किञ्च ‘‘विश्वं सत्यं’’ ‘‘यच्चिकेत सत्यमित्तन्न मोघम्’’
३०. अथ विश्वामिथ्यात्वस्यागमादिबाधः
न्यायामृतम्
किञ्च ‘‘विश्वं सत्यं’’ ‘‘यच्चिकेत सत्यमित्तन्न मोघम्’’, ‘याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः’’ इत्यादिश्रुतिभिः, ‘‘असत्यमप्रतिष्ठं ते जगदाहु-रनीश्वरम्’’ इत्यादिस्मृतिभिः ‘‘नाभाव उपलब्धेः, वैधर्म्याच्च न स्वप्नादिवत्’’ इत्यादिसूत्रैश्च बाधिता दृश्यत्वादयः ।
न चायं प्रत्यक्षप्राप्तानुवादः । त्वन्मते सन् घट इत्यस्य सदर्थस्य व्यावृत्त-घटाद्यन्यानुवृत्तब्रह्मत्वेन घटादिसत्त्वस्याप्राप्तेः । यच्चिकेतेत्यादिवाक्यद्वये ईश्वरस्य मानान्तराप्राप्तसत्यजगत्स्रष्टृत्वस्यैवोक्तेश्च । ‘‘पृथिवी इतरभिन्ना,’’ ‘‘न हिंस्यात्सर्वा भूतानि’’ इत्यादाविव एकदेशे विधेयसिद्धावपि विश्वमात्रे तदसिद्ध्याऽननुवाद-कत्वाच्च । अनुवादकत्वं हि वाक्यस्य न ज्ञातज्ञापकत्वमात्रम्, अतिप्रसङ्गात् । किन्तु ज्ञातमात्रज्ञापकत्वम् । एकशाखास्थविधिवाक्यैकार्थशाखान्तरस्थविधिवाक्यस्य पुरुषान्तरं प्रतीव येन पुंसा वादिविप्रतिपत्त्यादिना प्रत्यक्षेण विश्वसत्यता न निर्णीता तं प्रत्यर्थवत्त्वाच्च । अनुवादकत्वं तु सर्वाविवादस्थले सावकाशम् ।
अत एव त्वयापि बृहदारण्यकभाष्ये देहान्यात्मबोधिकायाः ‘‘अस्तीत्येवोप-लब्धव्यः’’ इति श्रुतेः प्रत्यक्षप्राप्तानुवादित्वमाशङ्क्य वादिविप्रतिपत्तिदर्शना-दित्यादिना तत्परिहृतम् । ‘‘द्वयोः प्रणयन्ति’’ इति वाक्यस्यावैयर्थ्याय चातुर्मास्य-मध्यपर्वणोश्चोदका प्राप्तप्रणयनान्तरप्रापकत्ववद् इहापि श्रुतेरवैयर्थ्याय ‘‘तत्सत्यं’’ इत्यादिश्रुतिवद् वर्तमानमात्रग्राहिप्रत्यक्षाप्राप्तकालत्रयाबाध्यत्वरूपसत्यत्वप्रापक-त्वाच्च । अन्यथा आत्मन आनन्दत्वश्रुतिरपि सुखं सुप्तोऽस्मीति प्रत्यक्षप्राप्ता-तात्त्विकानन्दत्वानुवादिनी स्यात् । अनुवादकत्वं तु अप्राप्तविषयान्तराभावे सावकाशम् । निगमनवत्, तत्त्वमसीति नवकृत्वोऽभ्यासवत्, पिपासितस्य एकजलविषयकलिङ्गशब्दप्रत्यक्षरूपप्रमाणसंप्लववत् त्व(न्मते)त्पक्षे प्रत्यक्षसिद्धे भावरूपाज्ञाने ‘‘तम आसीत्’’ इत्यादिश्रुतिवत्, श्रुतेरैक्यतात्पर्ये षड्विधलिङ्गवच्च प्रत्यक्षानाश्वासनिरासेन दार्ढ्यार्थत्वाच्च । अनुवादकत्वं तु यत्र दार्ढ्यं प्रागेव सिद्धं, तत्रैव । तदुक्तम्– ‘‘बहुप्रमाणसंवादश्च दार्ढ्यहेतुरेव’’ इति ।
अद्वैतसिद्धिः
ननु – अस्तु शब्दबाधः, तथाहि – ‘विश्वं सत्यम्’, ‘यच्चिकेत सत्यमित्तन्न मोघम्’, ‘याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः’ इत्यादिश्रुतिभिः, ‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वर’ मित्यदिस्मृतिभिः, ‘नाभाव उपलब्धेः’ ‘वैधर्म्याच्च न स्वप्नादिवत्’ इत्यादि-सूत्रैश्च विश्वस्य सत्यत्वप्रतिपादनादिति – चेन्न । श्रुतेस्तत्परत्वाभावात् । तथा हि–
‘विश्वं सत्यं मघवाना युवोरिदापश्च न प्रमिनन्ति व्रतं वाम् ।
अच्छेन्द्राब्रह्मणस्पती हविर्नोऽन्नं युजेव वाजिना जिगातम्’ –ऋ.२/७/३
इति ऋक्संहिताद्वितीयाष्टकवाक्यस्यायमर्थः – हे इन्द्राब्रह्मणस्पती मघवाना मघवानौ धनवन्तौ । मघमिति धननाम, मखवन्ताविति वा । विश्वं सर्वं, सत्यं कर्म, सद्भूतत्वात्, फलस्यावश्यंभावित्वाद्वा । तादृशं कर्म, युवोरित् युवयोः इत् इत्थमवधारणे वा । युवामेवो-द्दिश्य सर्वाणि कर्माण्यनुष्ठेयानीत्यर्थः । आपो व्यापनशीला देवताः । चनेत्येतत्पदद्वय-समुदायः, ऐकपद्यं त्वध्यापकसम्प्रदायसिद्धम् । वां युवयोर्व्रतं सङ्कल्पं कर्म वा न प्रमिनन्ति न हिंसन्ति (मीङ्हिंसायां, क्रैयादिकः) किन्त्वनुमोदन्त इति यावत् । नोऽस्माकं हविर्दध्यादिकं अन्नं च पुरोडाशादिकं च । अच्छ अभिलक्ष्य । वाजिना वेगवन्तावश्वाविव । युजा युक्तौ सन्तौ । जिगातं देवयजनमागच्छतम् । (जिगातिर्गतिकर्मा जौहोत्यादिकः) अन्नं घासं प्रति अश्वाविवेति वा । यद्वा– हे इन्द्राब्रह्मस्पती विश्वं सर्वं, सत्यं सत्यत्वेन परिदृश्यमानं जगत्, युवोरित् युवयोरेव, युवाभ्यामेव सृष्टम् । अथवा – युवयोरेव विश्वं सर्वं स्तोत्रं, सत्यं यथार्थम्, यद्यत् गुणजातं स्तुत्या प्रतिपाद्यते तत्सर्वं युवयोर्विद्यमानमेव न त्वारोपित-मित्यर्थः । आपो व्यापनशीला देवताः, अबुपलक्षितानि पञ्चमहाभूतानि वा । युवयोर्व्रतं जगदुत्पादानाख्यं कर्म न हिंसन्ति । इत्थं महानुभावौ युवां जिगातम् । शेषं पूर्ववद्व्याख्ये-यम् । तथा च स्तुतिपरतया नास्य विश्वसत्यत्वे तात्पर्यम् ।।
‘शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीलः ।
यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता’ –ऋ.सं. ८.१.१७
इत्यस्यापि अष्टमाष्टकस्थस्येन्द्रस्तुतिपरतया न विश्वसत्यत्वे तात्पर्यम् । तथा हि-शाक्मना शक्मैव शाक्म तेन शाक्मना बलेन । शाकः शक्तः, स्वशक्त्यैव सर्वं कर्तुं शक्त इत्यर्थः । न हीन्द्रस्य सहायान्तरापेक्षास्ति, इन्द्रत्वादेव । अरुणः अरुणवर्णः कश्चित् शोभनवर्णः पक्षी, आ गच्छतीत्यध्याहारः, उपसर्गश्रुतेः । यो महो महान्, शूरः विक्रान्तः, सनात् पुराणः, अनीलः अनीडः नीडस्याकर्ता । न हीन्द्रः अग्निवत् कुत्रचिदपि यज्ञे निकेतनं करोति । एवं सुपर्ण इत्यादिरूपकेणेन्द्रमाह । स इन्द्र ‘इदमिदानीं कर्तव्यमिति’ यच्चिकेत जानाति, तत्सत्यमित् सत्यमेव, न मोघं न व्यर्थम् । स्पार्हं स्पृहणीयं वसु निवासार्हं धनं, जेता जयति शत्रुभ्यः सकाशात् । उत अपि, दाता ददाति च स्तोतृभ्यः । जेता दातेति तृन् । तेन ‘न लोके’त्यादिना षष्ठीप्रतिषेधः । एवमेवान्यदपि सत्यत्व-प्रतिपादकमुन्नेयम् ।
‘याथातथ्यतोऽर्थान् व्यदधा’दित्यपि वाक्यं न प्रपञ्चसत्यत्वे प्रमाणम् । तस्य पूर्वसृष्ट-प्रकारेण सर्जनमर्थः, न तु जगत्सत्यत्वं जगत्सर्जनगतसत्यत्वं वा । यत्र च स्तुत्यादिपरत्वं नास्ति, तत्रापि प्रत्यक्षसिद्धानुवादकतया ‘अग्निर्हिमस्य भेषज’मित्यादिवाक््यवन्न तत्परत्वम् । न च – त्वन्मते सर्वत्र ब्रह्मसत्त्वस्यैव स्फुरणात्तदतिरिक्तस्य कालत्रयाबाध्यत्वरूपस्य घटादि-सत्त्वस्य प्रत्यक्षेणाप्राप्तेः तद्बोधकत्वेन श्रुतेर्नानुवादकत्वमिति वाच्यम् । इतरसत्त्वबाध-पुरस्सरत्वाद् ब्रह्मसत्त्वस्फुरणाभ्युपगमस्य तत्रैव सत्यादिपदप्रवृत्तिस्वीकारेण तदतिरिक्तविश्व-सत्यत्वस्य शाब्दबोधाविषयत्वात् तदादायानुवादकत्वापरिहारात् । अथ– ‘पृथिवी इतर-भिन्ना, ‘न हिंस्यात्सर्वा भूतानी’त्यादौ घटादावेकदेशे प्रत्यक्षेण, ब्राह्मणादावेकदेशे वाक्यान्तरेण, विधेयसिद्धावपि सर्वत्रासिद्धत्वाद् यथा नानुवादकत्वं, तथा विश्वमात्र-सत्यत्वस्य प्रत्यक्षेणाप्राप्तत्वात् नानुवादकत्वमिति – मैवम्; दृष्टान्ते हि पृथिवीत्वं हिंसात्वं च एकोऽनुगतो धर्म इति तदवच्छेदेन विधेयस्याप्राप्तत्वेन तत्र नानुवादकत्वं युक्तम्, इह तु विश्वत्वं नाम नैको धर्मोऽस्ति, किन्तु विश्वशब्दः सर्वनामत्वात्तेन तेन रूपेण घटपटादीना-मुपस्थापकः । तेषु च प्रत्येकं सत्त्वं गृहीतमेवेति कथं नानुवादकत्वम् ? प्रकारवैलक्षण्या-भावात् । न च एकशाखास्थविधिवाक्यैकार्थशाखान्तरस्थविधिवाक्यस्य पुरुषान्तरं प्रतीव येन पंुसा वादिविप्रतिपत्त्यादिना घटादिसत्ता प्रत्यक्षेण न निर्णीता, तं प्रत्यर्थवत्त्वेन नानुवाद-कत्वमिति – वाच्यम्, एवं सत्यनुवादस्थलस्यैवाभावप्रसङ्गात् । न च सर्वाविवाद-स्थलमेवोदाहरणम् । सर्वाविवादस्य निश्चेतुमशक्यत्वात् । पुरोवादपूर्वकत्वादनुवादस्यात्रायं पुरोवाद इत्यस्यैवाभावात् न शाखान्तरस्थवाक्यस्यानुवादकत्वप्रसङ्गः ।
यत्तु – बृहदारण्यकभाष्ये देहभिन्नात्मबोधिकायाः ‘अस्तीत्येवोपलब्धव्यः’ इत्यादिश्रुतेः प्रत्यक्षप्राप्तानुवादित्वमाशङ्क्य वादिविप्रतिपत्तिदर्शनादित्यादिना तत्परिहृतम् । तथा च प्रत्यक्षसिद्धसत्त्वग्राहकत्वेऽपि वादिविप्रतिपत्तिनिरासार्थकत्वेन नानुवादकत्वं प्रकृतेऽपीत्युक्तं तदयुक्तम् । भाष्यार्थानवबोधात् । तथा हि– तत्र वादिविप्रतिपत्तिदर्शनेन देहव्यतिरिक्त-त्वेनात्मनः प्रत्यक्षतैव नास्ति । अन्यथा प्रत्यक्षप्रामाण्यवादिनश्चार्वाकादेस्तत्र विप्रतिपत्तिर्न स्यादित्युक्तम्, न तु वादिविप्रतिपत्तिनिरासेनास्तीत्यादेस्सार्थकत्वम्, अननुवादकत्वं वा । तथा चोक्तं तत्रैव – तस्माज्जन्मान्तरसम्बन्ध्यात्मास्तित्वे जन्मान्तरेष्टानिष्टप्राप्तिपरिहारा-विशेषोपाये च शास्त्रं प्रवर्तत इति ।
ननु – चातुर्मास्यमध्यपर्वणोः ‘द्वयोः प्रणयन्ति’ इति वाक्यस्य चोदकप्राप्ताग्निप्रणयन-व्यतिरिक्ताग्निप्रणयनविधायकत्ववत् प्रत्यक्षप्राप्तव्यावहारिकसत्त्व विलक्षणत्रिकालनिषेधा-प्रतियोगित्वरूपसत्त्वप्रापकत्वं प्रकृतेऽस्त्विति – चेन्न । त्रैकालिकसत्त्व निषेधकश्रुतिविरोधेन विश्वसत्यत्वश्रुतेस्त्रैकालिकसत्त्वपरत्वाभावात् । न च – वैपरीत्यमेव किं न स्यात् ? विनिगमकाभावादिति वाच्यम् । तात्पर्यान्यथानुपपत्तिगतिसामान्यानामेव विनिगमकत्वात् । अद्वैतश्रुतिर्हि षड्विधतात्पर्यलिङ्गोपेता । तत्र त्रिविधं तात्पर्यलिङ्गं प्रामाण्यशरीरघटक-मर्थनिष्ठमज्ञातत्वमबाधितत्वं प्रयोजनवत्त्वं च । त्रिविधं तु शब्दनिष्ठमतिप्रसङ्गवारकमुपक्रमोप-संहारयोरैकरूप्यम्, अभ्यासः, अर्थवादश्चेति । तत्र शब्दनिष्ठलिङ्गत्रये तावन्न विवादः । सर्वासामेवोपनिषदामेवं प्रवृत्तत्वात् । मानान्तरासिद्धतया मोक्षहेतुज्ञानविषयतया च अज्ञातत्वं सप्रयोजनत्वं च निर्विवादमेव । अबाधितत्वमात्रं सन्दिग्धम् । तच्चान्यथानुपपत्त्या गति-सामान्येन च निर्णीयते । न हि सर्वप्रपञ्चनिषेधरूपमद्वैतं व्यावहारिकम् । येन तत्र श्रुते-र्व्यावहारिकं प्रामाण्यं स्यात् । अतस्तत्र तात्त्विकमेव प्रामाण्यम्, द्वैतसत्यत्वं तु व्यावहारिकम् । अतस्तत्र न श्रुतेस्तात्त्विकं प्रामाण्यम् । परस्परविरुद्धयोर्द्वयोस्तात्त्विकत्वा-योगाद्, वस्तुनि च विकल्पासम्भवात्, तात्त्विक व्यावहारिकप्रामाण्यभेदेन च व्यवस्थोपपत्तेः, अतत् (स्तुति)परत्वेनावधारितस्य विश्वसत्यत्ववाक्यस्यैवान्यथा व्याख्यातुमुचितत्वात् । तथा हि – चतुर्धा हि सामानाधिकरण्यम् – अध्यासे ‘इदं रजत’मित्यादौ, बाधायां ‘स्थाणुः पुमानि’त्येवमादौ, विशेषणविशेष्यभावेन ‘नीलमुत्पलमित्यादौ, अभेदेन ‘तत्त्वमसी’-त्येवमादौ । अत्र च बाधायामध्यासे वा सामानाधिकरण्योपपत्तेर्न सत्यत्वबोधकश्रुतेः षड्-विधतात्पर्यलिङ्गोपेताद्वैतश्रुतिबाधकत्वम् । ननु आत्मन आनन्दत्वबोधिका श्रुतिरपि ‘सुखं सुप्तोऽस्मि’ इति साक्षिप्रत्यक्षसिद्धानन्दानुवादिनी सत्त्वश्रुतिवद्भवेत् इति चेन्न, साक्षिण उपहितानन्दविषयत्वेन श्रुतेश्च निरुपाधिकानन्दविषयत्वेन भिन्नविषयत्वादनुवादत्वायोगात् । तदा हि स्वरूपानन्दो गृह्यते । स्वरूपं चाज्ञानोपहितमेव साक्षिविषयः । ननु– ‘तत्त्वमसी’-त्यादौ नवकृत्वोऽभ्यासवत्, पिपासितस्य जलगोचरप्रमाणसंप्लववत्, ऐक्ये षड्विधतात्पर्य-लिङ्गवत्, भावरूपाज्ञाने प्रत्यक्षसिद्धे ‘तम आसी’दित्यादिश्रुतिवत्, सत्त्वश्रुतिर्दार्ढ्यार्था – इति चेन्न । अशेषविशेषग्राहिप्रत्यक्षप्राप्तदार्ढ्यार्थमन्यानपेक्षणात् । पिपासितस्य शब्दलिङ्गा-नन्तरं जले प्रत्यक्षमपेक्षितम्, न तु प्रत्यक्षानन्तरं शब्दलिङ्गे । न च तर्हि ‘तम आसी’-दित्यादेः न किञ्चिदवेदिषमिति प्रत्यक्षसिद्धाज्ञानदार्ढ्यार्थत्वं न स्यादिति वाच्यम् । ‘तम आसी’दित्यस्य सृष्टिपूर्वकालसम्बन्धित्वेनाज्ञानग्राहितया सुषुप्तिकालसम्बन्धित्वेनाज्ञानग्राहकं प्रत्यक्षमपेक्ष्य भिन्नविषयत्वेनैव प्रामाण्यसम्भवात् ।
न्यायामृततरङ्गिणी
विश्वमिथ्यात्वस्यागमबाधमाह ।। किञ्चेति ।। विश्वं सत्यमित्यादि ।। ‘‘विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम् । अच्छेन्द्रा ब्रह्मणस्पती हविर्नो अन्नं युजेव वाजिना जिगातम्’’ इति मन्त्रस्यायमर्थः । हे मघवन्तौ धनवन्तौ मखवन्ताविति वा । इन्द्राब्रह्मणस्पती, युवोः युवयोः सम्बन्धि, विश्वं जगत्, सत्यमित् सत्यमेव । वां युवयोः व्रतं सत्यजगत्सर्जनादि आपश्चन व्यापनशीलाः देवता अपि प्रमिनन्ति जानन्ति । डु मिञ्प्रक्षेपणे क्य्रादिः । नः अस्मदीयं हविर्दध्यादिकं प्रति अन्नं च पुरोडाशादिकं च प्रति अच्छजिगातं सम्यक् आगच्छतम् । जिगातिः गतिकर्मा जौहोत्यादिकः । काविव? वाजिनौ अन्नवन्तौ युजेव सखायाविवेति । यस्तु – विश्वं सर्वं, सद्भावत्वाद्वा फलस्यावश्यकत्वाद्वा सत्यं कर्म, युवोरित् युवाभ्यामेवोद्दिश्य क्रियते । वां युवयोर्व्रतं जगत्सर्जनादि आपो देवता अपि न हिंसन्ति । चनेत्येतत्पदद्वयम् । अध्यापकप्रसिद्ध्या त्वेकं पदमित्याह । तन्न । सत्यशब्दस्य कर्मण्यप्रसिद्धेः अबाध्य एव प्रसिद्धेश्च । अन्यथा सत्यं ज्ञानमित्यादावपि सद्धेतुत्वादिस्तदर्थः स्यात् । पदगणनाया-मध्यापकेषु चैकपदत्वेन प्रसिद्धस्य भिन्नपदत्वे मानाभावात् । नुकं इत्यादिवत् चन-शब्दस्याव्ययेषु चनाभ्यां पृथक् पाठाच्च । ममच्चनत्वा युवतिः परासममच्चनत्वा कुषवा जगारेत्यादिषु चनशब्दस्यैकपदत्वेनैव माधवीये व्याख्यातत्वेनेहापि तथात्वस्यैवोचितत्वात् । नेह नानास्ति किञ्चनेत्यादिषु तदेकपदत्वस्य स्वयमप्यङ्गीकृतत्वाच्च ।
