यच्चोच्यते ब्रह्मरूपायाः स्वप्रकाशचितोऽज्ञानसाधकत्वेन तदनिवर्तकत्वेऽपि ..
२. अविद्यानिवर्तकभङ्गः
न्यायामृतम्
यच्चोच्यते ब्रह्मरूपायाः स्वप्रकाशचितोऽज्ञानसाधकत्वेन तदनिवर्तकत्वेऽपि तद्विषया वेदान्तश्रवणादि जन्याऽपरोक्षवृत्तिर्निवर्त्तिकेति । तन्न । असत्यात् सत्यसिद्धेर्निरस्त-त्वेनासत्यया वृत्त्या सत्याया निवृत्तेरसिद्धेः । अज्ञाने ‘न जानामि’ इति ज्ञप्तिरूपचि-द्विरोधस्यैवानुभवेनाज्ञप्तिरूपवृत्तिविरोधस्यासम्भवाच्च । चिता प्रकाशमाने सुखादाव-ज्ञानादर्शनाच्च । वृत्तेर्जातिविशेषेणैव तन्निवर्तकत्वे इच्छादिनिवर्त्यद्वेषादिवदज्ञानस्य सत्त्वापत्त्या शुक्त्यादिज्ञानवदर्थप्रकाशकत्वेन तन्निवर्तकत्वे वक्तव्ये चैतन्यस्यापि तत्त्वेन तन्निवर्तकत्वावश्य म्भावाच्च । न च निर्विशेषे वृत्तिश्चैतन्यादधिकप्रकाशिका । त्वन्मते ‘अयं घटः’ इत्यादिवृत्तावपि घटस्य प्रकाशेऽपि १चितोऽप्रकाशाच्च । उक्तं चैतदविद्या-विषयभङ्गे ।
किञ्च तन्निवर्तकत्वे तत्स्थित्यसहिष्णुस्थितिकत्वरूपविरोधस्य तन्त्रत्वात्कार्यस्य चोपादानेनाविरोधान्न वृत्तिः स्वोपादानाज्ञाननिवर्तिका । उपान्त्यजन्योऽन्त्यः शब्द-स्तन्निवर्तकोऽपि न तदुपादानकः । आतञ्चनादिना निवृत्तक्षीरत्वगोमयत्वाद्यवस्था एव च तत्तदवयवा दधिवृश्चिकाद्युपादानानीति न क्वापि कार्येणोपादाननाशः । एतेन वृत्तिप्रतिबिम्बिता चिदेवाविद्यानिवर्तिका, उक्तं हि–
‘तृणादेर्भासिकाप्येषा सूर्यदीप्तिस्तृणं दहेत् ।
सूर्यकान्तमुपारुह्य तं न्यायं चिति योजयेत् ।।’
इति निरस्तम् । अपरोक्षवृत्तौ सत्यां चिदप्रतिबिम्बनेना निवृत्तेरदर्शनाच्च । किञ्च निवर्तकस्य ज्ञानस्य न तावच्छुद्धात्मा विषयः । तस्यादृश्यत्वात् । उक्तं चैतद्दृश्यत्व-भङ्गे । नाप्यन्यः । तस्याध्यस्तत्वेन तज्ज्ञानस्य भ्रान्तित्वापातात् । अपि चान्त्य-ज्ञानस्य निवर्तकं स्वयमेव वा ? अन्यद्वा ? नाद्यः । प्रागभावः प्रतियोगिहेतुरिति पक्षे तन्मात्रस्याहेतुत्ववत्प्रतियोगी ध्वंसहेतुरिति पक्षेऽप्यतिप्रसङ्गेन तन्मात्रस्याहेतुत्वात् । दग्धदाह्यदहनस्यापीशेच्छादिनैव नाशात् । कतकरजस्तु न पङ्कं नाशयति । नापि स्वयं स्वेनैव नश्यति । विश्लेषमात्रदर्शनात् । नान्त्यः । शुद्धात्ममात्रस्य किञ्चिदपि प्रत्यहेतुत्वात् । तदन्यस्य च निवृत्तत्वात् । इति अविद्यानिवर्तकभङ्गः ।। २ ।।
