यदि तु प्रत्यक्षं लिङ्गबाध्यम्, तर्हि ‘‘औदुम्बरीं स्पृष्ट्वोद्गायेत्’’ ऐन्द्र्या गार्हपत्यमुपतिष्ठते

२२. प्रत्यक्षस्य अनुमानबाध्यत्वे बाधकम्

न्यायामृतम्

यदि तु प्रत्यक्षं लिङ्गबाध्यम्, तर्हि ‘‘औदुम्बरीं स्पृष्ट्वोद्गायेत्’’ ऐन्द्र्या गार्हपत्यमुपतिष्ठते,’’ ‘‘शरमयं बर्हिर्भवति’’ इति श्रुतित्रयग्राहिप्रत्यक्षं च यथाक्रमम् ‘‘औदुम्बरी वा सर्वा वेष्टयितव्या’’ इति स्मृतिरूपेण सर्ववेष्टनश्रुत्यनुमानेन ‘‘नेन्द्र सश्चसि दाशुष’’ इति मन्त्रसामार्थ्यरूपेण इन्द्रशेषत्वश्रुत्यनुमानेन चोदनालिङ्ग-सारूप्येण कुशश्रुत्यनुमानेन बाध्येतेति सर्वैव मीमांसोन्मूलिता स्यात् ।

अद्वैतसिद्धिः

किञ्च विपक्षबाधकसचिवमनुमानमपि प्रत्यक्षबाधकम् । ननु – एवमपि ‘औदुम्बरीं स्पृष्ट्वा उद्गायेत्’, ‘ऐन्द्र्या गार्हपत्यमुपतिष्ठते’, ‘शरमयं बर्हिर्भवति’ इति श्रुतित्रयग्राहिप्रत्यक्षं यथाक्रमं ‘औदुम्बरी सर्वा वेष्टयितव्या’ इति स्मृतिरूपेण सर्ववेष्टनश्रुत्यनुमानेन ‘कदाचन स्तरीरसि नेन्द्र सश्चसिदाशुषे’ इति मन्त्रसामर्थ्यलक्षणेनेन्द्रशेषत्वश्रुत्यनुमानेन, चोदनालिङ्गरूपेण कुशश्रुत्यनुमानेन च बाध्येतेति सर्वमीमांसोन्मूलिता स्यादिति – चेन्न । वैषम्यात् । तथा हि– किमिदमापाद्यते, श्रुतित्रयग्राहिप्रत्यक्षमनुमानैर्बाध्येतेति वा, प्रत्यक्षविषयीभूतश्रुतित्रयमिति वा? नाद्यः । विरोधाभावेन तद्बाध्यबाधकभावस्य शास्त्रार्थत्वाभावात्, अस्माभिरनभ्युपगमाच्च । अनुक्तोपालम्भमात्रत्वे निरनु-योज्यानु योगापत्तेः । अत एव न द्वितीयः । प्रत्यक्षविषयीभूतश्रुतित्रयस्य लिङ्गबाधकत्वपरेऽपि शास्त्रे प्रत्यक्षस्य लिङ्गबाध्यत्वे विरोधाभावात् । न हि शब्दप्रत्यक्षयोरैक्यमस्ति । शब्दस्य च सर्वप्रमाणा-पेक्षया बलवत्त्वमवोचाम । तस्मान्मौढ्यमात्रमेतन्मीमांसाविरोधोद्भावनम् ।

न्यायामृततरङ्गिणी

।। औदुम्बरीमिति ।। औदुम्बरी नाम ज्योतिष्टोमे क्रतौ सदोमण्टपे विद्यमाना उदुम्बरमयी स्थूणा । तां स्पृष्ट्वा उद्गाता नाम ऋत्विक् गानं कुर्यादिति श्रुत्यर्थः । ऐन्द्य्रेति । कदाचन स्तरीरसि नेन्द्र सश्चसिदाशुषे इत्येतया इन्द्रप्रकाशिकया ऋचा गार्हपत्यमग्निमुपतिष्ठते । शरमय-मिति । शराः कुशसदृशतृणविशेषाः । तेषां शराणां वेदिस्तरणार्थं बर्हिर्भवति ।

औदुम्बरीति । तामूर्ध्वदेशेन वाससा वेष्टयतीति विहितं यदौदुम्बर्याः स्थूणायाः वेष्टनं तत्सर्वप्रदेशेऽप्यौदुम्बर्याः कर्तव्यमित्येतमर्थं ‘औदुम्बरी सर्वा वेष्टयितव्ये’ति स्मृतिः प्रतिपादयति । सा च स्वमूलभूतां श्रुतिमनुमापयति । अनुमानं चैवम् – औदुम्बरी श्रुत्युक्तसर्ववेष्टनयुक्ता । बाधकाभावे सति सर्ववेष्टनप्रतिपादकस्मृतियुक्तत्वात् । यद्यदर्थप्रतिपादकस्मृतियुक्तं तत् श्रुत्युक्ततदर्थयुक्तं, यथासम्मतमिति सामान्यव्याप्तिः । नेन्द्र सश्चसीति । कदाचन स्तरीरसीति मन्त्रः श्रुत्युक्तेन्द्रशेषकः । बाधकाभावे सतीन्द्रप्रकाशनसामर्थ्योपेतत्वात् । यद्यत्प्रकाशनसमर्थं तत्तथा यथासम्मतम् । चोदनालिङ्गसारूप्येणेति । सोमारौद्रः श्रुत्युक्तकुशबर्हिषः कुशश्रुति-युक्ता । पौर्णमासचोदनासदृशनिर्वापशब्दद्विदेवतादियुक्तचोदनायुक्तत्वात् । यद्यत्सदृशचोदनालिङ्गं तत्तथा यथासम्मतमिति । अधिकरणविचारस्त्वेवम् प्रथमस्य तृतीये विचारितम्– ‘‘विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्’’ । ज्योतिष्टोमे सदोनामकस्य मण्टपस्य मध्ये किञ्चिदौदुम्बरी-

संज्ञमुदुम्बरवृक्षस्य द्विशिखं काष्ठं निखन्य स्थाप्यते । तस्या औदुम्बर्याः ‘‘सर्वा औदुम्बरी वेष्टयितव्या’’ इति स्मृत्या सर्ववेष्टनं विहितम् । प्रत्यक्षेण वेदेन ‘‘औदुम्बरीं स्पृष्ट्वोद्गायेत्’’ इत्यनेन स्पर्शो विहितः । तदेवंजातीयां प्रत्यक्षश्रुतिविरुद्धां स्मृतिमुदाहृत्य किं प्रमाणमप्रमाणं वेति ।

पूर्वपक्षस्तु – श्रुतिवदेव तद्विरुद्धाऽपि स्मृतिरपि प्रमाणम् । ननु श्रुतिमूला स्मृतिः प्रमाणम् । न च श्रुतिविरुद्धायाः स्मृतेर्मूलं श्रुतिरस्ति । अतो न स्मृतिः प्रमाणमिति चेत् मैवम् । श्रुतिविरुद्धस्मृतिमूलश्रुतेरपि सम्भवात् । तस्माद्यत्र द्वयोः श्रुत्योरसम्भवस्तत्रैकविषयेण प्रत्यक्षेणेतरविषयानुमानं प्रमेयापहारादनायासेन निराक्रियते वह्नाविव शैत्यानुमानम् । यत्र तु द्वयसम्भवस्तत्र तु शीघ्रं प्रवृत्तमपीतरन्नेतरस्य विषयमपहरतीति तद्विषयमनुमानं न शक्नोति प्रतिषेद्धुम् । सम्भवति च युगपदनुपसंहरणीयार्थमपि श्रुतिद्वयम् । व्रीहियवबृहद्रथन्तरग्रहणा-ग्रहणविषयश्रुतिवदिति प्रत्यक्षेणापि स्पर्शनविधिना सर्ववेष्टनश्रुत्युनुमानं न शक्यं निराकर्तुम् । कथं तर्हि श्रुतिलिङ्गादिषु पूर्वपूर्वेणोत्तरस्य बाधस्तत्रापि श्रुतिद्वयसम्भवात् । न क्लृप्तया कल्प्या निराकर्तुं शक्या । उच्यते । नैवात्र प्रमेयापहारनिबन्धनो बाधः । किं तु कल्पनामूलोच्छेदनात् । यावद्धि मन्त्राम्नानमनवगतप्रयोजनं, प्रकरणी चाकृतार्था तावदेव तत्सिद्ध्यर्थं श्रुतिकल्पनं प्रमाणवत् । यदा तु क्लृप्तया श्रुत्या द्वयोरपि नैराकाङ्क्षयं तदा मूलोच्छेदादाकाङ्क्षाधीना श्रुतिकल्पना नोन्मज्जति । अत्र तु प्रत्यक्षया श्रुत्या न स्मृतेर्मूलाकाङ्क्षा निवर्तते । यतो मूलोच्छेदादनुमानविरोधः स्यात् । अतोऽत्रानुमानस्य प्रत्यक्षेणाविरोधात् विरुद्धानामपि प्रमाण्यमिति प्राप्तेऽभिधीयते । अशक्यार्थविषयता हि मूर्धाभिषिक्तं श्रुतीनामप्रामाण्यनिदानं सागरं तरेदित्यादिवत् अशक्यं संस्पृशता वेष्टयितुं वेष्टयित्रा स्प्रष्टुं वा । तदुक्तम्–

