नापि ‘नेह नानास्ति किञ्चन’ इति श्रुतिस्तत्र मानम्

३९. नेह नानेति श्रुत्यर्थविवरणम्

न्यायामृतम्

नापि ‘नेह नानास्ति किञ्चन’ इति श्रुतिस्तत्र मानम् । अत्र स्वगतभेद निषेधात् । नानाशब्दो हि नानात्वार्थः । द्व्येकयोरित्यादिवद्भावप्रधानत्वात् । लोके च नानाशब्दस्य पृथग्भाववाचित्वादिति कैयटोक्तेश्च । ‘यदेवेह तदमुत्र यदमुत्र तदन्विह’ इति पूर्ववाक्ये इदमाद्यर्थाङ्गीकारेण तन्निष्ठब्रह्माभेदस्यैव उक्तेश्च । अन्यथा इदं चादश्च नेति श्रूयेत । न च स्वगतभेदस्याप्रसक्तिः । जगज्जन्मा-दिकारणे ब्रह्मणि गुरुतरविचित्रकार्यभेदेन अन्तर्यामिणि च नियम्यानन्त्येन स्थानभेदेन च ‘यदेकमव्यक्तमनन्तरूपम्’ इति अनेकत्वश्रुत्या च अवतारेषु प्रतिविग्रहं प्रत्यक्षादिना गुणगुण्यादौ च तार्किकभाट्टरीत्या गुणगुणित्वेन ज्ञाना-नन्दादौ चापर्यायशब्दवाच्यत्वैकतरपरिशेषाभावादिना सर्वत्र च ‘अन्योऽन्तर आत्मा प्राणमयः’ इत्यादिश्रुतितात्पर्याज्ञानेन च तत्प्रसक्तेः ।

किं च नेहेति वाक्यात् पूर्वं बृहदारण्यके ‘तस्मिंच्छुक्लमुत नीलमाहुः पिङ्गलं हरितं लोहितं च’ इत्यादिना भगवतोऽनेकरूपाणि ‘यस्यानुवित्तः प्रतिबुद्ध आत्मा’ इत्यादिना ज्ञानादिधर्माः काठके च ‘गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यजायत’ इत्यनेकावताराः ‘महान्तं विभुमात्मानम्’ इत्यादिना चानेकधर्माश्चोक्ता इति कथं तदप्रसक्तिः? दृष्टश्चैकस्मिन्नेव वृक्षे पत्रशाखादिवत् प्रसक्तस्य स्वगतभेदस्य ‘एको देवस्सर्वभूतेषु’ इत्यादिश्रुतौ,

