यच्चानुभूतित्वहेतौ साध्यप्रसिद्ध्यर्थं धर्मत्वादित्यनुमानम्

१२. आत्मनः पराभिमतस्वप्रकाशत्वभङ्गः

न्यायामृतम्

यच्चानुभूतित्वहेतौ साध्यप्रसिद्ध्यर्थं धर्मत्वादित्यनुमानम् । तत्र वेद्यत्वं वृत्तिव्याप्यत्वं वा फलव्याप्यत्वं वा चिद्विषयत्वं वा अस्वप्रकाशत्वं वा । नाद्यः । अर्थान्तरत्वात् । न हि पूर्वानुमान एतदभावः साध्यः । न द्वितीयः । तस्य मम घटादौ तव शुक्तिरूप्यादौ धर्मादौ च पक्षेतरव्यक्तिविशेषेऽसिद्धत्वेनासाधारणानैकान्त्यात् । न च पूर्वत्रावेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वं साध्यम् । तच्च न व्यक्तिविशेषे सिद्धमिति वाच्यम् । तस्य सामान्यतोऽप्यप्रसिद्ध्याऽप्रसिद्धविशेषणत्वात् । न च पूर्वत्र किञ्चित् प्रत्यपि फलाव्याप्यत्वं साध्यम् । धर्मादिश्च योगिनं प्रति फलव्याप्यः । अविद्यावृत्तिप्रतिफलित-चिदपि साध्यत्वात्फलमिति शुक्तिरूप्याद्यपि फलव्याप्यमेव । अवेद्यत्वमात्रं च स्वप्रकाशत्वमिति वाच्यम् । उक्तन्यायेन फलव्याप्ये ब्रह्मणि तदभावस्य बाधात् । न तृतीयः । उक्तरीत्या प्रतिफलितचिद्विषयत्वस्य ब्रह्मण्यपि भावात् । शुद्धचिद्विषयत्वस्य च घटादावप्यभावेनासाधारण्यात् । न चतुर्थः । प्रतियोग्यप्रसिद्ध्याऽऽश्रयासिद्धेः । सर्वत्रैवं साध्याभावं पक्षीकृत्य सुसाधत्वेनातिप्रसङ्गाच्च । किञ्च धर्मत्वस्यानिर्वाच्यत्वभङ्गे उक्तरीत्या शब्दप्रतिपाद्यत्वादिषु केवलान्वयिधर्मेषु व्यभिचारः ।

किञ्चात्यन्ताभावप्रतियोगित्वं कुतश्चिन्न व्यावर्तते चेत्तत्रैव व्यभिचारः । व्यावर्तते चेद्यतो व्यावर्तते तत्रैव धर्मिणि व्यभिचारः । अपि च घटादाविव स्वप्रकाशत्वविरोधिनो व्यावहारिकस्य वेद्यत्वस्य सत्त्वेऽपि तदत्यन्ताभावसम्भवेनार्थान्तरम् । न च घटादौ धर्मिसमसत्ताकमेव वेद्यत्वं तद्विरोधि । तथात्वे आत्मनि वृत्तिव्याप्यत्ववत्फलव्याप्यत्वस्य व्यावहारिकत्वेऽपि स्वप्रकाशत्वोपपत्त्या तन्निरासवैयर्थ्यात् । अत एव ‘अयं घटः एतद्धटान्यत्वे सति वेद्यत्वानधिकरणान्यः, पदार्थत्वात्’ इत्यादि महाविद्यया साध्य-प्रसिद्धिरिति निरस्तम् । वेद्यत्वानिरुक्तेः । ‘अयं घटः एतद्धटत्वे सति वेद्यत्वानधि-करणान्यत्वानधिकरणम्, पदार्थत्वात्’ इति प्रकरणसमत्वाच्च । तस्माद् अप्रसिद्ध-विशेषणत्वं दुर्वारम् । त्वदभिमतं जातिरूपमनुभूतित्वं शुद्धचैतन्येऽसिद्धं च । अखण्डार्थ-भङ्गे उक्तरीत्या जातेर्धर्मिसमसत्ताकभेदवद्व्यक्तिसापेक्षत्वात् । जडत्वभङ्गे उक्तरीत्याऽनु भाव्याभावेऽनुभूतित्वासम्भवाच्च । विपक्षादव्यावृत्तं चानुभूतित्वम् । तस्यानुभूतिशब्द-वाच्येऽनात्मनि सत्त्वात् ।

किञ्च वृत्तिरूपस्य परोक्षानुभवस्य पक्षत्वे बाधः । अपरोक्षस्य च पक्षत्वे तत्रैव व्यभिचारः । तन्निरासार्थं हेतुविशेषणेऽनुभूतिशब्देन चिद्रूपज्ञानोक्तौ चाप्रयोजकत्वम् । अपि च दुःखादिवत् स्मृतिवत् परोक्षानुभववच्चापरोक्षानुभवमप्यपरोक्षतो जानामि । मामहं जानामि, स्वात्मानं जानामीत्याऽऽत्मनो वेद्यत्वग्राहिणा प्रत्यक्षेण ‘तदात्मान-मेवावेत्’ इत्यादिश्रुत्या च बाधः । न चात्रापरोक्षवृत्तिवेद्यत्वं वा अपरोक्षव्यवहारविषयत्वं वा भातीति युक्तम् । जानामीति ज्ञप्तिविषयत्वस्यैवानुभवात् । दुःखं जानामीत्यादावपि तथात्वापाताच्च । ‘अनुभूतिः स्फुरणविषयः, अपरोक्षव्यवहारविषयत्वाद्, घटवत’् । चैत्रीयानुभूतिः चैत्रापरोक्षव्यवहारयोग्यापरोक्षज्ञप्तिविषयः, चैत्रापरोक्षव्यवहारविषयत्वाद् घटवत् । चैत्रीयानुभूतिः चैत्रापरोक्षव्यवहारयोग्यापरोक्षज्ञप्त्यविषयो नावतिष्ठते चैत्रं प्रत्यप्रकाशमानत्वरहितत्वात्, चैत्रेच्छावदिति सत्प्रतिपक्षत्वं च ।

अप्रयोजकत्वं च । नन्वनुभूतिरूपस्यात्मनः परवेद्यत्वेऽनवस्था स्यात् । पराभाव-दशायामात्मनि संशयादिश्च स्यात् । न चात्मनि अहमनहं वेति कश्चित्सन्दिग्धे, नापि नाहमवेति विपर्यस्यति । स्ववेद्यत्वं तु विरुद्धम् । तस्मान्नाप्रयोजकतेति चेन्न, त्वन्मते सन्देहाद्यविषयस्याहमर्थस्यानात्मत्वात् । तदन्यस्मिंश्च शब्दैकगम्यात्मनि सन्देहादेः सत्त्वात् । किञ्च स्ववेद्यत्वं किमिति विरुद्धम् ? किं साक्षात्कारस्य विषयजन्यत्वात् । स्वस्य च स्वजन्यत्वासम्भवात्किं वा साक्षात्कारे स्वजनकेन्द्रियसन्निकृष्टस्यैव विषय-त्वात्, स्वजनक सन्निकर्षकाले च स्वस्याभावात्, यद्वा विषयविषयिभावसम्बन्ध-स्योभयनिष्ठत्वात् । अथवा ज्ञानस्यैव ज्ञेयत्वे विरुद्धस्य क्रियाया एव कर्मत्वस्यापातात् । आहोस्विद् विषयिण एव विषयत्वे कर्तुरेव कर्मत्वापातात् । तस्य चान्यत्वगर्भित-स्यैकस्मिन्नसम्भवात् ?

नाद्यद्वितीयौ । स्वप्रकाशस्यात्मस्वरूपज्ञानस्येश्वरज्ञानवन्नित्यत्वेनाविरोधात् । अन्यथा स्वव्यवहारहेतुसाक्षात्कारस्यापि स्वजन्यत्वादिनियमात्तवापि तुल्यो दोषः । न तृतीयः । अतीतारोपितात्यन्तासतां ज्ञानदर्शनेन तस्योभयनिष्ठत्वाभावात् । न चतुर्थः, कृतिविशेषस्य कार्यत्ववद्, इच्छाविशेषस्य चेष्टत्ववद्, व्यवहृतेश्च व्यवहार्यत्ववद्, अभिधेति शब्दगताया अभिधायाः स्वाभिधेयत्ववद्, वृत्तिरूपस्य यद्दृश्यं तन्मिथ्येति व्याप्तिज्ञानस्य मिथ्यात्वानुमितेश्च स्वविषयत्ववच्चोपपत्तेः । न पञ्चमः, अज्ञस्यैव ब्रह्मणो ज्ञेयत्वस्य विषयिण्या एव मिथ्यात्वानुमितेः स्वविषयकत्वस्य अभिधायकस्यैव शब्दशब्दस्य स्वाभिधेयत्वस्य च दर्शनेन मामहं जानामीत्यनुभवेन ‘तदात्मानमेवावेत्’ इति श्रुत्या च कर्तुरेव कर्मत्वसिद्धौ परसमवेतक्रियाफलशालित्वरूपान्यत्वगर्भित-स्वकपोलकल्पितलक्षणत्यागेन क्रियाविषयत्वादिरूपस्यान्यस्यैव लक्षणस्य कल्प्यत्वात् ।

ननु कृत्यादिः कृत्याद्यान्तरं प्रत्येव विषयः न तु स्वं प्रतीति चेन्न । गत्यादौ गत्याद्यन्तरविषयत्वस्याप्य दर्शनात् । यदि च वस्तूनां विचित्रस्वभावत्वाद् गत्यादावदृष्टमपि कृत्यादौ स्वसजातीयविषयत्वं तर्हि तत एवानुभूतेः स्वविषयत्व-मप्यस्तु । अन्यथा स्वस्य स्वस्मिन्व्यवहारजनकत्वमपि न स्यादित्युक्तम् । व्याप्तिज्ञान-मिथ्यात्वानुमित्यादेश्च स्वविषयत्वे सर्वोपसंहारवती व्याप्तिरनुमितिमिथ्यात्वं च न सिद्ध्येत् । न हि चितश्चिदविषयत्वेऽपि वृत्तिव्याप्यत्वमात्रेण सिद्ध्यादिवद् व्याप्ति-विषयवृत्तेः स्वाविषयत्वेऽपि सर्वोपसंहारयुक्तव्याप्तिसिद्धावन्य उपायोऽस्ति । न च व्याप्तिज्ञानादेः स्वस्मिन्स्वव्यवहारहेतुत्वमेव, न तु स्वविषयत्वमिति वाच्यम् । घटादिज्ञानस्यापि तस्मिंस्तद्धेतुत्वमेव, न तु तद्विषयत्वमित्यापातात् । व्याप्तिज्ञानादेरपि व्याप्यताद्यवच्छेदकावच्छिन्नत्वाच्च । घटो ज्ञात इतिवत् सर्वोपसंहारवतो व्याप्तिर्ज्ञातेत्यनुभवाच्च । एवं च–

मामहमिति जानामि तदात्मानमवेदिति ।

 प्रत्यक्षेण तथा श्रुत्या ज्ञप्तौ कर्तुश्च कर्मता ।।

 गमनादौ त्वदृष्टत्वान्न कर्तुः कर्मतेष्यते ।

 अन्यथा शब्दशब्दादेः स्ववाच्यत्वादिकं कथम् ।।’

प्रतिकूलतर्कपराहतिश्च । अवेद्यत्वेऽवेद्यत्वसाधकप्रमाणवेद्यत्वावेद्यत्वाभ्यां व्याघातात् । वेदान्तानां ब्रह्मणि प्रामाण्यायोगाच्च । ब्रह्मविचारविधिवैयर्थ्याच्च । ब्रह्माज्ञाननिवृत्त्य-योगाच्च । एतेन तदज्ञाननिवर्तकत्वात्तत्र तत्प्रामाण्यमिति निरस्तम् । आत्मनोऽप्यसिद्धि-प्रसङ्गाच्च । स्वतः सिद्ध इति चेत्, स्वत इति कोऽर्थः ? किं स्वेनैवेति किं वा प्रमाणं विनैवेति ? नाद्यः । स्वविषयत्वापातात् । न च सिद्ध इत्यस्य ज्ञात इति नार्थः किन्तु व्यवहारयोग्य इतीति वाच्यम् । ज्ञातत्वातिरेकेण व्यवहारयोग्यत्वाभावात् । मुक्तौ योग्यताया अप्यभावेनात्मनस्तदा स्वतः सिद्ध्यभावापाताच्च । नान्त्यः । सिद्ध्युपायस्या-नुपन्यासात् । अन्यथा नृशृङ्गादेरपि सिद्ध्यापातात् ।

ननु वृत्तिव्याप्यत्वात्सर्वं युक्तम् । अवेद्यत्वं तु फलाव्याप्यत्वमिति चेन्न । एतादृशा-वेद्यत्वस्य घटादावपि सत्त्वात् । किञ्चात्मस्वरूपभूतवित्तेः स्ववेद्यत्वाभावे वित्तित्वं स्वव्यवहारहेतुत्वं स्वस्मिन् संशयादिविरोधित्वं च न स्यात् । भुक्तेः सभोज्यत्ववद् वित्तेः सवेद्यत्वनियमान्मुक्तौ च वेद्यान्तराभावात् । उक्तं चैतज्जडत्वहेतुभङ्गे । वित्तेस्त-द्व्यवहारादिहेतुत्वे तत्संशयादिविरोधित्वे च तद्विविषयत्वस्य तन्त्रत्वात् । न च स्वकर्मकत्वाभावेऽपि स्वनिर्वाहकत्वात्स्वस्मिन्स्वव्यवहारादिकं कुर्यादिति वाच्यम् । स्वनिर्वाहक शब्देनैव निर्वाह्यत्वनिर्वाहकत्वरूपयोर्निर्वहणक्रियाकर्मत्वकर्तृत्वयोरुक्तेः । स्वनिर्वाहकमध्ययनविधिदीप प्रभादिकमप्यन्यस्मिन्निव स्वस्मिन्स्वकार्यकारि चेत्, स्वविषयमेव ।

एतेन यथा ‘गाङ्कुटादिभ्यः’ इत्यत्र बहुव्रीहिः, स्वाविषयेऽपि कुटे स्वकार्यं करोति तथेहापीति खण्डनोक्तं निरस्तम् । बहुव्रीहेरन्यपदार्थे शक्तिरिति वैयाकरणादिमते, लक्षणेति तार्किकादिमते वा ‘चैत्रशालास्था आनीयन्ताम्’ इत्यत्रोपलक्षणस्यापि चैत्रस्य शालास्थस्य तच्छब्दविषयत्ववत्कुटस्यापि कुटादिवद् अन्यपदार्थभूत समुदायान्तर्गतस्य शक्त्या लक्षणया वा बहुव्रीहिविषयत्वेन तदविषयत्वासम्मतेः । उक्तं हि कैयटे– ‘उद्भूता-वयवभेदः समुदायः समासार्थः’ इति ।

अद्वैतसिद्धि:

न च प्रमाणाभावः । अनुभूतित्वहेतोर्व्यतिरेकिण एव प्रमाणत्वात् । नन्वत्र साध्याप्रसिद्धिः । न च वेद्यत्वं किञ्चिन्निष्ठात्यन्ताभावप्रतियोगि । धर्मत्वादित्यनुमानेन सामान्यतः प्रसिद्धिरिति वाच्यम् । अवेद्यत्वप्रसिद्धावपि विशिष्टसाध्याप्रसिद्धेः तदवस्थत्वात् । न चानुभूतित्वेनापि तावदेव साध्यम् । वेद्यत्वस्य वृत्तिव्याप्यत्वरूपत्वे तदभावस्य चरमवृत्तिव्याप्यानुभूतौ बाधात् । फलव्याप्यत्वरूपत्वे तु तदभावस्य मम घटादौ, तव धर्मादौ शुक्तिरूप्यादौ च पक्षभिन्ने प्रसिद्धत्वेनासाधारणानेकान्तिक-तापत्तेः अस्वप्रकाशत्वरूपत्वे प्रतियोग्यप्रसिद्ध्याऽप्रसिद्धिरेव । किञ्चात्यन्ताभाव प्रतियोगित्वं कुतश्चि-द्व्यावर्तते चेत्, तत्रैव व्यभिचारः, न चेदत्र व्यभिचार इति चेन्न, चिदविषयस्वरूपत्वरूपं स्वप्रकाशत्वम् अनुभूतित्वेन यदा साध्यते तदा वेद्यत्वं चिद्विषयत्वमेव चिदन्यमात्रवृत्ति पक्षः, अत्यन्ताभावप्रतियोगि स्वरूपत्वं साध्यम् । यथा च वृत्तिप्रतिफलितचिद्विषयता घटादौ, न ब्रह्मणि, तथोपपादितमिति नासाधारण्यबाधौ ।