‘‘अप्रामाण्यं विरुद्धानामशक्यार्थविधानतः ।

औदुम्बरीं न शक्नोति सर्वां वेष्टयितुं स्पृशन् ।

वेष्टितां चापि संस्प्रष्टुमतोऽन्योन्यविरोधतः ।

प्रमेयापहृतेरेव बाधः स्याद्वह्निशैत्यवत् ।।’’ इति ।

अतो वेष्टयेत्स्पृशेदित्यशक्यार्थविधानात् न तावदुभयोरपि प्रामाण्यं सम्भवतीत्यवश्य-मन्यतरद्बाधितव्यम् । तत्र प्रत्यक्षेणानुमानस्य बाधोऽग्नाविव शैत्यानुमानस्येति सिद्धमप्रामाण्यं स्मृतीनां श्रुतिविरुद्धानाम् । व्रीह्यादौ तु द्वयोरपि प्रत्यक्षत्वेनागृह्यमाणविशेषत्वान्नैकेनेतरस्य बाधः सम्भवति । विरुद्धार्थत्वाच्च न द्वयोराञ्जस्येन प्रामाण्यम् । न चाप्रामाण्यमविद्यमानदोषयोः सम्भवतीति गत्यन्तराभावादुभयोरपि पाक्षिको बाधः कल्प्यते । न चैवं शास्त्रस्याप्रामाण्यम् । यथा सामान्यशास्त्रस्य विशेषशास्त्रबाधितस्यापि नाप्रामाण्यं तद्वदिहापि । ननु बाधितं च भवत्यप्रामाण्यं न भवतीति व्याहतमेतत् । सत्यमेव । न त्वत्र परमार्थतः शास्त्रार्थो बाध्यते । किं तु प्रतिपक्षमनालोचयतो यः शास्त्रस्य स्वरसतः सार्वत्रिकः प्रत्ययः सोऽत्र बाध्यते । तद्बाधाच्च पाक्षिकानुमानपरत्वं शास्त्रस्याध्यवसीयते । न चैवं स्मृतिवशेन श्रुतिस्वरूपभङ्गेन स्पर्शनस्य पाक्षिकत्वं कल्पयितुं शक्यते । स्मृतेः स्वरसतोऽप्रमाणत्वेन श्रुतिबाधासामर्थ्यात् । श्रुतिकल्पनस्य प्रत्यक्षश्रुतिविहितस्य स्पर्शनविरोधेन विरुद्धत्वात् ।

ननु पाक्षिकत्वेनापि प्रत्यक्षश्रुतिरुपपद्यते । यस्मिन् पक्षे सा नास्ति तत्र स्पर्शाभावेन वेष्टनस्यापि शक्यानुष्ठानत्वात्तद्विषयश्रुतिकल्पनमनुपपन्नमिति चेत् न । इतरेतराश्रयात् । स्वरसतो हि श्रुतिवाक्यादपाक्षिकं स्पर्शनं गम्यते । तस्मिंश्चापाक्षिके न स्मार्तश्रुतिकल्पनमशक्यत्वात् । न हि स्पृशता वेष्टयितुं शक्यते । तत्र स्पर्शनस्य पाक्षिकत्वे सति शक्यार्थस्मृतिकल्पिता श्रुतिरात्मानं लभते । तस्यां च लब्धात्मिकायां तद्विरोधात्स्पर्शनस्य पाक्षिकत्वमितीतरेतराश्रयत्वं स्यात् । तस्मात्प्रत्यक्षश्रुतिविरुद्धा स्मृतिरप्रमाणम् । तस्मात्सर्ववेष्टनस्मृतिरूपमनुमानं प्रत्यक्ष-विषयस्पर्शनश्रुतिविहितस्पर्शविरुद्धसर्ववेष्टनश्रुतिसाधकं न भवति । किं तु स्वयमेवाप्रमाणं भवति यथा, तथा दृश्यत्वादिलिङ्गरूपमनुमानमपि सन्घट इत्यादि प्रत्यक्षविरुद्धमिथ्यात्वसाधकं न भवति । स्वयमेवाप्रमाणं भवतीत्यर्थः । नन्वनुपपन्नो भाष्यकारोक्तापवादाधिकरणसिद्धसर्ववेष्टन-स्मृतिरूपो दृष्टान्तः । वार्तिककारदर्शिताधिकरणभङ्गप्रकारेण सर्ववेष्टनस्मृतिमूलस्य सर्ववेष्टनश्रुतेः सत्त्वेन सर्ववेष्टनस्मृतेरपि प्रमाणत्वात् । तथा हि । मन्वादिग्रन्थजातस्य शिष्टग्रहणहेतुकं कल्पितं वेदमूलत्वं कथं पुनरपोद्यते । ‘‘किञ्च बाधकसद्भावात्साधकाभावतोऽथवा ।

श्रुत्या भावोऽवसीयेत न द्वेधाप्युपपद्यते’’ । न तावद्दृश्यादर्शनं बाधकम् । सर्वशाखा-नुपलम्भात् । न च श्रुत्यभावनियतं किञ्चिल्लिङ्गं दृश्यते । विरुद्धश्रुतिदर्शनं तु षोडशिग्रहणादि श्रुतिभिरनैकान्तिकम् । नापि साधकाभावः । न हि स्वप्रमाणप्रवृत्त्यभावमात्रेण वस्त्वभाव-निश्चयः । सर्वपुरुषप्रमाणाभावस्त्वसिद्धः । स्मर्तृप्रत्यक्षस्य तद्ग्रन्थानुमितस्य सत्त्वात् । नित्यानु-मेयत्वे हि सर्वेषामिहानुमानमेव प्रमाणं स्यात् । तच्च प्रत्यक्षश्रुतिविरोधे नोदेतीति सर्वपुरुषाणां साधकप्रमाणाभावादीषत्करमभावावधारणं स्यात् । न च तदस्ति । अन्धपरम्परादोषात् । अतः स्मर्तृपुरुषान्तराणामिह प्रत्यक्षसम्भवात्, तस्य चात्मप्रत्यक्षतुल्यत्वान्न स्मार्तश्रुतिनिराकरणम् । तदुक्तं–

‘‘आत्मीयात्परकीयस्य दौर्बल्यं न हि किञ्चन ।

प्रत्यक्षत्वाविशेषेण स्वप्रत्यक्षसमं हि तत् ।।’’ इति ।

ततश्चात्मीयपरकीयप्रत्यक्षविषयश्रुतिविहितयोः स्पर्शनवेष्टनयोस्तुल्यकक्ष्यतया विकल्प एव । स चांशे बाध एवेति सर्ववेष्टनश्रुत्यनुमानमपि स्पर्शनश्रुतिप्रत्यक्षस्य बाधकमेवेति चेन्मैवम् । परकीयप्रत्यक्षादप्यात्मीयप्रत्यक्षस्य विस्रम्भणीयतया परप्रत्ययमनादृत्यात्मीयप्रत्ययेनैव व्यवहारः क्रियते । अतोऽत्र स्पर्श एवानुष्ठीयते । न तु सर्ववेष्टनमिति फलतोऽप्रामाण्यं श्रुतिविरुद्धानां स्मृतीनाम् । यथाहुः–

‘‘यावदेकं श्रुतौ कर्म स्मृतौ चान्यत्प्रतीयते ।

तावत्तयोर्विरुद्धत्वे श्रुत्यनुष्ठानमिष्यते ।।’’ इति ।

विरोधे त्वनपेक्षं स्यादिति श्रुतिस्मृत्योर्विरोधे यत्प्रमाणान्तरानपेक्षं श्रुतिवाक्यं तदेव ग्राह्यम् । असति ह्यात्मप्रत्यये परप्रत्ययानुमानक्लेशाश्रयणमिति सूत्रार्थः । नन्वौदुम्बर्याः सर्व-वेष्टनमशक्यम् । यो हि तस्याः प्रदेशोऽधोभागस्थस्तस्य वेष्टयितुमशक्यत्वादिति चेन्न । वेष्टयित्वाऽपि गर्ते निक्षेपसम्भवात् । तस्मात्प्रत्यक्षश्रुतिविरुद्धस्मृतिमूलश्रुतिर्यावन्न स्वस्य प्रत्यक्ष-विषयस्तावदनुष्ठानमात्रम् । ततः परं तु विकल्प इति स्मृत्यनुमानं न प्रत्यक्षबाधस्येष्टे । तस्माद्युक्तो दृष्टान्त इति ।

मन्त्रसामर्थ्यरूपेणेति । एतच्च श्रुतिलिङ्गाधिकरणे निरूपितप्रायमिति पृथक् नोच्यते । चोदनालिङ्गसारूप्येणेति । दशमाध्याये चतुर्थपादे चिन्तितम् । चोदनालिङ्गसंयोगेन तद्विकारः प्रतीयते । सोमारौद्रचरौ श्रूयते–शरमयं बर्हिर्भवतीति । तत्र किं दार्शपौर्णमासिकाः कुशाः न निवर्तन्ते निवर्तन्ते वेति सन्देहे शराणां कुशानां चोपदेशातिदेशरूपप्रमाणवत्तया अवगतत्वा-त्समुच्चय इति पूर्वः पक्षः । बर्हिःशब्दलक्षिते बर्हिःकार्ये शराणां विधायकस्य वचनस्य प्रत्यक्ष-त्वात् तैरेव कृतस्वकार्याणां कुशानां प्रापकस्य कुशसाधारणस्यातिदेशवाक्यस्य कल्पनं न प्रवर्तते, किं तु कुशव्यतिरिक्ताङ्गप्रापकस्यैव तस्यानुमानमिति प्रापकाभावात्कुशा निवर्तन्त इति सिद्धान्तः । चोदनायाः यल्लिङ्गं निर्वपति यजेतेत्यादिशब्दः अष्टाकपालादिसङ्ख्या एकद्विदेवता-त्वादि तत्संयोगेन तत्सारूप्येण तद्विकारः प्रतीयते इति सूत्रार्थः ।

सर्वैव मीमांसोन्मूलिता स्यादिति । अत्र वदन्ति किमिदमापाद्यते ? श्रुतित्रयग्राहि-प्रत्यक्षमनुमानैर्बाध्येतेति वा, प्रत्यक्षविषयीभूतं श्रुतित्रयमिति वा । नाद्यः । विरोधाभावेन तद्बाध्यबाधकभावस्य शास्त्रार्थत्वाभावात् । अस्माभिरनभ्युपगमाच्च । अनुक्तोपलम्भमात्रत्वे निरनुयोज्यानुयोगापत्तेः । अत एव न द्वितीयः । प्रत्यक्षविषयभूतस्य श्रुतित्रयस्य लिङ्गबाधकत्व-परेऽपि शास्त्रे प्रत्यक्षस्य लिङ्गबाध्यत्वेऽपि विरोधाभावात् । न हि शब्दप्रत्यक्षयोरैक्यमस्ति । शब्दस्य सर्वप्रमाणापेक्षया बलवत्त्वाङ्गीकारादिति । अत्रोच्यते । आद्यस्तावद्युक्तः । न च श्रुतित्रयग्राहिप्रत्यक्षस्यानुमानैर्विरोधाभाव इति वाच्यम् । प्रत्यक्षविषयश्रुत्या स्पर्शानुकूलसर्ववेष्टनं गार्हपत्यशेषत्वं शरबर्हिष्कत्वं च प्रतिपाद्यते । अनुमानैस्तु सर्ववेष्टनं इंद्रशेषत्वं कुशबर्हिष्कत्वं च प्रतिपाद्यत इति अर्थविरोधकृतश्रुतिविरोधपूर्वकः प्रत्यक्षानुमानानामस्ति विरोधः । अत एव तार्तीयोऽप्राप्तबाध इत्युच्यते । यथाहुः–

