सन्ति च भेदश्रुतेरपि षड्विधतात्पर्यलिङ्गानि
२५. भेदश्रुतेः षड्विधतात्पर्यलिङ्गानि
न्यायामृतम्
सन्ति च भेदश्रुतेरपि षड्विधतात्पर्यलिङ्गानि । तथा हि– आथर्वणे ‘द्वा सुपर्णा’ इत्युपक्रमः, ‘परमं साम्यमुपैति’ इत्युपसंहारः । ‘तयोरन्यः, ‘अनश्नन्नन्यः, ‘अन्यमीशम्’ इत्यभ्यासः । शास्त्रैकगम्येश्वरप्रतियोगिकस्य तद्धर्मिकस्य वा कालत्रया-बाध्यभेदस्य शास्त्रं विनाऽप्राप्तेः अपूर्वता । ‘पुण्यपापे विधूय’ इति फलम् । ‘अस्य महिमानम्’ इति स्तुतिरूपोऽर्थवादः । ‘अत्ति अनश्नन्’ इत्युपपत्तिः । अत्र ‘माया-मात्रमिदं द्वैतम्’ इत्यादाविव द्विशब्द एव भेदवाचकः, तदाक्षेपको वा द्वित्वसङ्ख्यै-वैक्यविरोधिनीत्युपक्रमो भेदविषयः । तद्भिन्नत्वविशेषितमेव तन्निष्ठबहुधर्मयोगित्वं तत्सादृश्यं न तु विशेष्यमात्रम् । नायं सः किन्तु तत्सदृशः, नायं तत्सदृशः, किन्तु स एवेति सादृश्यैक्ययोरेकतरविधानायान्तरनिषेधाद् । ‘गगनं गगनाकारम्’ इत्यादि तु तत्सदृशवस्त्वन्तरनिषेधपरम् । गगनाद्येकदेशस्य तदेकदेशसादृश्यपरं वेत्युपसंहारोऽपि भेदपरः । अभ्यासत्वे चार्थत एव(क)प्रकारत्वं तन्त्रं न तु शब्दतः, अतिप्रसङ्गात् । ‘पश्यत्यन्यमीशम्’ इत्यत्रेशगतान्यत्वं प्रति पश्यतीति प्रकृतो जीवः पदिन्यायेन प्रतियोगितया सम्बध्यत इति सिद्धोऽभ्यासः ।
एवं ‘वेत्थ नु त्वं काप्य तमन्तर्यामिणम्’ इत्युपक्रमः । ‘एष त आत्मान्तर्यामी’ इत्युपसंहारः । ‘एष त आत्माऽन्तर्याम्यमृतः’ इत्येकविंशतिकृत्वोऽभ्यासः । अन्तर्यामित्वस्याप्राप्तत्वाद् अपूर्वता । ‘स ब्रह्मवित्’ इत्यादिफलम् । ‘तच्चेत्त्वं याज्ञवल्क्य सूत्रम् अविद्वांस्तं चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्धा ते विपतिष्यति’ इति निन्दारूपोऽर्थवादः । ‘यस्य पृथिवी शरीरं यं पृथिवी न वेद’ इत्याद्युपपत्तिः । इयं च श्रुतिर्भेदपरैवेति सूत्रकृतैवोक्तं– ‘शारीरश्चोभयेऽपि हि भेदेनैनमधीयत’ इति सूत्रं भेदपरमिति त्वयापि भाषितत्वात् । भेदश्रुतेः षडि्वधतात्पर्यलिङ्गानि ।। २५ ।।
अद्वैतसिद्धि:
ननु– षडि्वधतात्पर्यलिङ्गोपेतश्रुतिगम्यभेदस्य कथमतात्त्विकत्वम् ? आथर्वणे ‘द्वा सुपर्णा’ इत्युपक्रमः, ‘परमं साम्यमुपैति’ इत्युपसंहारः । ‘तयोरन्यः, ‘अनश्नन्नन्यः, ‘अन्यमीशम्’ इत्यभ्यासः । शास्त्रैकगम्येश्वरप्रतियोगिकस्य कालत्रयाबाध्यभेदस्य शास्त्रं विना अप्राप्तेरपूर्वता, ‘पुण्यपापे विधूय’ इति फलम्, ‘अस्य महिमानम्’ इति स्तुतिरूपोऽर्थवादः, ‘अत्ति अनश्नन्’ इत्युपपत्तिः । अत्र च ‘मायामात्रमिदं द्वैतम्’ इत्यादाविव द्विशब्द एव भेदवाचकः, तदाक्षेपको वा द्वित्वसङ्ख्यैवैक्यविरोधिनीति वा भवत्युपक्रमो भेदविषयः । तद्भिन्नत्वविशेषितमेव च तद्गतबहुधर्म-योगित्वं तत्सादृश्यम्, न तु विशेष्यमात्रम्, नायं सः किन्तु तत्सदृशः । नायं तत्सदृशः, किन्तु स एवेति सादृश्यैक्ययोरेकतरविधानायान्यतरनिषेधाद् । ‘गगनं गगनाकारम्’ इत्यादि तु तत्सदृशवस्त्वन्तरनिषेधपरम् । गगनाद्येकदेशस्य तदेकदेशसादृश्यपरं वा