नाप्यत्यन्ताभावप्रतियोगित्वस्यात्यन्ताभावप्रतियोगित्वे व्यभिचारः । अत्यन्ताभावप्रतियोगित्वस्य मिथ्या त्वेनात्यन्ताभावप्रतियोगिन्येवात्यन्ताभावप्रतियोगितया यन्निष्ठात्यन्ताभावप्रतियोगित्वं तस्य केवलान्वयित्वाभावात् । न चैवं ब्रह्मणि चिद्विषयत्वेऽपि तदत्यन्ताभावोपपत्त्याऽर्थान्तरं, घटादावप्येवं साध्यसत्त्वेनासाधारण्यं चेति वाच्यम् । चिद्विषयत्वविरोध्यत्यन्ताभावप्रतियोगित्वरूपस्य साध्यत्वान्नार्थान्तरासाधारण्ये । घटादौ तयोः सहावस्थित्याऽ विरोधात् । ब्रह्मणि विरोधात् । न च तर्हि विरोधित्वांशमादाय पुनरप्रसिद्धिः । वेद्यत्वं, विरोध्यत्यन्ताभावप्रतियोगि, अत्यन्ताभाव-प्रतियोगित्वाद्, घटवदिति प्रसिद्धिसंभवात् । यदा तु अवेद्यत्वे सति अपरोक्षव्यवहार योग्यत्वरूपं स्वप्रकाशत्वं पूर्वानुमाने साध्यम्, तदा फलव्याप्यत्वरूपं वेद्यत्वं पक्षः, अपरोक्षव्यवहारयोग्य-किञ्चिन्निष्ठात्यन्ताभावप्रतियोगित्वं साध्यम् । तथा चापरोक्षव्यवहारयोग्यत्वसमानाधिकरणा वेद्यत्वस्य सामान्यतः प्रसिद्ध्या नाप्रसिद्धविशेषणत्वासाधारण्ये । अत्यन्ताभावप्रतियोगित्वं किञ्चिन्निष्ठात्यन्ता-भावप्रतियोगोत्यादि विकल्पनिबन्धनदोषः परिहृत एव ।

एतेन अयं घटः एतद्घटान्यत्वे सति वेद्यत्वानधिकरणान्यः, पदार्थत्वादित्यादिमहाविद्ययापि साध्यप्रसिद्धिः । न च वेद्यत्वानिरुक्तिः । चिदविषयत्वमात्रस्य स्वप्रकाशरूपत्वे चिद्विषयत्वस्यैव वेद्यत्वरूपता । प्रथमपक्षे तु फल व्याप्यत्वमेव वेद्यत्वम् । न च तर्ह्यतीन्द्रियान्यत्वेनार्थान्तरं सिद्ध-साधनं वा । अपरोक्षव्यवहारविषयत्वसमानाधिकरणस्यैव विवक्षितत्वात् । न च अयं घटः एतद्धटत्वे सति वेद्यत्वानधिकरणान्यत्वानधिकरणम्, पदार्थत्वादिति प्रकरणसमता । श्रुत्यादिरूपानुकूलतर्कसद्भावेन स्थापनाया अधिकबलत्वात् । प्रतिपक्षनिबन्धनसाध्यसन्देहेऽपि संशयरूपसाध्यप्रसिद्धेरनि वारणाच्च । नाप्यसिद्धिः, अनुभूतित्वजातेः कल्पितव्यक्तिभेदमादाय शुद्धेऽपि सत्त्वात् । न च जातेर्धर्मिसमसत्ता-कभेदवद्व्यक्ति सापेक्षत्वनियमः । जात्यन्यूनसत्ताकभेदवद्व्यक्तिसापेक्षतयैवातिप्रसङ्गनिरासे धर्मि-समसत्ताकभेदवद्व्यक्ति सापेक्षत्वस्य गौरवकरत्वात् । समत्वस्यान्यूनानतिरिक्तार्थकत्वात् । न चानुभाव्याभावेऽनुभूतित्वायोगः । कदाचिदनुभाव्यसत्त्वेनैव तदुपपत्तेः । अन्यथा आसीदित्यादि-वाक्यजन्यज्ञानस्याननुभूतित्वापत्तेः । न चानुभूतित्वं विपक्षादव्यावृत्तम् । अनुभूतिशब्दवाच्यानात्मनि सत्त्वादिति वाच्यम् । अनात्मनि अनुभूतिशब्दवाच्यत्वस्यैवाभावात् । वृत्तौ ज्ञानपदस्येवानुभूति पदस्य गौणत्वात् । अत एव परोक्षानुभवस्य पक्षत्वे बाधः । अपरोक्षस्य पक्षत्वे तत्र व्यभिचार इति निरस्तम् ।

चित्त्वरूपानुभूतित्वस्य विवक्षितत्वात् । न चाप्रयोजकत्वम् । श्रुत्यनुग्रहसत्त्वात् । न चापरोक्षानुभवमप्यपरोक्षतो जानामीत्यात्मनो वेद्यत्वग्राहिणा प्रत्यक्षेण ‘तदात्मानमेवावेत्’ इति श्रुत्या च बाध इति वाच्यम् । आद्यस्य साक्ष्यनुभवस्य वृत्तिरूपगुणानुभवविषयत्वात् । न च ‘जानामि’ इति ज्ञप्तिविषयत्वमेवानुभूयत इति वाच्यम् । अहमर्थस्य ज्ञप्त्याश्रयत्वायोगेन ज्ञानपदस्य वृत्तौ गौणत्वात् । ‘दुःखं जानामि’ इत्यादावपि दुःखाद्याकाराविद्यावृत्तेरेव विवक्षितत्वाच्च । द्वितीयस्य चाहमर्थविषयत्वात्तदनात्मत्वस्योक्तत्वात् । श्रुतेश्चोपनिषज्जन्यवृत्तिरूपवित्तिविषयत्वावगाहितया चिद्विषय-त्वस्य फलव्याप्यत्वस्याविषयीकरणात् ।

नापि ‘अनुभूतिः स्फुरणविषयः अपरोक्षव्यवहारविषयत्वाद् घटवत्’ ‘चैत्रीयानुभूतिः चैत्रापरोक्ष-व्यवहारयोग्यापरोक्ष ज्ञप्तिविषयः चैत्रापरोक्षव्यवहारविषयत्वाद्, घटवत्’ चैत्रीयानुभूतिश्चैत्रापरोक्ष-व्यवहारयोग्यापरोक्षज्ञप्त्यविषयो नावतिष्ठते, चैत्रं प्रत्यप्रकाशमानत्वरहितत्वात्, चैत्रेच्छावत्’ इति सत्प्रतिपक्षत्वम् । स्फुरणप्रयुक्तव्यवहारशालित्वरूपस्य विषयत्वस्य मयाप्यङ्गीकारेण सिद्धसाधनात् । तदन्यस्य स्वस्मिन्वृत्तिविरोधेन बाधात्, जडत्वस्योपाधित्वाच्च, परवेद्यत्वेऽनवस्थानात् स्ववेद्यत्वस्य विरुद्धत्वात् ।

ननु स्वस्मिन्स्ववेद्यत्वं कथं विरुद्धम् ? न तावत्स्वजनकेन्द्रियासन्निकृष्टत्वात्, स्वाजनकत्वाद्वा । नित्य चिद्विषयत्वस्य तद्द्वयं विनैव घटादौ सत्त्वात् । नापि विषयविषयिभावसम्बन्धस्य द्विष्ठत्वात् । अतीतारोपितात्यन्तासतां ज्ञानदर्शनेन तस्योभयानिष्ठत्वात् । नापि क्रियात्वकर्मत्वयोर्विरोधात् । कृत्यादिविशेषस्य कार्यत्वादिदर्शनात् । नापि विषयिणो विषयत्वे कर्तुः कर्मतापातात् । मिथ्यात्वानु-मित्यादेर्विषयिण्या एव विषयत्वदर्शनात् । मामहं जानामीत्यनुभवदर्शनेन च ‘तदात्मानमेवावेत्’ इति श्रुत्या च कर्तुः कर्मत्वाविरोधात् । एवं च परसमवेतक्रियाफलशालित्वं न कर्मत्वम् किन्तु क्रिया-विषयत्वादिकम् । तच्चाभेदेऽप्युपपाद्यमिति चेत् । मैवम् । विषयविषयिभावस्य सम्बन्धत्वेन भेदनियत-तया स्वस्मिन्स्ववेद्यत्वस्य विरुद्धत्वात् । न ह्युक्तातीतादिस्थले भेदो नास्ति । अत एव कृतिः कृत्यन्तरं प्रति, इच्छा इच्छान्तरं प्रति, व्यवहृतिः व्यवहृत्यन्तरं प्रति, अभिधा अभिधान्तरं प्रत्येव विषयः, न तु स्वात्मानं प्रतीति न स्वविषयत्वे किञ्चिदुदाहरणमस्ति ।

ननु गत्यादौ गत्यन्तराविषयत्वेऽपि वस्तूनां विचित्रस्वभावत्वात् कृत्यादौ कृत्यन्तरादिविषयत्व-वदनुभूतेरपि स्वविषयत्वमस्तु । अन्यथा स्वस्मिन् व्यवहारजनकत्वमपि न स्यात् । व्याप्तिज्ञानानु-मित्यादेः स्वाविषयत्वे सर्वोपसंहारवती व्याप्तिरनुमितिमिथ्यात्वं च न स्यादिति चेन्न । व्यवहारोप-पादनार्थं स्वविषयत्वस्वभावकल्पनापेक्षया स्वाविषयत्वेऽपि स्वव्यवहारजनकत्वस्वभावत्वमेव कल्प्यताम् । लाघवात् । तावतैव तदुपपत्तेः । व्याप्त्यनुमित्यादेस्तु अवच्छेदकैक्यलाभा त्तथात्वमित्युक्तत्वाच्च । एवं च क्रियाकर्मत्वविरोधादपि न स्वस्मिन्स्ववेद्यत्वम् । मिथ्यात्वानुमितेश्च न स्वकर्मता । परोक्षस्या-कर्मत्वात् । यदुक्तं कर्तुरेव कर्मत्वं, तदयुक्तम् । उदाहृतमिथ्यात्वानुमित्यादेरकर्मत्वात् । ‘मामहं जानामि’ इत्यादौ साक्षिणः कर्तृत्वादहमर्थस्य कर्मत्वात् ‘तदात्मानम्’ इत्यादौ चाहमर्थस्य कर्तृत्वाच्चित् कर्म अभेदे तद्द्वयादर्शनात् । अत एव न भेदघटितकर्मलक्षणपरित्यागः । क्रियाविषयत्वं तु न कर्मत्वम् । आसनादिक्रियाया अपि आधारादिविषयत्वेन सकर्मकत्वापत्तेः ।

अथ अवेद्यत्वेऽवेद्यत्वसाधकप्रमाणवेद्यत्वावेद्यत्वाभ्यां व्याघातः । वेदान्तानां ब्रह्मणि प्रामाण्यायोगः । ब्रह्मविचार विधिवैयर्थ्यं, ब्रह्माज्ञाननिवृत्त्ययोगः इत्यादिप्रतिकूलतर्कपराहतिरिति चेन्न, चिदविषयत्वं फलाव्याप्यत्वं वा अवेद्यत्वम् । तस्य तत्साधकप्रमाणजन्यवृत्तिवेद्यत्वेन व्याहत्यभावाद्, वृत्तिविषयत्व-मात्रेणैव वेदान्तप्रामाण्यविचार विध्यज्ञाननिवृत्तीनां सम्भवाच्च । एतेन अज्ञाननिवर्तकत्वमात्रेण वेदान्तप्रामाण्ये आत्मनोऽसिद्धिप्रसङ्ग इति निरस्तम् । आत्मनः स्वतः सिद्धत्वात् । ननु स्वत इत्यस्य स्वेनैवेत्यर्थे स्वविषयकत्वापत्तिः । प्रमाणं विनेत्यर्थ उपायान्तरस्यानुप न्यासेनासिद्ध्यापत्तिः । अन्यथा नृशृङ्गादेरपि सिद्ध्यापात इति चेन्न, मानानपेक्षसिद्धेरेव स्वतः सिद्धिशब्दार्थत्वात् । न च नृशृङ्गादावेवं प्रसङ्गः । तदसत्त्वव्यावृत्तिफलकप्रमाणाभावात् । प्रकृते च वृत्तिविषयतामात्रेण तत्सत्त्वात् । सिद्धि-रूपात्मनि सिद्ध इति व्यवहारस्य सिद्धिप्रयुक्तव्यवहारविषयतया गौणत्वात् । न चैवं मुक्तौ वेद्याभावे वित्तित्वानुपपत्तिः । अनुभूतिन्यायस्यात्रापि सुलभत्वात् ।

न च स्वाविषयत्वे स्वविषयकसंशयनिवर्तकत्वायोगः । स्वमहिम्नैव स्वधर्मिणि व्यवहारवत् संशयादिविरोधित्वोपपत्तेः । न चाननुगमः । तव विषयतायामिवाननुगतस्यैव नियामकत्वात्स्वकर्मत्वा-भावेऽपि स्वनिर्वाहकतया स्वस्मिन् व्यवहाराद्युपपत्तेश्च । न च स्वनिर्वाहकपदेन निर्वहणक्रिया-कर्तृत्वकर्मत्वोक्त्या विरोधः । स्वातिरिक्तनिर्वाहकानपेक्षत्वमात्रेण स्वनिर्वाहकत्वोपचारात् । ‘स्वयं दासास्तपस्विनः’ इत्यादौ स्वातिरिक्तदासाभावमात्रेण स्वदासत्वव्यपदेशवत् । न च स्वनिर्वाहका-ध्ययनविधिदीपप्रभादौ स्वस्मिन् कार्यकरत्वं स्वविषयत्वेन व्याप्तमित्यत्रापि तथेति वाच्यम् । अध्ययन विधावेकावच्छेदकमात्रेणात्माश्रयानवकाशात् । दीपप्रभादौ स्वविषयत्वासिद्धेः ।

तदुक्तं खण्डने– ‘गाङ्कुटादिभ्यः’ इत्यत्र बहुव्रीहिः स्वाविषये कुटेऽपि स्वकार्यं करोति । तथेहापि’ इति । न च ‘उद्भूतावयवभेदः समुदायः समासार्थः’ इति कैयटोक्तरीत्या कुटघटितसमुदाय एव बहुव्रीहिविषयः । स च वैयाकरणानां मीमांसकानां च शक्त्याऽन्येषां लक्षणयेत्यन्यदेतत् । यथा ‘चैत्रशालीया आनीयन्ताम्’ इत्यत्र उपलक्षणस्यापि चैत्रस्य स्वशालास्थस्य तच्छब्दविषयत्वं, तथा कुटस्यापि कुटादिवदन्यपदार्थभूतसमुदायान्तर्गतस्य बहुव्रीहिविषयत्वोपपत्तेः । तथा च दृष्टान्तासिद्धिरिति वाच्यम् । स्वाविषय इत्यस्य औत्सर्गिकविषयान्यपदार्थभिन्न इत्यर्थकत्वम् । तथा च स्वपदार्थ-सम्बन्धादनन्यत्रेव स्वपदार्थेऽपि यथा तत्र फलम्, तथा स्वसम्बन्धादन्यत्रेव स्वस्मिन्नपि चित्फलमित्यत्र दृष्टान्तपर्यवसानात् । स्वविषयव्यतिरेकेण समुदायप्रयोजकरूपेण विषयत्वेऽपि समुदायिताप्रयोजक-रूपेणाविषयत्वात् स्वाविषयत्वोक्तेर्वा ।