‘‘कल्प्यस्य शास्त्रस्य तु कल्पनं यन्निरुद्ध्यते मूलनिकृन्तनेन ।

क्लृप्तेन शीघ्रेण फलापहारादप्राप्तबाधं तमुदाहरन्ति ।।’’ इति ।

तस्मादस्त्येव प्रत्यक्षस्यानुमानैर्विरोधः । द्वितीयोऽपि युक्तः । प्रत्यक्षविषयस्य श्रुतित्रयस्य श्रुत्यनुगुणानुमानबाधकत्वं हि प्रत्यक्षविषयत्वेन, न तु श्रुतित्वमात्रेण । अनुमिताया अपि श्रुतेः प्रत्यक्षश्रुतिबाधकत्वप्रसङ्गात् । तस्मात्साधूक्तं सर्वैव मीमांसोन्मूलिता स्यादिति ।

न्यायामृतकण्टकोद्धारः

।। औदुम्बरीमिति ।। प्रमाणलक्षणस्मृतिपादे द्वितीयाधिकरणे चिन्तितं – विरोधे त्वनपेक्षं स्यादसति ह्यनुमानमिति सूत्रम् । अत्र श्रुतिविरुद्धस्मृतिरुदाहरणम् । औदुम्बरी सर्वा वेष्टयितव्येति स्मृतिः । औदुम्बरीं स्पृष्ट्वोद्गायेदिति श्रुतिः । क्रीतराजके भोज्यान्न इति स्मृतिः । अग्नीषोमीये संस्थिते यजमानस्य गृहेऽशितव्यमिति श्रुतिः । अत्र स्मृतौ राजशब्देन सोमो ग्राह्यः । श्रुतौ च संस्थितशब्देन समाप्तिः । अत्राद्यस्मृतिश्रुत्योरौदुम्बरीशब्देन ज्योतिष्टोमे सदो-नामकस्य मण्टपस्य मध्ये काचिदौदुम्बरी शाखा खन्यते । साऽत्र गृह्यते । सा च सर्वा वेष्टयितव्येति स्मृत्यर्थः । तां स्पृष्ट्वा उद्गाता उद्गानं कुर्यादिति श्रुत्यर्थः । किमिमे स्मृती धर्मे प्रमाणमुताप्रमाणमिति सन्देहः । किं तावत् प्राप्तम्? एते स्मृती धर्मे प्रमाणम् । कुतः? कर्तृसामान्यादेव । न च श्रुतिविरुद्धत्वादेतयोरप्रामाण्यमिति वाच्यम् । यदि श्रुतिविरोधेन स्मृत्यप्रामाण्यं स्यात्ततो अनेकशाखाखिलाश्रुतानधीतवेदवाक्यविरोधसम्भावनया अष्टकादि-स्मृतीनामप्रामाण्यं स्यात् । ततश्चातीताधिकरणार्थो बाधितः स्यात् । क्वचित् प्रामाण्यं क्वचिद-प्रामाण्यमित्यर्धजरतीयं च स्यात् । न च प्रत्यक्षश्रुतिविरोधात् स्मार्तश्रुतिकल्पनानवकाश इति वाच्यम् । व्रीहियवश्रुतिवत् द्वयसम्भवात् । यत्र हि द्वयोरसम्भवस्तत्रैकविषयेण प्रत्यक्षेणेतर-विषयानुमानं प्रमेयापहारद्वारा निराक्रियते । यथा प्रत्यक्षेण शैत्यानुमानम् । यत्र तु द्वयसम्भव-स्तत्र शीघ्रं प्रवृत्तमप्येकमितरस्य विषयं नापहरतीति तद्विषयमनुमानं न बाधते ।

न च प्रकृतेऽपि द्वयं न सम्भवति । यगपदुपसंहर्तुमशक्यत्वादिति वाच्यम् । व्रीहियव-बृहद्रथन्तरग्रहणाग्रहणादिविषयश्रुतिवद् युगपदुपसंहर्तुमशक्यत्वेऽपि श्रुतिद्वयसम्भवात् । तस्मात् प्रत्यक्षेणापि स्पर्शनविधिना सर्ववेष्टनविषयश्रुत्यनुमानं न शक्यं निराकर्तुम् । कथं तर्हि श्रुतिलिङ्गादिषु पूर्वपूर्वेणोत्तरोत्तरस्य बाधः? तत्रापि श्रुतिद्वयसम्भवादिति चेदुच्यते । न हि तत्र प्रमेयापहारनिबन्धनो बाधः । किन्तु कल्पनामूलोच्छेदात् । श्रुतिकल्पनं हि तावत् प्रमाणवत् यावत् मन्त्राम्नानमनवगतप्रयोजनं प्रकरणी चाकृतार्थः, यदा च प्रत्यक्षया श्रुत्या द्वयोरपि नौराकाङ्क्षयं तदाऽऽकाङ्क्षाधीना कल्पना तदपगमे गच्छति । प्रकृते तु प्रत्यक्षया श्रुत्या न स्मृते-र्मूलाकाङ्क्षा निवर्तते, येन मूलोच्छेदादनुमानविरोधः स्यात् । न च प्रमेयापहारद्वारा प्रत्यक्षेण शैत्यानुमानवत् प्रत्यक्षश्रुतिविरोधः किं न स्यादिति वाच्यम् । वैषम्यात् । दृष्टान्ते हि वह्ने-रौष्ण्यशैत्ये न सम्भवतः । प्रकृते तु व्रीहियवादिवत् श्रुतिद्वयसम्भवात् । किञ्च श्रुतिस्मृतिप्रमेये न विरुद्धे । शक्तिर्हि प्रमेयम् । न हि स्पर्शनशक्त्या वेष्टनशक्तिः वेष्टनशक्त्या स्पर्शनशक्ति-र्बाध्यते । व्रीहियवशक्तिवत् । तस्मात् विरोध एव नास्ति । विरोधे वा व्रीहियववत् विकल्प एवाश्रयणीय इति न कुत्राप्यप्रामाण्यमाशङ्कनीयम् । तस्मात् श्रुतिविरोधेऽपि स्मृतिद्वयं प्रमाण-मित्युत्सूत्रः पूर्वपक्षः ।

अत्र सिद्धान्तसूत्रं – विरोधे त्विति । अस्यार्थः– तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः । श्रुतिविरोधे स्मृतेः प्रामाण्यमनपेक्षम् अनादरणीयं स्यात् । हि यस्मात् असति श्रुतिविरोधे मूलश्रुत्यनुमानमुक्तं न तु सतीति । यदि स्मृतिः स्वातन्त्र्येण प्रमाणं स्यात् ततोऽविरोधवत् विरोधेऽपि प्रामाण्यं प्राप्नुयात् । न चैवं, मूलश्रुतिद्वारकत्वात् तत्प्रामाण्यस्य, तद्विरोधे प्रामाण्य-मेव कुतो भवेत्? विरोधवदविरोधेऽपि अप्रामाण्यप्रसञ्जने सर्वत्रोत्सर्गापवादन्यायः समुच्छिद्येत । अत एव नार्धवैशसम् । न च श्रुतिद्वयार्थसम्भवात् श्रुतिस्मृत्योर्विरोध एव नास्ति, व्रीहियव-श्रुतिवदिति वाच्यम् । परस्परविरुद्धार्थाभिधायकत्वेन तद्विरोधस्यावश्यकत्वात् । तथा हि – वेष्टनस्मृतिर्हि सर्ववेष्टनं विदधाति । श्रुतिस्तु स्पर्शनम् । न चैकदा वेष्टनस्पर्शने सम्भवतः । तेन वह्निशैत्यानुमानवत् स्मृतेः प्रत्यक्षश्रुत्या बाधो युक्तः । न च व्रीहियवश्रुतिवत् स्पर्शनश्रुतिः पाक्षिकत्वेन योजनीयेति वाच्यम् । भवेदेवं यदि तद्वत् श्रुतिद्वयं प्रत्यक्षं स्यात् । तत्र हि अनन्यगत्या विकल्प आश्रीयते, द्वयोः प्रत्यक्षत्वेनान्यतरेणान्यतरबाधायोगात् । विनिगमका-भावाच्च । न च प्रकृते विनिगमकाभावः । प्रत्यक्षानुमानयोरेव विनिगमकत्वात् । न च शक्तेरेव प्रमेयत्वात् तस्याश्चाबाधादविरोध इति वाच्यम् । शक्तेः प्रमेयत्वे आहवनीयस्य पदेन बाधो न स्यात् । उत्पन्नशिष्टस्य च उत्पत्तिशिष्टेन बाधो न स्यात् । नित्यस्य नैमित्तिकेन बाधो न स्यात् । द्वयोरपि शक्तिसम्भवात् । तस्माच्छक्तिमात्रं न प्रमेयं किन्तु अनुष्ठानमेव । तथा च सर्ववेष्टनापाक्षिकस्पर्शनयोर्विरोधात् तद्बोधकयोरन्यतरबाधस्यावश्यकत्वे प्रत्यक्षश्रुतिविरोधेन स्मृतेरेव बाधो न्याय्यः । न च विकल्पाश्रयणम् । तस्याष्टदोषदुष्टत्वेनाश्रयितुमयोग्यत्वात् । तुल्यबलत्वाभावाच्च । तथा च प्रत्यक्षश्रुत्या स्मृतिरूपानुमानस्य बाध इति सिद्धान्तसङ्क्षेपः ।

