न च ‘अंशो ह्येष परमस्य’ ‘पादोऽस्य विश्वा भूतानि’ इति श्रुतौ

३१. अंशत्वेनैक्यसिद्धिभङ्गः

न्यायामृतम्

न च ‘अंशो ह्येष परमस्य’ ‘पादोऽस्य विश्वा भूतानि’ इति श्रुतौ, ‘ममैवांशो जीवलोके जीवभूतः सनातनः’ इत्यादिस्मृतौ ‘अंशो नानाव्यपदेशात्’ इति सूत्रे चांशत्वोक्तेरैक्यम् । ‘अयं ज्येष्ठस्यांशः, अयं तु कनिष्ठस्यांशः, चैत्रस्य चतुर्थांशबलो मैत्रः, अनर्घ्यस्यास्य रत्नस्यायं रत्नाभासः सहस्रांशः’ इत्यादिवत् मार्गविन्यस्तचैत्र-पादाकृतौ चैत्रपाद इतिवच्च भेदेनैवोपपत्तेः । त्वन्मतेऽपि ब्रह्म प्रति जीवस्यांशत्वं न तावदारम्भकत्वम्, ब्रह्मणोऽनादित्वात् । नापि खण्डत्वम्, अच्छेद्यत्वात् । नापि समुदायित्वम्, समुदायस्य समुदाय्यनन्यत्वेन व्यवहारदशायामपि संसारिजीवान्यशुद्ध-ब्रह्माभावापातात् । नापि भिन्नाभिन्नद्रव्यत्वम्, अनङ्गीकारात् । नापि प्रदेशत्वम्, खण्डपटस्य पटं प्रतीव निष्प्रदेशं ब्रह्म प्रत्यकल्पितस्य तस्यायोगात् । नापि घटाकाशस्याकाशं प्रतीव कल्पितप्रदेशत्वम्, प्रतिबिम्बपक्षे तदयोगात् । स्वतो निरंशे औपाधिकांशायोगस्योक्तत्वाच्च । नाप्यत्यन्ताभिन्नत्वम्, तत्रांशशब्दाप्रयोगात्, पटाद्भिन्नेऽप्येकस्मिन् तन्तौ पटांशत्वव्यवहाराच्च । तस्मात् तत्सदृशत्वे सति ततो न्यूनत्वं जीवस्यांशत्वं न तु तदेकदेशत्वम् ।

अभिन्नांशास्तु मत्स्याद्यास्तेजसः कालवह्निवत् ।

जीवा भिन्नांशकास्तत्र तेजसः प्रतिबिम्बवत् ।। इति स्मृतेः ।

किञ्च त्वन्मते जीवस्यांशत्वं किं शुद्धचैतन्यं प्रति ? ईश्वरं प्रति वा ? नाद्यः, ‘पादोऽस्य विश्वा भूतानि’ इति श्रुताविदंशब्देन सहस्रशीर्षत्वादिविशिष्टप्रकृतेश्वरस्य ‘ममैवांशः’ इति स्मृतौ चेश्वरप्रयुक्तास्मच्छब्देनैश्वरस्यैवोक्तेः । नान्त्यः, त्वन्मते ईश्वरस्याप्युपहितत्वेन घटाकाशं प्रति करकाकाशस्येवेश्वरं प्रति जीवस्यांशत्वायोगात् । न च मठाकाश एव पुनर्घटेनेवेश्वरोपाधिनाऽवच्छिन्नमेव चैतन्यं पुनर्जीवोपाधिनाऽ-वच्छिद्यते । तथात्वे हि मुक्तस्य शुद्धब्रह्मत्वं न स्यात् । तस्मात्त्वन्मतेऽपि न मुख्यांशत्वम् । अत एव त्वयापि भाषितम्– ‘अंश इवांशः, न हि निरवयवस्य मुख्यांशः सम्भवति’ इति । एवं च–