इत्युपसंहारोऽपि भेदविषय एव । अभ्यासत्वेऽपि अर्थत एवैकप्रकारत्वं तन्त्रम्, न तु शब्दतः, अतिप्रसङ्गात् । अन्यमीशमित्यत्र ईशगतान्यत्वं प्रति पश्यतीति प्रकृतो जीव एव पदिन्यायेन प्रतियोगितया सम्बध्यत इत्यभ्यासोऽपि सम्भवतीति चेत् । मैवम्, आथर्वणे प्रथममुण्डके ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ इति शौनकप्रश्नानन्तरं ‘द्वे विद्ये वेदितव्ये’ इति विद्याद्वयमवतार्य ऋग्वेदादिलक्षणाम् अपरामुक्त्वा ‘अथ परा यया तदक्षरम् अधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णम्’ इत्यादिना परविद्याविषयम् अक्षरं प्रश्नानुसारेण प्रतिपादयता अभेदस्यैवोपक्रान्तत्वात् । अन्यथा तदुत्तरत्वानुपपत्तेः । द्वितीयमुण्डके ‘पुरुष एवेदं विश्वं ब्रह्मैवेदं वरिष्ठम्’ इति मध्ये परामर्शात् । तृतीयमुण्डकान्ते च ‘परेऽव्यये सर्व एकीभवन्ति, स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवति’ इत्यैक्यलक्षणफलेनोपसंहाराच्च मुण्डक-त्रयात्मिकाया उपनिषद ऐक्यपरत्वे स्थिते ‘असंयुक्तं प्रकरणा्’ि इति न्यायेनाभिक्रमणादिवन्मध्यस्थित-वाक्यस्यापि द्वासुपर्णेत्यादेस्तदनुकूलत्वे सम्भवति महाप्रकरणविरोधेन विपरीततात्पर्यकल्पनया भेदोपक्रमत्वाभावात् । ‘परमं साम्यमुपैति’ इत्यस्य पूर्वोक्तन्यायेन ऐक्यपरतया भेदोपसंहारत्वाभावात् । अतः ‘अनश्नन्’ इत्यादिना न तात्त्विकभेदाभ्यासः, नापीशस्य शास्त्रगम्यतया तत्प्रतियोगिकस्तद्धर्मिको वा भेदोऽपूर्वः, ईशज्ञानमात्रे तदपेक्षायामपि प्रत्यक्षेण तत्समकक्ष्यमानेन च तयोः प्राप्तत्वात् । त्वदुक्तफलार्थवादयोरैक्यपक्षेऽपि सम्भवेन न भेदासाधारणलिङ्गता, अनश्नन्नित्यादेः काल्पनिकभेदेनो-पपत्त्या तात्त्विकभेदोपपत्तित्वाभावात् ।
ननु– अन्तर्यामिब्राह्मणं षड्विधतात्पर्यलिङ्गोपेतं वाक्यं भेदे प्रमाणम् । तथा हि– ‘वेत्थ नु त्वं काप्य तमन्तर्यामिणम्’ इत्युपक्रमः ‘एष त आत्मान्तर्यामी’ इत्युपसंहारः, ‘एष त आत्मेत्याद्येक-विंशतिकृत्वोऽभ्यासः अन्तर्यामित्वस्याप्राप्ततयाऽपूर्वता, ‘स ब्रह्मवित्’ इत्यादि फलम्, ‘तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वांस्तं चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्धा ते विपतिष्यति’ इति निन्दारूपोऽर्थवादः । ‘यस्य पृथिवी शरीरं यं पृथिवी न वेद’ इत्याद्युपपत्तिरिति चेत्, मैवम् । ‘आत्मेत्येवोपासीत’ इति सूत्रितब्रह्मविद्याविवरणरूपायां चतुरध्याय्याम् अनेन ह्येतत्सर्वं वेदेति एकविज्ञानेन सर्वविज्ञान-प्रतिज्ञापूर्वकं ‘ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मस्मीति तस्मात्तत्सर्वमभवत्’ इत्यभेदे-नोपक्रम्य षष्ठाध्यायन्ते मैत्रेयीब्राह्मणे निगमनरूपे ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत् केन कं पश्येत्’ इत्यादिनाऽभेदेनैवोपसंहाराद् अध्यायचतुष्टयस्याप्यभेदपरत्वे स्थिते तदन्तर्गतस्य ब्रह्मलोकान्तरसूत्रात्म-प्रतिपादनपरस्य उत्तरब्राह्मणप्रतिपाद्यनिरुपाधिकसर्वान्तरब्रह्मप्रतिपत्त्यनुकूलस्य महाप्रकरणानुरोधेन तद्विरोधिभेदपरत्वाभावात् । त्वदुपन्यस्तलिङ्गानां भेदपरतानिर्णायकत्वेऽपि कल्पितभेदपरतया तात्त्विकाभेदाविरोधित्वात् । अत एव न ‘शारीरश्चोभयेऽपि हि भेदेनैनमधीयत’ इति सूत्रविरोधः, न वा तद्भाष्यव्याहतिः ।। इत्यद्वैतसिद्धौ भेदश्रुतेः षडि्वधतात्पर्यलिङ्गभङ्गः ।। २५ ।।
