सन् घट इत्यादिप्रत्यक्षबाधिताश्च दृश्यत्वादयः

१९. सत्त्वनिरुक्तिः

न्यायामृतम्

सन् घट इत्यादिप्रत्यक्षबाधिताश्च दृश्यत्वादयः । ननु किमिदं सत्त्वं यत्प्रत्यक्ष-सिद्धं परजातिर्वा ? असद्वैलक्षण्यं वा ? अर्थक्रियाकारित्वं वा ? प्रमाविषयत्वं वा ? तद्योग्यत्वं वा ? भ्रमाऽविषयत्वं वा ? स्वसमानाधिकरणस्वसमानकालीननिषेधा-प्रतियोगित्वं वा ? अबाध्यत्वं वा ? नाद्याः, सिद्धसाधनात् । न चतुर्थः, असति प्रमाणाप्रवृत्त्या तद्विषयत्वात् प्राक् सत्त्वस्य वक्तव्यतया, तस्य सत्त्वादन्यत्वात् । असतोऽपि व्यवसायद्वारा साक्षाच्च असत्त्वप्रकारकप्रमाविषयत्वाच्च । सत्त्वप्रकारक-प्रमाविषयत्वे चात्माश्रयात् । असत्त्वाप्रकारकप्रमाविषयत्वे चासत्त्वस्य सत्त्वनिरूप्य-त्वेनान्योन्याश्रयात् । अत एव न पञ्चमः । न षष्ठः, सतोऽप्यसत्त्वप्रकारकभ्रम-विषयत्वात् । सत्त्वप्रकारकभ्रमाविषयत्वे चात्माश्रयात् । असत्त्वाप्रकारकभ्रमा-विषयत्वे चान्योन्याश्रयात् । न सप्तमः, संयोगादावव्याप्तेः । शुक्तिरूप्यादे-रधिकरणाद्यभावेनातिव्याप्तेश्च । नाप्यष्टमः, बाध्यस्य प्रतिपन्नोपाधौ त्रैकालिक-सत्त्वनिषेधत्वेनान्योन्याश्रयात् ।

अद्वैतसिद्धिः

ननु ‘सन् घट’ इत्याद्यध्यक्षबाधितविषया दृश्यत्वादय इति चेन्न; चक्षुराद्यध्यक्षयोग्य-मिथ्यात्वविरोधिसत्त्वानिरुक्तेः । तथा हि – न तावत् प्रमाविषयत्वं, तद्योग्यत्वं, भ्रमाविषयत्वं वा तादृक्सत्त्वम् । चक्षुराद्यगम्यभ्रमप्रमाघटितत्वेन चक्षुराद्ययोग्यत्वाद्, वक्ष्यमाणदूषणगणग्रासाच्च । तथा हि – नाद्यः, असति प्रमाणाप्रवृत्तेः प्रमाविषयत्वात्प्राक् सत्त्वस्य वक्तव्यत्वेन तस्य तदन्यत्वात् । सत्त्वनिरूपणं विना सदर्थविषयकत्वरूपप्रमात्वस्य निरूपणे चान्योन्याश्रयात् । मिथ्याभूतस्यापि शुक्तिरजतसंसर्गस्य व्यवसायद्वारा साक्षाच्च निषेध्यत्वादिना प्रमाविषयत्वाभ्युपगमाच्च । नापि द्वितीयः, योग्यताया अनिरूपणात् । न तृतीयः, असिद्धेः । सर्वस्यैव क्षणिकत्वादिना भ्रमविषयत्वाभ्युपगमात् । अत एव नासत्त्वाप्रकारकप्रमाविषयत्वमपि, अन्योन्याश्रयाच्च । नापि सत्त्वप्रकारकप्रमाविषयत्वम्, आत्माश्रयात् । नाप्यसत्त्वप्रकारकभ्रमाविषयत्वं सत्त्वम्, अन्योन्याश्रयात् । नापि प्रतिपन्नोपाधौ त्रैकालिकसत्त्वनिषेधविरहः, आत्माश्रयात् । नापि सत्ता जातिरर्थाक्रियाकारित्वमसद्वैलक्षण्यं वा, एतेषां मिथ्यात्वाविरोधित्वेन तत्प्रत्यक्षेण मिथ्यात्वानुमाने बाधाभावात् । नापि वेदान्त्यभिमत-मिथ्यात्वाभावः सत्त्वम्, तुच्छेऽतिव्याप्तेः । नाप्यसद्विलक्षणत्वे सत्यनारोपितत्वम्, अनारोपितत्वं हि आरोपाविषयत्वम्, तच्चासम्भवि । सर्वस्यापि क्षणिकत्वादिना आरोपविषयत्वात् । नापि अस्तित्वप्रकारकप्रमां प्रति कदाचित् साक्षाद्विषयत्वं कालसम्बन्धित्वं वा सत्त्वम् । अस्तित्वं च वर्तमानत्वम् । न तु सत्त्वमतो नात्माश्रयः । अतीतादिरपि कदाचिद् वर्तत एवेति नाव्याप्तिः । आरोपितं च कालत्रयासंबन्धित्वेन बाधेन बोधितमिति न द्वितीयलक्षणेऽतिव्याप्तिरिति वाच्यम् ।