अद्वैतसिद्धि:
अविद्यानिवर्तकं च यद्यपि न स्वप्रकाशब्रह्मरूपज्ञानमात्रम्, तस्य तत्साधकत्वात्, तथापि श्रवणादिसाध्यापरोक्ष वृत्तिसमारूढं तदेव । अत एवैतदपास्तम्– किं स्वप्रकाशचिदविद्यानिवर्तिका ? तदाकारा अपरोक्षवृत्तिर्वा ? नाद्यः, तस्या इदानीमपि सत्त्वात् । न द्वितीयः, असत्यात्सत्यसिद्धेर-योगाद् अज्ञाने न जानामीति ज्ञप्तिरूपचिद्विरोधस्यानु भवेनाज्ञाप्तिरूपवृत्तिविरोधस्यासम्भवात् । चिता प्रकाशमानसुखादावज्ञानादर्शनाच्च । किञ्च इच्छानिवर्त्यद्वेषवज्जातिनिबन्धन वृत्तिनिवर्त्यस्याज्ञानस्या-विशेषेण सत्त्वापत्तिः इति वृत्त्युपारूढचितो वा चित्प्रतिबिम्बधारिण्या वृत्तेर्वा निवर्तकत्वात् । न चासत्यायाः सत्योत्पादकत्वविरोधः, अभावस्य भावजनकत्ववदस्य सम्भवात्, प्रातिभासिकस्य व्यावहारिक सुखजनकत्वदर्शनाच्च । नापि न जानामीति ज्ञाप्तिरूपचिद्विरोधित्वानुभवविरोधः चिदसंसृष्टवृत्तेर्विरोधित्वस्यानङ्गीकारात् । यत्तूक्तं द्वेषवत् सत्यत्वमिति तन्न, अधिष्ठानतत्त्वसाक्षात्कारत्व-निबन्धननिवर्तकत्वस्य शुक्त्यादिज्ञानवदत्रापि सम्भवेन तन्निवर्त्यरूप्यवत् सत्यत्वानापत्तेः । यत्तूक्तं चरमवृत्तेर्घटादिवृत्त्या चिद्विषयत्वेऽविशेष इति, तन्न, अवच्छिन्नानवच्छिन्नविषयतया विशेषात् ।
यत्तु स्वनिवर्तकत्वे स्थितिविरोधः स्वोपादाननिवर्तकत्वं त्वदृष्टचरम् इति, तन्न, अन्यत्रादृष्टस्यापि प्रमाणबलादत्रैव कल्पनात् । तथा हि– ‘मायां तु प्रकृतिं विद्यात्’ इत्यवगतमायोपादानकत्वस्याप्यात्म-तत्त्वसाक्षात्कारस्य ‘तरति शोकमात्मवित् सोऽविद्याग्रन्थिं विकिरतीह सोम्य’ इत्यादिना तन्निवर्तकत्वस्य च प्रमितत्वात् । वृत्तिप्रतिबिम्बतचितो निवर्तकत्वे तु नोक्तवचसः शङ्कापि । तदुक्तम्–
‘तृणादेर्भासिकाप्येषा सूर्यदीप्तिस्तृणं दहेत् ।
सूर्यकान्तमुपारुह्य तन्न्यायं चिति योजयेत्’ ।।
