अणुत्वाच्च जीवो व्याप्तादीशाद्भिन्नः
३३. जीवाणुत्वविवरणम्
न्यायामृतम्
अणुत्वाच्च जीवो व्याप्तादीशाद्भिन्नः । नन्वेतदयुक्तम् । ‘नित्यः सर्वगतः स्थाणुः’ इत्याद्यागमैः, ‘जीवो नाणुः प्रत्यक्षगुणाश्रयत्वात्, प्रत्यक्षत्वाच्च, घटवत्’ इत्याद्यनु-मानैश्च, विपक्षे ‘देहव्यापि स्पर्शादिज्ञानं न स्यात्’ इत्यादिबाधकसहितैस्तस्य विभुत्वादिति चेन्न, ‘अणुर्ह्येष आत्मा यं वा एते सिनीतः पुण्यं च पापं च,
बालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ।।
इत्यादिश्रुत्या ‘अणुमात्रोऽप्ययं जीवः’ इत्यादिस्मृत्या, ‘जीवो न व्याप्तः उत्क्रान्तिमत्वाद्गतिमत्वादागतिमत्त्वात्क्रियावत्त्वाच्च, खगशरीरवत्’ इत्याद्यनुमानैश्च विपक्षे हेतूच्छित्तिबाधकसहितैरणुत्वसिद्धेः । न चासिद्धिः, ‘सोऽस्माच्छरीरादुत्क्रम्यामुं लोकमधिगच्छति, अमुष्मादिमं लोकमागच्छति’ इत्यादिश्रुतिभिः । ‘तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते’ इत्यादिस्मृतिभिश्च तत्सिद्धेः । न च गत्यादिश्रुतिर्बुद्धि-विषया ‘नाकस्य पृष्ठे सुकृते तेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्ति, तेऽशुभमनु-भूयावर्तन्ते’ इत्यादिश्रुतौ गतेः सुखदुःखाद्यनुभवसामानाधिकरण्योक्तेः । ‘स एनान्ब्रह्म गमयति’ इत्यादिश्रुतौ, ‘तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः’ इत्यादिस्मृतौ च मुक्तिसामानाधिकरण्योक्तेश्च । ‘तेन प्रद्योतेनैष आत्मा निष्क्रामति’ इत्यात्म-निष्ठत्वश्रुतेश्च । अन्यथा बन्धमोक्षादिकमपि बुद्धेरेव स्यात् । न च श्रुतिर्बुद्ध्युपाधिकगत्यादिविषया । ‘तद्यथाऽनः सुसमाहितमुत्सर्जद्यायादेवमेवायं शारीर आत्मा प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जन् याति’ इति स्वाभाविकगत्याश्रयशकट-दृष्टान्तोक्तेः । ‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति’ इत्यादिश्रुतौ त्वद्रीत्या प्राणाख्य-बुद्धिगतितः प्रागेव जीवगत्युक्तेश्च । ‘मन उदक्रामन्मीलित इवाश्नन् पिबन्नास्तेव’ इत्यादिश्रुतौ मनस उत्क्रमणेऽपि आत्मनस्तदभावश्रवणाच्च । ‘तदा विद्वान्नाम-रूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्’ इत्यादिश्रुतौ नामरूपाद्विमोक्षानन्तरमपि गतिश्रवणाच्च । ‘परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते,‘स उत्तमः पुरुषः स तत्र पर्येति’ इत्यादिश्रुतौ मुक्तेऽपि गत्युक्तेश्च ।
किञ्च बुद्धिगतेन गत्यादिना तदवच्छिन्नात्मनि गत्यादि जायते वा ? बुद्धिगत-मेवारोप्यते वा ? उपचर्यते वा ? नाद्यः । घटगत्या तदवच्छिन्ने नभसि गत्यन्तरा-दृष्टेः । अन्यथा यतो घटस्य बुद्धेर्वा गतिः तत्राकाशस्यात्मनो वा सच्छिद्रत्वम् अन्यत्र द्विगुणीकृत्य वृत्तिश्च स्यात् । न च प्रतिबिम्बपक्षे नोक्तदोष इति वाच्यम् । तस्य वस्त्वन्तरत्वमते दोषाभावेऽपि दर्पणाभिहता दृष्टिः परावृत्य स्वमुखं गृह्णातीति त्वन्मते उपाधिगत्या बिम्बे न गतिः, प्रतिबिम्बे तु सेत्यस्यायोगात् । नान्त्यौ । कर्तु-रवच्छिन्नस्यैतदात्मप्रदेशस्य भोगायतनलोकान्तराप्राप्तेः, किन्तु (ग)तया बुद्ध्याऽ-वच्छिन्नप्रदेशान्तरमेव भुङ्क्त इति स्वीकारे कृतहान्यादिप्रसङ्गात् । कर्तुर्भोक्तुश्चावच्छिन्नस्य भिन्नत्वात् । अभिन्ने चानवच्छिन्ने कर्तृत्वाद्यभावात् । बाधकं विना बहूनां वाक्यानाम् अप्रामाण्यस्योपचरितार्थत्वस्य चाऽयोगाच्च । न च व्यावहारिकस्य गत्यादेः, सत्त्वान्नात्यन्ता प्रामाण्यम् । अमूर्ते मूर्तावच्छिन्नेऽपि व्यावहारिकगत्यदृष्टेः । व्यावहारिकत्वे घटगतिवद् बुद्धिगतव्यावहारिक गत्युपाधिकत्वायोगाच्च । न च व्यावहारिकत्वेऽपि धर्मिणा परमार्थसदात्मना सत्त्वाभावादौपाधिकत्वं धर्मिणोऽवच्छि-न्नात्मनोऽप्यपरमार्थत्वात् । विस्तृतं चैतत्कर्तृत्वाध्यासभङ्गे ।
केचित्तु ‘आत्मत्वम् अणुनिष्ठं द्रव्यत्वसाक्षाद्व्याप्यजातित्वात्, पृथिवीत्ववत्, ‘जीवो वा न व्याप्तः, भूतेतरत्वे सति परत्वासमवायिकरणानाधारत्वे सत्यसर्वज्ञत्वात्, शब्देतरानित्यविशेषगुणाश्रयत्वात्, संस्काराश्रयत्वाच्च, कटवत् । ‘जीवोऽणुः ज्ञाना-समवायिकारणाश्रयत्वात्, मनोवत्’ इत्याद्यनुमानैर्जीवस्याणुत्व मित्याहुः । अणुत्वेऽपि जीवस्य देहव्यापिस्पर्शादिज्ञानं ज्ञानरूपगुणव्याप्त्या युक्तम् । जीवस्याणुत्वेऽपि तद्गुणव्याप्तिस्तु प्रदीपगुणभूतायाः प्रभायाः प्रदीपं विनाऽन्यत्र वर्तनवत्, जातिसमवायादेः धर्मितोऽन्यत्र वर्तनवद्, वह्न्यौष्ण्यस्य तत्समीपे वर्तनवद्, गन्धस्य द्रव्यं विनाऽन्यत्र वर्तनवच्च युक्ता । वह्निसमीपस्थौष्ण्यस्य तत्समीपस्थानुद्भूतरूपतेजोऽन्तरगुणत्वे वह्नेरुद्भूतस्पर्शो न सिद्ध्येत् । न च गन्धे आश्रयद्रव्यावयवगतिः कल्प्या । सर्वतो योजनादिव्यापिगन्धोपलम्भायानेकस्थूलावयवापसारेण सद्यो गुरुत्वादिह्रासस्य द्रव्यक्षयस्य चापातात् । स्फटिककरण्डकान्तःस्थकस्तूर्यादौ चावयवान्तरानुप्रवेशकल्पने मानाभावात् प्रत्यभिज्ञाविरोधाच्च । ‘नित्यः सर्वगतः स्थाणुः’ इत्यत्र ‘नित्यसर्वगते विष्णावणुर्जीवो व्यवस्थितः’ इत्यादिस्मृत्यनुसारेण सर्वगतस्थश्चासावणुश्चेति विग्रहः । अन्ये तु क्रमेण नानादेहसम्बन्धाज्जीवस्य सर्वगतत्वोक्तिरित्याहुः । प्रत्यक्षत्वादितिहेतुस्त्वप्रयोजकः । तेनैवाविभुत्वस्यापि सुसाधत्वात्, उक्तश्रुत्यादिविरुद्धश्च ।
