जीवानामन्योन्यं भेदे तु..

श्रीवेदव्यासाय नमः

श्रीकूर्मनरहरिआचार्यविरचिता

न्यायकल्पलता

पदवाक्यप्रमाणपारावारपारीण–सर्वतन्त्रस्वतन्त्र–श्रीव्यासतीर्थविरचितम्

द्वितीयः परिच्छेदः

१९. जीवानामन्योन्यभेदेऽनुमानानि

न्यायामृतम्

जीवानामन्योन्यं भेदे तु (१) चैत्रो मैत्रप्रतियोगिकधर्मिज्ञानाबाध्यभेदवान्, मैत्रानुसंहितदुःखाननुसन्धातृत्वात्, घटवद् । इह च दहनतुहिनादौ कप्ततयाऽनु- सन्धानाननुसन्धानरूपविरुद्धधर्मयोरेव प्रयोजकत्वात् । (२) ‘विमतं सुरभिधूमरहितं, चन्दनप्रभववह्निरहितत्वात्’ इत्यादाविवासिद्धिवारकविशेषणत्वं न दोषः । (३) एवं चैत्रो मैत्रप्रतियोगिकतात्त्विकाभेदवान्न, मैत्रस्मृतसर्वास्मर्तृत्वात्, मैत्रानुभूतसर्वाननु भवितृत्वाच्च, घटवत् । (४) विमतो बन्धध्वंसः स्वप्रतियोगितावच्छेदकावच्छिन्नाधार प्रतियोगिकप्रतियोगिज्ञानाबाध्यभेदवन्निष्ठः, बन्धध्वंसत्वात्, सम्मतवत् । (५) जीवः संसारी वा संसारध्वंसाधारो वा स्वज्ञानबाध्यजीवप्रतियोगिकभेदवान् स्वज्ञानाबाध्य संसारिप्रतियोगिकभेदवान्वा स्वज्ञानाबाध्यसंसारध्वंसाधिकरणप्रतियोगिकभेदवान्वा पदार्थत्वाद्, घटवत् । विपक्षे बाधकस्य वक्ष्माणत्वात् नाभाससाम्यम् । आत्मभेद-मात्रे तु ‘आत्मा आत्मप्रतियोगिकस्वाज्ञानाबाध्यभेदवान्, पदार्थत्वाद्, घटवत्’ । विमत आनन्दः स्वनिष्ठदुःखविरोधित्वव्याप्यधर्मेण सजातीयप्रतियोगिकस्वज्ञानाबाध्य-भेदवान्, दुःखविरोधित्वाद्, दुःखाभाववत् । आत्मवैभवपक्षे ‘आकाशः आत्म-प्रतियोगिकधर्मिज्ञानाबाध्यभेदाधारविशेषगुणवद्विभुव्यतिरिक्तः, द्रव्यत्वात्, पृथिवीवद्’ इत्याद्यपि द्रष्टव्यम् ।

केचित्तु पृथिवीत्वं जलत्वतेजस्त्ववायुत्वमनस्त्वेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नं मेयत्वात्, जलत्ववत् । गगनत्वजातिवादिनं प्रति गगनत्वेतरेत्यपि विशेषणीयम् । न चोक्तजातिमत्पदार्थान्तरसिद्ध्याऽर्थान्तरम्, लाघवेन कप्ते धर्मिणि धर्ममात्रेणानु मानपर्यवसानात् । सत्ता द्रव्यत्वान्यात्मनिष्ठजात्यन्या द्रव्यत्वं वा सत्तान्यात्मनिष्ठ जात्यन्यत्, मेयत्वात्, घटत्ववत् । आत्माणुत्वमते आत्मा द्रव्यत्वव्याप्यजातिमान्, अविभुद्रव्यत्वात्, पृथिवीवदित्यादिभिरात्मत्वजातिसिद्धौ तात्त्विकात्मभेदसिद्धिः । जातेर्धर्मिज्ञानाबाध्यभेदं विनाऽयोगात् । अन्यथा व्यक्त्यभेदः क्वापि दोषो न स्यात् । विपक्षे आत्मत्वस्य जातित्वे लाघवम् । औपाधिकत्वे तस्योपाधिज्ञानाधीनत्वेन  गौरवं बाधकम् । आकाशादिकं तु धर्मिग्राहकमानेनैकतया सिद्धमिति नाकाशत्वं जातिरित्याहुः । इति जीवानाम् अन्योन्यभेदेऽनुमानानि ।। १९ ।।