न च अपरोक्षवृत्तौ सत्यां चिदप्रतिबिम्बनिबन्धननिवृत्ति विलम्बादर्शनात् न विशिष्टे निवर्तकतेति वाच्यम् । शुद्धजडस्य शुद्धचितश्च जडतया तद्भासकतया चाज्ञानानिवर्तकतया विशिष्टे निवर्तकताया आवश्यकत्वात् । यत्तु निवर्तकं ज्ञानमपि न शुद्धविषयकम्, तस्यादृश्यत्वात् । नापि विशिष्टविषय-कम् । तस्याध्यस्तत्वेन भ्रमत्वापत्तेः इति, तन्न, उपहितस्य विषयत्वेऽपि उपाधेरविषयत्वेनाभ्रमत्वात् । यत्तु अन्त्यस्य ज्ञानस्य किं निवर्तकम् ? स्वयम् ? अन्यद्वा ? नाद्यः, अन्यनिरपेक्षप्रतियोगिनो ध्वंसजनकत्वे क्षणिकत्वापत्तेः, दग्धदारुदहनस्यापि ईश्वरेच्छादिनैव नाशात् । कतकरजस्तु न पङ्कं नाशयति, नापि स्वम्, विश्लेषमात्रदर्शनात् । नान्त्यः । शुद्धात्मनः किञ्चिदपि प्रत्यहेतुत्वात्, तदन्यस्य च नि(वृत्त)वर्त्यत्वाद् इति, तन्न, तन्तुनाशस्य पटनाशप्रयोजकत्वदर्शनेन स्वोपादानाविद्यानाशस्यैव तन्नाशकत्वात् । न च अविद्यानाशे तदुपलक्षितात्मा वा ? वृत्तिर्वा ? पूर्वत्र शुद्धस्याहेतुत्वम्, द्वितीये प्रतियोगिमात्रस्यैव नाशकतापर्यवसानमिति वाच्यम् । उभयथाप्यदोषाद्, वृत्तिमादायैव ब्रह्मण उपहितत्वेन शुद्धत्वाभावात् । प्रतियोगिनः प्रतियोगित्वेन नाशकतायामितरानपेक्षत्वे हि क्षणिकत्वम्, रूपान्तरावच्छेदेन यत् कारणं तस्यापेक्षणे न तदिति उपादाननाशत्वावच्छिन्नस्य स्वस्यैव क्षणिकत्वाना-पादकं नाशकत्वं स्यात् । द्वितीयकारणनिरपेक्षप्रतियोगिनः प्रतियोगित्वोपादाननाशत्वरूपद्वयावच्छिन्नस्य नाशकत्वोपपत्तेः । वस्तुतस्तु अविद्यानिवृत्तेर्वृत्तिरूपतया न निवर्तकखण्डनावकाशः । वृत्तिनिवृत्ते-रात्मरूपतया न तज्जनकखण्डनावकाशोऽपीति सर्वमवदातम् ।। इत्यद्वैतसिद्धौ अविद्यानिवर्तक-निरूपणम् ।। २ ।।
न्यायामृततरङ्गिणी
असत्यादिति ।। कार्यकारणयोः समसत्ताकत्वात् । एतेन भावादभावस्येवासत्यात्सत्य-स्योत्पत्तिरिति परास्तम् । ननु चिन्मात्रं निर्विशेषात्मप्रकाशकमतो नाज्ञाननाशकमित्यत आह– न च निर्विशेष इति ।। ननु चैतन्येऽज्ञानसहभावदर्शनाविरोधित्वमित्याशङ्क्य निवृत्तावपि तत्सहभावोऽस्तीत्याह– अयमिति ।। उक्तं चैतदिति ।। तदज्ञाननाशकत्वे तद्विषयकत्वं तन्त्रं न तु तदन्याविषयकत्वाविशेषितं तत् । घटपटसमूहालम्बनाद्धटा-ज्ञाननिवृत्तिर्न स्यात् । अत एव घटादिवृत्तेश्चरमवृत्तेश्चावच्छिन्नानवच्छिन्नविषयतया विशेष इति कस्यचित्प्रलपितमपास्तम् । त्वन्मते प्रत्युत वृत्तेरज्ञानविरोधित्वम् अनुपपन्नमित्याह– तन्निवर्तकत्वे इति ।। ‘तरति शोकमात्मवित् सोऽविद्याग्रन्थिं विकिरतीह सोम्य’ इत्यादि-श्रुतिस्त्वज्ञानानुपादानकवृत्तिपक्षेऽप्युपपन्ना । आतञ्चनं क्षीरे दध्यादिप्रक्षेपः ।। एतेनेति ।। चिन्मात्रस्यैवाज्ञानविरोधित्वे वक्तव्ये विशिष्टस्य तत्कल्पने मानाभावेनेत्यर्थः । ननु वृत्तिमात्रसत्त्वे चिन्मात्रसत्त्वे वाऽज्ञानानिवृत्तिरेव तत्र मानमित्यत आह– अपरोक्षेति ।।