शाक्मना शाको अरुणः सुपर्णः । आ यो महः शूरः सनादनीडः । यच्चिकेत सत्यमित्तन्न मोघं वसुस्पार्हमुत जेतोत दाता’’ । इतीन्द्रप्रतिपादकमन्त्रस्यायमर्थः । शाक्मना=शक्मैव शाक्म । तेन शाक्मना बलेन । शाकः शक्तः स्वशक्त्यैव सर्वं कर्तुं शक्त इत्यर्थः । न हि इन्द्रे सहायान्तरापेक्षाऽस्ति इन्द्रत्वादेव । अरुणोऽरुणवर्णः, सुपर्णः शोभनपतनः, यः प्रसिद्धः । आ अभिव्याप्तः, महः महान्, शूरः विक्रान्तः, सनात् पुराणः अनीडः नीडस्याकर्ता । न हीन्द्रोऽग्निवत्कुत्रचिदपि यज्ञे निकेतनं करोति । स्पार्हं स्पृहणीयं वसु धनं, जेता जयति शत्रुभ्यः सकाशात् उत अपि दाता ददाति स्तोतृभ्यः । जेता दातेति तृन् । तेन न लोकेत्यादिना षष्ठीनिषेधः । एवंविधः इन्द्रः यत् यस्मात् सत्यमित् सत्यमेव चिकेत तत्तस्मान्न मोघं न मिथ्या ।
कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्य इति मन्त्रस्यायमर्थः । कविः ज्ञानी । मनसां मनसा वा ईष्टे इति मनीषी । परिभावयति सर्वानिति परिभूः सर्वोत्तमः । स्वयम्भूः स्वरूपसामर्थ्यः । शाश्वतीभ्यः समाभ्यः सर्वदा । याथातथ्यतः सत्यान् अर्थान् महदादीन् व्यदधात् निर्मितवान् । न च याथातथ्यत इत्यस्य पूर्वसृष्टप्रकारेण सर्जनमर्थ इति वाच्यम् । यथार्थशब्दसमानार्थात्ततोऽबाध्यत्वरूपार्थस्यैव प्रतीतेः । असत्यमिति । असत्यं, ब्रह्मण्यप्रतिष्ठितं जगत् ये आहुः ते असुरा इत्यर्थः । नाभाव इति ।। अभावः सद्भिन्नं जगन्न भवति उपलब्धेः सत्त्वेनोपलब्धेरित्यर्थः ।। वैधर्म्यादिति ।। जगत् स्वप्नमरीचितोयतुल्यं न भवति । वैधर्म्यात् स्वप्नादिवैलक्षण्यानु-भवादित्यर्थः । स्वप्नशब्देनात्र स्वप्नगजादिगतं जाग्रत्त्वं गृह्यते । जगतः स्वाप्नसाम्यस्य सिद्धान्तेऽपीष्टत्वादिति विभावनीयम् ।। त्वन्मत इति ।। परमते घटो नित्यः इत्यादि-ष्विव सन् घट इत्यत्र घटे सत्त्वं न विषयः किन्त्वधिष्ठानभूतसद्ब्रह्मानुवेधमात्रमित्यङ्गी-काराद्धटादिषु सत्यत्वस्य प्रत्यक्षतोऽप्राप्तेरिति भावः ।। यच्चिकेतेत्यादीति ।। यच्चिकेतेत्यत्रेश्वरकृतजगदनुवादेन न सत्यत्वमात्रविधिः सम्भवति । जगत ईश्वरकृतत्वस्य केवलानुमानाद्यवेद्यतया मानान्तराप्राप्तत्वेनानुवाद्यत्वायोगात् । किन्तु सत्यकामादिवाक्य इव सत्यत्वविशिष्टजगत्स्रष्टृत्वमीश्वरस्योच्यते । विधानाभावाच्च न विशिष्टविधिशेषः । न चास्य स्तुतिपरतया न स्वार्थपरतेति वाच्यम् । मानान्तराविरोधे सति ‘‘आ ते सिञ्चामि कुक्ष्योः’’ इत्यादेर्देवताविग्रहस्येव जगत्सत्यत्वस्याप्येतस्मात्सिद्धेः । उक्तं चैतद्वाचस्पत्ये देवताधिकरणे ।। पृथिवीति ।। घटादावितरभेदस्य प्रत्यक्षेण ब्राह्यणो न हन्तव्य इत्यादिना ब्राह्मणादावेकदेशे हिंसाभावस्य सिद्धावपि पृथिवीमात्रे प्राणिमात्रे च तयोरसिध्द्या यथा नानुवादकत्वं तथेहापि कतिपयेषु घटादिषु प्रत्यक्षेण सत्त्वग्रहेऽपि तदयोग्येषु श्रुत्या सत्यत्वबोधनान्न तस्या अनुवादकत्वमित्यर्थः ।
ननु दृष्टान्ते हि पृथिवीत्वं हिंसात्वं चैकोऽनुगतो धर्म इति तदवच्छेदेन विधेयस्या-प्राप्तत्वेन तत्राननुवादकत्वं युक्तम् । इह तु विश्वत्वं नाम नैको धर्मोऽस्ति । किन्तु विश्वशब्दः सर्वनामत्वान्न तेन रूपेण घटपटादीनामुपस्थापकः । तेषु च प्रत्येकं सत्यत्वं गृहीतमेवेति कथं नानुवादकता । प्रकारवैलक्षण्याभावादिति चेन्मैवम् । सर्वनामपदेषु तदादिषु प्रकृतानां तत्तद्रूपेणोपस्थापकत्वेऽपि जगदादिशब्दसमानार्थकविश्वादिशब्दैः सर्ववृत्तिधर्मप्रकारेण सर्वोपस्थापकत्वस्यानुभवसिद्धत्वेन घटत्वादिप्रकारभिन्नप्रकारेण जगत्सत्यत्वस्य विश्वं सत्यमित्यादिना बोधनात् । यच्चोक्तं हिंसात्वमेकोऽनुगतो धर्म इति, तत्तुच्छं । न हि न हिंस्यादित्यहिंसात्वावच्छेदेन किञ्चिद्विधीयते । किन्तु भूतेषु हिंसाभावः । तथा च किं हिंसात्वस्यानुगमकथनेनेति भावः ।। अतिप्रसङ्गादिति ।। सिद्धमनूद्यासिद्धं विदधदपि दध्ना जुहोतीत्याद्यनुवादवाक्यमापद्येतेत्यर्थः ।। एकशाखा-स्थेति ।। तत्तच्छाखागतवाक्यानां तत्तच्छाखाऽध्येतृन्प्रत्यर्थवत्त्वं, अन्यथा अनन्यार्थपुनः-श्रुतिरूपादभ्यासाच्छाखान्तरे कर्मभेदः स्यादित्यर्थः ।
उक्तं च द्वितीयस्य चतुर्थपादे नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्ति वचन-प्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरे कर्मभेदः स्यात् । नानाशाखाम्नाताग्निहोत्रादि भिन्नं न वेति संशये अनन्यार्थपुनःश्रुतिरूपादभ्यासाद्भिद्यत इति प्राप्ते पुनः श्रुत्या हि कर्म विधेयमित्येव तावत्सिध्यति । न तु भेदः । विधिवशात्तु भेदसिद्धिरन्यत्र विहितस्य विधानायोगादिति । इह तु शाखाभेदानामध्येतृभेदनियतत्वेन विहितस्यापि पुरुषान्तरं प्रति विधिः सम्भवतीत्यन्यथासिद्धा पुनरुक्तिर्न कर्म भिनत्तीति । नामरूपाद्युदाहरणानि वार्तिकादिषु द्रष्टव्यानि ।। येन पुंसेति ।। प्रतिपत्तृव्यवस्थयाऽनधिगतार्थबोधकत्वस्येहापि सत्त्वादित्यर्थः । न च पुरोवादपूर्वकत्वादनुवादस्यात्रायं पुरोवाद इत्यस्यैवाभावान्न शाखान्तरस्थवाक्यस्यानुवादकत्वप्रसङ्ग इति वाच्यम् । ‘‘भूयस्त्वेनोभयश्रुती’’ति न्यायेन कर्मस्वरूपनिश्चयवद्वेदद्रष्टृप्रथमव्यक्त्यपेक्षया पुरोवादस्यापि निश्चयात् । सादिप्रत्यक्षस्यानादि वेदात्पुरोवादकत्वासम्भवाच्च । तस्मात्प्रतिपत्तृव्यवस्थयैवाननुवादकत्वं वाच्यमिति भावः ।। न निर्णीतेति ।। एतच्च विशेषादर्शनकालीनसंशयस्य प्रतिबन्धकतया तत्सामग्य्रा अपि तथात्वमित्यभिप्रेत्योक्तम् ।
नन्वेवमनुवादः क्वापि न सिध्द्येदित्यत आह ।। अनुवादकत्वं त्विति ।। न च सर्वाविवाद एकत्रासम्भवीति वाच्यम् । अग्निर्हिमस्य भेषजं अस्यामोषधयो जायन्ते अग्निरेनां स्वदयतीत्यादिषु सर्वाविवादस्य सिद्धत्वात् ।। वादिविप्रतिपत्तीति ।। ननु तत्र वादिविप्रतिपत्तिदर्शनेन देहव्यतिरिक्तात्मनः प्रत्यक्षतैव नास्ति । अन्यथा प्रत्यक्षप्रामाण्य-वादिनश्चार्वाकादेस्तत्र विप्रतिपत्तिर्न स्यादित्युक्तं बृहदारण्यकभाष्ये । न तु वादिविप्रतिपत्ति निरासेनास्तीत्यादेः सार्थकत्वमननुवादकत्वं वा तत्रोक्तमिति चेत् मैवम् । तद्वदेव वादिविप्रतिपत्तिदर्शनाज्जगत्सत्यत्वमपि न प्रत्यक्षविषयः । अन्यथा प्रत्यक्षप्रामाण्यावादिन-स्तव ममेव जगत्सत्यत्वे विप्रतिपत्तिर्न स्यादित्येवंपरत्वादस्य वाक्यस्य न कोऽपि दोषः । अत एव बृहदारण्यकभाष्य एवोक्तं तस्माज्जन्मान्तरसम्बन्ध्यात्मास्तित्वे जन्मान्तरेष्विष्टा-निष्टप्राप्तिपरिहाररूपविशेषोपाये च शास्त्रं प्रवर्तत इति ।।
द्वयोः प्रणयन्तीति ।। चातुर्मास्यानीति कर्मनाम । तेषु वैश्वदेववरुणप्रघाससाकमेध शुनासीरीयाख्यानि चत्वारि पर्वाणि । तत्र ‘द्वयोः प्रणयन्ति तस्माद्द्वाभ्यामेति’ इति श्रूयते । तस्य च द्वाभ्यामेतीति वाक्यशेषात् ‘‘ऊरू वा एतौ यज्ञस्य यद्वरुणप्रघासश्च साकमेधश्चेति’’ गमनसाधनोरुसंस्तुतमध्यपर्वद्वयविषयत्वे निश्चिते चातुर्मास्यानां दर्शपूर्णमासविकृतित्वेन प्रणयनस्य प्राप्ततया प्रणयनपुनःश्रुतेर्वैयर्थ्यम् । तथा हि । सा किं परिसङ्ख्यार्था वा गुणार्था वाऽर्थवादार्था वा । नाद्यः । तथा सति द्वयोर्मध्यमपर्वणोरेव प्रणयनं नेतरयोर्द्वयोरिति तत्राहवनीयाभावाद्यागाभावः स्यात् । अथोच्येत । न प्रणयनमात्रं परिसङ्ख्येयं किन्तु धर्मपरिसङ्ख्या । द्वयोरेव धर्मवत्प्रणयनं नेतरयोरिति । मैवम् । न हि धर्मवद्दर्शपूर्णमासयोः प्रणयनम् । येन धर्ममात्रपरिसङ्ख्यायां कृतायां केवलमधर्मकं प्रणयनमितरत्रापि क्रियते । तस्मान्न परिसङ्ख्यार्था । न द्वितीयः । यत्र हि तस्मिन्नेव वाक्ये गुणिनमुच्चार्य किञ्चिद्विधीयते । यथा दध्ना जुहोति, शरमयं बर्हिर्भवतीति । तत्र गुण-विधिः । इह तु प्रणयनमुच्चार्य न किञ्चिद्विधीयते । न तृतीयः । यत्र हि कस्यचिद्विधि-स्तत्रार्थवादो भवति । विधिना त्वेकवाक्यत्वादित्युक्तम् । प्रणयनं तु दर्शपूर्णमासयो-र्विधीयते । इह तु वाक्ये तदविधानात् किमर्थवादेन । तस्मात् प्रणयनपुनः श्रुतिरनन्यार्था भेदिका भवतीति दर्शपूर्णमासपूर्वकाद् गार्हपत्यावधिकाहवनीयप्रणयनाद पूर्वमेवाहवनीया-वधिकमुत्तराहवनीयप्रणयनं द्वयोः प्रणयन्तीति वाक्येन बोध्यते ।
तदुक्तं टुप्टीकायां तन्त्ररत्ने च सप्तमाध्याये तृतीयपादे । शाखान्तरे अग्निप्रणय-नोत्तरकालं आह– वनीयात् द्वावध्वर्युप्रतिप्रस्थातारौ अग्नी प्रणयत इति श्रूयते । तदेक-वाक्यतया द्वयोः प्रणयन्तीत्यनेनाहवनीयात् प्रणयनं विधीयते । तेन चोदकप्राप्तं यद्गार्हपत्यप्रणयनं ततो विलक्षणमिदं तदुत्तरकालमाहवनीयाद्विहारयोः प्रणयनं पशुबन्ध-वदिति । अत्र कश्चिदग्निप्रणयनमबुद्ध्वा तत्स्थाने अप्प्रणयनमिति लिखति । स मीमांसागन्धवैधुर्यमात्मनो व्यानञ्जेत्युपेक्षणीयः ।। श्रुतेरिति ।। विश्वं सत्यमित्यादि-कायाः ।। तत्सत्यमित्यादीति ।। तव मते सन् घटः सद्धटज्ञानं अहमस्मि अज्ञोऽस्मि सत्सुखस्फुरणमित्यादिप्रत्यक्षेणात्मसत्यत्वप्राप्तेः आत्मसत्त्वप्रतिपादिकायास्तत्सत्यं स आत्मेत्यादिकायाः श्रुतेर्वैयर्थ्यं स्यात्तन्मा भूदित्येवमर्थमित्यर्थः ।
ननु न विश्वसत्यत्वश्रुतिस्त्रैकालिकसत्त्वपरा । त्रैकालिकसत्त्वनिषेधकश्रुतिविरोधात् । न च वैपरीत्यमेव किं न स्याद्विनिगमकाभावादिति वाच्यं । तात्पर्यान्यथानुपपत्ति-गतिसामान्ययोरेव विनिगमकत्वात् । अद्वैतश्रुतिर्हि षड्विधतात्पर्यलिङ्गोपेता । तत्र त्रिविधं तात्पर्यलिङ्गं प्रामाण्यशरीरघटकं अर्थनिष्ठमज्ञातत्वमबाधितत्वं प्रयोजनवत्त्वं च । त्रिविधं तु शब्दनिष्ठमतिप्रसङ्गवारकं उपक्रमोपसंहारैकरूप्यमभ्यासोऽर्थवादश्चेति । तत्र शब्दनिष्ठलिङ्गत्रये तावन्न विवादः । सर्वासामुपनिषदामेवंप्रवृत्तत्वात् मानान्तरासिद्धतया मोक्षहेतुज्ञानविषयतया चाज्ञातत्वं प्रयोजनवत्त्वं च निर्विवादमेव । अबाधितत्वमात्रं सन्दिग्धम् । तच्चान्यथानु-पपत्तिगतिसामान्याभ्यां निर्णीयते । न हि सर्वप्रपञ्चनिषेधरूपमद्वैतं व्यावहारिकम् । येन तत्र श्रुतेर्व्यावहारिकं प्रामाण्यं स्यात् । अतस्तत्र तात्विकमेव प्रामाण्यम् । द्वैतसत्यत्वं तु व्यावहारिकम् । अतस्तत्र न श्रुतेस्तात्त्विकं प्रामाण्यम् । परस्परविरुद्धयोर्द्वयो-स्तात्विकत्वायोगात् । वस्तुनि च विकल्पासम्भवात् । तात्विकव्यावहारिकप्रामाण्यभेदेन व्यवस्थोपपत्तेः । स्तुतिपरत्वेनावधारितस्य विश्वसत्यत्ववाक्यस्यैवान्यथा व्याख्यातुमुचित-त्वात् । तथा हि । चतुर्धा हि सामानाधिकरण्यम् । अध्यासे इदं रजतमित्यादौ । बाधायां स्थाणुः स पुमानित्येवमात्यादौ । विशेषणविशेष्यभावेन तु नीलमुत्पलमित्यादौ । अभेदेन तत्त्वमसीत्यादौ । अत्र च बाधायामध्यासे वा सामानाधिकरण्योपपत्तेर्न सत्त्वबोधकश्रुतेः षड्विधतात्पर्यलिङ्गोपेताद्वैतश्रुतिबाधकत्वमिति ।
अत्रोच्यते । एवं हि बाधिततया प्रतीयमानादन्यार्थस्यानुपपत्त्या स एवाबाधितोऽर्थ इत्यध्यवसीयत इत्युक्तं स्यात् । तथा च तत्त्वमसीत्यादौ सामानाधिकरण्यस्य तत्त्वमादि-पदार्थ विशिष्टैक्यं विना यस्यार्थस्यानुपपत्त्या विशिष्टैक्यमर्थः स्यात्तत्र लक्षणादिनो-पपत्तिरिति यदि तर्ह्यद्वैतवाक्येऽपि स्वतन्त्राद्वितीयमर्थोऽस्तु । अन्यथा तव मते व्यावहारिकार्थं प्रस्तरवाक्यं व्यावहारिकं यजमानाभेदं बोधयेत् । मानान्तरं तु प्रातिभासिकं यजमानभेदं बोधयति । तत्त्वमसिवाक्यमपि तात्विकं विशिष्टाभेदं बोधयति । प्रत्यक्षं तु तयोर्व्यावहारिकं भेदं बोधयतीति द्वय्यपि मीमांसोन्मूलिता स्यात् । गतिसामान्यं त्वभ्यासपर्यवसन्नमबाधित्वा साधकमसिद्धञ्च । सर्वस्यापि वाक्यस्य त्वन्मते अखण्डब्रह्म-परत्वात् । तस्माद्द्वैताद्वैतवाक्ययोर्विरोधे मानान्तराविरुद्ध एव वाक्यार्थोऽध्यवसातव्य इति द्वैतश्रुतेरेवाद्वैतश्रुतिबाधकत्वं युक्तम् । व्यावहारिकतात्विकार्थविषयत्वेन श्रुतेर्व्यवस्थापनं त्वयुक्तम् । अन्योन्याश्रयापातेन विनिगमनाविरहात् । अध्यासे बाधे च सामानाधि-करण्योपपादनमप्ययुक्तम् । तदध्यासादेरद्याप्यसिद्धेरिति ।। सुखं सुप्तोऽस्मीति ।। सुप्तौ स्वरूपानन्दो गृह्यते, स्वरूपं च तदज्ञानोपहितमेव साक्षिविषय इति सौषुप्तिकानन्दस्या-तात्विकत्वमित्यर्थः । ननु साक्षिण उपहितानन्दविषयत्वं श्रुतेश्च निरुपाधिकानन्दविषयत्वात् नानुवादकत्वं भिन्नविषयत्वादिति चेत् तर्हि प्रत्यक्षगृहीतसत्त्वापेक्षया श्रुतेरपि भिन्नसत्त्वं विषय इति नानुवादकत्वं श्रुतेरित्यवेहि । साधारणधर्मदर्शनादिजन्यप्रामाण्यसंशयाक्रान्तत्व-रूपानाश्वासनिरासप्रयोजनवत्त्वेन न निष्प्रयोजनानुवाद इत्याह ।। निगमनवदित्या-दिना ।। ननु पिपासितस्य शब्दादिना जले ज्ञातेऽपि न प्रत्यक्षेण तज्ज्ञानमिति तत्सिध्यर्थं प्रत्यक्षापेक्षा । प्रकृते तु प्रत्यक्षसिद्धे सत्यत्वे न शब्दापेक्षा भविष्यतीत्यत आह ।। प्रत्यक्षसिद्ध इति ।। न किञ्चिदवेदिषमिति प्रत्यक्षसिद्धेऽप्यज्ञाने तम आसीदिति श्रुतेस्त्वयापि प्रमाणत्वेनोपन्यासादित्यर्थः । न च तम आसीदित्यस्य सृष्टिकाल-सम्बन्धित्वेनाज्ञानग्राहितया सुषुप्तिकालसम्बन्धित्वेनाज्ञानग्राहकप्रत्यक्षमपेक्ष्य भिन्नविषय-त्वेनैव प्रामाण्यसम्भव इति वाच्यम् । एतावन्तं कालं शुद्धं ब्रह्म नावेदिषमिति अनादिकालसंसृष्टाज्ञानानुभवेन सृष्टिकालेऽपि तत्सिद्धेः ।।