ब्रह्मादयो हि भूतानि तेषामन्तर्गतो हरिः ।

समस्स सर्वभूतेषु य एवं वेद तत्त्ववित् ।।

इति महाभारते च निषेधः । अन्यथा परपक्षेऽप्यखण्डवादानारभ्यस्स्यात् ।

न्यायामृततरङ्गिणी

नापीति ।। ‘मनसैवानुद्रष्टव्यं’ ‘नेह नानास्ति किञ्चन’ । ‘मृत्योः स मृत्यु-माप्नोति य इह नानेव पश्यति’ इति बृहदारण्यकगतम्, ‘यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ । ‘मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन । मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति’ इति काठक गतमपि वाक्यं मिथ्यात्वे न मानमित्यर्थः ।। स्वगतेति ।। ब्रह्मगतेत्यर्थः । वक्ष्यमाणगुणादिभेदसङ्ग्रहाय गतशब्दः । नेह नानेति श्रुतौ भेदाभिधानाभावात्कथम् अत्र स्वगतभेदनिषेध इत्यत आह– नानाशब्द इति ।। ननु नानाशब्दस्य भिन्नाभि-धायकत्वान्न तस्य निषेधान्वयबोधप्रयोजकभेदोपस्थितिहेतुत्वमत आह– द्व्येकयो-रिति ।। ‘आदशतः सङ्ख्यासङ्ख्येये वर्तते’ इति न्यायाद् द्व्येकशब्दयोर्द्वित्वैकत्व-विशिष्टपदार्थवाचकत्वेन वृत्त्यर्थस्य बहुत्वादेकत्वाद्वा इतिवत् बहुवचनप्रयोगप्रसङ्गे अदूरविप्रकर्षन्यायेन वृत्तिवाक्ययोरेकार्थत्वाभिप्रायेण द्वौ चैकश्चेत्येव वाक्यमङ्गीकृत्य द्व्येकयोरिति वृत्तिगतद्व्येकशब्दयोः द्वित्वैकतार्थकतया बह्वर्थत्वाभावाद्बहुवचनप्रसङ्गो न भवतीत्यभिसन्धिना द्व्येकयोरिति सूत्रे यथा द्व्येकशब्दौ द्वित्वैकत्वार्थौ तथा नेह नानेति श्रुतौ नानाशब्दो नानात्वार्थः । नानात्वं च भेद एवेत्यर्थः ।।

भावप्रधानेति ।। अन्योपसर्जनभेदमुपस्थापयन्नपि नानाशब्दो निष्कृष्य स्वातन्त्र्येणापि तमुपस्थापयतीत्यर्थः ।। लोके चेति ।। एतच्चानुपदं वक्ष्यते । पृथग्भावः पृथक्त्वम् । भेद इत्यर्थः ।। पूर्वेति ।। पूर्ववाक्यानुसारेणोत्तरवाक्यस्य नेयत्वान्नेहनानेत्यस्मिन्नपि वाक्ये स्वगतनानात्वमेव निषिध्यत इत्यर्थः । ननु यदेवेहेति पूर्ववाक्येऽपि न स्वगतभेदो निषिध्यते किन्तु सर्वमेवेत्यत आह– अन्यथेति ।। इदमिति ।। तथा चोक्तिसौष्ठवमित्यर्थः ।। गुरुतरेति ।। पट-प्रासादादिकर्तॄणां गजतुरगादिनियन्तॄणां स्थलजलादिभिन्नस्थानगतानां भेदस्य लोके दर्शनात् । प्रकृते चोत्पत्त्यादिकार्याणां ‘यः पृथिव्यामन्तरो यमयति यो पोऽन्तरोयमयति’ इत्यादि नियम्यानां च, ‘यः ‘पृथिव्यां तिष्ठन् योऽप्सु तिष्ठन्’ इत्यादिस्थानानां च भेदस्य सत्त्वादनुमाने न भेदप्रसक्तिरित्यर्थः ।

श्रुत्या प्रत्यक्षेण च तत्प्रसक्तिरस्तीत्याह– यदेकमिति ।। ज्ञानेति ।। ज्ञाना-नन्दयोरभेदे ज्ञानमेव वा आनन्द एव वा परिशिष्येत नोभयमित्यर्थः ।। सर्वत्रेति ।। भेदप्रतिपादकत्वेनापाततः प्रतीतासु श्रुतिष्वित्यर्थः । वाक्यद्वये विशिष्य स्वगतभेद प्रसक्तिमाह– किञ्चेति ।। तस्मिन्निति ।। अणुःपन्था इति पूर्वोदाहृतमन्त्रे यो ब्रह्म- विदो मोक्षमार्ग उक्तः तस्मिन् शुक्लादीनि भगवद्रूपाणि सन्ति । अत एव तस्मिन् शुक्ल- मिति मन्त्रस्य उत्तरार्धे ‘एष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित्पुण्यकृत्तेजसश्च’ इति मार्गे ब्रह्मणः सत्त्वमुच्यते । अतः शुक्लाद्यनेकरूपाणां भेदप्रसक्तिरित्यर्थः ।