न्यायामृततरङ्गिणी
।। अत्ति अनश्नन्नित्युपपत्तिरिति ।। ननु द्वितीयमुण्डके ‘पुरुष एवेदं विश्वं ब्रह्मैवेदं विश्वमिदं वरिष्ठम्’ इत्यभेदोक्तिसत्वात्तद्विरोधः । मैवम् । एतस्य ‘इदं सर्वं यदयमात्मा’ इति श्रुत्यर्थे व्याख्यातत्वात् । न च तृतीयमुण्डकगतेन ‘परेऽव्यये सर्व एकीभवन्ति स यो ह वैतत्परमं ब्रह्म वेद ब्रह्मैव भवति’ इत्यनेन विरोध इति वाच्यम् । एतास्य ‘अहं ब्रह्मास्मि’ इति श्रुत्यर्थे व्याख्यास्यमानत्वात् । वस्तुतस्तु प्रथममुण्डके ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ इति शौनकेनाङ्गिरसं प्रति पृष्टे परापररूपेण द्वे विद्ये अङ्गिराः प्रतिजज्ञे । तत्र इन्द्राद्यवान्तरार्थपरत्वे ऋगाद्या एवापरविद्याः उत्तमाक्षरपत्वे तु ता एव परविद्या इत्युक्तस्य ऋगाद्युत्तमत्वस्य सिद्धये तदर्थभूतस्योत्तमाक्षरस्य सर्वोत्तमत्वं प्रतिपादयितुं सर्वकारणत्वम् अक्षरस्योक्तम् । द्वितीयमुण्डकेऽपि प्राणआदिकारणत्वमुक्तम् । तृतीयमुण्डके तु ‘द्वा सुपर्णा’ इत्याद्युक्तमिति सर्वस्याः मुण्डकत्रयत्मिकाया उपनिषद उत्तमाक्षरपरत्वेन भेदपरतया तन्मध्यस्थितस्य ‘पुरुष एवेदम्’ इत्यस्याभिक्रमणादिवत्तदनुकूलत्वेनैव नेयत्वान्न तद्विरोधः ।
तृतीयस्य प्रथमपादे विचारितम् । दर्शपूर्णमासयोः प्रयाजसमीपे श्रूयते ‘अभिक्रामं जुहोति’ इति । अभिक्रम्य जुहोतीत्यर्थः । णमुल्प्रत्ययान्तम् अभिक्रमणं न क्रियाऽतोऽन्येन सम्बद्धुमर्हतीति तस्य जुहोतिक्रियान्वये स्थिते होमानुवादेन विधीयमानम् अभिक्रमणं किं प्राकरणिकसर्वहोमाङ्गमुत प्रयाजहोमस्यैवेति संशयः । तदर्थं किम् अवान्तर प्रकरणम् अस्ति न वेति । तत्राङ्गभावनानाम् अन्योन्याकाङ्क्षारूपावान्तरप्रकरणसत्त्वेङ्गानाम् अन्यो-न्याङ्गाङ्गितापत्त्या व्यवस्थापत्तेर्नावान्तरप्रकरणं नामास्ति । तदभावे च सन्निधिमात्रेणाभिक्रमणं प्रयाजाङ्गं स्यात् । स च दुर्बलः प्रकरणात् । अतो दर्शपूर्णमासभावनया सम्बन्धात्तदीय-सकलहोमाङ्गम् अभिक्रमणम् । नन्ववान्तरप्रकरणाभावेऽप्यभिक्रामं जुहोतीति वाक्येनैव प्रयाजाङ्गम् अभिक्रमणं स्यात् । मैवम् । जुहोतेः साधारणत्वेन प्रयाजमात्रपरत्वाभावात् । नन्वनुवादोऽयं सन्निहितगामी प्रयाजाश्च सन्निहिताः । मैवम् । बुद्धिविपरिवृत्तिरनुवाद-स्यापेक्षिता न पाठप्रत्यासत्तिः । तथा सत्यत्यन्तसन्निधानादुत्तमप्रयाजस्यैवाभिक्रमणम् अङ्गं स्यान्न समिदादीनाम् । तस्माज्जुहोतिशब्दे सङ्कोचाभावात्सर्व होमाङ्गम् अभिक्रमणमिति प्राप्ते सिद्धान्तः । भवेदेवं यद्यवान्तरप्रकरणं न स्यात् । अस्ति तु तत् । प्रयाजान्विधाय त्रीन्प्रयाजानिष्ट्वा समानयत उपभृत