प्रमात्वस्य सत्त्वघटितत्वेन चक्षुराद्ययोग्यत्वेन च पूर्वोक्तदोषाद्, वर्तमानत्वप्रकारक-प्रमाविषयत्वेऽपि मिथ्यात्वाविरोधाच्च । द्वितीयमपि न मिथ्यात्वविरोधि । शुक्तिरूप्यस्यापि प्रतिभासकालसम्बन्धित्वात् । बाधेन तात्त्विककालत्रय सम्बन्धनिषेधेऽप्यतात्त्विककालसम्बन्धस्या-निषेधात् । नापि तात्त्विककालसम्बन्धित्वं तत् । तात्त्विकत्वस्याद्याप्यनिरूपणात् । निरूपणे वा शैषवैय्यर्थ्यात् ।

न्यायामृततरङ्गिणी

प्रतिज्ञाश्रयं प्रबलप्रमाणविरोधाख्यं दोषं बाधं विवक्षुः प्रमाणज्येष्ठप्रत्यक्षविरोधं तावदाह – सन् घट इतीति ।। प्रत्यक्षगृहीतसत्त्वविरोधिमिथ्यात्वानुमानं प्रत्यक्षबाधितम्, अग्न्यनौष्ण्यानु-मानवदित्यर्थः । ननु न मिथ्यात्वानुमानस्य प्रत्यक्षविरोधः, प्रत्यक्षगृहीतसत्त्वस्यानुमान-गृहीताविरोधित्वात्, अनुमानगृहीतविरोधिसत्त्वस्य च प्रत्यक्षेणाग्रहादित्यभिप्रायेण सत्त्वं पृच्छति ननु किमिदमिति ।। प्रत्यक्षसिद्धमनुमानविरोधीति शेषः ।। परजातिरिति ।। द्रव्यत्वगुणत्वकर्मत्वव्यापिका सत्ताजातिर्वेत्यर्थः । आद्य–द्वितीय–तृतीयान् निराकरोति नाद्या इति ।। सिद्धसाधनादिति ।। अनुमीयमानमिथ्यात्वेनाविरुद्धतया परजात्यादिरूपस्य सत्त्वस्य मिथ्यात्ववादिना मयाऽपि प्रत्यक्षविषयत्वस्वीकारादेतादृशसत्त्वं प्रत्यक्षविषय इति वचनं मां प्रति सिद्धसाधनमित्यर्थः । चतुर्थेऽपि स्वातन्त्र्येण स्वाभावाविषयकप्रमाविषयत्वं वा? यथाकथञ्चित् प्रमाविषयत्वं वा? साक्षात् प्रमाविषयत्वं वा । सत्त्वप्रकारकप्रमाविषयत्वं वा? असत्त्वाप्रकारक-प्रमाविषयत्वं वा? इति विकल्पानभिसन्धायाद्यं दूषयति – असतीति ।। असता सह संयोगादीन्द्रियसन्निकर्षव्याप्त्याद्यभावेनासति स्वातन्त्र्येण प्रमाणाप्रवृत्तेः प्रमाणप्रवृत्त्यर्थं प्रमाण-प्रवृत्तेः पूर्वं स्वरूपसत्यत्वं वक्तव्यम् । तच्च प्रमाणप्रवृत्त्यधीनप्रमायां निर्वक्ष्यति इति सत्त्व-प्रमयोरन्योन्यापेक्षा स्यादित्यर्थः ।