ननु नात्र शुक्लादिशब्दैर्ब्रह्मरूपाण्युच्यन्ते । तथा हि शाङ्करीये बृहदारण्यकभाष्ये- बृहदारण्यके तस्मिंच्छुक्लमिति मन्त्रात्पूर्वमुदाहृते ‘अणुः पन्था विततः पुराणो मत्स्पृष्टोऽनुवित्तो मयैव । तेन धीरा अपि यन्ति ब्रह्मविदः स्वर्गलोकमित ऊर्ध्वं विमुक्ताः’ इति मन्त्रः । तस्यार्थः ‘अणुः सूक्ष्मः, दुर्ज्ञेयत्वात् । विततो विस्तीर्णः । वितर इति पाठान्तरे विस्पष्टतरणहेतुः । पुराणः पुरातनः । पन्थाः मोक्षसाधनज्ञान मार्गः । न तार्किकादिवदर्वाक्कल्पितः । मत्स्पृष्टो मया स्पृष्टः । मया लब्ध इत्यर्थः । मयैवानुवित्तः मयैवानुवित्तः । अनुवेदनं नाम विद्यायाः परिपाकः । स्तुतिरियम् । तद्यो यो देवानामिति श्रुतेः । तदेवाह– तेन ब्रह्मविद्यामार्गेण । धीराः प्रज्ञावन्तः । ब्रह्मविदः अन्येऽपि विमुक्ताः । इत ऊर्ध्वं स्वर्गं लोकं मोक्षं गच्छन्ति’ इति ।

अस्मिन्मन्त्रे य उक्तो मोक्षमार्गः स तस्मिन्निति तच्छब्देन परामृश्यते । तस्मि-न्मोक्षमार्गे विप्रतिपत्तिर्मुमुक्षूणाम् । केचिच्छुक्लमाहुः अन्ये नीलादिकमाहुरिति । तस्मिञ्च्छुक्लमाहुरिति वाक्यस्य केचन मोक्षमार्गं शुक्लमाहुरित्यादिना मार्गमभिधाय नैते मार्गाः किन्तु य आत्मकामादिवाक्येन पूर्वमुक्तो ज्ञानमार्गः एष एव पन्था इत्यादि-ग्रन्थेन मार्गविषयमेव शुक्लादिवाक्यं व्याख्यातं न तु परमात्मरूपविषयमिति चेन्न । अणुः पन्था इति वाक्योक्तपन्थानं तस्मिन्निति तच्छब्देन निर्दिश्य तत्रत्यानां शुक्लादिरूपाणां ब्रह्मशब्देन परामृश्य तैर्मार्गो वित्तः पूर्ण इत्यस्यार्थस्य सम्भवे विप्रति पत्तिवाचकस्य वा निषेधवाचकस्य वा पदस्याभावेनोक्तविधयाऽर्थवर्णनानुपपत्तेः । तस्मादुक्तविधया शुक्लादिशब्दैर्भगवतोऽनेकरूपाण्युच्यन्ते ।

यस्यानुवित्त इति ।। ‘यस्यानुवित्तः प्रतिबुद्ध आत्मा अस्मिन्सन्दोहे गहने प्रविष्टः । स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव’ इति मन्त्रे यस्य ब्रह्मविदः प्रतिबुद्धः ज्ञानादिधर्मः । आत्मा परमात्मा । अस्मिन्प्रसिद्धे । सन्दोहे अनेकानर्थसङ्कटशरीरे । गहने विवेकज्ञानप्रतिपक्षे । प्रविष्टः । सर्वकर्ता यतः अत एव विश्वकृत् । वायुकर्ता यः परमात्मा स यस्य येन ब्रह्मविदा । अनुवित्तः विदितो वर्तते । तस्य ब्रह्मविदः तस्य ब्रह्मणो यो लोकः स एव लोको निश्चित इति ब्रह्मणो ज्ञानादिधर्मा उक्ताः । अतो धर्मिधर्मभावेन भेदः प्रसक्तः । एतच्चोप-लक्षणम् । तथा हि । बृहदारण्यके नेहनानेति वाक्यादव्यवहितपूर्वेषु