इत्यनेनोपभृतः सकाशाद् अर्धमाज्यं जुह्वां कर्तव्य-मित्येवंरूपं समानयनरूपं गुणं विधाय अभिक्रामं जुहोतीत्यभिक्रमणं विधाय यो वै प्रयाजानां मिथुनं वेदं समिधो बह्वीरिव यजति तनूनपादेक इवेत्यादिप्रयाजानिष्ट्वा हवींष्यभिघारयतीत्यन्तं प्रयाजपरामर्शदर्शनात् । नूनमेतावता प्रदेशे प्रयाजाः समाप्यन्त इत्यवगमात्तन्मध्यपतितम् अभिक्रमणं तदतिक्रमेणान्यत्र न गच्छति । विद्यते चाङ्गभावनानामप्यविज्ञातप्रकार त्वात्कथमित्याकाङ्क्षा । ननु तर्हि परस्पराङ्गाङ्गितापत्तिः । मैवम् । सन्दंशाभावात् । तदुक्तम् ।
न विद्यते तु सन्दंशो यत्र वाचनिकैर्गुणैः ।
तत्राङ्गानां कथंभावः सन्नप्यविनियोजकः ।।
निष्फलत्वे च सर्वेषां न विशेषोवगम्यते ।
कः शेषः कस्य शेषित्वमतः सर्वं प्रधानगम् ।। इति ।
तस्मात्सन्दंशाभावान्नाव्यवस्था ।। पदिन्यायेनेति ।। व्याख्यातमेतत् ‘न तु तद्द्वितीयमस्ति’ इति श्रुत्यर्थे ।। ।। भेदश्रुतेः षडि्वधतात्पर्ये लिङ्गानि ।। २५ ।।
न्यायामृतकण्टकोद्धारः
ननु श्रुत्या भेदः प्रतिपाद्यताम् । तथापि न ततस्तत्सिद्धिः । तत्र तात्पर्याभावात् । तात्पर्यज्ञापकान्युपक्रमादीनि । न च भेदे तानि सन्तीत्यतो भेदे तात्पर्याभावान्न ततस्तत्सिद्धिरित्यत आह– सन्ति चेति । आथर्वण इति । नन्वाथर्वणे मुण्डकत्रयमस्ति । तत्र प्रथमे ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ इति शौनकप्रश्नानन्तरं ‘द्वे विद्ये वेदितव्ये’ इति विद्याद्वयमवतार्य ऋग्वेदादिलक्षणामपरामुक्त्वा ‘अथ परा यथा तदक्षरमधिगम्यते’ इत्यादिना परविद्याविषयमक्षरं प्रतिपादयता अभेदस्यैवोपक्रान्तत्वात् । अन्यथा तदुत्तरत्वानुपपत्तेः । द्वितीये मुण्डके ‘पुरुष एवेदम्’ ‘ब्रह्मैवेदं विश्वमिदं वरिष्ठम्’ इति मध्ये परामर्शात् । तथा तृतीये ‘परेऽव्यये सर्व एकीभवन्ति’‘स यो ह वैतत् परमं ब्रह्म वेद ब्रह्मैव भवति’ इत्यैक्येनोपसंहाराच्च मुण्डकत्रयात्मिकाया उपनिषद ऐक्यपरत्वे स्थिते तन्मध्यस्थितस्य ‘द्वासुपर्णा’ इत्यादेः ‘असंयुक्तं प्रकरणात्’ इति न्यायेनाभिक्रमणादिवत् महाप्रकरणविरोधेन न भेदोपक्रमत्वं सम्भवतीति चेन्न । प्रथमे एकविज्ञानेन सर्वविज्ञानस्य प्राधान्यसादृश्याभ्यामुपपन्नत्वेन प्रश्नस्य भेदपरत्वात् । अत एव प्राधान्यमुपपादयितुम् अक्षरस्यादृश्यत्वादिगुणोक्तिः । एतच्च मिथ्यात्वश्रुतिभङ्गप्रकरण एव सम्यगुपपादितम् । द्वितीयेऽपि ‘पुरुष एवेदम्’ इत्यादेस्तदधीनत्वेनैवोपपत्त्या भेदस्यैव परामर्शात् । भेदं विना तदधीनत्वानुपपत्तेः । तत्त्वमसीति वाक्यन्यायेनास्यैक्य परत्वानुपपत्तेः । तृतीयेऽपि ‘परेऽव्यये’ इत्यादेः पर इति सप्तमीनिर्देशादेकीभवन्तीति अभूततद्भावार्थकच्विप्रयोगाद् भेदोपसंहार-रूपत्वात् । तथा ‘ब्रह्म वेद’ इत्यादेः तत्त्वमसीति वाक्यन्यायेनाभेदपरत्वानुपपत्तेर्भेदपरत्वस्यैव न्याय्यत्वात् । भेदपरत्वस्यैव वक्ष्यमाणत्वाच्च । सर्वस्य मुण्डकस्य भेदपरत्वेन तन्मध्यपतितस्य सुतरां भेदपरत्वमिति भेदोपक्रमस्यैव युक्तत्वात् । तथा च ‘असंयुक्तं प्रकरणात््’ इति न्यायो भवन्मतविरोध्येवेति भावः ।