ननु स्वातन्त्र्येण प्रमाणप्रवृत्त्यर्थमेव संयोगादीन्द्रियसन्निकर्षापेक्षा । अन्यार्थप्रवृत्तप्रमाण-जन्यप्रमाविषयत्वं तु संयोगादिसन्निकर्षादिकं विनैव भविष्यतीति न सत्त्वप्रमयोरन्योन्यापेक्षा इति यथाकथञ्चित् प्रमाविषयत्वमेव सत्त्वमस्त्विति द्वितीयं पक्षं दूषयति – असतोऽपीति ।। तृतीयं दूषयति – साक्षाच्चेति ।। चतुर्थं दूषयति – सत्त्वप्रकारकेति ।। पञ्चमं दूषयति – असत्त्वेति ।। अत एवेति ।। चतुर्थपक्षवद् विकल्प्य तद्दूषणेभ्य एवेत्यर्थः ।। सतोऽपीति ।। तथा चासम्भव इत्यर्थः । चतुर्थपञ्चमषष्ठानां सत्त्वप्रकाराणां प्रमाभ्रमघटितत्वेन प्रत्यक्षायोग्यत्व-मपि बोध्यम् ।। शुक्तिरूप्ययोरिति ।। शुक्तेः परिच्छिन्नत्वेऽप्यसत्त्वाभावात्, शून्यस्या-परिच्छिन्नत्वेऽपि सत्त्वाभावादव्याप्त्यतिव्याप्तिभ्यां नापरिच्छिन्नत्वं सत्त्वमित्यर्थः । शुक्तिरूप्ययोः परिच्छिन्नयोर्मध्ये रूप्य एवासत्त्वं न तु शुक्तौ, तस्याः अधिष्ठानत्वेनासत्त्वाभावात् । ब्रह्मशून्ययोरपरिच्छिन्नयोर्मध्ये ब्रह्मण्येव सत्त्वं न तु शून्यस्येत्येवं व्यवस्थितत्वेन नियतत्वेना-परिच्छिन्नत्वातिरिक्तं सत्त्वमन्यदेव वाच्यम् । तच्च भ्रमाधिष्ठानत्वेन शुक्तिकादिजगतोऽपि भविष्यतीति भावः ।

न्यायामृतकण्टकोद्धारः

स्वसमानाधिकरणेति ।। अत्र स्वसमानकालीननिषेधाप्रतियोगित्वोक्तौ गोत्वादेरश्व-निष्ठात्यन्ताभावप्रतियोगित्वेनाव्याप्तिर्मा भूदित्यतः आह– स्वसमानाधिकरणेति ।। तावन्मात्रोक्तौ घटादेरपि स्वसमानाधिकरणध्वंस(रूपनिषेध)प्रतियोगित्वेनाव्याप्तिः स्यात्, इत्यतः – स्वसमानकालीनेति ।। सिद्धसाधनादिति ।। सिद्धस्य मिथ्यात्वविरोधिनः सत्त्वस्य, साधनात् विषयीकरणादिति यावत् । तेन प्रत्यक्षे कथं सिद्धसाधनत्वं दोषः? इति निरस्तम् । असतीति ।। प्रमाविषयत्वातिरिक्तमेव सत्त्वं वक्तव्यम्, अन्यथा प्रमाविषयत्वरूपं सत्त्वं कदा स्यादित्युक्ते प्रमाणप्रवृत्तौ सत्यामिति वक्तव्यम् । प्रमाणप्रवृत्तिश्च कदा स्यात्, सत्त्वे सति, इत्यन्योन्याश्रयः ।