श्रीमधुसूदनसरस्वतीविरचिता

अद्वैतसिद्धि:

एवं जीवानामपि न परस्परभेदानुमानम् । (१) चैत्रो मैत्रप्रतियोगिकधर्मिज्ञानाबाध्यभेदवान्, मैत्रप्रतियोगिकतात्त्विकाभेदवान्नेति वा, मैत्रानुसंहितदुःखाननुसन्धातृत्वात्, मैत्रस्मृतसर्वास्मर्तृत्वात्, मैत्रानुभूतसर्वाननुभवितृत्वाच्च, घटवत्’ इत्यत्र प्रथमसाध्ये धर्मिपदविकल्पेन द्वितीयसाध्ये तात्त्विका-भेदस्यातात्त्विकभेदेन सिद्धसाधनात् । उपहितस्य पक्षत्वे अर्थान्तरात् । चैतन्यमात्रपक्षत्वे हेत्वसिद्धिः । साधनैकदेशस्याननुसन्धानादेरुपाधित्वसम्भवाच्च । (२) विमतो बन्धध्वंसः, स्वप्रतियोगितावच्छेदका-वच्छिन्नाधारप्रतियोगिकप्रतियोगिज्ञानाबाध्यभेदवन्निष्ठः, बन्धध्वंसत्वात् सम्मतवत् । (३) जीवः संसारी वा संसारध्वंसाधारो वा, स्वज्ञानाबाध्यजीवप्रतियोगिकभेदवान्, संसारिप्रतियोगिकस्वज्ञानाबाध्यभेदवान् वा, स्वज्ञानाबाध्यसंसारध्वंसाधिकरणप्रतियोगिकभेदवान्वा, पदार्थत्वाद्, घटवत्’ । ‘विमत आनन्दः, स्वनिष्ठदुःखविरोधित्वव्याप्यधर्मेण सजातीयप्रतियोगिक स्वज्ञानाबाध्यभेदवान्, दुःखविरोधित्वाद्, दुःखाभाववद्’ इत्यादिषु बन्धप्रतियोगिकभेदवति कालादौ ध्वंसस्य विद्यमानत्वेनार्थान्तरात् । दुःखनिगडसाधारणबन्धत्वासम्भवाच्च, । स्वपदाननुगमाच्च । चैत्रबन्धध्वंसः, चैत्रबन्धाधारप्रतियोगिक-भेदवन्निष्ठः, बन्धध्वंसत्वात्, सम्मतवत्’ इत्याभाससाम्याच्च । विपक्षबाधकाभावाच्च । ध्वंसप्रतियोगिता-वच्छेदकं न नानाबन्धानुगतबन्धत्वम्, तस्य सामान्याभावत्वाभावात् ।

एतेन– (१) आत्ममात्रभेदे ‘आत्मा आत्मप्रतियोगिकस्वज्ञानाबाध्यभेदवान्, पदार्थत्वाद्, घटवत्’ । आत्मवैभवपक्षे (२) ‘आकाशः आत्मप्रतियोगिकधर्मिज्ञानाबाध्यभेदाधारविशेषगुणवद्विभु व्यतिरिक्तः, द्रव्यत्वात्, पृथिवीवत् । (३) पृथिवीत्वं जलत्वतेजस्त्ववायुत्वमनस्त्वेतरद्रव्यत्व साक्षा-द्व्याप्यजातिभिन्नम्, प्रमेयत्वाज्जलत्ववत्’ । गगनत्वजातिपक्षे तदितरत्वमपि विशेषणम् । (४) ‘सत्ता, द्रव्यत्वान्यात्मनिष्ठजात्यन्या, द्रव्यत्वं वा सत्तान्यात्मनिष्ठजात्यन्यत्, मेयत्वाद् घटवत्’, आत्माणुत्वमते (५) ‘आत्मा, द्रव्यत्वव्याप्यजातिमान्, अविभुद्रव्यत्वाद्, घटवत्’ इत्यादिभिरात्मत्व जातिसिद्धौ तात्त्विकात्मभेदसिद्धिरिति निरस्तम् । आद्ये जडत्वमुपाधिः । आत्मपदयोः स्थाने चैत्रपदं प्रक्षिप्या-भाससाम्यं च । द्वितीये शब्दानाश्रयत्वमुपाधिः । विभावात्मान्यत्वं विशेषणं दत्वा आत्माकाशभिन्नस्य विभोर्विशेषगुणवतः साधनप्रसङ्गाच्च । जातिपक्षकानुमानेषु कल्पितव्यक्तिभेदेनापि तस्याः जातेरुपपत्त्या तात्त्विकव्यक्तिभेदपर्यवसायित्वेनार्थान्तरात् । न च– जातेः धर्मिज्ञानाबाध्यभेदं विनाऽयोगः । अन्यथा व्यक्त्यभेदः क्वापि जातिबाधको न स्यादिति वाच्यम् । जातेर्व्यक्तिभेदसमान सत्ताकत्वनियमेन प्रातिभासिकभेदस्य व्यावहारिकजातिं प्रति न साधकत्वमिति व्यक्त्यभेदस्य जाति बाधकत्वसम्भवात् ।। इत्यद्वैतसिद्धौ जीवभेदानुमानभङ्गः ।। १९ ।।