शतांशश्चन्द्रबिम्बस्य गुरुबिम्बं यथा तथा ।

भेदेऽपि न्यूनतामात्राज्जीवो ब्रह्मांश उच्यते ।।

तस्मान्नांशत्वेनैक्यसिद्धिः ।। ।। इति अंशत्वेनैक्यसिद्धिभङ्गः ।। ३१ ।।

अद्वैतसिद्धि:

पादोऽस्य विश्वा भूतानि’ इति श्रुतौ ‘ममैवांशो जीवलोके जीवभूतः सनातनः’ इति स्मृतौ चांशत्वव्यपदेशादपि जीवब्रह्माभेदसिद्धिः । यद्यपि ब्रह्म प्रति जीवस्यांशत्वं न तावदारम्भकत्वम्, ब्रह्मणोऽनादित्वात् । नापि खण्डत्वम्, अच्छेद्यत्वात् । नापि समुदायित्वम्, समुदायस्य समुदाय्यनन्यत्वेन व्यवहारदशायामपि संसार्यन्यशुद्धब्रह्माभावापातात् । नापि भिन्नाभिन्नद्रव्यत्वम्, अनङ्गीकारात् । नापि पटं प्रति खण्डपटस्येव प्रदेशत्वम्, निष्प्रदेशब्रह्म प्रति कल्पनां विना तदयोगात् । तथापि घटाकाशस्य महाकाशं प्रतीव कल्पितप्रदेशत्वरूपमंशत्वं जीवस्यावच्छेदपक्षे सम्भवति । स्वतो निरंशेऽपि औपाधिकांशो यथा युज्यते तथोक्तं पुरस्तात् । न तु सदृशत्वे सति ततो न्यूनत्वम् । स्थूलपटं प्रति सूक्ष्मपटस्याप्यंशत्वापत्तेः । वस्त्वेकदेशे मुख्यस्यांशशब्दस्य स्वतो निरंशेऽपि कल्पितैकदेशे प्रयोगस्यार्थान्तरे प्रयोगकल्पनापेक्षयाऽभ्यर्हितत्वात् । ‘अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके’ इति सूत्रे ‘सोऽन्वेष्टव्यः स विजिज्ञासितव्यः, एतमेवं विदित्वा मुनिर्भवति य आत्मनि तिष्ठन्’ इत्यादिभेदव्यपदेशस्य ‘ब्रह्म दाशा ब्रह्म दासा ब्रह्मेमे कितवा उत’ इत्याथर्वणमन्त्रे अभेदव्यपदेशस्य चोदाहृतत्वाच्चोक्तार्थपरिग्रहस्योचितत्वात् । आत्यन्तिकभेदगर्भार्थान्तरस्वीकारे चैतत्सूत्रविरोधापत्तेः । कुत्रचिदन्यत्र प्रयोगमात्रेण सर्वत्रैतत्कल्पने बहुविप्लवापत्तेश्च । अत एव ‘ननु जीवस्य शुद्धचैतन्यांशत्वं वा ? ईश्वरांशत्वं वा ? पादोऽस्येत्यनया श्रुत्या बोध्यम् ? नाद्यः, पादोऽस्य विश्वा भूतानीति श्रुताविदंशब्देन सहस्रशीर्षत्वादिविशिष्टप्रकृतेश्वरस्य, ममैवांश इति स्मृतौ चेश्वरे प्रयुक्तास्मच्छब्देनेश्वरस्यैवोक्तेः । नान्त्यः, त्वन्मते ईश्वरस्याप्युपहितत्वेन घटाकाशं प्रति करकाकाशस्येवेश्वरं प्रति जीवस्यांशत्वायोगात् । न च गृहाकाश एव पुनर्घटेनेवेश्वरोपाधिनाऽवच्छिन्नमेव चैतन्यं पुनर्जीवोपाधिनावच्छिद्यत इति वाच्यम् । तथात्वे हि मुक्तस्य शुद्धब्रह्मत्वं न स्यात्, तस्मात्त्वन्मतेऽपि न मुख्यमंशत्वम्, नाप्यौपाधिकं वक्तुं शक्यम्, अतो मदुक्तप्रकार एवादरणीय इति निरस्तम् । अर्थान्तरपरिग्रहे विरोधस्योक्तत्वात्, श्रुतिस्मृतिगतसर्वनाम्ना सहस्रशीर्षत्वाद्युपलक्षित-चैतन्यपरामर्शादुक्तदूषणानवकाशाच्च । तस्मात् ‘त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यदास्ते’ इत्यादिश्रुत्या जीवब्रह्माभेदे प्रमितेऽपि मन्तृमन्तव्यत्वादिभेदव्यपदेशनिर्वाहार्थं काल्पनिकांशत्वस्य श्रुतिस्मृतिव्याहतत्वेन तद्बलादप्यभेदोऽवगम्यत इति सिद्धम् ।। इत्यद्वैतसिद्धौ अंशत्वेनाप्यैक्यसिद्धिः ।। ३१ ।।