न्यायामृततरङ्गिणी

ननु स्वप्रकाशत्वानुमाने वृत्तिव्याप्यत्वाभाव एव साध्योऽतो नार्थान्तरमत आह– न हीति ।। तथात्वे चरमवृत्तिव्याप्य आत्मनि बाधः स्यादित्यर्थः ।। सामान्यतोऽपीति ।। वेद्यत्वं किञ्चिन्निष्ठेत्यादिविशिष्टसाध्य प्रसिद्धेरकरणात् । ननु स्वप्रकाशत्वानुमानेन फला-व्याप्यत्वरूपविशेषणसिद्धावपि न विशिष्टस्वप्रकाशत्वसिद्धिरत आह– अवेद्यत्वेति ।। विशेष्यभानान्तर्भावेणैव स्वप्रकाशत्वलक्षणकरणात्तत्सिद्धिः ।। तत्रैवेति ।। अत्यन्ताभाव प्रतियोगित्वे तस्यैव केवलान्वयित्वात् ।। यत इति ।। यस्मिन्धर्मेऽत्यन्ताभावप्रतियोगित्वं नास्ति तस्य केवलान्वयित्वात्तत्रैव व्यभिचारः । नन्वत्यन्ताभावप्रतियोगित्वस्य मिथ्यात्वेन स्वाश्रयभूतात्यन्ताभावप्रतियोगिनिष्ठात्यन्ता भावप्रतियोगितया यन्निष्ठात्यन्ताभावप्रतियोगित्वम् अत्यन्ताभावप्रतियोगित्वस्य तस्य केवलान्वयित्वं नास्ति । मैवम् । अबाधितात्यन्ताभाव-प्रतियोगित्वं मिथ्यात्वम् । बाधितात्यन्ताभावप्रतियोगित्वस्य सत्त्वेऽपि सम्भवात् । तथा चात्यन्ताभावप्रतियोगित्वस्य यत्राबाधितोऽत्यन्ताभावोऽस्ति तदेव केवलान्वयीति तत्रैव व्यभिचारः ।। घटादाविति ।। तथा च घटादिवद् ब्रह्माप्यस्वप्रकाशं स्यात् । स्वप्रकाशत्व-विरोधिव्यावहारिकवेद्यत्ववत्त्वात् । ननु धर्मिसमसत्तं वेद्यत्वं घटादौ स्वप्रकाशत्वविरोधि न त्वात्मन्यनेवंविधं तद्विरोधीति स्यादेवात्मा स्वप्रकाश इत्यत आह– न चेति ।। धर्मिसमसत्तं फलव्याप्तत्वं घटादौ स्वप्रकाशत्वविरोधिदृष्टम् अतोऽनैवंविधफलव्याप्यत्वेऽप्यात्मा स्वप्रकाशः स्यादेव । तथा चात्मनः फलव्याप्यत्वनिराकरणं व्यर्थम् । वयं तु ब्रूमः । ब्रह्मान्यत्र वेद्ये न वेद्यत्वात्यन्ताभावः सम्भवति । नापि ब्रह्मणि । निर्धर्मकत्वात् । अतः किञ्चि-न्निष्ठात्यन्ताभावप्रतियोगिवेद्यत्वं स्यात् । न चात्यन्ताभाव प्रतियोगीत्येव साध्यम् । तथापि वेद्यत्वाभावसिद्ध्याऽवेद्यत्वासिद्धेः । किञ्चात्यन्ताभावस्य सत्त्वेऽपसिद्धान्तः ।  मिथ्यात्वे वेद्यत्वस्यात्यन्ताभावाप्रतियोगित्वमेव स्यादिति ।। अयं घट इति ।। सत्यन्तं वेद्यत्वविशेषणम् । वेद्यत्वाधिकरणस्यापि घटस्यैतद्धटान्यत्वविशिष्टवेद्यत्वानधिकरणत्वा-त्तदन्यत्वमादाय पटादौ साध्यासिद्धिः । पक्षे तु वेद्यत्वानधिकरणकिञ्चिदन्यत्वमादाय । अत्र वेद्यत्वानधिकरणान्य इति कृते वेद्यत्वानधिकरणाप्रसिद्धिः । अतः सत्यन्तम् ।। एतद्धटत्वे सतीति ।। अत्रापि सत्यन्तं वेद्यत्वविशेषणमसिद्धिवारणाय । पटादावव्यभिचाराय । वेद्यस्य घटादेर्घटत्वानधिकरणान्यत्वेन तदनधिकरणत्वाभावात् ।

कश्चित्तु द्वितीयानुमानेऽप्येतद्धटान्यत्वे सतीत्येव पाठः । सोऽपपाठः ।। अनुभूति-शब्देति ।। वृत्तिरूपेऽनुभवे । जानामीतीति । न चाहमर्थस्य ज्ञप्त्याश्रयत्वायोगः । तस्य ज्ञप्त्याश्रयत्वोक्तेः ।। दुःखमिति ।। न च दुःखं जानामीत्यादावपि दुःखाद्याकाराविद्यावृत्तिरेव विवक्षितेति वाच्यम् । वृत्तिविलम्बे दुःखज्ञानविलम्बः स्यादित्युक्तत्वात् ।। स्फुरणविषय इति ।। घटतुल्यतयेति शेषः । तेन स्फुरणप्रयुक्तव्यवहारशालित्वरूपस्य विषयत्वस्य मयाऽप्यङ्गीकारात्सिद्धसाधनमिति निरस्तम् । न च जडत्वमुपाधिः । पक्षेतरत्वात् । आत्मरूपं ज्ञानमात्मविषयं न । आत्माजन्यसाक्षात्कारत्वात् । आत्मसन्निकृष्टेन्द्रियाजन्यत्वात् । सामान्यव्याप्तौ तु घटादिर्दृष्टान्तः । इत्यनुमानयोर्नित्यज्ञानभिन्नत्वमुपाधिमाह– स्वप्रकाशस्येति ।। अन्यथेति ।। तद्विषयत्वे तद्विषयजन्यत्वादेः प्रयोजकत्वे साक्षात्कारस्य तद्व्यवहार हेतुत्वं प्रत्यपि तज्जन्यत्वादिकं प्रयोजकं स्यात् । तथा चात्मरूपसाक्षात्कारः स्वव्यवहारमपि न जयेत् ।

कृतिविशेषस्येति ।। कृतीच्छाव्यवहृतीनां स्वभिन्नकृत्यादिकं प्रति विशेष्यत्वेऽपि कृतिविशेषादीनां स्वविषयत्व मस्ति । तथा हि– सुखहेतुकृत्युद्देशेन देवताराधनादौ प्रवर्तमानस्य देवताराधनगोचरा या कृतिस्तस्या अपि सुख हेतुत्वेन सा स्वविषयिणी भवति । एवं सदिच्छा भूयादितीच्छाया अपि सदिच्छात्वेन यज्ञादीच्छाविषयत्ववत्स्वविषयत्वमस्ति । तथा व्यवहृतिर्व्यवहर्तव्येत्येतच्छब्दजन्यव्यवहारस्यापि व्यवहृतित्वेन व्यवहर्तव्येत्येवंरूप-व्यवहारविषयत्वम् । अभिधापि स्वविषया । न च कृतेरसिद्धविषयत्वात्कथं स्वविषयत्वम् । सत्यम् । असिद्धं विषयीकृत्य जायमाना कृतिरेकावच्छेदकावच्छिन्न त्वात्स्वमपि विषयीकरोतीत्युच्यते । न च कृतेः स्वविषयत्वे स्वजन्यतापत्तिः । न हि स्वविषयत्वमेव स्वजन्यत्वम्  किन्तु पूर्ववृत्तित्वादिकम् । तच्च नाङ्गीक्रियते । एतेन कृतीच्छाव्यवहृत्यभिधाः कृत्याद्यन्तरं प्रत्येव विषयाः न तु स्वात्मानं प्रतीति न स्वविषयत्वे किञ्चिदुदाहरणमस्तीति केनचिदुक्तं प्रत्युक्तम् । कृत्यादौ स्वजातीयविषयत्वमित्याद्यग्रिम ग्रन्थस्तु कृतिसामान्यपरः । तुष्यतु दुर्जन इति न्यायेन वेति बोध्यम् ।

क्रियाविषयत्वेति ।। न चासनादिक्रियाविषय आधारे कर्मत्वप्रसङ्गः । आधारस्या-विषयत्वात् । अन्यथा स्थाल्यादेः पाकविषयत्वापातात् ।। स्वस्मिन्स्वव्यवहारेति ।। न च स्वव्यवहारोपपादनार्थं स्वविषयत्वस्वभाव कल्पनापेक्षया स्वाविषयत्वेऽपि स्वव्यवहार-जनकस्वभावत्वमेव कल्प्यतामिति वाच्यम् । घटादौ व्यवहारं प्रति प्रयोजकानां ज्ञानतद्भेद-तद्विषयत्वानां कप्तानां मध्ये आत्मनि प्रमाणबलाद्भेदत्यागेऽपि तद्विषयत्वस्यापि त्यागा-योगात् । अन्यथा ज्ञानस्यापि त्यागापत्तेः । तदिदमुक्तं प्राक् स्फुरणे स्फुरणान्तरं नापेक्षितम् । न तु कप्तं तद्विषयत्वमिति ।। संशयादिविरोधित्वे चेति ।। न च स्वत्वेनैव संशयादि-विरोधित्वम् । घटादौ स्वविषयत्वेनात्मनि तु स्वत्वेनैवेत्यननुगमात् । न च विषयत्व-मप्यननुगतम् । तस्यैकत्वाद्विषयतात्वेनानुगमाच्च ।। स्वाविषयेऽपीति ।। समस्यमान-पदार्थातिरिक्तोऽन्यपदार्थो बहुव्रीहिविषयः । समस्यमानपदार्थस्तु बहुव्रीह्यविषयस्तस्मिन्नित्यर्थः । कुटेऽपि बहुव्रीहिविषयत्वमस्तीत्याह– बहुव्रीहेरिति ।। बहुव्रीहेः शक्तिर्वा लक्षणा वेति मतेऽपि कुटस्यापि कुटादिवद् बहुव्रीहिविषयत्वेनेत्याद्यन्वयः ।

ननु तद्गुणसंविज्ञानबहुव्रीहौ तस्यान्यपदार्थस्य ये गुणा अवयवादयः तेषां कार्ये संविज्ञानम् आनयनादिक्रियान्वयो भवति । गुणान् विना गुणिन आनयनाद्ययोगात् । न च कुटिः पुटादेरवयवादिर्भवति । अतः कथं तस्य बहुव्रीहि विषयत्वमिति शङ्कां कैयटोदाहृतन्यायेन परिहरति– चैत्रेति ।। तद्गुणसंविज्ञानेत्यत्र गुणशब्देन नावयवादिरेव । अपि तूपलक्षणादि-साधारणं व्यावर्तकमात्रम् । तथा च यथा ‘चैत्रशालास्था ब्राह्मणा आनीयन्ताम्’ इत्युक्ते चैत्रोऽपि यदि ब्राह्मणो भवति स्वशालास्थश्च तदा सोऽप्यानीयत एव । तथा कुटादीन्प्रत्युप-लक्षणस्यापि कुटे पुटादिकार्येऽन्तर्भावः स्यादेव । ननु कुटेः पुटाद्यसम्बन्धात्कथमुपलक्षणत्व-मपीत्यत आह– अन्यपदार्थेति ।। समुदायेन समुदायिनां सम्बन्धादित्यर्थः । ननु समुदाय-स्यान्यपदार्थत्वे तस्यैकत्वादेकवचनं प्राप्नोतीत्याशङ्कां परिहरति– उक्तं हीति ।। ‘सर्वादीनि सर्वनामानि’ इत्यत्रेति शेषः । अवयवगतबहुत्वस्यावयविन्यारोपेण बहुवचनमित्यर्थः ।

न्यायामृतकण्टकोद्धारः

एवं स्वप्रकाशत्वलक्षणं दूषयित्वाऽनुमानमपि दूषयितुमनुवदति– यच्चेति ।। ननु पूर्वानुमाने वृत्तिव्याप्यत्वाभाव एव साध्यम् । अतो नार्थान्तरमित्यत आह– न हीति ।। चरमवृत्ति-व्याप्यत्वाङ्गीकारेण तदभावसाधनेऽपसिद्धान्त इति भावः ।। तस्येति ।। स्वप्रकाशत्वानुमान इत्यर्थः ।। तस्य सामान्यतोऽपीति ।। उपलक्षणमेतत् । विशिष्टस्य मद्रीत्या घटादौ सिद्धत्वेनासाधारण्या-परिहारोऽपीति द्रष्टव्यम् ।। उक्तन्यायेनेति ।। अज्ञानत्वादिरूपेणेत्याद्युक्त न्यायेनेत्यर्थः ।। उक्तरीत्येति ।। दृश्यत्वभङ्गोक्तरीत्येत्यर्थः । न च चिदविषयत्वमेव स्वप्रकाशत्वम् । धर्म-त्वानुमाने चिदविषयत्वमेव पक्षः । घटादावापरोक्ष्यार्थं चिद्विषयत्वमावश्यकम् । ब्रह्मणोऽपरोक्षा-कारसत्त्वेन चिद्विषयत्वस्यानावश्यकत्वान्न बाध इति वाच्यम् । घटादावपि वृत्तिगतेनेन्द्रिय-जन्यत्वविशेषेणापरोक्ष्योपपत्तौ चिद्विषयत्वानावश्यकत्वात् । अभेदेऽपि विषयत्वस्योपपादितत्वाच्च । तथा चासाधारण्यं बाधो वा दुष्परिहरः । एतेन साध्यप्रसिद्ध्यर्थम् अनुमानं निरस्तम् । चिदविषयत्वस्य घटादौ समत्वेनाप्रसिद्ध्यभावात् ।

प्रतियोगीति ।। आश्रयासिद्धेरित्यापाततः । वस्तुतोऽवेद्यत्वस्य विवक्षितस्यापरोक्षव्यवहार-योग्यत्वस्य च घटादौ सत्त्वेनासाधारण्यं दुष्परिहरमिति द्रष्टव्यम् ।। सर्वत्रैवमिति ।। तथा च कुत्रापि साध्यप्रसिद्धिर्दूषणं न स्यादिति भावः ।। किञ्चेति ।। केवलान्वयित्वाङ्गीकारे व्यभिचारदानं नैयायिकमताङ्गीकारेण द्रष्टव्यम् । स्वमते तु क्वचित्सतोऽत्यन्ताभावप्रतियोगित्वमेव न । अप्रामाणिकस्यैव तत्प्रतियोगित्वमित्याशयेन द्रष्टव्यम् । न चात्यन्ताभाव प्रतियोगित्वादिकमपि मिथ्यात्वादत्यन्ताभावप्रतियोग्येवेति वाच्यम् । तदसिद्धेः प्रागेवोपपादितत्वात् । अन्यतरा-नैकान्तिकत्वा परिहाराच्च ।। अपि चेति ।। ननु चिद्विषयत्वविरोध्यत्यन्ताभाव प्रतियोगित्वरूपत्वं विवक्षितम् । घटादौ च न तयोर्विरोधित्वं मिथ्यात्वं प्रमाणेन तयोः सहावस्थानावगमात् । ब्रह्मणि च विरोध एव । न च विरोधित्वांशमादाय पुनरप्यप्रसिद्धिरेवेति वाच्यम् । वेद्यत्वं विरोध्यत्यन्ताभावप्रतियोगि अत्यन्ताभावप्रतियोगित्वाद् घटवदिति प्रसिद्धि सम्भवादिति चेन्न । प्रतियोगिसत्त्वसहिष्णोस्तदत्यन्ताभावत्वायोगादित्युक्तत्वात् । घटादावपि वेद्यत्वस्यात्यन्ताभाव प्रतियोगित्वेन विरोध्यत्यन्ताभावप्रतियोगित्वसाधनसौलभ्याच्च ।