ननु सत्त्वे सति प्रमाणप्रवृत्तिरित्येतत् कुत इत्यत उक्तम् – असति प्रमाणाप्रवृत्त्येति ।। असत्त्वस्येति ।। सत्त्वाभावस्यैवासत्त्वादिति भावः । प्रमाघटितत्वेन प्रत्यक्षाविषयत्वाच्चेत्यपि बोध्यम् ।। तवात्मनीति ।।

न्यायामृतप्रकाशः

प्रतिज्ञाश्रयं प्रबलप्रमाणविरोधाख्यं दोषं विवक्षुः प्रमाणज्येष्ठप्रत्यक्षविरोधं तावदाह ।। सन्घट इतीति ।। प्रत्यक्षगृहीतसत्त्वविरोधिमिथ्यात्वसाधकमनुमानं प्रत्यक्षबाधितमग्न्यनौष्ण्यानुमानवदित्यर्थः । ननु न मिथ्यात्वानुमानस्य प्रत्यक्षबाधः प्रत्यक्षगृहीतव्यावहारिकसत्त्वस्यानुमानगृहीतपारमार्थिक-सत्त्वनिषेधरूपमिथ्यात्वाविरोधित्वात् । अनुमानगृहीतमिथ्यात्वविरोधिसत्त्वस्य च प्रत्यक्षेणा-ग्रहणादित्यभिप्रायेण सत्त्वं पृच्छति ।। नन्विति ।। असङ्गतिपरिहारायाह ।। यदिति ।। घटादौ यत्प्रत्यक्षसिद्धमनुमानगृहीतमिथ्यात्वविरोधीति शेषः ।। परजातिरिति ।। द्रव्यत्वगुणत्वकर्मत्वव्यापिका सत्ताजातिरित्यर्थः । तद्योग्यत्वमिति ।। प्रमाविषयत्वयोग्यत्वमित्यर्थः ।। स्वेति ।। स्वाधिकरणाधि-करणको यः स्वसमानकालीनो निषेधस्तदप्रतियोगित्वमित्यर्थः । निषेधाप्रतियोगित्वमित्युक्ते घटादेः कालान्तरीयनिषेधप्रतियोगित्वादसम्भवोऽतः स्वसमानकालीनेति । तस्य घटादिसमानकालीनत्वाभावेन तादृशनिषेधाप्रतियोगित्वसत्त्वेन नासम्भवः । तावत्युक्ते स्वसमानकालीनदेशान्तरीयनिषेधप्रतियोगि-त्वात् पुनरसम्भवः स्यादतः स्वसमानाधिकरणेत्युक्तम् । देशान्तरीयनिषेधस्य स्वाधिकरणाधिकरण-कत्वाभावान्नासम्भवः ।। नाद्या इति ।। चतुर्थापेक्षया आद्याः, प्रथमद्वितीयतृतीया इत्यर्थः ।। सिद्धसाधनादिति ।।