श्रीव्यासरामाचार्यविरचिता

न्यायामृततरङ्गिणी

चन्दनप्रभवेति ।। दुःखाननुसन्धातृत्वमात्रस्य पक्षेऽसिध्द्या तद्वारणाय मैत्रानुसंहितेति विशेषणस्योपादानेऽपि न दोषः । तस्य विशिष्टाभावसम्पादकत्वेन हेत्वन्तरत्वात् । न चाननुसन्धातृत्वमुपाधिः । जीवानाम् अन्योन्यं भेदाभावमते व्यतिरेकहीनत्वात् ।। स्वप्रति-योगितावच्छेदकेति ।। अत्र आधारान्तेन बद्धत्वमुक्तम् । भेदवन्निष्ठत्वं च भेदसमान-देशत्वम् । तेन ध्वंसस्य प्रतियोगितावच्छेदकं न नानाबन्धानुगतबन्धत्वम् । तस्य सामान्याभावत्वाभावादिति परास्तम् । न वा बन्धप्रतियोगिकभेदवति कालादौ ध्वंसस्य विद्यमानत्वेनार्थान्तरम् । न च दुःखनिगडसाधारणबन्धत्वासम्भवः । बन्धत्वप्रकारव्यवहार विषयत्वादेः सम्भवात् ।। आत्मप्रतियोगिकेति ।। न च जडत्वमुपाधिः । व्यतिरेक-हीनत्वात् ।। आकाश इति ।। कालभेदं परमाणुभेदं चादाय सिद्धसाधनतावारणाय विशेषगुणविभुपदे । न च शब्दानाश्रयत्वमुपाधिः । अव्यतिरेकत्वात् । ननु केचिन्मतीयानु-मानत्रयेऽपि कल्पितव्यक्तिभेदेनापि जातेरुपपत्त्या तात्विकव्यक्तिभेदा पर्यवसायित्वेनार्थान्तरम् अत आह– जातेरिति ।। अन्यथेति ।। ननु जातेर्व्यक्तिभेदसमान सत्ताकत्वनियमेन प्रातिभासिकभेदस्य व्यावहारिकजातिं प्रति बाधकत्वं भविष्यति । मैवम् । व्यधिकरणत्वात् । अभेदस्य जात्यदूषणत्वे मयाऽपादिते त्वया भेदस्य दूषणत्वोपपादनात् । ननूक्त-रीत्याऽकाशत्वमपि जातिः स्यादिति तात्विकानेकाकाशसिद्धिः स्यादत आह– आकाश-त्वादिकं त्विति ।। जीवानामन्योन्यं भेदेऽनुमानानि ।। १९ ।।

