यच्चेदमुच्यते ब्रह्म पारमार्थिकं सद्, जगद् व्यावहारिकम्..
७७. सत्तात्रैविध्यभङ्गः
न्यायामृतम्
यच्चेदमुच्यते ब्रह्म पारमार्थिकं सद्, जगद् व्यावहारिकम्, शुक्तिरूप्यादि-प्रातिभासिकमिति सत् त्रिविधमिति । तन्न, स्वाप्नशुक्तौ चाध्यस्तरूप्यादे-रुपसङ्ग्रहाय प्रातिभासिकादपि निकृष्टस्य सत्त्वस्य पञ्चमप्रकारस्याव्याहारि-कस्याज्ञानध्वंसस्य चोपसङ्ग्रहायापारमार्थिकस्य व्यावहारिकादप्युत्कृष्टस्य सत्त्वस्य च वाच्यत्वेन त्रैविध्यायोगात् किं चायं विभागो न तावत्तात्त्विकः, ब्रह्मैव तात्त्विकमित्यस्य भङ्गात् । नाप्यतात्त्विकः, तात्त्विकस्य ब्रह्मणोऽ-तात्त्विकत्वात् । शुक्तेःरूप्यादिव बाधगम्यस्य विभागस्य तात्त्विकत्वा-वश्यसम्भावात् । अन्यथा विभागश्रुतेरतत्त्वावेदकत्वं स्यात् । एवं च–
अयं विभागः सत्यश्चेदपसिद्धान्त आपतेत् ।
मिथ्या चेत्कृतकृत्योऽहं त्वयैव स्वोक्तदूषणात् ।।
व्यावहारिकसत्योऽपि बाध्योऽबाध्योऽथवा भवेत् ।
उक्तो दोषश्चोभयत्र सर्वमेतेन दूषितम् ।।
सम्भवति हि विश्वमिथ्यात्वब्रह्मनिर्विशेषत्वादावप्येवं विकल्प्य दूषणम् ।
अपि च किमत्र परमार्थसदेव सत् इतरद्द्वयं सद्विलक्षणमेव सत्त्वेन भ्रान्तिबाधविलम्बाविलम्बाभ्यां तद्भेद इत्यभिप्रेतम् ? किं वा सत्त्व-स्यैवाऽवान्तरभेद इति ? नाद्यः, त्वन्मते रूप्याभावे रूप्यधिय इव सत्त्वाभावे सत्त्वबुद्धेरयोगाद्, उत्पत्त्यादौ लाघवेन कदाचित्सत्त्वस्यैव तन्त्रतया सत्त्व-हीनस्य रूप्यादेरुत्पत्त्याद्ययोगाच्च, व्यावहारिके प्रातिभासिकादर्थगतविशेषाभावे तत्रार्थक्रियादेः श्रुतीनां व्यावहारिकविषयत्वेन प्रामाण्यस्य चायोगाच्च । दीर्घभ्रान्तिहेतुत्वे नभो नैल्यभ्रमहेतोरिवाप्रामाण्यातिशय एव स्यात् । नान्त्यः, असतः साधकत्वभङ्गे आरोपितानारोपितानुगतं सामान्यं नास्तीत्युक्तत्वात् । व्यावहारिकस्य चानारोपितविशेषत्वेऽस्मदभिमतसिद्धेः ।
किं च पारमार्थिकापारमार्थिकयोर्न तावद् बाधाबाधाभ्यां भेदः, मिथ्यात्व-भङ्गे उक्तरीत्याऽध्यस्तेऽपि स्वरूपाबाधस्य ब्रह्मण्यप्याकारबाधस्य सत्त्वात् जगद्बाधकस्य च सप्रकारकत्वे तस्यैव प्रकारस्याबाध्यत्वापातात् । निष्प्रकारकत्वे च बाधकत्वायोगाद्, व्यावहारिकप्रातिभासिकयोरपि न तावन्मायिकत्वाविद्यकत्वाभ्यां भेदः, नाप्यर्थक्रियाकारित्वतदभावाभ्या-मादानादिनिर्वाहकत्वतदभावाभ्यां वा भेदः, अर्थगतविशेषाभावे तदयोगात्, स्वाप्नेऽपि कुम्भादौ स्वाप्नजलाहरणाद्यर्थक्रियाकारित्वादेः सत्त्वाच्च । व्यावहारिकस्य तस्य विवक्षायां चात्माश्रयात् । नापि ब्रह्मधीबाध्यत्व-तदन्यधीबाध्यत्वाभ्यां भेदः, त्वन्मते रूप्यादेरपि शुक्त्यवच्छिन्नब्रह्मधी-बाध्यत्वात् । ब्रह्मण्यध्यस्तस्य प्रातिभासिकस्य क्षणिकत्वादेरपि ब्रह्मधी-बाध्यत्वाच्च । नापि ब्रह्मप्रमाबाध्यत्वतदन्यप्रमाबाध्यत्वाभ्यां भेदः, त्वन्मते ब्रह्मज्ञानस्यैव प्रमात्वात् । नापि प्रमाबाध्यत्वभ्रान्तिबाध्यत्वाभ्यां भेदः, भ्रान्तिबाध्यत्वस्य ब्रह्मण्यपि सत्त्वात् । नापि शुद्धब्रह्मधीबाध्यत्वतदन्यधी-बाध्यत्वाभ्यां भेदः, शुद्धशब्देन भ्रान्तिदशायामज्ञाताधिष्ठानभूतविशेष्यमात्रोक्तौ तज्ज्ञानस्याबाधकत्वात्, तत्कालाज्ञानेन द्वितीयाभावादिना विशिष्टस्योप-लक्षितस्य चोक्तौ वेदान्तानामखण्डार्थत्वहानेः, द्वितीयाभावादेः पारमार्थि-कत्वापाताच्च । एतेन महावाक्यजन्यधीबाध्यत्व तदन्यधीबाध्यत्वाभ्यां वा चरमधीबाध्यत्वतदन्यधीबाध्यत्वाभ्यां वा भेद इति निरस्तम् । महा-वाक्यजन्यस्य चरमस्य चाखण्डार्थवेदान्तजन्यतया निष्प्रकारकत्वेन बाधक-त्वायोगात् । सप्रकारकत्वे च तस्य प्रकारस्य तात्त्विकत्वापत्तेः । अत एव न निष्प्रकारकबाध्यत्वसप्रकारकबाध्यत्वाभ्यां भेदः । नापि पारमार्थिकविषयधी-बाध्यत्वव्यावहारिकविषयधीबाध्यत्वाभ्यां भेदः, अन्योन्याश्रयात् । नाप्य-न्योन्येतरत्वाभ्यां भेदः, भेदकाभावे इतरेतरत्वस्यैवायोगाद्, अन्योन्याश्रयाच्च । तस्माज्जगतः सत्यत्वात् समन्वयाध्यायोक्तन्यायैः सत्यजगत्कर्तृत्वाद्यनन्तगुणे ब्रह्मणि वेदान्ताः प्रमाणमिति । सत्तात्रैविध्यभङ्गः ।
।। इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमद्ब्रह्मण्यतीर्थपूज्यपादानां
शिष्येण व्यासयतिना सङ्गृहीते न्यायामृते प्रथमः परिच्छेदः ।।
अद्वैतसिद्धि:
