नाप्यनुमानम्

३०. ऐक्यानुमानभङ्गः

न्यायामृतम्

नाप्यनुमानम् । जीवाः परमात्मनस्तत्त्वतो न भिद्यन्ते, आत्मत्वात्, परमात्मवदित्यत्र त्वात्मत्वस्य ज्ञातृत्वादिरूपत्वे तवाऽसिद्धेः । अवेद्यत्वादिरूपत्वे ममासिद्धेः । जातिरूपत्वे विरोधात् । अबाध्यत्वादिरूपत्वेऽनैकान्त्यात् । विस्तृतं जैतज्जडत्वभङ्गे । जीवाः परमात्मनो व्यवहारतोऽपि न भिद्यन्ते, आत्मत्त्वात्, परमात्मवदित्याद्याभाससाम्याच्च । विमता जीवाश्चैत्रात्तत्त्वतो न भिद्यन्ते, जीवत्वात्, चैत्रवत् । विमतं वस्तुतो ब्रह्मतो न भिन्नम्, वस्तुत्वाद् ब्रह्मवदित्यत्रापि चैत्रादयो व्यवहारतोऽपि न भिद्यन्ते, जीवत्वाच्चैत्रवदित्याभाससाम्यात् । विमतानि शरीराणि चैत्राधिष्ठितानि शरीरत्वाच्चैत्रशरीरवदित्यत्र चैत्राधिष्ठितत्वेऽप्यन्याधिष्ठितत्वसम्भवे-नैक्यासिद्धेः । चैत्रेणैवाधिष्ठितानीत्युक्तौ त्वीश्वरस्यापि चैत्र शरीराधिष्ठातृ त्वेन दृष्टान्तस्य साध्यवैकल्यात् । चैत्रस्यैव भोगायतनानीत्युक्तौ च त्वन्मते यस्य भोक्तृत्वं अन्तःकरण विशिष्टस्य, तस्य प्रतिशरीरं भेदः, यस्य चैक्यं शुद्धचैतन्यस्य तस्या-भोक्तृत्वमितिबाधात् । विमतानि शरीराणि चैत्रमनसैव युक्तानि, शरीरत्वाच्चैत्रशरीर-वदित्याद्याभाससाम्याच्च । आत्मा द्रव्यत्वातिरिक्ता परजात्या नाना न भवति, विभुत्वाद्, गगनवदित्यत्र त्वन्मते गगनस्य प्रतिकल्पं भेदेन साध्यवैकल्यात्, परिच्छिन्नत्वेन साधनवैकल्याच्च । आत्मत्वस्य परमाणुत्ववदजातित्वेन त्वात्मभेद-सिद्ध्यार्थान्तरत्वाच्च ।

विमतो भेदो, मिथ्या, एकस्यां दृशि कल्पितो वा भेदत्वाद् दृश्यत्वाच्च, चन्द्र-भेदवद् । एकस्यां दृशि क्षणिकवादिकल्पितभेदवद्वेत्यत्र तूक्तरीत्या मिथ्यात्वानिरुक्तेः । सत्यासत्यभेदानुगतभेदत्वसमान्यस्यासिद्धेश्च । चन्द्रस्य कल्पिताद् द्वितीयचन्द्राद्भेदस्य सत्यत्वेन दृष्टान्तस्य साध्यवैकल्याच्च । मुक्तेः संसाराद् ब्रह्मणोऽनृतादात्मनो देहाद्भेदे च व्यभिचाराच्च । अभेदो मिथ्या, अभेदत्वाद्, देहात्माभेदवदित्याभाससाम्याच्च । दृश्यत्वादेर्निरस्तत्वाच्च । विमता भेदप्रतीतिः, भ्रान्तिः, भेदप्रतीतित्वात्, चन्द्रभेद-प्रतीतिवदित्यत्र ब्रह्मणोऽनृताद्भेदप्रतीतौ व्यभिचाराद् आभाससाम्याच्च ।

विमतं तत्त्वतः स्वान्तर्भेदहीनं महत्त्वतः ।

यदित्थं तत्तथा यद्वत्खं तथेदं ततस्तथा ।।

इत्यत्र त्वन्मते गगनस्य सावयवत्वात् संयोगित्वेन सांशत्वस्य सुसाधत्वाच्च, साध्यवैकल्यात् । संवित् स्वान्तर्गणिकस्वाभाविकभेदहीना, उपाधिभेदमन्तरेणाविभाव्य-मानभेदत्वाद्, गगनवदित्यत्र साध्य वैकल्यात् । इच्छादेरपि घटेच्छा पटेच्छेत्युपाधि-भेदेनैव विभाव्यमानभेदत्वेन व्यभिचाराच्च । विमतः अव्याप्यवृत्तिधर्मानवच्छिन्न-प्रतियोगिताको भेदः स्वसमानाधिकरणात्यन्ताभावप्रतियोगी, भेदत्वात्, संयुक्त प्रतियोगिताकभेदवदित्यत्राव्याप्यवृत्तिशब्देन स्वसमानाधिकरणात्यन्ताभावप्रतियोग्युक्तौ बाधात् । अवयव वृत्त्युक्तौ त्ववयववृत्तिद्रव्यत्वाद्यवच्छिन्नप्रतियोगिकभेदस्यापक्षत्वा-पातात् । विमतो भेदः केवलान्वय्यत्यन्ताभाव प्रतियोगी, पदार्थत्वात्, नित्यद्रव्य-वदित्यत्र च स्वरूपेणात्यन्ताभावप्रतियोगित्वे साध्येऽत्यन्तासत्त्वापातात् । पारमार्थिकत्वादिधर्मावच्छेदेन तत्प्रतियोगित्वे साध्येऽर्थान्तरात् । अन्योन्याभावत्वं स्वसमानाधिकरणात्यन्ता भावप्रतियोगिवृत्ति, त्रैकालिकाभावमात्रवृत्तित्वे सत्यभावत्व-साक्षाद् व्याप्यधर्मत्वाद्, अत्यन्ताभावत्ववदित्यत्र मन्मतेऽपि शुक्तौ शुक्ति-भेदस्यारोपितत्वेन सिद्धसाधनात् । त्रैकालिकस्य मिथ्यात्वायोगेन विरोधाच्च, संयोगादि-वत्सत्यत्वेऽपि स्वात्यन्ताभावसामानाधिकरण्यसम्भवेनार्थान्तरत्वाच्च । तत्र विप्रतिपत्तौ च दृष्टान्तस्य साध्यवैकल्यात् । एवमन्यान्यप्यनुमानानि दूष्याणि । धर्मिग्राहक-प्रत्यक्षश्रुत्यादिबाधः, पूर्वोक्तैर्भेदानु मानैः सत्प्रतिपक्षत्वम्, अप्रयोजकत्वम्, सुखदुःखा-द्यनु सन्धानापत्ति रूपप्रतिकूलतर्क पराहतिरित्यादयो भेदमिथ्यात्वानुमानसाधारणदोषाः । इति ऐक्यानुमानभङ्गः ।। ३० ।।