वृत्तिर्वा तत्प्रतिबिम्बितचैतन्यं वा निवर्तकमस्तु । तथापि तद्विषयो दुर्निरूप इति न तस्य ज्ञानत्वमित्यभिप्रेत्याह– किञ्चेति ।। नन्वात्मनो वृत्तिविषयत्वेऽपि चिदविषयत्वा-ददृश्यत्वमुपपत्स्यत इत्यत आह– उक्तं चैतदिति ।। घटादावपि वृत्तिभिन्नदृशोऽसिद्धि-रित्युक्तम् । वृत्तेरज्ञाननिवर्तकत्वे तन्निवर्तकस्याभावात्तदनिवृत्त्यापत्त्या चित एवाज्ञाननिवर्तकत्वं वाच्यम् । तत्र चोक्ता दोषा इत्यभिसन्धायाह– अपि चेति ।।
अतिप्रसङ्गेनेति ।। क्षणिकत्वापत्तिरूपेण ।। शुद्धेति ।। ननु वृत्तिमादायैव ब्रह्मण उपहि-तत्वेन शुद्धत्वाभाव इति चेन्मैवम् । तथा सति वृत्तेः शुद्धब्रह्मविषयत्वं न स्यात् । वृत्त्युपधानमात्रेण ब्रह्मणः सविशेषत्वात् । नन्वविद्यानिवृत्तिरूपं द्वितीयं कारणमस्तीत्यत आह– तदन्यस्येति ।। तस्यात्मान्यत्वेन निवृत्तत्वात् । आत्ममात्रत्वे तूक्तदोषादहेतुत्वम् । नन्वदिद्यानिवृत्तिर्वृत्तिरूपैव न च वृत्तिनिवृत्तिं प्रति द्वितीयहेतोरलाभः । अवच्छेदभेदेन निवृत्तेरेव द्वितीयहेतुत्वात् । वृत्तिर्हि स्वनिवृत्तिं प्रति प्रतियोगित्वेनोपादाननिवृत्तित्वेन हेतुः । अत एव च नोक्तक्षणिकत्वमपि कारणस्वरूपाभेदेऽप्येकस्यैव द्विरूपेण हेतुत्वात् । वृत्तिर्हि स्वनिवृत्तिं प्रति स्वात्मरूपैव । मैवम् । कार्यस्य स्वोपादानविरहरूपत्वादर्शनात् । न चेहैव तत्कल्पना । अन्यथासिद्धेः । प्रागभावस्य घटं प्रत्यनुपादानत्वात् । वृत्तिनिवृत्तावप्यात्म-रूपत्वादिविकल्पप्रसराच्च । अविद्यानिवृत्तेरेवात्ममात्रत्वस्य वक्तुमुचितत्वाच्च । तस्माद्य-त्किञ्चिदेतत् ।। अविद्यानिवर्तकभङ्गः ।। २ ।।
न्यायामृतकण्टकोद्धारः