किञ्चात्मनां व्याप्तत्वे सर्वशरीरेन्द्रियाणां सर्वदा सर्वात्मसंयुक्तत्वेन सर्वात्म-साधारण्यात् । कर्मणापि साधारणदेहादिकृतत्वेनासाधारण्यायोगात् । अहंत्वारोपादेरपि नियामकमूलसम्बन्धाद्यभावे नैयत्यायोगात् । सर्वाण्यपि शरीराणि सर्वेषां भोगायतनानि स्युरिति प्रतिकूलतर्कपराहतिः । एतेन चैत्रभोगार्थस्याङ्कुरादेः तददृष्टजन्यत्वाद् आत्म-समवेतस्य चादृष्टस्य साक्षादङ्कुराद्यसम्बन्धेनात्मद्वारा सम्बन्धस्य वाच्यत्वाद्, आत्मनो विभुत्वमिति निरस्तम् । चैत्रभोगाहेतोरप्यङ्कुरादेरात्मद्वारकादृष्टसम्बन्धेऽपि तदजन्यत्वेन तज्जन्यत्वे तस्यातन्त्रतया प्रतियोग्यनुयोगिभाववाच्यवाचकज्ञानज्ञेयादाविवादृष्टकार्ययोरपि सम्बन्धान्तरस्यैव वक्तव्यत्वात् । अस्ति हि कारीर्यदृष्टस्य वृष्ट्या सह तदुद्देशेन विहित-क्रियाजन्यत्वादिरूपः सम्बन्धः । न च ‘बुद्धेर्गुणेनात्मगुणेन चैव ह्याराग्रमात्रो ह्यवरोऽपि दृष्टः’ इति श्रुतौ बुद्धिगुणेनाराग्रमात्रत्वमात्मनो गुणेन तु विभुत्वमुक्तमिति वाच्यम् । ‘तद्यथा अणुनश्चक्षुषः प्रकाशो व्याप्त एवमेवाऽस्य पुरुषस्य प्रकाशो व्याप्तोऽणुर्ह्येवैष पुरुषः’ इति श्रुत्यनुसारेण बुद्धेर्ज्ञानस्य गुणेनावरः आत्मगुणेन त्वाऽऽराग्रमात्रः’ इति अन्वयादिति दिक् । तस्मादणुत्वादपि जीवो व्याप्तादीश्वराद्भिन्न इति । इति जीवाणुत्वम् ।। ३३ ।।
तस्मादविरोधाध्यायोक्तन्यायैर्दोषिभ्यो जीवेभ्योऽत्यन्तभिन्नस्य निर्दोषस्य ब्रह्मणः साक्षात्कारायाङ्गीभूतं निदिध्यासनमङ्गभूतं श्रवणादिकं च मुमुक्षुणा कार्यमिति सिद्धम् ।
।। इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमद्भ्रह्मण्यतीर्थपूज्यपादानां
शिष्येण व्यासयतिना सङ्गृहीते न्यायामृते द्वितीयः परिच्छेदः ।। २ ।।
अद्वैतसिद्धि:
ननु अणुत्वाज्जीवस्य कथं व्यापकादीश्वरादभेद इति चेन्न, ‘नित्यः, सर्वगतः’ ‘स वा एष महानज आत्मा’ इत्यादिश्रुत्या जीवो नाणुः, प्रत्यक्षगुणाश्रयत्वात् प्रत्यक्षत्वाच्च, घटवद्, आत्मत्वाद-भूतत्वाच्चेश्वरवदित्याद्यनुमानैश्च जीवानणुत्वसिद्धेः । विपक्षे च देहव्यापिसुखज्ञानाद्यनुप-लम्भापत्तिर्बाधिका । न च– ‘अणुर्ह्येष आत्मा यं वा एते सिनीतः पुण्यं च पापं च,
बालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ।।
इति श्रुत्या जीवोऽणुरिति वाच्यम् । व्यापकत्वप्रतिपादकबहु श्रुतिविरोधेन दुर्विज्ञेयत्वपरत्वाद् देहव्यापिगुणोपलम्भस्यान्यथयितुमशक्यत्वात् । एतेन जीवो न व्यापकः, उत्क्रान्तिमत्त्वाद्, गतिमत्त्वात्, क्रियावत्त्वाच्च, खगशरीरवद्, विपक्षे हेतूच्छित्त्यापत्तिर्बाधिकेति निरस्तम् । हेत्वसिद्धेः । न च ‘सोऽस्माच्छरीरादुत्क्रम्यामुं लोकमधिगच्छति, अमुष्मादिमं लोकमागच्छति’ इत्यादिभिः श्रुतिभिः ‘तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते’ इत्यादिस्मृतिभिश्च हेतुसिद्धिरिति वाच्यम् । उत्क्रमणादीनां बुद्धिगतानां तदुपहिते श्रुत्या प्रतिपादनात् । न च ‘नाकस्य पृष्ठे सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति, तेऽशुभमनुभूयावर्तन्ते’ इत्यादौ श्रुतौ सुखदुःखाद्यनुभवसामानाधिकरण्यस्य गतावुक्तेः कथं तस्या बुद्धिगतत्वमिति वाच्यम् । आत्मनि सुखदुःखाद्यनुभवस्यापि बुद्ध्युपाधिकत्वेन तत्सामानाधिकरण्यस्य गतौ स्वाभाविकत्वासाधकत्वात् । ननु– ‘स एनान् ब्रह्म गमयति’ इत्यादिश्रुतौ ‘तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः’ इत्यादिस्मृतौ च गतेर्मुक्तिसामानाधिकरण्योक्तेः कथमसिद्धिरिति चेन्न । अव्यापकस्यैवाव्यापकं प्रत्येव गमनम् । ब्रह्म च व्यापकं तत्प्रति गमनासम्भवेन गमनपदस्य उपाधिकृतभेदराहित्य– परतया गतिमुक्तिसामानाधिकरण्याप्रतिपादकत्वात् ।
ननु– ‘प्रद्योतेनैव एष आत्मा निष्क्रामति’ इत्यात्मनिष्ठत्वश्रुतेर्नासिद्धिः, अन्यथा मोक्षादिकमपि बुद्धेरेव स्यात्, नापि श्रुतेर्बुद्ध्युपाधिकगत्यादिविषयत्वं सम्भवति, ‘तद्यथा अनःसु समाहितमुत्सर्जद्यायादेवमेवायं शारीर आत्मा प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जत् याति’ इति स्वाभाविक-गत्याश्रयशकटदृष्टान्तोक्तेरिति चेन्न, एष इति बुद्ध्युपहितस्यैव परामर्शेन शुद्धात्मनिष्ठत्वस्य गतावनुक्तेः, मोक्षे तु बुद्ध्युपरमेण तन्निष्ठत्वस्यासम्भाविततया वैषम्यात् । सर्वसाम्यस्य दृष्टान्ततायामप्रयोजकत्वात् । तद्वलेन स्वाभाविकत्वपर्यन्तत्वस्यासिद्धेः । न च– ‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति’ इत्यादिश्रुतौ प्राणाख्यबुद्धिगतितः प्रागेव जीवे गत्युक्तेः कथं बुद्धिगत्याऽन्यथासिद्धिरिति वाच्यम् । प्राणाख्यांशेन क्रियाशक्तिशालिना पश्चाद्गतावप्यंशान्तरेण प्रथममुत्क्रमणसम्भवात् । एतेन– ‘मन उदक्रामन्मीलित इवाश्नन् पिबन्नास्तेव’ इत्यादिश्रुतौ मनउत्क्रमणेऽपि आत्मनस्तदभावश्रवणाच्च कथं तद्गत्यैव गतिमत्त्वमिति निरस्तम् । उपहितस्योपाधिनिबन्धनगतिमत्त्वे बुद्ध्यनुपहितस्य तदभावाविरोधात् । न च तथा ‘विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्’ इत्यादिश्रुतौ नामरूपविमोक्षानन्तरमपि गतिश्रवणात् कथं सा औपाधिकीति वाच्यम् । परमपुरुषस्य सर्वत्र सन्निहितत्वेन तं प्रति गमनासम्भवेन उपैतीत्यस्यापि पूर्ववदर्थान्तरपरत्वात् । अत एव ‘परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः स तत्र पर्येति’ इत्यादिश्रुतिरपि न गत्यर्था ।