ननु च द्वासुपर्णेत्यत्र द्वित्वसङ्ख्यैव श्रूयते । न भेदः । तत्कथं भेदस्योपक्रम इत्यत आह– अत्रेति । यथा चैतत्तथा द्वासुपर्ण इति श्रुत्युदाहरण एव व्याख्यातम् । ननु ‘परमं साम्यमुपैति’ इति उपसंहारो न भेदविषयः । तत्र सादृश्यस्यैव श्रुतत्वात् । न च सादृश्यं भेदं विना न सम्भवतीति वाच्यम् । तथा चार्थिकत्वेऽप्यशाब्दत्वदित्यत आह– तद्भिन्नत्वेति । तथा च सादृश्यान्तर्गतत्वाद् भेदशब्दत्वमिति भावः । अन्यथा स्वस्यापि स्वसदृशत्वापत्तिः । नन्वस्तु स्वस्यापि स्वसादृश्यमित्यत आह– नायमिति । अभेदेऽपि सादृश्याङ्गीकारे सादृश्य-विधानायैक्यनिषेधायोगादिति भावः । ननु सादृश्यस्य भेदघटितत्वे ‘गगनं गगनाकारम्’ इत्यादौ सादृश्यवाचकशब्दप्रयोगो न स्यादित्यत आह– गगनमिति । पूर्वोक्तादेव हेतोरिति भावः । न चोपसंहारे परमशब्दप्रयोगात् साम्यशब्देनैक्यमेव विवृतमिति वाच्यम् । परमशब्दस्य पूर्वापेक्षयोत्कर्षमादायोपपत्त्या ऐक्यपरत्वज्ञापकत्वायोगात् । ननु द्वासुपर्णेत्यादि-घटितो नाभ्यासः, शब्दत एकप्रकारत्वभावादित्यत आह– अभ्यासत्व इति ।। अतिप्रसङ्गा-दिति । भिन्नार्थस्थले शब्दत एकप्रकारत्वे सत्यप्यभ्यासाभावात् । न च शब्दतोऽर्थतश्चैक-प्रकारत्वं विवक्षितमिति वाच्यम् । गौरवात् । एकमेवाद्वितीयमित्यादेरभ्यासत्वं न स्यात् ।
ननु च पश्यत्यन्यमिति नायमभ्यासः । ईशगतान्यत्वं प्रति घटादेरेव प्रतियोगित्वादित्यत आह– पश्यतीति । अनुषङ्गापेक्षयाऽध्याहारस्य जघन्यत्वादिति भावः । पदिन्यायस्तु श्रुतिव्याख्यानसमय एव दर्शितः । क्वचित् ‘यदी’ति पाठः । तत्र सोऽपि प्रदर्शितः । नन्वर्थतोऽप्यत्रैकप्रकारत्वं नास्ति । द्वासुपर्णेत्यस्य जीवब्रह्मसम्बन्धिभेद प्रतिपादकत्वात् । ‘तयोरन्यः’ इत्यादीनां त्वेकैकभेदप्रतिपादकत्वादिति चेन्न । किं प्रकरणादिवाक्यप्रतिपाद्य सकलार्थ प्रतिपादकत्वमेकप्रकारत्वमुत तत्प्रतिपादितार्थप्रतिपादकत्वम् ? नाद्यः । तत्त्वमसी-त्यादेरभ्यासत्वं न स्यात् । तस्यापि एकमेवाद्वितीयम् इत्युपक्रमवाक्यप्रतिपाद्य–सजातीय–विजातीयभेदवैधुर्याप्रतिपादकत्वात् । न द्वितीयः । प्रकृतेऽपि सत्वात् । ननु नोपक्रमवाक्यैक-प्रकारत्वमभ्यासत्वे तन्त्रम् । किन्तु प्रकरणमध्यस्थवाक्यान्तरेण । तच्च तत्वमसीत्यत्रेव नास्ति । अनश्नन्नन्यः, अन्यमीशमित्यत्रेशगतभेदाभिधानात् । तयोरन्यः, परमं साम्यमुपै-तीत्यत्र जीवगतभेदाभिधानादिति चेन्न । प्रकरणमध्यस्थवाक्यैकप्रकारत्वाभावेऽपि अनुपसञ्जातविरोधिप्रबलोपक्रमवाक्यानुसारेण तदुपपत्तेः । अनेनोपक्रमोपसंहारैक्यं दर्शितम् । यद्वा द्वासुपर्णेत्येकोक्तिः, तयोरन्यः अनश्नन्नन्यः इति च परा, ‘अन्यमीशं परमं साम्यमुपैती’ति च मितिाऽपरोक्तिः । एकवाक्ये एकप्रकारकत्वमकिञ्चित्करम् । यद्वा द्वासुपर्णेत्युपक्रमवाक्ये जीवेश्वरसम्बन्धी भेदः प्रतिपाद्यः । प्रतियोग्यनुयोगिभावस्तु न विवक्षणीयः । एवं चेशजीवयोरुभयोरपि धर्मित्वे प्रतियोगित्वे, एकस्य प्रतियोगित्वेऽपरस्य धर्मित्वे वा जीवेश्वरसम्बन्धस्य सर्वत्राविरोधात् । उपक्रमवाक्येनान्योन्यैक प्रकारत्वान्न दोषः ।