न्यायामृतकण्टकोद्धारः
क्रमप्राप्तमागमबाधमाह– किञ्चेति । विश्वं सत्यमिति मन्त्रस्य तावदयमर्थः–
‘‘विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम् ।
अच्छेन्द्रा ब्रह्मणस्पती हविर्नोन्नं युजेव वाजिना जिगातम् ।।’’
इति हि द्वितीयाष्टकस्थो हि मन्त्रः । हे इन्द्राब्रह्मणस्पती । मघवाना मघवानौ मघवन्तौ । मघमिति धननाम । मखवन्ताविति वा । युवोः युवयोः सम्बन्धि विश्वं सर्वं जगत् । यद्वा अर्थवशात् विभक्तिविपरिणामः । युवाभ्यां सृष्टं जगत् । सत्यमित् । इच्छब्दोऽवधारणे । सत्यमेव यथार्थमेव न तु ज्ञानबाध्यमित्यर्थः । अत्रोपपत्तिमाह – आपश्चन । चनशब्दो निपातसमुदायोऽप्यर्थः । आपो वै सर्वा देवता इति श्रुतेः, देवता अपि । वां युवयोर्व्रतं सत्यजगत्सर्जनादिरूपं, प्रमिनन्ति यथार्थतो जानन्ति । तथा च देवैर्यथार्थतो ज्ञातत्वात् ब्रह्मवत् सत्यमित्युक्तं भवति । यद्वा, विश्वं समग्रं सत्यं कर्म युवयोरित् युवामुद्दिश्यैवानुष्ठेयमिति । द्वितीयपादार्थः पूर्ववत् । अस्मिन् पक्षे जगत्सत्यत्वाभावे कर्मणां सत्यत्वं नोपपद्यत इति तत्सत्यत्वोक्त्या जगत्सत्यत्वमपि सिध्यति । अथवा युवयोरेव विश्वं सर्वं स्तोत्रं सत्यं यथार्थम् । यद् यद् गुणजातं श्रुत्या प्रतिपाद्यते तत् सर्वं युवयोर्विद्यमानमेव, न त्वारोपितमित्यर्थः । एतादृशौ युवां नोऽस्माकं हविर्दध्यादिकम् अन्नं चरु पुरोडाशादिकं च अच्छा अभिलक्ष्य वाजिना वेगवन्तौ अश्वाविव युजा युक्तौ जिगातम् आगच्छतम् । अयं गतिकर्मा जुहोत्यादिकः । अन्नं घासं प्रति अश्वाविवेति वा । न चात्र सत्यं सत्यत्वेन प्रतीयमानमित्यर्थ इति वाच्यम् । ‘तत् सत्यं स आत्मा’ इत्यत्रापि तथात्वापत्तेः । यच्चिकेतेति ।
शाक्मना शाको अरुणः सुपर्ण आयो महः शूरः सनादनीः ।
यच्चिकेत सत्यमित् तन्न मोघं वसु स्पार्हमुत जेतोत दाता ।।
इति मन्त्रस्यायमर्थः । शक्मैव शाक्म । तेन शाक्मना बलेन शाकः शक्तः । स्वशक्त्यैव सर्वं कर्तंु शक्त इत्यर्थः । न हीन्द्रस्य सहायान्तरापेक्षाऽस्तीन्द्रत्वादेव । अरुणः अरुणवर्णः । सुपर्णः सुष्ठु परमानन्दरूपः । आ इत्युपसर्गश्रुतेः आगच्छतीत्यध्याहारः । यद्वा आसमन्ताद् यो महान् शूरः विक्रान्तः सनात् पुराणः अनीः अनीडः । उपलक्षणमेतत् । पोषकादिविहीनः । एवम्भूतो य इन्द्रः स यच्चिकेत यच्चकार तत् सत्यमित् तत् सत्यमेव । न तु बाध्यमित्यर्थः । कथम्भूतः? स्पार्हं स्पृहणीयं, वसु धनं जेतापि शत्रुभ्यः, दातापि स्वभक्तेभ्यः । उतशब्दोऽ-प्यर्थः । जेता दातेति तृन् । तेन नलोकेति षष्ठीनिषेधः ।
याथातथ्यत इति । ‘‘कविर्मनीषी परिभूः स्वयं भूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः’’ इति श्रुतेरयमर्थः । कविः सर्वज्ञः । मनीषी मनसामीशिता इन्द्रियप्रेरकः । परिभवति सर्वानिति परिभूः । स्वयम्भूः स्वतन्त्रो भगवान् । अर्थान् महदादीन् । शाश्वतीभ्यः समाभ्योऽनन्तानन्तकालेषु याथातथ्यतो यथार्थानेव व्यदधात् अकरोदिति ।
स्मृतौ, येऽसत्यमप्रतिष्ठं जगदाहुस्त आसुरा इत्यग्रिमेण सम्बन्धः । अप्रतिष्ठं ज्ञानबाध्यम् । असत्यं सद्विलक्षणम् ।
नाभाव इति । जगदभावो न असन्न । उपलब्धेः सदिति प्रतीयमानत्वात् । ननु सदिति प्रतीयमानमपि स्वप्नवद् असत्यं किं न स्याद् इत्यत्रोक्तं वैधर्म्याच्चेति । सदिति प्रतीयमानत्वेऽपि जगत् स्वप्नवद् असन्न । बाधाभावरूपस्वप्नवैधर्म्यादिति सूत्रद्वयार्थः । न च स्तुतिपरत्वात् मन्त्रद्वयस्य न जगत्सत्यत्वे मानत्वमिति वाच्यम् । एवं सर्वत्र मन्त्रेषु स्तुतिपरतायाः वक्तुं शक्यत्वेन वस्तुपरत्वाभावे अर्थप्रकाशनसामर्थ्यरूपलिङ्गेन मन्त्राणां विनियोगो जैमिनिना नोच्येत । मन्त्राणामिन्द्रादिपरत्वाभावेनार्थप्रकाशनरूपसामर्थ्याभावात् । तथा श्रुत्या लिङ्ग-बाधोऽपि नोच्येत । लिङ्गप्राप्तार्थकस्य तदर्थशास्त्रस्यानुवादकताऽपि नोच्येत । न चार्थ-परत्वाभावेऽपि तत्प्रतीतिमात्रेणार्थप्रकाशनरूपलिङ्गसद्भाव इति वाच्यम् । तात्पर्यभ्रमेण शक्तिभ्रमेण वाऽन्यार्थप्रतीतिसम्भवात् । किञ्चैवं स्तुतिपरत्वं सत्यं ज्ञानमनन्तमित्यादावपि वक्तुं शक्यम् । यतः सत्यत्वादिधर्मोपेतम् अतः उत्कृष्टं ब्रह्म ज्ञेयमिति । एवं च ब्रह्मणः सत्यत्वादिकं न सिध्येत् । तत्र तात्पर्यलिङ्गमस्तीति चेत् प्रकृतेऽपि तस्याग्रे वक्ष्यमाणत्वात् । अपि च स्तुतिपरत्वेऽपि कुतः सत्यत्वाद्यसिद्धिः? स्तुतेरसद्गुणकीर्तनरूपत्वादिति चेन्न । नाविद्यमानमिति श्रुतिविरोधात् । अविद्यमानस्तुत्याऽनर्थोक्तेश्च । नन्वेवमुभयत्र तात्पर्ये वाक्यभेद इति चेन्न । सत्यज्ञानादिवाक्ये सत्यत्वासद्व्यावृत्त्योरिवोभयत्र तात्पर्योपपत्तेः । तत्र सत्यत्वे शब्दतोऽन्यत्रार्थत इति न वाक्यभेद इति यदि तर्हि प्रकृतेऽपि जगत्सत्यत्वे शब्दस्य स्वतस्तात्पर्यम्, अर्थात् स्तुतावित्यस्तु । तस्मात् स्तुतिपरत्वान्न सत्यत्वादौ तात्पर्यमित्ययुक्तम् ।
अत्रादिपदेन क्रमेण ‘विश्वं सत्यं कृणुहि विष्टमस्तु’ । ‘असत्यमाहुर्जगदेतदज्ञाः।’ ‘असत्य-मप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसम्भूतम् ।’ ‘नासतो दृष्टत्वात् ।’ इति श्रुतिस्मृति-सूत्राणि ग्राह्याणि । तत्र तावत् श्रुतेरनुवादकत्वेनाप्रामाण्यात् दुर्बलत्वात् प्रमाणीभूत-मिथ्यात्वानुमानादेर्न बाधकत्वम् । अधिकबलस्यैव तथात्वादित्याशङ्क्य निषेधति– न चायमिति । ततश्चाप्रामाण्यादिकं दूर इति भावः । त्वन्मत इति । तथा चेदं रजतमित्यत्र यथा शुक्तिनिष्ठत्वेनेदन्त्वं धर्मितावच्छेदकत्वेन भासते तथा सन् घट इत्यत्रापि घटादिधर्मितावच्छेद-कत्वेन ब्रह्मनिष्ठमेव सत्त्वं भासते न तु घटनिष्ठत्वेनेति घटादिनिष्ठसत्त्वस्य प्रत्यक्षाप्राप्ततया घटनिष्ठसत्त्वबोधकश्रुतेर्नानुवादकत्वमिति भावः । मन्मतेऽनुवादकत्वेऽपि त्वां प्रति तत्परिहार-मात्रेण प्रमाणत्वसम्भवात् । अन्यथा परार्थानुमानप्रयोगे प्रतिवादिना वादिसिद्धतया सिद्धसाधनतोच्येत ।
ननु इतरसत्त्वबाधपुरःसरत्वाद् ब्रह्मस्फुरणाभ्युपगमस्य तत्रैव सत्यादिपदवृत्तिस्वीकारेण तदतिरिक्तविश्वसत्त्वस्य शाब्दबोधाविषयत्वात् तदादायानुवादकत्वापरिहार इति चेन्न । एवं हि वदतेदमुक्तं भवति । ब्रह्मसत्त्वमेव घटादौ स्फुरतीत्यङ्गीक्रियते । इतरस्य घटादिनिष्ठसत्त्वस्य बाधात् । एवं च ब्रह्मसत्त्व एव सत्त्वपदशक्तिर्गृहीतेति यत्र यत्र सत्पदं श्रूयते तत्र सर्वत्र ब्रह्मसत्त्वस्यैव बुद्धिः । नेतरस्य । तत्र शक्तेरगृहीतत्वात् । एवं च विश्वं सत्यमित्यादावपि प्रत्यक्षे यत् सत्त्वं भातं तदेव स्फुरतीत्यनुवादकत्वमिति । तदेतद् वल्गनमात्रम् । एवं हि तत्सत्यमित्यादेरप्यनुवादकत्वं दृढीकृतं स्यात् । प्रत्यक्षप्राप्तब्रह्मसत्त्वबोधनादेव ब्रह्मसत्त्वे वेदान्तानां तात्पर्यं च न स्यात् । अपूर्वत्वाभावात् । किञ्च व्यवहारानुमेयः सङ्केतः । न तु स्वसमय-मात्रेण । अर्थप्रत्ययेऽतिप्रसङ्गात् । न हि लोके सत्यादिपदैः ब्रह्मसत्त्वमेव व्यवह्रियते । एवं च व्यवहारेण येन सत्यपदस्याबाध्यत्वमात्रे शक्तिर्गृहीता तस्य विश्वं सत्यमित्यत्र सत्पदेन विश्ववृत्त्यबाध्यत्वस्योपस्थितौ क्वानुवादकत्वमिति । अस्तु वा घटादिसत्त्वस्यैव प्रत्यक्षेण प्राप्तिः । तेन च कथञ्चित् विश्वं सत्यमित्यत्रानुवादकत्वशङ्कायामपि उत्तरवाक्यद्वये नैवमित्याह– यच्चिकेतेत्यादीति । मानान्तराप्राप्तसत्येति स्रष्टृत्वविशेषणम् । न तु जगतः । नन्वेवं सृष्टेः सत्त्वे कथं जगतः सत्त्वमिति चेत् जगत्सत्त्वं विना सृष्टिसत्यत्वानुपपत्तेः । अथवाऽस्तु जगतो विशेषणम् । तथाप्यदोषः । जगति महदादौ प्रत्यक्षेण सत्त्वं न प्राप्तम् । प्रकरणानुरोधेन उत्तरवाक्येऽपि अर्थानित्यस्य महदादीनिति व्याख्यानाच्च । पृथिवी इतरभिन्नेत्यत्रैकदेशे घटादौ प्रत्यक्षेणेतरभेदसिद्धावपि पृथिवीमात्रे तदसिध्या यथा न सिद्धसाधनता, यथा वा न हिंस्यात् सर्वा भूतानीत्यत्र ब्राह्मणादौ, ब्राह्मणो न हन्तव्य इत्यादि वाक्यान्तरेण विधेयाहिंस्यत्व-सिद्धावपि भूतमात्रे तदसिध्या नानुवादकता तथा प्रत्यक्षेणापि घटादावेकदेशे सत्त्वसिद्धावपि विश्वत्वावच्छेदेन तदसिध्या विश्वमित्यत्रापि नानुवादकतेत्यर्थः ।
ननु वैषम्यम् । दृष्टान्ते हि पृथिवीत्वं भूतत्वं चेत्यनुगतधर्मोऽस्तीति तदवच्छेदेन विधेयस्या-प्राप्तत्वेन तत्राननुवादकत्वं युक्तम् । इह तु विश्वत्वं नैको धर्मोऽस्ति । किन्तु विश्वशब्दः सर्वनामा, तेन तेन रूपेण घटादीनामुपस्थापकः । तेषु च प्रत्येकं सत्त्वं गृहीतमेवेति कथं नानुवादकत्वमिति चेन्न । सर्वनाम्नोऽपि बुद्धिस्थत्वावच्छिन्नवाचकत्वात् बुद्धिस्थत्वावच्छेदेन तदसिध्याऽत्रापि नानुवादकता । अन्यथा विश्वादिशब्दानां नानार्थकत्वं स्यात् । एकदा सर्वपदार्थोपस्थापकत्वं च न स्यात् । विश्वशब्दे सङ्केतग्रहश्च न स्यात् । विश्वशब्दात् समूहालम्बनं च न स्यात् । केनचिद्धर्मेणैकीकृतसर्वपदार्थानुभवविरोधश्च स्यात् । तस्मात् केनचिद्धर्मेणैकीकृतबुद्धिस्थसर्ववाचको विश्वशब्द इत्यकामेनापि स्वीकर्तव्यम् । तथा च कथमनुवादकत्वमिति । अस्तु वा प्रातिस्विकरूपेणोपस्थापकत्वं तथापि घटाद्यंशेऽनुवादकत्वेऽपि प्रत्यक्षायोग्यांशे तदप्राप्त्या नानुवादकत्वमिति ।
ननु तथापि ज्ञातज्ञापकत्वस्यैवानुवादकत्वप्रयोजकत्वात् कथं नानुवादकत्वमित्यत आह– अनुवादकत्वं हीति । तस्माद्धर्मिभेदान्नानुवादकत्वमित्येतावतोक्तम् । इदानीं प्रमातृभेदाच्च नेत्याह– एकशाखास्थेति । तथा च शाखान्तराधिकरणे (सत्यत्वे) यथाऽनेकशाखा-स्थान्येकार्थानि वाक्यानि पुरुषभेदेन नानुवादकानि तथा येन पुरुषेण विप्रतिपत्त्यादिना भेदो न निर्णीतः तं प्रति वाक्यस्यापरिच्छिन्नार्थपरिच्छेदकत्वेन सार्थकत्वमित्यर्थः । शाखान्तराधिकरणं त्वित्थम् । द्वितीयाध्याये चतुर्थपादे द्वितीयाधिकरणे चिन्तितम् । ‘‘नामरूपधर्मविशेष पुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरे कर्मभेदः स्यात्’’ इति सूत्रम् । काठककाण्वमाध्यन्दिनतैत्तिरीयशाखादिषु दर्शपूर्णमासाग्निहोत्रादिकं कर्म समाम्नातम् । तत्र सन्देहः । प्रतिशाखं कर्म भिद्यते न वेति ।
पूर्वपक्षस्तु – प्रतिशाखं कर्म भिद्यते । कर्मभेदकानां प्रमाणानामत्र बहुलमुपलम्भादिति । तथा हि– पूर्वं इडो यजतीत्यादावविशेषपुनःश्रुतिलक्षणाभ्यासात् कर्मभेद उक्तः । सोऽविशेष-पुनःश्रुतिलक्षणाभ्यासोऽत्राप्यस्तीति तेन कर्मभेदसिद्धिः । तथा कुण्डपायिनामयने मासमग्निहोत्रं जुहोतीत्यत्र दूरत्वलक्षणात् प्रकरणान्तराद्भेद उक्तः । तच्च दूरत्वलक्षणं प्रकरणान्तरमिहाप्यस्ति । तेनापि कर्मभेदसिद्धिः । तथा ‘‘सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनमित्यत्र उत्पत्तिशिष्ट-गुणावरुद्धे’’ उत्पन्नशिष्टगुणानन्वयात् गुणात् कर्मभेद उक्तः । तथेहापि क्वचिदैन्द्राग्नमेकादश-कपालं निर्वपेदिति श्रुतम् । क्वचिद् द्वादशकपालमिति । तत्रावश्यमन्यतरेण कर्मोत्पादयितव्य-मिति । येन चोत्पादितं तद्गतो गुण उत्पत्तिशिष्ट इति । इतरस्तत्र निवेशमलभमानः कर्मान्तरं कल्पयति । तथा काठककाण्वादिनामभेदाच्च तत्सिद्धिः । कारीरीवाक्यान्यधीयानाः केचित् शाखिनो भूमौ भोजनमाचरन्ति । शाखान्तराध्यायिनो नाचरन्ति इति धर्मभेदाच्च । एकस्यां शाखायामधीता इषे त्वेत्यादयो मन्त्राः पलाशशाखाच्छेदादयः क्रियाश्च शाखान्तरेऽधीयन्त इति पुनरुक्तेश्च । एवमशक्त्यादयो भेदहेतव उदाहर्तव्याः । न ह्यल्पायुषा मनुष्येण सर्वशाखाध्ययनपूर्वकं कर्मानुष्ठानं कर्तुं शक्यम् । तस्मात् शाखाभेदेन कर्मभेद इति ।
