किञ्च पूर्वतन्त्रे द्वितीयाध्याये यैः शब्दान्तरादिभिः कर्मभेद उक्तः, तैरेव जीवेश्वरभेदसिद्धिः
२४. जीवेशभेदे शब्दान्तरादिभङ्गः
न्यायामृतम्
किञ्च पूर्वतन्त्रे द्वितीयाध्याये यैः शब्दान्तरादिभिः कर्मभेद उक्तः, तैरेव जीवेश्वरभेदसिद्धिः । ‘एष एव जीवं प्रबोधयति एतस्माज्जीव उत्तिष्ठति’ इति विरुद्धार्थधातुनिष्पन्नाख्यातरूपशब्दान्तरस्य, ‘नित्यः परो नित्यो जीवः’ इत्य-प्रत्यभिज्ञायमानपुनःश्रुतिरूपाभ्यासस्य, ‘द्वा सुपर्णा’ इत्यादि सङ्ख्यायाः, ‘अशब्दम् अनश्नन्’ इत्यादेर्भेदकस्य गुणान्तरस्य, ‘यतो वाचो निवर्तन्ते’ इत्यादिप्रकरणान्तरस्य, १जीवेशाविति नामधेयभेदस्य च सत्त्वात् ।। इति जीवेशभेदे शब्दान्तरादि ।। २४ ।।
अद्वैतसिद्धि:
ननु– पूर्वतन्त्रे द्वितीयाध्याये यैरेव शब्दान्तरादिभिः कर्मभेद उक्तः, तैरेव जीवेशभेदोऽपि सिध्यति । तथा हि– ‘एष एव जीवं प्रबोधयति, एतस्माज्जीव उत्तिष्ठति’ इति विरुद्धार्थधातुनिष्पन्नाख्यात-रूपशब्दान्तरस्य ‘नित्यः परो नित्यः जीवः’ इति प्रत्यभिज्ञायमानपुनःश्रुतिरूपाभ्यासस्य ‘द्वा सुपर्णा’ इत्यादिसङ्ख्यायाः, ‘अशब्दम् अनश्नन्’ इत्यादेर्भेदकस्य गुणान्तरस्य, ‘यतो वाचो निवर्त्तन्ते’ इत्यादिप्रकरणान्तरस्य, जीवेशाविति नामधेयद्वयस्यापि सत्त्वाच्चेति चेन्न, प्रत्यक्षादिसमकक्ष्यतया शब्दान्तरादीनां भेदकत्वेऽपि तात्त्विकाभेदाविरोधित्वात् । किञ्चादृष्टचरस्त्वं मीमांसकः यः कर्मभेदे शास्त्रभेदे वा प्रमाणत्वेन कप्तानां शब्दान्तरादीनां चेतनभेदे प्रमाणत्वं कल्पयसि । न ह्यन्यभेद प्रयोजकस्यान्यभेदप्रयोजकता । विशिष्टभेदे प्रयोजकस्यापि विशेषणभेदस्य विशेष्यभेदकत्वापत्तेः । ‘देवदत्त उत्तिष्ठति शिष्यं बोधयति यजति ददाति जुहोति’ इत्यादावपि भेदापत्तेः । न शब्दान्तरस्य कर्तृभेदकता ।। इत्यद्वैतसिद्धौ शब्दान्तरादेरात्मभेदकत्वाभावः ।। २४ ।।
न्यायामृततरङ्गिणी
।। शब्दान्तरादिभिरिति ।। शब्दान्तराभ्याससङ्ख्यागुणप्रकरणान्तरसञ्ज्ञाभिः ।। एष एवेति ।। प्रबोधयत्युत्तिष्ठतिपदाभ्यां प्रबोधयिता उत्थाता च भिन्नः प्रतीयते ।। विरुद्धार्थेति ।। विरुद्धार्था ये धातवः तेभ्यो निष्पन्नं यदाख्यातं तद्विशिष्टं यच्छब्दान्तरं ‘यजति ददाती’त्यादि, तेभ्यो यथा यागदाने भिन्ने तथेत्यर्थः ।। द्वितीयस्य द्वितीयपादे चिन्तितम् । ‘यजति ददाति जुहोती’ति श्रूयते । तत्र यागदानहोमानां भावनाः किमभिन्ना विधीयन्ते उत भिन्ना वा । यद्यपि धातुभेदाद् आख्यातपदानि मिथः शब्दान्तरं तथापि प्रत्ययांशः सर्वत्रैकरूपः । तदर्थभावना तदभेदादभिन्ना । यदि हि धात्वर्थान्प्रति गुणभूता भावना स्यात्ततस्तेषां धातुभेदेन भिन्नत्वाद्भावनापि तान्प्रत्युपादीयमाना प्रतिधात्वर्थं भिद्येत । भावनाप्रधानत्वादाख्यातस्य । तां प्रत्युपादीयमाना धात्वर्थाः संहत्यैव तां विशिषंन्ति । यथा ‘अरुणया क्रीणाति’ इत्यादावरुणिमादयः क्रयम् । तदुक्तम् ।
भावना प्रत्ययार्थत्वात्तदेकत्वान्न भिद्यते ।
गुणभूता हि धात्वर्थाः न तां भिद्युः कथञ्चन ।। इति ।
तस्माद्यागदानादिधात्वर्थैरेकैव भावनाऽवच्छिद्यत इति न यागदानादिभावनाभेद इति प्राप्ते, सिद्धान्तः । यदि धातुसमुदायात्प्रत्ययः श्रूयते द्वन्द्वादिव सुप्, यदि वा क्रीणातिरिवारुणादिभ्यो विविक्तः श्रूयते तदा सर्वैर्धात्वर्थैर्भावना विशिष्येत प्रातिपदिकार्थैरिव सुबर्थः । क्रय इवारुणादिभिः प्रत्येकं तु धातुभ्यः प्रत्ययः श्रूयत इति नैकभावनासम्भवः । तदुक्तम् ।
प्रत्ययांशः समानोऽपि प्रतिधातुप्रयोगतः ।
तत्तदर्थानुसारेण भावना भेदमावहेत् ।। १ ।।
निष्पद्येत समस्तेभ्यो धातुभ्यः प्रत्ययो यदि ।
ततः सर्वविशिष्टा स्याद् द्वन्द्वोत्पन्नसुबर्थवत् ।। १ ।।
यदि च प्रत्ययः शुद्धः सर्वधातुपृथक्कृतः ।
श्रूयेत क्रयवत्सर्वैर्विशेष्येत स धातुभिः ।। १ ।। इति ।।
नित्यः परो नित्यो जीव इति ।। नित्यशब्दाभ्यासः परजीवौ भिनत्ति । एकेन नित्यशब्देन परेशे नित्यत्वे बोधिते पुनस्तत्रैव नित्यत्वस्यैव बोधितस्य बोधनायोगात् । गुणान्तरं विधातुं प्रत्यभिज्ञारूपपुनःश्रुतेरभेदकत्वाद् ‘अप्रत्यभिज्ञायमान’ इत्युक्तम् ।
अधिकरणं तु । ‘समिधो यजति, ‘तनूनपातं यजति, ‘इडो यजति, ‘बर्हिर्यजति, ‘स्वाहाकारं यजति’ इति पञ्चकृत्वः श्रुतयजतिनैको याग उच्यते पञ्च वा । तत्राख्यात-भेदाभावाद्धातुभेदाभावाच्चैक एव यागः । तदुक्तम् ।