ननूपक्रमोपसंहारयोः कथमभ्यासत्वमिति चेन्न लक्षणायोगादिति गृहाण । अथवोप-क्रमोपसंहारातिरिक्तवाक्यानामेवाभ्यासत्वमस्तु । द्विरुक्त्याप्यसकृदुक्तिलाभात् । ननु तथापि ‘अन्यः स्वाद्वत्ति, अन्यः अभिचाकशीति’ इाति सर्वत्रान्योद्देशेनानत्तृत्वादीनां विधानात् नान्यत्वविधायकत्वं तेषाम् । ततः कथं भेदे तात्पर्यशून्यानां भेदेऽभ्यासत्वमिति चेन्न । अभ्यासलक्षणे विधायकपदाश्रवणात् । ‘आनन्दमयोऽभ्यासात्’ इति सूत्रकारोक्तेः ‘असद्ब्रह्मेति वेद चेत्, अस्ति ब्रह्मेति चेद्वेद’ इति ब्रह्मशब्दाभ्यासेऽपि ब्रह्मत्वविधानाभावात् तात्पर्य-लिङ्गानामप्यवधृतस्वतात्पर्याणां तात्पर्यानुमापकत्वे स्वतात्पर्यावधारणाय लिङ्गान्तरापेक्षाया-मनवस्थाप्रसङ्गाच्चेत्युक्तम् । तस्मात् सिद्धोऽभ्यासः । ननु तथापि नापूर्वता । जीवेश्वरभेदस्य प्रत्यक्षप्राप्तत्वादिति चेन्न । अत्र हि ईश्वरप्रतियोगिकजीवधर्मिकजीवप्रतियोगिकेश्वरधर्मिक भेदसमुदायः प्रतिपाद्यः । स च न प्रत्यक्षः । जीवधर्मिकस्य प्रत्यक्षत्वेऽपि ईश्वरधर्मिकस्या-प्रत्यक्षत्वात् । न हि वनैकदेशे ज्ञाते वनं ज्ञातं भवति । तथापि जीवधर्मिकभेदांशे प्राप्तिरस्तीति चेन्न । प्रमाणान्तराप्राप्तप्रतिपादन मात्रस्यापूर्वताशब्दार्थत्वात् । सर्वथा प्रमाणान्तराप्राप्त्यपेक्षायां कुत्राप्यपूर्वता न स्यात् । सर्वत्र पदार्थानां प्राप्तत्वात् । अंशे प्राप्तिमङ्गीकृत्येदमुदितम् । वस्तुतो जीवधर्मिकभेदेऽप्यपूर्वताऽस्त्येव । शास्त्रनिरपेक्षप्रमाणान्तरप्राप्तेरभावात् । शास्त्रनिरपेक्ष-प्रमाणान्तराप्राप्तेरेवापूर्वत्वात् । अन्यथा ऐक्यस्यापि शास्त्रसापेक्षानुमानग्राह्यत्वेना-पूर्वत्वाभावापत्तेः । तस्मात् सर्वांशेऽप्यपूर्वता सिद्धा । यद्वा श्रुतिप्रतिपाद्यो भेदः कालत्रया-बाध्यः । न हि प्रत्यक्षेण तादृशो भेदः सिद्धः । प्रत्यक्षस्य वर्तमानमात्रग्राहित्वस्य त्वयाऽभ्युप-गमात् । तथा चापूर्वता त्वन्मतानुसारेणैव सिद्धा । अत एवाह– शास्त्रेति । त्रिकालेति । न चानश्नन्नित्यादेः काल्पनिकभेदेनोपपत्त्या तात्विकभेदाप्रमापकत्वमिति वाच्यम् । उपपत्तेस्तात्पर्यज्ञापकत्वेन चरितार्थत्वात् श्रुतितात्पर्यविषयत्वेन तात्विकत्वसिद्धेः । अन्यथा ऐक्यस्याप्यतात्विकत्वापातात् । तत्राप्युपपत्तेरतात्विकैक्येनोपपत्तेरिति सिद्धोपपत्तिः । तस्मात् द्वासुपर्णेत्यादेः सिद्धं षडि्वधतात्पर्यलिङ्गोपेतत्वम् ।
असन्दिग्धोपक्रमाद्युपेतभेदवाक्यान्तरमुदाहरति– एवं वेत्थेति । नन्वत्राप्यनेनैतत् सर्वं विदितमिति एकविज्ञानेन सर्वविज्ञानपूर्वकं ‘तदात्मानमेवावेदहं ब्रह्मास्मि तस्मात् तत् सर्वम् अभवत्’ इत्यभेदेनैवोपक्रम्य ‘यत्र त्वस्येत्यभेदेनैवोपसंहारात् मध्ये पतितमिदम् ‘असंयुक्तं प्रकरणात्’ इति न्यायेनाभेदपरमेवेति चेन्न । एकविज्ञानेन सर्वविज्ञानस्य प्रधान्येनैवोपपत्त्या ‘अहं ब्रह्मास्मी’त्यस्य ब्रह्मवाक्यत्वेन जीवभेदानुगुणत्वेन च, ‘यत्र त्वस्ये’त्यस्य भेदपरत्वेन पूर्वमेव व्याख्यातत्वेनोपक्रमोप संहारयोर्भेदपरत्वेन असंयुक्तमित्यस्य विपरीतत्वेन भेदपरत्वस्यैवोचितत्वादित्यलं पिष्टपेषणेन । अत एव सूत्रविरोधोऽपि सुस्थः । अस्मिन् वाक्ये अन्तरशब्दो भेदवाचीति स्पष्टमेव । इति भेदश्रुतेः षडि्वधतात्पर्यलिङ्गानि ।। २५ ।।