न च मिथ्यात्वप्रमाणेन सहावस्थनप्रतीतेर्विरोधसाधने बाध इति वाच्यम् । मिथ्यात्वप्रमाणानां निरस्तत्वात् । ब्रह्मण्यपि वेद्यत्वस्य मिथ्यात्वेन विरोध्यभावप्रतियोगित्वसाधने बाधाच्च । एतेन पूर्वानुमाने अवेद्यत्वे सत्यपरोक्षव्यवहार योग्यत्वं स्वप्रकाशत्वं साध्यम् । न च विशिष्टस्याप्रसिद्धिः । फलव्याप्यत्वम् अपरोक्षव्यवहारयोग्यकिञ्चिन्निष्ठात्यन्ताभाव प्रतियोगीति साध्यम् । एवञ्चानुमितेः पक्षतावच्छेदकसाध्यसामानाधिकरण्य विषयत्वनियमेन विशिष्टस्य सामान्यतः प्रसिद्धिरिति निरस्तम् । विशिष्टस्यापि दृश्यत्वभङ्गोक्तरीत्या घटादौ निश्चितत्वेनासाधारणानैकान्त्यापरिहारात् । ब्रह्मण्यपि फलव्याप्यत्वस्य समर्थितत्वेन तदभावसाधने बाधाच्च । फलसद्भावे प्रमाणाभावेन साध्यप्रसिद्धिसाधकानुमाने आश्रयासिद्धेश्चेति दिक् ।। अत एवेति ।। अनेनानुमानेन एतद्धटान्यत्वे सति यद्वेद्यत्वं तद्विशिष्टं घटातिरिक्तं सर्वं तदधिकरणं पक्ष एव । तदन्यत्वं पक्षातिरिक्तं पटादौ प्रसिद्धम् । पक्षे च न पक्षातिरिक्तत्वेन साध्यपर्यवासानं, बाधात् । अतः पक्षातिरिक्तं विशिष्टानधिकरणमादाय तदन्यत्वपर्यवसानम् । विशिष्टानधिकरणत्वञ्च न विशेषणाभावमादाय । ततः पुनः पक्षात्मकत्वापत्या बाधात् । विशेष्याभावमादायैव सिद्ध्यतीति युक्ता वेद्यत्व-प्रसिद्धिरित्यर्थः ।

वेद्यत्वानिरुक्तेरिति ।। न च तद्विषयत्वमेव वेद्यत्वमिति वाच्यम् । पूर्वोक्तरीत्या पटादावपि चिद्विषयत्वाभावेन तदन्यत्वे साध्यपर्यवसानेनार्थान्तरत्वात् । ब्रह्मण्यपि चिद्विषयत्वस्योपपादितत्वेन तदभावसिद्ध्ययोगाच्च ।। अयं घट इति ।। अत्र ‘एतद्धटत्वे सति’ इति वेद्यत्वानधिकरणान्यत्वस्य विशेषणम् । एवञ्च सपक्षे घटान्तरादौ विशेषणाभावाद्विशिष्टाभावः । पक्षे च वेद्यत्वानधि-करणान्यत्वाभावमादायेति प्रकरणसमतेत्यर्थः । न चैवं विशिष्टा प्रसिद्धिः । पररीत्या घट एव प्रसिद्धिसम्भवात् । यद्वा एतद्धटत्वे सतीति वेद्यत्वस्यैव विशेषणम् । तदनधिकरणञ्च पटादिकं पराभिमतं च । तत्र च पटादौ तदन्यत्वानधिकरणत्वं सिद्धमेव । पक्षे च न विशिष्टानधि-करणपटान्यत्वाभावमादाय साध्यसिद्धिः । पटाद्यन्यत्वस्य प्रत्यक्षसिद्धत्वेन बाधात् । तथा च पराभिमतान्यत्वाभावमादायैवेति भवति प्रकरणसमतेत्यर्थः । न च स्थापनायाः श्रुत्याद्यनुकूलतर्कसाहित्येन बलवत्त्वं तदभावस्यानुपदमेव वक्ष्यमाणत्वात् । उपसंहरति–   तस्मादिति ।।

अत्र कश्चित् । आत्मा स्वप्रकाशः आत्मत्वात्, प्रमाणं स्वधर्मविषयो न भवतीति साध्यम् । इच्छादिश्चान्तः करणधर्म एव । अत्रात्मेति अन्तःकरणातिरिक्तोऽहमिति व्यवहारविषय उच्यते । अतो न बाधो न वाऽऽश्रयासिद्धिः । न चात्मत्वमसिद्धम् । घटादौ घटत्वादेरिव कल्पितस्यात्मनि सम्भवात् । न च साध्याप्रसिद्धिः । व्याप्तिप्रतीत्यर्थं साध्यप्रसिद्धिर्मृग्यते । प्रकृते च साध्यस्याभावरूपत्वेन तदभावस्य भावरूपत्वाद् भावज्ञानेऽभावज्ञानस्याकारणत्वाद् व्यतिरेकव्याप्तिसम्भवात् । पक्षता च सिद्ध्यभावरूपा न साध्यसिद्धिम् अपेक्षते । विशेषणज्ञानञ्च न विशिष्टज्ञानकारणम् । अतो न साध्याप्रसिद्धिर्दूषणमित्याह । तन्न । अत्र स्वप्रकाशत्वं चिदविषयत्वं चेत् घटादावसाधारणानैकान्तिकता । द्वितीयसाध्ये तु घटादौ स्वधर्मविषयत्वाभावात् स्पष्टैव । साध्यघटादौ चिद्रूपज्ञानाभावस्य साधितत्वात् । न चानुकूलतर्कसद्भावान्नासाधारण्यं दोष इति वाच्यम् । तदभावस्य वक्ष्यमाणत्वात् । वृत्त्यव्याप्यत्वं चेद्बाधः । ब्रह्मणो वृत्तिव्याप्यत्वस्य श्रुत्यादिसिद्धत्वात् ।

किञ्चात्मत्वं जातिरुपाधिर्वार्थादकल्पितं हेतूक्रियते तदा शरीरादावनैकान्तिकता । यदि वास्तवं तदाऽसिद्धिः । अपि च पक्षः किमात्मशब्दवाच्योऽथ तल्लक्ष्योऽथवाऽहमिति व्यवहारविषयः । नाद्यः । तस्य परेण स्वप्रकाशत्वानङ्गीकारेण परस्यापसिद्धान्तात् । न द्वितीयः । आत्मशब्दलक्ष्यस्य परमचैतन्यस्यासिद्धेः । न तृतीयः । अहमिति व्यवहारस्य विशिष्टव्यवहारत्वेन तद्विषयविशेषण-सम्बन्धांशे बाधापत्तेः । न चाहमिति व्यवहारविशेष्यः पक्ष इति वाच्यम् । त्वन्मतेऽहङ्कारस्यापि तद्विशेष्यत्वात् । न चान्तःकरणातिरिक्तत्वे सतीति विशेषणीयम् । परमते व्यर्थविशेषणत्वात् । न चोपरञ्जकं विशेषणं प्रयोजनाभावे उपरञ्जकत्वस्यातिप्रसञ्जकत्वात् । किञ्च साध्यद्वये सिद्ध-साधनम् । आत्मनो वृत्तिव्याप्यत्वाभ्युपगमेन भवदभिमतचिद्विषयत्वानङ्गीकारात् । इच्छादि-वज्ज्ञानस्याप्यन्तःकरणवृत्तित्वाभ्युपगमाच्च । अपि च साध्याभावस्य भावरूपत्वेऽपि अप्रयोजकत्व-परिहारार्थं साध्याभावत्वेनोपस्थिते व्याप्तिर्ग्राह्या । तथा च साध्यप्रसिद्ध्यभावे कथं सा स्यादिति । अन्यच्च सर्वं दूषणमनुभूतित्वानुमानवद्द्रष्टव्यमिति दिक् ।

प्रतिज्ञां दूषयित्वा हेतुं दूषयति– त्वदभिमतमिति ।। न च कल्पितभेदे शुद्धे अनुभूतित्वं जातिरस्त्येवेति वाच्यम् । कल्पितभेदविशिष्टस्य मिथ्यात्वेन प्रकाशत्वसाधने बाधात् ।। जातेरिति ।। न च गौरवम् । प्रामाणिकत्वात् । यथा चैतत्तथाऽखण्डार्थत्वभङ्ग एवोक्तम् ।। अनुभाव्याद्यभाव इति ।। न च कदाचिदनुभाव्यसत्वेनानुभूतित्वम् । अन्यथाऽतीतज्ञानादेरनुभूतित्वं न स्यादिति वाच्यम् । अनुभाव्याद्यभावपदेन अनुभाव्यविषयीकरणाभावस्य विवक्षितत्वात् । अतीतादिज्ञानादेश्च यावत्सर्वविषयीकरणसत्त्वात् । चिद्रूपानुभूतेश्च तदभावात् । अन्यथा मुक्तावपि संसारोल्लेखे मुक्तेः संसारतुल्यत्वं स्यादिति ।। विपक्षादिति ।। न च वृत्तेरनुभूतिशब्दवाच्यत्वमेव नेति वाच्यम् । चैतन्यस्यापि निर्विशेषत्वेन तद्वात्वाभावे मुख्यार्थशून्यस्य लक्षणाया अदृष्टशक्यलक्ष्यरूपार्थाभावेन प्रातिपदिकत्वाभावपदत्वा भावापत्तेः । न च चित्त्वरूपमनुभूतित्वं विवक्षितम् । अतो न व्यभिचार इति वाच्यम् । तस्यापि कल्पितस्य देहादौ सत्त्वाद कल्पितस्यात्मन्यप्यभावादप्रयोजकत्वमिति । न च श्रुत्यनुग्रहादप्रयोजकत्वपरिहारः । श्रुत्यननुग्रहस्याग्रे वक्ष्यमाणत्वात् ।

जानामीतीति ।। न चाहमर्थस्य ज्ञप्त्याश्रयत्वायोगेन ज्ञानपदं तत्र गौणमिति वाच्यम् । विज्ञानमिति प्रतीत्या बाधकाभावेन ज्ञप्त्याश्रयत्वस्यावश्यकत्वात् । अन्यथा घटं साक्षात्करोमीति प्रतीत्या घटादेरपि चिद्विषयत्वं न सिद्ध्येदिति घटादेरपि स्वप्रकाशत्वापत्तेः ।। दुःखमिति ।। न च तत्रापि दुःखाद्यकाराविद्यावृत्तिरेव विवक्षितेति वाच्यम् । तथात्वे दुःखादेरपि चिद्विषयत्वे प्रमाणाभावेन स्वप्रकाशत्वापत्तेः, दुःखादेः प्रातिभासिकत्वेन तदाकाराविद्या वृत्त्ययोगाच्च । न चाविद्यावृत्तौ पूर्वसत्त्वं नापेक्षितमिति वाच्यम् । तदसत्त्वे तदाकारवृत्त्यनुपपत्तेः । न च श्रुतिः वृत्ति व्याप्यत्वमेव विषयीकरोति न फलव्याप्यत्वमिति वाच्यम् । श्रुतौ ‘तदात्मानमेवावेत्’ इत्यत्र ब्रह्मणः कर्तृत्वोक्त्या वृत्तिरूपज्ञानायोगेन चिद्विषयत्वविषयीकरणस्यावश्यकत्वात् । सत्प्रतिपक्षानाह– अनुभूतिरित्यादिना ।। न चात्र विषयत्वं नाम तज्जन्यव्यवहारविषयत्वं चेत् साध्यते तस्य मयाऽप्यङ्गीकारेण सिद्धसाधनतेति वाच्यम् । मयाप्येतदन्य विषयत्वस्य घटादावप्यनङ्गीकारेण त्वया पारिभाषिकविषयत्वाभावसाधने मया सिद्धसाधनस्य वक्तुं शक्यत्वात् व्यवहारं प्रति यदेव विषयत्वं त्वया स्वीक्रियते तस्यैव स्फुरणं प्रति साधनाच्च । व्यवहाराननुसन्धानेऽपि ज्ञानविषयत्व व्यवहाराच्च । अभेदेऽपि सम्बन्धविशेषस्योपपादितत्वाच्च ।

न च जडत्वमुपाधिः । लाघवेन स्फुरणविषयत्वे वस्तुत्व स्यैव तन्त्रत्वेन जडत्वस्या-प्रयोजकत्वेनानुपाधित्वात् । अन्यथा बाह्यप्रपञ्चत्वस्यैव तन्त्रत्वे सुखादेरपि स्फुरणविषयत्वानापत्तेः ।। त्वन्मत इति ।। अहमर्थस्य संशयाद्यविषयत्वं प्रतीयते । शुद्धचैतन्यस्य च विचारविषयता-सिद्ध्यर्थं सन्देहादेरावश्यकत्वात् । तथा चान्यनिष्ठेन सन्देहाद्यभावेनान्यस्य परवेद्यत्वाभाव-साधनेऽतिप्रसङ्ग इति भावः । किञ्च स्ववेद्यत्वेनैवोपपत्याऽप्रयोजकत्वम् । न च स्ववेद्यत्वं विरुद्धं, विरोधप्रयोजकाभावादित्याह– किञ्चेति ।। अत्र सर्वत्र पञ्चम्यन्तानां हेतूनां स्ववेद्यत्वं विरुद्धमित्यनुवृत्तेरनेनान्वयः ।। स्वप्रकाशस्येति ।। ज्ञानं विषयजन्यमिति व्याप्तेरभावाज्ज्ञानं प्रति विषयस्य कुत्राप्यजनकत्वात् । यथा चैतत्तथाऽन्यत्र प्रपञ्चितम् । द्वितीयनियमस्तु जन्यज्ञानविषयत्वेन सङ्कोचनीयः । अन्यथाऽतिप्रसङ्गादिति भावः ।। अन्यथेति ।। स्वजन-केन्द्रियसन्निकृष्टस्यैव विषयत्वमिति नियमाङ्गीकारे इत्यर्थः । स्वकरणसन्निकर्षजन्यत्वमादिशब्दार्थः ।। न तृतीय इति ।।

ननु विषयविषयिभावस्य भेदनियतत्वेन कथमभेदे समतीतादौ च विषयविषयिभेदोऽस्त्येवेति वाच्यम् । तस्य भेदनियतत्वासिद्धेः । अन्यथा मिथ्यात्वानुमितेः अज्ञानस्य च स्वविषयत्वं न स्यात् । न च स्वपरसाधारणावच्छेदके सति स्वविषयत्वं, मिथ्यात्वानुमितौ च तदस्ति । प्रकृते च तन्नेति वाच्यम् । प्रकृतेऽपि तज्जन्यव्यवहारविषयत्वस्य स्वपरसाधारणस्य सम्भवात् । स्वविषयत्वेऽनुभवस्यैव तन्त्रत्वेनावच्छेदकैक्यस्याप्रयोजकत्वाच्च । न च व्यवहारोपपादनार्थं तद्विषयत्वस्वभावकल्पनापेक्षया तद्व्यवहारजनकत्वस्वभाव एव कल्पनीयो लाघवादिति वाच्यम् । तद्व्यवहारे तद्विषयत्वस्य प्रयोजकत्वेन कप्ततया गौरवस्य प्रामाणिकत्वादिति भावः ।। कृति-विशेषस्येति ।। न च क्रियाया एव कर्मत्वं विरुद्धम् । अनुभवेनैव विरोधपरिहारात् ।। अज्ञस्यैवेति ।। अज्ञानाश्रयत्वेन कर्तृत्वस्य तद्विषयत्वेन कर्मत्वस्यैकत्रैवोप लम्भादित्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् ।। मामहमिति ।। न च साक्षिणः कर्तृत्वेऽहङ्कारस्य कर्मत्वमिति वाच्यम् । उभयत्रास्मच्छब्दप्रयोगे द्वैविध्यस्याप्रामाणिकत्वात् । केवलाहङ्कारे केवलचैतन्ये वाऽस्मच्छब्दा-प्रयोगाच्च । तदात्मानमिति ।। न च श्रुतावहमर्थस्य कर्तृत्वमिति वाच्यम् । तच्छब्देन परामृष्ट-स्याहमर्थत्वात् कर्तुरेव कर्मत्वमिति भावः ।। क्रियाविषयत्वादिरूपस्येति ।। न चैवमासनादि क्रियाया अपि आधारादिविषयत्वेन कर्मत्वापत्तिरिति वाच्यम् । आधारे विषयत्वाननुभवेन तत्र विषयत्वाभावात् । अन्यथा परकीयलक्षणस्यापि तत्र सम्भवेन विषयत्वापातात् ।। अन्यथेति ।। गत्यादौ स्वविषयत्वादर्शनेन अनुभूतेरपि स्वविषयत्वकल्पने इत्यर्थः । ननु व्याप्तिज्ञानादेः स्वविषयत्वानङ्गीकाराद् दृष्टान्तासिद्धिरित्यत आह– व्याप्तिज्ञानेति ।। ननु यथा चितश्चिद विषयत्वेऽपि तद्व्यवहारस्तथा व्याप्तिज्ञानादेः स्वविषयत्वाभावेऽपि मिथ्यात्वादिसिद्धिः स्यादित्यत आह– न हीति ।। व्याप्तिज्ञानादेरिति ।। दृश्यत्वप्रमेयत्वाद्यवच्छिन्नत्वादित्यर्थः । तथा च मिथ्यात्वानुमित्यादेः स्वविषयत्वमावश्यकमिति भावः । कर्तुरेव कर्मत्वे कथितां युक्तिं सङ्गृह्णाति– एवञ्चेति ।। इति प्रत्यक्षेणेत्यादिक्रमेणान्वयः । ननु गमनादावपि कर्तृकर्मणोरभेदः स्यादित्या-शङ्कायामाह– गमनादौ त्विति ।। प्रत्यक्षाद्यभावान्न तत्र कर्तृकर्मणोरभेद इत्यर्थः ।