अज्ञाननिवृत्तिरूपमोक्षस्वरूपं निरस्य निवर्तकाभावाच्चाज्ञाननिवृत्तिरूपमोक्षो न सम्भवतीति वक्तुं परोक्तम् अनुवदति– यच्चेति ।। असत्यादिति ।। न च नासत्याया वृत्तेरज्ञाननिवर्तकत्वम् । किन्तु वृत्तिप्रतिबिम्बितचैतन्यमेव निवर्तकम् । तच्च सत्यमेवेति सत्यस्य निवर्तकत्वमिति वाच्यम् । अत्र हि किं चिन्मात्रस्य निवर्तकता ? उत प्रतिबिम्बन-विशिष्टस्य । नाद्यः । तथा सति तस्य सर्वदा सत्त्वेनाज्ञानं कदाऽपि न स्यात् । निर्विशेषस्य निवर्तकत्वायोगाच्च । न द्वितीयः । विशिष्टस्य मिथ्यात्वेन मूलोक्तदूषणापरिहारात् । चिद्रूपज्ञानस्याज्ञाननिवर्तकत्वानभ्युपगमः किं तयोर्विरोधाभावात् ? उताज्ञप्तिरूपत्वात् ? नाद्यद्वितीयावित्याह– अज्ञान इति ।। नन्वयं विरोधानुभवो वृत्तिविषय एवेत्यत उक्तम् अज्ञाप्तिरूपेति ।। ‘सांख्यवेदान्तिनां तु करणव्युत्पत्त्या बुद्धिवृत्तिर्ज्ञानं’ इति विवरणोक्तेरिति भावः । किञ्च वृत्तेरज्ञाननिवर्तकता किं जातिविशेषेण ? किं वाऽर्थप्रकाशत्वेन । नाद्य इत्याह– वृत्तेरिति । द्वितीयं प्रत्याह– शुक्त्यादीति ।। तत्वेन अर्थप्रकाशकत्वेन । ननु वृत्तेश्चैतन्या-दधिकप्रकाशत्वादज्ञाननिवर्तकत्वमित्यत आह– न चेति ।। तथा सति निर्विशेषविषयत्वं न स्यादिति भावः । ननु वृत्तेश्चैतन्यानधिकप्रकाशकत्वेऽपि चैतन्यप्रकाशत्वादज्ञान-निवर्तकत्वमित्यत आह– त्वन्मत इति ।। ननु न चैतन्यस्याज्ञाननिवर्तकत्वम् । अज्ञानस्य ज्ञानकरणविरोधित्वेन चैतन्याविरोधित्वादित्यत आह– उक्तं चैतदिति ।। तथा सति न जानामीति ज्ञप्तिविरोधित्वेन प्रतीयमानस्याज्ञानान्तरत्वापत्तिरित्याद्युक्तमित्यर्थः ।
किञ्च वृत्तेरज्ञानोपादानकत्वान्न तयाऽज्ञाननिवृत्तिर्युज्यत इत्याह– किञ्चेति ।। नन्वन्त्यशब्देनोपान्त्यनिवृत्तिवद् वृत्त्याऽप्यज्ञाननिवृत्तिरस्त्वित्यत आह– उपान्त्येति ।। तथाऽप्युपादेयदधिवृश्चिकादिना क्षीरगोमयादिनिवृत्तिदर्शनात् प्रकृतेऽपि तथाऽस्त्वित्यत आह– आतञ्चनादिनेति ।। एतनेति ।। असत्येन सत्यनिवृत्तेरदर्शनेनत्यर्थः । किञ्च चितः प्रतिबिम्बनं हि तदा कल्पनीयं यद्यपरोक्षवृत्तौ सत्यामपि चित्प्रतिबिम्बाभावे नाज्ञाननिवृत्ति-र्क्वापि दृष्टा स्यात् । न चैवमित्याह– अपरोक्षेति ।। विषयाभावाच्च न वृत्तेरज्ञाननिवर्त-कत्वमित्याह– किञ्चेति ।। अतिप्रसङ्गेनेति ।। प्रतियोगिमात्रस्य ध्वंसजनकत्वे प्रतियोग्युत्पत्तिक्षण एव ध्वंसः स्यादित्यर्थः । न च तन्तुनाशे पटनाशप्रयोजकत्वदर्शनेन स्वोपादानाविद्यानाशस्यैव तन्नाशकत्वमिति वाच्यम् । दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यात् । तन्तुपटयोर्विरोधाभावेनोपादानोपादेय