ननु एवं सत्त्वत्रैविध्यविभागो नोपपद्यते, प्रातिभासिकादप्यपकृष्टस्य स्वाप्नरूप्यस्य व्यावहारिकादप्युत्कृष्टाया अविद्यानिवृत्तेः सद्भावादिति चेन्न, स्वाप्ने प्रातिभासिकनिकृष्टत्वे प्रमाणाभावात् । तथा हि प्रातिभासिकत्वं हि प्रतिभासमात्रसत्त्वम्, तच्च स्वप्नजागरयोः समानम् । ननु जागरे अधिष्ठानतावच्छेदकेदमंशस्याधिकसत्ताकत्वम्, स्वप्नकाले तस्यापि प्रातिभासिकत्वमित्येव निकृष्टत्वमिति चेन्न, स्वप्ने हि इदमो नाधिष्ठानावच्छेदकत्वम्, तुल्यवदारोप्यत्वात् । तत्राधिष्ठानमविद्यावच्छिन्नमेव चैतन्यमिति वक्ष्यते । अविद्यानिवृत्तेः पञ्चमप्रकारतापक्षे संसारकालीनसत्त्वस्यैवायं विभाग इति न न्यूनता । यद्वा अविद्यानिवृत्तेः सत्त्वाभावेन सत्त्वविभागे न तदसङ्ग्रहनिबन्धनो दोषः । वस्तुतस्तु अविद्यानिवृत्तिः ब्रह्म-स्वरूपा अनिर्वचनीया वेति न विभागन्यूनता । न च विभागस्य तात्त्विकत्त्वे अपसिद्धान्तः, अतात्त्विकत्वे त्रिविधत्वं गतमेवेति वाच्यम्, ब्रह्मातिरिक्तमतात्त्विकमिति वदतो विभागा-तात्त्विकत्वस्येष्टत्वात् । न च तर्हि तात्त्विकत्रैविध्यहानिः, को हि त्रैविध्यस्य तात्त्विकत्वं ब्रवीति ? किन्तु व्यावहारिकत्वमेव । न च तात्त्विकस्य ब्रह्मणोऽतात्त्विकाच्छुक्तिरूप्याद् बाधाधिगम्यस्य विभागस्य कथमतात्त्विकत्वमिति वाच्यम्, बाधबोध्यत्वं न तात्त्विकत्वे प्रयोजकम्, किन्त्वबाध्यत्वम् । तच्च न ब्रह्मातिरिक्तवृत्ति, नेह नानेत्यादिना बाधात् । न च त्रिविधसत्त्वाङ्गीकारे ब्रह्मैव सदिति स्वमतविरोधः, तस्य परमार्थसद् ब्रह्मैवेत्येतत्परत्वात् । एतेन विश्वमिथ्यात्वब्रह्मनिर्विशेषत्वादावप्येवं विकल्प्य दूषणमित्यपास्तम् ।
ननु अत्र परमार्थसदेव सदितरद् द्वयं सद्विलक्षणमेव सत्त्वेन भाति, बाधविलम्बा-विलम्बाभ्यां तद्भेद इत्यभिप्रेतम् ? उत वा सत्त्वस्यैवावान्तरभेद इति ? नाद्यः, त्वन्मते रूप्याभावे रूप्यधीरिव सत्त्वाभावे सत्त्वबुद्धेरयोगात् । कदाचिदपि सत्त्वाभावे तुच्छव-दुत्पत्त्याद्ययोगात्, व्यावहारिके प्रातिभासिकादर्थगतविशेषाभावेन तत्रार्थक्रियादेः श्रुतीनां तद्विषयत्वेन प्रामाण्यस्य चायुक्त्यापातात् । प्रत्युत नभो नैल्यभ्रमहेतोरिव अर्थभ्रान्ति-हेतुत्वेनाप्रामाण्यनिश्चय एव स्यात् । नान्त्यः, आरोपितानारोपितसाधारणसामान्य धर्मा-भावाद्, व्यावहारिकस्यानारोपितविशेषत्वे इष्टापत्तेश्चेति चेन्न, द्वितीयपक्षस्यैव क्षीदक्षम-त्वात् । तथा हि अबाध्यत्वरूपमारोपितानारोपितयोः सामान्यम् । अन्यथा बाध्येऽपि स्वकालाबाध्यत्वमात्रेणारोपितेऽपि तस्य सम्भवात्, आरोपितानारोपितयोरेक सामान्याभावे प्रवृत्त्याद्यनुपपत्तेरुक्तत्वात् । अत एवोक्तम्–
आकाशादौ सत्यता तावदेका प्रत्यङ्मात्रे सत्यता काचिदन्या ।
तत्सम्पर्कात् सत्यता तत्र चान्या व्युत्पन्नोऽयं सत्यशब्दस्तु तत्र ।। इति ।
यथा प्रातिभासिकरजते ज्ञातैकसदेकं रजतत्वम्, लौकिकपरमार्थरजते चाज्ञातसदपरं रजतत्वम्, तदुभयानुगतं चारोपितानारोपितसाधारणं रजतत्वं रजतशब्दालम्बनम्, एव-माकाशादावारोपितैका सत्यता, चिदात्मनि चानारोपिताऽपरा, तदुभयसाधारणी चान्या व्यावहारिकी सत्यता सत्यशब्दालम्बनमिति भावः । सद्विशेषत्वेऽपि व्यावहारिकस्य प्रपञ्चस्य नानारोपितविशेषत्वम्, येनेष्टापत्तिरवकाशमासादयेत्, सत्त्वस्यानारोपितत्वात्मकत्वाभावात् । सत्त्वाङ्गीकारादेव नोत्पत्त्यादिविरोधोऽपि । न च स्वरूपेण बाध्यत्वं प्रपञ्चेऽपि नास्ति, तुच्छत्वप्रसङ्गात्, पारमार्थिकत्वाकारेण बाध्यत्वं निर्धर्मकतया ब्रह्मण्यप्यस्तीति कथं कदा-चिद्वाध्यत्वमादाय व्यावहारिकत्वादिस्थितिरिति वाच्यम्, मिथ्यात्वरूपसाध्यनिरुक्तावेवास्य दत्तोत्तरत्वात् ।
यत्तु सप्रकारकस्यैव ज्ञानस्य प्रपञ्चबाधकत्वं वक्तव्यम्, निष्प्रकारकत्वे बाधकत्वायोगात्, तथा च सप्रकारस्तात्त्विक एव स्यात् इति, तन्न, स्वरूपोपलक्षणोपलक्षित स्वरूप-विषयकव्यावृत्ताकारज्ञानस्यैव निष्प्रकारकत्वेऽपि बाधकत्वमित्यस्यापि प्रागेवोक्तत्वात् । स्वरूपोपलक्षणनिबन्धनव्यावृत्ताकारत्वेऽपि यथा नाखण्डार्थत्वक्षतिः तदप्युक्तमधस्तात् ।
ननु व्यावहारिकप्रातिभासिकयोर्बाध्यत्वाविशेषे किंन्निबन्धनो भेदः ? न ताव-न्मायिकत्वाविद्यकत्वाभ्यां भेदः, मायाविद्ययोरभेदात् । अर्थगतविशेषाभावे तदयोगाच्च । नाप्यर्थक्रियाकारित्वाकारित्वाभ्यां विशेषः, स्वाप्नघटादौ स्वाप्नजलाहरणाद्यर्थक्रियादर्शनात् । न चार्थक्रियायां व्यावहारिकत्वं विशेषणम्, अन्योन्याश्रयात्, स्वाप्नाङ्गनालिङ्गनादौ प्रातिभासिके व्यावहारिकसुखजनके अतिव्याप्तेश्च । नापि ब्रह्मज्ञानबाध्यत्वतद्भिन्नज्ञानबाध्यत्वाभ्यां विशेषः, त्वन्मते रूप्यादेरपि शुक्त्यवच्छिन्नब्रह्मधीबाध्यत्वाद्, ब्रह्मण्यध्यस्तस्य क्षणिकत्वा-देरपि प्रातिभासिकस्य ब्रह्मधीबाध्यत्वेनातिप्रसङ्गाच्च । नापि ब्रह्मप्रमाबाध्यत्वतदन्यप्रमा-बाध्यत्वाभ्यां विशेषः, त्वन्मते ब्रह्मज्ञानस्यैव प्रमात्वात् । नापि प्रमाबाध्यत्वभ्रान्ति-बाध्यत्वाभ्यां विशेषः, भ्रान्तिबाध्यत्वस्य ब्रह्मण्यपि सत्त्वात् । नापि पारमार्थिकविषयधी-बाध्यत्वव्यावहारिकविषयधीबाध्यत्वाभ्यां विशेषः, अन्योन्याश्रयात् । नाप्यन्योन्येतर-त्वाभ्याम्, भेदकाभावे इतरत्वस्यैवायोगाद्, अन्योन्याश्रयाच्चेति, चेन्न, सप्रकारकनिष्प्रकारक-ज्ञानबाध्यत्वाभ्यां शुद्धब्रह्मधीबाध्यत्वतदन्यधीबाध्यत्वाभ्यां वा महावाक्यजन्यधीबाध्यत्व-तदन्यधीबाध्यत्वाभ्यां वा स्वबाधकधीबाध्यत्वतदन्यधीबाध्यत्वाभ्यां वा भेदसम्भवात् । शुद्धशब्देन निर्धर्मकाधिष्ठानमात्रमेवात्र विवक्षितम् । न च निर्धर्मकं यद् वस्तुगत्या तज्ज्ञानं भ्रमकालेऽपि, निर्धर्मकत्वविशिष्टस्य तदुपलक्षितस्य वा ज्ञानं चेद्विवक्षितं, तदा अखण्डार्थ-ताहानिः, प्रकारीभूतनिर्धर्मकत्वद्वितीयाभावादेस्तात्त्विकत्वापत्तिश्चेति वाच्यम्, निर्धमकं यद् वस्तुगत्या तन्मात्रगोचरज्ञानस्य विवक्षितत्वात्, तस्य च भ्रमकालेऽभावात् । निधर्मकत्वादि-स्तद्बुद्धावुपायत्वमात्रं, न तु तद्बुद्धौ विषयत्वम् । अतो नाखण्डार्थताहानिप्रकार-तात्त्विकत्वापत्ती । निष्प्रकारकत्वेऽपि संशयादिनिवर्तकत्वमुप पादितमेव । तस्मादज्ञानो-पादानकं जगत् मिथ्येति सिद्धम् ।