ननु– बुद्धिगतेन गत्यादिना किं तदवच्छिन्नात्मनि गत्यादि जायते ? उत बुद्धिगतमेवारोप्यते ? उतोपचर्यते ? नाद्यः, घटगत्या तदवच्छिन्ने नभसि गत्यन्तरादर्शनात् । अन्यथा यतो घटस्य बुद्धेर्वा गतिः तत्राकाशस्यात्मनो वा सच्छिद्रत्वं स्यात् । अन्यत्र द्विगुणीकृत्य वृत्तिश्च स्यात् । न च प्रतिबिम्बपक्षे नोक्तदोष इति वाच्यम् । तस्य वस्त्वन्तरत्वमते उक्तदोषाभावेऽपि दर्पणाहता दृष्टिः परावृत्य स्वमुखं गृह्णातीति त्वन्मते उपाधिगत्या बिम्बे न गतिरिति प्रतिबिम्बेऽप्यस्यायोगात् । नान्त्यौ, कर्तुरवच्छिन्नस्यैतदात्मप्रदेशस्य न भोगायतनलोकप्राप्तिः, किन्तु गतया बुद्ध्याऽवच्छिन्नस्य प्रदेशान्तरस्य वेति स्वीकारे कृतहान्यादिप्रसङ्गात् कर्तुर्भोक्तुश्चावच्छिन्नस्य भिन्नत्वात् अभिन्ने वाऽनवच्छिन्ने कर्तृत्वाद्यभावादिति चेन्न । उपाधिगत्या उपहिते गतिप्रयोग औपचारिक एव । न चैवं कृतहान्याद्यापत्तिः, यदबुद्ध्यवच्छिन्नेन येनैवात्मना यत् कृतं तदवच्छिन्नेन तेनैव भोगजननात् । न ह्यात्मनो निरवयवस्य प्रदेशोऽस्ति । यत्तु अवच्छिन्नस्य कर्तुर्भोक्तुर्भेद इत्युक्तम्, तन्न । अवच्छेद्यात्मनोऽवच्छेदकबुद्धेश्चैक्येऽवच्छिन्ने भेदस्य वक्तुमशक्यत्वात् । न च ‘आत्मत्वमणुनिष्ठं द्रव्यत्वसाक्षाद्व्याप्यजातित्वात्, पृथिवीत्ववत्’ इत्यनुमानम् । व्यापकावृत्तित्वस्योपाधित्वात्, स्पर्शादि-सामानाधिकरण्यस्याप्येवं साधनप्रसङ्गाच्च । ‘जीवो न व्यापकः, भूतेतरत्वे सति परत्वासमवायिकारणा-नाधारत्वे सत्यसर्वज्ञत्वात् शब्देतरानित्यविशेषगुणाश्रयत्वात् संस्काराश्रयत्वाच्च कटवत्’ इत्यत्रानात्मत्वमुपाधिः । अनित्यविशेषगुणसंस्कारादीनामुपाधिवृत्तित्वेनासिद्धिश्च । एवं महत्त्वस्यापि सुसाधत्वं च ।
‘जीवः, अणुः, ज्ञानासमवायिकारणसंयोगाश्रयत्वात्, मनोवत्’ इत्यत्र मध्यमपरिमाणवत्त्वेन मनसो दृष्टान्तासम्प्रतिपत्तेः । जडत्वस्योपाधित्वाच्च । सर्वत्र चात्र व्यापिसुखज्ञानाद्युपलम्भः प्रतिकूलस्तर्कः । एकस्याणोरेकदा व्यवहितदेशद्वयावच्छेदा सम्भवेन ‘पादे मे सुखं शिरसि वेदना’ इत्यादियुगपदनुभव-विरोधश्च । न च गुणिनोऽणुत्वेऽपि गुणव्याप्त्या व्यापिसुखज्ञानानुमानविरोधः । गुणिव्यतिरेकेणास्या-सम्भावितत्वात् । अन्यथा घटव्यतिरेकेणापि घटरूपं स्यात् । प्रदीपादन्यत्र दृश्यमानापि प्रभा न दीपगुणः, किन्तु अनुद्भूतस्पर्शं द्रव्यान्तरम् । न च जातिसमवायादेर्धर्मितोऽन्यत्र वर्तमानत्ववदत्रापि गुणस्य बुद्धेरन्यत्रोपलम्भः स्याद् इति वाच्यम् । जातिसमवायादिवदत्रापि तर्हि व्यापकत्वप्रसङ्गात् । धर्मिणो विहायापि स्थितौ तस्या नियामकाभावात् । न च कारणनियमान्नियमः, तर्ह्यव्यवहित-समवायिकारणनियमादेव नियमे अणुमात्रदेशता दुर्वारैव । न च वह्नेरौष्ण्यं बहिर्नोपलभ्येत, समीपवृत्त्यनुद्भूतरूपतेजसस्तदित्युच्यमाने वह्नेरौष्ण्यं न सिध्येदिति वाच्यम् । बाधके सति सविधे तेजोऽन्तरकल्पनेऽपि दृश्यमानवह्नावनुभूयमानोष्णस्पर्शे बाधकाभावेन तस्मिंस्तेजोऽन्तरत्वकल्पनस्या-शक्यत्वात् । एतेन केतक्यादौ परितो गन्धानुभवाद् गुणानां गुणिनैरपेक्ष्यम् । न च तत्र केतक्यवयवानां परितः प्रसरतां ते गन्धाः, तर्हि द्रव्यक्षयप्रसङ्गात् । न चावयवान्तरप्रवेशात्तदक्षयः, स्फटिक-करण्डिकास्थकस्तूर्यादौ अवयवान्तरप्रवेशकल्पते मानाभावाद् इति निरस्तम् । समवायिनैरपेक्ष्ये कार्यस्य निराश्रयत्वापत्तौ तत्प्रत्यासत्तिनिबन्धनकारणान्तरस्याप्युच्छेदे कार्यत्वहानेरेव तत्र कल्पनायां मानत्वात् ।
यत्तु ‘नित्यः सर्वगतः स्थाणुः’ इत्यत्र ‘नित्ये सर्वगते विष्णावणुर्जीवो व्यवस्थितः’ इति स्मृत्यन्तरानुसारात् सर्वगतस्थः अणुश्चेति विग्रहः इति तन्न । ‘आकाशवत्सर्वगतश्च नित्यः’ ‘स वा एष महानज आत्मा’ इति श्रुत्यनुसार्यर्थस्यैवोचितत्वाद् अणुरिति पदच्छेदे तद्विरोधापत्तेः । यत्तु क्रमेण नानादेहसम्बन्धादणोरेव सर्वगतत्वोक्तिः इति, तन्न । अशेषवाचिसर्वशब्दसङ्कोचे मानाभावात् । यदपि प्रत्यक्षत्वादिनैवाव्यापकत्वं साधनीयमित्युक्तम्, तन्न । प्रतिकूलतर्कस्योक्तत्वाद् व्यापकत्वसाधने तस्यैवानुकूलत्वेनाप्रयोजकत्वाभावाच्च । ननु आत्मनो व्यापकत्वे ‘सर्वाणि शरीराणि सर्वस्यैव भोगायतनानि स्युः, सर्वशरीरेन्द्रियादीनां सर्वदा सर्वात्मसंयुक्तत्वात्, कर्मणामपि साधारणदेहादिकृतत्वेना-साधारण्यायोगाद्, अहन्त्वारोपादेरपि नियामकमूलसम्बन्धादेरभावेन नैयत्यायोगादिति चेन्न, तवापीश्वरस्य व्यापकत्वेन