पाण्डुरङ्गि आनन्दभट्टारकविरचितः

न्यायामृतकण्टकोद्धारः

नन्वस्तु जीवब्रह्मणोर्भेदः । जीवानां तु कथम् ? स्वातन्त्र्यपारतन्त्र्यादिरूपविरुद्ध धर्माधिकरणत्वाभावादित्यत आह– जीवानामिति । अस्वातन्त्र्यादितौल्येऽपि परस्परदुःखानु-सन्धानाननुसन्धानरूपविरुद्धधर्माधिकरणत्वाद् युक्तो जीवानामपि भेद इति भावः । न च धर्मिपदविकल्पदोषः । तस्य पुरैव परिहृतत्वात् । न चोपहितपक्षत्वे सिद्धसाधनम् । अनुपहितपक्षत्वे हेत्वसिद्धिरिति वाच्यम् । मैत्रत्वस्यावच्छेदकत्वेन धर्मिकोटावप्रवेशात् । ननु भेदे विरुद्धधर्माधिकरणत्वम् अप्रयोजकमित्यत आह– इह चेति । विरुद्धधर्माणामेव भेदप्रयोजकत्वेन कप्तत्वात् तत्परित्यागे कारणाभावादिति भावः । ननु मैत्रानुसंहितेति विशेषणं व्यर्थम् । असिद्धिवारकत्वादित्यत आह– विमतमिति । न च तत्र विशिष्टाभावस्य हेतुत्वान्न व्यर्थविशेषणत्वमिति वाच्यम् । प्रकृतेऽपि मैत्रानुसंहितदुःखाननुसन्धातृत्वरूपविशिष्टाभावस्य हेतुत्वसम्भवात् । वस्तुतस्तु असिद्धिवारकत्वेऽपि यथा न वैयर्थ्यं तथाऽन्यत्रोपपादितम् । एवं चैत्र इति । न च तात्विकत्वस्याभेदविशेषणत्वे तदभावस्यातात्विकत्वेन सिद्धसाधनम्, अभावविशेषणत्वे च दृष्टान्तस्य साध्यवैकल्यमिति वाच्यम् । प्रमाणविषयत्वेन सिध्यतोऽर्थस्यातात्विकत्वेन सिद्धसाधनायोगादित्युक्तत्वात् । अन्यथाऽनुमानमात्रोच्छेदापत्तेः । न चानुमानेष्वननु सन्धातृत्वमुपाधिरिति वाच्यम् । तस्य विशिष्टसाध्यं प्रत्यप्रयोजकत्वात्, जीवब्रह्मभेदस्य साधितत्वेन ब्रह्मणि साध्याव्यापकत्वाच्च ।

प्रकृतेऽनुकूलतर्कस्य वक्ष्यमाणत्वेन साध्यव्यापकत्वस्थितौ साध्यव्याप्यहेत्वव्यापकत्वेन साध्याव्यापकत्वानुमानसम्भवाच्च । इदं च विशेषविप्रतिपत्तौ । सामान्यविप्रतिपत्तौ त्वाह– विमत इति । अत्र निगडबन्धध्वंसस्यापि पक्षत्वेंऽशे सिद्धसाधनतावारणार्थं ‘विमत’ इति । अत्र स्वशब्देन बन्धध्वंसः । तत्प्रतियोगी बन्धः । तत्र बन्धत्वस्य प्रतियोगितावच्छेदकत्वं नाम प्रतियोगित्वोल्लेख्यमात्रवृत्तित्वम् । तदवच्छिन्नं नाम तद्धर्मावच्छिन्नप्रतियोगित्वेन व्यवह्रियमाणत्वम् । तेन ध्वंसस्य सामान्याभावत्वाभावाद् बन्धत्वं कथं तदवच्छेदकमिति परास्तम् । न च निगडबन्धादिसाधारणं बन्धत्वं दुर्निरूपमिति वाच्यम् । बन्ध इति व्यवहार विषयत्वस्य तस्य सम्भवात् । न च स्वपदाननुगमः । बुद्धिस्थविषयत्वेनानुगमस्योक्तत्वात् । न च कालस्य बन्धध्वंसाधारत्वाद् अर्थान्तरमिति वाच्यम् । मुक्त इति व्यवहारप्रयोजकस्य बन्धध्वंसाधारत्वस्य विवक्षितत्वात् । तादृशस्य च कालेऽभावात् । ननु जीवत्वादिना विप्रतिपत्तौ कथम् अत्राह– जीव इत्यादि । अत्रापि कालमादाय नार्थान्तरता तृतीये साध्ये । अत्र सर्वत्र व्यावहारिकभेदमादायार्थान्तरतावारणाय प्रतियोगिज्ञानाबाध्येत्यादि ।