उपाधिबाधप्रतिपक्षशून्यं विपक्षबाधागमसव्यपेक्षम् ।
दृश्यत्वमव्याहतमम्बरादिमिथ्यात्वसिद्धौ सुदृढं हि मानम् ।।
तदेवं दृश्यस्य प्रपञ्चस्य मिथ्यात्वात्तदतिरिक्तब्रह्मरूपाखण्डार्थनिष्ठवेदान्तवाक्यं परतत्त्वा-वेदकम् । सखण्डार्थविषयकं सर्वमतत्वावेदकमेवेति । यद्यपीदं ब्रह्मज्ञानाव्यवहितभ्रमविषये प्रातिभासिके व्यावहारिकलक्षणमतिव्याप्तम् । प्रातिभासिकलक्षणं चाव्याप्तम्, तथापि करणसंसर्गिदोषप्रयुक्तत्वं तदसंसर्गिदोषप्रयुक्तत्वं च तयोर्लक्षणं निरवद्यम् ।
अविद्यातत्कार्यात्मकनिबिडबन्धव्यपगमे ।
यमद्वैतं सत्यं प्रततपरमानन्दममृतम् ।।
भजन्ते भूमानं भवभयभिदं भव्यमतयो ।
नमस्तस्मै नित्यं निखिलनिगमेशाय हरये ।। १ ।।
अनादिसुखरूपता निखिलदृश्यनिर्मुक्तता ।
निरन्तरमनन्तता स्फुरणरूपता च स्वतः ।।
त्रिकालपरमार्थता त्रिविधभेदशून्यात्मता ।
मम श्रुतिशतार्पिता तदहमस्मि पूर्णो हरिः ।। २ ।।
।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वती श्रीचरणशिष्यश्रीमधुसूदन सरस्वतीविरचितायामद्वैतसिद्धौ सपरिकरप्रपञ्चमिथ्यात्वनिरूपणं नाम प्रथमः परिच्छेदः ।।१।।
न्यायामृततरङ्गिणी
।। स्वाप्नशुक्ताविति ।। स्वप्ने बाधाबाधाभ्यामपकर्षोत्कर्षौ । एतेन स्वप्नेऽपीदमंशस्य नाधिष्ठानतावच्छेदकत्वम् । तुल्यवदारोप्यत्वात् । किं त्वविद्याया इति निरस्तम् । इदमंशस्य तदनवच्छेकत्वेऽपि स्वप्ने बाधाभावेन तत्राध्यस्तरूप्यादुत्कृष्टत्वात् ।। पञ्चमप्रकारेति ।। न च संसारकाले सत्त्वस्यायं विभाग इति वाच्यम् । मुक्तिदशानुगत-ब्रह्मसत्त्वासङ्ग्रहापातात् । यत्त्वविद्यानिवृत्तौ सत्त्वमेव नास्तीति न तत्सङ्ग्रह इति । तन्न । तस्यास्तुच्छत्वापत्तेः । ब्रह्मस्वरूपत्वे त्वसाध्यत्वम् ।। तात्विकस्येति ।। ब्रह्मणः शुक्तिरूप्यात् विभागस्यातात्विकत्वे ब्रह्मणोऽपि रूप्यवदतात्विकत्वं स्यात् । क्वचिच्छुक्ति-रूप्यादि वेति पाठः । स त्वयुक्तः । ननु बाधगम्यत्वं न तात्विकत्वे प्रयोजकम् । किं त्वबाध्यत्वम् । तच्च न ब्रह्मातिरिक्ते । नेह नानेति श्रुतिविरोधादित्यत आह ।। अन्यथेति ।। अस्थूलमनण्वित्यादिप्रपञ्चाद्विभागश्रुतिः । नेह नानेति श्रुत्यर्थस्तूक्तः । सत्त्वस्यानुगतस्याभावत्तदवान्तरभेदो न सम्भवतीत्याह ।। नान्त्य इति ।। ननु सङ्क्षेपशारीरके–
आकाशादौ सत्यता तावदेका ।
प्रत्यङ्मात्रे सत्यता काचिदन्या ।।
तत्सम्पर्कात्सत्यता काचिदन्या ।
व्युत्पन्नोऽयं सत्यशब्दस्तु तत्र ।।
यथा प्रातिभासिकरजते ज्ञातैकसदेकं रजतत्वं लौकिकपरमार्थरजते चापरं रजतत्वं तदुभयानुगतं चारोपितानारोपितसाधारणं रजतत्वं रजतशब्दावलम्बनं एवमाकाशा-दावारोपितैका सत्यता । चिदात्मनि चानारोपितापरा । तदुभयसाधारणी चान्या व्यावहारिकी सत्यता सत्यशब्दावलम्बनमित्युक्तत्वेनारोपितानारोपितयोरपि सामान्य-मस्तीति चेन्मैवम् । उभयानुगतसामान्यस्योभयात्मकतया विरोधस्योक्तत्वात् । व्यावहारिकं किमारोपितकोटावुत्कृष्टं वाऽनारोपितकोटौ वा । आद्ये श्रुत्यादेरुत्कृष्टभ्रान्तिहेतुत्वम् । द्वितीये अव्यावहारिकस्येति । उभयबहिर्भावे च विरोध इति भावः । अबाध्यस्य पारमार्थिकत्वे दोषमाह ।। जगद्बाधकस्येति ।। तथा च जगद्बाधकज्ञानविषयीभूतप्रकारस्य पारमार्थिकत्वं स्यादित्यर्थः ।। तदभावादिति ।। मायाया मायिकत्वस्याविद्याया आविद्यकत्वस्याभावात् ।। प्रातिभासिकत्वाच्चेति ।। व्यावहारिकत्वाभावात् ।। असाधारणस्येति ।। तत्तद्देहावच्छेदेन नियतस्य ।। व्यावहारिकत्वाच्चेति ।। प्रातिभासिकत्वाभावात् ।। त्वयैवेति ।। रूप्यस्य मायिकत्वं वर्णयता ।। अर्थगतेति ।। अर्थे विशेषे सति तन्निबन्धनावर्थक्रियाकारित्वतदभावौ । नत्वर्थक्रियाकारित्वतदतदभावरूप एवार्थे विशेष इत्यर्थः ।। आत्माश्रयादिति ।। स्वप्नाङ्गनालिङ्गनादौ प्रातिभासिकेऽपि व्यावहारिकार्थक्रियादर्शनादित्यपि बोध्यम् ।। ब्रह्मधीति ।। अधिष्ठानधीबाध्यत्वा-दध्यस्तस्य ।। त्वन्मत इति ।। तथा च ब्रह्मपदं व्यर्थम् । ननु ब्रह्ममात्रगोचरा या धीस्तद्बाध्यत्वं विवक्षितम् । तादृशी चरमवृत्तिरेवेत्याशङ्क्य निराकरोति ।। तज्ज्ञान-स्येति ।। विशेष्यमात्रगोचरज्ञानस्याबाधकत्वादित्याशङ्क्य निराकरोति ।। चरमधीति ।। महावाक्येति ।। तादृशज्ञानस्याप्रसिद्धिरित्यपि बोध्यम् । अन्यथा स्वापेक्षया स्वस्येतरत्वप्रसङ्गः । ननु व्यावहारिकगतेनेतरत्वेन प्रातिभासिक इतरत्वसिद्धिः प्रातिभासिकगतेन च तेन व्यावहारिके तत्सिद्धिरिति भेदकाभावेऽपीतरत्वसिद्धिरित्यत आह ।। अन्योन्याश्रयाच्चेति ।। परिच्छेदार्थमुपसंहरन्वक्ष्यमाणमुपक्षिपति ।। तस्मादिति ।।