सिद्धान्तस्तु – रूपाद्यभेदादेकं प्रतिशाखं कर्मेति । तथाहि – आग्नेयाष्टाकपालादियागरूपं यदेकस्यां शाखायां प्रतीयते तदेवान्यत्रापि उपलभ्यते । तथा दर्शपूर्णमासाभ्यां यजेतेति यागरूप-पुरुषव्यापारश्चैकविधः । दर्शपूर्णमासाविति कर्मनामाप्येकम् । स्वर्गकाम इति फलसम्बन्धोऽ-प्येकः । तथा चाभेदेन प्रत्यभिज्ञानात् अभिन्नं कर्म । न चाविशेषपुनःश्रुतिलक्षणाभ्यास-प्रकरणान्तरगुणादिभिर्भेद उक्त इति वाच्यम् । अविशेषपुनःश्रुत्या हि कर्म विधेयमित्येव सिध्यति । विधिवशात्तु भेदः । विहितस्य विधानायोगात् । एवं दूरत्वेऽपि विपरिवृत्त्यभावात् कर्मविधानम् । विधानाच्च भेदः । एवमत्रापि अभ्यासादिवशात् कर्म विधेयमित्येव सिध्यति । न तु विधानाद् भेदसिद्धिः । न चैवं तर्हि पूर्वं कथं तैः प्रमाणैर्भेदसिद्धिरिति वाच्यम् । तत्रैव हि तैः प्रमाणैः भेदः सिध्यति यत्र विहितस्य विधानं न सम्भवति । प्रकृते च विहितस्यापि पुरुषान्तरं प्रति विधिसम्भवात् । यथा खल्वेकस्यामेव शाखायां विद्यमानमग्निहोत्रादिवाक्यम् एकस्य पुरुषस्य विहितमेवापरस्यापि विधत्ते, न कर्मान्तरम्, एवमत्राप्यध्येतृभेदात् तान् प्रति सर्वाण्येव वाक्यानि एकमेव कर्म विदधति, न कर्मान्तरम् । एवं गुणादपि कर्मभेदः । एकादशद्वादशकपालयोरपि अधिकारिभेदेनोत्पत्तिशिष्टत्वेन बलाबलाभावात् । नामभेदस्तु नास्त्येव । काठककलापादिकं तु ज्योतिरादिवत् न कर्मनामधेयम् । ज्योतिषा यजेतेतिवत् काठकेन यजेतेति यजिसामानाधिकरण्येनाश्रवणात् । किन्तर्हि? काठकमधीयत इति प्रयोगात् ग्रन्थनामैव तदिति ज्ञातव्यम् । भूभोजनादिरध्ययनधर्मो, न कर्मधर्मः । न चाल्पायुषा मनुष्येण सर्वशाखाध्ययनपूर्वकं कर्मानुष्ठानं कर्तुमशक्यमिति वाच्यम् । अल्पायुषापि स्वशाखाध्ययनेन शाखान्तरस्थोपसंहारन्यायेन कर्मानुष्ठानं शक्यते । एवमन्यदपि भेदकं परिहरणीयम् । तथा च कर्मभेदकानां नामादीनामन्यथासिद्धत्वात् रूपप्रत्यभिज्ञानाच्च शाखाभेदेऽपि न कर्म भिद्यत इति ।
नन्वेवमधिकारिभेदेनानुवादकत्वपरिहारे कुत्राप्यनुवादकत्वं न स्यात् इति चेत्, सर्वाविवादस्थल एव तस्य सम्भवात् । न च तदनिश्चयः । न ह्यनुवादकत्वं निरवधिकम् । येन हि स्फीतालोकमध्यवर्तिघटो निर्णीतः, तं प्रति तत्र घटसत्त्वप्रतिपादकवाक्यस्यानुवादकत्व-सम्भवात् । अत एव शाखान्तराधिकरणेऽनेकशाखाध्यायिनं प्रति तदभ्युपगम्य एकशाखा-मात्राध्यायिनं प्रति अननुवादकत्वमुक्तम् । तावतापि सार्थकत्वसम्भवात् । न च शाखान्तराधिकरणे नानुवादकत्वम् । अनुवादकत्वस्य पुरोवादपूर्वकत्वात् इति शङ्क्यम् । प्रतिपत्रपेक्षया तत्सम्भवात् । येन हि पुंसा स्वशाखाऽधीता, पुनश्च शाखान्तरमधीतम्, तस्य स्वशाखायाः पुरोवादत्वेन शाखान्तराणामनुवादकत्वम् इति सम्भवात् ।
अत एवेति । ननु भाष्यस्य नायमर्थः – देहव्यतिरिक्तात्मप्रत्यक्षमस्ति, अस्तीत्येवोप-लब्धव्य इत्यादिश्रुतेश्च वादिविप्रतिपत्तिनिरासेन सार्थकत्वमननुवादकत्वं चेति । किन्तर्हि? वादिविप्रतिपत्तिदर्शनेन देहव्यतिरिक्तात्मनः प्रत्यक्षतैव नास्ति । अन्यथा प्रत्यक्षप्रामाण्य-वादिनश्चार्वाकादेस्तत्र विप्रतिपत्तिर्न स्यादिति चेन्न । तथा भाष्यार्थवर्णने प्रत्यक्षविरोधात् । देहव्यतिरिक्तात्मप्रत्यक्षस्य प्राणभृन्मात्रसिद्धत्वात् । मम देह इति हि सर्वेषां प्रत्ययः, न तु देहोऽहमिति कस्यापि । अन्यथा देहभेदाननुसन्धाने यत् स्तनपानं तद् इष्टसाधनं, यथा पूर्वदेहभुक्तस्तनपानमिति व्याप्त्ययोगेनेष्टसाधनत्वानुमित्यभावापत्त्या प्रवृत्त्यनुपपत्तौ जीवनमेव न स्यात् । तस्मात् देहभेदस्यैव सर्वेषां प्रत्यक्षत्वेन उक्तरीत्यैव भाष्यं व्याख्येयम् । प्रत्यक्षैक-प्रमाणवादिनश्चार्वाकस्य च स्वसमयाग्रहमात्रेण प्रत्यक्षे प्रामाण्यशङ्कायां तत्र विप्रतिपत्त्युपपत्तेः । न हि चार्वाकोऽपि सर्वं प्रत्यक्षं यथार्थमेवेति मन्यते । अपि पुनः शुक्ताविदं रजतमिति भ्रमोऽपि ।
धर्मभेदादपि नानुवादकत्वमित्याह । प्रणयन्तीति – सप्तमस्य तृतीये चिन्तितम् । ‘सौमिकं हि प्रणयनमवाच्यं हीतरत्’ इति सूत्रम् । चातुर्मास्ये चत्वारि पर्वाणि वैश्वदेव–वरुणप्रघास–साकमेध–शुनासीरीयाख्यानि । तत्र मध्यमयोः पर्वणोः श्रूयते ‘‘द्वयोः प्रणयन्तीति द्वाभ्यामेती’’ति । अत्र सन्देहः– किमिदं प्रणयनं प्राकृतमुत सौमिकम् उतापूर्वमिति । अत्र प्रणयनमात्रश्रवणात् तस्य चातिदेशतः प्राप्तेस्तस्यैवेयं पुनःश्रुतिः परिसङ्ख्यार्था गुणार्थाऽर्थवादार्था वेत्येकः पूर्वपक्षो न युज्यते परिसङ्ख्यायास्त्रिदोषत्वात्, गुणस्य चाश्रुतेः । अर्थवादस्य च विध्यभावे आनर्थक्यात् । किन्तु आनर्थक्यपरिजिहीर्षया सामान्यवचनोऽपि प्रणयनशब्दः सधर्मिकं सौमिकं प्रणयनं लक्षणया प्रतिपादयतीति द्वितीयः पूर्वः पक्षः । तथा चोत्तर-वेदिनिषेधोऽवकल्पते ‘न वैश्वदेव उत्तरवेदिमुपवपन्ति’ ‘न शुनासीरीय’ इति । न चाय‘मुपात्र वपन्ती’त्यस्य प्रतिषेध इति वाच्यम् । तस्यावान्तरप्रकरणेन वरुणप्रघासविषयत्वात् । प्रथमोत्तमयोरप्राप्तेः प्रतिषेधानर्थक्यात् । अस्मिन् पक्षे प्रथमोत्तमयोरिदं सौमिकं प्रणयनमुत्तरवेदिं विना न सम्भवतीत्युत्तरवेदिप्राप्तौ सत्यां निषेधोऽवकल्पते, नान्यथा । यदि चेदं सौमिकं प्रणयनं मध्यपर्वणोः स्यात् ततस्तद्वशेनैव मध्यमोत्तमयोरुत्तरवेदिसिद्धे उपात्र वपन्तीत्ययं प्रथमोत्तमविषय एव स्यात् । तथा च तयोरेव प्रतिषेध इति व्याघातः । तस्मात् प्रथमोत्तमयोः सौमिकं प्रणयनं उत्तरवेदिकं विधीयत इति ।
सिद्धान्तस्तु – प्रणयन्तीति प्रणयनशब्दो न सौमिकं प्रणयनं प्रतिपादयति । प्रणयनशब्दस्य सौमिकप्रणयनवाचकत्वाभावात् । लक्षणया तत्परत्वस्यागतिकगतित्वात् । प्राकृतप्रणयनानुवादे चानर्थक्यम् । तस्मात् प्रणयन्तीत्येतत् अप्राकृतमसौमिकमपूर्वमेव प्रणयनं वदत्वाहवनीयतः । न चात्र प्रणयनमात्रं श्रूयते नाहवनीयत इति विशेष इति वाच्यम् । शाखान्तरे ‘आहवनीयाच्चाग्निं प्रणयतः’ इति वचनात् तत्प्रतीतेः । तथा चैतद्वचनैकार्थेन द्वयोः प्रणयन्तीत्यनेन प्राकृत-प्रणयनोत्तरकाले आहवनीयात् अग्न्यन्तरस्य प्रणयनं विधीयते । तच्च, ऊरु वा एतौ यज्ञस्य, यद्वरुणप्रघासः साकमेधश्चेति गतिसाधनोरुत्वेन द्वयोः स्तुतिरूपार्थवादेत्यर्थवादवशात् मध्यमयोः पर्वणोर्भवति । उत्तरवेदिप्रतिषेधस्तु, उपात्रवपन्तीत्यस्य सामान्यविषयस्य पर्युदासार्थः । सामान्यविषयत्वं चास्य भाष्य एव समर्थितम् । तस्मादपूर्वमेव प्रणयनं विधीयत इति स्थितम् । एवं च यथात्रानर्थक्यपरिहारायापूर्वप्रणयनप्रापकता तथा श्रुत्यानर्थक्यपरिहाराय प्रत्यक्षाद्यप्राप्त-त्रिकालाबाध्यत्वरूपसत्त्वप्रापकत्वात् नानुवादकतेति । न च त्रैकालिकसत्त्वनिषेधकश्रुतिविरोधेन विश्वसत्यत्वश्रुतेः त्रैकालिकसत्त्वपरत्वं न सम्भवतीति वाच्यम् । विश्वसत्यत्वश्रुतिविरोधेना-द्वैतश्रुतेरेव त्रैकालिकसत्त्वनिषेधपरत्वासम्भावात् । विनिगमकाभावात् ।
ननु चाद्वैतश्रुतेस्तत्परत्वे तात्पर्यानुपपत्तिगतिसामान्ययोरेव विनिगमकत्वम् । तथा हि – अद्वैतश्रुतिर्हि षङि्वधतात्पर्यलिङ्गोपेता । तत्र त्रिविधं तात्पर्यलिङ्गं प्रामाण्यशरीरघटकमर्थनिष्ठम् – अज्ञातत्वमबाधितत्वं प्रयोजनवत्त्वं चेति । त्रिविधं तु शब्दनिष्ठमतिप्रसङ्गनिरासकम् – उपक्रमोप-संहारयोरैकरूप्यमभ्यासोऽर्थवादश्चेति । तत्र शब्दनिष्ठलिङ्गत्रये न विवादः । सर्वासामुपनिषदामेवं प्रवृत्तत्वात् । मानान्तरासिद्धतया मोक्षहेतुज्ञानविषयतया चाऽज्ञातत्वं सप्रयोजनवत्त्वं च निर्विवादमेव । अबाधितत्वमात्रं सन्दिग्धम् । तदप्यनुपपत्तिगतिसामान्याभ्यां निर्णीयते । न चाद्वैतं व्यावहारिकमिति वाच्यम् । सर्वप्रपञ्चनिषेधरूपत्वात् । तथा च श्रुतेर्व्यावहारिक-प्रामाण्यासम्भवात् तत्र तात्विकमेव तदिति चेन्मैवं वोचः । अद्वैतश्रुतेः षडि्वधतात्पर्याभावात् । यच्च प्रामाण्यशरीरघटकमर्थनिष्ठं त्रयमुक्तं तत्र न तावदबाधितत्वम् । परीक्षितप्रत्यक्षापूर्वार्थक-भेदश्रुत्योरेव बाधकत्वात् । न चानुपपत्तिगतिसामान्याभ्यां तन्निश्चयः । औते तात्पर्यस्यैवा-भावात् । एकविधब्रह्मप्रतिपादकत्वेन गतिसामान्यासम्भवाच्च । ऐक्यज्ञानस्य च मोक्षसाधन-ज्ञानविषयत्वमसिद्धम् । प्रत्युतैकात्म्यं नाम यदिदं केचिद् ब्रूयरनैपुणा इति प्रमाणेनानर्थसाधन-मेव । तस्मादबाधितत्वं प्रयोजनवत्त्वं च नास्त्येव । अज्ञातत्वमात्रमवशिष्टम् । तावन्मात्रेण प्रामाण्ये बौद्धोक्तानां क्षणिकत्वशून्यकारणत्वप्रतिपादकानामपि प्रामाण्यं स्यात् । शब्दनिष्ठमपि त्रयमसिद्धम् । औते उपक्रमाद्यभावात् । यथा चैतत् तथा तत्त्वमसीति श्रुतिव्याख्यानावसरे वक्ष्यते । भेदश्रुतावेव षड्विधतात्पर्यस्य वक्ष्यमाणत्वाच्च । किञ्चाद्वैतश्रुतिर्यदि मिथ्यात्वविशिष्टपरा तदाऽखण्डार्थत्वभङ्गः । यदि च लक्षणया स्वरूपमात्रपरा तदा न भेदबाधिकेत्यास्तां विस्तरः । तस्मादपूर्वत्रिकालाबाध्यसत्त्वप्रापकता सत्त्वश्रुतेर्युक्तेति ।
ननु विश्वसत्यत्वश्रुतिरन्यथा व्याख्यातुं शक्यते । चतुर्धा हि सामानाधिकरण्यं सम्भवति । अध्यासे – इदं रजतमित्यादौ । बाधायां – स्थाणुः पुमानित्यादौ । विशेषणविशेष्यभावेन – नीलमुत्पलमित्यादौ । अभेदेन – तत्त्वमसीत्यादौ । एवं चाध्यासे बाधायां वा विश्वं सत्यमिति सामानाधिकरण्योपपत्तेः नानेन विश्वसत्यत्वसिद्धिरिति चेन्मैवम् । तर्हि तत्त्वमसीत्यत्रापि तथा वक्तुं शक्यत्वात् जीवात्मैक्यासिद्धिः स्यात् । तत्र बाधकाभावान्मैवमिति यदि तर्हि प्रकृतेऽपि तथाऽस्तु । तत्रैक्यवाक्यमेव बाधकमिति यदि तर्हि ऐक्यवाक्येऽपि भेदवाक्यं बाधकमिति तुल्यम् । अन्यत् साम्यं पुरैवोपपादितमित्यलम् । अन्यथेति । प्रत्यक्षश्रुत्योर्भिन्नविषयत्वानङ्गीकारे इत्यर्थः । ननु च साक्षिण उपहितानन्दविषयत्वेन श्रुतेश्च निरुपाधिकानन्दविषयत्वेन भिन्न-विषयत्वात् कथमनुवादकत्वमिति चेन्न । प्रकृतेऽपि भिन्नविषयत्वस्योक्तत्वात् । साक्षिण उपहितविषयत्वे उपहितस्य मिथ्यात्वे तद्विषयकस्य साक्षिणोऽप्रमात्वे दोषजन्यत्वेन साक्षिणोऽनित्यत्वापातात् । तथा च तेनाज्ञानादिसिद्धिर्न स्यात् इत्युक्तत्वात् । श्रुताविव प्रत्यक्षेऽप्युपाध्यनुल्लेखाच्च । न ह्युपहितं सुखीत्यनुभवः । तर्ह्यनुवादकत्वं कुत्रेत्यत आह– अनुवादकत्वं त्विति । समानविषयत्वमङ्गीकृत्याप्यनुवादकत्वं परिहरति – निगमनवदिति । पिपासितस्यैवेति । ननु पिपासितस्य शब्दलिङ्गानन्तरं जलप्रत्यक्षमपेक्षितम् । न तु प्रत्यक्षानन्तरं शब्दलिङ्गे । अशेषविशेषग्राहिप्रत्यक्षप्राप्ते दार्ढ्यार्थमन्यानपेक्षणादिति चेन्न । प्रकृतेऽपि श्रुत्यनन्तरं प्रत्यक्षसम्भवात् । न ह्ययं नियमः प्रत्यक्षानन्तरमेव श्रुतिप्रवृत्तिरिति । भेदप्रत्यक्षस्य भेदश्रुत्युपजीव्यत्वाभावात् । भावे वा अनाश्वासनिरासकत्वेन श्रुत्यादेर्दार्ढ्यहेतुत्वसम्भवाच्च । पिपासितस्यापि दूरात् प्रत्यक्षज्ञाते जलेऽनाश्वासनिरासकत्वेन शब्दलिङ्गसापेक्षत्वात् । अत एव पिपासितास्तत्र जलमस्ति न वेति प्रत्यक्षतो ज्ञात्वा पृच्छन्ति, लोकानां कुम्भमादाय गमनादिनाऽनुमापयन्ति च ।
भावरूपेति । ननु तम आसीदित्यस्य सृष्टिपूर्वकालसम्बन्धबोधकत्वेन अज्ञान-ग्राहकप्रत्यक्षमनपेक्ष्य भिन्नविषयत्वेनैव प्रामाण्यसम्भवादिति चेन्न । त्वन्मते कालस्य जन्यत्वेन सृष्टेः पूर्वकालासम्भवेन तत्सम्बन्धबोधकत्वासम्भवात् । अज्ञानाद्यंशेऽनुवादकत्वापरिहाराच्च । प्रकृतेऽपि प्रत्यक्षश्रुत्योः वर्तमानकालावच्छिन्न तदनवच्छिन्नविषयत्वेनानन्दश्रुतेरिवोपहितानु-पहितविषयत्वेन भिन्नविषयत्वान्नानुवादकता । तर्ह्यनुवादकत्वं कुत्रेत्यत आह– अनुवादकत्वं त्विति । उक्तार्थे आचार्यवचनं प्रमाणयति– तदुक्तमिति ।
न्यायामृतप्रकाशः
विश्वमिथ्यात्वानुमानस्यागमबाधमप्याह ।। किञ्चेति ।। प्रत्यक्षप्राप्तेति ।। प्रत्यक्षप्राप्त-सत्यत्वेत्यर्थः । व्यावृत्तं अननुवृत्तं यद्धटादि तदन्यद्यदनुवृत्तं ब्रह्म तत्त्वेन तत्स्वरूपत्वेन । परमते घटो नित्य इत्यादिष्विव सन्घट इत्यत्र घटे सत्त्वं न प्रतीयते किन्त्वधिष्ठानभूत-सद्ब्रह्मानुवेधमात्रमित्यङ्गीकारेण घटः सन्नित्यादि प्रत्यक्षेण घटादिषु सत्यत्वस्याप्राप्तेः श्रुते-रनुवादकत्वायोग इत्यर्थः ।।