अद्वैतसिद्धि:

एवमनुमानमपि तत्र मानम्– जीवाः, परमात्मनस्तत्त्वतो न भिद्यन्ते, आत्मत्वात्, परमात्मवत् । ननु– आत्मत्वं जातिरत्र हेतुः तथा चाभेदे हेतूच्छित्तिरेव प्रतिकूलतर्क इति चेन्न, तत्त्वतोऽभेदेऽपि व्यावहारिकभेदेनैव व्यावहारिकजातेरनुच्छेदोपपत्तेः । ज्ञातृत्वादित्यप्यत्र हेतुः । जीवे उपधेये अन्तःकरणोपहितवृत्तेस्तस्यासिद्धेरभावात् । व्यवहारे स्वभिन्नज्ञानानपेक्षत्वं हेतुः । तवापि जीवस्य स्वाभिन्ननित्यज्ञानस्याबाध्यव्यवहारविषयत्वात् । अबाध्यत्वमप्यत्र हेतुः । न च जडे व्यभिचारः, तत्र बाध्यत्वेन हेतोरभावात्, ‘तात्त्विकभेदस्य सर्वत्रासत्त्वेन व्यभिचारानवकाशात् । न च– एवं व्यावहारिकभेदव्यतिरेकोऽप्येवमेव साध्यतां जीवपरमात्मनोरिति वाच्यम्, तत्र प्रत्यक्षविरोधस्यैव बाधकत्वात्, श्रुत्यनुग्रहाच्चाभाससाम्यापादनाप्रयोजकत्वानवकाशात् । अत एव– विमता जीवाश्चैत्रात् तत्त्वतो न भिद्यन्ते, जीवत्वाच्चैत्रवदिति जीवैक्ये, विमता जीवा वस्तुतो ब्रह्मणो न भिद्यन्ते, वस्तुत्वाद्, ब्रह्मवदिति ब्रह्मजीवक्ये च यदनुमानम्, तत्र व्यवहारतोऽपि न भिद्यन्त इत्यप्येवं साध्यतामित्याभाससाम्यम्– अपास्तम् ।

एवं विमतानि शरीराणि, चैत्राधिष्ठितानि, शरीरत्वात्, सम्मतवत् । न च– एतावता न जीवैक्यसिद्धिः, चैत्राधिष्ठितत्वेऽपि अन्याधिष्ठितत्वसम्भवात्, चैत्रमात्राधिष्ठितत्वे तु अन्तर्याम्य-धिष्ठितत्वेन दृष्टान्ते साध्यवैकल्यापत्तिरिति वाच्यम्, चैत्रमात्रसंसार्यधिष्ठितत्वस्य साध्यत्वात् । चैत्रमात्रभोगायतनानीति वा साध्यम् । न च– भोक्तृत्वमन्तःकरणविशिष्टस्य, तच्च प्रतिशरीरं भिन्नम्, यच्चैकं शुद्धचैतन्यं तन्न भोक्त्रिति बाध इति वाच्यम्, भोक्तृत्वस्य विशिष्टवृत्तित्वेऽपि विशेष्य-वृत्तित्वानपायात् । न चैवं विमतानि शरीराणि चैत्रमनसैव युक्तानीत्याभाससाम्यम्, मनसोऽप्यैक्ये व्यवस्थायाः सर्वथानुपपत्तेः, श्रुत्यनुग्रहाननुग्रहाभ्यां विशेषाच्च, दृष्टिसृष्टिपक्षे तदभ्युपगमाच्च । आत्मा, द्रव्यत्वापरजात्या नाना न, विभुत्वाद्, आकाशवत् । न च– प्रतिकल्पमाकाशस्य भेदेन साध्यवैकल्यं परिच्छिन्नत्वेन साधनवैकल्यं चात्मत्वस्य परमाणुत्वादिवदजातित्वेऽपि आत्मभेदसिद्ध्या चार्थान्तरमिति– वाच्यम् । आत्मत्वाधिकरणं, द्रव्यत्वापरजात्यैककाले नाना न, समानकालीन-मूर्तमात्रसंयुक्तत्वाद्, गगनवदित्यत्र तात्पर्यात् । पक्षविशेषणमहिम्ना च नार्थान्तरम् । विमतो भेदः, मिथ्या, एकस्यां दृशि कल्पितो वा, भेदत्वाद्, दृश्यत्वाद्वा, चन्द्रभेदवद्, एकस्यां दृशि कल्पितो वा, भेदत्वाद्, दृश्यत्वाद्वा, चन्द्रभेदवद्, एकस्यां दृशि क्षणिकवादिकल्पितभेदवद्वा । मिथ्यात्वं प्रागुक्तमेव । न च कल्पितसाधारणभेदत्वासिद्धिः, भेदे अकल्पितत्वस्यैवासिद्धेः । अत एव– चन्द्रस्य कल्पितद्वितीयचन्द्राद् भेदस्य सत्यत्वेन दृष्टान्ते साध्यवैकल्यम्, मुक्तेः संसाराद् ब्रह्मणो अनृताद् भेदे च व्यभिचार इति निरस्तम्, न चैवमभेदो मिथ्या अभेदत्वाद् देहात्माभेदवदित्यादि सुसाधम्, शून्यवादापत्तेरुक्तत्वात् । एवं विमता भेदधीः, मिथ्या, भेदधीत्वाच्चन्द्रभेदधीवत् । न च ब्रह्मानृतभेदप्रतीत्यादौ व्यभिचारः, तासामपि पक्षसमत्वात् । आभाससाम्यस्य तात्त्विकत्वे प्रत्येतव्यत्वानुपपत्त्यैव निरासः । अत एव–