ननु गमनादिदृष्टान्तेन सर्वत्र कर्मकर्तृभेद एव किं न स्यादित्यत आह– अन्यथेति ।। सर्वत्र कर्मकर्तृभेदाङ्गीकारे इत्यर्थः । तथा च स्ववेद्यत्वेनैवोपपन्नत्वादनुभूतित्वम् अप्रयोजकमिति भावः ।। अवेद्यत्व इति ।। वृत्त्यविषयत्व इत्यर्थः । न च स्वप्रकाशत्वानुमाने चिद्विषयत्वं फलाव्याप्यत्वं वा सिषाधयिषितम् । तथा च तत्र बाधकानुक्तेर्व्यधिकरणतेति वाच्यम् । तादृशावेद्यत्वरूपस्वप्रकाशत्वस्य घटादिसाधारणताया दृश्यत्वभङ्ग उक्तत्वेन वृत्त्यविषयत्वरूप-मेवावेद्यत्वं स्वप्रकाशत्वानुमाने साध्यं सिद्धवत्कृत्य प्रतिकूलतर्काभिधानादिति भावः ।। ब्रह्मेति ।। विचारविधिना हि विचारो विहितः । विचारस्य च फलं ब्रह्मविषयकवृत्तिरेवेति तदभावो(वे) तदुद्देशेन विचारविधिवैयर्थ्यमिति भावः ।। ब्रह्माज्ञानेति ।। तद्विषयकज्ञानस्यैव तदज्ञान-निवर्तकत्वादिति भावः । एतेन तदज्ञाननिवर्तकत्वायोगेनेत्यर्थः । प्रतिकूलतर्कान्तरमाह– आत्मन इति ।। तत्र प्रमाणाभावादिति भावः ।। स्वविषयत्वेति ।। तच्च परेणाङ्गीक्रियते । कर्तृकर्म-विरोधादिति भावः ।

ज्ञातत्वातिरेकेणेति ।। ज्ञानाभावे व्यवहारादर्शनेन ज्ञानत्वस्यैव व्यवहारयोग्यतावच्छेदकत्वा-दिति भावः ।। मुक्ताविति ।। मुक्तौ स्वरूपमात्रेणावस्थानाभ्युपगमेन स्वरूपस्य च निर्धर्मकत्वेन योग्यतारूपधर्माभावो द्रष्टव्यः ।। अन्यथेति ।। सिद्ध्युपायाभावेऽपि सिद्ध्यङ्गीकारे इत्यर्थः । ननु दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यम् । नृशृङ्गादेरसत्त्वव्यावृत्ति फलकप्रमाणाभावात् प्रकृते तत्फलकवृत्तिसत्त्वादिति शङ्कते– नन्विति ।। एतादृशेति ।। तथा च घटादिसाधारण्य परिहारार्थं वृत्त्यविषयत्वमेवावेद्यत्वं स्वीकर्तव्यम् । तथा च नृशृङ्गतुल्यतैवेति भावः । किञ्चास्त्ववेद्यत्वं फलाव्याप्यत्वं तदप्यात्मनोऽङ्गीकर्तव्यम् । आत्मनो ज्ञानरूपत्वात् । अन्यथा तस्य ज्ञानरूपत्वमेव न स्यादित्याह– किञ्चेति ।। ननु स्ववेद्यत्वाभावेऽपि वृत्तित्वमस्तु । विपक्षे बाधका-भावेनाप्रयोजकत्वादित्यत आह– भुक्तेरिति ।। ननु परविषयत्वेनैव वृत्तित्वं वृत्तिमदित्यत आह– मुक्ताविति ।। ननु पराभावेऽपि तद्विषयत्वं स्यात् । न हि विद्यमानस्यैव विषयत्वम् । अतीतादिविषयकानुमितिदर्शनादित्यत आह– उक्तं चैतदिति ।। तथा च मुक्तौ दुःखाद्युपप्लवोल्लेख-रूपानर्थापत्यादेरुक्त त्वादिति भावः ।

ननु स्वविषयत्वाभावेऽपि तत्संशयादिनिवर्तकत्वमस्तु । विपक्षे बाधकाभावेना-प्रयोजकत्वादित्यत आह– वित्तेरिति ।। न च तदिवषयत्वाभावेऽपि स्वमहिम्नैव संशयादि-निवर्तकत्वमस्त्विति वाच्यम् । कप्ततद्विषयत्व परित्यागेन महिमकल्पने गौरवात् । व्यवहारेऽनेक-नियामककल्पने गौरवाच्च । न च तव विषयतायामिव व्यवहारेऽननुगतस्यैव नियामकत्वमस्त्विति वाच्यम् । विषयतायां वस्तुत्वस्यैव प्रयोजकत्वेनाननुगमाभावात् । न च ब्रह्मरूपं ज्ञानं संशयाद्यविरोध्येव । वृत्तेरेव तद्विरोधित्वाङ्गीकारादिति वाच्यम् । संशयादिविरोधित्वानङ्गीकारे ज्ञानत्वानुपपत्तेः । न च निर्विकल्पकज्ञानत्वोपपत्तिरिति वाच्यम् । तस्याप्रामाणिकत्वे-नानभ्युपगमात् । न च धर्मिज्ञानवदुपपत्तिरिति वाच्यम् । तस्यापि धर्म्यंशे संशयादिविरोधित्वादेः सत्त्वात् । तथा च संशयादिविरोधित्वाभावे ज्ञानत्वमनुपपन्नमिति ।। स्वनिर्वाहकशब्देनैवेति ।। न च स्वातिरिक्तनिर्वाहकानपेक्षत्वमात्रे स्वनिर्वाहकशब्द औपचारिकः । स्वयंदासा इत्यादिवदिति वाच्यम् । तथात्वेऽसत्यपि स्वनिर्वाहकशब्दप्रयोगापत्तेः । असतोऽप्यतिरिक्तनिर्वाहकानपेक्षत्वात् । स्वयंदासा इत्यादौ तु दासत्वप्रयोजकस्वीकरण एव तथा प्रयोगात् ।

स्वनिर्वाहकमिति ।। न चाध्ययनविधौ स्वपरसाधारणस्वाध्यायत्वरूपावच्छेदकसम्भवेनात्मा-श्रयानवकाशात् स्वविषयत्वम् । प्रकृते च तदभावेन न स्वविषयत्वमिति वाच्यम् । प्रकृतेऽप्यात्म-रूपज्ञानस्य स्वपरविषयत्वाङ्गीकारेण योग्यवस्तुत्वादेरेवावच्छेदकत्वसम्भवात् । योग्यतायाश्च फलबलकल्प्यत्वात् । स्वविषयत्वे कर्तृकर्मत्वादिविरोधस्य परिहृतत्वाच्च । न च दीपादौ स्वविषयत्वमसिद्धमिति वाच्यम् । तद्विषयतमोविरोधित्वादिना तद्विषयत्वस्यावश्यकत्वात् । अन्यथा घटादेरपि दीपादिविषयत्वं न स्यादिति । अत एव खण्डनमप्यपास्तमित्याह– एतेनेति ।। न च स्वाविषय इत्यस्यौत्सर्गिकविषयान्यपदार्थकत्वम् अर्थः । तथा च स्वार्थसम्बन्धादन्यत्र वा स्वस्मिन् फलमिति वा समुदायताप्रयोजकरूपेण विषयत्वेऽपि समुदायिताप्रयोजक रूपेणाविषयत्वमिति वा स्वाविषय इत्यस्यार्थ इति वाच्यम् । एतावता यथाकथञ्चिदविषयत्वेऽपि सर्वथा विषयत्वाभावेन स्वविषय एव कार्यकारीत्यस्य व्यभिचाराभावात् । अन्यथा घटज्ञानमपि स्वविषये कार्यकारीति स्यात् । यथा कथञ्चिदविषयत्वस्य तत्रापि सम्भवात् ।।

न्यायामृतप्रकाशः

वेद्यत्वमिति ।। पक्षीभूतं वेद्यत्वमित्यर्थः ।। अर्थान्तरत्वादिति ।। अनुभूतिः स्वप्रकाशेत्यत्रा-प्रसिद्धिवारणाय हीदमनुमानं प्रवृत्तम् । अत्र सामान्यतः वृत्तिव्याप्यत्वं किञ्चिदवेद्यत्वं वस्तुसिद्धम् । न हि अनुभूतित्वादिति पूर्वानुमाने वृत्त्यव्याप्यत्वरूपं यदवेद्यत्वं तद्रूपं यत्स्वप्रकाशत्वं तत्साध्यम् । येन तेनानुमानेन तस्य सामान्यप्रसिद्ध्युक्तिः सम्मता स्यात् । तथात्वेऽनुभूतिपदोक्तस्य ब्रह्मणोऽपि वेदान्तजन्यचरमवृत्तिविषयत्वेन वृत्तिव्याप्यत्वात्तदव्याप्यत्व रूपावेद्यत्वसाधने बाधः स्यादिति भावः ।। तस्येति ।। फलव्याप्यत्वस्य किञ्चिन्निष्ठात्यन्ताभावप्रतियोगित्वसाधने फलाव्याप्यत्वरूपस्वत्व-प्रकाशत्वसिद्ध्या पूर्वानुमानेऽप्रसिद्धविशेषणत्वाभावेऽप्यसाधारण्यं स्यात् । उक्तरीत्या फलस्याधिष्ठान चैतन्यरूपस्याप्रामाणिकत्वस्योक्तत्वेन, अपरोक्षे घटादावभावेन फलाव्याप्यत्वसद्भावात् त्वत्पक्षे शुक्तिरूप्यादौ प्रातिभासिकेऽन्तःकरणवृत्तिप्रतिबिम्बितचैतन्याभिव्यक्ताधिष्ठानचैतन्यरूपफलाभावेन फलाव्याप्यत्वसद्भावात् त्वन्मते धर्मादौ परोक्षे फलाभावेन तदव्याप्यत्वसद्भावेन तस्मिन्सपक्षेऽनुभूतित्व-हेतोरवर्तमानत्वादसाधारण्यमित्यर्थः ।

व्यक्तिविशेष इति ।। तथा च न तत्र सामान्यप्रसिद्ध्यपेक्षेत्यर्थः । नन्ववेद्यत्वे सत्यपरोक्ष-व्यवहारविषयत्वस्य विशिष्टस्य पूर्वानुमाने साध्यत्वात् । तच्च न व्यक्तिविशेषे सिद्धम् । घटादौ रूप्यादौ च विशेषणाभावाद् धर्मादौ विशेष्याभावात् । अतो नासाधारण्यमित्याशङङ्क्य निराकरोति– न चेति ।। तर्ह्यप्रसिद्धविशेषणत्वं स्यादेव । सामान्यतोऽप्रसिद्धावपि विशिष्टाप्रसिद्धेरनुगतत्वादित्याह– तस्येति ।। ननु नाप्रसिद्धविशेषणत्वम् । फलाव्याप्यत्व रूपावेद्यत्वाख्यस्वप्रकाशत्वस्यैव साध्यत्वेन तस्य सामान्यतः प्रसिद्धत्वात् । न च घटादौ मद्रीत्या, त्वद्रीया रूप्यादौ व्यक्तिविशेषे तस्य सिद्धत्वेनासाधारण्यमिति वाच्यम् । किञ्चित्प्रत्यपि फलाव्याप्यत्वरूपावेद्यत्वस्यैव साध्यत्वात् मन्मते घटादौ तदभावात् । धर्मादेश्च योगिनं प्रति फलव्याप्यत्वेन फलाव्याप्यत्वाभावात् । शुक्तिरूप्यादे-रप्यविद्यावृत्तिप्रति फलितचिद्वेद्यत्वेन फलव्याप्यतया फलाव्याप्यत्वाभावात् ।

नन्वविद्यावृत्तिप्रतिबिम्बितचैतन्यस्य कथं फलत्वम् । अधिष्ठानचैतन्यस्यैव फलत्वादिति चेन्न । फलं नाम साध्यं कार्यमिति यावत् । यथोक्तं तर्कभाषायां प्रमैव फलं साध्यमित्यर्थ इति । एवं च वृत्तिप्रतिबिम्बितचैतन्यस्यापि जन्यत्वेन साध्यत्वात्फलत्वेन रूप्यादौ तद्व्याप्यत्वसद्भावान्नासाधारण्य-मित्याशङ्क्य निराकरोति– न चेति ।। ननु स्वप्रकाशत्वानुमाने फलाव्याप्यत्वरूपविशेषणसिद्धावपि न विशिष्टस्वप्रकाशत्वसिद्धिरित्यत आह– अवेद्यत्वेति ।। विशेष्यभागानन्तर्भावेनैव स्वप्रकाशत्व-लक्षणकरणान्नासिद्धिरिति भावः ।। उक्तन्यायेनेति ।। ब्रह्मणोऽपि स्वाकारवृत्तिप्रतिबिम्बितचिद्रूपफल-व्याप्यत्वेन तदभावरूपस्वप्रकाशत्वसाधने बाधादित्यर्थः । तृतीयपक्षे धर्मत्वानुमाने चिद्विषयत्व-रूपवेद्यत्वस्य पक्षत्वे पूर्वत्र चिदविषयत्वरूपावेद्यत्वाख्यस्वप्रकाशत्वं साध्यं स्यात् । तत्र पृच्छामः किं वृत्तिप्रतिफलितचिदविषयत्वं विवक्षितम् उत शुद्धचिदविषयत्वं वा । आद्ये बाध इत्याह– उक्तरीत्येति ।। स्वाकारवृत्तिप्रतिफलितेत्यर्थः । न द्वितीयः । घटादावसाधारण्यादित्याह– शुद्धेति ।। प्रतियोगीति ।। धर्मत्वानुमानेऽस्वप्रकाश त्वस्य पक्षत्वे स्वप्रकाशत्वरूपप्रतियोगिन एवाप्रसिद्ध्याऽस्वप्रकाशत्वस्यापि ज्ञातुमशक्यत्वेनाश्रयाज्ञानासिद्धेरित्यर्थः ।

किञ्च यदि स्वप्रकाशत्वरूपसाध्याभावरूपम् अस्वप्रकाशत्वं पक्षीकृत्य पूर्वानुमानसाध्यस्य स्वप्रकाशत्वस्य प्रसिद्धिरुच्यते तर्ह्यप्रसिद्धविशेषणमात्रोच्छेदरूपातिप्रसङ्गः स्यात् । ‘भूः शशविषाणो-ल्लिखिता भूत्वात्’ इत्यत्रापि ‘अशशविषाणोल्लिखितत्वं किञ्चिन्निष्ठात्यन्ताभावप्रतियोगि धर्मत्वात्’ इत्येवं पूर्वानुमानसाध्याभावं पक्षीकृत्य साधयितुं शक्यत्वेन शशविषाणोल्लिखितत्वप्रसिद्धेरपि सामान्यतो वक्तुं शक्यत्वादित्याह– सर्वत्रेति ।। अनिर्वाच्यत्वभङ्ग इति ।। शब्दप्रतिपाद्यत्वरूपे धर्मे केवला-न्वयिनि किञ्चिन्निष्ठात्यन्ताभावप्रतियोगित्वरूपसाध्याभावाद्व्यभिचारः । न चात्माश्रयप्रसङ्गेन स्ववृत्तित्वाभावेन साध्यसद्भावान्न व्यभिचार इति वाच्यम् । मिथ्यात्वदृश्यत्वादिवच्छब्दप्रतिपाद्यत्वादेरप्य नन्यथासिद्धधीबलेन स्ववृत्तित्वस्यानिर्वाच्यत्वभङ्गे उक्तत्वादित्यर्थः । अत्यन्ताभावप्रतियोगित्वरूपे धर्मे व्यभिचारं चाह– किञ्चेति ।। तत्रेति ।। तर्ह्यत्यन्ताभावप्रतियोगित्वस्य केवलान्वयित्व-प्राप्त्याऽत्यन्ताभावप्रतियोगित्वरूप धर्मे साध्याभावेन धर्मत्वहेतोस्तत्रैव व्यभिचार इत्यर्थः ।। यत इति ।। यस्मिन्धर्मेऽत्यन्ताभावप्रतियोगित्वं नास्ति तस्यैव केवलान्वयित्वप्राप्त्याऽत्यन्ताभाव-प्रतियोगित्वरूप एव धर्मे साध्याभावेन धर्मत्वहेतोस्तत्रैव व्यभिचार इत्यर्थः ।। धर्म(धर्मिणीति) इति ।।