प्रत्यक्षप्रत्यभिज्ञानाच्छब्दैकत्वं प्रतिष्ठितम् ।
तदेकत्वात्तदर्थोऽपि न भेदं प्रतिपद्यते ।। इति पूर्वः पक्षः ।
सिद्धान्तस्तु । यद्येकमेव कर्म स्यात्तर्हि तस्य पूर्ववाक्येन विहितत्वात्पुनर्विधानम् अनुपपन्नम् । अतः पुनर्विधिवशात्कर्मभेदः ।। द्वा सुपर्णेत्यादीति ।। अत्र हि जीवेशगतया सङ्ख्ययैव तयोर्भेदः साधनीयः । विचारितं चैतत् । ‘सप्तदश प्राजापत्यान् पशूनालभते’ अत्र किं सप्तदशपशुद्रव्यक एको यागः किं वा एकैकपशुद्रव्यकाः सप्तदश यागा इति । तदर्थं विचार्यते । प्राजापत्यानिति प्रकृत्या प्रजापतिदेवताऽभिधीयते । तद्धितेन पशुर्द्रव्यम् । बहुवचनेन बहुत्वम् । तत्र तद्धितार्थः पशुर्बहुत्वेन प्रथममन्वितः पश्चात्प्रजापतिना देवतया सम्बध्यते । पशुश्च पशुश्च पशुश्च तेषां प्रजापतिर्देवतेति तदा बहुभिः पशुभिर्व्यासज्यैका देवता सम्बध्यत इति द्रव्यदेवतासम्बन्धैक्यादेको यागो भवति किं वा प्रथमं प्रजापतिनाऽन्वितः पश्चाद्बहुत्वेन सम्बध्यते । प्रजापतिर्देवताऽस्येति प्राजापत्यश्च प्राजापत्यश्च प्राजापत्यश्च प्राजापत्या बहव इति तदा भिन्नैर्द्रव्यदेवतासम्बन्धैर्भिन्ना एव यागाः कल्प्यन्ते । तत्र प्राजापत्यशब्देन देवतासम्बन्धोपसर्जनंद्रव्यमेव प्राधान्येनोच्यते । यच्च प्रधानं तस्यैवार्थान्तरेण बहुत्वेन सम्बन्धो नोपसर्जनस्य देवतासम्बन्धस्य ।
ननु देवताविशिष्टं द्रव्यम् अभिहितं विशिष्टेनैव रूपेण सङ्ख्यान्वयि स्यान्न स्वरूपेण । न । द्वौ त्रय इत्यत्रानैकान्त्यात् । न हि द्वावित्यत्र द्वित्वविशिष्टेन रूपेण द्विवचनाभि-हितसङ्ख्यान्वयः । तथा सति द्वावित्यत्र चत्वारः प्रतीयेरन् । एवं त्रय इत्यत्र नव । तस्माद्यथा तत्र द्वित्वविशिष्टमपि द्रव्यं द्विशब्देनोक्तं स्वरूपेण द्विवचनाभ्हितसङ्ख्यायोगं प्रतिपद्यते तथाऽत्रापि तद्धिताभिहितं द्रव्यं स्वरूपेणैव बहुत्वं प्रतिपद्यते न सोपसर्जनम् । तस्मादेकं कर्म सप्तदशपशुद्रव्यकमिति पूर्वपक्षयित्वा सिद्धान्तितम् । स्वरूपेणैव सङ्ख्यान्वयादेकयागत्वे तत्र प्रकृतिभूताद् अग्नीषोमीयपशोर्हृदयं जिह्वा वक्षो यकृत् वृक्कौ सव्यं दोरुभे पार्श्वे दक्षिणा श्रोणिर्गुदतृतीयमिति दैवतानीति विहितस्यैकस्यैव एकपशुनिष्पन्नावदानगणस्यातिदेशतः प्राप्तस्यानुष्ठाने सप्तदशपशूनां प्राजापत्यत्वं न सम्पादितं स्यात् । न चोपदेशेनातिदेशबाधः । देवतासम्बन्धविशिष्टे पशुद्रव्ये सप्तदशसङ्ख्यान्वयाङ्गीकारेऽतिदेशोपदेशयोरबाधेनैवोपपत्तावति देशबाधकल्पनायोगात् ।। तस्मात्सप्तदशयागा इति ।।
अनश्नन्नित्यादेर्भेदकस्य गुणान्तरस्येति ।। यथा ‘वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्’ इत्यत्र पूर्वविहितस्य कर्मणः प्रबलगुणावरुद्धत्वात्तत्र स्वनिवेशमलभमानः स्वात्मसङ्गतये वाजिभ्यो वाजिनमित्येतस्य विधेः कर्मान्तरोत्पत्तिपरतां कल्पयन् वाजिनाख्यो गुणो भेदको भवति तथाऽत्तीत्यदनाख्यगुणावरुद्धे जीवेऽनश्नन्नित्यस्य गुणस्यानिवेशादशनाख्यो गुणः स्वनिवेशाय जीवपरमात्मनोर्भेदमाचष्टे– यतो वाचो निवर्तन्त इत्यादीति ।। यथा कुण्ड-पायिनामयने श्रूयते ‘उपसद्भिश्चरित्वा मासम् अग्निहोत्रं जुह्वति’ इति । अत्र नित्याग्निहोत्रानु-वादेन मासाख्यगुणो न विधातुं शक्यते । नित्याग्निहोत्रे उपसदाम् अभावेन तद्विपरिवृत्तेर-भावात् । तस्माद् अग्निहोत्रसञ्ज्ञं कर्मान्तरम् अभिधीयते तथा ‘यतो वाचो निवर्तन्ते’ इत्यत्र जीवस्यासन्निहितत्वात्तत्र वाङ्मनसवृत्त्यविषयत्वविधानासम्भवाद्यस्मिंस्तद्विधीयते स जीवाद्भिन्न इति सिध्यति ।। जीवेशादीति ।। यथा ‘अथैष ज्योतिरथैष विश्वज्योतिरेतेन सहस्रदक्षिणेन यजेतेत्यत्र ज्योतिरादिसञ्ज्ञाभ्यः कर्मभेदसिद्धिः । तदुक्तम् ।
नामान्तरश्रुतावर्थभेदस्तावत्प्रतीयते ।
बलवद्बाधकाच्चासावन्यथात्वं प्रपद्यते ।।