न्यायामृततरङ्गिणी

तस्मात्तत्सदृशत्वे सति ततो न्यूनत्वमिति ।। एतच्च जीवरूपस्यांशस्य लक्षणम् । न तु पटाद्यंशस्यापि तेन स्थूलपटं प्रति सूक्ष्मपटस्य नांशत्वापत्तिः ।। इति अंशित्वेनैक्य-सिद्धिभङ्गः ।। ३१ ।।

न्यायामृतकण्टकोद्धारः

ननु तथापि न जीवब्रह्मणोर्भेदो वक्तुं शक्यते अंशत्वानुमानविरोधात् । ‘जीवो न ब्रह्मणो भिद्यते अंशत्वात् मत्स्यादिवत्’ इत्यनुमानविरोधात् । न चासिद्धिः । आकरोदाहृत-श्रुत्यादिसिद्धत्वादित्यत आह– नापीति । ऐक्यं जीवस्य ब्रह्मणेति शेषः । किमिदमंशत्वम् ? किमंशशब्दवाच्यत्वमुत वक्ष्यमाणम् ? नाद्योऽनैकान्तिकत्वादित्याह– अयं त्विति । पाद इतिवच्चेति पादशब्दोऽप्यंशवाचीति भावः । भेदनैवेति । एवकारोऽप्यर्थः । भेदेनापीत्यर्थः । यद्वोपसंह्रियमाणांशत्वाभिप्रायेणाह– भेदेनैवेति । तथा च विरुद्धो हेतुरिति भावः । न द्वितीय इत्याह– त्वन्मतेऽपीति । अवयव्याकारेण विनाशापन्नावयवत्वं खण्डत्वमिति बोध्यम् । नापीति । ननु समुदायसमुदायिभावोपपत्तये तयोर्भेदोऽपि स्वीक्रियत इति कथं शुद्धब्रह्माभाव इति चेन्न । वक्ष्यमाणदूषणेन निरासात् ।

