वोपाधित्वाभ्यां शून्यस्य व्यावर्तकस्य । तत्र व्यावृत्ताकारबोधे । अप्रवेशात् अविषयत्वात् ।
ननूपलक्षणस्य तत्राविषयत्वेऽपि उपलक्ष्यव्यक्तिरेव तादात्म्यसम्बन्धेन स्वस्मिन्प्रकारीभूय भातु, तत्राह– स्वस्येति । अत्यन्ताभेदे विशिष्टप्रमा न सम्भवतीति भावः । असाधारणेति ।। वह्नेरेवेयमनुमितिर्न घटस्येत्यादीत्यर्थः । तथा च विषयत्वाभावेऽपि वृत्तौ विषयस्य कश्चन सम्बन्धः स्वीक्रियते । स च प्रतियोगिध्वंसयोरिव भिन्नकालीनयोरपि । ननु शब्दात्तदर्थोपस्थितिः केनचिद्रूपेणैव लोके दृष्टा । तथा चाद्वितीयत्वसत्यत्वाद्युपलक्षितशुद्धस्य कथं शब्दादुपस्थितिस्तत्राह– तस्मादिति । उपलक्षणाद्व्यावृत्ताकारस्योप(पन्न)पादि-तत्वादित्यर्थः । स्वरूपमात्रमिति । प्रकृतवाक्यार्थबोधानुकूलाया एवोपस्थितेः पदेन साध्य-त्वात् शुद्धस्य आकाशादेः शाब्दानुभवोपयोगिनी शुद्धतदुपस्थितिराकाशादिपदात्स्वीक्रियते । उक्तं हि शब्दमण्यादौ – आकाशादिपदस्य शब्दाश्रयत्वादिविशिष्टे न शक्तिः किन्तु तदुपलक्षिते । घटादिपदस्य हि घटत्वादिविशिष्टे शक्तिर्युज्यते । व्यक्तीनामानन्त्येन तत्र शक्तिग्रहासम्भवादाकाशादिपदस्य तु एकस्यामाकाशादिव्यक्तावेव शक्तिग्रहसम्भवात् शब्दा-श्रयत्वादिकं न तच्छक्यम् । न चैवं कदाचिच्छब्दाश्रयत्वेनाकाशोपस्थितिः कदाचिदष्ट-द्रव्यान्यद्रव्यत्वादिनेत्यत्र नियामकाभावाद्युगपत्सर्वैरुपस्थितिः स्यादिति वाच्यम् । यद्रूपेणोप-स्थिते आकाशादौ शक्तिर्गृह्यते तद्रूपेण तदुपस्थितिरिति व्यवस्थायास्तदंशे शक्त्यभावेऽपि सम्भवात् । अस्तु वाऽऽकाशादिपदान्निर्विकल्पकोपस्थितिरेव, शब्दानुभवस्तु आकाश-मस्तीति वाक्ये एकमस्तीत्याद्याकारकः, न तु शुद्धाकाशे एकत्वादिप्रकारकः, शाब्दानुभव-मुख्यविशेष्यतायाः किञ्चिद्रूपावच्छिन्नत्वनियमादिति । तथा च पदार्थोपस्थितेस्तान्त्रिकैः स्वीकृतत्वात्सत्यादिपदेभ्योऽपि शुद्धोपस्थितिर्युक्तेति भावः ।
ननु कथमुपलक्षणाद्व्यावृत्ताकार(प्रकारक)ज्ञानस्य द्वैतभ्रमनिवर्तकत्वं, न हि व्यावर्तक-धर्ममविषयीकुर्वतोऽपि विरोधित्वं सम्भवति । तत्राह– अद्वैतनिवर्तकमिति ।। द्वैतनिवर्तकता-योग्यमित्यर्थः । तथा च तादात्म्येन पृथिवीं प्रति व्यापकतया गन्धे गृहीते सति पृथिवी गन्धाभाववतीति धीर्यथा तार्किकादिभिर्न स्वीक्रियते, गन्धव्याप्यत्वविशिष्टाया