न चात्र बलवद्भाधकमस्ति । येन सञ्ज्ञानिमित्तो भेदोऽपोद्येतेति । तथा जीवेशसञ्ज्ञाभ्यां तयोर्भेदः सिध्यति । ननु शब्दान्तरादीनां प्रत्यक्षादिसमकक्ष्यतया भेदकत्वेऽपि न तेषां तात्विकाभेदविरोधित्वम् । मैवम् । वेदतात्पर्यविषयस्य तात्विकत्वनियमेन भेदविरोध्यभेदस्य पारमार्थिकत्वानुपपत्तेः । ननु कर्मभेदे प्रमाणत्वेन कप्तानां शब्दान्तरादीनां न चेतनभेदे प्रमाणत्वम् । न ह्यन्यभेदे प्रयोजकस्यान्यभेदप्रयोजकता । मैवम् । विरुद्धधातुनिष्पन्नाख्यात-रूपशब्दान्तरयोगादिना यथाऽनेकं कर्मेति गम्यते तथाऽनेकश्चेतन इति तत एवावगम्यते । न हि बोधयत्युत्तिष्ठतीत्यत्र बोधयितोत्थाता च भिन्न इति न प्रतीतिः । ननु विशेषण-भेदाद्विशिष्टस्य भेदः प्रतीयते न विशेष्यस्य । मैवम् । प्रतीतस्यापि विशेष्यभेदस्य प्रत्यभिज्ञानादिनाऽभेदप्रमाणेन त्याज्यत्वात् । न चात्र भेदत्यागकारणं प्रत्यभिज्ञादिकमस्ति । प्रत्युतैष एव जीवमेतस्माज्जीव इत्यप्रत्यभिज्ञैव । एतेन शब्दान्तरस्य न कर्तृभेदकतेति निरस्तम् ।। इति जीवेशभेदे शब्दान्तरादि ।। २४ ।।
न्यायामृतकण्टकोद्धारः
किञ्चेति । न च शब्दान्तरादीनामपि प्रत्यक्षतुल्यतया व्यावहारिकभेदविषयत्वमिति वाच्यम् । बाधकाभावेन पारमार्थिकत्वस्यैव युक्तत्वात् । बाधकश्रुतेर्निरासान्निरसिष्य-माणत्वाच्च । ननु कर्मभेदप्रमाणैर्जीवभेदं साधयन्नदृष्टचरमीमांसको भवान् । अन्यप्रमाणै-रन्यस्यासिद्धेः । अन्यथा विशेषणभेदेन विशिष्टभेद इव विशेष्यभेदस्याप्यापत्तेः । देवदत्तो बोधयति देवदत्त उत्तिष्ठति यजति ददातीत्यादिना देवदत्तभेदस्यापि प्रसक्तेरिति चेन्न । शब्दान्तरादीनां भेदप्रमाणत्वात् । यथाश्रुत्यर्थादीनि क्रममात्रप्रमाणानि, श्रुतिलिङ्गादीनि शेषशेषिमात्रप्रमाणानि । कर्मग्रहणं तु प्रकृताभिप्रायम् । अत एव तृतीयाश्रुत्यादिना श्रौतकर्मा-द्यतिरिक्तस्थलेऽङ्गाङ्गिभावः । न चोक्तोऽतिप्रसङ्गः । न हि धूमेन महाह्रदे वह्निर्न सिध्यतीति पर्वते तत्र न मानम् । तद्वत् विशेष्यभेदस्य च बाधितत्वादेव न विशेषणभेदेन सिद्धिः । अन्यथा अविशेष पुनःश्रुतिलक्षणाभ्यासेन ‘समिधो यजती’त्यादाविव ‘य एवं विद्वानि’त्यत्रापि कर्मभेदोपपत्तौ अपवादादधिकरणानारम्भप्रसङ्गात् । प्रकृते च जीवब्रह्मभेदे बाधकाभावस्य वक्ष्यमाणत्वात् उक्तत्वाच्चेति मीमांसावार्तानभिज्ञस्य शङ्केयमित्यलं प्रपञ्चेन ।
शब्दान्तरादिभिरिति । द्वितीयाध्याये द्वितीयपादे प्रथमाधिकरणे चिन्तितम्– ‘शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्’ । ‘दर्शपूर्णमासाभ्यां यजेत । अग्निहोत्रं जुहोति । हिरण्यमात्रेयाय ददाति’ इति श्रूयते । तत्र सन्देहः । यजत्यादिभिरेकमेव कर्म प्रतिपाद्यते भिन्नमेव वेति सन्देहे पूर्वपक्षस्तु धातुभेदेऽपि भावनावाचकलिङ्गादेः सर्वत्र प्रत्यभिज्ञानेनाभेदावगमात् एकमेव कर्म । न च धात्वर्थभेदाद्भेद इति वाच्यम् । तस्य प्रत्ययार्थभावनां प्रति गुणत्वात् । गुणभेदेन प्रधानभेदस्यान्याय्यत्वात् । तथा चैकमेव कर्मेति । सिद्धान्तस्तु कर्म भिन्नमिति । प्रत्यया-भेदेऽपि धातुभेदात् । न च गुणभेदात् कथं प्रधानभेद इति वाच्यम् । केवलाया भावनाया अप्रतीतेः सर्वत्र धात्वर्थावच्छिन्नाया एव प्रतीतेः । अन्यावच्छिन्नस्यान्येनावच्छेदायोगात् । गुणत्वेऽपि तद्भेदेन भावनाभेद आवश्यकः ।
न चानेकधातुभ्य एकः प्रत्ययो विधीयत इति वाच्यम् । धातोरित्येकवचनस्य विवक्षित-त्वात् । अत एव यत्रानेकधातुभ्य एकः प्रत्ययः तत्र प्रयत्नविशेषः क्रियते । ‘अदिभूभ्यां डुतच्’ इति । अन्यथा स व्यर्थः स्यात् । सूत्रार्थस्तु– शब्दान्तरे धात्वन्तरे सति कर्मभेदो भावनाभेदो भवितुमर्हति । कुतः ? कृतानुबन्धित्वात् तेनैव कृतावच्छेदत्वाद् भावनाया इति तत्रैव द्वितीयाधिकरणे चिन्तितम् । एकस्यैव पुनःश्रुतिरविशेषादनर्थकं हि स्यात् । ‘समिधो यजति, ‘तनूनपातं यजति, ‘इडो यजति, ‘बर्हिर्यजति, ‘स्वाहाकारं यजती’ति श्रूयते । तत्र सन्देहः । पञ्चसु वाक्येषु किमेका भावना, उत प्रत्यभ्यासं भावनाभेद इति । पूर्वपक्षस्तु एकैव भावनेति । पूर्वाधिकरणोक्तस्य भावनाभेदकस्य धातुभेदरूपशब्दान्तरस्या-भावात् । न च कस्य विधायकत्वमित्यनिर्णय इति वाच्यम् । प्रथमस्यैव विधायकत्वोपपत्तेः । प्रथमातिक्रमणे कारणाभावात् । न चैवं द्वितीयादिवाक्यवैयर्थ्यमिति वाच्यम् । प्रथमवाक्यविहिते यागे वैकल्पिकतनूनपादादिदेवताविधायकत्वेन वा आदरार्थत्वेन वा सार्थक्यसम्भवादिति । सिद्धान्तस्तु– भावनाभेद इति । अविशेषपुनःश्रुतिलक्षणाभ्यासात् । अन्यथा तस्य वैयर्थ्यात् । न चैकस्य विधायकत्वम् अन्येषामनुवादकत्वमिति न वैयर्थ्यमिति वाच्यम् । विनिगमनाविरहेणैकस्य विधायकत्वानुपपत्तेः । न च प्राथम्यं कारणम् । सर्वेषाम् अपौरुषेयतया प्राथम्यानुपपत्तेः । अनुवादस्य च व्यर्थत्वात् । न च ‘दध्ना जुहोति’ इत्यादाविव गुणपरत्वे न वैयर्थ्यमिति वाच्यम् । तद्वदत्र गुणाश्रवणात् । न च देवतैव गुण इति वाच्यम् । देवताया मन्त्रवर्णादेव प्राप्तेः । तस्माद् वैयर्थ्यपरिहाराय सर्वेषां विधायकत्वाद् भावनाभेद इति । सूत्रस्य चायमर्थः– एकस्य विधेः पुनःश्रवणमपि एवं कर्मभेदकम् । कुतः ? अविशेषात् विध्यनुवादविशेषाभावात् । अन्यथा हि यस्मात्, पुनःश्रवणम् अनर्थकं स्यादिति ।