भावसम्भवेन तन्नाशस्य तन्नाशकत्वेऽप्यज्ञानान्त्यज्ञानयो-र्विरोधेनान्त्यज्ञानेनाज्ञाननिवृत्तेश्चोपादानोपादेयभावासम्भवेनाविद्या नाशस्यान्त्यज्ञाननाशकत्वा-योगात् अविद्यानाशस्यैवान्त्यज्ञाननाशकत्वे तस्य मिथ्यात्वं न स्यात् । ज्ञाननिवर्त्यत्वा न्यथाऽनुपपत्तेरेव मिथ्यात्वप्रयोजकत्वात् । न चाविद्यानिवृत्तेर्निवृत्तिरूपतया न निवर्तकखण्ड-नावकाशः । वृत्ति निवृत्तेरात्मरूपतया न तज्जनकखण्डनावकाश इति वाच्यम् । वृत्तिनिवृत्ते-र्जन्यत्वेनात्मस्वरूपत्वासम्भवात् । वृत्ति निवृत्तेः सदा सत्त्वे मोक्षवृत्त्युत्पादार्थं वेदान्त-श्रवणाद्यायासवैय्यर्थ्यं चेति दिक् । इति अविद्यानिवर्तकभङ्गः ।। २ ।।
न्यायामृतप्रकाशः
असत्यादिति ।। कार्यकारणयोः समसत्ताकत्वादित्यर्थः । ननु चिन्मात्रं निर्विशेषात्मप्रकाशकम् । अतो नाज्ञाननाशकमित्यत आह– न च निर्विशेष इति ।। ननु चैतन्येऽज्ञानसहभावदर्शनाद-विरोधित्वमित्याशङ्क्य वृत्तावपि तद्भावोऽस्तीत्याह– अयमिति ।। उक्तं चैतदिति ।। तदज्ञान-निवर्तकत्वे तद्विषयकत्वं तन्त्रम् । न तु तदन्यविषयकत्वाविशेषितं तत् । अन्यथा घटपटाविति समूहालम्बनाद्धटाज्ञाननिवृत्तिर्न स्यादित्युक्तमित्यर्थः । त्वन्मते प्रत्युत वृत्तेश्चरमज्ञानविरोधित्वमनुप-पपन्नमित्याह– किञ्चेति ।। तन्निवर्तकत्व इति ।। ‘तरति शोकमात्मवित् सोऽविद्याग्रन्थिं विकरति ह सोम्य’ इत्यादिश्रुतिस्तु अज्ञानानुपादानकवृत्तिपक्षेऽप्युपपन्नेति ध्येयम् । आतञ्चनं क्षीरे दध्यादिप्रक्षेपः ।। एतेनेति ।। चिन्मात्रस्यैवाज्ञाननिवर्तकत्वे वक्तव्ये विशिष्टस्य तत्कल्पने मानाभावेनेत्यर्थः । ननु वृत्तिमात्रसत्त्वे चिन्मात्रसत्त्वे वाऽज्ञानानिवृत्तिरेव तत्र मानमित्यत आह– अपरोक्षेति ।। वृत्तिर्वा तत्प्रतिबिम्बितं चैतन्यं वा निवर्तकमस्तु तथापि तद्विषयो दुर्निरूप इति न तस्य ज्ञानत्वमित्यभिप्रेत्याह– किञ्चेति ।। ननु चात्मनो वृत्तिविषयत्वेऽपि चिदविषयत्वाददृश्यत्वमुपपत्स्यत इत्यत आह– उक्तं चैतदिति ।। घटादावपि वृत्तिभिन्न दृशोऽसिद्धिरित्युक्तमित्यर्थः । वृत्तेरज्ञाननिवर्तकत्वे तन्निवर्तकस्या-न्यस्याभावेन तदनिवृत्त्यापत्त्या चित एवाज्ञाननिवर्तकत्वं वाच्यम् । तत्र चोक्तदोषा इत्यभिसन्धायाह– अपि चेति ।। अतिप्रसङ्गेनेति ।। क्षणिकत्वापत्तिरूपेणेत्यर्थः । ननु–