सर्वशरीराणां तद्भोगजनकत्वापत्तेः समानत्वात् । न च तददृष्टाजन्यत्वा-त्तत्संयुक्तत्वेऽपि न तत्र भोगजननम् तर्हीहापि समम् । न च कर्मणामेव कथमसाधारण्यम् ? पूर्वतत्कर्मजन्यत्वाद्, एवमनादितैव । अन्यथा ईशात्मनि तवाप्यगतेः । चैत्रभोगजनकाङ्कुरादेः तददृष्टजन्यत्वात् आत्मसमवेतस्यादृष्टस्य साक्षादङ्कुरासंबन्धाद् आत्मद्वारकसम्बन्धस्य वाच्यतायामात्मनो विभुत्वम् । न च चैत्रभोगाहेतोरप्याङ्कुरादेरात्मद्वाराऽदृष्टासंबन्धेऽपि तदजन्यत्वेन तस्यातन्त्रत्वमिति वाच्यम् । जनकादृष्टनिरूपितात्मद्वारकसन्निकर्षस्यातिप्रसङ्गाभावेन तन्त्रत्वात् । जनकता तु अदृष्टस्य फलैकोन्नेया । एवमेवोपपत्तौ प्रतियोग्यभाववाच्यवाचकज्ञानज्ञेयादाविवादृष्टकार्ययोरपि सम्बन्धान्तर
स्वीकारे मानाभावः । यत्तु कारीर्यदृष्टस्य वृष्ट्या सह तदुद्दशेन विहितक्रियाजन्यत्वादिरूपः सम्बन्धोऽस्तीत्युक्तम्, तन्न । तत्रापि यजमानात्मद्वारकसंयुक्तसमवायस्यैव जलक्षरणादिप्रयोजकत्वात् । एतच्च सर्वं पररीत्योक्तम् । स्वमते च व्यवस्था प्रागुक्तैव । तथा च ‘बुद्धेर्गुणेनात्मगुणेन चैव ह्याराग्रमात्रो ह्यवरोऽपि दृष्टः’ इति श्रुतौ बुद्धिगुणेनाराग्रमात्रत्वोक्तेः स्वाभाविकमेव विभुत्वम् । न चात्रात्मगुणेनाराग्रमात्रत्वं बुद्धेर्गुणेन चावरत्वमिति व्युत्क्रमयोजना, ‘तद्यथाणुनश्चक्षुषः प्रकाशो व्याप्तः, एवमेवास्य पुरुषस्य प्रकाशो व्याप्तः अणुर्ह्येवैषपुरुष’ इति श्रुत्यनुसारादिति वाच्यम् । व्यापकत्व बोधकानेकश्रुतिविरोधेन बुद्धेर्गुणेनेत्येतदनुसारेण चास्या एव औपाधिकाणुत्वपरत्वात्, पुरुषस्येति षष्ठ्या राहोः शिर इत्यादिवदुपचरितार्थत्वाच्च । तथा च न व्युत्क्रमेणान्वयः । तस्मादणुत्वं नात्मभेदकम् ।। इति औतसिद्धौ आत्मनोऽणुत्वभङ्गः ।। ३३ ।।
स्थितानि ग्रन्थेषु प्रकटमुपदिष्टानि गुरुभिः
गुणो वा दोषो वा न मम परवाक्यानि वदतः ।
परं त्वस्मिन्नस्ति श्रमफलमिदं यन्निजधिया,
श्रुतीनां युक्तीनामकलि गुरुवाचां च विषयः ।।
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीश्रीचरणशिष्यश्रीमधुसूदनसरस्वती-विरचितायामद्वैतसिद्धौ आत्मनिरूपणं नाम द्वितीयः परिच्छदः ।।
न्यायामृततरङ्गिणी
।। गतेः सुखदुःखाद्यनुभवसामानाधिकरण्योक्तेरिति ।। नन्वात्मनि सुखदुःखा-द्यनुभवस्याप्यौपाधिकत्वेन तत्सामानाधिकरण्यं गतेः स्वाभाविकत्वासाधकमिति चेन्न । ज्ञानत्ववत्सौषुप्तिकाज्ञानादिसाक्षित्ववत्सत्यस्यासत्यस्य वा सुखादिभोक्तृत्वादेरप्यात्मन्येव स्वीकर्तव्यत्वादित्युक्तत्वात् कर्तृत्वाध्यासभङ्गे ।। स एनानिति ।। नन्वव्यापकस्यैवाव्यापकं प्रति गमनं, ब्रह्म च व्यापकमिति कथं तत्प्रति गमनम् । मैवम् । विभोरप्याकाशादेः सर्वमूर्त क्रियाजन्यसंयोगाश्रयत्वरूपतत्प्राप्यत्वात् । व्यापकस्यापीश्वरस्याचिन्त्यशक्त्याऽणुत्वाच्च । तेन प्रद्योतेनैष इति ।। नन्वेष इति बुध्द्युपहितस्यैव परामर्शेन शुद्धात्मनिष्ठत्वं गतावनुक्तमिति तदाशङ्क्य परिहरति– न च श्रुतिरिति ।। तमुत्क्रामन्तमिति ।। न च प्राणाख्यांशेन पश्चाद्गतावप्यंशान्तरेण बुद्धेः प्रथममुत्क्रमणमिति वाच्यम् । त्वन्मते प्राणातिरिक्तस्य क्रियाशक्तियुक्तस्याभावात् ।। पुरुषमुपैतीति ।। व्यापकस्यापि प्राप्यत्वं तूक्तम् । कृतहान्यादीति ।। ननु न कृतहान्यादिप्रसङ्गः । यद्बुध्द्यवच्छिन्नेन येनैवात्मना यत्कृतं तदवच्छिन्नेन तेनैव भोजनात् । न ह्यात्मनो निरवयवस्य प्रदेशोऽस्ति । मैवम् । गतिमती बुद्धिर्यत्रात्मनि सम्बध्य कर्तारम् अकरोत्ततोऽन्यत्र गत्वा तमेवात्मानमभिलक्ष्य तत्र भेदं कल्पयित्वा तमात्मानं स्वोपहितं कृत्वा तमेवात्मानं भोक्तारं करोतीत्यत्र कृतहान्याद्युक्तेः ।। कर्तुर्भोक्तुरिति ।। नन्ववच्छेद्यात्मनोऽवच्छेदकबुद्धेश्चैक्येऽवच्छिन्नभेदो वक्तुमशक्यः । मैवम् । उक्तरीत्या गच्छन्त्या बुध्द्यावच्छिन्नस्य भिन्नत्वात् । अन्यथाऽत्मनि गत्ययोगात् । तदेतदाह– अभिन्न इति ।।
द्रव्यत्वेति ।। घटत्वादावव्यभिचाराय साक्षात्पदम् । न च व्यापकावृत्तित्वमुपाधिः । सत्तादौ साध्याव्यापकत्वात् । तस्यैव साध्यत्वाच्च ।। भूतेतरत्व इति ।। आकाशे कालदिशोरीश्वरे चाव्यभिचाराय क्रमेण पदानि ।। शब्देतरेति ।। आकाशेश्वरयोरव्यभिचाराय विशेषान्तम् । न च त्रिष्वप्यनात्मत्वमुपाधिः । धर्मिग्राहकमानसिद्धव्याप्तत्वे कालादौ साध्याव्याप्तेः । विशेषगुणसंस्काराणां चात्मवृत्तित्वं न तु मनोवृत्तित्वमतो नासिद्धिः ।। मनोवदिति ।। मनसो मध्यमपरिमाणानङ्गीकारान्न तत्र साध्याप्रसिद्धिः । न च जडत्व-मुपाधिः । त्वन्मते शुद्धात्मनो निर्विषयत्वेनाज्ञानत्वादिरूपजडत्वस्य पक्षादव्यावृत्तेः ।। जातिसमवायादेरिति ।। न च तद्वदेव गुणस्य व्याप्तिरपि स्यादिति वाच्यम् । आश्रयं विनाऽन्यत्र वृत्तौ दृष्टान्तकरणात् । प्राभाकरैर्नीलपीतादीनां व्याप्त्यङ्गीकाराच्च । स्फटिकेति ।। तस्यातिनिबिडत्वेन तत्रावयवान्तरप्रवेशस्यासम्भावितत्वात् ।। नित्यः सर्वगतेति ।। न च ‘आकाशवत्सर्वगतः, ‘स वा एष महानज आत्मा’ इत्यादिविरोधः । तस्येश्वरत्वात् ।। नानादेहेति ।। नचाशेषवाचिसर्वशब्दस्य देहपरत्वेन सङ्कोचे मानाभावः । सर्वस्यापि क्रमेण जीवदेहत्वात् ।। प्रत्यक्षत्वादीति ।। प्रत्यक्षगुणाश्रयत्वादणुत्वसाधनं यत्कृतं तदप्रयोजकम् ।। सर्वेषां भोगायतनानि स्युरिति ।। ननु तवापीश्वरस्य व्यापकत्वेन सर्वदेहानां तद्भोग जनकत्वापत्तिः समाना । मैवम् । ‘सम्भोगप्राप्तिरिति चेन्न वैशेष्यात्’ इत्यादिना सूत्रकृतै-वाचिन्त्यशक्तिमत्त्वेन सर्वगतस्यापि तस्य भोगानापत्तेरुक्तत्वात् ।। चैत्रभोगाहेतोरपीति ।। न च जनकादृष्टनिरूपितात्मद्वाराक सन्निकर्षादतिप्रसङ्गाभाव इति वाच्यम् । सम्बन्धं विना दृष्टस्य जनकत्वस्याग्रहेणान्योन्याश्रयात् ।। बुद्धेर्ज्ञानस्येति ।। न चैवं योजनायां व्युत्क्रमप्रसङ्गः । श्वेताश्वतरे बुद्धेर्गुणेनेत्यस्यानन्तरं–
वालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीव इति ज्ञेयः स चानन्त्याय कल्पते ।। इत्युक्तेः ।
अणुत्वसाधकानेकश्रुतिस्मृत्यानुकूल्यादुक्तयोजनाया युक्तत्वात् । परिच्छेदार्थमुपसंहरति– तस्मादिति ।। इति जीवाणुत्वम् ।।
न विद्याभीराभीरवगतिबिभंत्साभिरबुधां-
जिगीषाभिः किन्तु स्ववचसि शुशुत्साभिरकृषि ।
तरङ्गिण्या ख्यातां बुधजनघनस्सूक्तिसलिलैः
नयेत्पूर्णप्रज्ञोदितनिगमसिद्धान्तजलधिम् ।। १ ।।
सद्योजातजटाजपावनसरिद्गोदावरीतीरतो-
गव्यूतिर्वसतिः सतां कुलवतामम्बा पुरी तत्र ये ।
व्यासाख्या उपमन्युगोत्रजबुधास्तेष्वास्त यो मुद्गल-
स्तत्राजज्ञत ये मुरारिचरणा व्यासाभिधाना बुधाः ।। २ ।।
तेभ्योऽजायत विश्वनाथ इति यः सज्ज्ञानरत्नाकर-
स्तस्मादाविरभूत्सुरद्रुमयशा आचार्यनारायणः ।
रामाचार्य इतीरितस्तदनुजो यस्तत्ववादाम्बुधे-
रातानीत्स तरङ्गिणीमिह परिच्छेदो द्वितीयोऽपि यः ।।
।। इति श्रीमद्रामाचार्यविरचितायां न्यायामृततरङ्गिण्यां द्वितीयः परिच्छेदः ।।
न्यायामृतकण्टकोद्धारः
किञ्च जीवपरमात्मनोरभेदे जीवस्याणुत्वं न स्यात् । अभिन्नयोर्भिन्नपरिमाणत्वानु-पपत्तेरित्याह– अणुत्वाच्चेति । प्रत्यक्षेति । न च ज्ञानादीनाम् अन्तःकरणात्मत्वेनात्म-गुणत्वाभावादसिद्धो हेतुरिति वाच्यम् । अन्तःकरण गुणत्वे ‘घटो रूपवान्’ इतिवत् अन्तःकरणं ज्ञानवदिति प्रतीत्यापत्तेः, ‘अहं ज्ञानवान्’ इति प्रतीत्यभावापत्तेश्च । न च त्र्यणुके व्यभिचार इति वाच्यम् । परमाणुत्वाभावस्य साधनात् । प्रत्यक्षत्वाच्चेति । लौकिकप्रत्यक्षत्वादित्यर्थः । तस्येति । मध्यमपरिमाणस्यानित्यत्वप्रसङ्गेन निराकृतत्वात् । द्रव्यत्वेन परिमाणसिद्धौ अणुत्वमध्यमपरिमाणाभाववत्त्वे सति परिमाणवत्त्वात् परिशेषाद् विभुत्वमित्यर्थः । उक्तानुमानं श्रुत्यादिबाधितमित्याह– अणुरिति । सिनीतः बध्नीतः । ‘षिञ् बन्धने’ इति धातोः । उत्क्रमणम् ऊर्ध्वगमनम् । गतिश्च तिर्यगादिसाधारणमिति भेदः । न चासिद्धिरिति । उत्क्रान्त्यादिहेतूनामिति शेषः । स इति । ननूत्क्रमणादिमात्रं वा हेतुः, कर्मायत्तं तद्वा ? नाद्यः । ईश्वरेऽनैकान्त्यात् । न द्वितीयः । दृष्टान्ते साधनवैकल्यादिति चेन्न । द्वितीयस्यैव विवक्षितत्वात् । न च दृष्टान्तस्य साधनवैकल्यम् । खगशरीरगत्यादेरपि तदधिष्ठातृजीवकर्मायत्तत्वात् । अन्यथा मृतशरीर ऊर्ध्वगत्याद्यापत्तेः । न चाचेतनत्वमुपाधिः । विपक्षबाधकेन प्रकृतहेतोः साध्यव्याप्यतया साध्यव्याप्य-हेत्वव्यापकत्वेनोपाधेः साध्याव्यापकत्वात् । न च विपक्षबाधकमसिद्धमिति वाच्यम् । तस्य हेतूच्छित्यादिरूपस्य मूल एवोक्तत्वात् । गतेरिति ।
ननु सुखाद्यनुभवस्य बुध्युपाधिकत्वेन न गतेः स्वाभाविकत्वसाधकत्वमिति चेन्न, बुध्युपाधिकत्वं हि किं बुद्धिमात्रनिष्ठत्वमात्मनि तत्सम्बन्धादुपचर्यते, अथारोप्यते, अथवा तथा जन्यते ? नाद्यः । संसारस्य बुद्धिगतत्वेनान्यनिष्ठसंसारनिवृत्त्यर्थमात्मनः श्रवणादि-प्रयत्नवैयर्थ्यापत्तेः । न द्वितीयः । नाहं संसारीति बाधकापत्तेः । न तृतीयः । बुद्धिजन्यत्वेना-नित्यत्वेऽपि गतेः स्वाभाविकत्वसाधकत्वसम्भवात् । अनित्येनापि गन्धेन पृथिवीत्वस्य स्वाभाविकत्वसाधनात् । स एनानिति । न चाव्यापकस्याव्यापकं प्रत्येव गमनम् । ब्रह्म तु व्यापकमिति वाच्यम् । ‘ब्रह्मविदाप्नोति परम्’। ‘एतमानन्दमयमात्मानुमुपसङ्क्रामति’ इत्यादिश्रुतिषु ब्रह्मप्राप्तिरूपमोक्षोक्त्या स्थानविशेषाभिव्यक्त रूपविशेषं प्रति गमनसम्भवेन गमनस्य मुक्तिसामानाधिकरण्योपपत्तेः । ननु तथापि आत्मत्वसामानाधिकरण्येन गत्यादेरनुक्तत्वाद् असिद्धिरेवेत्यत आह– तेनेति । न चैष इति । बुध्युपाधिकपरामर्शात् न केवलात्मनिष्ठत्वमिति वाच्यम् । पूर्वं ब्रह्मज्ञानिन एव प्रक्रान्ततया विशिष्टपरामर्श-कल्पकाभावात् ।। अन्यथेति ।। आत्मनो गत्याद्यनङ्गीकारे बुद्धेरेव तदङ्गीकारे चेत्यर्थः ।। तद्यथेति ।। न चायमिति विशिष्टपरामर्श इति वाच्यम् । ‘शारीर’ इत्यनेनैव विशिष्टोक्त्या अयमित्यस्योपाध्यसंसृष्टचेतनपरत्वात् ।