जात्याद्युक्तबलेक्षणानुमितितत्सूत्रागमानायतो ।
न्यक्कारच्छिदसिद्धिपूर्वसकलाभासाक्षपक्षक्षितम् ।।
ब्रह्मैवेदमिति श्रुतिप्रमुखसन्मातृप्रियत्वच्युतम् ।
दृश्यत्वादिकुवादिहेतुवटकं को वाऽऽद्रियादद्रिहृत् ।। १ ।।
विश्वं भद्रमवन्ति यद्दिविषदः सत्यं तदित्यादिकम् ।
श्रुत्या तर्कमुदर्क एव बहुलाभद्रादिशब्दं श्रिता ।।
शङ्कासिद्धिमहांशुकाहनकशाशङ्कालवोत्सर्गतः ।
प्रामाण्येन दृढे क्षणेन विमतेस्तत्वं चितीवस्थितम् ।। २ ।।
शुकादिदिग्गोभिरपीन्द्रसम्पदो यदिच्छयाकाकणिकाधरीकृताः ।
सवल्लवीपल्लववेल्लिताङ्गुलिर्मुरन्द्विषंस्तुष्यतु मे वचः श्रिया ।। ३ ।।
व्यासाद्रिसृततर्काम्बुपूरैः पक्षयुगंयुजि ।
न्यायामृततरङ्गिण्यां सत्तात्रैविध्यखण्डनम् ।। ४ ।।
नविद्याभीराभीरवगतिबिभत्साभिरबुधा ।
जिगीषाभिः किन्तु स्ववचसिशुषुत्साभिरकृपि ।।
तरङ्गिण्याख्यां तां बुधजनघनः सूक्तिसलिलैः ।
नयेत्पूर्णप्रज्ञोदितनिगमसिद्धान्तजलधिम् ।। ५ ।।
सद्योजातजटाजपावनसरिद्गोदावरीतीरतो ।
गव्यूतिर्वसतिः सतां कुलवतामम्बापुरी तत्र ये ।।
व्यासाख्या उपमन्युगोत्रजबुधास्तेष्वास्त यो मुद्गलः ।
तत्राजायत ये मुरारिचरणा व्यासाभिधाना बुधाः ।। ६ ।।
तेभ्योऽजायतविश्वनाथ इति यस्सज्ज्ञानरत्नाकरः ।
स्तस्मादाविरभूत्सुरद्रुमयशा आचार्यनारायणः ।।
रामाचार्य इतीरितस्तदनुजो यस्तत्ववादां बुधेः ।
आनीत्सतरङ्गिणीमिहपरिच्छेदोयमाद्योऽपि यः ।। ७ ।।
।। इति श्रीव्यासरामाचार्यविरचितायां न्यायामृततरङ्गिण्यां प्रथमः परिच्छेदः ।। १ ।।
न्यायामृतकण्टकोद्धारः
ननु तथापि सत्रैविध्यान्यथानुपपत्याऽनिर्वचनीयत्वं स्वीकर्तव्यमेव । तत्कथम-निर्वचनीयाभाव इत्यतोऽसिद्धेर्नासिद्धं साध्यत इति वक्तुं परमतमुपन्यस्यति ।। यच्चेदमिति ।। सत्रैविध्ये प्रमाणाभावात् । न हि प्रत्यक्षादिप्रमाणेन तथा कस्यापि प्रतीतिरिति दूषणे सत्येव दूषणान्तरमाह ।। स्वाप्नेति ।। न च जागरप्रातिभासिकात् स्वाप्नप्रातिभासिकत्वस्य निकृष्टत्वे प्रमाणाभावः प्रतिभासमात्रशरीरत्वस्याविशेषादिति वाच्यम् । प्रातिभासिकत्वा-विशेषेऽप्येकत्राधिष्ठानतावच्छेदकेदमंशस्यारोप्यादधिकसत्त्वमपरत्र समसत्त्वमिति विशेष-सद्भावात् । न च स्वप्ने नेदमंशस्याधिष्ठानतावच्छेदकत्वं किन्त्वविद्यावच्छिन्नचैतन्य-स्यैवाधिष्ठानत्वेनाविद्याया एवावच्छेदकत्वादिति वाच्यम् । तथात्वेऽविद्या रूप्यमिति भ्रमापत्तेः । न ह्यधिष्ठानानुल्लेखी भ्रमो दृष्टः । अन्यथाऽधिष्ठानत्वेन ब्रह्मसिद्धिर्न स्यात् । स्वप्नेऽविद्याया अप्यारोप्यत्वेन शुक्तिवदधिष्ठानतावच्छेदकत्वायोगात् । न च संसार-समानकालीनसत्त्वस्यैव विभागात् पञ्चमप्रकाराविद्यानिवृत्तिपक्षे तस्यास्तदसमानकालीन-त्वान्न विभागन्यूनतेति वाच्यम् । बहुजीववादपक्षे तस्यास्तत्समकालीनत्वात् । तस्याश्च तत्पक्ष एव सम्भवात् । अन्यथा संसारनिष्ठसत्त्वस्यैव विभागापत्या विभागन्यूनत्वा-परिहारात् । न चाविद्यानिवृत्तेः सत्त्वाभावेन सत्त्वविभागे तदसङ्ग्रहो न दोषायेति वाच्यम् । तस्या अपि दृश्यत्वादिना जगद्वत् सत्त्वस्यावश्यकत्वात् । असत्त्वे च मोक्षाभावः । श्रवणादिसाध्यत्वं च न स्यात् । न चाविद्यानिवृत्तिर्ब्रह्मरूपा वाऽनिर्वचनीया वेति न विभागन्यूनतेति वाच्यम् । ब्रह्मरूपत्वे श्रवणादिसाध्यत्वं न स्यात् । सदा मुक्तत्वापत्तेश्च । अनिर्वचनीयत्वेऽनिर्वचनीयस्य निवृत्तिनियमात् मुक्तस्य संसारित्वापत्तेरिति दिक् ।। बाधगम्यस्येति ।। न च बाधगम्यत्वं न तात्विकत्वे प्रयोजकम् । किं त्वनिषेध्यत्वम् । विभागस्तु ब्रह्मातिरिक्तत्वात् नेह नानेति निषेधादिति वाच्यम् । निषेध्यत्वे बाधगम्यत्वानुपपत्तेः । न हि स्वेनैव विधीयते निषिध्यत इति सम्भवति । अन्यथाऽ-धिष्ठानस्यापि निषेध्यत्वे तात्विकत्वाभावप्रसङ्गात् । विरोधस्याविशेषात् । इष्टापत्तेश्च । तात्त्विकविभागस्यैवास्माक मनिष्टत्वात् । अत एवाह ।। कृतकत्योहमिति ।। एतेन मिथ्यात्वादावपि विकल्पदूषणनिराकरणमपहस्तितम् । किञ्च सत्रैविध्यं तदा स्याद्यदि सत्त्वसामान्यं स्यात् । सामान्येनोद्दिष्टस्य हि विशेषविभागः । न च सत्त्वसामान्यं त्वया वक्तुं शक्यम् । इति दूषयितुं विकल्पेन पृच्छति ।। किञ्चेति ।। त्वन्मत इति ।। सर्वथा वस्त्वभावे तत्प्रत्यक्षानभ्युपगमादिति भावः ।। लाघवेनेति ।। असद्विलक्षणत्वाद्यपेक्षया सत्त्वस्य लघुत्वादिति भावः ।। व्यावहारिक इति ।। लाघवेनार्थक्रियादौ सत्त्वस्यैव तन्त्रत्वादिति भावः ।। असत इति ।। न चारोपितानारोपितसामान्याभावे रजतार्थिनः शुक्तिरूप्यादौ प्रवृत्तिर्न स्यादिति वाच्यम् । न हि सामान्यमिति ज्ञानं प्रवर्तकम् । तदभावेऽपि इष्टतावच्छेदकरजतत्वप्रकारकज्ञानमात्रात् प्रवृत्युपपत्तेः । आश्रायाभावे सामान्यायोगाच्च । अतिप्रसङ्गानां चासतः साधकताभङ्ग उक्तत्वादिति भावः ।। व्यावहारिकस्य चेति ।। न च सद्विशेषत्वेऽप्यनारोपितविशेषत्वाभावान्नेष्टापत्तिरिति वाच्यम् । अनारोपितत्वातिरिक्तस्य तस्य निर्वक्तुमशक्यत्वात् । न चाबाध्यत्वमेव सत्त्वमिति