ननु इदमयुक्तं सिद्धसाधनताया अनुमान एव वक्तव्यत्वात्प्रत्यक्षेणैतादृशसत्त्वं विषयीक्रियत इत्युक्ते सिद्धसाधनोद्भावनस्याकौशलव्यञ्जकत्वमिति चेत् सत्यम् । सिद्धसाधनात् सिद्धार्थाव-गाहित्वादित्यर्थः । परजात्यादिरूपस्य सत्त्वस्य मिथ्यात्ववादिना मयापि प्रत्यक्षविषयत्वाङ्गीकारा-दनुमाननिषेध्यपारमार्थिकसत्त्वावगाहित्वाभावान्न तेन बाध इति भाव इत्याहुः । वस्तुतस्तु परजात्यादिरूपसत्त्वस्य मिथ्यात्ववादिना मयापि प्रत्यक्षविषयत्वाङ्गीकारादेतादृशसत्त्वं प्रत्यक्षविषय इति भवदीयवचनं मां प्रति सिद्धसाधनं सिद्धार्थसाधकं सिद्धार्थबोधकम् असङ्गतमित्यर्थः । तथा चानुमाननिषेध्यपारमार्थिकसत्त्वावगाहित्वाभावेन भिन्नविषयत्वान्नानुमानस्य तेन बाध इति भावः ।। असतीति ।। सत्येव प्रमाणं प्रवर्तते नासतीति तावत्सिद्धं तत्कुत इति पृष्टे प्रमाणप्रवृत्तिप्रयोजकीभूतं सत्त्वं सति वर्ततेऽसति च नास्तीति वक्तव्यम् । एवं च प्रमाणप्रवृत्तिप्रयोजकतया प्रमितिविषयत्वा-त्प्राक् सत्त्वस्यावश्यं वक्तव्यत्वेन प्रमितिविषयत्वस्य सत्त्वादन्यत्वेन तदेव सत्त्वं नेत्यर्थः । किञ्च प्रमाविषयत्वं परम्परया वा साक्षाद्वा । नाद्यः । शुक्तिरजतमहं जानामीति व्यवसायद्वाराऽसतोऽप्यनु-व्यवसायविषयत्वात् असत्यतिव्याप्तिः । न द्वितीयः । इदं रजतमसदिति असत्त्वप्रकारकप्रमां प्रति असतोऽपि साक्षाद्विषयत्वेनासत्येवातिव्याप्तिरित्याह ।। असतोऽपीति ।। आत्माश्रयादिति ।। सत्त्वलक्षणे सत्त्वप्रवेशादित्यर्थः ।। अन्योन्याश्रयादिति । सत्त्वज्ञाने प्रतियोगिनः प्राप्त्याऽसत्त्वज्ञानं तज्ज्ञाने तद्धटितसत्त्वज्ञानमित्यन्योन्याश्रय इत्यर्थः ।। अत एवेति ।। सत्त्वस्य प्रमाविषयत्वयोग्यत्व-प्रयोजकत्वेन तस्य सत्त्वादन्यत्वादेवेत्यर्थः ।। सतोऽपीति ।। घटोऽसन्निति भ्रमसम्भवेन तत्र लक्षणाभावादसम्भव इति भावः ।। असत्त्वाप्रकारकेति ।। असत्त्वप्रकारकभ्रमविषयत्वं तदप्रकारक-भ्रमविषयत्वं च नास्तीत्येवं सर्वथा भ्रमाविषयत्वेनैव पर्यवसानं न तु असत्त्वप्रकारकभ्रमविषयत्वेनेति ध्येयम् ।। अन्योन्येति ।। पूर्ववदसत्त्वस्य सत्त्वनिरूप्यत्वेनाऽन्योन्याश्रयादिति भावः । संयोगादा-विति ।। संयोगस्याव्याप्यवृत्तित्वेन संयोगाधिकरणाधिकरणको यः स्वसमानकालीनो निषेधः संयोगात्यन्ताभाव एव तदप्रतियोगित्वाभावेनाव्याप्तिरित्यर्थः ।। शुक्तीति ।। रूप्यस्यासतोऽधिकरण-स्यैवाभावेन स्वसमानाधिकरणस्वसमानकालीननिषेधस्यैवाभावेन तदप्रतियोगित्वं विशेषणाभावप्रयुक्त-विशिष्टाभावमादायास्तीत्यर्थः ।। अन्योन्येति ।। बाध्यत्वज्ञानेऽबाध्यत्वज्ञानम् । तत्र तस्य प्रतियोगि-त्वात् । अबाध्यत्वज्ञाने च बाध्यत्वज्ञानं बाध्यत्वस्याऽबाध्यत्वरूपसत्त्व घटितत्वादित्यन्योन्या-श्रयादित्यर्थः ।