इव गन्ध-व्याप्यतासंस्कारविषयीभूताया अपि पृथिव्या गन्धव्यावर्तकधर्मत्वेन व्यावर्तकतावच्छेदकेन तादात्म्यसम्बन्धेन तद्विशिष्टपृथिव्यां तदभावप्रकारकबुद्धेरनाहार्याया अनुत्पत्तेः, न हि गन्ध-व्याप्यवान् गन्धाभाववानित्यनाहार्यधीर्भवति । तथा द्वैताभावव्याप्यतया गृहीते ब्रह्मणि न द्वैतवत्वधीरनाहार्या जायते । ब्रह्मणि द्वैतव्यावर्तकधर्मत्वेन व्यावर्तकतावच्छेदकतादात्म्य-सम्बन्धेन तत्सम्बन्धिनि द्वैतस्योक्तबुध्यसम्भवादिति भाव इति ।
तदुभयमपि तयोर्नैय्यायिकपरिषद्यतिपाण्डितीविभावनताप्रदर्शकमेव । शब्दचिन्तामणाव-पूर्ववादे– अस्तु वा पदादपि निर्विकल्पकमिति प्रतीकं, शब्दाश्रयत्वस्याकाशपदवाच्यत्व-मनङ्गीकर्तृभिराकाशपदादाकाशांशे तदुपस्थाप्याप्रकारकशाब्दबोधमुपगच्छद्भिरपि प्राचीनै-र्विभक्त्युपस्थाप्यैकत्वादीनां तदंशे प्रकारताया आवश्यकत्वात् तेन समं पदार्थं निरस्य संसर्गानवगाहने तादृशशाब्दबोधे शाब्दत्वासम्भवाच्च निर्विकल्पकत्वस्य तद्वृत्तिविशेष्यता-निरूपितप्रकारतानिरूपकत्वत्वावच्छिन्नाभावरूपस्य मुख्यस्य दुरुपगमतया आकाशांशे तत्पदोपस्थाप्याप्रकारकत्वरूपगौणनिर्विकल्पकत्वविशेषितान्वयबोधपरतया तत्पदोप-स्थाप्यार्थाविशेषितधर्मिविषयकशाब्दानुभवजनकनिर्विकल्पकस्मरणपरतया च व्याचक्षणैः पक्षधरमिश्रप्रभृतिभिर्व्याख्यातम् ।
न च निर्विकल्पकस्मृतौ हेत्वभावसमानप्रकारकस्मृतिं प्रति विशिष्टज्ञानस्य हेतुत्वादिति वाच्यमित्याशङ्क्य तैरेव स्वविरुद्धाप्रकारकस्मृतिजनकत्वादिना विधान्तरेण तादृशस्मरण-मुपपादितम् । तत्राद्यव्याख्या तावद्वेदान्तजन्यशब्दबोधस्य मुख्यनिर्विकल्पकतामुररी-कुर्वाणस्याद्वैतवादिनः प्रतिकूलेति स्फुटमेवा द्वितीया अन्यद्भवान् पृष्टोऽन्यदाचष्टे । आम्रान् पृष्टः कोविदारानाचष्टे इति महाभाष्यकारोक्ताभाणकविषयतां तयोः स्मारयति । शाब्दानुभवस्य निर्विकल्पकत्वं न सम्भवतीति शङ्कमानं प्रति स्मृतेर्निर्विकल्पकत्वं तान्त्रिकै-रुपेतमिति समाहितेस्तादृशत्वात् । अत्र च मते जात्यतिरिक्तस्य स्वरूपतः पदार्थान्तर-प्रकारत्वासम्भवात् । आकाशवासी शब्द इत्यादौ शाब्दबोधानुपपत्तिः, अन्वयितावच्छेदका-वच्छिन्न एव पदार्थान्तरान्वय इति नियमानुपपत्तिश्चेति पदार्थवत् तत्प्रकारीभूतधर्मांशेऽपि शक्तिग्रहापेक्षायां