वाच्यम् । तस्यानारोपितत्वव्याप्यत्वेनारोपितत्वे तदयोगात् । न ह्यारोपित-मबाध्यं च सम्भवति । न च स्वकालाबाध्यत्वमध्यस्तस्याप्यस्तीति वाच्यम् । पुरुषविशेषं प्रति तत्कालेऽपि बाध्यात् । अन्तत ईश्वरं प्रति बाधसम्भवाच्चेति दिक् । एवं सामान्याभावान्न विशेषविभागः । भेदकाभावाच्च न विशेषविभाग इत्याह ।। किञ्चेति ।। अत्र स्वरूपाबाधस्याध्यस्तेऽपि सत्त्वात् आकारबाधस्य च ब्रह्मण्यापि सत्त्वादित्यन्वयः । इदं च मिथ्यात्वनिरुक्तिभङ्ग एवोपपादितमिति तेनैवानुसन्धेयम् ।। प्रकारस्येति ।। न च प्रकारोऽपि तेनैव बाध्यत इति वाच्यम् । बाधितप्रकारकज्ञानस्य बाधकत्वायोगात् । अन्यथाऽतिप्रसङ्गात् ।। निष्प्रकारकत्वे चेति ।। न च स्वरूपोपलक्षणोपलक्षितस्वरूप विषयताकव्यावृत्ताकारज्ञानस्य निष्प्रकारकत्वेऽपि बाधकत्वमिति वाच्यम् । निष्प्रकारकत्वे व्यावृत्ताकारत्वायोगात् । सप्रकारस्यैव व्यावृत्ताकारत्वेन दर्शनात् अन्यथोपपत्तेश्च नादृष्टकल्पना उपलक्ष्ये विशेषाभावेन उपलक्षितत्वायोगस्योक्तत्वाच्च । उपलक्षणस्य बाध्यत्वे तस्य व्यावृत्ताकारोपलक्षकत्वायोगाच्च । बाध्यत्वेऽपसिद्धान्तः । ब्रह्मणो निराकारत्वेन व्यावृत्ताकारज्ञानायोगाच्च । अखण्डार्थत्वहानेश्च । यथा चैतत्तथोपपादितमधस्तात् ।
इदानीं व्यावहारिकप्रातिभासिकयोर्भेदकं खण्डयितुमाह ।। व्यावहारिकेति ।। मायेति ।। मायाविद्याजन्यत्वतदधीनत्वयोः मायाविद्ययोरयोगादात्माश्रयादिति भावः ।। मायिकस्येति ।। तथा चातिव्याप्तिरिति भावः ।। असाधारणस्येति ।। आविद्य-कस्येत्यर्थः । न च दुःखादिकमपि प्रातिभासिकमिति वाच्यम् । तथात्वे ब्रह्म-धीबाध्यत्वायोगात् ।। त्वयैवेति ।। एकाज्ञानवादिनेत्यर्थः ।। नापीति ।। न च पौनरुक्त्यं सामान्यविशेषाभ्यां विशेषोपपत्तेः ।। अर्थेति ।। अवच्छेदकाभावेऽर्थ-क्रियाकारित्वादेर्गृहीतुमशक्यत्वं तत्सत्वे तयोरेव भेदकत्वसम्भव इति भावः । व्यावहारिकेति स्वलक्षणे स्वस्य प्रवेशादिति भावः । न च यद्वस्तुगत्या निर्धर्मकं तन्मात्रगोचरं ज्ञानं शुद्धज्ञानं विवक्षितम् । तच्च भ्रमकाले नास्ति । निर्धर्मकत्वादेः स्वरूपसत एवो-पेक्षीणत्वान्नाखण्डार्थत्वहानिरपीति वाच्यम् । तादृशज्ञानस्यासिद्धेः । शब्दस्य वा प्रत्यक्षस्य वा तदजनकत्वात् । नापि तादृशधियो बाधकत्वम् । शुक्तिनिर्विकल्पकस्यापि बाधकतापत्तेः । निर्धर्मकत्वादेर्ज्ञानाविषयस्य बाधकत्वप्रयोजकत्वे शुक्तित्वादेरपि तथात्वापातात् । तद्विषयत्वे चाखण्डार्थत्वहान्यादेर्दुर्वारत्वात् । निर्धर्मकत्वादेः स्वव्याह-त्यादिना उपायत्वासम्भवाच्च । निष्प्रकारकत्वे संशयाद्यनिवर्तकत्वस्य प्रागेवोक्तत्वाच्च । एतेनेति परामृष्टं हेतुमाह ।। महावाक्येति ।। उपलक्षणमेतत् । शब्दस्य निष्प्रकार-ज्ञानजनकत्वासम्भवाच्चेत्यपि द्रष्टव्यम् ।। अत एवेति ।। निष्प्रकारकस्य बाधकत्वा-योगादेवेत्यर्थः ।। अन्योन्येति ।। पारमार्थिकत्वस्यैव निरुच्यमानत्वादिति भावः ।। भेदकेति ।। ननु चेतरत्वादेव भेदकानुमानमित्यत आह ।। अन्योन्येति ।। परमप्रकृतमुपसंहरति ।। तस्मादिति ।। जगतो मिथ्यात्वप्रमाणाभासानां दूषितत्वा-दित्यर्थः । तस्मात् कृत्स्नमपि वेदान्तवाक्यं तत्वावेदकमेव । न तु किञ्चित्तत्त्वावेदकं किञ्चिदतत्त्वावेदकमिति विभाग इति ।
।। इति श्री पाण्डुरङ्गि आनन्दभट्टारकविरचिते न्यायामृतकण्टकोद्धारे प्रथमः परिच्छेदः ।।
न्यायामृतप्रकाशः
स्वाप्नेति ।। जग्रदवस्थागतशुक्तेर्व्यावहारिकत्वेन तत्रारोपितं रूप्यं प्रातिभासिकम्। स्वाप्नस्यैव प्रातिभासिकत्वेन स्वाप्नशुक्तेरपि प्रातिभासिकत्वात् तत्रारोपितरूप्यं जाग्रदवस्था-गतप्रातिभासिकरूप्यादपि निकृष्टमिति तत्सङ्ग्रहाय प्रातिभासिकादपि किञ्चित् निकृष्टं सत्वं वाच्यमित्यर्थः । अज्ञानध्वंसस्याव्यवहारिकत्वोपपादनाय पञ्चमेत्युक्तम् । अज्ञानस्य व्यावहारिकतयाऽनिर्वाच्यत्वेन चतुर्थप्रकारकत्वात् तन्निवृत्तेरपि न व्यावहारिकत्वम् । प्रतियोगितदभावयोः भिन्नसत्ताकत्वनियमादित्यर्थः । अस्तु तर्हि पारमार्थिकसत्वमित्यत आह ।। अपारमार्थिकस्येति ।। पारमार्थिकसत्वशून्यस्येत्यर्थः । आत्मैवाज्ञानहानिरिति मतभिन्नमताभिप्रायेणेदमापादितमिति मन्तव्यम् । उत्कृष्टस्य पारमार्थिकात् नीचस्य चेति शेषः ।। त्रैविध्येति ।। तथा च पञ्चविधं सत्त्वमिति विभागः कर्तव्य इति भावः । ब्रह्म पारमार्थिकं सत् जगत् व्यावहारिकं, रूप्यादि प्रातिभासिकम्, इति परस्परं विभागो भेदः, तात्त्विकोऽतात्विको वा? नाद्यः, अपसिद्धान्तादित्याह ।। किञ्चायमिति ।। न द्वितीय इत्याह नापीति ।। यथा शुक्तेः तत्रारोपितरूप्यात् भेदो न रूप्यवत् प्रातिभासिकः, किं तु धर्मिसत्तासमानसत्ताको व्यावहारिक एव । नेदं रूप्यमिति बाधगम्यत्वात् । तथा तात्विकस्य ब्रह्मणः तत्रारोपितादतात्विकात् जगतो व्यावहारिकात् भेदो यः स तात्विक एव धर्मिसत्तासमानसत्ताको वाच्यः । बाधगम्यत्वादित्यर्थः । अन्यथा, तात्विकस्य ब्रह्मणो अतात्विकात् भेदस्य तात्विकत्वानङ्गीकारे ‘अस्थूलमनणु’ इत्यादि