यच्चिकेतेत्यादीति ।। ‘‘विश्वं सत्यम्’’ इत्यत्र सत्यत्वमात्रस्य प्रत्यक्षप्राप्तत्वसम्भावनया कथञ्चिदनुवादकत्वशङ्कायामपि ‘‘यच्चिकेते’’त्यादिवाक्यद्वये न तच्छङ्का । अत्रेश्वरस्य सत्य-जगत्स्रष्ट्टत्वोक्तेः तस्य च प्रत्यक्षाद्यवेद्यतया प्राप्त्यभावात्तत्प्रतिपादकश्रुतिद्धयस्य नानुवाद-कत्वमिति भावः । ‘‘विश्वं सत्य’’ मित्यस्याः श्रुतेः कथञ्चिदनुवादकत्वेऽपि ‘‘यच्चिकेते’’-त्यादिश्रुतिद्वयस्य तावन्नानुवादकत्वमित्यङ्गीकृत्योक्तम् । इदानीं ‘‘विश्वं सत्य’’ मित्यस्यापि श्रुतेर्नानुवादकत्वमस्तीत्याह ।। पृथिवीति ।। यथा पृथिवी इतरभिन्नेत्यत्रैकदेशघटाद्यवच्छेदे-नेतरभेदस्य प्रत्यक्षेण सिद्धावपि पृथिवीत्वावच्छेदेन सर्वत्रासिद्ध्यानुमानस्याननुवादकत्वम् । यथा च ‘‘न हिंस्यात्सर्वा भूतानि’’ इत्यत्र ‘‘ब्राह्मणो न हन्तव्य’’ इत्यादिना ब्राह्मणा-दावेकदेशे हिंसाभावस्य सिद्धावपि भूतपदोक्तप्राणिमात्रे तदसिध्या न हिंस्यादिति वाक्य-स्याननुवादकत्वं तथेहापि विश्वं सत्यमित्यत्र विश्वैकदेशघटाद्यवच्छेदेन प्रत्यक्षेण सत्त्वग्रहेऽपि विश्वत्वावच्छेदेन प्रत्यक्षेण तदग्रहात्तदयोग्येषु धर्मादिषु श्रुत्या सत्यत्वबोधनान्न विश्वं सत्य-मित्यस्याः श्रुतेरनुवादकत्वमित्यर्थः । ज्ञातज्ञापकत्वमात्रमित्यत्र मात्रशब्दोऽयोगव्यव-च्छेदार्थः ।। अतिप्रसङ्गादिति ।। सिद्धं धर्म्यंशमुद्दिश्यासिद्धविधायकस्य ‘‘दध्ना जुहोती’’-त्यस्याप्यनुवादकत्वमापद्येतेत्यर्थः ।। ज्ञातमात्रेति ।। तथा च धर्म्यंशस्य सिद्धत्वेऽपि अधिकस्याज्ञातस्य दधिरूपगुणस्यापि तत्र विधानान्न ज्ञातमात्रज्ञापकत्वमस्तीति नातिप्रसङ्ग इत्यर्थः । एवं च प्रकृतेऽपि विश्वं सत्यमित्यादेर्न ज्ञातमात्रज्ञापकत्वं ‘‘आपश्चन प्रमिनन्ति’’ इति वाक्यशेषेण विश्वसत्यत्वस्य समस्तदेवताप्रमितिविषयत्वस्यासिद्धस्यापि कथनादिति भाव इति सम्प्रदायः ।
इतोऽपि विश्वं सत्यमित्यादेर्न ज्ञातज्ञापकत्वेन वैयर्थ्यमित्याह ।। एकशाखेति ।। ‘‘प्रातस्सन्ध्यामुपासीत’’ इति ऋग्वेदशाखागतं वाक्यं तत्समानार्थकमपि यजुश्शाखागतं ‘‘प्रातस्संध्याम्’’ इति वाक्यं न व्यर्थम् । ऋक्शाखाध्यायिनं प्रति व्यर्थत्वेऽपि येन पुंसा ऋक्शाखाध्ययनं न कृतं तं प्रत्यर्थवत्त्वाङ्गीकारात् । एवं प्रत्यक्षेण विश्वसत्यता येन न निर्णीता वादिविप्रतिपत्त्यादिना प्रत्यक्षेऽप्रामाण्यशङ्कनात् तं प्रति विश्वं सत्यमिति वाक्यस्यार्थवत्त्वसम्भवादित्यर्थः ।
एकशाखेत्युक्त्या पूर्वमीमांसान्यायः सूचितः । तथा हि । द्वितीयाध्याये चतुर्थपादे चिन्तितम् । ‘‘शाखान्तरेषु कर्मभेदः स्यात्’’ इत्यत्र नानाशाखाम्नातम् अग्निहोत्रादिकं कर्म भिद्यते न वेति संशये अविशेषेण पुनः श्रुतिरूपाभ्यासस्य कर्मभेदाभावे वैयर्थ्यापत्तेः कर्म भिद्यत इति पूर्वपक्षः । सिद्धान्तस्तु पुनः श्रुत्या शाखान्तरोक्तमेव कर्म विधीयत इति सिद्ध्यति । न तु कर्मभेदः । तर्हि वैयर्थ्यमिति न शङ्कनीयं शाखाभेदानामध्येतृभेदनियतत्वेन विहितस्यापि विधानं पुरुषान्तराधिकारेण सम्भवत्येवेति तस्यैव कर्मणो विधानेऽपि न वैयर्थ्यमिति ।
नन्वेवंरीत्या सर्वत्रानुवादमात्रोच्छेदप्रसङ्गः स्यादित्यतः ‘‘सर्वाविवादस्थल एव कथञ्चिदनुवादकत्वम्’’ इति भगवत्पादवाक्यं हृदि निधायाह ।। अनुवादकत्वं त्विति ।। अत एवेति ।। सर्वाविवादस्थल एवानुवादकत्वस्य सावकाशत्वेन यत्र विवादस्तत्र तस्यादोषत्वादे-वेत्यर्थः ।। देहेति ।। देहातिरिक्तात्मेत्यर्थः ।। अस्तीति ।। देहातिरिक्तोऽस्तीत्यर्थः ।। प्रत्यक्षप्राप्तेति ।। मम देह इति प्रत्यक्षेण देहात्मभेदस्य सिद्धत्वादित्यर्थः । इत्यादिना सिद्धान्तभाष्येण । किञ्च विश्वं सत्यमिति श्रुतेर्नानुवादकत्वम् । यथा हि तव मते सन्घटः सन्पटः सद्धटज्ञानं सत् सुखस्फुरणमित्यादिप्रत्यक्षेणात्मसत्यत्वस्य प्राप्तेरात्मसत्यत्वप्रतिपादि-कायाः सत्य आत्मेत्यादि श्रुतेर्वैयर्थ्यं स्यात्तन्मा भूदित्येवमर्थं प्रत्यक्षेण वर्तमानकाल एव सत्ताग्रहणात् वर्तमानकालमात्रे सत्ताग्राहिप्रत्यक्षाप्राप्तत्रिकालाबाध्यत्वरूपसत्यत्वप्रतिपादकत्व मङ्गीकृतम् । एवं प्रकृते वयमपि सन्घट इत्यादिप्रत्यक्षेण विश्वसत्यत्वस्य प्राप्तत्वाद्विश्वं सत्य-मित्यादिश्रुतेर्वैयर्थ्यं स्यात्तन्माभूदित्येवमर्थं वर्तमानकालमात्रे सत्ताग्राहिप्रत्यक्षाप्राप्तत्रिकाला-बाध्यत्वरूपसत्यत्वप्रतिपादकत्वमङ्गीकुर्मोऽतो न दोष इत्याह ।। इहापि श्रुतेरिति ।। विश्वं सत्यमित्यादिकाया इत्यर्थः ।
अत्र पूर्वतन्त्रसिद्धो दृष्टान्त उक्तः ।। द्वयोःप्रणयन्तीत्यादिना ।। सप्तमाध्याये तृतीयपादे चिन्तितम् । ‘‘सौमिकन्तु प्रणयनमवाच्यं हीतरवत्’’ इत्यत्र चातुर्मास्येषु यज्ञेषु वैश्वदेव-वरुणप्रघाससाकमेधशुनासीरसंज्ञकपर्वचतुष्टयमस्ति । मासानामेव पर्वसज्ञा । तत्र ‘‘द्वयोः प्रणयन्ति’’ इति श्रूयते । मध्यस्थयोर्द्वयोः पर्वणोः, प्रणयन्ति गार्हपत्यादाहवनीयं प्रत्यग्नि-र्नेतव्य इत्यर्थः । चातुर्मास्यं च कर्म दर्शपौर्णमासाख्यकर्मप्रकृतिकम् । तत्र चातुर्मास्यपर्वणां मध्ये मध्यस्थयोर्द्वयोः पर्वणोरुच्यमानमग्निप्रणयनं किं दर्शपौर्णमासधर्मकं उतापूर्वं तद्विलक्षण- मिति संशये चातुर्मास्यानां दर्शपौर्णमासप्रकृतिकतया चोदकप्राप्तत्वेन तदीयाङ्ग-कलापयुक्त-तया चोदकप्राप्तप्रणयनप्रापकत्वमेवेति पूर्वपक्षे, द्वयोःपर्वणोरग्निप्रणयनस्य दर्शपौर्णमास-प्रकृतिकतया सिद्धत्वेन पुनर्द्वयोःप्रणयन्तीत्यस्य वैयर्थ्यापत्तेस्तदवैयर्थ्याय चोदकाप्राप्ताङ्ग-कलापयुक्तापूर्वप्रणयनप्रतिपादकत्वमेवेति सिद्धान्तितं तद्वदिहापीत्यर्थः ।। अन्यथेति ।। विश्वं सत्यमित्यादेरपूर्वसत्यत्वप्रतिपादकत्वाभाव इत्यर्थः ।। स्यादिति ।। तथा च प्रत्यक्षा-प्राप्तानन्दत्वप्रतिपादकत्वं श्रुतेरङ्गीकार्यमिति भावः ।
नन्वेवमपूर्वविषयान्तरदानेन सर्वत्रानुवादकत्वमात्रोच्छेदः स्यादित्यत आह ।। अनुवाद-कत्वं त्विति ।। स्थलान्तरेऽनुवादकत्वं सावकाशमित्यर्थः । दार्ढ्यहेतुत्वाच्च नानुवादकत्वं दोषायेत्याह ।। निगमनवदित्यादिना ।। पिपासितस्येति हेतुगर्भं, अत्यन्तं तृषितत्वादेव एकप्रमाणोक्तौ विश्वासाभावादेकजलरूपार्थविषयकशब्दादिबहुप्रमाणापेक्षेत्यर्थः ।। प्रत्यक्षसिद्ध इति ।। अहमज्ञ इति प्रत्यक्षसिद्ध इत्यर्थः ।। त्वन्मत इति ।। त्वन्मते तमश्शब्दस्य भावरूपाज्ञानपरत्वादिति द्रष्टव्यम् । ऐक्यतात्पर्ये ऐक्यविषयकतात्पर्ये । नन्वेवं चेत्सर्व-त्राप्यनाश्वासनिरासार्थत्वेन दार्ढ्यार्थत्वस्य वक्तुं शक्यत्वादनुवादकत्वमात्रोच्छेद इत्यत आह ।। अनुवादकत्वं त्विति ।। प्रागेवेति ।। अनाश्वासपरिहारेणेत्यर्थः ।।
न्यायकल्पलता
विश्वमिथ्यात्वस्यागमबाधमभ्युच्चिनोति । किञ्चेति । विश्वं सत्यमित्यादि । विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम् । अच्छेन्द्राब्रह्मणस्पती हविर्नोऽन्नं युजेव वाजिना जिगातम् । इति ऋक्संहिता द्वितीयाष्टकस्थमन्त्रस्यायमर्थः । हे इन्द्राब्रह्मणस्पती । देवताद्वन्द्वे चेति पूर्वपदस्यानङ् । मघवाना । सुपां सुलुगित्यादिना प्रथमाद्विवचनस्याकारादेशः । मघवानौ । मघवन्तौै । धनवन्तौ । मघमिति धननाम । मखवन्ताविति वा । यशश्विनाविति वा । युवोः युवयोः सम्बन्धि विश्वं जगत् सत्यमित् सत्यमेव । प्रतिपन्नोस्मि । न केवलमहमेव प्रतिपन्नः, किन्नाम आपश्चन व्यापनशीलाः देवता अपि । वां युवयोर्व्रतं सत्यजगत्सर्जनादि । प्रमिनन्ति प्रामाणिकत्वेन जानन्ति । डु मिञ् प्रक्षेपणे । क्रैय्यादिकः ।
क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्श्यते ।
प्रयोगतोऽनुगन्तव्या अनेकार्था हि धातवः ।। इति वचनादत्र ज्ञानार्थः ।
नो अस्माकम् । अस्मदीयं हविरध्यात्मं ज्ञानादि । अधिभूतं क्षीरादि प्रति । अन्नं चरुपुरोडाषादिकं च प्रति । अच्छ जिगातं सम्यक् आगच्छतम् । जिगातिर्गतिकर्मा जौहो-त्यादिकः । काविव । वाजिनौ । अन्नवन्तौ । युजेव सखायाविवेति । द्विरूपपरमेश्वरं प्रतीदं वचनं, घर्मासमन्तात् त्रिवृतं व्यापतुरित्यादिवत् । विष्णुमुख्यवायू प्रति वेति ज्ञेयम् ।
यत्तु विश्वं सर्वं सद्भावत्वाद्वा फलस्यावश्यकत्वाद्वा सत्यं कर्म युवोरित् युवाभ्यामेवो-द्दिश्यानुष्ठीयते । वां युवयोर्व्रतं जगत्सर्जनादि । आपश्च देवता अपि न प्रमिनन्ति न हिंसन्ति । मीञ् हिंसायाम् । क्रैय्यादिकः । हृस्वत्वमार्षम् । चनेत्येतत्पदद्वयम् । ऐकपद्यं तु अध्यापक-प्रसिद्ध्येत्याह । तन्न । सत्यपदस्य कर्मण्यप्रसिद्धेः । अबाध्य एवार्थे प्रसिद्धेश्च । अन्यथा सत्यं ज्ञानमित्यादावपि सद्धेतुत्वादिस्तदर्थः स्यात् । पदगणनायामध्यापकेषु चैकपदत्वेन प्रसिद्धस्य चनेत्यस्य भिन्नपदत्वकल्पने मानाभावात् । ननुकमित्यादिवत् । चनशब्दस्याव्ययेषु चनाभ्यां पृथक् पाठाच्च । ममच्चनत्वा युवतिः परासममच्चनत्वा (अव्ययाभ्यां) कुषवाजगारेत्यादिषु चन-शब्दस्यैकपदत्वेन माधवीये व्याख्यातत्वेनेहापि तथात्वस्यैवोचितत्वात् । नेह नानास्ति किञ्च-नेत्यादिषु तदेकपदत्वस्य स्वयमङ्गीकृतत्वाच्च । यदपि स्तुतिपरतया नास्य विश्वसत्यत्वे तात्पर्यमिति । तदप्यसारम् । तत्सत्यं स आत्मा तत्वमसीत्यादेरपि स्वार्थे तात्पर्याभावा-पातादिति ।
शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीलः ।
यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ।
इत्यस्याष्टमाष्टकस्थस्येन्द्रप्रतिपादकमन्त्रस्यायमर्थः । शाक्मना । शक्मैव शाक्मा तेन शाक्मना । शाकः शक्तः, स्वशक्त्यैव सर्वं कर्र्तंु शक्त इत्यर्थः । नहीन्द्रे सहायान्तारापेक्षा अस्ति । इन्द्रः स परमैश्वर्यादित्यादि तन्निर्वचनात् । एकमेवाद्वितीयं, न तत्समश्चाभ्याधिकश्च दृश्यत इति श्रुतेः । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्य इति स्मृतेश्च । इन्द्रत्वादेव । अरुणः अरुणवर्णः । आदित्यवर्णं तमसस्तु पारे । यदा पश्यः पश्यते रुग्मवर्णमिति श्रुतेः । सुपर्णः शोभनपरमानन्दः । णश्च निर्वृतिवाचक इति वचनात् । शकन्ध्वादित्वात्पररूपम् । यः प्रसिद्धः प्रकाशरूपः । अकयप्रविसम्भूमसखहा विष्णुवाचका इति च । आ अभिव्याप्तः, महः तेजोरूपः महान् । शूरः विक्रान्तः । सनात् पुराणः अनादिः । अनीलः अनीडः । जीवविलक्षणत्वात् नित्यमुक्तत्वादनावरणः । स्पार्हं स्पृहणीयम् वसु धनम् । जेता जयति । शत्रुभ्यः वेदविरोधिभ्यः सकाशात् । उत अपि । दाता ददाति च स्तोतृभ्यः । जेता दातेति ताच्छील्ये तृन् । तेन नलोकेत्यादिना षष्ठीप्रतिषेधः । एकः सुपर्ण इत्यादिरूपेणेन्द्रमाह । एवंविधः इन्द्रः यत् यस्मात् सत्यमित् सत्यमेव चिकेत जानाति सृजति च । स ऐक्षत लोकान्नु सृजा इति श्रुतेः । तस्मान्न मोघंं न मिथ्या । शाको अरुण इति प्रकृत्यान्तःपादमव्यपर इति प्रकृतिभावः । न चास्य स्तुतिपरतया न विश्वसत्यत्वे तात्पर्यमिति वाच्यम् । तत्वमसि श्वेतकेतो इत्यादेरपि तथात्व-प्रसङ्गात् । अस्तु वा स्तुतिपरत्वं तथापि न दोषः । गुणिनिष्ठगुणोक्तिः स्तुतिः । न त्वसद्गुणा-रोपणम् । वेदाप्रामाण्यापत्तेरिति ।
‘‘कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः’’ इति मन्त्रस्यायमर्थः । कविः सर्वज्ञः । मनसां जीवानां मनोभिमानिनो रुद्रस्य वा ईष्टे इति मनीषी । मननान्मन उद्दिष्ट इति स्मृतेः । ‘‘सोम्येदं मनो दिशं दिशं पतित्वाऽन्यत्रायतनमलब्ध्वा प्राण-मेवोपाश्रयते’’ इति छन्दोगश्रुतौ मनःशब्दस्य जीवे प्रयोगाच्च । प्राण इति परमात्मा । यत्रायं पुरुषः स्वपिति नामेति तयोरेव प्रस्तुतत्वात् । परिभावयति सर्वानिति परिभूः सर्वोत्तमः । स्वयम्भूः स्वरूपसामर्थ्यः । शाश्वतीभ्यः समाभ्यः सर्वदा । याथातथ्यतः सत्यान् । अर्थान् महदादीन् । व्यदधात् निर्मितवान् । न च याथातथ्यत इत्यस्य पूर्वसृष्टप्रकारेण सर्जनमर्थो न तु जगत्सत्यत्वमिति युक्तम् । यथार्थशब्दसमानार्थात्ततोऽबाध्यत्वरूपार्थस्यैव प्रतीतेः । असत्य-मिति । असत्यं ब्रह्मण्यप्रतिष्ठितम् । अनीश्वरम् । शुक्तिरूप्यवत् जगत् ये आहुः ते असुरा इति जगदसत्यत्ववादिनां निन्दितत्वात् । निन्दार्थवादेन तत्सत्यत्वमवगम्यत इत्यर्थः ।
नाभाव इति । अभावः सद्भिन्नः प्रपञ्चो न भवति । उपलब्धेः सत्वेनोपलभ्य-मानत्वादित्यर्थः । वैधर्म्यादिति । जगत् स्वप्नमरीचिजलतुल्यं न भवति । वैधर्म्यात् अर्थक्रिया-कारित्वरूपस्वप्नादिवैलक्षण्यानुभवादित्यर्थः । स्वप्नशब्देन स्वप्नगजादिगतं जाग्रत्वं गृह्यते । जगतः स्वप्नसाम्यस्य तत्वविन्नयेऽपीष्टत्वादिति विभावनीयम् । त्वन्मत इति । परमते घटो नित्य इत्यादिष्वपि सन्घट इत्यत्र घटे सत्वं न विषयः । किन्त्वधिष्ठानभूतब्रह्मानुवेधमात्रमित्यभ्युप-गमात्तदतिरिक्तस्य कालत्रयाबाध्यत्वरूपस्य घटादिषु सत्वस्य प्रत्यक्षेणाप्राप्तेरित्यर्थः । यच्चि-केतेत्यादीति । यच्चिकेत, कविर्मनीषीत्यत्र वाक्यद्वये परमेश्वरसृष्टजगदनुवादेन न सत्यत्वमात्र-विधिः सम्भवति । जगत ईश्वरकृतत्वस्य केवलानुमानाद्यवेद्यतया मानान्तराप्राप्तत्वेनानुवाद्यत्वा-योगात् । किन्तु सत्यकामादिवाक्य इव सत्यत्वविशिष्टजगत्सृष्टत्वमीश्वरस्योच्यते । विधाना-भावाच्च न विशिष्टावधिदोषः । न चास्य स्तुतिपरतया न स्वार्थपरतेति वाच्यम् । मानान्तरा-विरोधे सति आ ते सिञ्चामि कुक्ष्योरित्यादेर्देवताविग्रहस्येव जगत्सत्यत्वस्याप्येतस्मात्सिद्धेः । उक्तं चैतद्वाचस्पत्ये देवताधिकरणे । पृथिवीति । घटादिर्न जलादिरित्यादिप्रत्यक्षेण घटादा-वितरभेदस्य, स्वीयदेहपुत्रकलत्रबन्धुपशुप्रभृतिषु हिंसा न कर्तव्या मदनिष्टसाधनत्वादित्यनुमानेन, ब्राह्मणो न हन्तव्य इत्यादिना शब्देन ब्राह्मणादावेकदेशे हिंसाभावस्य विधेयस्य सिद्धावपि पृथिवीमात्रे प्राणिमात्रे च तयोरसिद्ध्या यथा नानुवादकत्वं तथेहापि कतिपयेषु घटादिषु प्रत्यक्षेण सत्वग्रहेऽपि तदयोग्येषु श्रुत्या सत्यत्वबोधनान्न तस्या अनुवादकत्वमित्यर्थः ।