ननु न शकटदृष्टान्तमात्रेण स्वाभाविकगतिसिद्धिः । गतिमात्रे दृष्टान्तसम्भवात् । विशेष-हेत्वभावादित्यत आह– तमिति । न च प्राणस्य पश्चाद् गमनेऽपि पूर्वमंशान्तरेण गमनमिति वाच्यम् । श्रुतेः पश्चाद् गमनमात्रप्रतिपादकतया पूर्वगमने प्रमाणाभावात् । अन्यथा अनुशब्दायोगात् । अत एव मन इत्यादिकमपि समाहितम् । ननूदाहृतश्रुत्यादिषु बुध्युपाधिकमेव गत्यादिकमात्मनि स्वीकर्तव्यम् । व्यापकश्रुत्यादिबाहुल्येन स्वाभाविक-गत्यनुपपत्तेः । न च व्यापक श्रुत्यादेः गौणत्वं परमात्मविषयत्वं वा स्वीकर्तव्यं गतिश्रुत्यनुरोधादिति वाच्यम् । गतिश्रुतेर्बुध्युपाधिकत्वेन सावकाशत्वादित्यत आह– किञ्चेति । अन्यथेति । अवच्छेदकगत्याऽवच्छिन्नगत्यङ्गीकार इत्यर्थः । कर्तुरिति । ननु यदुपाध्यवच्छिन्नस्य कर्तृत्वं तदुपाध्यवच्छिन्नस्यैव भोक्तृत्वाङ्गीकारात् कथं प्रकृतहान्यादिकम् ? भिन्नभिन्नोपाध्यवच्छिन्नस्य कर्तृत्वाद्यङ्गीकारे हि तत् स्यादिति चेन्न । कर्तृताप्रयोजक उपाधिः सर्वदेशे सम्बध्यते उत प्रदेशे ? नाद्यः । तथात्वे उपाधेरपि उपधेयव्यापकतया व्यापकताया आवश्यकत्वात् उपाधिगमनानुपपत्तिः । न द्वितीयः । प्रदेशस्य स्वाभाविकत्वे औपाधिकत्वे वा अवच्छेदकैक्येऽप्यवच्छेद्यस्य प्रदेशस्य भेदात् अवच्छिन्नभेद एव । अवच्छेदकभेदस्यैवा-वच्छेद्यभेदस्यापि अवच्छिन्नभेदप्रयोजकत्वात् । तथा च कथं न कर्तृभोक्त्रोर्भेदः ? कथं च न कृतहान्यादीति भावः ।
ननु प्रदेशानां भेदेऽपि आत्ममात्रस्याभिन्नत्वात् तस्यैव कर्तृत्वाद्यभ्युपगमान्न कृत-हान्यादीत्यत आह– अभिन्ने चेति । आत्ममात्रस्य च कर्तृत्वं त्वया नाङ्गीक्रियते । ‘निष्कलं निष्क्रियम्’ इत्यादिश्रुतिविरोधात् । ननु व्यापकत्व श्रुत्यनुरोधेन गतिवाक्यानामुपचरितत्वादि कल्प्यत इत्यत आह– बहूनामिति । व्यापकत्वश्रुतेः परमात्मविषयत्वेन सावकाशत्वान्न तदनुरोधेन बहुगतिवाक्यानाम् अप्रामाण्यादीति भावः ।। व्यावहारिकत्व इति ।। आत्मगते-रिति शेषः । व्यावहारिकस्य प्रातिभासिकोपाधिताया एव दृष्टत्वात् । अन्यथा स्फटिके लौहित्यमप्रातिभासिकं स्यादिति भावः । नन्वात्मव्यापकत्वस्यानुमानादिसिद्धत्वाद् व्यवहारिकस्यापि क्वचित् प्रातिभासिकोपाधित्वं कल्प्यत इत्यत आह– विस्तृतं चेति । ततश्च तत्रोक्ता अतिप्रसङ्गा द्रष्टव्याः । अनुमानादिकं चाग्रे दूष्यत इति भावः ।। केचित्त्विति । अत्र घटत्वादौ व्यभिचारवारणाय द्रव्यत्वसाक्षाद्व्याप्येति । आकाशत्वादौ तद्वारणाय जातिपदम् । न च व्यापकावृत्तित्वमुपाधिः । द्रव्यत्वादौ साध्याव्यापकत्वात् । न च स्पर्शादिसामानाधिकरण्यमप्यनुमातुं शक्यमिति वाच्यम् । अप्रयोजकत्वात् । अणुनिष्ठत्वानुमानस्य वक्ष्यमाणव्यापकत्वबाधकानुगृहीतत्वेन बलवत्त्वात् । जीवो न व्याप्त इति । स्वरूपेणेति शेषः । तेन गुणव्याप्त्याद्यङ्गीकारेण नापसिद्धान्तादीति भावः ।
भूतेतरत्वे सतीति । अत्र असर्वज्ञत्वं सर्वज्ञत्वाभावः । न तु किञ्चिज्ज्ञत्वम् । घटदृष्टान्ते साधनवैकल्यापत्तेः । व्यर्थविशेषणत्वाच्च । तथा चाकाशे व्यभिचारवारणायाद्यं, द्वितीयं च काले, तृतीयं चेश्वरे द्वितीयहेतावप्याद्यमाकाशे, द्वितीयमीश्वरे व्यभिचारवारणाय । तृतीयमपि तत्रैवेति द्रष्टव्यम् । अत्र ‘आहुः’ इत्यस्वरसोद्भावनम् । तद्बीजं तु प्रथमानुमाने जातेर्वादिनाऽनङ्गीकारादसिद्धिः । न च जातिपदं धर्ममात्रपरम् । आकाशत्वादौ व्यभिचारापत्तेः । न च तातेर्वादिनानङ्गीकारादसिद्धिः । न च जातिपदं धर्ममात्रपरम् । आकाशत्वादौ व्यभिचारापत्तेः । न च तार्किक मतानुसारेण तदिति वाच्यम् । तेनात्मनां व्यापकत्वाङ्गीकारेणापसिद्धान्तापत्तेः । द्वितीयानुमाने स्वमतानुसारेण विशेषणद्वयं व्यर्थम् । तृतीये चतुर्थे चासिद्धिः । विशेषगुणसंस्काराणामन्तःकरणनिष्ठत्वाङ्गीकारात् । पञ्चमेऽसिद्धिः । स्वमते समवायाभावे नासमवायिकारणाभावात् । मनोदृष्टान्ते साध्यवैकल्यम् । मनसः सावयवत्वेनाणुत्वाभावादित्यादि द्रष्टव्यम् । ‘तार्किकमतानुसारेणे’त्यस्य दत्तमुत्तरम् ।
नत्वात्मनोऽणुत्वानुमानम् अनणुत्वे देहव्यापिस्पर्शादिज्ञानं न स्यादिति प्रतिकूल-तर्कबाधितमित्यत आह– अणुत्वेऽपीति । ननु गुणिनं विहाय गुणस्य वृत्तेरदृष्टत्वात् कथं गुणव्याप्तिरित्यत आह– जीवस्येति । प्रदीपेति । न च न प्रभा प्रदीपगुणः । किन्तु द्रव्यान्तरमिति वाच्यम् । नियत प्रदीपानुविधानायोगात् । द्रव्यस्य द्रव्यान्तरानुविधानादृष्टेः । न चेन्द्रनीलप्रभायाः तद्गुणत्वापातः । बाधकेनेन्द्रनीलसहचरिततेजोऽन्तरगुणत्वाङ्गीकारात् । यद्वा प्रभागुणत्ववादिनं प्रत्ययं द्रष्टान्त इति न कोऽपि दोषः । न च तत्रापि प्रभाश्रय-तेजोऽन्तरकल्पनान्नायं दृष्टान्त इति वाच्यम् । तत्कल्पनस्य निर्मूलत्वात् । गुणस्य गुणिनं विहाय वृत्तेरसिद्धेः । जातीति व्यक्तिपरतन्त्रस्य व्यक्तिं विहाय वर्तने दृष्टान्तः । न च तद्वद् व्यापकत्वं स्यादिति वाच्यम् । आपादकाभावात् । तयोरपि व्यक्तिसम्बन्धिमात्रव्यापकत्वेन निरवधिकत्वाभावात् । अन्यथोत्कर्षसमापत्तेः । ननु वह्निसमीपस्थौष्ण्यं न वह्नेर्गुणः, तत्समीपस्थतेजोऽन्तरस्यैवेत्यत आह– वह्नीति । न च वह्नेर्नोद्भूतस्पर्श इति वाच्यम् । अनुभवविरोधात् ।