श्रुतीनामतात्विकात् व्यावहारिकात् प्रपञ्चात् विभागप्रतिपादकानामतत्वावेदकत्वेनाप्रामाण्यं स्यादित्याह ।। अन्यथेति ।। अतात्विकात् भेदस्यातात्विकत्वे तयोरभेदापत्त्या ब्रह्मणोऽप्यतात्विकत्वा-पत्तिरिति दूषणं द्रष्टव्यम् । उक्तमर्थं सङ्गृह्णाति ।। एवं चेति ।। कथं कृतकृत्यत्वमित्याह ।। त्वयैवेति ।। उक्तो दोष इति ।। व्यावहारिकसत्यत्वं बाध्यं चेत् वयं कृतकृत्याः, त्वयैवोक्तदूषणात् । अबाध्यं चेत् अथ सिद्धान्तश्चापतेदिति उक्तदोष इत्यर्थः । ‘सर्वमेतेन दूषितं’ इत्येतत् विवृणोति ।। सम्भवति हीति ।। एवं विकल्प्येति ।। विश्वमिथ्यात्वादि बाध्यम्, अबाद्यं वेति विकल्प्य दूषणमित्यर्थः । पारमार्थिकेतरसद्द्वयस्य सद्विलक्षणस्यैव सत्त्वेन भाने तयोः कथं भेद इत्यत आह ।। बाधेति ।। बाधविलम्बयुक्तं व्यावहारिकं सत्, बाधविलम्बशून्यं प्रातिभासिकं सदित्यर्थः ।। रूप्याभाव इति ।। असद्विलक्षणरूपरूप्याभाव इत्यर्थः ।। सत्वाभाव इति ।। सत्त्वेन प्रतीतिमात्राङ्गीकारेण सत्वरूपार्थाभावादित्यर्थः । किं च, प्रातिभासिकत्वादेः सत्वभेदत्वाभावे रूप्यादेः प्रातिभासिकत्वाभावे त्वन्मतेऽऽविद्यक-रूप्योत्पत्तेरयोगः । उत्पत्तौ सत्वस्यैव तन्त्रत्वात् ।
ननूत्पत्तौ असद्वैलक्षण्यमेव तन्त्रम्, न तु सत्वमतो रूप्यस्यासद्विलक्षणत्वादुत्पत्ति-र्युक्तेति चेन्न । लाघवेन कदाचित् सत्त्वस्यैवोत्पत्तौ प्रयोजकत्वात् । यत् कदाचित् सत् तदेवोत्पद्यत इति दृष्टम् । रूप्यादेस्तदभावादुत्पत्तिर्न स्यादित्यर्थः । नित्ये व्यभिचारेण सत्त्वमात्रस्योत्पत्तौ प्रयोजकत्वाभावात् ‘कदाचित्’ इत्युक्तम् ।। विशेषाभाव इति ।। सत्त्वेन प्रतीतिमात्राङ्गीकारेणार्थगतसत्वरूपविशेषानङ्गीकारादित्यर्थः । तत्र व्यावहारिके अर्थ-क्रियादेरयोगादित्यन्वयः ।। श्रुतीनामिति ।। अर्थे सत्वाभावेनाविद्यमानसत्वप्रतिपादकानां ‘विश्वं सत्यम्’ इत्यादि श्रुतीनामप्रामाण्यापातादित्यर्थः । ननु श्रुतीनां व्यावहारिक-सत्वप्रतिपादकत्वाभावेऽपि दीर्घभ्रान्तिहेतुत्वमात्रेण प्रामाण्यमुपपद्यते । श्रुतिप्रतिपादितस्य विश्वस्य शीघ्रबाधो नास्तीति यावदिति चेत् तत्राह ।। दीर्घेति ।। हेतोः प्रत्यक्षस्य । तस्यापि शीघ्रप्रत्यक्षेण बाधाभावादित्यर्थः । अतिशय इति स्वकार्यप्रवृत्त्यतिशयेना-प्रामाण्यमतिशयवदित्युपचर्यत इति द्रष्टव्यम् ।
यथोक्तं–
‘दीर्घभ्रान्तिकरी चेत् स्यादतत्वावेदकप्रमा ।
रजुसर्पादिविज्ञानादप्याधिक्यादमानता ।।
इति । सत्वस्यैवान्तरभेद इत्ययं पक्षो न सम्भवतीत्याह ।। नान्य इति ।। किं च व्यावहारिकं नाम किमारोपितविशेषो वा, अनारोपितविशेषो वा? नाद्यः । ‘विश्वं सत्यम्’ इत्यादिश्रुतेरप्रामाण्यापातात् । द्वितीये त्वाह ।। व्यावहारिकस्य चेति ।। न तावत् अबाध्यत्वं पारमार्थिकत्वम् । आभासस्य प्रसक्त्याऽनाभासस्य निषेध इत्यापणस्थस्यैव बाध्यत्वोक्तिः शुक्तौ प्रतीयमानरजतस्वरूपस्याबाध्यत्वेन प्रातिभासिकेऽतिव्याप्तेः । नापि बाध्यत्वमपारमार्थिकत्वम् । अपारमार्थिकत्वाकारेण बाध्यत्वस्य ब्रह्मण्यपि सत्वेनातिव्याप्ते-रित्याह ।। मिथ्यात्वभङ्ग इति ।। बाध्यत्वमपारमार्थिकत्वमित्यत्र सप्रकारकबाध्यत्वं विवक्षितम्? उत निष्प्रकारकबाध्यत्वम्? नाद्य इत्याह ।। जगद्बाधकस्येति ।। तस्यैव बाधकज्ञाननिष्ठप्रकारस्यैवेत्यर्थः । प्रकारोपेतज्ञानस्य जगद्बाधकत्वे प्रकारस्य बाधककोटि-निविष्टत्वेन बाध्यबहिर्भावः स्पष्ट एव । तस्यापि बाध्यत्वाङ्गीकारे निष्प्रकारकज्ञानस्यैव बाधकत्वप्राप्त्या द्वितीयपक्षान्तर्भाव इति भावः । द्वितीये त्वाह ।। निष्प्रकारकत्वे चेति ।। जगद्भ्रमस्यार्थज्ञानात्मनोभयविधत्वेन जगद्भ्रमरूपज्ञानस्य सविकल्पकत्वेन सप्रकारकत्वेन तद्बाधकत्वायोगादित्यर्थः । न हि निर्विकल्पकं सविकल्पकबाधकं कुत्रचित् दृष्टमिति भावः । व्यावहारिक्यां मायायाम् आत्माश्रयप्रसङ्गेन मायाकल्पितत्वाभावादव्याप्तिः । प्रातिभासिक्या-मविद्यायामुक्तदोषेणाविद्यकत्वायोगादव्याप्तिः स्यादित्याह मायाऽविद्ययोरिति ।। किञ्च मायाविना मायाकल्पितस्यैन्द्रजालिकादेः प्रातिभासिकत्वेन मायाकल्पित्वरूपव्यावहारिक-लक्षणस्यातिव्याप्तिः । व्यावहारिकतयाऽङ्गीकर्तव्ये दुःखादावाविद्यकत्वस्य सत्त्वेनाविद्यकत्व-रूपप्रातिभासिकलक्षणस्यातिव्याप्तिरित्याह ।। मायिकस्येत्यादिना ।। आविद्यकत्वो-पपादनायासाधारणस्येत्युक्तम् । स्वस्यैव प्रतीयमानतया दुःखादेः आविद्यकत्वम्, मायिकत्वे ऐन्द्रजालिकत्वम् सर्वसाधारण्यं स्यादिति भावः । निरासाच्चेति ।। आविद्यकत्वेन संमतस्यापि रूप्यादेः स्वग्रन्थे मायिकत्वेन वर्णनादित्यर्थः । तथा च मायिकत्वादिप्रयुक्ते व्यावहारिकत्वप्रातिभासिकत्वयोर्भेदो न सम्भवति इत्याशयः ।। अर्थगतेति ।। जगति रूप्ये वार्थविशेषे सति तन्निबन्धनौ अर्थक्रियाकारित्वतदभावौ, आदानादिव्यवहारनिर्वाहकत्व-तदभावौ च युक्तौ, न त्वर्थक्रियाकारित्वादानादिव्यवहारनिर्वाहकत्व तदभावरूप एवार्थविशेष इत्यर्थः । अर्थक्रियाकारित्वाद्यवच्छेदकीभूतं व्यावहारिकत्वादिकमन्यदेव वक्तव्यम् । न तु तदेव तदिति भावः । किं च व्यावहारिकलक्षणस्य प्रातिभासिकेऽतिव्याप्तिरित्यस्वरसमाह ।। स्वाप्नेऽपीति ।। अर्थक्रियाकारित्वादेरित्यादिपदेनादानादिव्यवहारनिर्वाहकत्वग्रहणम् ।