विमतं तात्त्विकस्वान्तर्भेदशून्यं महत्त्वतः ।

यदेवं तत्तथा यद्वत् खं तथेदं ततस्तथा ।।

इत्यत्र गगनस्य सावयत्वेन न साध्यवैकल्यम्, स्वान्तःपदेन स्वावयवातिरिक्तस्योक्तेः । एवं संवित्, स्वान्तर्गणिक स्वाभाविकभेदहीना, उपाधिमन्तरेणाविभाव्यमानभेदत्वाद्, गगनवत् । न च साध्यवैकल्यम्, नैयायिकदिशा दृष्टान्तत्वोक्तेः । न चेच्छादेरपि घटपटाद्युपाधिभेदन विभाव्यमानभेदतया व्यभिचारस्तेष्विति वाच्यम्, इच्छादीनामेकान्तःकरणपरिणामत्वेन तत्रापि साध्यसत्त्वात् । विमतो अव्याप्यवृत्तिधर्मानवच्छिन्नप्रतियोगिताको भेदः, स्वसमानाधिकरणात्यन्ताभावप्रतियोगी, भेदत्वात्, संयुक्तभेदवत् । विमतो भेदः, केवलान्वय्यत्यन्ताभावप्रतियोगी, पदार्थत्वात्, नित्यद्रव्यवत् । स्वरूपेणात्यन्ताभाव प्रतियोगित्वे यथा न तुच्छत्वं पारमार्थिकत्वाकारेणात्यन्ताभावप्रतियोगित्वे ब्रह्मवत् तद्रूपतोपपत्त्या न यथार्थान्तरम्, तत् प्रागुक्तम् । अन्योऽन्याभावत्वम्, स्वसमानाधिकरणात्यन्ताभाव-प्रतियोगिवृत्ति, त्रैकालिकाभाववृत्तित्वे सति अभावत्वसाक्षाद्व्याप्यत्वाद्, अत्यन्ताभावत्ववदित्यनुमानं पूर्वोक्तसंयुक्तप्रतियोगिकभेदरूपदृष्टान्तसिद्ध्यर्थम् । न च शुक्तौ शुक्तिभेदस्यारोपितस्य सत्त्वेन सिद्धसाधनम्, असदन्यथाख्यातिवादिनस्तवानङ्गीकृत्वेन तस्य साध्यत्वात् । न च त्रैकालिकत्वे मिथ्यात्वायोगः, मायाचित्सम्बन्धस्य कालत्वेन सर्वकालस्थितेरतद्विरोधित्वात् । न चाव्याप्यवृत्तितया संयोगादिवत् समानाधिकरणात्यन्ताभावप्रतियोगित्वेनार्थान्तरम्, पक्षविशेषणमहिम्ना अव्याप्यवृत्तित्वस्या-सम्भवेन तदयोगात् । अनुसन्धानाद्यव्यवस्थादिकं प्रागेव निराकृतम् । अप्रयोजकत्वाभाससाम्य-सत्प्रतिपक्षोपाध्यादि पूर्वोक्तप्रपञ्च मिथ्यात्वानुमानवन्निराकरणीयम् । एवमात्मत्वमेकत्वव्याप्यम्, आत्ममात्रवृत्तित्वात्, चैत्रत्ववदित्याद्यपि द्रष्टव्यम् । इत्यद्वैतसिद्धौ जीवब्रह्माभेदानुमानम् ।। ३० ।।