ननु न गुणत्वे द्रव्यक्षयः, मध्येऽवयवान्तराणामागमनादित्यत आह– स्फटिकेति । प्रत्यभिज्ञेति । अवयवान्तरानुप्रवेशकल्पनेऽवयवाभिधातेन कारणीभूतसंयोगविनाशेन द्रव्यान्तरोत्पादादिति भावः । न च प्रत्यभिज्ञा भ्रान्तिरिति वाच्यम् । घटादावपि तथात्वप्राप्तौ क्षणिकवादापत्तेः । ननु जीवानामणुत्वे ‘नित्यः सर्वगतः’ इति स्मृतिविरोध इत्यत आह– नित्य इति । न च ‘स वा एष महानज आत्मा’ इति श्रुत्यनुसार्यर्थकल्पना युक्ता । स्मृत्यपेक्षया श्रुतेः प्रबलत्वादिति वाच्यम् । तस्याः परमात्मविषयत्वेन जीवविषयत्वाभावात् । अजत्वादि तल्लिङ्गात् । अन्ये त्विति । न च सर्वशब्दसङ्कोचे मानाभावः । उक्ताणुत्व-प्रमाणस्यैव तन्नियामकत्वात् । प्रत्यक्षत्वादिति हेतुरिति । न चाणुत्वबाधकस्यैवानु-कूलतर्कत्वमिति वाच्यम् । तस्य परिहृतत्वात् । व्यापकत्वे बालकान्तरमणुत्वसाधकं तर्कमाह– किञ्चेति । न चेश्वरस्यापि सर्वगतत्वे समानोऽयं प्रसङ्ग इति वाच्यम् । ‘सम्भोग-प्राप्तेरिति चेत्’ इत्यनेन परिहृतत्वेन ब्रह्ममीमांसावार्तानभिज्ञस्येदं, प्रतिबन्दिग्रहणमित्यु-पेक्ष्यम् । एतेनेति परामृष्टं हेतुं दर्शयति– चैत्रेति । स्वजनकादृष्टनिरूपितात्मद्वारकसम्बन्ध-स्याति प्रसङ्गाभाव इति वाच्यम् । सम्बन्धाभावाददृष्टं जनकं नेत्युक्ते जनकादृष्टद्वारक-सम्बन्धस्याभिधानस्यायुक्तत्वात् । न च सम्बन्धान्तरकल्पने गौरवमिति वाच्यम् । प्रतियोग्यादिवत् प्रामाणिकत्वात् । अस्ति हीति । न च तत्रापि यजमानद्वारक एव सम्बन्ध इति वाच्यम् । तस्यातिप्रसञ्जकत्वात् । ननु यथावस्थितसम्बन्धं विहाय विपरीत-सम्बन्धकल्पने गौरवमित्यत आह– दिगिति । विभुत्वस्य बह्वणुत्वप्रतिपादकश्रुत्यादिविरोधेन प्रतिकूलानेकतर्कपराहतत्वेनायुक्तत्वादिति भावः । जीवाणुत्वसाधकस्य प्रकृतोपयोगं दर्शयति– तस्मादिति । परमात्मनस्तु व्याप्तत्वमुभयसिद्धमिति भावः । जीवेन परमात्मनोऽत्यन्त-पारमार्थिकभेदप्रतिपादनेन किं लब्धमित्यतः तद् प्रधान प्रमेयोपसंहारव्याजेनोत्तर प्रबन्धोपक्षेपोपर्योगितया दर्शयति– तस्मादिति । परमेश्वरस्य जीवादात्यन्तिकपारमार्थिक-भेदनिपुणतरं साधकसद्भावेन बाधकाभावेन च साधितत्वादित्यर्थः । साक्षात्कारायेत्यादिनोत्तर-प्रबन्धोपक्षेप इति सर्वं सुस्थम् ।
निर्दोषं जीवतोऽत्यन्तभिन्नं नरहरिं परम् ।
मुमुक्षुभिः सेवनीयं भजे पापापनुत्तये ।।
।। इति श्रीमद्रघूत्तमतीर्थनिजशिष्येण पाण्डुरङ्गि आनन्दाचार्येण
विरचितायां न्यायामृतकण्ठकोद्धारे द्वितीयः परिच्छेदः समाप्तः ।।
न्यायामृतप्रकाशः
वालाग्रेति ।। अश्वपुच्छाग्रेत्यर्थः । शतधाकल्पितस्य शतधाकृतस्यत्यर्थः ।। कर्त्तुरवच्छिन्न-स्येत्यादि ।। बुद्धिरूपोपाध्यवच्छिन्नस्यात एव कर्मकर्तुरात्मप्रदेशस्य आत्मरूपांशस्य स्वतो गत्यभावेन तस्य भोगायतन लोकान्तप्राप्तिर्नास्तीति तद्बुध्द्यवच्छेदेन कृतस्य कर्मणः फलप्रदत्वहानिः स्यात् । तथा ततः कर्तुरात्मनः (प्रका)सकाशाद्गताया बुद्धेरेव गत्यङ्गीकारात् तं विहाय गतया तया बुद्ध्याऽवच्छिन्नं यत्प्रदेशान्तरम् आत्मांशान्तरम् आत्मनो व्याप्तत्वादेव च तदेव भुङ्क्ते भोगसम्पादिकाया बुद्धेरात्मांशान्तरावच्छिन्नत्वात्तस्य भोगः स्यात् । एवं च तस्याकृताभ्यागमः स्यादित्यर्थः ।। भूतेतरत्वे सतीति ।। आकाशे कालदिशोरीश्वरे च व्यभिचारवारणाय क्रमेण पदानि ।। शब्देतरेति ।। आकाशे ईश्वरे कालदिशोश्चातिव्याप्तिपरिहाराय क्रमेण पदानि द्रष्टव्यानि ।। कटवदिति ।। कटे मध्यमपरिमाणस्य सत्वेन व्याप्तत्वाभावरूपसाध्यमस्तीति ज्ञेयम् । ज्ञानासमवायिकारणमात्ममनःसंयोगः ।। तेजोन्तरेति ।। अनुद्भूतरूपमुद्भूतस्पर्शं तेजोन्तरं वह्निसमीपे कल्पयित्वा तत्रत्य एवोष्णस्पर्श उपलक्ष्यत इत्यपि कल्पयितुं शक्यत इत्यर्थः ।। वह्नेरिति ।। परिदृश्यमानवह्नेरित्यर्थः । अनुद्भूत-रूपवह्निरेव उद्भूतरूपवह्न्युपरि पतितोऽस्ति तदीयस्पर्श एव स्पार्शने नोपलभ्यत इत्यपि कल्पयितुं शक्यत्वादित्यर्थः ।। चैत्रभोगाहेतोरपीति ।। यथाऽऽत्मनो व्याप्यत्वमङ्गीकृत्य चैत्रभोगहेतुभूतकाशी-स्थाङ्कुरादेरात्मद्वारकादृष्टसम्बन्धोऽस्ति एवमात्मनो व्याप्यत्वाच्चैत्रभोगाहेतोरपि मार्गस्थाङ्गुरादेरप्यात्म-द्वारकादृष्टसम्बन्धस्य सत्वात्तज्जन्यत्वं स्यात् । न चैतदस्तीत्येवं तस्यात्मद्वारकादृष्टसम्बन्धस्य तज्जन्यत्वेऽतन्त्रत्वादित्यर्थः ।
नन्वङ्कुरादिकं तावदात्मादृष्टजन्यं भवति आत्मनश्च व्याप्यत्वेन तद्द्वारकसम्बन्धाभावे कः सम्बन्ध इति चेत् तदुद्देशेन विहितक्रियाजन्यत्वादिरूपसम्बन्धान्तरस्यैव कल्प्यमानत्वात् । घटतदभावयोः पदपदार्थयोः घटतज्ज्ञानयोश्च सम्बन्धवदित्यर्थः । तदेव सम्बन्धान्तरं दृष्टान्तमुखेन दर्शयति– अस्ति हीति ।। आत्मनो व्याप्यत्वसाधकं श्वेताश्वेतरोपनिषद्वाक्यमाशङ्क्य दूषयति– न चेति ।। बुद्धेर्गुणेन ज्ञानेनाऽऽराग्रमात्रः अत्यणुः आत्मगुणेन परिमाणेनापरो व्याप्त इत्यन्वयः पूर्वपक्ष्यभिप्रेतः । अत्राऽऽर-शब्दो वालवाची वालाग्रमात्र इत्यर्थः । अपरशब्दश्च विभुत्ववाची । आत्मगुणेन विभुत्वमित्युत्तरत्र व्यवहारादिति ध्येयम् । अत एव तत्रोपनिषदि एतद्वाक्यादुत्तरत्रैव वालाग्रशतभागस्येति वाक्यमस्तीति द्रष्टव्यम् । एवं च ‘व्याप्ता ह्यात्मानः अणुर्ह्येवैष आत्मा’ इति श्रुत्योरविरोधोऽनेनोक्त इति द्रष्टव्यम् । त्वदुक्तप्रकारेणान्वयो न भवतीत्याह– तद्यथेति ।। आत्मगुणेन परिमाणेनाराग्रमात्रोऽणुरित्यर्थः ।। इति जीवाणुत्वविवरणम् ।। परिच्छेदार्थमुपसंहरन् उत्तरप्रमेयमुपक्षिपति– तस्मादिति ।।
।। इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन
विरचिते न्यायामृतप्रकाशे द्वितीयः परिच्छेदः ।। २ ।।
न्यायकल्पलता
‘अनुपपत्तेस्तु नाशारीरः’ ‘उत्क्रान्तिगत्यागतीनाम्’ इति सूत्रानुग्राह्यश्रुत्यादिप्रमाणमाह– अणुर्ह्येष इति ।। गतेः सुखदुःखाद्यनुभवसामानाधिकरण्योक्तेरिति ।। नन्वात्मनि सुखदुःखाद्यनुभवस्यापि बुध्युपाधिकत्वेन तत्सामानाधिकरण्यं गतौ स्वाभाविकत्वासाधकमिति । मैवम् । ज्ञानत्व-वत्सौषुप्तिकाज्ञानादिसाक्षित्ववच्च सत्यस्यासत्यस्य वा सुखादिभोक्तृत्वादेरप्यात्मन्येव स्वीकर्तव्यत्वा-दित्युक्तत्वात् कर्तृत्वाध्यासभङ्गे ।। स एनानिति ।। नन्वव्यापकस्यैवाव्यापकं प्रत्येव गमनं, ब्रह्म च व्यापकमिति कथं तत्प्रति गमनमिति चेन्न । विभोरप्याकाशादेः सर्वमूर्तक्रियाजन्यसंयोगाश्रयत्व-रूपतत्प्राप्यत्वात् । व्यापकस्यापीश्वरस्याचिन्त्यैश्वर्यशक्त्याऽणुत्वाच्च । तेन प्रद्योतेनैष इति ।। नन्वेष इति बुध्द्युपहितस्यैव परामर्शेन शुद्धात्मनिष्ठत्वं गतावनुक्तमित्याशङ्क्य परिहरति– न च श्रुतिरिति ।। तमुत्क्रामन्तमिति ।। न च प्राणाख्यांशेन पश्चाद्गतावप्यंशान्तरेण बुद्धेः प्रथममुत्क्रमणमिति युक्तम् । त्वन्मते प्राणातिरिक्तस्य क्रियाशक्तियुक्तस्याभावात् ।। पुरुषमुपैतीति ।। व्यापकस्यापि प्राप्यत्वं तूक्तम् । कृतहान्यादीति ।। ननु न कृतहान्यादिप्रसङ्गः । यद्बुध्द्यवच्छिन्नेन येनैवात्मना यत्कृतं तदवच्छिन्नेन तेनैव भोजनात् । न ह्यात्मनो निरवयवस्य प्रदेशोऽस्ति । मैवम् । गतिमति-बुद्धीत्यत्रात्मनि सम्बन्ध्य कर्तारम् अकरोत्ततोऽन्यत्र गत्वा तमेवात्मानमभिलक्ष्य तत्र भेदं कल्पयित्वा तमात्मानं स्वोपहितं कृत्वा तमेवात्मानं भोक्तारं करोतीत्यत्र कृतहान्याद्युक्तेः ।। कर्तुर्भोक्तुश्चेति ।। नन्ववच्छेद्यात्मनोऽवच्छेदकबुद्धेश्चैक्येऽवच्छिन्नभेदो वक्तुमशक्यः इति चेन्न । उक्तरीत्या गच्छन्त्या बुध्द्यावच्छिन्नस्य भिन्नत्वात् । अन्यथाऽत्मनि गत्ययोगात् । तदेतदाह– अभिन्न इति ।।
द्रव्यत्वेति ।। घटत्वादावव्यभिचाराय साक्षात्पदम् । न च व्यापकावृत्तित्वमुपाधिः । सत्तादौ साध्याव्यापकत्वात् । तस्यैव साध्यत्वाच्च ।। भूतेतरत्व इति ।। आकाशे कालदिशोरीश्वरे चाव्यभिचाराय क्रमेण पदानि ।। शब्देतरेति ।। आकाशेश्वरयोरव्यभिचाराय विशेषान्तम् । न च त्रिष्वप्यनात्मत्वमुपाधिः । धर्मिग्राहकमानसिद्धविभुत्ववति कालादौ साध्याव्याप्तेः । विशेषगुणसंस्काराणां चात्मवृत्तित्वं न तु मनोवृत्तित्वमतो नासिद्धिः ।। मनोवदिति ।। मनसो मध्यमपरिमाणानङ्गीकारान्न तत्र साध्याप्रसिद्धिः । न च जडत्वमुपाधिः । त्वन्मते शुद्धात्मनो निर्विषयत्वेनाज्ञानत्वादिरूपजडत्वस्य पक्षादव्यावृत्तेः ।। जातिसमवायादेरिति ।। न च तद्वदेव गुणस्य व्याप्तिरपि स्यादिति युक्तम् । आश्रयं विनाऽन्यत्र वृत्तौ दृष्टान्तकरणात् । प्राभाकरैर्नीलपीतादीनां व्याप्त्य(न)ङ्गीकाराच्च । स्फटिकेति ।। तस्यातिनिबिडत्वेन तत्रावयवान्तरप्रवेशस्यासम्भावितत्वात् ।। नित्यः सर्वगतेति ।। यत्तु ‘आकाशवत्सर्वगतः, ‘स वा एष महानज आत्मा’ इत्यादिविरोधः इति तन्न । तस्येश्वर-परत्वात् ।। नानादेहेति ।। न चाशेषवाचिसर्वशब्दस्य देहपरत्वेन सङ्कोचे मानाभावः । सर्वस्यापि क्रमेण जीवदेहत्वात् ।। प्रत्यक्षत्वादीति ।। प्रत्यक्षगुणाश्रयत्वादणुत्वसाधनं यत्कृतं तदप्रयोजकम् ।। सर्वेषां भोगायतनानि स्युरिति ।। ननु तवापीश्वरस्य व्यापकत्वेन सर्वदेहानां तद्भोगजनकत्वापत्तिः समाना । मैवम् । ‘सम्भोगप्राप्तिरिति चेन्न वैशेष्यात्’ इत्यादिना सूत्रकृतैवाचिन्त्यैश्वर्यशक्तिमत्त्वेन सर्वगतस्यापि तस्य जीवसमानभोगानापत्तेरुक्तत्वात् ।। चैत्रभोगाहेतोरपीति ।। न च जनकादृष्ट-निरूपितात्मद्वाराकसन्निकर्षादतिप्रसङ्गाभाव इति युक्तम् । सम्बन्धमन्तरेणादृष्टस्य जनकत्वस्या-ग्रहेणान्योन्याश्रयात् ।। बुद्धेर्ज्ञानस्येति ।। न चैवं योजनायां व्युत्क्रमप्रसङ्गः । श्वेताश्वतरोपनिषदि बुद्धेर्गुणेनेत्यस्यानन्तरं–
वालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीव इति ज्ञेयः स चानन्त्याय कल्पते ।। इत्युक्तेः ।
अणुत्वप्रतिपादकानेकश्रुतिस्मृत्यानुकूल्यादुक्तयोजनाया युक्तत्वादिति भावः । इति जीवाणुत्वम् । परिच्छेदार्थमुपसंहरति– तस्मादिति ।। इति जीवाणुत्वम् ।
समन्वयाध्यायनयैः सिद्धस्य परमात्मनः ।
अविरोधाध्यायनयैर्निर्दोषत्वं सुसाधितम् ।।
।। इति श्रीमत्तत्वविद्बिन्दुव्यासतीर्थश्रीचरणनिरूपितन्यायामृतटीकायां श्रीमत्कूर्मनृसिंहाचार्यविरचितायां न्यायाकल्पलतायां द्वितीयः परिच्छेदः ।
।। श्रीकृष्णार्पणमस्तु । श्रीकृष्णः प्रीयताम् ।।