द्वितीयाध्याये द्वितीयपादे सप्तमाधिकरणे चिन्तितम् । ‘पृथक्त्वनिवेशात् सङ्ख्यया कर्मभेदः स्यात्’ । तिस्र आहुतीर्जुहोति, द्वादश द्वादशानि जुहोति’ इति श्रूयते । तत्र सन्देहः– किमेको होमो विधीयते, उत बहव इति । पूर्वपक्षस्तु– एको होम इति । आख्यातस्यैक-त्वात् । न चैकाख्यातवत्त्वेऽप्यभ्यासाधिकरणवद् भेदो भविष्यतीति वाच्यम् । तद्वदत्राख्याता-भ्यासाभावात् । न चैकत्वे त्रित्वाभावात् तिस्र इति विरोध इति वाच्यम् । आवृत्त्या त्रित्वोपपत्तेः । यथा पञ्चसु प्रयाजेष्वावृत्त्या एकादशत्वम् । तस्मादेको होम इति । सिद्धान्तस्तु– अनेके होमा इति । कुतः ? कर्मैकत्वे प्रमाणाभावात् । न चाख्यातमेव प्रमाणमिति वाच्यम् । किमाख्यातं पदान्तरनिरपेक्षं प्रमाणम्, उत तत्सापेक्षम् ? नाद्यः । पदमात्रस्याप्रमाणत्वात् । न द्वितीयः । पदान्तरसमभिव्याहृतेन त्रित्वविशिष्टस्यैव बोधनात् । न चैवं प्रयाजेष्वप्येकादशत्वापत्तिरिति वाच्यम् । प्रयाजेषु पञ्चत्वसङ्ख्यायाः पूर्वं निर्ज्ञातत्वात् । प्रकृते चैकत्वविशिष्टस्यानिर्ज्ञातत्वेन वैषम्यात् ।
अत्र च कर्मण्येकत्वसङ्ख्याश्रवणात् पूर्वपक्षो नोदेतीति मत्वा भाष्यकारेण वाक्यान्तर-मुदाहृतम्– ‘सप्तदश प्राजापत्यान् पशूनालभेत’ इति । अत्र द्रव्यगतया सङ्ख्यया स्पष्टं भेदो नावगम्यते इति पूर्वपक्षोदयः । अत्र सन्देहः– किं सप्तदशपशुद्रव्यक एको यागो विधीयते, उतैकैकपशुद्रव्यकाः सप्तदश यागा विधीयन्ते ? तदर्थमिदं विचार्यते । अत्र हि ‘प्राजापत्यान्’ इति प्रकृत्या देवताऽभिधीयते । तद्धितेन च द्रव्यं, बहुवचनेन च बहुत्वम् । तत्र तद्धितार्थो बहुत्वेन प्रथमम् अन्वितः । पश्चात् प्रजापतिना देवतया सम्बध्यते– पशुश्च पशुश्च पशुश्च तेषां प्रजापतिर्देवतेति । तदा बहुभिः पशुभिः व्यासज्यैका देवता सम्बध्यत इति द्रव्यदेवता-सम्बन्धैक्यात् एको यागो भवति ? किं वा, प्रथमं प्रजापतिनाऽन्वितः पश्चाद् बहुत्वेन सम्बध्यते– प्रजापतिर्देवतास्येति, प्राजापत्यश्च प्राजापत्यश्च प्राजापत्यश्च प्राजापत्या बहव इति । तदा भिन्नैर्द्रव्यदेवतासम्बन्धैर्भिन्ना यागाः कल्प्यन्ते ? इति । पूर्वपक्षस्तु– एको याग इति । तद्धितार्थस्य पशोर्बहुत्वेनान्वयात्, प्राजापत्यशब्देन पशोः प्राधान्येनाभिधानात्, प्रधानस्यैवार्थान्तरेणान्वयात् । न च प्राजापत्यशब्देन देवताविशिष्टं पशुद्रव्यम् अभिहितं, विशिष्टरूपेण क्रियान्वयि स्यात्, न स्वरूपेणेति वाच्यम् । द्वावित्यादावनैकान्त्यात् । न हि तत्र द्वित्वविशिष्टेन रूपेण द्विवचनाभिहितसङ्ख्यान्वयः । तथा सति द्वावित्यत्र चत्वारः प्रतीयेरन् । त्रय इत्यत्र नव । तथा च यथा तत्र विशिष्टरूपेणाभिधानेऽपि स्वरूपेणैव द्विवचनाभिहितसङ्ख्यायोगस्तथा प्रकृतेऽपि स्वरूपेणैव बहुत्वान्वयः । तथा च सप्तदश-पशुद्रव्यको यागो विधीयते । न चैवं चोदकप्राप्तमेव पशुनिष्पन्नैकादशावदानद्रव्यत्वं नानुगृहीतं स्यादिति वाच्यम् । उपदेशानुसारेण चोदकप्राप्तिः न तु चोदकानुसारेणोपदेशनिर्णयः । तस्मादेको याग इति । सिद्धान्तस्तु– अनेके यागा इति । अन्यथा हि सप्तदशानां प्राजापत्यत्वं न स्यात् ।
तथा हि । सवनीयविकारा हि एकादशिनः । तद्विकाराश्च प्राजापत्याः । तत्र चैकपशु निष्पन्नैकादशावदानद्रव्यत्वं यागस्य स्यादिति अत्राप्येकत्वे यागस्य चोदकोऽप्येकमेवावदान-गणमतिदिशेत् । तथा च सप्तदशानां प्राजापत्यत्वं न सम्पादितं स्यात् । न चोपदेशेन चोदकस्य बाध इति वाच्यम् । उपदेशस्योभयथाप्युपपत्त्या विरोधाभावात् । सावकाशस्य निरवकाशेन बाधात् । तथा चार्थद्वयसाधारणमुपदेशवाक्यं प्रकृतिवच्छब्देन वाक्यशेषभूतेनानेक कर्मपरम् अवधार्यते । कर्मभेदे हि प्रतिकर्मभिन्नैश्चोदकैः तावतां गुणानां प्राप्तेः । सिध्यति सर्वेषां प्राजापत्यत्वम् । किञ्च प्रातिपदिकार्थस्य कर्मत्वबहुत्वविवक्षायां द्वितीयाबहुवचने । प्रातिपदिकार्थनिष्पत्तिश्च प्रजापतिप्रकृतेः तद्धितार्थान्वये सति । तथा च प्रथमभावितद्धितार्था-न्वयवेलायां द्वितीयाविभक्तेरेवानन्वयात्, पश्चाच्च विशिष्टस्यैवोपस्थितत्वात् बाधकाभावाच्च विशिष्टस्यैव बहुत्वमित्यनेके यागा विधीयन्त इति सङ्ख्यया कर्मभेदः । सूत्रस्य चायमर्थः । सङ्ख्ययापि हेतुना कर्मभेदः स्यात् । कुतः ? पृथक्त्वनिवेशात् कर्मपृथक्त्वेनैव तस्या निवेशात् । एकातिरिक्तसङ्ख्यायाः पृथक्त्वसामानाधिकरण्यादित्यर्थः ।