न्यायामृततरङ्गिणी

।। अबाध्यत्वादीति ।। जडस्याप्यबाध्यत्वात्तत्र हेतोरनैकान्त्यमित्यर्थः ।। साध्यवैकल्यादिति ।। नन्वात्मत्वाधिकरणं द्रव्यत्वापरजात्यैककालेन नाना । समान-कालीनमूर्तमात्रसंयुक्तत्वात् गगनवदित्यत्र साध्यसाधनवैकल्याभाव इति चेन्न । तथाप्यर्थान्तरानिस्तारात् ।। चन्द्रस्येति ।। ननु चन्द्रभेदादीनां पक्षसमत्वान्न दोषः । मैवम् । कल्पिताकल्पितयोर्मुक्तिसंसारादीनां भेदस्यावश्यमङ्गीकार्यत्वात् । न च स व्यावहारिकः । अन्योन्याश्रयात् । स्वतःप्रामाण्यप्रमाणसिद्धस्य तात्विकत्वाच्च ।। त्वन्मतेपीति ।। न च स्वान्तःपदेन स्वावयवातिरिक्तमुच्यत इति वाच्यम् । स्वावयवभेदवत्तदतिरिक्तभेदसत्त्वेऽपि हेतूपपत्त्याऽप्रयोजकत्वात् ।। इच्छादेरपीति ।। न चेच्छादीनामेकान्तःकरण परिणामत्वेन तत्रापि साध्यमस्तीति वाच्यम् । इच्छादीनामभेदे इच्छाद्वेषसुखदुःखादीनां साङ्कर्यप्रसङ्गात् ।। अव्याप्य वृत्तिधर्मेति ।। भेदप्रतियोगितावच्छेदकात्यन्ताभावस्य भेदरूपतयाऽव्याप्यवृत्तिधर्मा-नवच्छिन्न प्रतियोगिताको भेद इत्यनेन भेदसमानाधिकरणधर्मानवच्छिन्नप्रतियोगिताको भेद इत्युक्तं भवति । एतस्यापि भेदः भेद प्रतियोगितावच्छेदकेन समानाधिकरणो न भवतीति फलितोऽर्थः । तथा च प्रतियोगितावच्छेदकासमानाधिकरणेऽभेदे स्वसमानाधिकरणात्यन्ता भावप्रतियोगीत्यनेन प्रतियोगितावच्छेदकसामानाधिकरण्ये साध्यमाने बाध इत्यर्थः ।। स्वसमानाधिकरणात्यन्ताभाव प्रतियोगिवृत्तीति ।। संयोगात्यन्ताभावमादायात्यन्ताभावत्वे साध्यमस्ति ।। त्रैकालिकेति ।। प्रागभावत्वादावव्यभिचाराय सत्यन्तम् । रूपात्यन्ता-भावत्वादावव्यभिचारायाभावत्वेत्यादि ।। मन्मतेऽपीति ।। न च शुक्तौ शुक्तिभेदस्यासत्वान्न तस्मिन्नन्योन्याभावत्वम् अतः कथं तदादाय सिद्धसाधनमिति वाच्यम् । अन्योन्याभाव इति शब्दजन्यज्ञानविषयत्वादिरूपस्यान्योन्याभावत्वस्यारोपितान्योन्याभावेऽपि सत्त्वात् । संयुक्तान्योन्याभावमादाय सिद्धसाधनाच्च । त्रैकालिकस्येति ।। ननु मायाचित्सम्बन्धस्य कालत्वेन सर्वकालस्थितेर्न मिथ्यात्वविरोधित्वम् । मैवम् । अस्तु यः कोऽपि कालः तथापि तस्य नित्यत्वात्तत्सम्बन्धिनो मिथ्यात्वस्य विरुद्धत्वात् ।। संयोगादिवदिति ।। संयुक्तान्योन्याभाववद्धटाद्यन्योन्याभावानामप्यव्याप्यवृत्तित्वमेव सिध्यति न तु तेषां मिथ्यात्वमित्यर्थः ।। इति ऐक्यानुमानभङ्गः ।। ३० ।।

न्यायामृतकण्टकोद्धारः

नन्वद्वैतश्रुतीनां युक्त्यनुगृहीतत्वेन प्रबलत्वात् तदनुसारेणैव भेदवाक्यानि योजनीयानीत्यत आह– नापीति । अत्र जीवशब्देन संसाराधिकरणं चैतन्यं, परमात्मशब्देन तदनधिकरणं चैतन्यं विवक्षितमिति न बाधदिप्रसङ्ग इति ध्येयम् । ज्ञातृत्वादिरूपत्व इति ।। न च जीवे उपधेये अन्तःकरणोपहितवृत्तेर्ज्ञातृत्वस्य सत्वान्नासिद्धिरिति वाच्यम् । उपहितस्य विशिष्टत्वे तस्य ब्रह्मैक्यासम्मतेः, चैतन्यमात्रत्वे तु विशिष्टवृत्तिधर्मस्य विशेष्यमात्रेऽभावादसिद्धिरिति भावः । असिद्धेरित्युपलक्षणम् । अनुमानवैयर्थ्यापत्तेश्चेत्यपि द्रष्टव्यम् । जातिरूपत्व इति । व्यक्त्यनेकत्व एव जातेरभ्युपगमादिति भावः । न च व्यावहारिकभेदमादाय जात्युपपत्तिरिति वाच्यम् । ऐक्यसिद्धेः पूर्वं व्यावहारिकभेदासिद्धेः । अन्यथाऽऽकाशत्वादेरपि जातित्वापत्तेः ।। अबाध्यत्वादीति ।। आदिपदेन स्वभिन्नज्ञानानपेक्षत्वादिसङ्ग्रहः । ननु कथं व्यभिचार-दानम् ? मया चैतन्यातिरिक्ते बाध्यत्वानङ्गीकारात् । तात्विकभेदाभावस्य सर्वत्र सम्भवेन व्यभिचारसम्भवाच्चेति चेन्न । अन्यतरानैकान्त्यापरिहारात् । प्रपञ्चे बाध्यत्वाभावस्याद्याप्य-निर्णीतत्वेन सन्दिग्धानैकान्त्यापरिहाराच्च । आदिशब्दोपात्तस्य पक्षेऽसिद्धत्वाच्च ।