ननु ‘चैत्रोऽयं मैत्रप्रतियोगिकप्रतियोगिज्ञानाबाध्यभेदवान् पदार्थत्वात् घटवत्’ इत्याभास-साम्यमित्यत आह – विपक्ष इति । अनुकूलतर्काणां च यथा नाभासत्वं तथाऽनुपदमेव वक्ष्यामः । ननु जीवेश्वरसाधारणात्मत्वेन विप्रतिपत्तौ कथमनुमानम् ? आत्म प्रतियोगिक-भेदस्यात्मन्यसिद्धत्वेन दृष्टान्ताभावेनात्मत्वेन साधयितुमशक्यत्वादित्यत आह– आत्मभेद-मात्रे त्विति । कल्पितभेदेनार्थान्तरतावारणाय स्वज्ञानेति । घटादिप्रतियोगिना तेन सिद्धसाधनतावारणाय आत्मेति । अत्रात्मत्वं न प्रतियोगितावच्छेदकम् । तथा च न बाध इति द्रष्टव्यम् । न चात्र जडत्वमुपाधिः । अनुकूलतर्केण प्रकृतहेतोः प्रकृतसाध्य व्याप्यत्वेन साध्यव्याप्यहेत्वव्यापकत्वेनोपाधेः साध्याव्यापकत्वात् । न चात्मपदस्थाने चैत्रपदप्रक्षेपेणा-भाससाम्यमिति वाच्यम् । अनुकूलतर्काभावेन तदभावात् ।। विमत आनन्द इति । अत्र दुःखविरोधित्वव्याप्यं दृष्टान्ते दुःखाभावत्वम् । पक्षे चानन्दत्वं द्रष्टव्यम् । न चानन्दभेदसाधन-मात्मभेद साधनानुपयोगीति वाच्यम् । आनन्दस्यात्मस्वरूपत्वेन तद्भेदसिद्धौ आत्मभेदस्यैव सिद्धेः ।

आत्मवैभवादिपक्ष इति ।। परोक्तो दोषो नेति दर्शयितुं तदीयभेदानुमानम् अनुवदति– आत्मेति । आत्मप्रतियोगिकः स्वज्ञानाबाध्यो यो भेदस्तदाधारो यो विशेषगुणवान् विभुः तद्व्यतिरिक्त इति साध्यार्थः । तेनात्मनां परस्परं भेदः सिध्यति । अत्र पृथिव्यादिना सिद्धसाधनतावारणाय विभ्विति । कालादिना तद्वारणाय विशेषेति । मिथ्याभेदेनार्थान्तरतावारणाय स्वेति । घटादिभेदेन तद्वारणाय आत्मेति । न च गगनभेदमादाय साध्यपर्यवसानं बाधात् इत्यात्मभेदसिद्धिः । न च शब्दानाश्रयत्वमुपाधिरिति वाच्यम् । अनुकूलतर्कसद्भावेनानुपाधित्वात् । न च विभावात्मान्यत्वविशेषणं दत्वा विभुविशेषगुणवद् द्रव्यान्तरसाधनमपि कर्तव्यं स्यादिति वाच्यम् । तद्व्यवस्थापक गुणान्तरा-भावात् । आत्मव्यवस्थापकस्य ज्ञानादेश्च प्रमाणसिद्धत्वात् । आदिशब्देन कालः आत्मप्रतियोगिक धर्मिज्ञानाबाध्यभेदाधाराश्रावणविशेषगुणवद् विभुव्यतिरिक्तः द्रव्यत्वात् पृथिवीवदिति सङ्गृहीतम् ।