।। ऐन्द्य्रेति ।। इदमधिकरणं तु प्रत्यक्षस्य शीघ्रगामित्वेन प्राबल्यव्युत्पदाने विवृत-मवगन्तव्यम् ।। शरमयमिति ।। दशमे चतुर्थपादस्य द्वितीयेऽधिकरणे चिन्तितम् । चोदनालिङ्गसंयोगे तद्विकारः प्रतीयेत प्रकृतिसन्निधानादिति सूत्रम् । इदमाम्नायते – सोमारौद्रं चरुं निर्वपेत् । कृष्णानां व्रीहीणामभिचरन्निति । तत्रेदं श्रूयते – शरमयं बर्हिर्भवतीति । तत्र संशयः – किं दार्शपौर्णमासिकाः कुशाः न निवर्तन्ते उत निवर्तन्त इति । पूर्वपक्षस्तु – दार्शपौर्णमासिकाः कुशा न निवर्तन्त इति । कुतः? प्रकृतिवद् विकृतिः कर्तव्येति चोदकप्रमाणेन प्राप्तत्वात् । न च शरमयं बर्हिर्भवतीति शरा अपि प्राप्नुवन्तीति वाच्यम् । तर्ह्युभयोः प्रमाणप्राप्तत्वात् समुच्चयोऽस्तु । न च शराणां प्रत्यक्षप्राप्तत्वेन चोदकानुमान-प्राप्तकुशबाधकत्वमिति वाच्यम् । शरमयं बर्हिर्भवतीत्यत्र प्राचुर्यार्थत्वेन मयट्प्रत्ययोपपत्तेः विरोधाभावेन बाधकत्वासम्भवात् समुच्चयोपपत्तेरिति ।

अत्र सिद्धान्तसूत्रं – चोदनेति । अत्र शराः तद्विकारः कुशविकारः कुशबाधका इत्यर्थः । कुतः? चोदनालिङ्गसंयोगात् । कथं चोदनालिङ्गसंयोग इति चेत् प्रकृतिलिङ्गेन बर्हिः-शब्देन योगात् । तेन च प्रकृतिसन्निधानादिति । अयमभिप्रायः – शरमयं बर्हिर्भवतीति बर्हिः-शब्दलक्षिते बर्हिःकार्ये विधायकस्य वचनस्य प्रत्यक्षत्वात् तैरेव कुशानां कृतकार्यत्वात् तत्प्रापकस्य कुशसाधारणस्यातिदेशवाक्यस्य कुशप्राप्तिविषये शरैर्बाध इति कुशव्यतिरिक्ताङ्ग-प्रापकस्यैव तस्यानुमानमिति प्रापकाभावात् कुशा निवर्तन्त इति । न च मयटः प्राचुर्यार्थ-त्वोपपत्तेर्विरोधाभावात् शरकुशयोः समुच्चय इति वाच्यम् । नित्यं वृद्धशरादिभ्य इति सूत्रेण शरशब्दात् विकारे मयटो विधानात् । न च शराणां कुशविकारत्वम् । तथा च शरैः कुशानां बाध एव ।

।। सर्ववेष्टनश्रुत्यनुमानेनेति ।। विमता स्मृतिः सर्ववेष्टनश्रुतिमूलिका, स्मृतित्वात् अष्टकादिस्मृतिवदित्येवं रूपेणेत्यर्थः ।। इन्द्रशेषत्वश्रुत्यनुमानेनेति ।। विमतः ‘कदाचन स्तरीरसी’ति मन्त्रः इन्द्रशेषत्वप्रतिपादकश्रुत्युपेतः तदर्थप्रकाशकत्वात् आग्नेयमन्त्रवदित्येवं रूपेणेत्यर्थः । कुशश्रुत्यनुमानेनेति ।। विमतो विकृतियाग कुशमयबर्हिर्बोधकश्रुत्युपेतः चोदनास्वरूपत्वात् आग्रयणयागवदित्येवं रूपेणेत्यर्थः । सर्वैव मीमांसा उन्मीलिता स्यादिति । ननु वैषम्यम् । तथाहि – किमिदमापाद्यते? श्रुतित्रयग्राहिप्रत्यक्षमनुमानैर्बाध्येतेति वा? प्रत्यक्षविषयीभूतं श्रुतित्रयमिति वा? नाद्यः । विरोधाभावेन तद्बाध्यबाधकभावस्याशास्त्रार्थ-त्वात् अस्माभिरनभ्युपगमाच्च । अनुक्तोपालम्भत्वेन निरनुयोज्यानुयोगापत्तेः । न द्वितीयः । प्रत्यक्षविषयीभूतश्रुतित्रयस्य लिङ्गबाधकत्वपरेऽपि शास्त्रे प्रत्यक्षस्य लिङ्गबाध्यत्वे विरोधाभावात् । न हि शब्दप्रत्यक्षयोरैक्यमस्ति । शब्दस्य सर्वप्रमाणापेक्षया बलवत्त्वमवोचाम । तस्मान्मौढ्य-मात्रमेतन्मीमांसाविरोधोद्भावनमिति चेन्मैवम् । आद्यं तावदङ्गीकुर्मः ।

न च श्रुतित्रयग्राहिप्रत्यक्षस्यानुमानैर्विरोधाभावेन कथं तद्बाध्यत्वापादनमिति वाच्यम् । साक्षाद्विरोधाभावेऽपि सत्प्रतिपक्षस्थले विरुद्धसाध्यद्वयव्याप्ययोरिव विरोधिसामाग्रीत्वेन श्रुतित्रयग्राहिप्रत्यक्षस्य स्मृत्यादिरूपानुमानानां च स्वग्राह्यश्रुत्यर्थस्यानुमानग्राह्यश्रुत्यर्थस्य च विरोधित्वेन तद्द्वारा विरोधस्यावश्यकत्वात् । अन्यथा श्रुतेर्लिङ्गस्य च साक्षाद्विरोधाभावेन बाध्यबाधकभावः न स्यात् । न स्याच्च विरुद्धार्थप्रतिपादकयोर्वाक्ययोः साक्षाद्विरोधाभावेन बाध्यबाधकभावः । न चास्माभिरनभ्युपगमेन निरनुयोज्यानुयोग इति वाच्यम् । एवं ह्यनुकूल-तर्कप्रतिपादनं क्वापि न स्यात् । शक्यते हि तत्रापि वक्तुं धूमाभावस्यास्माभिरनभ्युपगमेन निरनुयोज्यानुयोग इति । यदि च तत्र व्याप्यवह्न्यभावस्वीकारेण धूमाभावरूपव्यापकापादन-मिति तर्हि मिथ्यात्वानुमानेन प्रत्यक्षबाधस्याङ्गीकारेणाविशेषात् स्मृत्याद्यनुमानैः श्रुतित्रयग्राहि-प्रत्यक्षस्य बाधः स्यादित्यापादनादिति न कश्चिद्विशेषः । अत एव द्वितीयः पक्षोऽपि समीचीनः । श्रुतित्रयस्य हि अनुमानबाधकत्वं प्रत्यक्षत्वादेव । तथा च प्रत्यक्षस्यापि बाधक-कोटौ प्रवेशस्यावश्यकत्वे प्रकृते प्रत्यक्षस्यानुमानबाध्यत्वे तत्रापि स्मृत्याद्यनुमानैः प्रत्यक्षश्रुति-बाधः स्यादित्यापादने न कोऽपि दोषः । न च सर्वप्रमाणापेक्षया शब्दस्य प्राबल्यमवोचामेति वाच्यम् । तथात्वे प्रस्तरादिवाक्यजातस्य प्रत्यक्षविरोधेन लाक्षणिकत्ववर्णनं न स्यादित्यलं मीमांसानभिज्ञोपद्रवेणेति ।

न्यायामृतप्रकाशः

।। औदुम्बरीमिति ।। प्रमाणलक्षणे स्मृतिपादे चिन्तितम् । ‘‘विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्’’ इत्यत्र ज्योतिष्टोमे ‘‘औदुम्बरीं स्पृष्ट्वोद्गायेत्’’ इति श्रुत्या उदुम्बरमयीं यज्ञसदस्स्थूणां स्पृष्ट्वा उद्गानं कर्तव्यमिति विहितम् । स्मृतिकारास्तु तत्स्पर्शनविरुद्धं तस्याः कार्त्स्न्येन वाससा वेष्टनं स्मरन्ति ‘‘औदुम्बरी वा सर्वा वेष्टयितव्ये’’ति । तत्स्मरणं प्रमाणं न वेति संशये स्मृत्यधिकरणे स्मृतीनां मूलश्रुत्यनुमापकतया श्रुतिमूलकत्वेन प्रामाण्यसमर्थनादियमपि स्मृतिर्मूलश्रुतिमनुमापयन्ती प्रमाणमिति पूर्वपक्षः । स्पर्शनवेष्टनयोर्विरुद्धत्वेन तत्कर्तव्यताबोधकयोरपि औष्ण्यशैत्यवद्विरुद्धत्वा-द्वह्नावौष्ण्यप्रत्यक्षेण शैत्यानुमानस्येव प्रत्यक्षसिद्धस्पर्शनश्रुत्या सर्ववेष्टनश्रुत्यनुमानस्य बाधान्मूलश्रुत्य-भावेनाप्रमाणं स्मरणमिति सिद्धान्तः ।। ऐन्द्य्रेति ।। गार्हपत्यमिति प्रत्यक्षश्रुत्या बाधादिन्द्र-प्रकाशकत्वेनेन्द्रशेषत्वानुमानम् अप्रमाणमिति सिद्धान्तितम् । एतदधिकरणं च पूर्वमुपन्यस्तम् ।। शरमयमिति ।। दशमाध्याये चतुर्थपादे चिन्तितम् ।। ‘‘चोदनालिङ्गसंयोगे तद्विकारः प्रतीयेत प्रकृतिसन्निधानात्’’ इत्यत्र सोमारौद्रचरौ श्रूयते ‘‘शरमयं बर्हिर्भवति’’ इति । तत्र किं दार्शपौर्ण-मासिकाः कुशा न निवर्तन्ते निवर्तन्ते वेति संशये उपदेशेन शराणां ‘‘प्रकृतिवद्विकृतिःकर्तव्ये’’- त्यतिदेशेन कुशानां चावगतत्वेन द्वयोरपि प्रमाणत्वात्समुच्चय इति पूर्वपक्षः ।