ननु ब्रह्मणः स्वप्रकाशत्वात् आदिपदोपात्तं सिद्धमेवेत्यत आह– विस्तृतं चैतदिति ।। जीवा इति ।। न च श्रुत्यनुकूलत्वाननुकूलत्वाभ्यां वैषम्यात् कथमाभाससाम्यमिति वाच्यम् । औतश्रुतीनामन्यथा व्याख्यानात् । न चाभासानुमाने प्रत्यक्षविरोधः । त्वदनुमानेऽपि प्रत्यक्षविरोधस्य वक्तुं शक्यत्वेन साम्यात् । विमता इति । अत्राद्यानुमानं जीवैक्ये, द्वितीयं तु ब्रह्मैक्य इति द्रष्टव्यम् । विमतानीति । अत्र चैत्राधिष्ठानत्वमात्रं वा साध्यते, चैत्रमात्राधिष्ठितृत्वं वा, चैत्रस्यैव भोगायतनत्वं वा ? नाद्य इत्याह– चैत्राधिष्ठितत्वेऽपीति । न द्वितीय इत्याह– चैत्रेणैवेति । न तृतीय इत्याह– चैत्रस्यैवेति । न च विशिष्टनिष्ठत्वेऽपि विशेष्यवृत्तित्वं नापैतीति वाच्यम् । विशेष्यस्य निष्क्रियत्वेन भोक्तृत्वस्य बाधात् । न च संसारिचैत्रमात्राधिष्ठितृत्वं साध्यम् । ब्रह्मग्रहादेरप्यधिष्ठानसम्भवेन बाधानिस्तारात् । विमतानीति । न च मनस ऐक्ये व्यवस्थानुपपत्तिरूपप्रतिकूलतर्कपराहतमिति वाच्यम् । जीव ब्रह्मैक्ये जीवानां परस्परमैक्येऽपि तदनुपपत्तेरुक्तत्वात् । न च श्रुत्यनुग्रहाभ्यां विशेषात् दृष्टिसृष्टिपक्षे तदभ्युपगमाच्च नाभाससाम्यमिति वाच्यम् । श्रुतीनामन्यथा व्याख्यातत्वेन तदनुग्रहाभावात् । दृष्टिसृष्टिपक्षस्य प्रागेव दूषितत्वाच्च ।

आत्मेति । ननु आत्मत्वाधिकरणं द्रव्यत्वापरजात्यैककाले नाना नसमानकालीन-मूर्तमात्रसंयुक्तत्वात् गगनवदित्यत्र तात्पर्यान्न कश्चिद्दोष इति चेन्न । आत्मत्वस्य ज्ञातृत्वादि-रूपस्य पूर्वोक्तयुक्त्याऽसम्भवेन पक्षासिद्धेः । आकाशभेदवादिनाऽऽकाशत्वजातेरङ्गीकृतत्वेन तत्र साध्यवैकल्यापरिहारात् । आत्मत्वस्य परमाणुत्ववदौपाधिकत्वेऽप्यात्म सिध्याऽर्थान्त-राच्च । असङ्गस्यात्मनो मूर्तमात्रसंयुक्तत्वाभावे नाऽसिद्धेश्चेत्यलमतिपिष्टपेषणेनेति । विमत इति । भेदस्य मिथ्यात्वे च जीवब्रह्मणोरैक्यसिद्धिः । परस्परविरोधेऽन्यतरनिषेधस्यान्यतर-विधिनान्तरीयकत्वात् । अतो नार्थान्तरादीति भावः । उक्तरीत्येति । इदं तु वक्ष्यमाण-दूषणमात्रे सम्बध्यते । उपपादनं च मिथ्यात्वभङ्गादौ द्रष्टव्यम् । अभेद इति । न चाभेद-मिथ्यात्वे शून्यत्वापत्तिः । भेदमिथ्यात्वे जगतः शून्याद् भेदाभावेन तदावश्यकत्वात् अभेदमिथ्यात्वे च शून्याद् भेदेन तदभावात् । दृश्यत्वादेरिति । दृश्यत्वभङ्गादाविति शेषः । आभाससाम्याच्चेति । न च प्रत्येतव्यत्वानुपपत्तिः । सत्यत्वेऽपि दृश्यत्वादेरुपपादितत्वात् । विमतमिति । व्यावहारिकभेदस्य स्वेनाङ्गीकृतत्वाद् बाधवारणाय तात्विकेति विशेषणम् । गगनस्येति । न च तार्किकमतानुसारेणायं दृष्टान्त इति वाच्यम् । तत्ववादिनं प्रति साध्यवैकल्यापरिहारात् । ननु तत्ववादिनं प्रति साध्यवैकल्यापरिहारात् । ननु तत्ववादिनं प्रत्यव्याकृताकाशमेव दृष्टान्त इत्यत आह– संयोगित्वेनेति । न चांशांशिनोरभेदस्य विशेषबलेनांशांशिभावस्य च त्वया स्वीकारात् अन्योन्याभावलक्षणभेदाभावात् कथं दृष्टान्ते साध्यवैकल्याभिधानमिति वाच्यम् । अव्याकृताकाशस्य परासम्मतेर्भूताकाशस्यैव दृष्टान्तत्वेन तदभिधानादिति ।