न्यायामृतप्रकाशः
साम्यप्रतिपादकोपसंहारस्य भेदपरत्वमुपपादयति– तद्भिन्नत्वेति ।। न त्विति ।। तद्भिन्नत्वं विहाय तन्निष्ठबहुधर्मयोगित्वमात्रं न भवतीत्यर्थः । कुतो नेत्यतस्तन्निष्ठबहुधर्मयोगित्वरूपसादृश्य-स्यैक्यरूपत्वे बाधकमाह– नायमित्यादि ।। नायं स इति सादृश्यविधानायैक्यं निषिध्यते । नायं तत्सदृश इति ऐक्यविधानाय सादृश्यं निषिध्यते, तन्न युक्तम् । यदि सादृश्यमैक्यं स्यादित्यर्थः । अतो भेदगर्भत्वं वाच्यमिति भावः । ननु सादृश्यस्य भिन्नत्वगर्भत्वे ‘गगनं गगनाकारं सागरः सागरोपमः’ इत्यादिप्रयोगानुपपत्तिरित्यत आह– गगनमिति ।। ननु ‘तयोरन्यः’ इत्यादीनां शब्दत एकप्रकारत्वाभावात्कथम् अभ्यासत्वमित्यत आह– अभ्यासत्वे चेति ।। अतिप्रसङ्गादिति ।। सास्नादिमद्व्यक्त्यभिप्रायेण पृथिवीवागाद्यभिप्रायेण च प्रयुक्तस्य गौर्गौर्गौरित्यस्याप्यभ्यासत्वापत्तिः शब्दत एकप्रकारत्वसद्भावादित्यर्थः । ननु ‘अन्यमीशम्’ इति कथमभ्यासः । ‘तयोरन्यः, ‘अनश्नन्नन्यः’ इत्यत्र जीवेशयोरन्योन्यम् अन्यत्वमुच्यते । ‘अन्यमीशम्’ इत्यत्र तु ईशस्य घटादिना केनचिदन्यत्व-मेवोच्यते न तु जीवात् । अतः कथमर्थतोऽप्येकप्रकारत्वमित्यत आह– पश्यतीति ।। प्रकृत इति ।। दर्शनकर्तृत्वेन प्रकृत इत्यर्थः ।। पदिन्यायेनेति ।। यथा ‘पदे जुहोति’ इत्यत्र प्रकृतैकहायिन्येव पदेऽन्वेति न तु यत्किञ्चित्तद्वदित्यर्थः ।। ।। भेदश्रुतेः षडि्वधतात्पर्यलिङ्गविवरणम् ।। २५ ।।
न्यायकल्पलता
सन्ति चेति ।। ननु द्विशब्दो न भेदपरः इत्यत आह– अत्र चेति ।। द्वौ गुणौ, द्वे कर्मणी, इति सङ्ख्याहीनेऽपि प्रयोगात् । ‘एकमेवाद्वितीयम्’ इति श्रुतौ द्विशब्दस्य भेदपरत्वाच्च । ननु आथर्वणे द्वितीयमुण्डके ‘पुरुष एवेदं विश्वं ब्रह्मैवेदं विश्वमिदं वरिष्ठम्’ इत्यभेदोक्तिसत्वात्तद्विरोधः । मैवम् । एतस्या ‘इदं सर्वं यदयमात्मा’ इति श्रुत्यर्थे व्याख्यातत्वात् । न च तृतीयमुण्डकगतेन ‘परेऽव्यये सर्व एकीभवन्ति स यो ह वैतत्परमं ब्रह्म वेद ब्रह्मैव भवति’ इत्यनेन विरोध इति वाच्यम् । एतास्या ‘अहं ब्रह्मास्मि’ इति श्रुत्यर्थे व्याख्यास्यमानत्वात् । वस्तुतस्तु प्रथममुण्डके ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ इति शौनकेनाङ्गिरसं पृष्टे परापररूपेण द्वे विद्ये अङ्गिराः प्रतिजज्ञे । तत्र इन्द्राद्यवान्तरार्थपरत्वे ऋगाद्या एवापरविद्याः । उत्तमाक्षरपत्वे तु ता एव परविद्या इत्युक्तस्य ऋगाद्युत्तमत्वस्य सिद्धये तदर्थभूतस्योत्तमाक्षरस्य सर्वोत्तमत्वं प्रतिपादयितुं सर्वकारणत्वम् अक्षरस्योक्तम् । द्वितीयमुण्डकेऽपि प्राणआदिकारणत्वमुक्तम् । तृतीयमुण्डके तु ‘द्वा सुपर्णे’त्याद्युक्तमिति सर्वस्याः पर्वत्रयत्मिकाया उपनिषद उत्तमाक्षरपरत्वेन भेदपरतया तन्मध्यस्थितस्य ‘पुरुष एवेदम्’ इत्यस्याभिक्रमणादिवत्तदनुकूलत्वेनैव नेयत्वान्न तद्विरोधः ।