द्वितीयाध्याये द्वितीयपादेऽष्टमाधिकरणे चिन्तितम् । ‘सञ्ज्ञा चोत्पत्तिसंयोगात्’ । ज्योतिष्टोमं प्रकृत्य श्रूयते– ‘अथैषज्योतिः । अथैष विश्वज्योतिः । अथैव सर्वज्योतिः । एतेन सहस्रदक्षिणेन यजेत’ इति । अत्रैतच्छब्दपरामृष्टानां ज्योतिरादीनां यजिसामानाधि-करण्येन नामत्वं तावत् सिद्धम् । अत्र सन्देहः– किं प्रकृतमेव ज्योतिष्टोमं ज्योतिरादिशब्दैरनूद्य सहस्रदक्षिणाख्यो गुणो विधीयते, उत कर्मान्तराण्येवंनामान्येवंदक्षिणानि विधीयन्त इति । पूर्वपक्षस्तु– प्रकृतस्यैव गुणविधिरिति । प्रकरणात् । एतच्छब्दस्य प्रकृतवाचित्वात् तत्सामा-नाधिकरण्या ज्योतिरादीनाम् । अन्यथा प्रकृतहानाप्रकृतकल्पनाप्रसङ्गात् । तस्माद् गुणविधि-रिति । सिद्धान्तस्तु– कर्मविधिरिति । अपूर्वसञ्ज्ञयाऽर्थान्तरस्यैव प्रत्यायनात् । अन्यथा तद्वैयर्थ्यापत्तेः । एकदेशलक्षणाया अन्याय्यत्वाच्च । न च प्रकरणविरोधः । अथशब्देन तद्विच्छेदात् । न चैतच्छब्दायोगः । तस्य सन्निहितवाचित्वादिति वाच्यम् । पूर्वसन्निधाना-भावेऽपि उत्तरसन्निधानसम्भवात् । तथा चापूर्वसञ्ज्ञया कर्मान्तरमेव प्रतीयत इति सञ्ज्ञया कर्मभेदः । सूत्रस्य चायमर्थः– सञ्ज्ञा च पूर्वविलक्षणा कर्म भेदिका । कुतः ? उत्पत्ति-संयोगात् कर्मोत्पत्तिसमय एव तस्य नाम्नः संयोगादिति ।
द्वितीयाध्याये द्वितीयपादे नवमाधिकरणे चिन्तितम् । ‘गुणश्चापूर्वसंयोगे वाक्ययोः समत्वात्’ । चातुर्मास्येषु श्रूयते ‘तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्’ इति । तत्र संशयः– किं सा वैश्वदेव्यामिक्षेत्यनेन विहिते यागे वाजिभ्यो वाजिनमित्यनेन गुणो विधीयत उत कर्मान्तरमिति । पूर्वपक्षस्तु– गुणविधिरिति । वाजिनो हि वाजमन्नं येषामिति व्युत्पत्त्या पूर्वयागविहितामिक्षारूपान्नवत्त्वेन प्रकृताः प्रत्यभिज्ञायन्ते । तथा च तैः सह सम्बध्यमानं वाजिनं तत्रैव विहितं भवति इति स्वीकर्तव्यम् । अन्यथा प्रकृतहानाप्रकृतकल्पने स्याताम् । अपूर्वान्तरकल्पना च स्यात् । विशिष्टविधिगौरवं च स्यात् ।
ननु पूर्वकर्मण आमिक्षायुक्तस्यैवोत्पन्नत्वान्न द्रव्यान्तरापेक्षा, योग्यता वा नास्तीति चेन्न । पूर्वं विशिष्टस्य श्रुतत्वेऽपि इह निष्कृष्य स्वरूपमात्रेणाभिधानात् । अभिधानकृता ह्याकाङ्क्षा । न स्वरूपकृता । अन्यथाऽग्निहोत्रस्यानेकद्रव्यसम्बन्धो न स्यात् । न चामिक्षया देवता-सम्बन्धस्य श्रौतत्वाद् वाक्यगम्याद् वाजिनसम्बन्धाद् बलीयस्त्वमिति वाच्यम् । उभय-सम्बन्धस्य वाक्यगम्यत्वेन समत्वात् । न हि वैश्वदेवीपदेनामिक्षा सम्बन्धोऽवगम्यते । किन्त्वामिक्षापदैकवाक्यतया । तथा चोभयोः समत्वाद् विकल्पः समुच्चयो वेति न कर्मान्तर-मिति । सिद्धान्तस्तु– कर्मान्तरविधिरिति । उत्पत्तिशिष्टगुणावरुद्धे उत्पन्नशिष्टगुणनिवेशा-सम्भवात् । न च स्वरूपमात्रम् अभिधीयत इति वाच्यम् । स्वरूपमात्रस्यानुवादासम्भवेन पूर्ववाक्यावगमानुसरणे पूर्ववाक्ये विशिष्टस्यैवावगमेन तत्र वाजिननिवेशासम्भवात् । न चोभयोर्वाक्यायत्तत्वेन तुल्यत्वमिति वाच्यम् । वैश्वदेवीति तद्धितेनैव देवतासम्बन्ध-स्योक्तत्वात् । आमिक्षापदस्य विशेषसमर्पकत्वेनोपयोगात् । तथा चामिक्षासम्बन्धस्य श्रौतत्वाद् बलवत्त्वम् । चतुर्थ्याश्च सम्प्रदानमात्रपरत्वेन वाजिनसम्बन्धस्य वाजिनपदसमभि-व्याहारापेक्षत्वेन दुर्बलत्वम् । तस्माद् वाजिनगुणः पूर्वकर्मणि निवेशम् अलभमानः स्वनिवेशक्षमकर्मान्तरं कल्पयतीति गुणाद् भेद इति । सूत्रस्य चायमर्थः– गुणश्च कर्मभेदकः, अपूर्वसंयोगे पूर्वकर्मसम्बन्धाभावे सति । कुतः ? वाक्ययोः समत्वात् । समे हि तदा वाक्ये भवतः । तत एवेत्यर्थः ।