इच्छादेरपीति । न चैकान्तःकरणपरिणामादिच्छादेरपि स्वाभाविकभेदासिद्धिः । अन्तःकरणानामनेकत्वेन तत्परिणामानां भेदस्यावश्यकत्वात् । एकमृत्पिण्डपरिणामानामपि घटशरावोदञ्चनानां स्वाभाविकभेददर्शनाच्च । विमत इति । अत्र विमत इत्यस्यैव विवरणम् अव्याप्यवृत्तीति । इदं तु संयुक्तान्योन्याभावस्यापि पक्षत्वे तत्र सिद्धसाधनतावारणाय । इदमन्योन्याभावस्य व्याप्यवृत्तित्वपक्षे । यदा तु संयोगात्यन्ताभावेनैव संयोगी नेत्यादि प्रतीत्युपपत्तिः तदा विशेषणानर्थक्यं दृष्टान्तासम्भवश्चेति द्रष्टव्यम् । अपक्षत्वापातादिति । तथा चार्थान्तर सन्दिग्धानैकान्त्यादीति भावः । न च व्याप्यवृत्तिधर्मानवच्छिन्नपदेन स्वसामानाधिकरणात्यन्ताभावप्रतियोगि धर्मावच्छिन्नत्वाभावो विवक्षितः । अतो नोक्तदोष इति वाच्यम् । स्वस्वात्यन्ताभावयोरेकत्र प्रतीत्यसम्भवात् अव्याप्यवृत्तिधर्मावच्छेदेन स्वसमानाधिकरणत्वं वाच्यम् । तथा च स दोषस्तदवस्थ एवेति भावः । स्वरूपेणेत्यादि । इदं सर्वं मिथ्यात्वानुमानभङ्ग एवोपपादितमिति नेह तन्यते । अन्योन्याभावत्वमिति । इदमनुमानं पूर्वोक्त संयुक्तप्रतियोगिकभेदरूपदृष्टान्तसिध्यर्थम् । अतो नार्थान्तरमिति भावः । तत्प्रागभावत्वे व्यभिचारवारणाय हेतौ साक्षादिति । प्रागभावत्वे तद्वारणाय त्रैकालिकेति ।

मन्मतेऽपीति । न चान्यथाख्यातिवादिभिस्तदनङ्गीकारादेतत् साध्यमिति वाच्यम् । व्यधिकरणत्वात् । मया मन्मते सिद्धसाधनतेत्युक्तेऽन्यं प्रति नेत्यस्यानुत्तरत्वात् । तन्मतेऽपि शुक्तिभेदस्यान्यत्र सत्वेऽपि शुक्तिनिष्ठात्यन्ताभाव प्रतियोगित्वेनोक्तसाध्यसिद्धेः सिद्धसाधनताऽ-परिहारात् । त्रैकालिकस्येति । न च चित्सम्बन्धस्यैव कालत्वेन सर्वकालस्थितेस्तद्विरोध इति वाच्यम् । एवमपि सर्वदा चित्सम्बन्धस्य मिथ्यात्वायोगात् । चित्सम्बन्धस्य कालत्वा-सम्भवाच्च । तथाऽभियुक्तव्यवहाराभावात् । अन्यथा प्रागभावादेरपि त्रैकालिकत्वापातात् । संयोगादिवदिति । न च पक्ष विशेषणमहिम्नाऽर्थान्तरनिरासः । तस्य प्रागेव निरस्तत्वात् । तत्रेति ।। संयोगादावित्यर्थः । उक्तन्यायम् अन्यत्रातिदिशति– एवमिति । भेदमिथ्यात्व-सर्वानुमानसाधारणदोषानाह– धर्मिग्राहकेत्यादि । इदं सर्वं पूर्वमेवोपपादितमिति । इति ऐक्यानुमानभङ्गः ।। ३० ।।

न्यायामृतप्रकाशः

जातिरूपत्वे विरोधादिति ।। आत्मत्वस्य जातिरूपत्वे तस्याश्रयीभूततात्विकात्मव्यक्तिनानात्व-सापेक्षत्वेन उक्तसाध्याभावेनैव व्याप्त्या विरुद्धत्वादित्यर्थः ।। अबाध्यत्वादिरूपत्वेऽनैकान्त्यादिति ।। अभावद्वैतमस्तीति मते द्वितीयाभावे व्यभिचारः । अबाध्यत्वरूपात्मत्वस्य तत्र सत्वेऽपि परमात्मनस्तत्वतो भेदस्यैव सद्भावादित्यर्थः । तद्भेदस्यातात्विकत्वे च तन्निवृत्तौ द्वितीयाभाव-ब्रह्मणोरैक्यापत्तिः । सा च न युक्ता । भावाभावयोर्विरुद्धरूपयोरैक्या योगादिति भाव इति सम्प्रदायः । ‘विमतानि शरीराणि मद्भोगायतानि च । शरीरत्वात्’ इति भगवत्पादैः भोगायतनत्वेनाभेदसाधकानुमानम् अनूदितमस्ति तदेव कुतोऽनूदितं चैत्राधिष्ठानत्वं वा चैत्रेणैवाधिष्ठितत्वं वा कस्मान्नानुवदितव्य-मित्यतस्तत्र कृत्यप्रदर्शनाभिप्रायेण परिशेषमाह – विमतानीत्यादिना ।। अन्याधिष्ठितेति ।। ग्रहवदिति शेषः ।। ईश्वरस्यापीति ।। अन्तर्यामित्वादिति भावः । अत्र चैत्रशब्देन विशिष्टचैतन्यं विवक्षितं शुद्धचैतन्यं वा । नाद्य इत्याह– यस्येति ।। यस्यान्तःकरणविशिष्टस्य भोक्तृत्वं अङ्गीकृतमिति शेषः ।। भेद इति ।। तथा च तस्य भोगायतनत्वेनैक्यसाधने बाध इत्यर्थः । न द्वितीय इत्याह– यस्य चेति ।। अभोक्तृत्वम् अङ्गीकृतमिति शेषः । तथा च तस्य भोगायतनत्वेनैक्यसाधनं कार्यम् । तथा च तत्रैक्यसम्भवेऽपि तस्याभोक्तृत्वेन तस्य भोगायतनानीत्युक्ते बाध इत्यर्थः ।।