गोत्वादेर्गवादिपदवाच्यत्ववत् शब्दाश्रयत्वस्याप्याकाशपदवाच्यत्वमावश्यक-मित्यभिप्रेत्यैव दीधितिकृता गुणटिप्पण्यां रूपग्रन्थे अत्रेदं तत्वमित्यादिना गोत्वादिना शब्दाश्रयत्वस्याविशेषं व्युत्पाद्य प्रकाशस्य प्रवृत्तिनिमित्तलक्षणे वाच्यत्वाविशेषणस्योपादानं दूषितमेवेति तन्मतं निदर्श्यस्वसमीहित साधनाय यतमानोऽयं संविदि कथमन्तर्वाणिभि-र्बहुमानः स्यात् । न चाकाशपदस्य शब्दाश्रयत्वविशिष्टे शक्त्युपगमे आकाशः शब्दाश्रय इति सहप्रयोगानुपपत्तिः कदाचिदष्टद्रव्यान्यद्रव्यत्वेन कदाचिच्छब्दाश्रयत्वेन चेत्यनियत-बोधानुुपपत्तिश्चेति वाच्यम् । सहप्रयोगस्थले उत्तरपदस्य वाच्यत्वविशिष्टलाक्षणिकतया सामञ्जस्य मणिकृतैवोपपादितत्वात् । अनियतबोधयोश्च शक्तिलक्षणाग्रहनिबन्धनतयो-पपन्नत्वात् । तद्विरुद्धाप्रकारकत्वस्य विरोधघटकनानापदार्थघटिततया नञर्थघटिततया च गौरवात्स्मृतिवृत्तिजन्यतावच्छेदकत्वायोगेन समानप्रकारकत्वेनैव स्मृत्यनुभवयोः हेतुहेतु-मद्भावस्य आकरे समर्थिततया निर्विकल्पकस्मृतिरप्यलीकैव ।
चिन्तामणिकारैः शक्तिवादे प्राभाकरमतानुवाददशायां रूपान्तरेण ज्ञातमन्येन रूपेणोप-लक्ष्यते । यथा काकेन गृहविशेषो गोत्वेन दानकर्मव्यक्तिविशेषः स्वतो विलक्षणः । न तु काकाद्याकारेणैव । न च व्यक्तीनां जातिं विना रूपान्तरमेकमस्तीति रूपान्तरविनिर्मोके कस्यचिदुपलक्षणत्वस्य प्रत्याख्याततया स्वरूपोपलक्षणतोक्तेरतितुच्छत्वात् । अत एव भगवान् पाणिनरपि इत्थम्भूतलक्षण इति सूत्रं प्रणिनाय । वृत्तिकारा अपि कञ्चन प्रकारं प्राप्तस्य ज्ञापके द्योत्ये तृतीयेत्यार्थीथपन् । जटाभिस्तापस इत्युदाजह्रुश्च । निर्विकल्पकप्रतीतेः सप्रकारकभ्रमविरोधित्वस्यातिप्रसञ्जकत्वाच्च । द्वैतनिवर्तकमित्यस्याशयोपवर्णनमपि न समञ्जसम् । निदर्शने गन्धनिरूपितव्याप्यताविशेषितपृथिवीनिष्ठतादात्म्यसंसर्गावच्छिन्न-प्रकारतानिरूपितेदंपदार्थनिष्ठविशेष्यताशालिबुद्धेस्तदभावव्याप्यदर्शनविधया गन्धाभावधी-विरोधित्वस्य तान्त्रिकोपगतत्वेऽपि प्रकृते निर्विकल्पकत्वेनोरीकृतायाः वेदान्तवाक्यजनित-बुद्धेर्द्वैताभावनिरूपितव्याप्यताविशेषितब्रह्मनिष्ठतादात्म्यसंसर्गावच्छिन्नप्रकारतानिरूपित-विशेष्यताशालित्वानुपगतेस्तादृशद्वैतभ्रमविरोधित्वस्य पुरुषायुषेणापि दुःसंपादत्वादित्यलं निर्दलपक्षप्रतीकाराभियोगेन । जगद्बाधकाभिमता धीः शब्दजन्या तदजन्येति वितर्कद्वयी-घटकादिमति तर्के सप्रकारकत्वनिष्प्रकारकत्वगोचरनवितर्कद्वयीं चाभिप्रेत्य क्रमेण प्रतिषिध्यते । किञ्चेत्यादि । शाब्दस्योक्तदिशा निष्प्रकारकज्ञानजनकत्वासिद्धेरित्याशयः । किञ्च बाधकधीरिति । तथा च तत्रानैकान्त्यं दृश्यत्वादेर्दुर्वारमिति भावः ।