द्वितीयाध्याये तृतीयपादे एकादशाधिकरणे चिन्तितम् । ‘प्रकरणान्तरे प्रयोजनान्यत्वम्’ इति । कुण्डपायिनामयने श्रूयते ‘मासमग्निहोत्रं जुहोति । मासं दर्शपूर्णमासाभ्यां यजते’ इति । तत्र सन्देहः– नैमित्तिकेऽग्निहोत्रे मासलक्षणो गुणो विधीयत उत कर्मान्तरमिति । पूर्वपक्षस्तु– गुणो विधीयत इति । प्राप्तं कर्माग्निहोत्रशब्देनानूद्य मासलक्षणो गुणो विधीयते । न च तस्यानुपादेयत्वान्न विधेयतेति तमुद्दिश्य कर्मैव विधीयत इति वाच्यम् । प्राप्त्यप्राप्ती ह्यनुवादविधानयोः प्रयोजिके । नानुपादेयत्वोपादेयत्वे । तस्माद् गुणविधिरिति । सिद्धान्तस्तु– कर्मविधानमेष्टव्यम् । गुणविधानासम्भवात् । तथा हि । किं मास एव विधीयते उतोप-सद्भिश्चरित्वेत्युक्ताः उपसदोऽपि ? नाद्यः । उपसदामपि विधातव्यत्वात् । तासां नित्याग्निहोत्रे प्राप्त्यभावात् । न द्वितीयः । प्राप्तकर्मानुवादेनानेकगुणविधाने वाक्यभेदापत्तेः । न च गुणविधानासम्भवेऽपि न कर्मान्तरविधानम् । प्रमाणाभावादिति वाच्यम् । प्रकरणान्तरस्यैव तत्वात् । न चैतदग्निहोत्र प्रकरणम् । अयनमारभ्याधीतत्वात् । न चैवमग्निहोत्रे गुणविधिशङ्कैव न स्यादिति वाच्यम् । प्रकरणेन तदसमर्पणेऽप्यग्निहोत्रशब्देन तत्समर्पणाद् भवति शङ्का । सा च वाक्यभेदेन निराकृतेति प्रकरणान्तरात् कर्मभेदः सिद्धो भवतीति । न चैवम् अग्निहोत्रशब्दो व्यर्थ इति वाच्यम् । तस्येतिकर्तव्यतातिदेशकत्वेन सार्थकत्वात् । न चैवं वाजिनमासरूपगुणविशिष्टं कर्म विधीयत इति वाजिनमासगुणादेव कर्मभेदो, न प्रकरणान्तरादिति चेन्न । वैषम्यात् । तत्र विधेयतया उपादेयगुणो वाजिनम् । मासस्त्वनुपादेय इत्येकं वैषम्यम् । द्रव्यत्वेन रूपान्तरं वाजिनं, मासस्तु न तथेत्यपरम् । वस्तुतस्तु प्रकरणान्तरं प्रथमप्रतीतमिति तदेवात्र प्रमाणम्, न चरमप्रतीतो गुण इति प्रकरणान्तरात् कर्मभेद इति । सूत्रस्य चायमर्थः । प्रकरणान्तरे सति प्रयोजनान्यत्वं विधेयभावनान्यत्वं, न पूर्वकर्मानुवादेन गुणविधानमिति । तत्र–
शब्दान्तरं धातुभेदाभ्यासो विधिपुनःश्रुतिः ।
उत्पत्तिस्था द्व्यादिशङ्ख्या सञ्ज्ञा चागमपूर्वकम् ।
अनुपादेयसम्बन्धोऽसन्निधिः प्रक्रियान्तरम् ।। इति । विरुद्धार्थेति । भिन्नार्थेत्यर्थः । तावतैव यजति ददातिवद् भेदसम्भवात् । विरोधग्रहणं तु एकविषयत्वस्यात्यन्तम् असम्भाव्य-मानत्वप्रदर्शनार्थम् । अप्रत्यभिज्ञायमानेति । परो जीव इति विलक्षणशब्दप्रयोगादित्यर्थः । द्वा सुपर्णेति । ‘सप्तदश प्राजापत्यान्’ इत्यत्र द्रव्यगतया कर्मभेद उक्तः । इह तु ‘तिस्र आहुतीः’ इत्यादौ कर्मगतया कर्मभेदवत् द्रव्यगतया द्रव्यभेदः स्फुट एवेति भावः । अश्नन्निति । न चाशनं कल्पितमिति वाच्यम् । तस्य भेदमिथ्यात्वाधीनत्वेनान्योन्याश्रयात् । यत इति । तस्य ‘अधीहि भगवो ब्रह्म’ इत्यादिवाक्यपर्यालोचनया ब्रह्मप्रकरणत्वादिति भावः । इति जीवेशभेदे शब्दान्तरादि ।। २४ ।।
न्यायामृतप्रकाशः
नित्यः पर इति ।। एकेन नित्यशब्देन परेशे नित्यत्वेऽभिहिते पुनस्तत्रैव नित्यत्वबोधना-योगान्नित्यशब्दाभ्यासः परजीवौ भिनत्तीत्यर्थः । गुणान्तरं विधातुं प्रत्यभिज्ञायमाने पुनःश्रुतेरभेद-कत्वादुक्तम् अप्रत्यभिज्ञायमानेति ।। प्रत्यभिज्ञाज्ञापकं सोऽयमित्यादिपदमत्र नास्तीत्यर्थः । अधिकरणानि तरङ्गिण्यां द्रष्टव्यानि ।। जीवेशभेदे शब्दान्तरादिविवरणम् ।। २४ ।।
न्यायकल्पलता
।। शब्दान्तरादिभिरिति ।। शब्दान्तराभ्याससङ्ख्यागुणप्रकरणान्तरसञ्ज्ञाभिः ।। एष एवेति ।। प्रबोधयत्युत्तिष्ठतिपदाभ्यां प्रबोधयिता उत्थाता च भिन्नः प्रतीयते ।। विरुद्धार्थेति ।। विरुद्धार्था ये धातवः तेभ्यो निष्पन्नं यदाख्यातं तद्विशिष्टं यच्छब्दान्तरं ‘यजति ददाती’त्यादि, तेभ्यो यथा यागदाने भिन्ने तथेत्यर्थः ।। द्वितीयस्य द्वितीयपादे विचारितम्– ‘शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्’ । ‘यजति ददाति जुहोती’ति श्रूयते । तत्र यागदानहोमानां भावनाः किमभिन्ना विधीयन्ते उत भिन्ना वा । यद्यपि धातुभेदाद् आख्यातपदानि मिथः शब्दान्तरं तथापि प्रत्ययांशः सर्वत्रैकरूपः । तदर्थभावना तदभेदादभिन्ना । यदि हि धात्वर्थान्प्रति गुणभूता भावना स्यात्ततस्तेषां धातुभेदेन भिन्नत्वाद्भावनापि तान्प्रत्युपादीयमाना प्रतिधात्वर्थं भिद्येत । भावनाप्रधानत्वादाख्यातस्य । तां प्रत्युपादीयमाना धात्वर्थाः संहत्यैव तां विशिषंन्ति । यथा ‘अरुणया क्रीणाति’ इत्यादावरुणिमादयः क्रयम् । तदुक्तम् ।