ननु यतोऽत्यन्ताभावप्रतियोगित्वं व्यावर्तते तस्य दैवाद् धर्मित्वे, तत्र धर्मित्वे धर्मत्वहेतोर्न व्यभिचार इति चेन्न । धर्मधर्मिभावस्य कामगामित्वेन धर्मिणोऽपि धर्मत्वादिति भावः । स्वप्रकाशत्वानुमानेऽर्थान्तरं चाह– अपि चेति ।। ब्रह्मणो वेद्यत्वात्यन्ताभावरूपस्वप्रकाशत्व-साधनेऽर्थान्तरता । तथा हि त्वन्मते व्यवहारिकं वेद्यत्वं ब्रह्मणि तावदस्ति । तादृशं च वेद्यत्वम् अवेद्यत्वरूपस्वप्रकाशत्वविरोधितया घटादौ दृष्टम् । तथाविधवेद्यत्वस्य ब्रह्मणि सत्त्वेऽपि पुनस्तत्र वेद्यत्वात्यन्ताभावरूपस्वप्रकाशत्वसाधने तस्य पारिभाषिकत्वप्राप्त्या तस्याऽस्माकमपीष्टत्वेना र्थान्तरतेत्यर्थः ।। धर्मीति ।। ब्रह्मणि च वेद्यत्वस्य सत्वेऽपि तस्य व्यावहारिकतया धर्मि-समसत्ताकत्वाभावान्न तस्य स्वप्रकाशत्वविरोधित्वम् । घटादौ धर्मिसमसत्ताकवेद्यत्वस्यैव स्वप्रकाशत्व-विरोधितया दृष्टत्वात् । अतो नार्थान्तरमित्यर्थः ।। तन्निरासेति ।। ब्रह्मणि वृत्तिव्याप्यत्वफल-व्याप्यत्वयोः सद्भावे तयोरवेद्यत्वरूपस्वप्रकाशत्वविरोधात्तन्निरासः क्रियते । स न स्यात् । तत्रापि पटादाविव धर्मिसमसत्ताकवृत्तिव्याप्यत्वादेरेव स्वप्रकाशत्वविरोधित्वाद् ब्रह्मणि च व्यावहारिकतया धर्मिसमसत्ताकवृत्तिव्याप्यत्वादेरभावेन स्वप्रकाशत्वोपपत्तेस्तन्निरासस्य व्यर्थत्वादित्यर्थः । ततश्च धर्मिसमसत्ताकत्वविशेषणमदत्वा व्यावहारिकस्यापि वृत्तिव्याप्यत्वादेः स्वप्रकाशत्वविरोधित्वं वक्तव्यम् । तथा च प्रकृतेऽपि व्यावहारिकस्य वेद्यत्वस्यापि स्वप्रकाशत्वविरोधित्वात्तत्सत्त्वेऽपि तदत्यन्ताभाव-रूपस्वप्रकाशत्वसाधने तस्य पारिभाषिकत्वापत्त्याऽर्थान्तरतेति भावः ।

सामान्यतोऽवेद्यत्वरूपस्वप्रकाशत्वप्रसिद्धिसाधकानुमानमाशङ्क्य निराकरोति– अत एवेति ।। अयं घट इति ।। अत्र सत्यन्तं वेद्यत्वविशेषणम् । तथा चैतद्धटान्यत्वविशिष्टवेद्यत्वेत्यर्थः । अत्र पटो दृष्टान्तः । एवं सति वेद्यत्वाधिकरणस्यापि पक्षीभूतघटस्य एतद्धटान्यत्वविशिष्टवेद्यत्वानधिकरणत्वेन तदन्यत्वमादाय दृष्टान्ते पटे साध्यप्रसिद्धिः । पक्षे तु नैवं साध्यपर्यवसान्म् । एतद्धटान्यत्वविशिष्ट-वेद्यत्वानधिकरणं पक्षीभूतो घट एव । तत्र तदन्य त्वस्य बाधात् । अत एतद्धटान्यत्वविशिष्ट-वेद्यत्वानधिकरणं किञ्चिदस्ति । तदन्यत्वमादाय पक्षे साध्यपर्यवसानम् । एवं च यदेतद्धटान्यत्वविशिष्टं वेद्यत्वानधिकरणं किञ्चित् तदेवावेद्यरूपस्वप्रकाशमायास्यतीति द्रष्टव्यम् । अत्र वेद्यत्वा नधिकरणान्य इत्येव कृते वेद्यत्वाधिकरणत्वस्य केवलान्वयित्वेन वेद्यत्वानधिकरणत्वस्याप्रसिद्धत्वेन तदन्यत्वरूप साध्यम् अप्रसिद्धमित्यतः सत्यन्तम् । तथा चैतद्धटान्यत्वविशिष्टवेद्यत्वानधिकरणं च पक्षीभूतो घट एव प्रसिद्धः । तदन्यत्वरूपसाध्यमपि पटे प्रसिद्धमिति भावः ।। महाविद्ययेति ।।

नन्वस्यानुमानस्य महाविद्यासाधकत्वाभावान्महाविद्यया साध्यप्रसिद्धिरित्येतदसम्बद्धमिति चेन्न । महाविद्या साधकानुमानसदृशानुमानेनेत्यर्थः । विशिष्टव्यतिरेक्यनुमानेनेति यावत् । मायिमते महाविद्येति विशिष्टव्यतिरेकिणः सङ्केत इत्यप्याहुः । क्वचित्तु इत्यादिना साध्यप्रसिद्धिरित्येव पाठः । अत एवेत्युक्तं विशदयति– वेद्यत्वेति ।। एतद्धटत्वे सतीति ।। एतद्धटत्वविशिष्टेत्यर्थः । अत्रापि पटो दृष्टान्तः । एतद्विशेषणाभावेऽप्रसिद्धिः । वेद्यत्वस्य केवला न्वयित्वेन तदनधिकरणत्वस्यैवाप्रसिद्ध्या तद्धटित-साध्यस्याप्रसिद्धत्वात् । तथा पटे व्यभिचारश्च स्यात् । तत्र पदार्थ त्वसद्भावेऽपि तस्य वेद्यत्वेन वेद्यत्वानधिकरणान्यत्वघटिततया तत्वानधिकरणत्वरूपसाध्याभावात् । अत एतद्धटत्वे सतीत्युक्तम् । एवं चैतद्धटत्वविशिष्टवेद्यत्वानधिकरणं पट एवेति न साध्याप्रसिद्धिः न वा व्यभिचारः । एतद्धटत्वविशिष्ट वेद्यत्वानधिकरणे पटे तदन्यत्वाभावेन तदन्यत्वानधिकरणत्वरूपसाध्यस्यापि सत्वात् । अतो न व्यभिचारः ।। प्रकरणसमेति ।। वेद्यत्वानधिकरणान्यत्वरूपसाध्याभावस्यापि तेनैव हेतुना साधयितुं शक्यत्वादित्यर्थः ।

अत्र केचित् पूर्वानुमानसाध्याभावस्यैवात्र साधनीयत्वेन तदर्थं एतद्धटान्यत्वे सतीति पाठं वदन्ति । तन्न । तथात्वे पुनः पट एव व्यभिचारापत्तेः । उक्तरीत्या एतद्धटान्यत्वविशिष्टवेद्यत्वानधिकरणं पक्षीभूतो घट एव । तदन्य त्वस्यैव पटे सद्भावेन तदन्यत्वानधिकरणत्वाभावादित्यवधेयम् । स्वरूपा-सिद्धत्वमेव दर्शयति– अखण्डेति ।। अनुभूतिरूपशुद्धब्रह्मव्यक्तेरेकत्वेन तत्रानुभूतित्वस्याजातित्वात् । न चात्रापि घटाद्यवच्छिन्नचैतन्यरूपज्ञानान्यनेकानि सन्तीति वाच्यम् । जातेर्धर्मिसमसत्ताकभेद-वद्व्यक्तिसापेक्षत्वनियमात् । अन्यथा आकाशत्वस्यापि जातित्वापत्तेः । औपाधिकाकाशरूपव्यक्तीनां बहूनां तत्रापि सत्वात् । अतो धर्मिसमसत्ताक एव व्यक्तिभेदो वाच्यः । तथा चाकाशत्वं न जातिः । औपाधिकाकाशानां धर्मिभूतस्वाभाविकाकाशसमसत्ताकव्यक्तिभेदवत्त्वाभावात् । एवं प्रकृतेऽप्यवच्छिन्न चैतन्यव्यक्तिभेदस्यौपाधिकत्वेनानुभूतित्वजातिधर्मिभूतशुद्धब्रह्मसमसत्ताकत्वाभावात् । अतो नाऽनुभूतित्वं जातिः । एवं च जातित्वेन त्वदभिमतस्यानुभूतित्वहेतोः पक्षीभूतेऽनुभूतिशब्दाभिधेये शुद्धब्रह्मण्य-भावात्स्वरूपासिद्धिरिति भावः ।

अनुभाव्यादीति ।। विषयाद्यभावादित्यर्थः । आत्मरूपज्ञानस्य विषयाद्यभावाज्ज्ञानत्वमेव नास्ति । घटवदित्यर्थः ।। विपक्षादव्यावृत्तमिति ।। अनैकान्तिकमित्यर्थः । तस्य अनुभूतित्वहेतोः । अनात्मनि वृत्तिरूपज्ञाने ।। तत्रैवेति ।। पक्षबहिर्भूते परोक्षानुभव इत्यर्थः । ननु न व्यभिचारः परोक्षज्ञानभिन्नत्वे सतीति विशेषणात् । यद्वा अनुभूतित्वादित्यस्य चिद्रूपानुभवत्वादित्यर्थस्य विवक्षितत्वादित्यत आह– तन्निरासार्थमिति ।। आद्ये परोक्षज्ञाने विद्यमानमनुभूतित्वं यथा तत्र न स्वप्रकाशत्वं साधयति एवं पक्षेऽपि न साधयेत् । द्वितीये तु हेतुरस्तु साध्यं मास्त्वित्य-प्रयोजकतेत्यर्थः । प्रत्यक्षश्रुतिभ्यां बाधं चाह– अपि चेति ।। दुःखादिवदित्यादिवतित्रयं च्छलार्थं । दुःखादेरिव स्मृतेरिव परोक्षानुभवस्येव च आत्मनोऽपीत्यन्वयः । प्रत्यक्षानुव्यवसायाकारप्रदर्शनम् ।। अपरोक्षेत्यादि ।।

ननु न प्रत्यक्षबाधः । अपरोक्षानुभवं जानामीति प्रत्यक्षेणापरोक्षानुभवस्यापरोक्षवृत्तिवेद्यत्वमेव विषयीक्रियते न तु ज्ञानविषयत्वम् । वृत्तेरज्ञानत्वात् । अथवा व्यवहारविषयत्वमात्रमेव प्रतीयते न ज्ञानवेद्यत्वम् । अतो नावेद्यत्व रूपस्वप्रकाशत्वसाधने तद्बाध इत्याशङ्क्य निराकरोति– न चात्रेति ।। ज्ञप्तीति ।। ज्ञाधातोर्ज्ञप्त्यर्थत्वादिति भावः । दृष्टान्तग्रहणाभिप्रायमाह– दुःखमिति ।। यदि जानामीत्यत्रापरोक्षानुभवस्यापरोक्षवृत्तिवेद्यत्वम् अपरोक्षव्यवहार विषयत्वं वा प्रतीयत इत्यङ्गीक्रियते तर्हि दुःखं जानामीत्यत्रापरोक्षवृत्तिविषयत्वम् अपरोक्षव्यवहारविषयत्वं वा दुःखादेः प्रतीयते न तु साक्ष्यनुभवविषयत्वमित्यपि स्यादित्यर्थः । न चेष्टापत्तिः । वृत्तिविलम्बे कदाचिद्दुःखज्ञानविलम्बा पातादिति भावः । अनुभूतेरनुभवावेद्यत्वरूपस्वप्रकाशत्वसाधकानुमानम् अनुभववेद्यत्वरूपास्वप्रकाशत्व-साधकानुमानेन सत्प्रतिपक्षितमित्याह – अनुभूतिरिति ।। स्फुरणम् अपरोक्षानुभवः ।। व्यवहार-योग्येति ।। व्यवहारजननयोग्येत्यर्थः । क्वचित्तथैव पाठः । पूर्वानुमानयोः कदाचिदपरोक्षानुभव-विषयत्वस्यापि साध्यार्थत्वोपपत्तेः तृतीयानुमानम् । अत्र नञ्द्वयेन सदा तद्विषयत्वं लभ्यत इति ध्येयम् । अनुमानद्वयेऽप्यपरोक्षव्यवहारयोग्येति विशेषणं स्वरूपकथनम् । न चान्त्यानुमाने साध्यावैशिष्ट्यम् । अपरोक्षव्यवहारजननयोग्यत्वविशिष्टस्य साध्यत्वादिति ज्ञेयम् ।

ननु नाप्रयोजकता अनुकूलतर्क सद्भावात् । तथा हि– अवेद्यत्वरूपस्वप्रकाशत्वानङ्गीकारेऽनु-भूतिरूपस्यात्मनो वेद्यत्वमुक्तं स्यात् । तत्र परवेद्यत्वमभिप्रेतं स्ववेद्यत्वं वा नाद्य इत्याह– नन्वनुभूतिरूपस्येति ।। अनवस्थेति ।। अनुभवावेदकस्य परस्यानुभवस्यापि पुनरन्येन वेद्यत्वेऽनवस्था स्यादित्यर्थः । दूषणान्तरं चाह– परेति ।। आत्मनि विषये । आदिपदेन विपर्ययः ।। स्यादिति ।। अनुभूतिरूपात्मनिश्चायकानुभवाभावादिति भावः । इष्टापत्तिपरिहारायाह– न चेति ।। न हीत्यर्थः । न द्वितीयः । क्रियायाः कर्तृत्वविरोधादित्याह– स्ववेद्यत्वं त्विति ।। तत्राद्यपक्षं तावदङ्गीकुर्मः । न चानवस्था । बुभुत्साभावेन कस्यचिदनुभवस्य स्ववेद्यत्वाङ्गीकारेण वा तत्परिहारसम्भवात् । यदत्रोक्तं पराभावदशायामात्मनि संशयादिः स्यादिति, तत्रेष्टापत्तिः । नन्वहमनहं वेति संशयादिरात्मनि न दृष्ट इति चेत्तत्राह– त्वन्मत इति ।। तथा चात्मनि संशयाद्य-भावोपपादनायास्योदाहरणमयुक्तमिति भावः । अहमर्थात्मनि तु संशयादिकमस्त्येवेत्याह– तदिति ।। शब्देति ।। उपदेशाद्यभावदशायां सन्देहोऽस्त्येवेत्यर्थः । तथा च यत्र सन्देहादिकं नास्ति स अहमर्थस्त्वन्मते आत्मभिन्न एव । यत्र त्वात्मनि सन्देहः स न त्वन्मते । अत इष्टापत्तिरित्यर्थः।