इत्याद्याभासेति ।। मनसामप्यभेदः सिध्येदिति भावः ।। द्रव्यत्वेत्यादि ।। स्वाभाविकभेदवान्न भवतीति यावत् ।। परिच्छिन्नत्वेनेति ।। गगनस्य परिच्छिन्नत्वेन विभुत्वाभावादित्यर्थः । आकाशद्वैतस्य त्वयाऽनङ्गीकारादिति भावः । भेदत्वहेतौ चन्द्रभेदो दृष्टान्तः । दृश्यत्वहेतौ तु द्वितीय इति विवेकः ।। विमत इति ।। विमतस्य घटपटभेदस्य स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वे साध्येऽव्याप्यवृत्तित्वमादायार्थान्तरता स्यान्न तु मिथ्यात्वम् इत्यतोऽव्याप्यवृत्तिधर्मेत्यादिपक्षविशेषणम् । तत्र प्रतियोगितावच्छेदकस्य घटत्वादेर्व्याप्य वृत्तिनाऽव्याप्यवृत्तित्वाभावात्तद्भेदे उक्तं पक्षविशेषणम् अस्तीत्यर्थः । एतादृशे भेदे उक्तसाध्यं पर्यवस्यत् मिथ्यात्वमादायैव पर्यवस्यतीति ध्येयम् ।। संयुक्तेति ।। संयुक्तवृक्षप्रतियोगिको भेदो वृक्ष एवास्ति वृक्षः संयोगवान्नेति प्रतीतेस्तार्किकैरङ्गीकारात् । तत्र भेदसमानाधिकरणो योऽत्यन्तभावः प्रतियोगितावच्छेदकीभूतः संयोग एव । अन्योन्याभाव-प्रतियोगिकात्यन्ताभावस्य प्रतियोगितावच्छेदकरूपत्वेन संयोगवति वृक्षे तद्वदन्योन्याभावस्यापि सत्वात् । एवं च तत्प्रतियोगित्वं भेदेऽस्तीति द्रष्टव्यम्  ।। अव्याप्यवृत्तिशब्देनेति ।। अव्याप्यधर्मान-वच्छिन्नेत्यत्राव्याप्यवृत्तिशब्देनेत्यर्थः । अव्याप्यवृत्तित्वं च समानाधिकरणात्यन्ताभावप्रतियोगित्वम् । एवं च स्वसमानाधिकरणात्यन्ताभावाप्रतियोगिघटत्वाद्यवच्छिन्नप्रतियोगिताको भेदः स्वसमानाधि-करणात्यन्ताभावप्रतियोगीति साधने बाध इत्यर्थः ।। अवयवृत्तीति ।। घटपटयोरन्त्यावयवि वृत्तित्वेना-वयववृत्तित्वाभावादवयववृत्तिधर्मानवच्छिन्नप्रतियोगिताके भेद उक्तसाध्यसाधने न बाध इत्यर्थः ।। द्रव्यत्वादिति ।। एवं सति अन्त्यावयविवृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदस्यैव मिथ्यात्वप्राप्तावपि अवयवानवयववृत्तिर्यो धर्मो द्रव्यत्वादिस्तदवच्छिन्नप्रतियोगिको भेदः ‘गुणो द्रव्यं न’ इत्येवंरूपस्तस्य पक्षत्वाभावेन मिथ्यात्वालाभादित्यर्थः । । अन्योन्याभावत्वमित्यादि ।। भेदत्वमित्यर्थः । स्वशब्देन भेदः तत्समानाधिकरणो योऽत्यन्ताभावो भेदात्यन्ताभावः तत्प्रतियोगी भेदः तद्वृत्तित्वम् अन्योन्या-भावत्वेऽस्ति । एवं च स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वेन मिथ्यात्वं सिध्यति । दृष्टान्तेऽपि स्वशब्देन संयोगात्यन्ताभावस्तत्समानाधिकरणो योऽत्यन्ताभावः संयोगात्यन्ताभाव प्रतियोगिकोऽत्यन्ता-भावः संयोग एव अभावाभावस्य भावत्वात् तद्वृत्तित्वम् अत्यन्ताभावत्वेऽस्तीत्येवम् अव्याप्यवृत्ति संयोगात्यन्ताभावमादाय दृष्टान्ते साध्यं द्रष्टव्यम् ।