भावना प्रत्ययार्थत्वात्तदेकत्वान्न भिद्यते । गुणभूता हि धात्वर्थाः न तां भिद्युः कथञ्चन ।। इति । तस्माद्यागदानादिधात्वर्थैरेकैव भावनाऽवच्छिद्यत इति न यागदानादिभावनाभेद इति प्राप्ते, सिद्धान्तः । यदि धातुसमुदायात्प्रत्ययः श्रूयते द्वन्द्वादिव सुप्, यदि वा क्रीणातिरिवारुणादिभ्यो विविक्तः श्रूयते तदा सर्वैर्धात्वर्थैर्भावना विशिष्येत प्रातिपदिकार्थैरिव सुबर्थः । क्रय इवारुणादिभिः प्रत्येकं तु धातुभ्यः प्रत्ययः श्रूयत इति नैकभावनासम्भवः । तदुक्तम् । प्रत्ययांशः समानोऽपि प्रतिधातु-प्रयोगतः । तत्तदर्थानुसारेण भावना भेदमावहेत् ।। १ ।।
निष्पद्येत समस्तेभ्यो धातुभ्यः प्रत्ययो यदि ।
ततः सर्वविशिष्टा स्याद् द्वन्द्वोत्पन्नसुबर्थवत् ।। १ ।।
यदि च प्रत्ययः शुद्धः सर्वधातुपृथक्कृतः ।
श्रूयेत क्रयवत्सर्वैर्विशेष्येत स धातुभिः ।। १ ।। इति ।।
नित्यः परो नित्यो जीव इति ।। नित्यशब्दाभ्यासः परजीवौ भिनत्ति । एकेन नित्यशब्देन परेशे नित्यत्वे बोधिते पुनस्तत्रैव नित्यत्वस्यैव बोधितस्य बोधनायोगात् । गुणान्तरं विधातुं प्रत्यभिज्ञारूपपुनःश्रुतेरभेदकत्वाद् ‘अप्रत्यभिज्ञायमान’ इत्युक्तम् ।
अधिकरणं तु । एकस्यैव पुनःश्रुतिाविशेषादनर्थकं हि स्यात्’ । ‘समिधो यजति, ‘तनूनपातं यजति, ‘इडो यजति, ‘बर्हिर्यजति, ‘स्वाहाकारं यजति’ इति पञ्चकृत्वः श्रुतयजतिनैको याग उच्यते पञ्च वा । तत्राख्यात भेदाभावाद्धातुभेदाभावाच्चैक एव यागः । तदुक्तम् ।
प्रत्यक्षप्रत्यभिज्ञानाच्छब्दैकत्वं प्रतिष्ठितम् ।
तदेकत्वात्तदर्थोऽपि न भेदं प्रतिपद्यते ।। इति पूर्वः पक्षः ।
सिद्धान्तस्तु । यद्येकमेव कर्म स्यात्तर्हि तस्य पूर्ववाक्येन विहितत्वात्पुनर्विधानम् अनुपपन्नम् । अतः पुनर्विधिवशात्कर्मभेदः ।। द्वा सुपर्णेत्यादीति ।। अत्र हि जीवेशगतया सङ्ख्ययैव तयोर्भेदः साधनीयः । विचारितं चैतत् । ‘पृथक्त्वनिवेशात् सङ्ख्यया कर्मभेदः स्यात्’ । ‘सप्तदश प्राजापत्यान् पशूनालभते’ अत्र किं सप्तदशपशुद्रव्यक एको यागः किं वा एकैकपशुद्रव्यकाः सप्तदश यागा इति । तदर्थं विचार्यते । प्राजापत्यानिति प्रकृत्या प्रजापतिदेवताऽभिधीयते । तद्धितेन पशुर्द्रव्यम् । बहुवचनेन बहुत्वम् । तत्र तद्धितार्थः पशुर्बहुत्वेन प्रथममन्वितः पश्चात्प्रजापतिना देवतया सम्बध्यते । पशुश्च पशुश्च पशुश्च तेषां प्रजापतिर्देवतेति तदा बहुभिः पशुभिर्व्यासज्यैका देवता सम्बध्यत इति द्रव्यदेवतासम्बन्धैक्यादेको यागो भवति किं वा प्रथमं प्रजापतिनाऽन्वितः पश्चाद्बहुत्वेन सम्बध्यते । प्रजापतिर्देवताऽस्येति प्राजापत्यश्च प्राजापत्यश्च प्राजा पत्यश्च प्राजापत्या बहव इति तदा भिन्नैर्द्रव्यदेवतासम्बन्धैर्भिन्ना एव यागाः कल्प्यन्ते । तत्र प्राजापत्यशब्देन देवता सम्बन्धोपसर्जनंद्रव्यमेव प्राधान्येनोच्यते । यच्च प्रधानं तस्यैवार्थान्तरेण बहुत्वेन सम्बन्धो नोपसर्जनस्य देवतासम्बन्धस्य । ननु देवताविशिष्टं द्रव्यम् अभिहितं विशिष्टेनैव रूपेण सङ्ख्यान्वयि स्यान्न स्वरूपेण । न । द्वौ त्रय इत्यत्रानैकान्त्यात् । न हि द्वावित्यत्र द्वित्वविशिष्टेन रूपेण द्विवचनाभिहित-सङ्ख्यान्वयः । तथा सति द्वावित्यत्र चत्वारः प्रतीयेरन् । एवं त्रय इत्यत्र नव । तस्माद्यथा तत्र द्वित्वविशिष्टमपि द्रव्यं द्विशब्देनोक्तं स्वरूपेण द्विवचनाभिहितसङ्ख्यायोगं प्रतिपद्यते तथाऽत्रापि तद्धिताभिहितं द्रव्यं स्वरूपेणैव बहुत्वं प्रतिपद्यते न सोपसर्जनम् । तस्मादेकं कर्म सप्तदशपशुद्रव्यकमिति पूर्वपक्षयित्वा सिद्धान्तितम् । स्वरूपेणैव सङ्ख्यान्वयादेकयागत्वे तत्र प्रकृतिभूताद् अग्नीषोमीयपशोर्हृदयं जिह्वा वक्षो यकृत् वृक्कौ सव्यं दोरुभे पार्श्वे दक्षिणा श्रोणिर्गुदतृतीयमिति दैवतानीति विहितस्यैकस्यैक-पशुनिष्पन्नावदानगणस्यातिदेशतः प्राप्तस्यानुष्ठाने सप्तदशपशूनां प्राजापत्यत्वं न सम्पादितं स्यात् । न चोपदेशेनातिदेशबाधः । देवतासम्बन्धविशिष्टे पशुद्रव्ये सप्तदशसङ्ख्यान्वयाङ्गीकारेऽति-देशोपदेशयोरबाधेनैवोपपत्तावतिदेशबाधकल्पनायोगात् ।। तस्मात्सप्तदशयागा इति ।।