ननु व्यावहारिकार्थक्रियाकारित्वं व्यावहारिकत्वं विवक्षितम् । अतो न प्रातिभासिके स्वाप्नकुम्भादावतिव्याप्तिरिति चेन्न आत्माश्रयादित्याह ।। व्यावहारिकस्येति ।। तस्य अर्थक्रियाकारित्वस्य । इदमुपलक्षणम् । स्वाप्नकमनीयाङ्गालिङ्गनादौ प्रातिभासिके चरमधातू-त्सर्गरूपव्यावहारिकार्थक्रियाकारित्वसद्भावादतिव्याप्तिश्चेति द्रष्टव्यम्’ ब्रह्मधीबाध्यत्वरूप-व्यावहारिकलक्षणस्य प्रातिभासिकरूप्यादावतिव्याप्तिरित्याह ।। त्वन्मत इति ।। शुक्तीति ।। शुक्त्यवच्छिन्नचैतन्यरूपब्रह्मधीर्नेदं रजतमित्येवं रूपा तद्बाध्यत्वादित्यर्थः । किं च ब्रह्मण्यध्यस्ततया प्रातिभासिकस्य क्षणिकत्वादेरपि ‘ब्रह्म स्थायि’ इत्येवं स्थायित्वप्रकारक-ब्रह्मधीबाध्यत्वेनातिव्याप्तिरित्याह ।। ब्रह्मणीति ।। ब्रह्मप्रमेति ।। शुक्त्यवच्छिन्नचैतन्य-रूपब्रह्मधियः स्थायित्वप्रकारकधियः विशिष्टविषयकत्वेन सप्रकारकत्वेन चाप्रामाण्यात् न पूर्वोक्तदोष इति भावः ।। त्वन्मत इति ।। प्रमाबाध्यत्वमेव व्यावहारिकत्वमस्तु । ब्रह्मपदं व्यर्थम् । ब्रह्मज्ञानव्यतिरिक्तस्य समस्तज्ञानस्यापि सप्रकारकत्वेन निष्प्रकारकज्ञानत्व-रूपप्रमात्वाभावे ब्रह्मज्ञानस्यैव निष्प्रकारकज्ञानत्वरूपप्रमात्वाङ्गीकारेण व्यावर्त्याभावादिति भावः । ब्रह्मज्ञानस्यैव प्रमात्वादित्युक्त्या तदन्यप्रामाया एवाभावेन तद्गर्भप्रातिभासिकलक्षणम-सम्भवीत्यर्थः ।
ननु मास्तु तर्हि ब्रह्मपदं, प्रमाबाध्यत्वमेव व्यावहारिकत्वमिति लक्षणमस्तु इत्याशङ्क्य निराकरोति ।। नापि प्रमेति ।। वेदान्त जन्यनिष्प्रकारकप्रमेत्यर्थः ।। भ्रान्तीति ।। इदं रजतमित्यादिज्ञानबाधकस्य नेदं रजतमित्यादेर्निष्प्रकारकत्वाभावेन प्रमात्वाभावात् भ्रान्तित्व-मेवेति तद्बाध्यत्वात् रूप्यस्य प्रातिभासिकत्वमित्यर्थः । भ्रान्तिबाध्यत्वरूपप्रातिभासिकत्वस्य पारमार्थिके ब्रह्मण्यापि सत्त्वेनातिव्याप्तिरित्याह ।। भ्रान्तिबाध्यत्वस्येति ।। निष्प्रकारक-ज्ञानस्यैव प्रमात्वात् सप्रकारकज्ञानं भ्रमरूपमेव त्वन्मते । अतो भ्रमरूपबाधविषयत्वं ब्रह्मण्यप्यस्ति ब्रह्मण्यारोपितक्षणिकत्वबाधकं यत् ब्रह्म स्थायीति स प्रकारकं भ्रमरूपं बाधकज्ञानं तद्विषयत्वात् ब्रह्मण इत्यर्थः ।। शुद्धब्रह्मधीति ।। निष्प्रकारकब्रह्मधी इत्यर्थः । ब्रह्म स्थायीति धीः स्थायित्वविशिष्टब्रह्मविषयकत्वेन न शुद्धब्रह्मधीः । अतः तद्बाध्यस्य क्षणिकत्वादेः प्रातिभासिकत्वम् । तथा नेदं रजतमित्यादेरपि शुक्त्यवच्छिन्नचैतन्यविषयकत्वेन शुद्धब्रह्मधीत्वाभावात् तद्बाध्यस्य रूप्यादेः प्रातिभासिकत्वमिति भावः । शुद्धब्रह्मधीबाध्यत्वं व्यावहारिकत्वमित्यत्र शुद्धशब्देन जगद्भ्रमकालेऽधिष्ठानत्वेन ज्ञानं यत् विशेष्यमात्रं तत् विवक्षित्वा तद्धीबाध्यत्वं कथ्यते? उत जगद्भ्रान्तिकालेऽज्ञातो यो द्वितीयाभावादिः तद्विशिष्टं तदुपलक्षितं वा विवक्षित्वा तद्धीबाध्यत्वं कथ्यते । नाद्य इत्याह ।। शुद्धशब्देनेति ।। अबाधकत्वादिति ।। निष्प्रकारकज्ञानस्य सप्रकारकज्ञानबाधकत्वायोगादित्यर्थः । न द्वितीय इत्याह ।। तत्कालेति ।। अखण्डार्थत्वहानिरिति ।। विशेषणस्योपलक्षणस्य वा द्वितीया-भावस्यैव प्रकारत्वेन वेदान्तानां सप्रकारकज्ञानजनकत्वापत्त्याऽखण्डार्थत्वहानिरित्यर्थः ।। द्वितीयाभावादेरिति ।। द्वितीयाभावविशिष्टस्य ब्रह्मज्ञानस्याबाधकत्वे द्वितीयाभावादि-रूपप्रकारस्य बाध्यजगद्बहिर्भूतत्वापत्त्या सत्यत्वापत्तिः । तस्यापि प्रकारस्य बाध्यत्वे निष्प्रकारकस्यैव बाधकत्वमुक्तं स्यात् । तच्चायुक्तमिति भावः ।। महावाक्येति ।। तत्वमस्यादिमहावाक्येत्यर्थः ।। तदन्यधीति ।। प्रातिभासिरूप्यादिबाधकस्य नेदं रजत-मित्यादिधियो महावाक्यजन्यत्वाभावादिति भावः । एतेनेत्युक्तमेव विशदयति ।। महावाक्येति ।। ज्ञानस्येति शेषः । महावाक्यजन्यधियो वा चरमधियो वा निष्प्रकारत्व-मभिप्रेतम्? उत द्वितीयाभावादिप्रकारकत्वम्? नाद्य इत्याह ।। महावाक्येति ।। तस्य निष्प्रकारकत्वोपपादनाय अखण्डार्थवेदान्तजन्येत्युक्तम् । द्वितीये त्वाह ।। सप्रकारकत्वे चेति ।। बाधककोटिनिविष्टत्वेन बाध्यवहिर्भूतत्वादिति भावः ।। अत एवेति ।। निष्प्रकारकस्य बाधकत्वायोगादेवेत्यर्थः ।। पारमार्थिकेति ।। पारमार्थिकब्रह्मविषयक-धीबाध्यत्वात् जगतो व्यावहारिकत्वम् । व्यावहारिकशुक्त्यादिविषयकधी बाध्यत्वात् रूप्यादेः प्रातिभासिकत्वमिति भावः ।। अन्योन्याश्रयादिति ।। सत्तात्रैविध्यसिद्धौ तदवान्तरभेद-घटितलक्षणसिद्धिः । तत् सिद्धौ च तदधीनव्यावहारिकप्रातिभासिकरूपावान्तरभेदसिद्ध्या सत्तात्रैविध्यसिद्धिरित्यान्योन्याश्रयः स्यादित्यर्थः ।। अन्योन्येति ।। व्यावहारिकेतरत्वं प्रातिभासिकत्वम् । तदितरत्वं व्यावहारिकत्वमित्यर्थः ।। भेदकेति ।। इतरत्वस्य भेद-लक्षणाधीनत्वेन तदभावे इतरत्वस्यैवायोगात् । अन्यथा स्वापेक्षयाऽपि स्वस्येतरत्वप्रसङ्ग इति भावः ।। अन्योन्येति ।। व्यावहारिकत्वज्ञाने तदितरत्वरूपप्रातिभासिकत्वज्ञानं, तद्-ज्ञाने तु तदितरत्वरूप व्यावहारिकत्वज्ञानमित्यन्योन्याश्रयादित्यर्थः । एवं च प्रतिज्ञानं सत्याशेषविश्वकारणत्वं प्रथमपरिच्छेदेनोपपाद्योपसंहरन् वक्ष्यमाणमुपक्षिपति ।। तस्मादिति ।।