एवं प्रौढवादेनोक्त्वा द्वितीयपक्षमङ्गीकृत्याह– किञ्चेति ।। स्वस्य अनुभूतिरूपसाक्षात्कारस्य । तथा च साक्षात्कारे विषयस्य कारणत्वादात्मसाक्षात्कारस्य स्वविषयकत्वे स्वस्य स्वजन्यत्व-प्राप्त्याऽऽत्माश्रयेणासम्भवादित्यर्थः ।। स्वजनकेति ।। साक्षात्कारजनकेत्यर्थः । स्वस्य स्वविषयकत्वे स्वस्य स्वजनकेन्द्रियसन्निकर्षार्थं स्वस्य स्वापेक्षया पूर्ववृत्तित्वं वाच्यम् । तच्चात्माश्रयेणायुक्तमित्यर्थः ।। विषयेति ।। विषयविषयिभावस्य सम्बन्धस्य संयोगादिवद्द्विष्ठत्वात् । आत्मनः स्वविषयकत्वे विषयविषयिभावरूपद्विष्ठसम्बन्धाभावादित्यर्थः । ज्ञेयत्वे स्ववेद्यत्वे ।। विरुद्धस्येति ।। क्रियात्वकर्मत्वयोः सहानवस्थितत्वेन विरुद्धत्वं द्रष्टव्यम् । विषयिणः विषयीकर्तुर्ज्ञानस्य । विषयत्वे स्ववेद्यत्वे ।। तस्य चेति ।। परसमवेतक्रियाजन्यफलशालित्वरूपस्य कर्मत्वस्य कर्तृत्वस्य चैकस्मिन् ज्ञानेऽसम्भवादित्यर्थः ।। अन्यत्वेति ।। परशब्दस्य स्वभिन्नार्थकत्वात्तस्य चात्माश्रयप्रसङ्गेन कर्त्रन्यत्वे तात्पर्यादित्यर्थः ।

आत्मस्वरूपज्ञानस्य चैतन्यरूपज्ञानस्य ।। ईश्वरज्ञानवदिति ।। तार्किकरीत्या ज्ञाननित्यत्वे सम्भावना योक्तम्  ।। नित्यत्वेनेति ।। तथा च विषयजन्यत्वस्य स्वजनकसन्निकर्षापेक्षायाश्च भावादित्यर्थः ।। अन्यथेति ।। नित्यत्वेनाविरोधम् अनङ्गीकृत्य साक्षात्कारस्य विषयजन्यत्वादिना स्वविषयकत्वनिराकरणे साक्षात्कारस्य स्वविषयक त्वाभावेऽपि व्यवहारहेतुत्वमङ्गीकृतं तदपि न स्यात् । व्यवहारहेतुसाक्षात्कारस्यापि व्यवहारविषयजन्यत्वनियमेन स्वव्यवहारहेतुसाक्षात्कारस्यापि स्वव्यवहारविषयजन्यत्वावश्यम्भावेन स्वजन्यत्वं वक्तव्यम् । तच्चात्माश्रयेण विरुद्धमित्यादि दोषः सम इत्यर्थः ।। अतीतेत्यादि ।। अतीतादित्रयविषयकज्ञानादेरित्यर्थः । स्वमते आरोपितस्यात्यन्ता सत्वेऽपि पररीत्या पृथगुक्तिः ।। उभयेति ।। ज्ञानकालेऽतीतादिरूपविषयाभावेऽपि स्थितस्य विषयविषयिभावस्य द्विष्ठत्वा सम्भवादित्यर्थः । क्रियात्वकर्मत्वयोः समावेशसद्भावान्न विरोध इत्याह– कृतीति ।। यथा पुण्यसाधनीभूत काशीनिवासरूपो यत्नविशेषो गमनादिप्रयत्नसाध्य इत्येवं कृतिविशेषस्यापि कार्यत्वं कृतिविषयत्वरूपकर्मत्वमस्ति तद्वदित्यर्थः ।

इच्छेति ।। अस्माकं धर्ममार्ग एवेच्छा भूयादितीच्छाविशेषस्यापीच्छाविषयत्वरूपेष्टत्ववदित्यर्थः । व्यवहृतेः व्यवहारस्य । व्यवहार्यत्ववद् व्यवहृतिशब्देनेति शेषः । अभिधायाः वाचकत्वरूपशक्तेः ।। स्वेति ।। अभिधाशब्देनेत्यर्थः । वाचकस्यापि वाच्यत्ववदिति यावत् ।। व्याप्तिज्ञानस्येति ।। तस्यापि दृश्यत्वेन स्वविषयकत्वात् । अन्यथा सर्वोपसंहारवती व्याप्तिर्न सिद्ध्येदित्यर्थः ।। मिथ्यात्वेति ।। अन्यथाऽनुमितिमिथ्यात्वालाभेन ब्रह्मातिरिक्तसर्वमिथ्यात्वं न सिद्ध्येदिति भावः ।। उपपत्तेरिति ।। एकक्रियाया अपि कर्मत्वोपपत्तेर्विरोधासिद्धिरिति भावः ।। अज्ञस्यैवेति ।। अज्ञानं विषयीकर्तुरित्यर्थः । अज्ञेयत्वस्य अज्ञानकर्मत्वस्य । ‘आश्रयत्वविषयत्वभागिनी’ इति वचनादिति भावः । विषयिण्याः मिथ्यात्वं विषयीकुर्वन्त्याः  ।। शब्दशब्दस्येति ।। शब्द इति शब्दस्येत्यर्थः । ननु कर्तुरेव कर्मत्वे कर्त्रन्यत्वगर्भितकर्मलक्षणविरोध इत्यत आह– परेति ।। तर्हि किं कर्मलक्षणमित्यत आह– क्रियेति ।। कर्तुरपि ज्ञानरूपक्रियाविषयत्वसम्भवेनेदं कर्तुः कर्मत्वोक्त्यविरोधीति ध्येयम् । न चासनादिक्रियाविषये आधारेऽपि कर्मत्वप्रसङ्ग इति वाच्यम् । आधारस्याविषयत्वात् । अन्यथा स्थाल्यादेरपि पाकविषयत्वापातादिति द्रष्टव्यम् ।

यदुक्तं क्रियात्वकर्मत्वयोरविरोधोपपादनाय कृतिविशेषस्य कार्यत्ववदित्यादि, तत्र शङ्कते– नन्विति ।। कृत्याद्यन्तरमिति ।। स्वभिन्नकृतीच्छाविषय इत्यर्थः । एवं च क्रियात्वकर्मत्वयोरेकत्रैव समावेशे नेदमुदाहरणमिति भावः । परमुखेनैवोत्तरं वाचयितुं प्रतिबन्दीं गृह्णाति– गत्यादाविति ।। गत्या-द्यन्तरेति ।। स्वभिन्नगत्याद्यन्तरेत्यर्थः । यदुक्तं कृत्यादिः कृत्याद्यन्तरं प्रत्येव विषय इति, तन्न युक्तम् । लोके गत्यादिक्रियायाः स्वविषयत्वादर्शनात् । स्वभिन्नस्वसजातीयगत्याद्यन्तरविषयत्वस्याप्य-दर्शनात् । कृत्यादेस्त्वयोच्यमानं स्वभिन्नकृत्याद्यन्तरविषयत्वमपि न स्यादित्यर्थः । तत्रोत्तरमाशङ्कते– यदि चेति ।। विचित्रेति ।। न हि सर्वैर्भावैरेकविधैर्भाव्यमिति नियमोऽस्तीत्यर्थः ।। सजातीयेति ।। कृत्याद्यन्तरेत्यर्थः । अनुभूतेः अनुभूतिरूपक्रियायाः । स्वविषयत्वं स्वकर्मकत्वम् । अन्यथा स्वविषयकत्वाभावे । व्यवहारजनकत्वं त्वदङ्गीकृतमित्यर्थः ।। इत्युक्तमिति ।। तद्व्यवहार-जनकत्वमस्तीति चेन्न । तत्र स्वविषयकत्वस्यैवाभावात् । कुत इति चेत्तत्राह– व्याप्तिज्ञानेति ।। नन्वेतदयुक्तम् । यथा हि मन्मते चितश्चिदविषयत्वेऽपि न तत्सिद्ध्यभावः वृत्तिव्याप्यत्वमात्रेण तदुपपत्तेः ।

एवं व्याप्तिज्ञानादेः स्वविषयकत्वाभावेऽपि सर्वोपसंहारवती व्याप्तिरुपायान्तरेण सिद्धा भविष्यतीति चेत्तत्राह– न हीति ।। एवं व्याप्तिज्ञानादेः चिद्वत् स्वस्मिन्व्यवहारहेतुत्वमात्रमेवाङ्गीक्रियते न स्वविषयकत्वमित्याशङ्क्य निषेधति– न चेति ।। तदविषयकस्यापि तद्व्यवहारहेतुत्वेऽतिप्रसङ्गमाह– घटादीति ।। तस्मिन्घटे । तद्धेतुत्वं व्यवहारहेतुत्वम् । तद्विषयकत्वं घटविषयकत्वम् । तथा च घटाविषयकस्यैव घटज्ञानस्य घटव्यवहारहेतुत्वमस्त्वित्यतिप्रसङ्ग इत्यर्थः । किञ्च यद्दृश्यं तन्मिथ्येति व्याप्तिज्ञानस्य दृश्यत्वरूपव्याप्यतावच्छेदकावच्छिन्न विषयकत्वाद् व्याप्तिज्ञानस्यापि दृश्यत्वावच्छिन्न-स्वविषयकत्वमेवान्यथा व्याप्तिज्ञाने दृश्यत्वाभावेऽप्रामाणिकत्वापत्त्या तदसिद्धिप्रसङ्गात् । एवं मिथ्यात्वानुमितेरपि व्यापकतावच्छेदकाव च्छिन्नविषयकत्वादनुमितेरपि मिथ्यात्वरूपव्यापकताव च्छेदकावच्छिन्नत्वात्स्वविषयकत्वमेव । अन्यथा अनुमितेः स्वस्मिन्मिथ्यात्वविषयकत्वाभावे ब्रह्म-व्यतिरिक्तसर्वमिथ्यात्व साधकत्वं न स्यादित्याह– व्याप्तिज्ञानादेरपीति ।। यद्दृश्यं तन्मिथ्येति ज्ञानस्य स्वविषयत्वेऽनुभवं च साधकमाह– घट इति ।। अनुभवात् अनुव्यवसायात् । सङ्गृह्णाति– एवं चेति ।। मामहं जानामीति प्रत्यक्षेण तथा ‘तदात्मानमेवावेत्’ इति श्रुत्येति सम्बन्धः ।

ननु ज्ञप्तिरूपक्रियायां कर्तुरेव कर्मत्वाङ्गीकारे गमनादिक्रियायामपि कर्तुरेव कर्मता स्यादित्यतो ज्ञप्तिक्रियावैषम्यमाह– गमनादौ त्विति ।। अन्यथा कर्तुः कर्मत्वानङ्गीकारे ।। शब्देति ।। शब्दः इममर्थमभिधत्त इत्यभिधानरूपक्रियाकर्तुरेव शब्दशब्दस्य स्ववाच्यत्वदर्शनेन कर्मत्वं दृष्टं तन्न स्यादित्यर्थः । तामेवाह– अवेद्यत्व इति ।। ब्रह्मण इति शेषः । यद्यवेद्यत्वरूपं स्वप्रकाशत्वमङ्गीक्रियते तर्हि तत्र पृच्छामः, ब्रह्म अवेद्यत्वसाधकप्रमाणवेद्यं न वा । आद्ये ब्रह्मणोऽवेद्यत्ववचनं व्याहतम् । द्वितीये ब्रह्मणोऽवेद्यत्वसाधकप्रमाणवेद्यत्वाभावे तस्यावेद्यत्वासिद्ध्याऽवेद्यत्ववचनं व्याहतमित्यर्थः ।। प्रामाण्येति ।। ब्रह्मणोऽवेद्यत्वे वेदान्तानां ब्रह्मप्रमाजनकत्वरूपं प्रामाण्यं न स्यादित्यर्थः । किञ्च ब्रह्मणोऽवेद्यत्वे ब्रह्मविचारविधिवैयर्थ्यं स्यात् । ब्रह्माज्ञाननिवृत्तिश्च न स्यादित्याह– ब्रह्मविचारेत्या-दिना ।। ननु ब्रह्मणोऽवेद्यत्वे वेदान्तानां ब्रह्मणि प्रामाण्यायोग इत्युक्तमयुक्तम् । तत्प्रमाजनकत्वेन तत्प्रामाण्याभावेऽपि तदज्ञाननिवर्तकत्वमात्रेण प्रामाण्यमुपपद्यत इत्येतदेतेनैव निरस्तम् । तद्विषय-कत्वाभावे तदज्ञाननिवर्तकत्वायोगात् । अतद्विषयकज्ञानेन तदज्ञाननिवृत्तौ घटज्ञानेनापि निवर्तेतेत्यति-प्रसङ्गस्योक्तत्वादित्याशयेनाह– एतेनेति ।। आत्मनोऽवेद्यत्वे तदसिद्धिरेव स्यादित्याह– आत्मन इति ।।

ननु स्वतः सिद्ध इत्यस्य स्वेनैव ज्ञात इत्यर्थत्वे हि स्वविषयत्वमापाद्येत किन्तु स्वविषयकत्वा-भावेऽपि स्वजन्यव्यवहारयोग्यत्वाङ्गीकारात् स्वतः सिद्ध इत्यस्य स्वजन्यव्यवहारयोग्य इत्येवार्थो विवक्षित इति न स्वविषयत्वापात इत्याशङ्क्य निषेधति– न चेति ।। व्यवहारेति ।। स्वजन्यव्यवहारेत्यर्थः ।। ज्ञातत्वातिरेकेणेति ।। ज्ञातत्व व्यतिरेकेणेत्यर्थः  । । यथा हि वह्निव्यतिरेकेण धूमो नास्तीत्युक्ते धूमस्थितिप्रयोजकत्वं वह्नेर्लभ्यते । एवं ज्ञातत्वव्यतिरेकेण व्यवहारयोग्यत्वं नास्तीति व्यवहार-योग्यतास्थितौ ज्ञातत्वस्य प्रयोजकत्वेन तदभावे व्यवहारयोग्यत्वमेव न स्यादित्यर्थ इति सम्प्रदायः । तथा च ज्ञातत्वातिरेकेण व्यवहारयोग्यत्वाभावादित्यनेन ज्ञातत्वव्यवहारयोग्यत्वयोरभेदप्रतीतिः परास्तेति ध्येयम् । किञ्च यदि स्वजन्यव्यवहारयोग्यत्वात्स्वतः सिद्धत्वं तर्हि मुक्त्यवस्थायां स्वतः सिद्धिर्न स्यात्तदा योग्यतारूपधर्माभावादित्याह– मुक्ताविति ।। अन्यथेति ।। सिद्ध्युपायभूतप्रमाणेन विनैव वस्तुसिद्धौ ।। सर्वमिति ।। वेदान्तानां ब्रह्मणि प्रामाण्यं, ब्रह्मविचारविधिर्ब्रह्माज्ञाननिवृत्तिश्चेति सर्वमित्यर्थः ।। सत्वादिति ।। चैतन्यादिरूपफलस्याप्रामाणिकत्वेन फलाव्याप्यत्वस्य घटादावपि सुवचत्वादिति भावः । वित्तेः स्ववेद्यत्वाभावे वित्तित्वं न स्यादित्युक्तम् अप्रयोजकत्वपरिहारायोप-पादयति– भुक्तेः सभोज्यत्ववदिति ।। भोज्यरूपविषयसाहित्य नियमवदित्यर्थः । अस्तु सवेद्यत्वमिति चेत्तत्राह– मुक्तौ चेति ।। तथा चात्मस्वरूपवित्तेः मुक्तौ पराभावेन तद्विषयकत्वायोगात् स्वविषयकत्वस्य चानङ्गीकाराज्ज्ञानत्वमेव न स्याद्धटवदित्यर्थः ।। उक्तं चेति ।।

‘‘ज्ञातृज्ञेयविहीनं ते ब्रह्म ज्ञानात्मकं यदि । भोक्तृभोज्यविहीनापि भवेत्तर्हि भुजिक्रिया’’ ।। इत्युक्तमित्यर्थः ।। आत्मस्वरूपवित्तेः स्ववेद्यत्वाभावे स्वव्यवहारहेतुत्वं स्वस्मिन्संशयादिविरोधित्वं च न स्यादित्युक्तमुपपादयति– वित्तेरिति ।। ननु तद्विषयत्वाभावेऽपि स्वस्मिन्व्यवहारहेतुत्वं स्वनिर्वाहकत्वादुपपद्यत इत्यन्यथासिद्धिमाशङ्क्य निराकरोति– न चेति ।। स्वनिर्वाहकत्वोक्त्यैवैकस्यां क्रियायां कर्तृत्वकर्मत्वयोः प्राप्तिरित्याह– स्वेति ।। ननु स्वनिर्वाहकत्वेन प्रसिद्धोऽध्ययनविधिस्तथात्त्वेन प्रसिद्धा दीपप्रभा वाऽध्येतव्यत्वविधानरूपम् अन्धकारनिवर्तनरूपं च स्वकार्यमन्यत्रेव स्वस्मिन्नपि करोति तथापि न स्वकर्मकत्वम् । एवमिहाप्यात्मरूपवित्तेः स्वस्मिन्व्यवहारादिकर्तृत्वेन स्वनिर्वाह-कत्वेऽपि न स्वकर्मकत्वमित्यत आह– स्वनिर्वाहकमिति ।। स्वस्मिन्निति ।। अध्ययनविधिः स्वस्याध्येतव्यत्वं विधत्ते । प्रभा च स्वस्मिन्नप्यन्धकारसम्बन्धं निवर्तयतीत्यर्थः ।