सिद्धान्तस्तु बर्हिश्शब्दलक्षिते बर्हिःकार्ये शराणां विधायकस्य वचनस्य प्रत्यक्षत्वात्तैरेव कृतस्वकार्याणां कुशानां प्रापकस्य कुशसाधारणस्यातिदेशवाक्यस्य कल्पनं न प्रवर्तते । किंतु कुशव्यतिरिक्ताङ्गप्रापक एव साधारणोऽतिदेश इत्यनुमीयते । अतः प्रापकाभावात्कुशा निवर्तन्त इति सिद्धान्तितम् ।। स्मृतिरूपेणेति ।। स्मृत्याख्यलिङ्गेनेत्यर्थः ।। चोदनालिङ्गसारूप्येणेति ।। चोदना विधिवाक्यं तत्सारूप्यरूपलिङ्गेनेत्यर्थ इति व्याख्येयम् । यथा प्रकृतिवद्विकृतिःकर्तव्येति चोदनया इतराङ्गानां प्राप्तिः तथा तत्सारूप्येण कुशरूपाङ्गस्यापि प्राप्त्यनुमानमित्यर्थः । अत्र सर्वत्राप्यनुमान-प्रकारस्त्वित्थम् । औदुम्बरी श्रुत्युक्तसर्ववेष्टनयुक्ता बाधकाभावे सति सर्ववेष्टनप्रतिपादकस्मृतियुक्त-त्वात् । यत् यदर्थप्रतिपादकस्मृतियुक्तं तत्तच्छ्रुत्युक्ततदर्थयुक्तं यथासम्मतमिति सामान्यव्याप्तिः । कदाचनस्तरीरसि नेन्द्रसश्चसि दाशुष इति मन्त्रः इन्द्रशेषत्वप्रतिपादकश्रुतियुक्तः बाधकाभावे सतीन्द्रप्रकाशनसामर्थ्योपेतत्वात् यद्यत्प्रकाशनसमर्थं तत्तस्य शेषत्वप्रतिपादकश्रुतियुक्तं यथा सम्मतम् । सोमारौद्रश्चरुः कुशबर्हिःप्रतिपादकश्रुतियुक्तः कुशश्रुतियुक्तदर्शपौर्णमासचोदनासदृशनिर्वापशब्दाष्टा-कपालादिसङ्ख्याद्विदेवतादियुक्तचोदनायुक्तत्वात् । यद्यत्सदृशचोदनोपेतं तत्तदीयधर्मप्रतिपादकश्रुतियुक्तं यथासम्मतमिति ।

न्यायकल्पलता

ननु विपक्षबाधकसचिवमनुमानमपि प्रत्यक्षस्य बाधकमित्यत आह- यदि तु प्रत्यक्षमिति ।। सत्यत्वे दृश्यत्वानुपपत्तेर्निरशिष्यमाणत्वादिति भावः । तथा चानुमानमात्रबाध्यत्वं पर्यवसन्नं तत्र बाधकमाह– तर्हि औदुम्बरीमिति ।। औदुम्बुरी नाम ज्योतिष्टोमे क्रतौ सदोमंडपे विद्यमाना उदुम्बर-मयी स्थूणा । तां स्पृष्ट्वा उद्गाता नाम ऋत्विक् गानं कुर्यादिति श्रुत्यर्थः । एैन्द्र्येति ।। कदाचन स्तरीरसि नेन्द्र सश्चसि दाशुषे । उपोपेन्नु मघवन् भूय इन्द्र ते दानं देवस्य पृच्यते  । हे इन्द्र कदाचन कदाचिदपि स्तरीघातको नासि न भवसि । किन्तु दाशुषे आहुतिं दत्तवते सश्चसि प्रीयसे । हे मघवन् देवस्य ते च दानं उप उप द्विरुक्तिरादरार्था । इत् एव । नु निश्चये । भूय अतिशयेन बहु । पृच्यते सम्बन्ध्यते इति मन्त्रार्थः । इत्यनया इन्द्रप्रकाशिकया ऋचा गार्हपत्यमग्निमुपतिष्ठते  उपतिष्ठेत लेट् । शरमयमिति ।। शराः कुशसदृशाः तृणविशेषाः । तेषां शराणां वेदिस्तरणार्थं बर्हिर्भवति । औदुम्बरीति ।। तामूर्ध्वदेशेन वाससा वेष्टयतीति विहितं यदौदुम्बर्याः स्थूणायाः वेष्टनं तत्सर्व-प्रदेशेऽप्यौदुम्बर्याः कर्तव्यमित्येतमर्थमौदुम्बरी सर्वा वेष्टयितव्या इति स्मृतिः प्रतिपादयति । सा च स्वमूलभूतां श्रुतिमनुमापयति । अनुमानं चैवम् – सर्ववेष्टनस्मृतिः सर्ववेष्टनश्रुतिमूला निर्बाधस्मृतित्वात् । या यदर्थप्रतिपादका स्मृतिः सा तदर्थप्रतिपादकश्रुतिमूला यथा संमतेति सामान्यव्याप्तिः । नेन्द्रसश्च-सीति । कदाचन स्तरीरसीति मन्त्रः इन्द्रमुपतिष्ठत इतीन्द्रशेषत्वप्रतिपादकश्रुतियुक्तः  बाधकाभावे सति इन्द्रप्रकाशनसामर्थ्योपेतत्वात् । यत् यत्प्रकाशनसमर्थं तत्तस्य शेषत्वप्रतिपादकश्रुतियुक्तं यथा सम्मतम् । चोदनालिङ्गसारूप्येणेति । सोमारुद्रश्चरुः कुशबर्हिप्रतिपादकश्रुतियुक्तः कुशश्रुतियुकतपौर्णमासचोदना-सदृशनिर्वापशब्दद्विदेवतायुक्तचोदनायुक्तत्वात् । यद्यत्सदृशचोदनालिङ्गं तत्तदीयधर्मप्रतिपादकशब्दवत् । यथा सम्मतमिति ।

जैमिनियाधिकरणविचारस्त्वेवम् । प्रमाणलक्षणे प्रथमाध्याये स्मृतिपादे चिन्तितम् । विरोधे त्वनेपेक्षं स्यादसति ह्यनुमानम् । ज्योतिष्टोमे सदोपनामकस्य मंडपस्य मध्ये किञ्चिदौदुम्बरीसंज्ञकमुदुम्बरवृक्षस्य द्विशिखं काष्टं निखन्य स्थाप्यते । तस्या उदुम्बरमय्याः यज्ञसदः स्थूणायाः प्रत्यक्षश्रुत्या औदुम्बरीं स्पृष्ट्वोद्गायेदित्यनया स्पर्शो विहितः तत्स्पर्शविरुद्धं तस्याः सर्ववेष्टनम् । वाससा औदुम्बरी सर्वा वेेष्टयितव्येति स्मृत्या विधीयते । तदेवंजातीयप्रत्यक्षश्रुतिविरुद्धा स्मृतिः प्रमाणमप्रमाणं वेति संशये पूर्वपक्षः । श्रुतिवदेव तद्विरुद्धा स्मृतिरपि प्रमाणम् ।

ननु श्रुतिमूूला स्मृतिः प्रमाणम् । न च श्रुतिविरुद्धायाः स्मृतेर्मूलं श्रुतिरस्ति । स्मृतीनां मूलश्रुत्यनुमापकतया श्रुतिमूलकत्वेन प्रामाण्यसमर्थनात् । अतो न स्मृतिः प्रमाणमिति चेत् । मैवम् । श्रुतिविरुद्धस्मृतिमूलश्रुतेरपि सम्भवात् । इयं च स्मृतिः स्वमूलश्रुतिमनुमापयन्ती प्रमाणम् । यत्र द्वयोः श्रुत्योः असम्भवः तत्रैकविषयेण प्रत्यक्षेणेतरविषयानुमानं प्रमेयापहारादनायासेन निराक्रियते । वह्नाविव शैत्य•नुमानम् । यत्र तु द्वयसम्भवस्तत्र शीघ्रं प्रवृत्तमपीतरन्नेतरस्य विषयमपहरतीति तद्विषयमनुमानं न शक्नोति प्रतिषेद्धुम् । सम्भवति च युगपदनुपसंहरणीयार्थमपि श्रुतिद्वयं व्रीहियवबृहद्रथन्तरग्रहणाग्रहण-श्रुतिवदिति प्रत्यक्षेणापि स्पर्शनविधिना सर्ववेष्टनश्रुत्यनुमानं न शक्यं निराकर्तुम् । कथं तर्हि श्रुतिलिङ्गादिषु पूर्वपूर्वेणोत्तरोत्तरस्य बाधः तत्रापि श्रुतिद्वयसम्भवात् । न क्लृप्तया कल्प्या निराकर्तुम् शक्यते । उच्यते । नैवात्र प्रमेयापहारनिबन्धनो बाधः किन्तु कल्पनामूलोच्छेदात् । यावद्धि मन्त्राम्नान-मनवगतप्रयोजनं प्रकरणी चाकृतार्था । तावदेव तत्सिध्यर्थं श्रुतिकल्पनं प्रमाणवत् । यदा क्लृप्तया श्रुत्या द्वयोरपि नैराकांक्ष्यं तदा मूलोच्छेदादाकाङ्क्षाधीना श्रुतिकल्पना नोन्मज्जति । अत्र तु प्रत्यक्षया श्रुत्या न स्मृतेर्मूलाकांक्षा निवर्तते । यतो मूलोच्छेदादनुमानविरोधः स्यात् । अतोऽत्रानुमानस्य प्रत्यक्षेणाविरोधा-द्विरुद्धानामपि प्रामाण्यमिति प्राप्तेऽभिधीयते । अशक्यार्थविषयता हि मूर्धाभिषिक्तमप्रामाण्यनिदानं सागरन्तरेदित्यादिवत् । अशक्यं च संस्पृशता कार्त्स्न्येन वेष्टयितुं वेष्टयित्रा स्पृष्टुं वा । तदुक्तम् ।