ननु दृष्टान्ते हि पृथिवीत्वं हिंसात्वं चैकोऽनुगतो धर्म इति तदवच्छेदेन विधेयस्याप्राप्ततया तत्राननुवादकत्वं युक्तम् । इह तु विश्वत्वं नाम नैको धर्मोऽस्ति । किन्तु विश्वशब्दः सर्वनामत्वात्तेन तेन रूपेण घटपटादीनामुपस्थापकः । तेषु च प्रत्येकं सत्वं गृहीतमेवेति कथं नानुवादकत्वम् । प्रकारवैलक्षण्याभावादिति चेत् । मैवम् । सर्वनामपदेषु तदादिशब्देषु प्रकृता-नामर्थानां तत्तद्रूपेणोपस्थापकत्वेऽपि जगदादिशब्दसमानार्थकविश्वादिशब्दैः सर्वजगद्वृत्तिधर्म-प्रकारेण सर्वोपस्थापकत्वस्यानुभवसिद्धत्वेन घटत्वादिभिन्नप्रकारेण जगत्सत्यत्वस्य विश्वं सत्य-मित्यादिना बोधात् । यच्चोक्तं हिंसात्वमेकोऽनुगतो धर्म इति तत्तुच्छम् । न हि न हिंस्यादित्यत्र हिंसात्वावच्छेदेन किञ्चिद्विधीयते किन्तु भूतेषु हिंसाभावः । तथा च किं हिंसात्वस्यानुगम-कथनेनेति भावः । अतिप्रसङ्गादिति । सिद्धमनूद्यासिद्धं विदधदपि दध्ना जुहोतीत्यादि, अनुवादवाक्यमापद्येतेत्यर्थः ।
एकशाखास्थेति । तत्तच्छाखागतवाक्यानां तत्तच्छाखाध्येतॄन्प्रत्यर्थवत्वम् । अन्यथाऽन-न्यार्थपुनःश्रुतिरूपादभ्यासाच्छाखान्तरे कर्मभेदः स्यादित्यर्थः । द्वितीयाध्याये चतुर्थपादे चिन्तितम् । ‘‘नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शना-च्छाखान्तरे कर्मभेदः स्यात्’’ । नानाशाखाम्नातमग्निहोत्रादि भिद्यते न वेति सन्देहे अविशेष-पुनःश्रुतिलक्षणादभ्यासाद्दूरस्थत्वलक्षणान्तराच्च भिद्यत इति पूर्वः पक्षः । सिद्धान्तस्तु पुनः श्रुत्या प्रकरणान्तराच्च कर्मविधेयमित्येव तावत्सिद्ध्यति न भेदः । विधिवशात्तु भेदसिद्धिरन्यत्र विहितस्य विधानायोगादिति । इह तु शाखाभेदानामध्येतृभेदनियतत्वेनावहितस्यापि पुरुषान्तरं प्रति विधिः सम्भवतीत्यन्यथासिद्धा पुनरुक्तिर्न कर्म भिनत्ति इति । नामरूपाद्युदाहरणानि वार्तिकादिषु द्रष्टव्यानि ।
येन पुंसेति । प्रतिपत्तृपुरुषव्यवस्थया नधिगतार्थबोधकत्वस्येहापि सत्वादित्यर्थः । ननु पुरोवादपूर्वकत्वादनुवादस्यात्रायं पुरोवाद इत्यस्यैवाभावान्न शाखान्तरस्थवाक्यस्यानुवादकत्वप्रसङ्ग इति चेत् । न । भूयस्त्वेनोभयश्रुतीति न्यायेन कर्मस्वरूपनिश्चयवत् वेदद्रष्ट्रप्रथमव्यक्त्यपक्षेया पुरोवादस्यापि निश्चयात् । सादिप्रत्यक्षस्यानादिवेदात्पुरोवादत्वासम्भवाच्च । तस्मात्प्रतिपत्तृ-व्यवस्थयैवाननुवादकत्वं वाच्यमिति भावः । न निर्णीतेति । एतच्च विशेषादर्शनकालीनसंशयस्य प्रतिबन्धकतया तत्सामग््रया अपि तथात्वमित्यभिप्रेत्योक्तम् । नन्वेवमनुवादः क्वापि न सिद्ध्ये-दित्यतः आह । अनुवादकत्वं त्विति । न च सर्वाविवाद एकत्रासम्भवीति युक्तम् । अग्निर्हिमस्य भेेषजम् । अस्यामोषधयो जायन्ते । अग्निरेनां स्वदयतीत्यादिषु सर्वाविवादस्य सिद्धत्वात् । वादिविप्रतिपत्तीति । ननु तत्र वादिविप्रतिपत्तिदर्शनेन देहव्यतिरिक्ततयाऽऽत्मनः प्रत्यक्षतैव नास्ति । अन्यथा प्रत्यक्षप्रामाण्यवादिनश्चार्वाकादेस्तत्र विप्रतिपत्तिर्न स्यादित्युक्तं बृहदारण्यकभाष्ये । न तु वादिविप्रतिपत्तिनिरासेनास्तीत्यादेः सार्थकत्वमननुवादकत्वं वा तत्रोक्त-मिति चेत् । मैवम् । भावानवबोधात् । तद्वदेव वादिविप्रतिपत्तिदर्शनाज्जगत्सत्यत्वमपि न प्रत्यक्षविषयः । अन्यथा प्रत्यक्षप्रामाण्यवादिनस्तव मम च जगत्सत्यत्वे विप्रतिपत्तिर्न स्यादित्येवं परत्वादस्य वाक्यस्य न कश्चिद्दोषः । अत एव त्वया बृहदारण्यकभाष्ये अभिहितम् । तस्मा-ज्जन्मान्तरसम्बन्ध्यात्मास्तित्वे जन्मान्तरेष्विष्टानिष्टप्राप्तिपरिहारविशेषोपाये च शास्त्रं प्रवर्तत इति । द्वयोः प्रणयन्तीति । सप्तमे तृतीयपादे चिन्तितम् । ‘‘सौमिकं तु प्रणयनमवाच्यं हीतरत्’’ । चातुर्मास्यानीति कर्मविशेषनाम । तेषु वैश्वदेववरुणप्राघससाकमेधशुनासिरीयाख्यानि चत्वारि पर्वाणि । तत्र च ‘‘द्वयोः प्रणयन्ति तस्मात् द्वाभ्यामेति’ इति श्रूयते । तस्य च द्वाभ्यामेतीति वाक्यशेषात् । ऊरू वा एतौ यज्ञस्य यद्वरुणप्रघासश्च साकमेधश्चेति । गमन-साधनोरुसंस्तुतमध्यपर्वद्वयविषयत्वे निश्चिते चातुर्मास्यानां दर्शपूर्णमासविकृतित्वेन प्रणयनस्य प्राप्ततया प्रणयनपुनःश्रुतेर्वैय्यर्थ्यम् ।
तथा हि । सा किं परिसङ्ख्यार्था वा गुणार्था वा, अर्थवादार्था वा । नाद्यः । तथा सति द्वयोर्मध्यमयोरेव प्रणयनम् । नेतरयोर्द्वयोरिति तत्राहवनीयाभावाद्यागाभावः स्यात् । अथोच्येत । न प्रणयनमात्रं परिसङ्ख्येयं किन्तु धर्मपरिसङ्ख्या । द्वयोरेव धर्मवत्प्रणयनम् । नेतरयोरिति । मैवम् । न हि धर्मवद्दर्शपूर्णमासयोः प्रणयनम् । येन धर्ममात्रपरिसङ्ख्यायां कृतायां केवलमधर्मकं प्रणयनमितरत्रापि क्रियेत । तस्मान्न परिसङ्ख्यार्था । न द्वितीयः । यत्र हि तस्मिन्नेव वाक्ये गुणिनमुच्चार्य किञ्चिद्विधीयते । यथा दध्ना जुहोति शरमयं बर्हिर्भवति तत्र गुणविधिः । इह तु प्रणयनमनूद्य किञ्चिद्विधीयते । नापि तृतीयः । यत्र हि कस्यचिद्विधिस्तत्रार्थवादो भवति । विधिना त्वेकवाक्यत्वादित्युक्तम् । प्रणयनं तु दर्शपूर्णमासयोर्विधीयते । इदृतु वाक्ये तदविधानात् किमर्थवादेन । तस्मात्प्रणयनपुनः श्रुतिरनन्यार्थाभेदिका भवतीति दर्शपूर्णमासकाद् गार्हपत्या-वधिकाहवनीयप्रणयनादपूर्वमेवेहवनीयावधिकमुत्तराहवनीय प्रणयनं ‘‘द्वयोः प्रणयन्तीति’’ वाक्येन बोध्यते । तदुक्तम्– टुप्टीकायां, तन्त्ररत्ने च सप्तमाध्याये तृतीयपादे च । शाखान्तरे ह्यग्निप्रणयनोत्तरकालमाहवनीयात् द्वावध्वर्युप्रतिप्रस्थातारौ ‘‘अग्नी प्रणयतः’’ इति श्रूयते । तदेकवाक्यतया द्वयोः प्रणयन्तीत्यनेनाहवनीयात् प्रणयनं विधीयते । तेन चोदकप्राप्तं यद्गार्ह-पत्यात् प्रणयनं ततो विलक्षणमिदं तदुत्तरकालमाहवनीयाद्विहारयोः प्रणयनं पशुबन्धवदिति ।।
अथवा चातुर्मास्येषु द्वयोः प्रणयन्तीति वैश्वदेवारुणप्रघाससाकमेधशुनासिरीयाख्यानां चतुर्णां चातुर्मास्यपर्वणां मध्ये द्वयोः पर्वणोः अग्निप्रणयनं उच्यमानं किं दर्शपूर्णमासिकधर्मजं उत सौमिकधर्मकं अनेकाङ्गकलापलयुक्तं उतोभयविलक्षणमपूर्वमिति संशये चातुर्मास्यानां दर्शपूर्णमास प्रकृतितया चोदकप्राप्तत्वेन सन्निधानाद्दर्शपूर्णमासिकमित्येकः पक्षः । चोदकप्राप्तस्याविधेयत्वा-द्गुणविध्याद्यभावेनानुवादानर्थक्यादर्थवत्वाय सौमिकमिति द्वितीयः पक्षः । प्रणयन्तीत्यस्य प्रणयन- सामान्यवाचिनः सौमिकप्रणयनविशेषपरत्वे लक्षणाप्रसङ्गाच्चातुर्मास्येष्वेव किञ्चित्प्रणयनमस्पृष्ट-सौमिकत्वाद्याकारं विधीयते । तच्च तदुभयविलक्षणमपूर्वं पर्यवस्यतीति सिद्धान्तः । श्रुतेरिति । विश्वं सत्यमित्यादिकायाः ।। तत्सत्यमित्यादीति ।। तव मते सन् घटः, सत् घटज्ञानं, अह-मस्मि, अज्ञोऽस्मि, सत्सुखस्फुरणमित्यादि प्रत्यक्षेणात्मसत्यत्वप्राप्तेः तत्सत्यं, स आत्मेत्यादि-काया आत्मसत्यत्वप्रतिपादिकायाः श्रुतेर्वैय्यर्थ्यं स्यात् । तन्मा प्रासाङ्क्षीदित्येवमर्थमित्यर्थः ।
अत्राहुरद्वैतवादिनः–विश्वसत्यत्वश्रुतिः त्रैकालिकनिषेधाप्रतियोगित्वरूपसत्वपरान त्रैकालिक सत्वनिषेधकश्रुतिविरोधात् । न च वैपरीत्यमेव किन्न स्याद्विनिगमकाभावादिति युक्तम् । तात्पर्यान्यथानुपपत्तिगतिसामान्यानामेव विनिगमकत्वात् । अद्वैतश्रुतिर्हि षड्विधतात्पर्यलिङ्गो-पेता । तत्र त्रिविधं तात्पर्यलिङ्गम् । प्रामाण्यशरीरघटकमर्थनिष्ठम्, अज्ञातत्वमबाधितत्वं प्रयोजनवत्वं च । त्रिविधं तु शब्दनिष्ठमतिप्रसङ्गवारकम् । उपक्रमोपसंहारयोरैकरूप्यं, अभ्यासः अर्थवादश्चेति । तत्र शब्दनिष्ठलिङ्गत्रये तावन्न विवादः । सर्वासामुपनिषदामेवं प्रवृत्तत्वात् । मानान्तरासिद्धतया मोक्षहेतुज्ञानविषयतया चाज्ञातत्वं प्रयोजनवत्वं च निर्विवादमेव । अबाधितत्वमात्रं सन्दिग्धम् । तच्चान्यथानुपपत्तिगतिसामान्याभ्यां निर्णीयते । न हि सर्वप्रपञ्चनिषेधरूपमद्वैतं व्यावहारिकं, येन तत्र श्रुतेर्व्यावहारिकं प्रामाण्यं स्यात् । अतस्तत्र तात्विकमेव प्रामाण्यम् । द्वैतसत्यत्वं तु व्यावहारिकमतस्तत्र न श्रुतेस्तात्विकं प्रामाण्यम् । परस्परविरुद्धयोर्द्वयोस्तात्विकत्वायोगात् । वस्तुनि च विकल्पासम्भवात् । तात्विकव्यावहारिक-प्रामाण्यभेदेन च व्यवस्थोपत्तेः । स्तुतिपरत्वेनावधारितस्य विश्वसत्यत्ववाक्यस्यैवान्यथा व्याख्यातुमुचितत्वात् । तथा हि । चतुर्धा हि सामानाधिकरण्यम् । अध्यासे इदं रजतमित्यादौ, बाधायां स्थाणुः पुमान्नेत्येवमादौ । विशेषणविशेष्यभावेन नीलमुत्पलमित्यादौ । अभेदेन तत्त्वमसीत्यादौ । अत्र च बाधायामध्यासे वा सामानाधिकरण्योपपत्तेर्न सत्यत्वबोधकश्रुतेः षडि्वधतात्पर्यलिङ्गोपेताद्वैतश्रुतिबाधकत्वमिति ।
अत्रोच्यते । एवं हि विश्वं सत्यमिति श्रुतेर्बाधिततया प्रतीयमानादन्यार्थस्यानुपपत्या स एवाबाधितोऽर्थ इति अध्यवसीयत इत्युक्तं स्यात् । तथा च तत्त्वमसीत्यादौ सामानाधिकरण्यस्य तत्वमादिपदार्थविशिष्ट्यैक्यं विनाऽन्यस्यार्थस्यानुपपत्या विशिष्टैक्यमर्थः स्यात् । तत्र लक्षणादि-नोपपत्तिरिति यदि तर्हि अद्वैतवाक्येऽपि स्वतन्त्राद्वितीयमर्थोऽस्तु । अन्यथा तव मते व्यावहारिकार्थं प्रस्तरवाक्यं व्यावहारिकं यजमानाभेदं बोधयतु । प्रत्यक्षं तु प्रातिभासिकं यजमानभेदं बोधयति । तत्वमसिवाक्यमपि तात्विकं विशिष्टाभेदं बोधयति मानान्तरं व्यावहारिकं तयोर्भेदं बोधयतीति द्वय्यपि मीमांसोन्मूलिता स्यात् । गतिसामान्यं त्वभ्यासपर्यवसन्नमबाधि-तत्वासाधकमसिद्धं च । सर्वस्यापि वाक्यस्य त्वन्मतेऽखण्डब्रह्मपरत्वात् । तस्मात् द्वैताद्वैत-वाक्ययोर्विरोधे मानान्तराविरुद्ध एव वाक्यार्थोऽध्यवसितव्य इति द्वैतश्रुतेरेवाद्वैतश्रुतिबाधकत्वं युक्तम् । व्यावहारिकतात्विकार्थविषयत्वेन श्रुतेर्व्यवस्थापनं त्वयुक्तम् । अन्योन्याश्रयापातेन विनिगमनाविरहात् । व्यावहारिकपदस्य व्यवहारसिद्धार्थत्वेऽद्वैतश्रुतिप्रामाण्यस्यापि व्यावहारि-कत्वापातः । बाध्यार्थकत्वे प्रामाण्यवाचोयुक्तेरसम्भवः । शूून्यवादिमताविशेषप्रसङ्गश्च । तदुक्तम् ।
वेदप्रामाण्यवाङ्मात्रकञ्चुकच्छन्नचर्मणाम् ।
बुद्धिसिद्धान्तसुहृदा सन्तः पश्यन्तु बाह्यगाम् ।। इति ।
यच्चोक्तम् स्तावकं विश्वसत्यत्ववाक्यमन्यथा व्याख्येयमिति तदभद्रम् । युवयोरेव विश्वं सर्वं स्तोत्रं सत्यं यथार्थं यद्यद्गुणजातं स्तुत्या प्रतिपाद्यते तत्सर्वं युवयोर्विद्यमानमेव न त्वारोपितमिति स्वयमेव व्याख्यातत्वेन व्याहतत्वात् । अध्यासे बाधे च सामानाधिकरण्योपपादनमप्ययुक्तम् । तदध्यासादेरद्याप्यसिद्धेरिति । सुखं सुप्तोऽस्मीति । सुषुप्तौ स्वरूपान्दो गृह्यते । स्वरूपं च तदाज्ञानोपहितमेव साक्षिविषय इति सौषुप्तिकानन्दस्यातात्विकत्वमित्यर्थः । ननु साक्षिणा उपहितानन्दविषयत्वेन श्रुतेश्च निरुपाधिकानन्दविषयत्वेन भिन्नविषयत्वान्नानुवादकत्वमिति चेत् । तर्हि प्रत्यक्षगृहीतसत्वापेक्षया श्रुतेरपि भिन्नं सत्वं विषय इति नानुवादकत्वमित्यवेहि ।
साधारणधर्मदर्शनादिजन्यप्रामाण्यसंशयाक्रान्तत्वरूपानाश्वासनिरासप्रयोजनवत्वेन निष्प्रयोजन अनुवाद इत्याह । निगमनवदित्यादिना । ननु पिपासितस्य शब्दादिना जलज्ञानेऽपि न प्रत्यक्षेण तज्ज्ञानमिति तत्सिध्यर्थं प्रत्यक्षापेक्षा । प्रकृते तु प्रत्यक्षसिद्धे सत्यत्वे न शब्दापेक्षो-चितेत्यत आह । प्रत्यक्षसिद्ध इति । न किञ्चिदहमवेदिषमिति साक्षिप्रत्यक्षसिद्धेऽप्यज्ञाने तम आसीदिति श्रुतेस्त्वयापि प्रमाणत्वेनोपन्यासादित्यर्थः । ननु तम आसीदित्यस्य सृष्टिकाल-सम्बन्धित्वेनाज्ञानग्राहितया सुषुप्तिकालसम्बन्धित्वेनाज्ञानग्राहकं प्रत्यक्षमपेक्ष्य भिन्नविषयत्वेनैव प्रामाण्यसम्भव इति युक्तम् । एतावन्तं कालं शुद्धं ब्रह्म नावेदिषमिति अनादिकालसंसृष्टा-ज्ञानानुभवेन सृष्टिकालेऽपि तत्सिद्धेः ।
न्यायामृतसौगन्ध्यम्