अत्राद्वैतसिद्धिकारः । यथा हि स्वप्ने द्रष्टारं दुष्टकरणवन्तं कल्पयित्वा, तत्समीप-वर्तिन्यनादर्श एवादर्शत्वं कल्पयित्वा स्वप्रतिनियतमयं पश्यतीति कल्पयति तथा नायं चेतनो न चायमादर्श इति प्रमया सर्वनिवृत्तिदर्शनाच्च नेयमदृष्टचरी कल्पना । तथा चेयं शुक्तिरित्याद्यधिष्ठानज्ञानं रज्जुसर्पभ्रममिव रज्वां द्रष्ट्राद्यध्यासमानिवर्तयेत्तत्कस्य हेतोः अशेष-भ्रमाधिष्ठानतत्वसाक्षात्कारत्वात् । एवं च बाधबुद्धित्वं न दोषाद्यबाधकत्वे प्रयोजकं अपि तु तद्भ्रमाधिष्ठानतत्वसाक्षात्कारभिन्नत्वमिति द्रष्टव्यम् । ननु कल्पितत्वादुक्तदृष्टान्ते तद्बाध्यतां इह तु कथमिति चेत् ब्रह्मव्यतिरिक्तस्य कल्पितत्वमङ्गीकुर्वतामस्माकमिदं महदनिष्टमापादित-मिति निबबन्ध तत्तुच्छम् । गजादिवदेव स्वप्ने द्रष्ट्रादीनामपि कल्पितत्वोपगमे द्रष्टृत्वायोगात् । यादृशद्रष्ट्रानिद्राऽविद्यासंस्कारादिदोषकूटेन स्वप्ने द्रष्ट्रादयः कल्पितास्तद्बाधकेन कल्पकतादृश-दोषकूटतदधिष्ठानादीनामबाधस्य निखिलतान्त्रिकोरीकृतस्य तदभिनिवेशमात्रेण दुरपह्न-वत्वात् । यो यद्भ्रमे द्रष्टा स न तद्बाधकेन बाध्यत इति व्याप्तेः स्वग्राहकगृहीततया जगद्भ्रमदृष्ट्रदोषादीनां जगद्भ्रमबाधकेन बाधो न युक्त इति ।
ननु पुरुषप्रणीतत्वनियन्त्रितविपरीतबोधकत्वादिदोषशङ्काकलङ्कितत्वविनिर्मुक्तश्रुति-जनिताद्वैतज्ञानस्य कथं बाध्यतेत्यतस्तदौपयिकदोषमभिधत्ते । अद्वैतज्ञान इति । अत्राद्वैत-सिद्धिकारः । चैतन्यस्य स्वरूपतो दोषाजन्यत्वेऽपि तदवच्छेदिकाया अविद्यावृत्तेः दोषजन्य-त्वात्् तत्प्रतिफलितचैतन्यस्यैव साक्षिपदार्थत्वात् । अद्वैततात्पर्यग्रहस्य च प्रत्यक्षाविरोधेन प्रमारूपतया दोषजन्यत्वाभावात् न तज्जन्यमद्वैतज्ञानं बाध्यम् । भ्रमजन्यत्वस्य विषयबाधा-प्रयोजकत्वाच्चेति बभाषे । तदसत् । साक्षिपदाभिधेयमविद्यावृत्तिप्रतिबिम्बतचैतन्यमित्युप-गमेऽविद्या साक्षिवेद्येत्यभिधानात्तस्याः