अप्रामाण्यविरुद्धानामशक्यार्थविधानतः ।

औदुम्बरीं न शक्नोति सर्वं वेष्टयितुं स्पृशन् ।

वेष्टितां नापि संस्प्रष्टुमतोऽन्योन्यविरोधतः ।

प्रमेयापहतेरेव बाधः स्याद्वह्निशैत्यवत् ।। इति ।

अतो वेष्टयेत्स्पृशेदित्यशक्यार्थविधानान्न तावदुभयोरपि प्रामाण्यं सम्भवतीति अवश्यमन्यतरद्् बाधनीयम् । तत्र प्रत्यक्षेणानुमानस्य बाधोऽग्नाविव शैत्यानुमानस्येति सिद्धमप्रामाण्यं स्मृतीनां श्रुतीनाम् । श्रुतिविरुद्धानाम् । व्रीह्यादिषु द्वयोरपि प्रत्यक्षत्वेनागृह्यमाणविशेषत्वान्नैकेनेतरस्य बाधः सम्भवति । विरुद्धार्थत्वाच्च न द्वयोराञ्जस्येन प्रामाण्यम् । न चाप्रामाण्यमविद्यमानदोषयोः सम्भवतीति गत्यन्तरा-भावादुभयोरपि पाक्षिको बाधः कल्प्यते । न चैवं शास्त्रस्याप्रामाण्यम् । यथा सामान्यशास्त्रस्य विशेषशास्त्रबाधितस्यापि नाप्रामाण्यं तद्वदिहापि । ननु बाधितं भवत्यप्रमाणं च न भवतीति व्याहत-मेतत् । सत्यमेवम् । नह्यत्र परमार्थतः शास्त्रार्थो बाध्यते किन्तु प्रतिपक्षमनालोचयतो यः शास्त्रस्य स्वरसतः सार्वत्रिकः प्रत्ययः सोऽत्र बाध्यते । तद्बाधाच्च पाक्षिकानुष्ठानपरत्वं शास्त्रस्याध्यवसीयते । न चैवं स्मृतिवशेन श्रुतिस्वरूपभङ्गेन स्पर्शनस्य पाक्षिकत्वं कल्पयितुं शक्यते । स्मृतेः स्वरस्वतोऽप्रमाणत्वेन श्रुतिबाधासामर्थ्यात् । श्रुतिकल्पनस्य च प्रत्यक्षश्रुतिविहितस्पर्शविरोधेन बाधितत्वात् ।

ननु पाक्षिकत्वेनापि न प्रत्यक्षश्रुतिरुपपद्यते । यस्मिन्पक्षे सा नास्ति तत्र स्पर्शाभावेन सर्ववेष्ट-नस्यापि शक्यानुष्ठानत्वात्तद्विषयश्रुतिकल्पनमनुपपन्नम् इति चेत् । न इतरेतराश्रयत्वात् । तथाहि स्वरसतो हि श्रुतिवाक्यादपाक्षिकं स्पर्शनं गम्यते । अपाक्षिके च तस्मिन्न स्मार्तश्रुतिकल्पनम् । अशक्यत्वात् । न हि स्पृशता वेष्टयितुं शक्यते । तत्र स्पर्शस्यापाक्षिकत्वे सति शक्यार्थस्मृतिकल्पिता श्रुतिरात्मानं लभेत । तस्यां च लब्धात्मिकायां तद्विरोधात्स्पर्शनस्य पाक्षिकत्वमितीतरेतराश्रयत्वं स्यात् । तथा च स्पर्शनसर्ववेष्टनयोः विरुद्धतया तत्कर्तव्यताबोधकयोरपि औष्ण्यशैत्यवद्विरुद्धत्वा-द्व्यह्न्यौष्ण्य-प्रत्यक्षेण शैत्यानुमानस्येव स्पर्शनश्रुतिप्रत्यक्षेण वेष्टनश्रुत्यनुमानस्य बाधान्मूलश्रुत्यभावेन स्मृतिर-प्रमाणमिति । तस्माद्यथा सर्ववेष्टनस्मृतिरूपमनुमानं प्रत्यक्षविषयस्पर्शनश्रुतिविहितस्पर्शविरुद्धसर्ववेष्टन-श्रुतिसाधकं न भवति किन्तु स्वयमेवाप्रमाणं भवति तथा दृश्यत्वादिलिङ्गरूपमनुमानमपि सन् घट इत्यादिप्रत्यक्षविरुद्धमिथ्यात्वसाधकं न भवति किं नाम स्वयमेवाप्रमाणं भवतीत्यर्थः । नन्वनुपन्नो भाष्यकारोक्तापवादाधिकरणसिद्धसर्ववेष्टनस्मृतिरूपो दृष्टान्तः । वार्तिककारदर्शिताधिकरणभङ्गप्रकारेण सर्ववेष्टनस्मृतिमूलस्य सर्ववेष्टनश्रुतेः सत्त्वेन सर्ववेष्टनस्मृतेरपि प्रमाणत्वात् । तथा हि  मन्वादि-ग्रन्थजातस्य  शिष्टग्रहणहेतुकल्पितं वेदमूलत्वं कथं पुनरपोद्यते ।

किञ्च– बाधकसद्भावात्साधकाभावतोऽथवा ।

श्रुत्यभावोऽवसीयेत न द्वेधाऽप्युपपद्यते ।

न तावद्दृश्यार्दशनं बाधकम् । सर्वशाखानुपलम्भात् । न च श्रुत्यभावनियतं किञ्चिल्लिङ्गं दृश्यते । विरुद्धश्रुतिदर्शनं तु षोडशिग्रहणादिश्रुतिभिरनैकान्तिकम् । नापि साधकाभावः । नहि स्वप्रमाण-निवृत्तिमात्रेण वस्त्वभावनिश्चयः । सर्वपुरुषप्रमाणाभावस्त्वसिद्धः । स्मृतिप्रत्यक्षस्य तद्ग्रन्थानुमितस्य सत्वात् । नित्यानुमेयत्वे हि सर्वेषामिहानुमानमेव प्रमाणं स्यात् । तच्च प्रत्यक्षश्रुतिविरोधे कथमुदियादिति सर्वपुरुषाणां साधकाभावदीषत्करमभावावधारणं स्यात् । अतः स्मर्तृपुरुषान्तराणामिह प्रत्यक्षसम्भवात्तस्य चात्मप्रत्यक्षतुल्यत्वान्न स्मार्तश्रुतिनिराकरणम् । तदुक्तम् ।

आत्मीयात्परकीयस्य दौर्बल्यं न हि किञ्चन ।

प्रत्यक्षत्वाविशेषेण स्वप्रत्यक्षसमं हि तत् ।। इति ।

ततश्चात्मीयपरकीयप्रत्यक्षविषयश्रुतिविहितयोः स्पर्शनवेष्टनयोः तुल्यकक्ष्यतया विकल्प एव । स चांशे बाध एवेति सर्ववेष्टनश्रुत्यनुमानमपि स्पर्शनश्रुतिप्रत्यक्षस्य बाधकमेवेति । चेत् । मैवम् । परकीयप्रत्यक्षादप्यात्मीयप्रत्यक्षस्य विस्रम्भणीयतया परप्रत्ययमनादृत्यात्मीयप्रत्ययेनैव व्यवहारः क्रियते । अतोऽत्र स्पर्श एवानुष्ठीयते न तु सर्ववेष्टनमिति फलतोऽप्रामाण्यं श्रुतिविरुद्धानां स्मृतीनाम् । यथाहुः ।

यावदेकं श्रुतौ कर्म स्मृतौ चान्यत्प्रतीयते ।

तावत्तयोर्विरुद्धत्वे श्रुत्यनुष्ठानमिष्यते ।। इति ।

विरोधेत्वनपेक्षं स्यादिति श्रुतिस्मृत्योर्विरोधे यत्प्रमाणान्तरानपेक्षं श्रुतिवाक्यं तदेव ग्राह्यम् । असति ह्यात्मप्रत्यये परप्रत्ययानुमानलेशाश्रयणमिति सूत्रार्थः ।

ननु औदुम्बर्याः सर्ववेष्टनमशक्यम् । यो हि तस्याः प्रदेशोऽवटे निक्षिप्तः तस्य वेष्टयितुमशक्य-त्वादिति चेत् । न । वेष्टयित्वाऽपि गर्ते निक्षेपसम्भवात् । तस्मात्प्रत्यक्षश्रुतिविरुद्धा स्मृतिमूलश्रुतिः यावन्न स्वस्य प्रत्यक्षविषयस्तावदनुष्ठानमात्रं ततः परं विकल्प इति स्मृत्यनुमानं न प्रत्यक्षबाधस्येष्टे । तस्माद्युक्तो दृष्टान्त इति ।