यद्वैतमनुपश्यत्यात्मानं देवमञ्जसा ।

ईशानं भूतभव्यस्य न ततो विजुगुप्सते ।

यस्मादर्वाक्संवत्सरो अहोभिः परिवर्तते ।

तद्देवा ज्योतिषांज्योतिरायुर्होपासतेऽमृतम् ।

यस्मिन्पञ्चपञ्चजना आकाशश्च प्रतिष्ठितः ।

तमेवमन्यमात्मानं विद्वान्ब्रह्मामृतोऽमृतम् ।

प्राणस्य प्राणमुत चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रं

मनसो ये मनो विदुः । ते निचिक्युर्ब्रह्मपुराणमग््रयम्

इति श्लोकेषु द्वितीयान्तैतच्छब्देन सप्तम्यन्तयच्छब्देन च निर्दिष्टस्यात्मादि शब्दैरमृतशब्देन च तमेवमन्य इत्यादिना च निश्चितब्रह्मत्वस्य षष्ठ्यन्तज्योतिः-प्राणादिशब्दनिर्दिष्टज्योतिःप्राणादिपञ्चजनाधारस्य ये विदुस्ते निचिक्युरित्यादि वाक्यशेषाभिहितनिश्चितब्रह्मत्वं परेषामपि संमतम् ।

तथोक्तं शाङ्करीये बृहदारण्यकभाष्ये ज्योतिषां ज्योतिः आदित्यादिज्योतिषाम् अवभासकत्वात् । अमृतं ब्रह्मेति । किं च तेन हि चैतन्यात्मना ज्योतिषाऽव-भास्यमानः प्राणः प्राणिति । तेन प्राणस्यापि प्राणः । तथा चक्षुरादीनां चक्षुरादि । ब्रह्मशक्त्यधिष्ठितानां हि चक्षुरादीनां दर्शनादिसामर्थ्यम् । स्वतःकाष्ठलोष्टसमानि हि तानि चैतन्यात्मज्योतिःशून्यानीति ।। काठके चेति ।। काठकस्थ नेह नानेत्यतः प्राक्तनेन–

या प्राणेन संविशत्यदितिर्देवतामयी ।

गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्विपश्यति । एतद्वै तत् ।

या प्राणेन संविश्यत्यदितिर्देवतामयी ।

गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्व्यजायत । एतद्वै तत् । इति वाक्येन, एतद्वाक्यप्राक्तनेन च

स्वप्नान्तं जागरितं च उभौ येनानुपश्यति ।

महान्तं विभुमात्मानं मत्वा धीरो न शोचति ।

य इदं मध्वदं वेदात्मानं जीवमन्तिकात् ।

ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ।

इत्यादिवाक्येनेत्यर्थः । क्वचिच्छ्रुतौ स्वगतभेदनिराकरणं तवापि सम्मतमित्याह–  दृष्ट इति ।। एको देव इति ।। अत्र ‘ब्रह्मादयो हि भूतानि’ इति समनन्तरोदाहृते भारतवाक्ये भूतशब्दनिर्दिष्टानां ब्रह्मादीनां सर्वभूतानां भिन्नत्वात्तदन्तर्गतपरमात्मनि प्रसक्तो भेद एकशब्देन निवार्यत इत्यर्थः ।। अन्यथेति ।। स्वगतभेदस्य सर्वथा प्रसक्त्यभावे ब्रह्मणो निर्भिन्नत्वरूपाखण्डत्ववादस्यानारम्भः स्यादित्यर्थः ।