न्यायकल्पलता

मिथ्यात्वानुमानानि प्रतिज्ञाश्रयप्रबलप्रमाणविरोधाख्यबाधदोषेण प्रत्याचिख्यासुः प्रमाणं तावदाह– सन्घट इतीति । अग्न्यनौष्ण्यानुमानवत्प्रत्यक्षगृहीतसत्त्वविरोधि मिथ्यात्वानुमानं प्रत्यक्षबाधितमित्यर्थः । ननु न मिथ्यात्वानुमानस्य दृश्यत्वादेः  प्रत्यक्षेण बाधः । ग्राह्याभावानवगाहित्वात् । अनुमानेन प्रत्यक्ष-गृहीतसत्त्वविरोधिमिथ्यात्वस्यासिसाधयिषितत्वात् ।  अनुमित्सितमिथ्यात्वविरोधिसत्त्वस्य च प्रत्यक्षेण चाग्रहादिति भावेन सत्त्वं पृच्छति ।। ननु किमिदमिति ।। प्रत्यक्षसिद्धमनुमित्सितमिथ्यात्वविरोधीति शेषः । प्रत्यक्षयोग्यमिथ्यात्वविरोधिसत्त्वस्य दुर्वचत्वादिति भावः– परजातिरिति  । द्रव्यत्वगुणत्व-कर्मत्वव्यापको सत्ताजातिर्वेत्यर्थः । एवमष्टधा विकल्प्याद्यद्वितीयतृतीयपक्षान्निराह– नाद्या इति । सिद्धसाधनादिति । परजात्यादिरूपसत्त्वस्यानुमीयमानमिथ्यात्वाविरोधितया विवर्तवादिनापि  प्रत्यक्ष-विषयत्वस्वीकारादेतादृशसत्त्वं प्रत्यक्षविषय इति वचनं परं प्रति सिद्धसाधनमिष्टाविघातित्वात् । एतेषां सत्त्वप्रकाराणां मिथ्यात्वाविरोधित्वेन तद्ग्राहिप्रत्यक्षेण मिथ्यात्वानुमाने बाधाभावादित्यर्थः । चतुर्थेऽपि स्वातन्त्र्येण स्वाभावाविषयकप्रमाविषयत्वं वा । यथाकथञ्चित्प्रमाविषयत्वं वा । यथाकथञ्चित् साक्षात्प्रमाविषयत्वं वा । सत्त्वप्रकारकप्रमाविषयत्वं वा । असत्त्वाप्रकारकप्रमाविषयत्वं वेति  विकल्पान् अभिसन्धायाद्यं दूषयति– असतीति । असता सह संयोगादीन्द्रियसन्निकर्षव्याप्त्याद्यभावेनासति स्वातन्त्र्येण प्रमाणाप्रवृत्तेः, प्रमाणप्रवृत्यर्थं प्रमाणप्रवृत्तेः पूर्वं स्वरूपसत्यत्त्वं वक्तव्यम् । सत्त्वनिरूपणं विना सदर्थविषयकत्वरूपप्रमात्वस्य दुर्निरूपत्वात् । तच्च प्रमाणप्रवृत्यधीनप्रमायां शक्यनिर्वचनं भविष्यतीति सत्त्वप्रमाविषयत्वयोरन्योन्यापेक्षतयाऽन्योन्यज्ञप्तिप्रतिहतिः स्यादित्यर्थः ।

ननु स्वातन्त्र्येण प्रमाणप्रवृत्यर्थं नैव संयोगादीन्द्रियसन्निकर्षाद्यपेक्षा  । अन्यार्थप्रवृत्तप्रमाणजन्य-प्रमाविषयत्वं तु संयोगादिसन्निकर्षादिकमन्तरेणैव भविष्यतीति न सत्त्वप्रमाविषयत्वयोरन्योन्यापेक्षेति यथा कथञ्चित् प्रमाविषयत्वमेव सत्वमस्त्विति द्वितीयं पक्षं दूषयति - असतोऽपीति । व्यवसायद्वारा प्रमाविषयत्वादिति बुध्या विवेकेनान्वयः । अनुव्यवसायस्य प्रमात्त्वनियमादिति भावः । तृतीयाभावे हेतुमाह– साक्षाच्चेति । शशविषाणमसदित्यबाधितप्रतीतेरित्यर्थः । चतुर्थस्य चतुर्थं दूषयति– सत्त्वप्रकारकेति । आत्माश्रयात् स्वज्ञप्तावव्यवधानेन स्वापेक्षणादित्यर्थः । चतुर्थस्य पञ्चमं दूषयति– असत्त्वेति । उक्तदूषणातिदेशेन पञ्चमं पक्षं अपाकरोति- अत एवेति । चतुर्थपक्षवद्विकल्पितदूषणेभ्य एवेत्यर्थः । षष्ठेऽपि भ्रमाविषयत्वमसत्त्वप्रकारकभ्रमाविषयत्वं वा सत्त्वप्रकारकभ्रमाविषयत्वं वा असत्त्वा-प्रकारकभ्रमाविषयत्वं वेति विकल्पानभिप्रेत्याद्यं दूषयति– सतोऽपीति । तथा चैवंविधमसत्व-मसम्भवीत्यर्थः । द्वितीयमनूद्य निराकरोति– सत्त्वेति । तृतीयमपि निराह– असत्त्वेति । चतुर्थ-पञ्चमषष्ठानां सत्त्वप्रकाराणां प्रमाभ्रमघटितत्वेन प्रत्यक्षायोग्यत्वमपि बोध्यम् । अव्याप्त्यतिव्याप्तिभ्यां सप्तमं सत्वपक्षं निराकरोति– न सप्तम इति । अन्योन्याश्रयेणाष्टमं पक्षं दूषयति– नाप्यष्टम इति ।