मन्त्रसामर्थ्यरूपेणेति । यद्यप्येतच्छ्रुतिलिङ्गाधिकरणे निरूपितप्रायं तथापि संक्षेपेण निरूप्यते । कदाचनस्तरीरसीति मन्त्रे लिङ्गादस्य मन्त्रस्येन्द्रविषयकक्रियासाधनत्वं गम्यते । सा का क्रियेत्याकाङ्क्षायां ऐन्द्य्रोपतिष्ठते इत्यन्वयो गार्हपत्यपदप्रयोगबहिर्भावेन प्राप्यते । अत्र लिङ्गादिन्द्रः प्राप्यते । अर्थप्रकाशन-सामर्थ्यं हि लिङ्गम् । प्रकाश्यते चानया ऋचा इन्द्रः । तथाच  लिङ्गसामर्थ्यादिन्द्रेण मन्त्रेणेन्द्र-मुपतिष्ठेतेत्ययमर्थः पर्यवसन्नो भवति । लिङ्गेनेन्द्रमुपतिष्टते इति श्रुतिकल्पनात् । नाममात्रेण निर्देशः श्रुतिः । मन्त्रसामर्थ्यरूपलिङ्गेनेन्द्रशेषत्वश्रुत्यनुमानादिन्द्रमिति द्वितीयान्तं पदं लक्ष्यत इत्येवं पूर्वपक्षे प्राप्ते सिद्धान्तः । गार्हपत्यमिति द्वितीयान्तश्रुत्या गार्हपत्यस्य प्राधान्यं गम्यते । तच्च गुणभूतक्रियां विना न सम्भवति इति क्रियासापेक्षम् । क्रिया च करणमपेक्षते इति ऐन्द्रेण मन्त्रेण गार्हपत्यमुपतिष्ठेत । तदुपस्थानं कुर्यादित्यर्थः प्राप्यते श्रुतिबलात् । अत्र लिङ्गश्रुत्ययोर्विरोधे श्रौतोऽर्थ एव गृह्यते । न तु लौकिकः । शीघ्रोपस्थितिकत्वेन श्रौतार्थस्यैव ग्राह्यत्वात् । न चेन्द्रशब्देन कदाचनेति मन्त्रे कथमग्नि-ग्रहणमिति देश्यम् । लक्षणया तद्ग्रहणोपपत्तेरिति । तस्मात् यथा मन्त्रसामर्थ्यरूपमिन्द्रशेषत्वश्रुत्यनुमानं प्रत्यक्षविषयश्रुतिविहितगार्हपत्योपस्थानविरुद्धेन्द्रोपस्थानसाधकं न भवति किन्तु स्वयमेवाप्रमाणं भवतीत्यर्थः ।

चोदनालिङ्गरूपेणेति । सारूप्येणेति क्वचित्पाठः । दशमाध्याये चतुर्थपादे चिन्तितम् । चोदनालिङ्गसंयोगेन तद्विकारः प्रतीयते । सौमारौद्रचरौ श्रूयते । शरमयं बर्हिर्भवतीति । तत्र किं दार्शपौर्णमासिककुशा न निवर्तन्ते निवर्तन्ते वेति सन्देहे शराणां कुशानां चोपदेशातिदेशरूप-प्रमाणद्वयावगतत्वात् समुच्चय इति पूर्वः पक्षः । बर्हिःशब्दलक्षिते बर्हिःकार्ये शराणां विधायकस्य वचनस्य प्रत्यक्षत्वात् तैरेव कृतस्वकार्याणां कुशानां प्रापकस्य कुशसाधारणस्यातिदेशवाक्यस्य कल्पनं न प्रवर्तते । कुशव्यतिरिक्तानां प्रापकस्यैव तस्यानुमानमिति प्रापकाभावात् कुशाः निवर्तन्ते इति सिद्धान्तः । चोदनायाः यल्लिङ्गं निर्वपति यजेतेत्यादिशब्दः, अष्टाकपालादि सङ्ख्या, एकद्विदेवत्वादितत्संयोगेन तत्सारूप्येण तद्विकारः प्रतीयत इति सूत्रार्थः । तथा च यथा चोदनारूपं कुशश्रुत्यनुमानं प्रत्यक्षविषय-श्रुतिविहितशरमयबर्हिर्विरुद्धकुशमयबर्हिःसाधकं न भवति किं नाम स्वयमेवाप्रमाणं भवतीत्यर्थः ।

सर्वैव मीमांसोन्मीलिता स्यादिति । अत्राहुर्वेदान्तिब्रुवा विवर्तवादिनः । किमिदमापाद्यते । श्रुतित्रयग्राहिप्रत्यक्षमनुमानैर्बाध्येतेति वा प्रत्यक्षविषयीभूतं श्रुतितत्रयमिति वा । नाद्यः विरोधाभावेन बाध्यबाधकभावस्य शास्त्रार्थत्वाभावात् । अस्माभिरनभ्युपगमाच्च । अनुक्तोपालम्भमात्रत्वेन निरनु-योज्यानुयोगापत्तेः । अत एव न द्वितीयः । प्रत्यक्षविषयीभूतश्रुतित्रयस्य लिङ्गबाधकत्वपरेऽपि शास्त्रे प्रत्यक्षस्य लिङ्गबाध्यत्वे विरोधाभावात् । न हि शब्दप्रत्यक्षयोरैक्यमस्ति । शब्दस्य च सर्वप्रमाणापेक्षया बलवत्वमवोचाम । तस्मादयुक्तं मीमांसाविरोधोद्भावनं वैषम्यादिति । अत्रोच्यते । आद्यस्तावन्नायुक्तः । श्रुतित्रयग्राहिप्रत्यक्षस्यानुमानैरविरोधाभावेनावैषम्यात् । तथा हि– प्रत्यक्षविषयश्रुतित्रयेण सर्ववेष्टनविरुद्धं स्पर्शनं गार्हपत्यशेषत्वं शरमयबर्हिष्कत्वं यथावत्प्रतिपाद्यते । श्रुत्यनुमानैस्तु स्पर्शविरुद्धं सर्ववेष्टनं इन्द्रशेषत्वं कुशमयबर्हिष्कत्वं च प्रतिपाद्यमित्यर्थविरोधकृतश्रुतिविरोधपूर्वकः प्रत्यक्षानुमानानामस्ति विरोधः । मानविरोधस्य मेयविरोधनिबन्धनत्वात् । अत एव तार्तीयोऽप्राप्तबाध इत्युच्यते । यथाहुः–

कल्प्यस्य शास्त्रस्य तु कल्पनं यन्निरुध्यते मूलनिकृन्तनेन ।

क्लृप्तेन शीघ्रेण फलापहारादप्राप्तबाधं तमुदाहरन्ति ।। इति ।

तस्मादस्त्येव श्रुतित्रयग्राहिप्रत्यक्षस्यानुमानैर्विरोधः इति न वैषम्यम् । यदप्युक्तमस्माभिरनभ्युप-गमाच्चेत्यादि । तदप्यसत् । यदि सुपरीक्षितं जगत्सत्यत्वग्राहिप्रत्यक्षं द्दश्यत्वादिलिङ्गबाध्यं स्यात्तर्हि न्यायसाम्येनोक्तश्रुतित्रयग्राहिप्रत्यक्षमप्यनुमानैर्बाध्येतेत्यापाद्यमानत्वात् । आपादने तु परानभ्युपगम-स्यालङ्कारत्वात् । अन्यथेष्टापादनप्रसङ्गात् । ततश्चैवं परस्यैव मौढ्यात्तत्वविदभिप्रायमविदुषोऽति-साहसिकस्याज्ञाननिरनुयोग्यानुयोगान्यतरापत्तिः । तथा च–

तत्ववित्सङ्कटान्मुक्तो रुद्रवद्विष्ण्वनुग्रहात् ।

मायावादी सङ्कटं तु वृकासुरवदाप्तवान् ।।

अत एव द्वितीयोऽपि नायुक्तः । प्रत्यक्षविषयस्य श्रुतित्रयस्य स्वप्रतीपश्रुत्यननुगणानुमानबाधकत्वं हि अनुमेयश्रुतिविषयप्रतीपग्राहिप्रत्यक्षविषयश्रुतित्वेन न तु श्रुतित्वमात्रेण । अतिप्रसङ्गात् । अनुमित्सिताया अपि श्रुतेः प्रत्यक्षविषयश्रुतिबाधकत्वप्रसङ्गाच्च । तस्मात्साधूक्तं सर्वैव मीमांसोन्मूलिता स्यादिति ।

न्यायामृतसौगन्ध्यम्

किञ्च यद्यक्षमनुमानबाध्यं स्यात् ‘‘औदुम्बरीं स्पृष्ट्वा उद्गायेत्,’’ ‘‘ऐन्द्य्रा गार्हपत्यमुपतिष्ठते,’’ ‘‘शरमयं बर्हिर्भवति’’ इति श्रुतित्रयग्राहिप्रत्यक्षं यथाक्रमम्, औदुम्बरी सर्वा वेष्टयितव्या इति स्मृति-रूपेण सर्ववेष्टनश्रुत्यनुमानेन, नेन्द्रसश्चसिदाशुषे इति मन्त्रसामर्थ्यलक्षणेनेन्द्रशेषत्वश्रुत्यनुमानेन चोदनालिङ्गरूपेण कुशश्रुत्यनुमानेन बाध्येतेति  सर्वैव मीमांसोन्मीलिता स्यात् । ननु किमिदमापाद्यते श्रुतित्रयग्राहिप्रत्यक्षमनुमानैर्बाध्येतेेति वा प्रत्यक्षविषयीभूतश्रुतित्रयमिति वा । नाद्यः । विरोधाभावेन तद्बाध्यबाधकभावस्य शास्त्रार्थत्वाभावात् । अस्माभिरनभ्युपगमाच्च । अनुक्तोपालम्भमात्रत्वेन निरनु-योज्यानुयोगापत्तेः । अत एव न द्वितीयः । प्रत्यक्षविषयीभूतश्रुतित्रयस्य लिङ्गबाधकत्वपरत्वेऽपि शास्त्रे प्रत्यक्षस्य लिङ्गबाध्यत्वे विरोधाभावात् । न हि शब्दप्रत्यक्षयोरैक्यमस्ति । शब्दस्य सर्वप्रमाणापेक्षया बलवत्वमेवावोचामेति चेन्न । प्रत्यक्षविषयश्रुत्या स्पर्शानुकूलं असर्ववेष्टनं गार्हपत्यशेषत्वं, शरबर्हिष्कत्वं च प्रतिपाद्यते, अनुमानैस्तु सर्ववेष्टनं इन्द्रशेषत्वं कुशबर्हिष्कत्वं च प्रतिपाद्यते इति अर्थविरोधकृतश्रुतिविरोधपूर्वकः प्रत्यक्षानुमानानामस्ति विरोधः । अत एव तार्तीयोऽप्राप्तबाध उच्यते । यथाऽऽहुः