अनश्नन्नित्यादेर्भेदकस्य गुणान्तरस्येति ।। ‘गुणश्चापूर्वसंयोगे वाक्ययोः समत्वात्’ । चातुर्मास्येषु श्रूयते ‘तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षेति विधायाम्नायते ‘वाजिभ्यो वाजिनम्’ इति । तत्र संशयः– किं पूर्वस्मिन्नेव यागे वाजिनद्रव्यं विधीयते उत तत्तद्द्रव्यकं कर्मान्तरम् इति । तत्र पूर्वः पक्षः– वाजम् अन्नमामिक्षारूपमेषामिति वाजिशब्देनामिक्षायागदेवतां विश्वेदेवानेव निर्दिश्य तत्सम्बन्धितयोक्तं वाजिनं पूर्वकर्मण्येव विहितं भवति । एवञ्च गुणमात्रविधानाद्विधेयलाघवम् । न चामिक्षायुक्तस्यैव यागस्योत्पत्तेस्त(स्यां)स्मिन् यागावच्छिन्नभावनायां होमस्यावच्छेदकत्वमिव वाजिनस्य द्रव्यत्वम् अयुक्तम् आकाङ्क्षाविरहादिति वाच्यम् । उत्पत्तौ द्रव्ययुक्तस्यापि यागस्य द्रव्यदेवता-सम्बन्धकल्पितयजिपदोपस्थापितस्य निष्कृष्य द्रव्ययुक्तस्वरूपमात्रानुवादेनाकाङ्क्षासम्भवात् । अभिधानविशेषकृता ह्याकङ्क्षा न वस्तुकृता । भावना तु प्रत्ययवाच्या । प्रकृत्यननुरक्ता नानुवदितुं शक्यते इति यागावच्छिन्नायां तस्यां होमस्यावकाश इति वैषम्यम् । तस्मान्न यागभेद इति । सिद्धान्तस्तु– यद्यपि ‘वाजिभ्यो वाजिनम्’ इत्यत्र कल्पितेन यजिना आमिक्षायागस्वरूपमात्रं निष्कृष्यते तथाऽपि तस्योत्पत्तिवाक्यागतस्यानुवादात्तत्स्वरूप मालोच्यमानं गुणयुक्तम् अवगम्यते इति नैराकाङ्क्षयादयोग्यत्वाच्च तत्र निवेशम् अलभमानं गुणान्तरम् आत्मनिवेशाय कर्मान्तरोत्पत्तिं गमयतीतियुक्तो गुणात्कर्मभेदः । तस्माद् यथा ‘वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्’ इत्यत्र पूर्वविहितस्य कर्मणः प्रबलगुणावरुद्धत्वात्तत्र स्वनिवेशम् अलभमानः(नं) स्वात्मसङ्गतये वाजिभ्यो वाजिनमित्येतस्य विधेः कर्मान्तरोत्पत्तिपरतां कल्पयन् वाजिनाख्यो गुणो भेदको भवति तथाऽत्तीत्यदनाख्यगुणावरुद्धे जीवेऽनश्नन्नित्यस्य गुणस्यानिवेशादशनाख्यो गुणः स्वनिवेशाय जीवात्परमात्मभेदमवगमयतीति ।।
यतो वाचो निवर्तन्ते इत्यादीति ।। यथा कुण्डपायिनामयनाख्ये सत्रे श्रूयते ‘उपसद्भिश्चरित्वा मासम् अग्निहोत्रं जुह्वति’ इति । अत्र नित्याग्निहोत्रानुवादेन मासाख्यो गुणो न विधातुं शक्यते । नित्याग्निहोत्रे उपसदाम् अभावेन तद्विपरिवृत्तेरभावात् । तस्माद् अग्निहोत्रसञ्ज्ञं कर्मान्तरम् अभिधीयते तथा ‘यतो वाचो निवर्तन्ते’ इत्यत्र जीवस्यासन्निहितत्वेन त्तत्र वाङ्मनसनिवृत्त्यविषयत्वविधाना-सम्भवाद्यस्मिंस्तद्विधीयते स जीवाद्भिन्न इति सिध्यति ।। जीवेशादीति ।। ‘सञ्ज्ञा चोत्पत्ति-संयोगात्’ । ज्योतिष्टोमं प्रकृत्य श्रूयते– ‘अथैष ज्योतिरथैष विश्वज्योतिरेतेन सहस्रदक्षिणेन यजेत’ इति । तत्र किं प्रकृते ज्योतिष्ठोमे सहस्रदक्षिणाख्यो गुणो विधीयते उत कर्मान्तरविधिरिति संशये एतच्छब्दस्यप्रकृतच्योतिष्टोमाभिधायित्वात्तत्रैव गुणविधिरिति पूर्वः पक्षः । सञ्ज्ञाभेदेन सञ्ज्ञिभेदप्रतीतेः एतच्छब्दस्य प्रक्रियमाणकर्मपरतयाऽप्युपपत्तेर्ज्योतिःसञ्ज्ञकसहस्रदक्षिणकर्मान्तरविधिरिति सिद्धान्तः । एवञ्च यथा ज्योतिरादिसञ्ज्ञाभ्यः कर्मभेदसिद्धिः । तदुक्तम् ।
नामान्तरश्रुतावर्थभेदस्तावत्प्रतीयते ।
बलवद्बाधकाच्चासावन्यथात्वं प्रपद्यते ।।
न चात्र बलवद्भाधकमस्ति । येन सञ्ज्ञानिमित्तो भेदोऽपोद्येतेति । तथा जीवेशसञ्ज्ञाभ्यां तयोर्भेदः सिध्यति । ननु शब्दान्तरादीनां प्रत्यक्षादिसमकक्ष्यतया भेदकत्वेऽपि न तेषां तात्विकाभेदविरोधित्वम् । मैवम् । वेदतात्पर्यविषयस्य तात्विकत्वनियमेन भेदविरोध्यभेदस्य पारमार्थिकत्वानुपपत्तेः । यत्तु कर्मभेदे प्रमाणत्वेन कप्तानां शब्दान्तरादीनां च चेतनभेदे प्रमाणत्वम् । न ह्यन्यभेदे प्रयोजकस्यान्य-भेदप्रयोजकतेति । तन्न । विरुद्धार्थधातुनिष्पन्नाख्यातरूपशब्दान्तर योगादिना यथाऽनेकं कर्मेति गम्यते तथाऽनेकश्चेतन इति तत एवावगम्यते । न हि बोधयत्युत्तिष्ठतीत्यत्र बोधयितोत्थाता च भिन्न इति न प्रतीतिः । यदपि विशेषणभेदाद्विशिष्टस्य भेदः प्रतीयते न विशेष्यस्येति, तन्मन्दम् । प्रतीतस्यापि विशेष्यभेदस्य प्रत्यभिज्ञानादिनाऽभेदप्रमाणेन त्याज्यत्वात् । न चात्र भेदत्यागकारणं प्रत्यभिज्ञादिकमस्ति । प्रत्युत ‘एष एव जीवमेतस्माज्जीवः’ इत्यप्रत्यभिज्ञैव । एतेन शब्दान्तरस्य न कर्तृभेदकतेति निरस्तम् ।।
।। इति जीवेशभेदे शब्दान्तरादि ।। २४ ।।