यादवार्यगुरुप्रोक्ते भावो व्यासमुनेरयम् ।
परिच्छेदस्यादिमस्य श्रीनिवासेन विस्तृतः ।।
।। इति यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचिते
न्यायामृतप्रकाशे प्रथमपरिच्छेदः समाप्तः ।।
न्यायकल्पलता
परोक्तं सत्त्त्रैविद्यं दूषयितुमनुवदति यच्चेदमिति ।। स्वाप्नशुक्ताविति ।। स्वप्नेऽपि बाधाबाधाभ्यामपकृष्टोत्कृष्टसत्ताकवस्तुस्वीकारः प्रसज्येतेत्यर्थः । ननु स्वप्नेऽपीदमंशस्य नाधिष्ठानतावच्छेदकत्वम् । तुल्यवदारोप्यत्वात् । किं त्वविद्यावच्छिन्नं चैतन्यमिति चेत् । न । इदमंशस्य तदनवच्छेकत्वेऽपि स्वप्ने बाधाभावेन तत्राध्यस्तरूप्यादुत्कृष्टत्वात् ।। पञ्चमप्रकारेति ।। न च संसारकालीनसत्त्वस्यायं विभाग इति वाच्यम् । मुक्तिदशानु-गतब्रह्मसत्त्वासङ्ग्रहापातात् । यत्त्वविद्यानिवृत्तौ सत्त्वमेव नास्तीति न तत्सङ्ग्रह इति । तन्न । तस्यास्तुच्छत्वप्रसङ्गात् । ब्रह्मस्वरूपत्वे त्वसाध्यत्वम् ।। तात्विकस्येति ।। ब्रह्मणः शुक्तिरूप्यात् विभागस्यातात्विकत्वे ब्रह्मणोऽपि रूप्यवदतात्विकत्वं स्यादित्यर्थः । ननु बाधगम्यत्वं न तात्विकत्वे प्रयोजकम् । किं त्वबाध्यत्वम् । तच्च न ब्रह्मातिरिक्ते । नेह नानेति श्रुतिविरोधादित्यत आह ।। अन्यथेति ।। अस्थूलमनण्वित्यादिप्रपञ्चाद्विभागश्रुतिः । नेह नानेति श्रुत्यर्थस्तूक्तः । सङ्गृह्णाति ।। एवं चेति ।। सर्वमेतेनेति सङ्गृहीतं विशदयति ।। सम्भवतीति ।। नान्त्य इति ।। सत्त्वस्यानुगतस्याभावत्तदवान्तरभेदो न सम्भवतीत्यर्थः । ननु आरोपितानारोपितयोः एकसामान्याभावे प्रवृत्त्याद्यनुपपत्तिः । तदुक्तं सङ्क्षेपशारीरके–
आकाशादौ सत्यता तावदेका ।
प्रत्यङ्मात्रे सत्यता काचिदन्या ।।
तत्सम्पर्कात्सत्यता काचिदन्या ।
व्युत्पन्नोऽयं सत्यशब्दस्तु तत्र ।।
अस्यार्थः । यथा प्रातिभासिकरजते ज्ञातैकसदेकं रजतत्वं लौकिकपरमार्थरजते चापरं रजतत्वं तदुभयानुगतं चारोपितानारोपितसाधारणं रजतत्वं रजतशब्दालम्बनं एवमाकाशा-दावारोपितैका सत्यता । चिदात्मनि चानारोपिता चापरा । तदुभयसाधारणी चान्या व्यावहारिकी सत्यता सत्यशब्दालम्बनमिति । एवं चारोपितानारोपितयोरपि सामान्य-मस्तीति । मैवम् । उभयानुगतसामान्यस्योभयात्मकतया विरोधस्योक्तत्वात् । किञ्च व्यावहारिकं किमारोपितकोटावुत्कृष्टं अनारोपितकोटौ वा । नाद्यः । श्रुत्यादेरुत्कृष्टभ्रान्ति-हेतुत्वेनात्यन्ताप्रामाण्यापत्तेरुक्तत्वात् । द्वितीयं इष्टापत्या दूषयति व्यावहारिकस्येति ।। उभयबहिर्भावे च विरोध इति भावः । अबाध्यस्य पारमार्थिकत्वे दोषमाह ।। जगद्बाध-कस्येति ।। तथा च जगद्बाधकज्ञानविषयीभूतप्रकारस्य पारमार्थिकत्वं स्यादित्यर्थः ।। तदभावादिति ।। मायाया मायिकत्वस्याविद्याया आविद्यकत्वस्याभावादित्यर्थः ।। प्रातिभासिकत्वाच्चेति ।। एवं च विश्वस्य व्यावहारिकत्वं न स्यात् ।। असाधारणस्येति ।। तत्तद्देहावच्छेदेन नियतस्येत्यर्थः ।। व्यावहारिकत्वाच्चेति ।। प्रातिभासिकत्वाभावात् ।। त्वयैवेति ।। रूप्यस्य मायिकत्वं वर्णयतेति शेषः ।। अर्थगतेति ।। अर्थे विशेषे सति तन्निबन्धनावर्थक्रियाकारित्वतदभावौ । न त्वर्थक्रियाकारित्वतदभावरूप एवार्थे विशेष इत्यर्थः ।। आत्माश्रयादिति ।। स्वप्नाङ्गनालिङ्गनादौ प्रातिभासिकेऽपि व्यावहारिकसुखाद्यर्र्थ-क्रियादर्शनादित्यपि बोध्यम् ।। ब्रह्मधीति ।। अधिष्ठानधीबाध्यत्वादध्यस्तस्येति शङ्कितु-राशयः ।। त्वन्मत इति ।। तथा च ब्रह्मपदं व्यर्थमित्यभिसन्धिः । ननु ब्रह्ममात्रगोचरा या धीस्तद्बाध्यत्वं विवक्षितम् । तादृशी चरमवृत्तिरेवेत्याशङ्क्य निराकरोति चरमधीरिति ।। एतेनेत्युक्तमेव हेतुं विशदयति ।। महावाक्यजन्यस्येति ।। तादृशज्ञानस्य शब्दजन्यस्या-प्रसिद्धिरित्यपि बोध्यम् । अन्योन्येतराभ्यामिति । व्यावहारिकप्रातिभासिकयोरन्योन्यं विद्यमाने ये इतरत्वे ताभ्यामित्यर्थः ।। भेदकाभाव इति ।। अन्यथा स्वापेक्षया स्वस्येतरत्वप्रसङ्ग इति भावः । ननु व्यावहारिकगतेनेतरत्वेन प्रातिभासिकइतरत्वसिद्धिः । प्रातीतिकगतेन च तेन व्यावहारिके तत्सिद्धिरिति भेदकाभावेऽपीतरत्वसिद्धिरित्यत आह ।। अन्योन्याश्रया-च्चेति ।। एतेन कारणसंसर्गदोषप्रयुक्तत्वं प्रातिभासिकलक्षणं तदसंसर्गदोषप्रयुक्तत्वं व्यावहारिक लक्षणमिति निरस्तम् । आद्ये इष्टापत्तिः । द्वितीये त्वदभिमतेऽनादावतिव्याप्तिरिति । परिच्छेदार्थमुपसंहरन्वक्ष्यमाणमुपक्षिपति ।। तस्मादिति ।।
श्रीमद्व्यासयतीन्द्रार्यसत्कल्पतरुसंश्रिति ।
न्यायकल्पलतायां हि सत्त्त्रैविध्यखण्डनम् ।।
।। इति सत्तात्रैविध्यभङ्गः ।।
।। इति कूर्मनरहरि आचार्य विरचितायां न्यायकल्पलतायां