‘वेणुसङ्घर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम् ।
एवं गुणव्यत्ययजा वृत्तिः शाम्यति तद्यथा’ ।। इति ।
तत्राह– दग्धेति ।। दाह्यं दग्धं येन दहनेन तस्यापीत्यर्थः । तत्रापि स्वमात्रनिवर्त्यत्वं न सम्मत-मित्याह– ईशेच्छेति ।। ‘न ऋते त्वत्क्रियते किञ्चनारे’ इति श्रुतेः ‘व्यतिरेकानवस्थितेश्चानपेक्षत्वात्’ इति सूत्राच्चेति भावः । नन्वथापि कतकरजोवदुपपद्यत इत्याशङ्काया अपि ईश्वरेच्छादिनैव नाशादित्युक्तरीत्या परिहारेऽपि विशेषं वक्तुमाह– कतकरजस्त्विति ।। चिल्लबीजेत्यपभ्रष्टभाषा ।। नापीति ।। ईशेच्छादिनैव नाशादित्यर्थः । कुतः पङ्कं न नाशयतीत्यत आह– विश्लेषेति ।। जलमिश्रितपङ्कं कतकरजःसम्बन्धेन प्रशिथिलावयवं सत् जलं विहाय जलाधोभाण्डमध्येऽवस्थितं दृश्यते अतो न पङ्कं स्वरूपेण नाशयतीत्यर्थः । अन्त्यज्ञाननिवर्तकत्वेनोच्यमानमन्यत् शुद्धात्ममात्रं तदन्यद्वा । नाद्य इत्याह– शुद्धेति ।। न द्वितीय इत्याह– तदन्यस्येति ।। निवृत्तत्वादिति ।। वृत्त्यैव निवृत्तत्वेन वृत्तिनिवर्तकत्वासम्भावादित्यर्थः ।। अविद्यानिवर्तकभङ्गविवरणम् ।। २ ।।
न्यायकल्पलता
अपरोक्षवृत्तिरिति ।। वृत्त्युपारूढा चित्, चित्प्रतिबिम्बधारिणी वृत्तिर्वेत्यर्थः ।। असत्यादिति ।। कार्य कारणयोः समसत्ताकत्वात् । एतेन भावादभावस्येवासत्यात्सत्यस्योत्पत्तिरस्त्विति निरस्तम् । ननु चिन्मात्रं निर्विशेषात्मप्रकाशकम् अतो नाज्ञाननाशकमित्यत आह– न च निर्विशेष इति ।। ननु चैतन्येऽज्ञानसहभाव दर्शनादविरोधित्वमित्याशङ्क्य (नि)वृत्तावपि तत्सहभावोऽस्तीत्याह– अयमिति ।। उक्तं चैतदिति ।। तदज्ञाननाशकत्वे तद्विषयकत्वं तन्त्रं न तु तदन्याविषयकत्वाविशेषितं तत् । घटपटाविति समूहालम्बनाद्धटाज्ञाननिवृत्तिर्न स्यात् । अत एव घटादिवृत्तेश्चरमवृत्तेश्चा-वच्छिन्नानवच्छिन्नविषयतया विशेष इति कस्यचित्प्रलपितमपास्तम् । त्वन्मते वृत्तेरज्ञानविरोधित्वम् अनुपपन्नमित्याह– किञ्चेति ।। तन्निवर्तकत्वे इति ।। ‘तरति शोकमात्मवित् सोऽविद्याग्रन्थिं विकिरतीह सोम्य’ इत्यादिश्रुतिस्त्वज्ञानानुपादानकवृत्तिपक्षेऽप्युपपन्ना । आतञ्चनं क्षीरे दध्यादिप्रक्षेपः ।। एतेनेति ।। चिन्मात्रस्यैवाज्ञानविरोधित्वे वक्तव्ये विशिष्टस्य तत्कल्पने मानाभावेनेत्यर्थः । ननु वृत्तिमात्रसत्त्वे चिन्मात्रसत्त्वे वाऽज्ञानानिवृत्तिरेव तत्र मानमित्यत आह– अपरोक्षेति ।।