स्वावच्छिन्नचैतन्यविषयतायामन्योन्याश्रयस्य, व्यक्त्यन्तरावच्छिन्नचैतन्यविषयतायामनवस्थाप्रसङ्गेनानवच्छिन्नचैतन्यस्यैव साक्षिपदाभिधेयतो ध्येतव्येति निर्दोषतानिबन्धनमबाध्यत्वं सुस्थमेव । ‘साक्षात् द्रष्टरि संज्ञायाम्’ इति पाणिनि-स्मृतेश्च । अद्वैततात्पर्यस्य प्रत्यक्षविरुद्धत्वस्य समर्थितत्वात् । बाधकतुल्यमानेति । यदत्राद्वैतसद्धिकारः – द्वैतस्य प्रत्यक्षादिलौकिकमानसिद्धत्वेन तद्बोधकश्रुतेरनुवादकतया फलवदज्ञातस्वार्थतात्पर्यकाद्वैतश्रुतिसाम्याभावादित्याह तत्तुच्छम् । कालत्रयाबाध्य-तात्विकद्वैतग्राहिण्याः श्रुतेः तादृशद्वैतानवगाहिवर्तमानमात्रग्राहिप्रत्यक्षगृहीतव्यावहारिक-सत्तान्यविषयकतयाऽनुवादकत्वायोगात् । प्रत्युताद्वैतस्य परावेद्यत्वरूपस्वप्रकाशत्वापन्न-ब्रह्ममात्रतया श्रुतेः तदप्रत्यायकत्वस्य, तदन्यतायां चाखण्डार्थताभङ्गस्य चापाताच्च । बाधकधीबोध्यमिति । अधिष्ठानवदिति पूरणीयम् । भेदश्चेति । भेदोऽपीत्यर्थः ।
यदवोचदत्राद्वैतसिद्धिकारः । बाधकधियः भेदविषयकत्वानभ्युपगमात् । इयं शुक्तिरित्येव बाधबुध्युदयात्तस्यास्तु नेदं रजतमिति भेदबुद्धिः फलम् । व्यावृत्ताकारतैव बाधधियः आवश्यकी । सा च स्वरूपोपलक्षणबलान्निष्प्रकारकब्रह्मज्ञानेऽप्यस्तीति न बाधकधीबोध्यत्वं भेदस्येति । तदसाङ्गत्यं, यथाश्रुतन्त्वसङ्गतम् । शुक्तिरियमिति ज्ञाने जातेऽपि रजत-भेदाज्ञानात् जातस्येदं रजतमिति भ्रमस्य नेदं रजतमिति ज्ञानेनैवोच्छेदादित्यभिदधानेन ब्रह्मानन्देनैव स्वीकृतमिति नास्माभिस्तद्व्युत्पादने प्रयतितव्यम् । बाधकधियः बाधकधी-मात्रस्य । अनभ्युपगमादिति क्वचिदिति शेष इति व्याचक्षाणोऽपि क्वचित्पदाभिप्रेतस्थला-निरूपणेन स निरस्त एव । अथ कथमेतत् नेदं रजतमिति ज्ञानस्य भेदगोचरत्वेऽपि तदभावव्याप्यवत्तादर्शनविधया अवच्छेदकधर्मदर्शनमुद्रया ग्राह्याभावनिश्चयभङ्ग्या वा ‘इयं शुक्तिः अत्र रजतत्वं नास्ति’ इति बाधकाभिमतप्रत्ययान्तं भेदानवगाहित्वादिति चेत्सत्यं भेदविषयकत्वस्य बाधधीत्वव्यापकतायाः ग्रन्थकारस्यानभिधित्सितत्वात् । भेदत्वस्य तादृशधीविषयत्वस्यैव तथात्वात् । प्राक्तनी भ्रमकालीनापरोक्षबुध्यविषयविशेषविषयैव धीर्बाधिकेत्यत्र विशेषेति सामान्योक्तिरप्येतमेवार्थं ज्ञापयति । इत्थं च न क्षतिरिति ध्येयम् ।
भिन्नतयैवेति । ग्राह्याभावतदभावव्याप्यावच्छेदकधर्मादेरुपलक्षणम् ।