केचित्त्विति । अत्र जातिभिन्नमिति कृते द्रव्यत्वभेदमादाय सिद्धसाधनता । अतो द्रव्यत्व-व्याप्येति । तथापि घटत्वादिना सिद्धसाधनवारणाय साक्षादिति । जलत्वादिना तद्वारणाय जलत्वादीति । ‘जाति’पदमौपाधिकधर्मस्यैकव्यक्तिकेऽपि सम्भवादर्थान्तरवारणाय । जातेश्च धर्मिज्ञानाबाध्यव्यक्तिभेदमन्तरेणानुपपत्तेरिति भावः । तथापि गगनत्वेनार्थान्तरमेवेत्यत आह– गगनत्वेति । लाघवेनेति । धर्मिकल्पनातो धर्मकल्पनाया लघीयस्त्त्वादिति भावः । सत्तेति । न चात्मकालादिसाधारणजातिसिध्याऽर्थान्तरम् । न चात्ममात्रनिष्ठेति कर्तव्यमिति वाच्यम् । साध्यप्रसिद्धेरिति वाच्यम् । कप्त आत्मत्व एव जातित्वपर्यवसाने लाघवात् । अकप्त जात्यन्तरकल्पने गौरवात् । न च कालनिष्ठेति करणेन कालत्वजातिसिद्धिरिति वाच्यम् । आत्मभेदव्यवस्थापक सुखादिभेदवत् कालभेदव्यवस्थापकाभावात् ।। आत्मेति ।। यद्यप्यस्य पक्षस्य स्वमतेऽपि सम्भवः । स्वेनात्माणुत्वस्वीकारात् । तथा चान्यपक्षत्ववर्णनम् अयुक्तम् । तथापि स्वेन जातेरनङ्गीकारात् तथोक्तम् । अत्रापि पूर्ववदर्थान्तरपरिहारो द्रष्टव्यः । हेतौ काले व्यभिचारवारणाय विभ्विति । आत्मा आत्मप्रतियोगिकधर्मिज्ञानाबाध्यभेदवान् विशेषगुणवत्त्वात् पृथिवीवदिति आदिशब्दसङ्गृहीतम् ।। अन्यथेति ।। औपाधिकभेदेनापि जात्युपपत्तावित्यर्थः । न च व्यावहारिकव्यक्त्यभेदो जातेर्बाधक इति वाच्यम् । देहात्माभेदस्यापि जातिबाधकत्वप्रसङ्गात् । न च स व्यावहारिको नेति वाच्यम् । आत्मज्ञानबाध्यत्वेन व्यावहारिकत्वात् । अप्रयोजकत्वं परिहरति– विपक्ष इति । नन्वेवमाकाशत्वादेरपि जातित्वसिद्धिरित्यत आह– आकाशादिकमिति । आत्मप्रतियोगिकभेदवान्नवेति विप्रतिपत्त्यनानु-गुण्याद् अन्ये तु इत्युक्तम् । जीवानाम् अन्योन्यभेदेऽनुमानानि ।। १९ ।।

श्रीनिवासतीर्थविरचितः

न्यायामृतप्रकाशः

ननु चैत्रे स्वीयदुःखानुसन्धातृत्वस्यैव सत्वेन स्वरूपासिद्धिवारणाय मैत्रानुसंहितपदम् । अतोऽसिद्धिवारकत्वाद्वैय्यर्थ्यमित्यत आह– इह चेति ।। अयमर्थः– धूमवह्निभ्यां युक्ते पर्वते विमतं सुरभिधूमरहितं वह्निरहितत्वादित्यत्र चन्दन प्रभवविशेषणस्यासिद्धिवारकत्वेपि वह्निराहित्यमात्रस्य सुरभिराहित्ये प्रयोजकत्वाभावेन व्याप्तिग्रहासम्भवाद् अप्रयोजकत्वनिरासाय व्याप्तिग्रहोपयुक्तत्वेन चन्दनप्रभवेति विशेषणं प्रयुज्यते एवमत्र मैत्रानुसंहितविशेषणस्यासिद्धि वारकत्वेऽपि दुःखाननु-सन्धातृत्वमात्रं न भेदप्रयोजकं कदाचित्स्वस्मिन्नप्यतीतदुःखाननुसन्धातृत्वसद्भावेन स्वतोऽपि भेदापत्तेः । अतो दुःखाननुसन्धातृत्वमात्रस्य भेदेऽप्रयोजकत्वेन व्याप्तिग्रहायोगात् तदर्थं मैत्रानुसंहितेति विशेषणम् । एवं च दहनतुहिनादौ दाहकत्वादिरूपधर्मयोरेव प्रयोजकत्वस्य कप्तत्वादिहापि तयोरेव प्रयोजकत्वं वाच्यम् । तच्च मैत्रानुसंहितपदे सति लभ्यत इति । रूपादिषु पञ्चसु मध्य इत्यस्य विशेषणस्यासिद्धिवारकत्वेनाव्याप्तिग्रहौपयिकत्वम् । इह तु अप्रयोजकत्वनिरासद्वारा तदुपयुक्तत्वमिति रीत्यन्तरमिति द्रष्टव्यम् ।। विमतो बन्धध्वंस इति ।। सर्वमुक्तिपक्षे विमतानां सर्वेषां जायमानः सामान्यतो बन्धध्वंसः स्वप्रतियोग्याधारप्रतियोगिकभेदवन्निष्ठः । स्वशब्देन बन्धध्वंसः तत्प्रतियोगी बन्धस्तदाधारा विमतशब्दोक्ता आत्मानस्तत्प्रतियोगिको यो भेदस्तद्वन्तो ये विमता आत्मानस्तन्निष्ठः ।