ननु स्वस्मिन्स्वकार्यकरणे न स्वविषयकत्वं तन्त्रं यथा ‘गाङ्कुटादिभ्यः’इति सूत्रे कुट आदिर्येषां कुटादिगणस्थानां तेभ्यः कुटादिभ्यः किञ्चित्कार्यं विहितम् । तत्र बहुव्रीहेः समस्यमान-पदार्थातिरिक्तान्यपदार्थमात्रविषयकत्वेन कुटादिभ्य इति बहुव्रीहेरपि कुटादिरूपान्यपदार्थमात्र-विषयकत्वमेव, न कुटविषयकत्वम् । ‘कुरूणां क्षेत्रम्’ इत्यत्र कुरूणामिव कुटस्याप्युपलक्षणमात्रत्वात् । एवं चायं बहुव्रीहिः यत्स्वकार्यं विहितमस्ति तत्स्वाविषयेऽपि कुटे कुटादाविव करोत्येव । एवमात्मरूपं ज्ञानं स्वाविषयकमपि स्वस्मिन्व्यवहारादिरूपं कार्यं करिष्यत्येवेत्याशङ्क्य तदप्येतेनैव निरस्तमित्याह– एतेनेति ।। एतेनेत्युक्तमेव विशदयति– बहुव्रीहेरिति ।। बहुव्रीहावन्यपदार्थस्तावत्समुदाय एव । तत्र च बहुव्रीहेः समुदायरूपेऽन्यपदार्थे शक्तिर्वा लक्षणा वाऽस्तु तथापि बहुव्रीहिः स्वाविषये कार्यं न करोत्येव । कुटादिभ्यः इत्यत्राप्यन्यपदार्थरूपसमुदायान्तर्गतकुटादिवत् कुटस्यापि तत्समुदाया-न्तर्गतत्वेन शक्त्या लक्षणया वा बहुव्रीहिविषयत्वमेव । समुदायेन समुदायिनां सम्बन्धादित्यर्थः । मते वा कुटादिवदन्यपदार्थभूतसमुदायान्तर्गतस्य कुटस्यापि कुटादिवच्छक्त्या लक्षणया वा बहुव्रीहिविषय-त्वेनेत्यन्वयः ।

ननु तद्गुणसंविज्ञानबहुव्रीहौ तस्यान्यपदार्थस्य ये गुणा अवयवादयस्तेषां कार्ये संविज्ञानम् आनयनादिक्रियान्वयो भवति गुणान्विना गुणिनम् आनयनाद्ययोगात् । न चेह कुटिः कुटादेर-वयवादिर्भवति । अतः कथं तस्य बहुव्रीहिविषयत्वमिति शङ्कां कैयटोदाहृतन्यायेन परिहरति– चैत्रेति ।। तद्गुणसंविज्ञानेत्यत्र गुणशब्देन नावयवादिरेव विवक्षितः अपि तूपलक्षणादिसाधारणं व्यावर्तकमात्रम् । तथा च ‘चैत्रशालास्था ब्राह्मणा आनीयन्ताम्’ इत्युक्ते चैत्रोऽपि यदि ब्राह्मणो भवति स्वशालास्थश्च तदा सोऽप्यानीयत एव । एवं कुटादीन् प्रत्युपलक्षणस्यापि कुटेः कुटादि-कार्येऽन्तर्भावः स्यादेव । समुदायेन समुदायिनं सम्बन्धादित्यर्थः । अन्यपदार्थः समुदायः । स च बहुव्रीहिसमासार्थ इत्यत्र सम्मतिमाह– उक्तं हीति ।। उद्भूतानाम् अवयवानां भेदो विशेष एव समुदायः माषादिसमुदाये तथा दशर्नात् । स च बहुव्रीहिसमासार्थ इत्यर्थः ।

न्यायकल्पलता

ननु स्वप्रकाशत्वानुमाने वृत्तिव्याप्यत्वाभाव एव साध्योऽतो नार्थान्तरमत आह– न हीति ।। तथात्वे चरमवृत्तिव्याप्य आत्मनि बाधः स्यादित्यर्थः ।। सामान्यतोऽपीति ।। वेद्यत्वं किञ्चि-न्निष्ठेत्यादिविशिष्टसाध्यप्रसिद्धेरकरणात् । ननु स्वप्रकाशत्वानुमानेन फलाव्याप्यत्वरूपविशेषणसिद्धावपि न विशिष्टस्वप्रकाशत्वसिद्धिरत आह– अवेद्यत्वेति ।। विशेष्यभागा(ना)नन्तर्भावेणैव स्वप्रकाशत्वलक्षणकरणात्तत्सिद्धिः ।। तत्रैवेति ।। अत्यन्ताभावप्रतियोगित्वे तस्यैव केवलान्वयित्वात् ।। यत इति ।। यस्मिन्धर्मेऽत्यन्ताभावप्रतियोगित्वं नास्ति तस्य केवलान्वयित्वात्तत्रैव व्यभिचारः इत्यर्थः  । नन्वत्यन्ताभावप्रतियोगित्वस्य मिथ्यात्वेन स्वाश्रयभूतात्यन्ताभावप्रतियोगिनिष्ठात्यन्ता-भावप्रतियोगितया यन्निष्ठात्यन्ताभावप्रतियोगित्वम् अत्यन्ताभावस्य तस्य न केवलान्वयित्वम् इति । मैवम् । अबाध्यात्यन्ताभावप्रतियोगित्वं मिथ्यात्वम् । बाध्यात्यन्ताभावप्रतियोगित्वस्य सत्त्वेऽपि सम्भवात् । तथा चात्यन्ताभावप्रतियोगित्वस्य यत्राबाधितोऽत्यन्ताभावोऽस्ति तदेव केवलान्वयीति तत्रैव व्यभिचारः इति भावः ।। घटादाविवेति ।। तथा च घटादिवद् ब्रह्माप्यस्वप्रकाशं स्यात् । स्वप्रकाशत्वविरोधिव्यावहारिकवेद्यत्ववत्त्वादित्यर्थः । ननु धर्मिसमसत्तं वेद्यत्वं घटादौ स्वप्रकाशत्व-विरोधि, न त्वात्मन्यनेवंविधं तद्विरोधीति स्यादेवात्मा स्वप्रकाश इत्याशङ्क्य निराकरोति – न चेति ।। धर्मिसमसत्तं फलव्याप्तत्वं घटादौ स्वप्रकाशत्वविरोधि दृष्टम् । अतो नैवंविधफलव्याप्यत्वेऽ-प्यात्मा स्वप्रकाशः स्यादेव । एवं चात्मनः फलव्याप्यत्वनिराकरणं व्यर्थम् । किञ्च ब्रह्मणोऽन्यत्र वेद्ये न वेद्यत्वात्यन्ताभावः सम्भवति । नापि ब्रह्मणि । निर्धर्मकत्वात् । अतः किञ्चिन्निष्ठात्यन्ता-भावप्रतियोगिवेद्यत्वं स्यात् । न चात्यन्ताभावप्रतियोगीत्येव साध्यम् । तथापि वेद्यत्वाभावसिद्ध्या ब्रह्मणोऽवेद्यत्वासिद्धेः । अपि चात्यन्ताभावस्य सत्त्वेऽपसिद्धान्तः । मिथ्यात्वे  तु वेद्यत्वस्यात्यन्ता-भावाप्रतियोगि त्वमेव स्यादिति ।। अयं घट इति ।। सत्यन्तं वेद्यत्वविशेषणम् । वेद्यत्वाधि-करणस्यापि घटस्यैतद्धटान्यत्वविशिष्टवेद्यत्वानधिकरणत्वात्तद(न)न्यत्वमादाय पटादौ साध्यासिद्धिः । पक्षे तु वेद्यत्वानधिकरण किञ्चिदन्यत्वमादाय । अत्र वेद्यत्वानधिकरणान्य इति कृते वेद्यत्वानधिकरणा-प्रसिद्धिः । अतः सत्यन्तम् ।। एतद्धटत्वे सतीति ।। अत्रापि सत्यन्तं वेद्यत्वविशेषणम् असिद्धि-वारणाय, पटादावव्यभिचाराय । वेद्यस्यापि पटादेर्वेद्यत्वानधि करणान्यत्वेन तदनधिकरणत्वाभावात् ।

अनुभूतिशब्देति ।। वृत्तिरूपेऽनुभवे प्रत्यक्षनुमित्यात्मके ।। जानामीति ।। न चाहमर्थस्य ज्ञप्त्याश्रयत्वायोगः । तस्य ज्ञप्त्याश्रयत्वोक्तेः ।। दुःखमिति ।। ननु ‘दुःखम् अनुभवामि’ इत्यादावपि दुःखाद्याकाराविद्यावृत्तिरेव विवक्षितेति चेन्न, वृत्तिविलम्बे दुःखज्ञानविलम्बः स्यादित्युक्तत्वात् ।। स्फुरणविषय इति ।। घटतुल्यतयेति शेषः । तेन स्फुरणप्रयुक्तव्यवहारशालित्वरूपस्य विषयत्वस्य मयाऽप्यङ्गीकारात्सिद्धसाधनमिति निरस्तम् । न च जडत्वमुपाधिः । पक्षेतरत्वात् । (ननु)आत्मरूपं ज्ञानम् आत्मविषयं न । आत्माजन्यसाक्षात्कारत्वात् । आत्मसन्निकृष्टेन्द्रियाजन्यत्वात् । सामान्यव्याप्तौ तु घटादिर्दृष्टान्तः । इत्यनुमानयोर्नित्यज्ञानभिन्नत्वमुपाधिमाह– स्वप्रकाशस्येति ।। अन्यथेति ।। तद्विषयत्वे तद्विषयजन्यत्वादेः प्रयोजकत्वे । साक्षात्कारस्य तद्व्यवहारहेतुत्वं प्रत्यपि तज्जन्यत्वादिकं प्रयोजकं स्यात् । तथा चात्मरूपसाक्षात्कारः स्वव्यवहारमपि न जनयेत् ।

कृतिविशेषस्येति ।। कृतीच्छाव्यवहृतीनां स्वभिन्नकृत्यादिकं प्रति विशेष्यत्वेऽपि कृतिविशेषादीनां स्वविषयत्व मस्ति । तथा हि–  सुखहेतुकृत्युद्देशेन देवताराधनादौ प्रवर्तमानस्य या देवताराधनगोचरा कृतिस्तस्या अपि सुख हेतुत्वेन सा स्वविषया भवति । एवं ‘सदिच्छा भूयात्’ इतीच्छाया अपि सदिच्छात्वेन यज्ञादीच्छाविषयत्ववत्स्वविषयत्वमस्ति । तथा व्यवहृतिर्व्यवहर्तव्येत्येतच्छब्द-जन्यव्यवहारस्यापि व्यवहृतित्वेन व्यवहर्तव्येत्येवंरूपव्यवहारविषयत्वम् । अभिधापि स्वविषया । ननु कृतेरसिद्धविषयत्वात्कथं स्वविषयत्वम् । सत्यम् । असिद्धं विषयीकृत्य जायमाना कृतिरेकावच्छेदका-वच्छिन्न त्वात्स्वमपि विषयीकरोतीत्युच्यते । न च कृतेः स्वविषयत्वे स्वजन्यतापत्तिः । न हि स्वविषयत्वमेव स्वजन्यत्वम् किन्तु पूर्ववृत्तित्वादिकम् । तच्च नाङ्गीक्रियते । एतेन कृतीच्छा-व्यवहृत्यभिधाः कृत्याद्यन्तरं प्रत्येव विषयाः न तु स्वात्मानं प्रतीति न स्वविषयत्वे किञ्चिदुदाहरण-मस्तीति केनचिदुक्तं प्रत्युक्तम् । कृत्यादौ स्वजातीयविजातीयविषयत्वमित्याद्यग्रिमग्रन्थस्तु कृति-सामान्यपरः । तुष्यतु दुर्जन इति न्यायेन वेति बोध्यम् ।

क्रियाविषयत्वेति ।। न चासनादिक्रियाविषय आधारे कर्मत्वप्रसङ्गः । आधारस्याविषयत्वात् । अन्यथा स्थाल्यादेः पाकविषयत्वापातात् । अतः क्रियाविशेषविषयत्वं कर्मत्वम् । सकर्मकाकर्मक-क्रियाभेदस्य स्थितत्वात् ।। स्वस्मिन् स्वव्यवहारेति ।। ननु स्वव्यवहारोपपादनार्थं स्वविषयत्व-स्वभावकल्पनापेक्षया स्व•)विषयत्वेऽपि स्वव्यवहारजनकस्वभावत्वमेव कल्प्यतामिति चेत्, न । घटादौ व्यवहारं प्रति प्रयोजकानां ज्ञानतद्भेदतद्विषयत्वानां कप्तानां मध्ये आत्मनि प्रमाणबलाद्भेद-त्यागेऽपि तद्विषयत्वस्यापि त्यागायोगात् । अन्यथा ज्ञानस्यापि त्यागापत्तेः । तदिदमुक्तं प्राक् ‘स्फुरणे स्फुरणान्तरं नापेक्षितम् । न तु कप्तं तद्विषयत्वम्’ इति ।। संशयादिविरोधित्वं चेति ।। न च स्वत्वेनैव संशयादिविरोधित्वम् । घटादौ स्वविषयत्वेनात्मनि तु स्वत्वेनैवेत्यननुगमात् । न च विषयत्वमप्यननुगतम् । तस्यैकत्वाद्विषयतात्वेनानुगमाच्च ।। स्वाविषयेऽपीति ।। समस्यमान-पदार्थातिरिक्तोऽन्यपदार्थो बहुव्रीहिविषयः । समस्यमानपदार्थस्तु बहुव्रीह्यविषयस्तस्मिन्नित्यर्थः । कुटेऽपि बहुव्रीहिविषयत्वमस्तीत्याह– बहुव्रीहेरिति ।। बहुव्रीहेः शक्तिर्वा लक्षणा वेति मतेऽपि कुटस्यापि कुटादिवद् बहुव्रीहिविषयत्वेनेत्याद्यन्वयः ।

ननु तद्गुणसंविज्ञानबहुव्रीहौ तस्यान्यपदार्थस्य ये गुणा अवयवादयः तेषां कार्ये संविज्ञानम् आनयनादिक्रियान्वयो भवति । गुणान् विना गुणिन आनयनाद्ययोगात् । न चेह कुटिः पुटादेरवयवादि-र्भवति । अतः कथं तस्य बहुव्रीहि विषयत्वमिति शङ्कां कैयटोदाहृतन्यायेन परिहरति– चैत्रेति ।। तद्गुणसंविज्ञानेत्यत्र गुणशब्देन नावयवादिरेव । अपि तूपलक्षणादिसाधारणं व्यावर्तकमात्रम् । तथा च यथा ‘चैत्रशालास्था ब्राह्मणा आनीयन्ताम्’ इत्युक्ते चैत्रोऽपि यदि ब्राह्मणो भवति स्वशालास्थश्च तदा सोऽप्यानीयत एव । तथा कुटादीन्प्रत्युपलक्षणस्यापि कुटे पुटादिकार्येऽन्तर्भावः स्यादेव । ननु कुटेः पुटाद्यसम्बन्धात्कथमुपलक्षणत्वमपीत्यत आह– अन्यपदार्थेति ।। समुदायेन समुदायिनां सम्बन्धादित्यर्थः । ननु समुदायस्यान्यपदार्थत्वे तस्यैकत्वादेकवचनं प्राप्नोतीत्याशङ्कां परिहरति– उक्तं हीति ।। ‘सर्वादीनि सर्वनामानि’ इत्यत्रेति शेषः । अवयवगतबहुत्वस्यावयविन्यारोपेण बहुवचनमित्यर्थः ।

Load More