नन्वर्थान्तरकल्पनापेक्षया लाघवात् कल्पितप्रदेशत्वमेवांशत्वमित्यत आह– स्वत इति । आकाशदृष्टान्तोऽसम्प्रतिपन्न इति भावः । तत्रेति । न चात्यन्ताभिन्नेषु मत्स्यादिष्वंश-शब्दप्रयोगात् कथमेतदिति वाच्यम् । निर्विशेषाभेदाभि प्रायेणास्योक्तत्वात् । परेण च तथैव जीवब्रह्माभेदाङ्गीकारात् । पटादिति । न चायं लक्षणया प्रयोग इति वाच्यम् । मुख्यप्रतीति-व्यवधानानुपलब्ध्या तथाऽकल्पनात् । तस्मादिति । न च स्थूलपटं प्रति सूक्ष्मपटस्याप्यंश-त्वापत्तिः । तस्य तत्सदृशत्वे सति ततो न्यूनत्वादिति वाच्यम् । न हीदं सर्वत्रांशत्वम् । किन्तु जीवस्यांशत्वं वाच्यम् । तत्र कोऽपि प्रसङ्गः ? यद्वा प्रयोगानुरोधेन निमित्तानुसरणं, न तु निमित्तमस्तीति प्रयोगः इति भावः । ननु जीवस्य भिन्नाशंत्वव्यवहारे भवेदेतत् । स एव कुत इत्यत आह– अभिन्नांशस्त्विति । किञ्चेति । न च श्रुतिस्मृतिगतसर्वनाम्ना सहस्रशीर्षत्वादिना सिद्धं चैतन्यमेवोपलक्ष्यत इति वाच्यम् । विशिष्टाङ्गीकारे बाधक एवोपलक्षणं स्वीकर्तव्यम् । न च तत्र बाधकमस्ति । उपलक्ष्यतावच्छेदकं विनोपलक्षणासम्भवा-दित्युक्तत्वाच्च ।। त्वन्मत इति ।। नन्वर्थान्तर कल्पनाभयादेवमास्थीयत इति वाच्यम् । अर्थान्तरस्य प्रामाणिकत्वेन कल्पनाभावात् । अन्यथा ब्रह्मापि गौरवान्नाङ्गीकर्तव्यं लाघवात् ब्रह्मैव सर्वमित्यङ्गीकरणीयं स्यात् । तथात्वे हीति । त्वयेश्वरस्य शुद्धब्रह्मत्वानङ्गीकारादिति भावः । उक्तमर्थं कारिकया सङ्गृह्णाति– एवं चेति । इत्यंशत्वेनैक्यसिद्धिभङ्गः ।। ३१ ।।

न्यायामृतप्रकाशः

मत्स्याद्यभिन्नांशेऽतिव्याप्तिवारणाय ततो न्यूनत्वमिति । तदधीनत्वमिति यावत् ।। ईश्वरोपाधिनेति ।। ईश्वररूपोपाधिनेत्यर्थः ।। तथात्व इति ।। यथा घटरूपोपाधिनाशे घटाकाशस्य महाकाशेनैक्यं भवति तस्यैवेतदवच्छिन्नत्वात् एवमविद्यान्तःकरणादिरूपजीवोपाध्यपगमे तस्येश्वरो-पाध्यवच्छिन्नचैतन्यैक्यस्यैव प्राप्त्या मुक्तस्य शुद्धब्रह्मत्वं न स्यात् । तथा च न मुक्तिः स्यात् । शुद्धब्रह्मत्वस्यैव त्वन्मते मुक्तित्वादित्यर्थः ।। गुरुबिम्बमिति ।। बृहस्पतिमण्डलं चन्द्रमण्डला-च्छतांशन्यूनं चन्द्रमण्डलस्याऽष्टाशीतिसहस्रत्वादिति मण्डलप्रयुक्त एव न्यूनाधिकभावो न तु स्वरूपतः । अतो न कश्चित्क्षुद्रोपद्रव इत्यवधेयम् ।। इति अंशत्वेनैक्यसिद्धिभङ्गविवरणम् ।। ३१ ।।

न्यायकल्पलता

अंशत्वेनैक्यसिद्धिमाशङ्क्यापाकरोति– न चेति ।। अन्यथैवोपपत्त्या दूषयति– अयं ज्येष्ठस्येति ।। विकल्पानुपपत्तिमप्याह– त्वन्मतेऽपीति ।। तस्मात्तत्सदृशत्वे सति ततो न्यूनत्वमिति ।। एतच्च जीवरूपस्यांशस्य लक्षणम् । न तु पटाद्यंशस्यापीति । तेन स्थूलपटं प्रति सूक्ष्मपटस्य नांशत्वापत्तिः । नितराम् ऊनं न्यूनम् इति न्यूनपदेन तदधीनसत्तादिमत्त्वस्य ग्रहणाद्वा ।।

।। इति अंशत्वेनैक्यसिद्धिभङ्गः ।। ३१ ।।