नन्वेवं सर्वेषामपि जीवानाम् अन्योन्यभेदो न प्राप्तः । तथा हि । स्वशब्दोक्तध्वंसप्रतियोगिबन्धाधार एकश्चैत्रात्मा । तत्प्रतियोगिकभेदवान्मैत्रात्मा । तन्निष्ठत्वमस्तीति सिद्धसाधनतावारणाय स्वप्रतियोगिता-वच्छेदकावच्छिन्नाधारेत्युक्तम् । स्वशब्दोक्तध्वंसप्रतियोगी बन्धः तदवच्छेदकं बन्धत्वम् । तदवच्छिन्ना ये बन्धास्तदाधारा ये आत्मानः अनेन बद्धा इति यावदित्युक्तं भवति । तत्प्रतियोगिको बद्धप्रतियोगिको भेदः अन्तर्गणिकभेदः तद्वन्तो ये विमतशब्दोक्ता आत्मानस्तन्निष्ठ इत्यर्थः । तेन नात्मद्वयमादाय सिद्धसाधनम् । एकस्य चैत्रात्मनः स्वकीयैकबन्धाश्रयत्वेऽपि बन्धत्वावच्छिन्न-प्रतियोगिताकसर्वबन्धाश्रयत्वाभावादिति ज्ञेयम् । व्यावहारिकभेदमादाय सिद्धसाधनतावारणाय प्रतियोगिज्ञानाबाध्येत्युक्तम् । बन्धाधारप्रतियोगिकेत्युक्तत्वादत्र प्रतियोगिनो बन्धाधारा आत्मानो विवक्षितास्तज्ज्ञानाबाध्येत्यर्थः । तेषां च परमते ब्रह्मस्वरूपत्वाद्भेदस्य तज्ज्ञानाबाध्यत्वे तात्विकत्वमेव सिध्यति । अत्र स्वप्रतियोगितावच्छेदकावच्छिन्नाधारप्रतियोगिकप्रतियोगिज्ञानाबाध्यभेदवज्जड-निष्ठत्वमादाय साध्यपर्यवसाने तन्निष्ठत्वस्य बन्धध्वंसे बाधान्नार्थान्तरतेति द्रष्टव्यम् ।। सम्मतवदिति ।। निगडबन्धवन्तो ये पुरुषा बहवस्तेषां जायमानो यो बन्धध्वंसस्तद्वत् तत्र स्वशब्दोक्तध्वंसप्रतियोगिता-वच्छेदकीभूतनिगडबन्धत्वावच्छिन्ना ये निगडबनधास्तदाधारा निगडबद्धा इति यावत् तत्प्रतियोगिकः प्रतियोगिभूतबन्धाधारज्ञानाबाध्यो यो भेदः अन्तर्गणिकस्तद्वन्तो ये पुरुषास्तन्निष्ठो भवति निगडबन्धध्वंस इत्यर्थः ।

ननु तर्हि चैत्रः स्वज्ञानाबाध्यस्वभेदवान् पदार्थत्वादित्याभाससाम्यमिति चेत्तत्राह– विपक्ष इति ।। स्वनिष्ठेति ।। आनन्दनिष्ठेत्यर्थः ।। दुःखविरोधित्वव्याप्यधर्भेणेति ।। आनन्दत्वेनेत्यर्थः । पदार्थत्वादिना स्वशब्दोक्तानन्दजातीयघटादिप्रतियोगिकभेदस्यानन्दे स्यादतः स्वनिष्ठेत्यादि । तथा चानन्दानां परस्परभेदे सिद्धे जीवजडयोश्च भेदसिद्धिः । दृष्टान्ते पक्षीभूताकाशरूपविभुव्यतिरिक्तत्वेन साध्यपर्यवसानम् । पक्षे बाधान्नैवं साध्यपर्यवसानमिति द्रष्टव्यम् । कालदिशावादायार्थान्तरतावारणाय विशेषगुणवदित्युक्तम् । आत्मनामात्मत्वजात्या स्वभावत एव नानात्वं साधयितुम् आत्मत्वस्य जातित्वं साधयति– पृथिवीत्वमिति ।। पक्षे आत्मत्वरूप द्रव्यत्वसाक्षाद्व्याप्यजातिमादाय साध्य-पर्यवसानम् । दृष्टान्ते तु जलत्वादीतरपक्षीभूतपृथिवीत्वमादायेति द्रष्टव्यम् । पक्षे तु बाधान्नैवं साध्यपर्यवसानम् । गगनत्वं जातिरिति मते तदादाय पक्षे साध्यपर्यवसानसम्भवेन आत्मत्वस्य जातित्वासिद्धेराह– गगनत्वेति ।।