अभावे विभाजकोपाधिचतुष्टयमिति मतानुसारेणाभावत्वसाक्षाद्व्याप्य धर्मत्वादित्युक्तम् । सत्यन्ताभावे प्रागभावत्वादौ व्यभिचारः स्यात् । प्रागभावध्वंसयोः प्रागुत्तरकालयोः सत्वेन तत्प्रतियोगि-कात्यन्ताभावाभावेन तत्र साध्याभावात् अतः सत्यन्तं । तावत्युक्ते रूपात्यन्ताभावत्वादौ व्यभिचारः स्यात् । रूपस्य व्याप्यवृत्तित्वेन संयोगवदव्याप्यवृत्तित्वाभावाद्रूपात्यन्ताभावाभावस्य स्वशब्दोक्त-रूपात्यन्ताभाव समानाधिकरणत्वाभावात् अतो विशेष्यभागः । रूपात्यन्ताभावत्वस्य चाभावत्व-व्याप्त्याऽत्यन्ताभावत्वव्याप्यत्वेन अभावत्वसाक्षाद्व्याप्यधर्मत्वाभावान्न व्यभिचार इत्यनुमानं परिशोधनीयमिति सम्प्रदायः ।। मन्मतेऽपीति ।। एतावता अनेनानुमानेन भेदस्याध्यस्तत्वं साधितं तच्चेष्टमेव । स्वस्मिन् स्वप्रतियोगिकाभेदस्यैवावयोर्मते सत्यत्वेन स्वस्मिन्स्वप्रतियोगिकभेदस्य मिथ्यात्वेन तमादाय साध्यपर्यवसानसम्भवात्सिद्धसाधनम् अर्थान्तरम् । नैतावता घटपटादिभेदमिथ्यात्वसिद्धिरिति भावः ।। विरोधादिति ।। हेतोः साध्याभावेन सत्यत्वेन व्याप्यत्वादित्यर्थः ।। तत्रेति ।। संयोगस्य स्वात्यन्ताभावसामानाधिकरण्ये विप्रतिपत्तावित्यर्थः ।। दृष्टान्तस्येति ।। अत्यन्ताभावत्वेऽव्याप्य-वृत्तिसंयोगात्यन्ताभावमादायैव साध्योपपादनं कार्यं तच्च सम्भवतीत्यर्थः ।। अनुमानानि भेदमिथ्या-त्वानुमानानि । एवमित्युक्तान्साधारणदोषान् दर्शयति–  धर्मिग्राहकेत्यादिना ।। इति ऐक्यानुमानभङ्ग-विवरणम् ।। ३० ।।

न्यायकल्पलता

।। अबाध्यत्वादीति ।। जडस्याप्यबाध्यत्वात्तत्र हेतोरनैकान्त्यमित्यर्थः ।। साध्यवैकल्यादिति ।। ननु ‘आत्मत्वाधिकरणं द्रव्यत्वापरजात्यैककालेन नाना । समानकालीनमूर्तमात्रसंयुक्तत्वात् गगनवत्’ इत्यत्र साध्यसाधन वैकल्याभाव इति चेन्न । तथाप्यर्थान्तरानिस्तारात् ।। चन्द्रस्येति ।। ननु चन्द्रभेदादीनां पक्षसमत्वान्न दोषः । मैवम् । कल्पिताकल्पितयोर्मुक्तिसंसारादीनां भेदस्यावश्यम् अङ्गीकार्यत्वात् । न च स व्यावहारिकः । अन्योन्याश्रयात् । स्वतःप्रामाण्यप्रमाणसिद्धस्य तात्विक-त्वाच्च । देहात्माभेदवदिति परमतेन । उभयमतेन तु शुक्तिरूप्याभेदवदिति ज्ञेयम् । अत एवादिपदोपादानम् ।। त्वन्मतेऽपीति ।। न च स्वान्तःपदेन स्वावयवातिरिक्तमुच्यत इति युक्तम् । स्वावयवभेदवत्तदतिरिक्तभेदसत्त्वेऽपि हेतूपपत्त्याऽप्रयोजकत्वात् ।। इच्छादेरपीति ।। न चेच्छादीनामेकान्तःकरण परिणामत्वेन तत्रापि साध्यमस्तीति देश्यम् । इच्छादीनामभेदे इच्छाद्वेषसुखदुःखादीनां साङ्कर्यप्रसङ्गात् ।। अव्याप्यवृत्तिधर्मेति ।। भेदप्रतियोगितावच्छेदकात्यन्ता-भावस्य भेदरूपत्वेनाव्याप्यवृत्तिधर्मानवच्छिन्नप्रतियोगिताको भेद इत्य(भेदे)नेन भेदसमानाधिकरणधर्मा-नवच्छिन्नप्रतियोगिताको भेद इत्युक्तं भवति । एतस्यापि भेदः भेदप्रतियोगितावच्छेदकेन समानाधिकरणो न भवतीति फलितोऽर्थः । तथा च प्रतियोगितावच्छेदकासमानाधिकरणेऽ भेदे स्वसमानाधिकरणा-त्यन्ताभावप्रतियोगीत्यनेन प्रतियोगितावच्छेदक-सामानाधिकरण्ये साध्यमाने बाध इत्यर्थः ।।

स्वसमानाधिकरणात्यन्ताभावप्रतियोगिवृत्तीति ।। संयोगात्यन्ताभावमादायात्यन्ताभावत्वे साध्यमस्ति ।। त्रैकालिकेति ।। प्रागभावत्वादावव्यभिचाराय सत्यन्तम् । रूपात्यन्ताभावत्वादाव-व्यभिचारायाभावत्वेत्यादि । न च शुक्तौ शुक्तिभेदस्यासत्वान्न तस्मिन्नन्योन्याभावत्वम् अतः कथं तदादाय सिद्धसाधनमिति वाच्यम् । अन्योन्याभाव इति शब्दजन्यज्ञानविषयत्वादिरूपस्यान्योन्या-भावत्वस्यारोपितान्योन्याभावेऽपि सत्त्वात् । संयुक्तान्योन्याभावमादाय सिद्धसाधनाच्च । त्रैकालिक-स्येति ।। ननु मायाचित्सम्बन्धस्य कालत्वेन सर्वकालस्थितेर्न मिथ्यात्वविरोधित्वम् । मैवम् । अस्तु यः कोऽपि कालः तथापि तस्य नित्यत्वात्तत्सम्बन्धिनो मिथ्यात्वस्य विरुद्धत्वात् ।। संयोगादि-वदिति ।। संयुक्तान्योन्याभाववद्धटाद्यन्योन्याभावानामप्यव्याप्यवृत्तित्वमेव सिध्यति न तु तेषां मिथ्यात्वमित्यर्थः ।।

।। इति ऐक्यानुमानभङ्गः ।। ३० ।।