कल्प्यस्य शास्त्रस्य तु कल्पनं यद्विरुध्यते मूलनिकृन्तनेन ।

क्लृप्तेन शीघ्रेण फलापहारादप्राप्तबाधं तमुदाहरन्ति ।। इति ।

तस्मादस्त्येव प्रत्यक्षस्यानुमानैर्विरोधः । द्वितीयोऽपि युक्तः । प्रत्यक्षविषयस्य श्रुतित्रयस्य श्रुत्यनुगुणानुमानबाधकत्वं हि प्रत्यक्षविषयत्वेन न तु श्रुतित्वमात्रेण । अनुमिताया अपि श्रुतेः प्रत्यक्षश्रुतिबाधकत्वापत्तेः ।

एतेन शब्दप्रमाणात्मकस्य प्रत्यक्षज्ञानस्य निरवकाशत्वक्लृप्तत्वादिना सावकाशत्वकल्प्यत्वादिमतो अनुमित्यात्मकश्रुतिज्ञानाद्बलवत्वस्योक्ताधिकरणार्थत्वेऽपि प्रत्यक्षज्ञानसामान्यस्य अनुमितिसामान्यात् बलवत्वेन नोक्ताधिकरणार्थ इति निरस्तम् । अनुमानस्य प्राबल्ये तद्गौरवेण तद्गृहीतश्रुत्युक्तानुष्ठान-सम्भवात् । प्रत्यक्षस्य प्राबल्ये तु तद्गौरवेण तद्गृहीतश्रुत्युक्तानुष्ठानसम्भवात् । तथा च यद्गौरवित-प्रमाणप्रतिपादितस्यानुष्ठानं तस्यैव हि प्राबल्यम् । प्रत्यक्षगौरवेण प्रत्यक्षगृहीतश्रुत्युक्तस्पर्शानुष्ठानात् प्रत्यक्षगृहीतश्रुतेः प्राबल्याच्च ।

न्यायामृतमाधुरी

औदुम्बरीम् औदुम्बरशाखाम् । ज्योतिष्टोमे सदोनामकस्य मण्डपस्य मध्ये विद्यमानां स्पृष्ट्वा उद्गाता नाम सालु ऋत्विक् गानं कुर्यादिति श्रुत्यर्थः । ऐन्द्र्येति । कदाचनस्तरीरसि नेन्द्र सश्चसि दाशुषे इत्यादिकया इन्द्रप्रकाशिकया ऋचा, गार्हपत्यम्, अग्निम्, उपतिष्ठते स्तौति । शरमयमिति । कुशसदृशतृणविशेषाः शरास्तेषां वेदिस्तरणार्थं बर्हिर्भवति । स्मृतिरूपेेणेति । अनुमायां ज्ञायमानं लिङ्गं करणमिति मतेनेदम् । लिङ्गज्ञानं करणमिति मते तु स्मृतिविषयकधीरूपेणेति तदर्थोऽवसेयः । औदुम्बरीसर्ववेष्टनस्मृतिपक्षकं तादृशश्रुतिमूलकत्वसाध्यकबाधकाभावविशेषितशिष्टगृहीतस्मृतित्वलिङ्गकैः या बाधकाभावे सति यदर्थकशिष्टगृहीतस्मृतिः सा तदर्थकश्रुतिमूलिका । यथा प्रत्यक्षश्रुतिमूलकस्मृति-रिति सनिदर्शनकसामान्यव्याप्तिकमनुमानमभिप्रैति । इन्द्रशेषत्वश्रुत्यनुमानेनेति । इन्द्रप्रकाशन-सामर्थ्य, उक्तमन्त्र इन्द्रशेषत्वबोधकया श्रुत्या युक्त इन्द्रप्रकाशनसामर्थ्यत्वात् । यद्यन्निष्ठयदर्थ-प्रकाशनसामर्थ्यं तत्तन्निष्ठस्य तदर्थशेषत्वस्य बोधकया श्रुत्या युक्तं प्रत्यक्षश्रुतिविनिर्मुक्तमन्त्रादि-सामर्थ्यवदिति रूपेणेत्यर्थः । चोदनेत्यादि । विधिवाक्यसादृश्येनेत्यर्थः । सोमारौद्रचरुयागः श्रुतिबोधितबहिरङ्गकः तादृशपौर्णमासविधिसदृशविधिकत्वात् । यत्तु श्रुतिबोधितयदङ्गकयदीय-विधिसदृशविधिकं तत्तु श्रुतिबोधिततदङ्गकम् । यथा सम्मतम् । सादृश्यं तु निवर्त्यत्वादिपदद्विदैव-तादिकम् । अनुमानेन बाध्येतेति । प्रथमस्य तृतीये चिन्तितम् । ज्योतिष्ठोमे सदोनामकमण्डपे औदुम्बरी शाखा निखन्य स्थाप्यते । तस्याः ‘औदुम्बरी सर्वा वेष्टयितव्या’ इति स्मृत्या सर्ववेष्टनं विहितम् । ‘औदुम्बरीं स्पृष्ट्वा उद्गायेत्’ इति श्रुत्या च स्पर्शनं विहितम् । तदेवं प्रत्यक्षश्रुति-स्मृत्योर्विरोधे स्मृतिः प्रमाणमेव शिष्टगृहीतस्मृतित्वात् व्रीहियवादिश्रुत्योरिव तत्कल्पश्रुतिप्रत्यक्ष-श्रुत्योरपि प्रामाण्यसम्भवाच्चेति प्राप्ते ।

अप्रामाण्यं विरुद्धानामशक्यार्थविधानतः ।

औदुम्बरीं न शक्नोति सर्वां वेष्टयितुं स्पृशन् ।

वेष्टितां चापि संस्प्रष्टुमतोऽन्योन्यविरोधतः ।

प्रमेयापहतेरेव बाधः स्याद्वह्निशैत्यवत् ।।

इत्युक्त्या वेष्टनस्पर्शनयोरशक्ययोर्विधानान्न तावदुभयोः प्रामाण्यं सम्भवतीत्यवश्यमन्यतर-द्बाधितम् । तत्र प्रत्यक्षेणानुमानस्य बाधो अग्नाविव शैत्यानुमानस्येति सिद्धमप्रामाण्यम् । श्रुति-विरुद्धानां स्मृतीनां व्रीह्यादिषु तु द्वयोरपि प्रत्यक्षत्वेन गृह्यमाणत्वेऽविशेषत्वान्नैकेनेतरस्य बाधः सम्भवति । विरुद्धार्थत्वाच्च न द्वयोराञ्जस्येन प्रामाण्यम् । न चाप्रामाण्यं निर्दोषयोः सम्भवतीति गत्यन्तराभावादुभयोरपि पाक्षिको बाधः कल्प्यते । सामान्यशास्त्रस्य विशेषशास्त्रबाधितस्यापि यथा नाप्रामाण्यं तद्वत्प्रकृतेऽपीति सिद्धान्तितम् । दशमस्य चतुर्थे चिन्तितम् । चोदनालिङ्गसंयोगेन तद्विकारः प्रतीयते । सौमारौद्रचरौ श्रूयते ‘शरमयं बर्हिर्भवतीति । दर्शपूर्णमासिकाः कुशाः, (तत्र) किं न निवर्तन्ते उत निवर्तन्ते इति सन्देहे शराणां कुशानां चोपदेशातिदेशरूपप्रमाणवत्तयाऽव-गतत्वात् समुच्चय इति पूर्वपक्षे बर्हिःशब्दलक्षिते बर्हिःकार्ये शराणां विधायकस्य वचनस्य प्रत्यक्षत्वा-त्तैरेव कृतस्वकार्यस्य तस्य कुशानां प्रापकस्य कुशसाधारणस्यातिदेशवाक्यस्य कल्पनं न प्रवर्तते । किन्तु कुशव्यतिरिक्तकाङ्गप्रापकस्यैव, तस्यानुमानमितिप्रापकाभावात्कुशा निवर्तन्त इति सिद्धान्त इति । सर्वैव मीमांसोन्मूलिता स्यादिति । अत्राद्वैतसिद्धिकारः । किमिदमापाद्यते श्रुतित्रयग्राहि-प्रत्यक्षमनुमानैर्बाध्येतेति वा प्रत्यक्षविषयीभूतश्रुतित्रयमिति वा । नाद्यः । विरोधाभावेन तद्बाध्य-बाधकभावस्य शास्त्रार्थत्वाभावात् । अस्माभिरनभ्युपगमाच्च । अनुक्तोपालम्भत्वेन निरनुयोज्यानु-योगापत्तेः । अत एव न द्वितीयः । प्रत्यक्षविषयीभूतश्रुतित्रयस्य लिङ्गबाधकत्वपरेऽपि शास्त्रे प्रत्यक्षस्य लिङ्गबाध्यत्वे विरोधाभावात् । न हि शब्दप्रत्यक्षयोरैक्यमस्ति । शब्दस्य च सर्वप्रमाणापेक्षया बलवत्वमवोचामेति । तद्व्याकर्तारः प्रत्याचख्युः । प्रत्यक्षविषयश्रुत्या स्पर्शानुकूलमसर्ववेष्टनं गार्हपत्यशेषत्वं शरबर्हिष्कत्वं च प्रतिपाद्यते । अनुमानैस्तु सर्ववेष्टनं इन्द्रशेषत्वं कुशबर्हिष्कत्वं च प्रतिपाद्यत इत्यर्थविरोधकृतश्रुतिविरोधपूर्वकः प्रत्यक्षानुमानानामस्ति विरोधः । अत एव तार्तीयोऽप्राप्तबाध इत्युच्यते । यथाहुः

कल्प्यस्य शास्त्रस्य तु कल्पनं यद्विरुध्यते मूलनिकृन्तनेन ।

क्लृप्तेन शीघ्रेण फलापहारादप्राप्तबाधं तमुदाहरन्ति ।। इति ।

तस्मादस्त्येव प्रत्यक्षस्यानुमानैः विरोधः । द्वितीयोऽपि युक्तः । प्रत्यक्षविषयस्य श्रुतित्रयस्य श्रुत्यननुगुणानुमानबाधकत्वं हि प्रत्यक्षविषयत्वेन न तु श्रुतित्वमात्रेण । अनुमिताया अपि श्रुतेः प्रत्यक्षस्य बाधकत्वप्रसङ्गात् । तस्मात् साधूक्तं सर्वैव मीमांसोन्मूलिता स्यादिति ।

Load More