अज्ञाननिवृत्तेश्चित्प्रतिबिम्बनव्यतिरेकप्रयुक्तव्यतिरेकाप्रतियोगित्वादित्यर्थः । वृत्तिर्वा तत्प्रतिबिम्बित-चैतन्यं वा निवर्तकमित्यङ्गीकर्तुम् अनुचितम् । यतस्तद्विषयो दुर्निरूप इति न तस्य ज्ञानत्वमित्यभि-प्रेत्याह– किञ्चेति ।। नन्वात्मनो वृत्तिविषयत्वेऽपि चिदविषयत्वाददृश्यत्वमुपपत्स्यत इत्यत आह– उक्तं चैतदिति ।। घटादावपि वृत्तिभिन्नदृशोऽसिद्धिरित्युक्तम् । वृत्तेरज्ञाननिवर्तकत्वे तन्निवर्तकस्या-भावात्तदनिवृत्त्यापत्त्या चित एवाज्ञाननिवर्तकत्वं वाच्यम् । तत्र चोक्ता दोषा इत्यभिसन्धायाह– अपि चेति ।। अतिप्रसङ्गेनेति ।। क्षणिकत्वापत्तिरूपेण, ईशेच्छा दिनैवेति ।।‘न ऋते त्वत्क्रियते किञ्चन’ इति श्रुतेः, ‘द्रव्यं कर्म च कालश्च’ इत्यादिस्मृतेश्चेति भावः ।। शुद्धेति ।। न च वृत्ति-मादायैव ब्रह्मण उपहितत्वेन शुद्धत्वाभाव इति युक्तम् । तथा सति वृत्तेः शुद्धब्रह्मविषयत्वाभावापातात् । वृत्त्युपधानमात्रेण ब्रह्मणः सविशेषप्रसङ्गाच्च । नन्वविद्यानिवृत्तिरूपं द्वितीयं कारणमस्तीत्यत आह– तदन्यस्य चेति ।। तस्यात्मान्यत्वेन निवृत्तत्वात् । आत्ममात्रत्वे तूक्तदोषादहेतुत्वम् । नन्वविद्या-निवृत्तिर्वृत्तिरूपैव । न च वृत्तिं प्रति द्वितीयहेतोरभावः । अवच्छेदभेदेन निवृत्तेरेव द्वितीयहेतुत्वात् । वृत्तिर्हि स्वनिवृत्तिं प्रति प्रतियोगित्वेनोपादान निवृत्तित्वेन हेतुः । द्वितीयकारणनिरपेक्षप्रतियोगिनः प्रतियोगित्वोपादाननाशत्वरूपद्वयावच्छिन्नस्य नाशकत्वोपपत्तेः । अत एव च नोक्तक्षणिकत्वमपि कारणस्वरूपाभेदेऽप्येकस्यैव द्विरूपेण हेतुत्वात् । वृत्तिनिवृत्तेरात्मरूपतया न तज्जनकखण्ड-नावकाशोऽपीति । मैवम् । कार्यस्य स्वोपादानविरहरूपत्वादर्शनात् । न चेहैव तत्कल्पना । अन्यथासिद्धेः । प्रागभावस्य घटं प्रत्यनुपादानत्वात् । वृत्तिनिवृत्तावप्यात्मरूपत्वादिविकल्पप्रसराच्च । अविद्यानिवृत्तेरेवात्ममात्रत्वस्य वक्तुमुचितत्वाच्च । तस्मादसारमेतदित्युक्तमवदातम् ।।
।। इति अविद्यानिवर्तकभङ्गः ।। २ ।।