आगमबाधिताश्च दृश्यत्वादयः । ‘विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम् । अच्छेन्द्राब्रह्मणस्पती हविर्नोऽन्नं युजेव वाजिना जिगातम्’ इति मन्त्रस्यायमर्थः । हे मघवन्तौ धनवन्तौ मखवन्ताविति वा । इन्द्राब्रह्मणस्पती, युवोः युवयोः सम्बन्धि विश्वं जगत् सत्यमित् सत्यमेव । वां युवयोः व्रतं सत्यजगत्सर्जनादि । आपश्चन व्यापनशीला देवता अपि न प्रमिनन्ति जानन्ति । ‘डुमिञ् प्रक्षेपणे’ क्य्रादिः । नः अस्मदीयं हविर्दध्यादिकं प्रति अन्नं च पुरोडाशादिकं च प्रति अच्छ जिगातं सम्यगागच्छतं, जिगाति-र्गतिकर्म जुहोत्यादिकः । वाजिना धनवन्तौ । युजेव सखायाविव ।
यस्तु विश्वं सर्वं सद्भावाद्वा फलस्यावश्यकत्वाद्वा सत्यं कर्म, युवयोः इत् युवाभ्या-मेवोद्दिश्य क्रियते । वां युवयोर्व्रतं जगत्सर्जनादि आपो देवता अपि न हिंसन्ति । चनेत्ये-तत्पदद्वयम् । अध्यापकप्रसिद्ध्या त्वेकं पदमित्याह । तन्न । सत्यशब्दस्य कर्मण्यप्रसिद्धेः, अबाध्य एव प्रसिद्धेश्च । अन्यथा सत्यं ज्ञानमित्यत्रापि सद्धेतुत्वादिस्तदर्थस्स्यात् । पदगणनाया मध्यापकेषु चैकपदत्वेन प्रसिद्धस्य भिन्नपदत्वे मानाभावात् । नुक् इत्यादिवत् चनशब्दस्या-व्ययेषु चनाभ्यां पृथक् पाठाच्च । ‘ममच्चन त्वा युवतिः पराल्पा ममच्चन त्वा कुषवा जगादरे’ त्यादिषु चनशब्दस्यैकपदत्वेनैव माधवीये व्याख्यतत्वात् । इहापि तथात्वस्यैवोचितत्वात् । ‘नेह नाना’ इत्यादिषु तदेकपदत्वस्य स्वयमप्यङ्गीकृतत्वाच्च । यस्तु द्वितीयाष्टकस्थस्यैव ददाति मह्यं यादुरीत्यत्राध्यापकसम्प्रदायसिद्धे ऐक्ये सत्यपि, दुरी आदरवती या मह्यं ददातीति भिन्नपदत्वेन व्याख्यातं तथा प्रकृतेऽपीति । तन्न । क्वचित्सम्प्रदायपरम्परया व्याख्यानेऽपि स्वेच्छया पदच्छेदस्यातिप्रसक्तत्वात् ।
‘शाक्मना शाको अरुणः सुपर्णः । आ यो महः शूरः सनादनीडः । यच्चिकेत सत्यमित्तन्न मोघं वसुस्पार्हमुत जेतोत दाता’ इतीन्द्रप्रतिपादकमन्त्रस्यायमर्थः । शाक्मना= शक्मैव शाक्म । तेन शाक्मना बलेन । शाकः शक्तः स्वशक्त्यैव सर्वं कर्तंु शक्त इत्यर्थः । न हीन्द्रे सहायान्तरापेक्षाऽस्ति इन्द्रत्वादेव । अरुणोऽरुणवर्णः । सुपर्णः शोभनपतनः । यः प्रसिद्धः । आ अभिव्याप्तः महः महान् शूरः विक्रान्तः सनात् पुराणः अनीडः नीडस्याकर्ता । न हीन्द्रोऽग्निवत् कुत्रचिदपि यज्ञे निकेतनं करोति । स्पार्हं स्पृहणीयं वसु धनं जेता जयति शत्रुभ्यः सकाशात्, उत अपि दाता ददाति स्तोतृभ्यः । जेता दातेति तृन्नन्तेन ‘न लोकेे’-त्यादिना षष्ठीनिषेधः । एवंविधः इन्द्रः यत् यस्मात् सत्यमित् सत्यमेव चिकेत कृतवान् तत् तस्मात्् न मोघं न मिथ्या ।
‘कविर्मनिषी परिभूः स्वयम्भूः याथातथ्यतोऽर्थान्् व्यदधात् शाश्वतीभ्यः समाभ्यः’ इति मन्त्रस्यायमर्थः । कविः ज्ञानी । मनसां मनसा वा ईष्टे इति मनीषी । परिभावयति सर्वानिति परिभूः सर्वोत्तमः । स्वयम्भूः स्वरूपसामर्थ्यः । शाश्वतीभ्यः समाभ्यः सर्वदा । याथातथ्यतः सत्यान् अर्थान् महदादीन्् व्यदधात् निर्मितवान् । न च ‘याथातथ्यतः’ इत्यस्य पूर्वसृष्टप्रकारेण सर्जनमर्थ इति वाच्यम् । यथार्थशब्दसमानार्थात्ततोऽबाध्यत्व-रूपार्थस्यैव प्रतीतेः । किञ्च यथासृष्टमिति नार्थः । तथाशब्दस्यैवाभावात्् । किन्तु ‘यथार्थं तु यथातथम्’ इत्यमरोक्तेर्यथातथाशब्दस्य सत्यार्थकत्वेन स्वार्थिकतद्धितेन च सत्यार्थकत्वम् ।
यत्तु तथ्यशब्दस्यापि सत्यार्थत्वेन याथेत्यस्य वैय्यर्थ्यपत्तिः । प्रत्ययस्य स्वार्थिकत्वे व्यर्थत्वापत्तिश्च । तस्माद्भावार्थकस्तद्धितः । ल्यब्लोपपञ्चम्यास्तसिल्प्रत्ययः । तथा च पूर्वसृष्टा अर्थाः यथातथाभावं प्रतिसन्धाय व्यदधादिति वाक्यार्थः ।
किञ्च ‘कविर्मनीषी परिभूः स्वयम्भूः’ इति पूर्वभागस्य त्वन्मते वाक्यार्थे अनुपयोगः । मन्मते तु यतः कविः पूर्वक्रान्तं सर्वं दृष्टवान््, यतश्च मनीषी मनसा इष्टे ऊहापोहकुशलः, यतश्च पूर्वसृष्टविरुद्धमिच्छतां परिभवसमर्थो, यतश्च स्वयमन्यनैरपेक्ष्येण जगद्भवनसमर्थस्ततो हेतोः पूर्वसृष्टभावं प्रतिसन्धाय जगत्सृष्टवानिति सकलं वाक्यं युक्तार्थकमिति ।
तन्न । तथेत्यस्मात् याथातथ्येत्यस्य स्वार्थिकतद्धितान्तस्य शब्दान्तरत्वात् । कविः सर्वविषयकयथार्थज्ञानवान् । तेन शुक्तौ रूप्यारोपवत् जगत्सर्जनं हि व्यावृत्तम् । अतः स्वकर्तृकसर्जनं सृष्टं स्वसमसत्ताकरूपं सत्यमेव यत् यत् स्वोपादानदिविषयविषयकयाथार्थ्या-परोक्षकर्तृकं तत्तत्समसत्ताकरूपं दृष्टं कुलालादिकर्तृकघटादिवत्् । मनीषी मनसा ईष्टे । मनःशब्देन ह्यपरोक्षज्ञानं विवक्षितं, अन्यस्य ज्ञानकरणस्य ज्ञानान्तरस्य वा अभावात् ।
तथा च सर्वविषयकापरोक्षज्ञानवत्वादनभिभवनीयसामर्थ्यः । अत एवेैन्द्रजालिकादिवत् प्रतारकत्वादिकं व्यावृत्तम् । परिभवति हि स्वरूपज्ञानेन विद्यादीन् तन्मूलककामादीन् दोषान् याथातथ्यसृष्टिविरोधिनश्चेति परिभूः, स्वाश्रितेष्वपि कृपया परिभवनसामर्थ्यं सम्पादयतीत्यपि साधु । मन्मतेत्याद्ययुक्तम् । शुक्तौ रजतारोपे प्राचीनसर्वविषयकापरोक्षज्ञानस्यानुपयोगवत् जगदारोपेऽपि प्राचीनसर्वज्ञानस्यानुपयोगात् । ऐन्द्रजालिकस्यापि हि तथा अपरोक्ष-ज्ञानस्यानुपयोगः । अन्यथा नूतनशिक्षितैन्द्रजालस्य तत्त्कर्तृत्वानापत्तेः । मनीषीत्यादि तु प्रलपनम् । सर्वदा सर्वविषयकापरोक्षज्ञानवदीश्वरस्य तर्काद्यात्मकयुक्त्यादिजन्यज्ञानाभावात् । पूर्वेत्याद्ययुक्तम् । न ह्यैन्द्रजालिकः पूर्वसृष्टविरुद्धमिच्छतो निरस्यति ।
अत एव त्वन्मते स्वयमित्यादिकमसङ्गतम् । न ह्यैन्द्रिजालिकः पूर्वसृष्टप्रकारमपेक्षते । आद्यसर्जने तदभावात् । न च ‘याथातथ्यतः’ इत्यत्र स्वार्थिकप्रत्ययो व्यर्थः । आख्यात-प्रत्यययोरिवान्यतरवैय्यर्थ्याभावात् । त्वन्मतेऽपि हि प्रत्ययो व्यर्थः । यादृशं पूर्वसृष्टं तादृशं प्रतिसन्धायेति हि त्वद्वाक्यार्थः । तत्र भावप्रतिसन्धानस्य कुत्रोपयोगः । न च विश्वसत्वस्य प्रत्यक्षप्राप्तानुवादः । प्रत्यक्षेण विश्वत्वावच्छेदेन सत्वाग्रहात् । यथा हि ‘पृथिवी इतरभिन्ना’ ‘न हिंस्यात्सर्वा भूतानि’ इत्यादौ घटादावेकदेशे प्रत्यक्षेण, ब्राह्मणादावेकदेशे वाक्यान्तरेण विधेयसिद्धावपि सर्वत्रासिद्धत्वात् यथा नानुवादकत्वं, तथा विश्वमात्रसत्यत्वस्य प्रत्यक्षेणा-प्राप्तत्वात् नानुवादकत्वम् । ननु दृष्टान्ते हि पृथिवीत्वं हिंसात्वं च एकोऽनुगतो धर्म इति तदवच्छेदेन विधेयस्याप्राप्तत्वेन तत्र नानुवादकत्वं युक्तम् । इह तु विश्वत्वं नाम नैको धमोर्ेेेऽस्ति, किन्तु विश्वशब्दः सर्वनामत्वात्तेन तेन रूपेण घटपटादीनामुपस्थापकः । तेषु च प्रत्येकं सत्वं गृहीतमेवेति कथं नानुवादकत्वं, प्रकारवैलक्षण्याभावादिति चेन्न । प्रकृते विश्वशब्दस्य जगच्छब्दपर्यायत्वात् ‘ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः । सत्या भूतानि जातानि सत्यं भूतमयं जगत्’ ।। इत्याश्वमेधके जगत्त्वेन सत्यत्वोक्तेः ।
किञ्च सर्वनाम्नां नानार्थकल्पनामपेक्ष्य लाघवेन तदादिपदस्य बुद्धिविषयत्वेन रूपेण बुद्धिविषयमात्रवति शक्तिरित्थं च तदादिपदात्् पटत्वादिना पदार्थोपस्थितिरपि नानुपपन्ना । शक्तिग्रहेऽपि बुद्धिविषयत्वेन घटत्वादीनां प्रकारत्वात् । न चैवं शक्तिग्रहेऽपि बुद्धिविषयत्वेन घटत्वादेः प्रकारतया पदार्थोपस्थितावपि तेनैव रूपेण प्रकारत्वात् शाब्दबोधोऽपि नियमतो बुद्धिविषयवन्तमानयेत्येव स्यात्, न तु घटमानयेत्यादीति वाच्यम् । शक्तिग्रहे घटत्वाद्यंशे बुद्धिविषयत्वप्रकारकत्वेऽपि तदंशे उद्बोधकमप्राप्य केवलघटत्वादिप्रकारेण स्मरणाजनक-त्वात् । यदा तु तदंशेऽप्युद्बोधकसमवधानं तदा बुद्धिविषयत्वेन रूपेणैव पदार्थोपस्थितौ घटत्वादेः प्रकारतया बुद्धिविषयवन्तमानयेत्येव शाब्दबोधः । ‘तमानय’ इत्यादौ कदाचि-त्तादृशबोधस्य तवापि सम्मतत्वात् । न चैतन्मतेऽपि घटत्वाद्यनन्तधर्मस्य शक्यतावच्छेदक-त्वमप्यविशिष्टमेव, बुद्धिविषयत्वांशेऽपि शक्तिविषयत्वकल्पनं पुुनरधिकमिति विपरीत-गौरवमिति वाच्यम् । प्रातिस्विकरूपेण तेषां शक्यतावच्छेदकत्वे शक्तिग्रहे प्रकारतानन्त्यम् । बुद्धिविषयत्वेन रूपेण शक्यतावच्छेदकत्वे तु बुद्धिविषयत्वावच्छिन्नघटत्वपटत्वादिसर्वनिष्ठैकैव प्रकारतेति लाघवमिति तार्किकैरप्युक्तम् । तथा च ‘विश्वं सत्यम्’ इत्यादौ श्रुतिसार्थक्याय बुद्धिविषयत्वांशे उद्बोधकाकल्पनेन बुद्धिविषयवत् सत्यमित्येव हि शाब्दबोधः ।
किञ्च यथा ‘चातुर्मास्यमध्यपर्वणोः द्वयोः प्रणयन्ती’ति वाक्यस्य चोदकप्राप्तगार्हपत्या-वधिकप्रणयनादतिरिक्ताहवनीयावधिकापूर्वप्रणयनपरत्वेन सार्थक्यं तथा वर्तमानमात्रग्राहि-प्रत्यक्षगृहीतपारमार्थिकसत्वातिरिक्तातीतानागतकालसाधारणसत्वग्राहित्वेन श्रुतेः सार्थक्यम् । न च त्रैकालिकसत्वनिषेधकश्रुतिविरोधेन विश्वसत्यत्वश्रुतेर्न तादृशसत्वपरत्वमिति वाच्यम् । ब्रह्मातिरिक्तनिषेधबोधने तेनैवाद्वैतहानेः । तदनतिरिक्तबोधने तु विरोधाभावात् । न हि धर्मि-मात्रज्ञानं धर्मवैशिष्ट्यं विरुणद्धि । यत्तु तात्विकव्यावहारिकप्रामाण्यभेदेन श्रुतिद्वयव्यवस्थोप- पादनं तन्न युक्तम् । व्यावहारिकत्वं हि अप्रामाण्यस्यैव नामान्तरम् । अतः सत्वश्रुत्या पारमार्थिकं सत्वं, निषेधश्रुत्या स्वतन्त्रद्वैतनिषेध इति समानविषयत्वेनैव व्यवस्था युक्ता ।
किञ्चात्मन आनन्दत्वबोधिका श्रुतिरपि प्रत्यक्षसिद्धानन्दानुवदिनी किं न स्यात् । न च साक्षिणः उपहितानन्दविषयत्वेन, श्रुतेश्च निरुपाधिकानन्दविषयत्वेन भिन्नविषयत्वान्नानु-वादत्वमिति वाच्यम् । प्रत्यक्षगृहीतानन्दानतिरिक्तविषयकत्वेन श्रुतेरनुवादकत्वात् । न हि प्रत्यक्षसिद्धं दण्डिबोधकं पुरुषोऽयमिति वाक्यं नानुवादकम् ।
किञ्च तत्वमसीत्यादौ नवकृत्वोऽभ्यासवत् पिपासितस्य जलजगोचरप्रमाणसंप्लववत् भावरूपाज्ञाने प्रत्यक्षसिद्धे ‘तम आसीत्’ इत्यादिश्रुतिवत् सत्वश्रुतिर्दार्ढ्यार्थाऽस्तु । एतेनाशेषविशेषग्राहिप्रत्यक्षप्राप्तेऽर्थे स्वदाढ्यार्थमन्यानपेक्षणात् । पिपासितस्य शब्दलिङ्गा-नन्तरं जले प्रत्यक्षमपेक्षितम्, न तु प्रत्यक्षानन्तरं शब्दलिङ्गे अपेक्षिते इति निरस्तम् । षडि्वधतात्पर्यलिङ्गसंप्लवस्य त्वयानङ्गीकारात् । न च ‘तम आसीत्’ इत्यस्य सृष्टिपूर्वकाल-सम्बन्धित्वेनाज्ञानग्राहितया सुषुप्तिकालसम्बन्धित्वेनाज्ञानग्राहकं प्रत्यक्षमपेक्ष्य भिन्नविषय-त्वेनैव प्रामाण्यसम्भव इति वाच्यम् । ‘एतावन्तं कालं शुद्धं ब्रह्म नावेदिषम्’ इति अनादिकालसंसृष्टाज्ञानानुभवेन सृष्टिकालेऽपि तत्सिद्धेः ।
न्यायामृतमाधुरी
अत्र मिथ्यात्वे विशेषानुमानानां सामान्यानुमानदोषदूषितत्वादेव ग्रन्थकारैर्विशिष्या-नुपन्यस्ततया कथञ्चिदद्वैतसिद्धिकारप्रदर्शितानां च वनमालिमिश्रेणापहस्तितया ग्रन्थगौरव-भीत्या तद्दूषणानि नेह प्रपञ्च्यन्ते । सम्प्रति जगदलीकत्वानुमानानामागमबाधमाह ।। किं चेत्यादि । विश्वं सत्यमित्यादि ।
विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम् ।
अच्छेन्द्राब्रह्मणस्पती हविर्नोऽन्नं युजेव वाजिना जिगातम् ।।
इति ऋक्संहिताद्वितीयाष्टकस्थवाक्यस्यायमर्थः । हे इन्द्राब्रह्मणस्पती । मघवानौ मघवाना मघमिति धननाम धनवन्ताविति वा । युवोर्युवयोस्सम्बन्धि विश्वं जगत्सत्यमित् सत्यमेव । व्रतं सत्यजगत्सर्जनादि । आपश्चन व्यापनशीलाः देवता अपि प्रमिनन्ति जानन्ति । सुनोत्यादिकस्य प्रक्षेपणार्थस्य मिनोतेर्विकरणेकारलोपे रूपमेतत् । नः अस्मदीयं हविर्दध्यादिकं प्रति अन्नं चरुपुरोडाशादिकं च प्रति । अच्छ जिगातं सम्यगागच्छतम् । जौहौत्यादिकस्य स्तुत्यर्थस्य जिगातेर्धातूनामनेकार्थत्वाद्गत्यर्थत्वमाश्रितम् । वाजिनौ । अन्नवन्तौ युजेव सखायाविवेति । अद्वैतसिद्धिकारस्तु, विश्वं सर्वं, सत्यं कर्म सद्भावात् फलस्यावश्यम्भावित्वाद्वा । तादृशं कर्म युवोरित् युवाभ्यामेवोद्दिश्य क्रियते । वां युवयोर्व्रतं आपो देवता अपि न हिंसन्ति च नेत्यतत्पदद्वयम् । ऐकपद्यन्तु अध्यापकसम्प्रदायसिद्ध-मित्याह । तन्न साधीयः । सत्यं ज्ञानमित्यादावबाध्यार्थकत्वेन क्लृप्तस्य सत्यपदस्य कर्मार्थकत्वकल्पनायोगात् । अध्यापकसम्प्रदायानुरोधेनैकपदत्वेन निर्णीते भिन्नपदत्वकल्पनस्य निष्प्रमाणत्वात् । अव्ययगणनायां चकारनकाराभ्यां पृथगेव नुकमित्यादिवत् चनशब्दस्य पाठात् । नेह नानास्ति किञ्चनेत्यादावैकपद्यस्य स्वेनाप्यूरीकृतत्वात् । माधवीयेऽपि तथा तत्र तत्र व्याख्यानात् ।
शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीलः ।
यच्चिकेत सत्यमित्तन्न मोघं वसुस्पार्हमुत जेतो त दाता ।।
इत्यस्याष्टमाष्टकस्थस्यायमर्थः ।