न्यायामृतमाधुरी

।। सन् घट इत्यादि ।। प्रत्यक्षस्य शिष्टप्रमाणाभ्यां प्राबल्येनादौ ग्राह्याभावावगाहितयाऽनुमिति-विघटकज्ञानविषयीभूततद्विरोधस्योक्तिः । वह्न्यनौष्ण्यानुमानमिव जगदलीकत्वानुमानमपि प्रत्यक्ष-बाधितमित्यर्थः । अथ प्रत्यक्षेण यादृशार्थः परिच्छिद्यते तद्व्यतिरेकानुमापकतायामेवानुमानस्य तद्बाध्यता न तदनवगाढार्थव्यतिरेकानुमितिजनकतायाम् । प्रत्यक्षेण पर्वतीयवह्निमत्तानिर्णयेऽपि महानसीयवह्न्यभावानुमानस्य निर्बाधत्वात् । इत्थं च प्रकृतप्रत्यक्षानुमानयोः प्रतियोग्यनुयोगि-भावापन्नार्थग्राहिताविरहेण बाध्यबाधकभावो न सङ्गच्छते इत्ेयभिप्रेत्य शङ्कते ।। नन्विति ।। इदं– अनुमानग्राह्याभावप्रतियोगिभूतं प्रत्यक्षेण विषयीक्रियमाणम् । परजातिः पदार्थविभाजकतावच्छेदकी-भूतजातित्रयव्यापिका जातिरित्यर्थः । द्वितीयतृतीययोरपि स्वस्वोत्तरावधिकाद्यताऽविशेषिततया त्रयाणामाद्यपदेन निर्देशः । सिद्धसाधनादिति ।। स्वबाधयिषितमिथ्यात्वाप्रतिरूपत्वेन प्रत्यक्षस्याद्वैत-वाद्यूरीकृतार्थविषयत्वस्वीकारापत्त्याऽनुमानस्य तद्बाधानवतारादित्यर्थः । प्रमाणाप्रवृत्या प्रमारूपवृत्ते-र्विषयतासम्बन्धेनोत्पादकसामग््रयभावेन । तद्विषयत्वात्् विषयतासम्बन्धेन प्रमारूपवृत्तेः । सत्त्वादन्यत्वादिति । तथा च विषयतासम्बन्धेन प्रमित्यौपयिकस्य सत्वस्य स्वप्रयोज्यताद्रूप्या-योगादिति भावः । विषयतात्वेन प्रमानिरूपितमुख्यविशेष्यताप्रकारतादिकमनुगतमप्यप्रमानिरूपित-विषयताशालित्वं प्रकारताभिन्नत्वरूपमुख्यत्वविशेषितप्रमीयविशेष्यताशालित्वं वा तदिति कल्प-चतुष्टयीमभिसन्दधानः प्रत्याख्याति ।। सतोऽपीत्यादि ।। अधिकरणाद्यभावेनेति । सिद्धान्ते अलीकत्वादिति भावः ।

Load More