तृतीयस्य प्रथमपादे विचारितम् । दर्शपूर्णमासयोः प्रयाजसमीपे श्रूयते ‘अभिक्रामं जुहोति’ इति । अभिक्रम्य जुहोतीत्यर्थः । णमुल्प्रत्ययान्तम् अभिक्रमणं न क्रियातोऽन्येन सम्बद्धुमर्हतीति तस्य जुहोतिक्रियान्वये स्थिते होमानुवादेन विधीयमानम् अभिक्रमणं किं प्राकरणिकसर्वहोमाङ्गमुत प्रयाजहोमस्यैवेति संशयः । तदर्थं किमवान्तरप्रकरणमस्ति न वेति । तत्राङ्गभावनानाम् अन्योन्या-काङ्क्षारूपावान्तरप्रकरणसत्त्वेऽङ्गानाम् अन्योन्याङ्गाङ्गितापत्त्याऽ व्यवस्थापत्ते र्नावान्तरप्रकरणं नामास्ति । तदभावे च सन्निधिमात्रेणाभिक्रमणं प्रयाजाङ्गं स्यात् । स च दुर्बलः प्रकरणात् । अतो दर्शपूर्णमासभावनया सम्बन्धात्तदीयसकलहोमाङ्गम् अभिक्रमणम् । नन्ववान्तरप्रकरणाभावेऽपि ‘अभिक्रामं जुहोति’ इति वाक्येनैव प्रयाजाङ्गम् अभिक्रमणं स्यात् । मैवम् । जुहोतेः साधारणत्वेन प्रयाजमात्रपरत्वाभावात् । नन्वनुवादोऽयं सन्निहितगामी । प्रयाजाश्च सन्निहिताः । मैवम् । बुद्धि-विपरिवृत्तिरनुवादस्यापेक्षिता न पाठप्रत्यासत्तिः । तथा सत्यत्यन्तसन्निधानादुत्तमप्रयाजस्यैवाभिक्रमणम् अङ्गं स्यान्न समिदादीनाम् । तस्माज्जुहोतिशब्दे सङ्कोचाभावात्सर्वहोमाङ्गम् अभिक्रमणमिति प्राप्ते सिद्धान्तः । भवेदेवं यद्यवान्तरप्रकरणं न स्यात् । अस्ति तु तत् । प्रयाजान्विधाय त्रीन्प्रयाजानिष्ट्वा ‘समानयत उपभृतः’ इत्यनेनोपभृतः सकाशादर्धमाज्यं जुह्वां कर्तव्यमित्येवंरूपं समानयनरूपं गुणं विधाय ‘अभिक्रामं जुहोती’त्यभिक्रमणं विधाय ‘यो वै प्रयाजानां मिथुनं वेद समिधो बह्वीरिव यजति तनूनपादेक (ए)इव’ इत्यादिप्रयाजानिष्ट्वा ‘हवींष्यभिघारयति’ इत्यन्तं प्रयाजपरामर्शदर्शनात् । नूनं तावता प्रदेशे प्रयाजाः समाप्यन्ते इत्यवगमात्तन्मध्यपतितम् अभिक्रमणं तदतिक्रमेणान्यत्र न गच्छति । विद्यते चाङ्गभावनानामप्यविज्ञात प्रकारत्वात्कथमित्याकाङ्क्षा । ननु तर्हि परस्पराङ्गाङ्गितापत्तिः । मैवम् । सन्दंशाभावात् । तदुक्तम् ।
न विद्यते तु सन्दंशो यत्र वाचनिकैर्गुणैः ।
तत्राङ्गानां कथंभावः सन्नप्यविनियोजकः ।।
निष्फलत्वे च सर्वेषां न विशेषोऽवगम्यते ।
कः शेषः कस्य शेषित्वमतः सर्वं प्रधानगम्’ ।। इति ।
तस्मात्सन्दंशाभावान्नाव्यवस्था ।। पदिन्यायेनेति ।। व्याख्यातमेतत् ‘न तु तद् द्वितीयमस्ति’ इति श्रुत्यर्थे ।। काप्येति ।। हे कपिगोत्रोद्भव इति सम्बुद्धिः । पतञ्जलं ब्राह्मणं प्रति गन्धर्ववाक्यम् । ब्रह्मगवीः वेदवाचः । उदजसे उपदिशसि । न चान्तर्यामिब्राह्मणं कल्पितभेदपरम् इति तु युक्तम् । श्रुतिसूत्रयोः काल्पनिकार्थपरत्वोक्तेरति साहसिकत्वात् । ऐक्यस्यापि तथोक्तेः सुवचत्वाच्च ।
।। भेदश्रुतेः षड्विधतात्पर्ये लिङ्गानि ।। २५ ।।