शाक्मना बलेन, शाकः शक्तः स्वसामर्थ्येनैव सर्वं कर्तुमुद्यतः इन्द्रस्येन्द्रत्वादेव सह-कार्येतरापेक्षाविरहात् । अरुणवर्णः, सुपर्णः शोभनपतनः यः प्रसिद्धः अभिव्याप्त्या आमहः महान् । शूरः विक्रान्तः, सनात् पुराणः । अनीडः न हीन्द्रोऽग्निवत् कुत्रचिद्यज्ञे निकेतनं करोति । स्पार्हं स्पृहणीयं वसु धनं जेता शत्रुभ्यः सकाशात् । अपि दाता । स्तोतृभ्यः । तृन्नन्तत्वान्न लोकेत्यादिना प्रतिषिद्धा षष्टी । एतादृशमाहात्म्यशाली इन्द्रः, यत् यस्मात्, सत्यमित् सत्यमेव चिकेत ‘‘किर्ज्ञाने’’ ज्ञातवान् । तत्तस्मान्न मोघं न मृषेति ।
‘‘कविर्मनीषी परिभूः स्वयं भूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्य इत्यस्याय-मर्थः । ज्ञानी, मनसां नियामकः । परिभावयति सर्वानिति परिभूः सर्वाधिकः । स्वयम्भूः परापेक्षोत्पत्तिकान्यः । शाश्वतीभ्यः समाभ्यः सर्वदा । यथार्थन्तु यथातथामित्यमरोक्त्या यथातथाशब्दस्य स्वार्थिकष्यञन्तत्वेन यथार्थात् । अर्थान्महदादीन् । व्यदधात् निर्मम इति । एतेनाद्वैतसिद्धिकारीयं पूर्वसृष्टप्रकारेण सर्जनं, यथातथ्यत इत्यस्यार्थ इत्यप्यपास्तम् । तस्य तदर्थकत्वाप्रसिद्धेः । अत्र ब्रह्मानन्देन तथ्यपदस्य सत्यार्थकत्वेन याथेत्यस्य व्यर्थत्वापत्तेः । प्रत्ययस्य स्वार्थिकत्वे वैय्यर्थ्यापत्तेश्च । तस्माद्भावार्थकस्तद्धितः ल्यब्लोपपञ्चम्यास्तसिल्-प्रत्ययः । तथा च पूर्वं सृष्टा अर्थाः यथा तथाभावं प्रतिसन्धाय व्यदधादिति वाक्यार्थः । किञ्च कविर्मनीषी परिभूः स्वयम्भूरिति पूर्वभागस्य त्वन्मते वाक्यार्थेऽनुपयोगः । मन्मते तु यतः कविः पूर्वक्रान्तं सर्वं दृष्टवान् । यतश्च मनीषी मनसा ईष्टे उहापोहकुशलः । यतश्च पूर्वसृष्टविरुद्धमिच्छतां परिभव समर्थो, यतश्च स्वयमन्यनैरपेक्ष्येण जगद्भावनसमर्थस्ततो हेतोः पूर्वसृष्टभावं प्रतिसन्धाय जगत्सृष्टवानिति सकलवाक्यं युक्तार्थकमित्यभिहितम् । तत् आत्मनः शब्दव्युत्पत्तिप्रकाशकम् । सामीप्यादिपदवद्याथातथ्यपदस्य स्वार्थिकष्यञन्तस्तस्य यथातथ-शब्दप्रकृतिकस्य तथाशब्दप्रकृतिकतथ्यपदपर्यायत्वेन पदान्तरतया वैय्यर्थ्यशङ्कायाः पाणिनीय प्रक्रियानधिगतिनिबन्धनत्वात् । कविरित्यादि पूर्वभागसार्थक्यत्वं आकरे व्यक्तं, प्रपञ्चितं च वनमालिमिश्रेणेति नेह विवेचनीयम् ।
नाभाव इति । जगदसन्न भवति । सत्वेनोपलब्धेरित्यर्थः । वैधर्म्यादिति । जगत्, स्वप्नपदोपात्तेन तदवस्थाप्रतीतगजाद्यध्यस्तजाग्रत्सृष्टपदार्थतादात्म्येन मरीचिकाजलादिना च तुल्यं न वर्तते । तद्वैलक्षण्यानुभवादित्यर्थः । त्वन्मत इति । औतिनये घटो नील इतिवत् सन् घट इत्यत्र घटे सत्वं न विषयः किं त्वधिष्टानभूतसद्बद्मानुवेधमात्रमित्यङ्गीकारेण प्रत्यक्षेण घटादिषु सत्वस्यानवगाहनादिति भावः । यच्चिकेतेत्यादीति । अत्र वाक्ये ईश्वरकृतत्वविशेषितं जगदनूद्य सत्वविधानं न सङ्गच्छते । तस्य तत्कृतत्वस्य केवलानु-मानादितोऽनवधृततया मानान्तराप्राप्ततयाऽनुवाद्यताविरहात् । किन्तु सत्यकामादिवाक्या-वत्सत्यत्वविशेषितजगत्सृष्ट्रत्वमीशस्याभिधीयते ।
अत्राद्वैतसिद्धिकारीया, स्तुत्यादिपरतयाऽस्य न विश्वसत्यत्वे तात्पर्यमिति शङ्का, मानान्तरविरोधाभावेन देवताविग्रहादेरिव जगत्सत्यत्वस्यापि सिद्धेर्निरस्तैव । पृथिवीत्यादि-प्रत्यक्षेण पृथिवीत्वसामानाधिकरण्येन घटादावितरभेदस्य, ब्राह्मणो न हन्तव्य इत्यनेन प्राणत्वसामानाधिकरण्येन ब्राह्मणहिंसाकर्मत्वाभावस्य च निश्चयेऽपि पृथिवीत्वावच्छेदेन प्राणित्वावच्छेदेन च तयोरनिश्चयेऽपि न यथा तत्राननुवादकत्वं तद्वत्प्रकृतेऽपि सन्निकृष्टेषु पटादिषु प्रत्यक्षेण सत्वावधारणेऽपि अतीन्द्रियेषु तेन तदनवधारणेन श्रुत्यैव तस्य तत्रावधार्यत्वान्न तस्यानुवादकत्वमित्यर्थः । अत्राद्वैतसिद्धिकारः । दृष्टान्ते हि पृथिवीत्वं हिंसात्वं चैकोऽनुगतो धर्म इति तदवच्छेदेन विधेयस्याप्राप्तेर्न तत्रानुवादकत्वं युक्तम् । इह तु विश्वत्वं नाम नैकोऽनुगतो धर्मोऽस्ति किन्तु विश्वशब्दस्य सर्वनामत्वात्तेन रूपेण घटपटादीनामुपस्थापकः । तेषु च प्रत्येकं सत्वं गृहीतमेवेति कथं नानुवादकत्वं प्रकार-वैलक्षण्याभावादित्याह । अत्र ब्रह्मानन्दः – सर्वनामत्वात् बुद्धिविषयविशिष्टशक्तत्वात् । तथा च यथा तदादेर्बुद्धिविषयविशिष्टशक्तत्वेऽपि घटत्वादिविशेषरूपं स्वरूपतोऽविषयीकुर्वति शाब्दानुभवे हेतुत्वम् ।
अन्यथा तादृशसंशयादिनिवृत्तिस्तादृशशाब्दबोधान्न स्यात् । तथा विश्वशब्दस्यापि घटत्वादिकं स्वरूपतोऽविषयीकुर्वति बोधे हेतुत्वम् । अत एव ‘‘सर्वेभ्यो दर्शपूर्णमासौ’’ इत्यादौ पुत्रत्वादिनानाधर्माणामुद्देश्यतावच्छेदकत्वेनोद्देश्यभेदेऽप्येकपदार्थत्वान्न वाक्यभेद इति वार्तिकादावुक्तमिति व्याचख्यौ । उभावपि परीक्षकसमयमतिशयानौ । तथा हि । भगव-त्सङ्केतरूपायां शक्तौ शक्यतावच्छेदकघटत्वपटत्वादीनामुपलक्षणीभूतबुद्धिविषयतावच्छेदकत्व-प्रकारेण भासमानानानन्दादिपदजन्यबोधविषयतावच्छेदकत्वं भासते । एवं च बुद्धिविषयता-वच्छेदकधर्मावच्छिन्नस्तत्पदाद्बोद्धव्यः । तत्पदम्बुद्धिविषयतावच्छेदकधर्मावच्छिन्नं बोधयत्वि-त्याकारकस्य वा सङ्केतस्य विषयतायाः अनुनगतघटत्वपटत्वादिनिष्टाया अपि अनुगतरूपा-वच्छिन्नतया शक्तेरैक्यम् । इयांस्तु विशेषः । घटत्वादिषु घटादिपदजन्यबोधविषयता-वच्छेदकत्वं सङ्केतेनावगाह्यत इति तानि विशेषणानीत्युच्यन्ते । प्रकृते च तादृशबुद्धि-विषयतावच्छेदकत्वे सर्वनामपदजन्यबोधविषयतावच्छेदकत्वं तेन नावगाह्यते । अपि तु तादृशविषयतासामानाधिकरण्यमात्रमिति तदुपलक्षणमिति गीयते । तथा च तादृश-शक्तिग्रहस्य दर्शितसामान्यप्रत्यासत्या निखिलतादृशधर्मविषयकतया न पूर्वधर्मप्रकारेण बोधानुपपत्तिः । सामान्यप्रत्यासत्यनभ्युपगमे तु शक्तिग्रहधर्मितावच्छेदकतावच्छेदकाननुगत-रूपाश्रयस्यापूर्वधर्मस्य शक्तिग्रहाविषयत्वेऽपि शाब्दबुद्धौ न भानानुपपत्तिः शक्तिधियः समानविषयत्वस्यातन्त्रत्वात् । विश्वं सत्यमिति श्रुतौ विश्वपदस्य जगत्पदपर्यायतया ।
ब्रह्म सत्यन्तपः सत्यं सत्यं चैव प्रजापतिः । सत्यं भूतानि जातानि सत्यभूतमयं जगत् । इत्याश्वमेधके जगत्वावच्छेदेन सत्यत्वोक्त्या च ग्रन्थकारोक्तस्याखिलपरीक्षकपरीक्षित-त्वात् । अतिप्रसङ्गादिति सिद्धोद्देशेनासिद्धविधायकस्यापि दध्ना जुहोतीत्यादेरनुवादकता प्रसज्येतेत्यर्थः । एकशाखेत्यादि ।। शाखाया एकवेदस्थशाखान्तरासाहित्यरूपैकत्व-विशिष्टाया एवाध्ययनपरस्य शब्देन विहितत्वादेकवेदस्थशाखाद्वयगतवाक्ययोरेकपुरुषेणा-ध्ययनस्याविहितत्वात्तत्र यथा तादृशवाक्ययोः पुरुषभेदं प्रति बोधकत्वेन नानुवादकत्वमिति द्वितीयस्थे शाखान्तराधिकरणे निर्णीतं तथा वादिविप्रतिपत्यादिभिरनिर्णीतघटादिसत्ताकं पुरुषं प्रति प्रकृता विश्वसत्यत्वश्रुतिर्नानुवादिकेत्यर्थः ।
अत्राद्वैतसिद्धिकृत्, पुरोवादपूर्वकत्वादनुवादस्यात्रायं पुरोवाद इत्यस्यैवाभावान्न-शाखान्तरस्थवाक्यस्यानुवादकत्वप्रसङ्ग इत्याह । अत्र व्याख्यातारः– भूयस्त्वेनोभय-श्रुतीतिन्यायेन कर्मस्वरूपनिश्चयवत् वेदद्रष्टृप्रथमव्यक्त्यपेक्षया पुरोवादस्यापि निश्चयात्सादि-प्रत्यक्षस्यानादिवेदापेक्षया पुरोवादत्वासम्भवात् । तस्मात्प्रतिपत्तृव्यवस्थयैवाननुवादकत्वं वाच्यमिति भाव इति समादधिरे । अनुवादस्य निश्चेतव्यतां सम्पादयति सर्वेति । सर्वाविवादस्य निश्चेतुमशक्यत्वादित्यद्वैतसिद्धिकारीयं जल्पितमप्यभियोगेनैव । अग्निर्हिमस्य भेषजम्, अस्यामोषधयो जायन्त इत्यादीनामेव सर्वाविदादस्थलत्वात् । वादिविप्रतिपत्तीति । चार्वाकादिवादिविप्रतिपत्तिदर्शनादित्यर्थः । अत्राद्वैतसिद्धिकारः । वादिविप्रतिपत्तिपत्तिदर्शनेन देहव्यतिरिक्तत्वेनात्मनः प्रत्यक्षतैव नास्ति । अन्यथा प्रत्यक्षप्रामाण्यवादिनश्चार्वाकादेस्तत्र विप्रतिपत्तिर्न स्यादित्युक्तं न तु वादिविप्रतिपत्तिनिरासेनास्तीत्यादेः सार्थकत्वमननुवादकत्वं वा । तथा चोक्तं तत्रैव ‘तस्माज्जन्मान्तरसम्बन्ध्यात्मास्तित्वे जन्मान्तरेष्टानिष्टप्राप्तिपरिहार-विशेषोपाये च शास्त्रं प्रवर्तत इति जगाद । तन्न साधीयः । तथा सति तद्दिशैव प्रकृतेऽपि वादिविप्रतिपत्तिदर्शनेन जगत्पारमार्थ्यमपि न प्रत्यक्षगोचरः । अन्यथा प्रत्यक्षप्रामाण्य-मुपगच्छतोर्द्वैताद्वैतवादिनोर्विप्रतिपत्तिर्न स्यादिति तात्पर्यकत्वात्प्रकृतग्रन्थस्य न दोषः ।
द्वयोः प्रणयन्तीति । चातुर्मास्याख्यस्य कर्मणश्चत्वारि पर्वाणि वैश्वदेववरुणप्रघास-साकमेधशुनासीराभिधानि । तत्र चातुर्मास्यप्रकरणे द्वयोः प्रणयन्ति तस्मात् द्वाभ्यामेतीति श्रूयते । तस्य च ऊरू वा एतौ यज्ञस्य यद्वरुणप्रघासश्च साकमेधश्चेति गतिसाधनोरुत्वेन संस्तुतमध्यपर्वद्वयविषयत्वे द्वाभ्यामेतीति वाक्यशेषादवधृते चातुर्मास्यानां दर्शपूर्णमास-विकृतित्वेनैव प्रणयनस्य प्राप्त्या प्रणयनपुनः श्रुतेर्वैय्यर्थ्यमित्यतः प्रणयनपुनः श्रुतिरनन्यार्था भेदिका भवतीति दर्शपूर्वकात् गार्हपत्यावस्थिकाहवनीयावधिकमुत्तराहवनीयप्रणयनं द्वयोः प्रणयन्तीति वाक्येन बोध्यते । तथा च प्राप्तप्रणयनाद्विलक्षणप्रणयनं विधीयते तथा विश्वसत्यत्वश्रुत्या प्रत्यक्षप्राप्तसत्वाद्विलक्षणतात्विकसत्वमेव बोधयतीति समुदायार्थः । श्रुतेः विश्वं सत्यमित्यादिकायाः । श्रुतिवत् । षष्ट्यन्ताद्वतिः । तत्सत्यं स आत्मेत्यादिकायाः श्रुतेरिव । सन् घटः, सत्सुखस्फुरणमहमस्मीत्यादिप्रत्यक्षेणापि तत्तत्सत्यत्वप्राप्त्योपन्यस्त-श्रुतेर्वैय्यर्थ्यं मा प्रसाङ्क्षीदित्येवमर्थमित्यर्थः ।
अत्राद्वैतसिद्धिकारः । त्रैकालिकसत्वनिषेधकश्रुतिविरोधेन विश्वस्य सत्यत्वश्रुते-स्त्रैकालिकसत्वपरत्वाभावात् । न च वैपरीत्यमेव किं न स्याद्विनिगमकाभावादिति वाच्यम् । तात्पर्यान्यथानुपपत्तिगतिसामान्यानामेव विनिगमकत्वात् । अद्वैतश्रुतिर्हि षड्विधतात्पर्य-लिङ्गोपेता । तत्र त्रिविधं तात्पर्यलिङ्गं प्रामाण्यशरीरघटकं अर्थनिष्ठमज्ञातत्वमबाधितत्वं प्रयोजनवत्वं चेति । त्रिविधं तु शब्दनिष्ठमतिप्रसङ्गनिवारकम् उपक्रमोपसंहारयोरैकरूप्य-मभ्यासः अर्थवादश्चेति । तत्र शब्दनिष्ठलिङ्गत्रये तावन्न विवादः । सर्वासामेवोपनिषदामेवं प्रवृत्तत्वात् । मानान्तरासिद्धतया मोक्षहेतुज्ञानविषयतया चाज्ञातत्वं सप्रयोजनत्वं च निर्विवादमेव । अबाधितत्वमात्रं सन्दिग्धम् । तच्चान्यथानुपपत्तिगतिसामान्याभ्यां निर्णीतम् । न च सर्वप्रपञ्चनिषेधरूपमद्वैतं व्यावहारिकम् । येन तत्र श्रुतेर्व्यावहारिकं प्रामाण्यं स्यात् । अतस्तत्र तात्विकमेव प्रामाण्यम् । द्वैतसत्यत्वं व्यावहारिकम् अतस्तत्र न श्रुतेस्तात्विकं प्रामाण्यम् । परस्परविरुद्धयोस्तात्विकत्वा योगात् । वस्तुनि विकल्पासम्भवात् । तात्विक-व्यावहारिकप्रामाण्यभेदेन च व्यवस्थोपपत्तेः । स्तुतिपरत्वेनावधारितस्य विश्वसत्यत्व-वाक्यस्यैवान्यथा व्याख्यातुमुचितत्वात् । तथा हि । चतुर्धाहि सामानाधिकरण्यम् । अध्यासे ‘इदं रजतम्’ इत्यादौ, बाधायां स्थाणुः पुमानित्यादौ । विशेषणविशेष्यभावे नीलमुत्पल-मित्यादौ । अभेदेन तत्वमसीत्यादौ । अत्र बाधायामध्यासे वा सामानाधिकरण्योपपत्तेर्न सत्वबोधकश्रुतेः षड्विधतात्पर्यलिङ्गोपेताद्वैतश्रुतिबाधकत्वमिति प्रतिपपाद । तत्सर्वमन्यो-न्याश्रयादिदूषितम् । वैयाकरणप्रपञ्चेनापहस्तितं चेति नेह वितन्यते ।
सुखं सुप्तोऽस्मीति । सुप्तौ स्वरूपानन्दो गृह्यते । स्वरूपं च तदज्ञानोपहितमेव साक्षिविषय इति सुषुप्तिकालीनानन्दस्यातात्विकत्वमित्यर्थः । अत्राद्वैतसिद्धिकारः । साक्षिण उपहितानन्दविषयत्वेन श्रुतेश्च निरुपाधिकानन्दविषयत्वेन भिन्नविषयत्वादनुवादकत्वायोगात् । तदा हि सुप्तौ स्वरूपानन्दो गृह्यते । स्वरूपं चाज्ञानोपहितमेव साक्षिविषय इति न्यरूरुपत् । तन्मन्दम् । तथा सति तुल्यदिशा प्रत्यक्षगृहीतसत्वादतिरिच्यमानसत्वविषयकतया श्रुतेर्नानु-वादकतेत्यवेहीति स्थितम् ।। निगमनेत्यादि । षष्ठ्यन्ताद्वतिपञ्चकम् । अत्राद्वैतसिद्धि-कृद्बभाषे । अशेषविशेषग्राहिप्रत्यक्षप्राप्ते दार्ढ्यार्थमन्यानपेक्षणात् । पिपासितस्य शब्दलिङ्गा-नन्तरं जले प्रत्यक्षमपेक्षितं न तु प्रत्यक्षानन्तरं शब्दलिङ्गे । तम आसीदित्यस्य सृष्टि-पूर्वकालसम्बन्धत्वेनाज्ञानग्राहितया सुषुप्तिकालसम्बन्धित्वेनाज्ञानग्राहकं प्रत्यक्षमपेक्ष्य भिन्न-विषयत्वेनैव प्रामाण्यसम्भवादिति । तदतिस्थवीयः । सन्घट इत्यादिप्रत्यक्षे शुक्तिरजतादि-प्रत्यक्षवत्प्रत्यक्षत्वावैशेष्येणाप्रामाण्याशङ्कानिरसनायान्यस्यावश्याश्रयणीयत्वात् । अनभ्यास-दशापन्न जलप्रत्यक्षे मरुमरीचिकाजलप्रत्यक्ष इव तदवैशेष्येण तच्छङ्काविधूननाय इतरस्या-पेक्षणीयत्वात् । एतावन्तं कालं शुद्धं ब्रह्म नावेदिषमिति अनादिकालसंसृष्टाज्ञानानुभवेन सृष्टिकालेऽपि
तत्सिद्धेः ।