ननु जलत्वादीतरद्रव्यत्वसाक्षाद्व्याप्यजातिरन्धकारत्वं तद्भिन्नत्वेन साध्यपर्यवसानं सम्भवतीत्या-शङ्क्य निराकरोति– न चेति ।। कप्ते धर्मिणि आत्मरूपधर्मिणि धर्ममात्रेण आत्मत्वरूपजाति-मात्रेणेत्यर्थः । तथा च धर्मिकल्पनातो धर्मकल्पना लघीयसीति न्यायेनाभावत्वेन सिद्धान्धकार-रूपधर्मिणो द्रव्यत्वं कल्पयित्वा तन्निष्ठधर्ममादाय साध्यपर्यवसानम् अयुक्तमिति भावः ।। द्रव्यत्वेति ।। तथा चानेनानुमानेनापि आत्मत्वस्य जातित्वसिद्धिरिति द्रष्टव्यम् ।। तात्विकेति ।। स्वाभाविकेत्यर्थः । तदेवोपपादयति– जातेरिति ।। भेदं स्वाश्रयव्यक्तिभेदम् ।। अन्यथा व्यक्तिभेदा-भावेऽप्यात्मत्वस्य जातित्वाङ्गीकारे ।। न स्यादिति ।। तथा चाकाशत्वादिकमपि जातिः स्यादिति भावः । औपाधिकत्वे पाचकत्वादिवदौपाधिकधर्मत्वे । ननु व्यक्त्यभेदः क्वापि दोषो न स्यादित्या-पादनम् अयुक्तम् । इष्टापत्तेः । आकाशत्वस्यापि जात्विदित्यत आह– आकाशादिकं त्विति ।। ।। जीवनाम् अन्योन्यभेदानुमानानां विवरणम् ।। १९ ।।

श्रीकूर्मनरहरिआचार्यविरचिता

न्यायकल्पलता

।। चन्दनप्रभवेति ।। दुःखाननुसन्धातृत्वमात्रस्य पक्षेऽसिध्द्या तद्वारणाय मैत्रानुसंहितेति विशेषण-स्योपादानेऽपि न दोषः । तस्य विशिष्टाभावसम्पादकत्वेन हेत्वन्तरत्वात् । न चाननुसन्धातृत्वमुपाधिः । जीवानाम् अन्योन्यं भेदाभावमते व्यतिरेकहीनत्वात् ।। स्वप्रतियोगितावच्छेदकेति ।। अत्र आधारान्तेन बद्धत्वमुक्तम् । भेदवन्निष्ठत्वं च भेदसमानदेशत्वम् । तेन भेदप्रतियोगितावच्छेदकं न नानाबन्धानुगतबन्धत्वम् । तस्य सामान्याभावत्वाभावादिति परास्तम् । न वा(चा) बन्धप्रतियोगिक-भेदवति कालादौ ध्वंसस्य विद्यमानत्वेनार्थान्तरम् । न च दुःखनिगड साधारणबन्धत्वासम्भवः । बन्धत्वप्रकारव्यवहारविषयत्वादेः सम्भवात् ।। आत्मप्रतियोगिकेति ।। न च जडत्वमुपाधिः । व्यतिरेकहीनत्वात् ।। आकाश इति ।। कालभेदं परमाणुभेदं चादाय सिद्धसाधनवारणाय विशेषगुणविभुपदे । न च शब्दानाश्रयत्वमुपाधिः । अव्यतिरेकत्वात् । ननु केचित्तु इत्यन्यमतीयानु-मानत्रयेऽपि कल्पितव्यक्तिभेदेनापि जातेरुपपत्त्या तात्विकव्यक्तिभेदापर्यवसायित्वेनार्थान्तरमत आह– जातेरिति ।। अन्यथेति ।। ननु जातेर्व्यक्तिभेदसमानसत्ताकत्वनियमेन प्रातिभासिकभेदस्य व्यावहारिकजातिं प्रति बाधकत्वं भविष्यति । मैवम् । व्यधिकरणत्वात् । अभेदस्य जात्यदूषणत्वे मयाऽपादिते त्वया भेदस्य दूषणत्वोपपादनात् । ननूक्तरीत्याऽकाशत्वमपि जातिः स्यादिति तात्विका-नेकाकाशसिद्धिः स्यादत आह– आकाशत्वादिकं त्विति ।।

।। इति जीवानामन्योन्यं भेदेऽनुमानानि ।।