न्यायामृतकण्टकोद्धारः

ननु मास्त्वियं श्रुतिर्मिथ्यात्वे मानम् । नेहनानेति श्रुतिर्भविष्यति । तस्यामिह ब्रह्मणि किञ्चन कार्यकारणात्मकं वस्तु नास्तीति जगदभावप्रतीतेरित्यत आह– नापीति । नन्वत्र कथं भेदनिषेधः ? तत्प्रत्यायकपदाभावादित्यत आह– नानाशब्दो हीति । ननु भावप्रधानत्वमभ्युपेत्य भेदनिषेधपरतया किमर्थं व्याख्यायते ? जगन्निषेधपरत्वमेव किं न स्यादित्यत आह– यदेवेति । पूर्ववाक्यानुसाराद् ब्रह्माभेद एव प्रकृतवाक्यार्थः । अन्यथा पूर्ववाक्यविरोधः स्यादिति भावः । अन्यथेति । पूर्ववाक्ये ब्रह्माभेदोक्त्यनङ्गीकार इत्यर्थः । उपलक्षणमेतत् । यत्तच्छब्दवैयर्थ्यं च द्रष्टव्यम् । स्वगतभेदाप्रसक्तिः किमेतत्प्रकरण-भिन्नसाधनान्तरेण वा एतत्प्रकरणस्थवाक्येनैव वा ? नाद्य इत्याह जगज्जन्मादीति । ननु जगज्जन्मादिकारणत्वादिविशिष्टे भेदप्रसक्तिः, शुद्धे निषेध इति किं केन सङ्गतमिति चेन्न । जगज्जन्मादिकारणातिरिक्तशुद्धसद्भावे प्रमाणाभावात् । न च निर्गुणश्रुतिरेव प्रमाणमिति वाच्यम् । तस्याः सत्वादिराहित्यपरत्वेन जगत्कारणत्वाद्यविरोधित्वात् । अन्यथा व्याघातात् । अस्तु साधनान्तरेण प्रसक्तिः । न तु तत्प्रकरणगतवाक्यैरिति द्वितीयपक्षं प्रतिक्षेप्तुमाह किञ्चेति । तथा च विरुद्धरूपवत्त्वेन धर्माणामनेकत्वेन धर्मिणोऽपि तत्प्रसक्तिरित्यर्थः । ननु प्रसक्तस्यापि स्वगतभेदस्य निषेधो न दृष्ट इत्यत आह दृष्टश्चेति । अत्र श्रुतावेकपदेन, स्मृतौ च समपदेन स्वगतभेदनिषेध इति द्रष्टव्यम् । अन्यथेति । स्वगतभेदनिषेधानङ्गीकार इत्यर्थः ।

न्यायामृतप्रकाशः

द्व्येकयोरिति ।। ‘द्व्येकयोर्द्विवचनैकवचने’ द्वित्वैकत्वयोरेते स्त इत्यर्थः । अत्र भाव- प्रधाननिर्देशाभावे द्व्येकेषामिति स्यादिति भावः । मास्तु भावप्रधानो निर्देशः नानाशब्द एव पृथक्त्ववाचीति कैयटसम्मतिमाह– लोक इति ।। ननु समस्तजगन्निषेधे किं बाधक- मित्यतः पूर्वोक्तज्ञापकमाह– यदेवेहेति ।। यदेव ब्रह्मरूपमिह लोके वर्तते तदेवामुत्र स्वर्गादौ वर्तते तदेवेहाप्यस्तीति इदमदःशब्दोदितलोकस्वरूपमङ्गीकृत्य तदुभयरूपलोकस्थित ब्रह्मणोऽभेदोक्तेः । अन्यथा सर्वजगन्निषेधाङ्गीकारे इदं चादश्च लोकादिकं नेति श्रूयेत उक्तिसौष्ठवादित्यर्थः ।। गुरुतरविचित्रेति ।। कार्यभेदेनेत्यादेस्तत्प्रसक्तेरित्यन्वयः । यथा लोके घटपटादिप्रासादादिनानाविजातीयकार्यभेदेन तत्कारणभेदः एवं विचित्रानेककार्यभेदेन तत्कारणे ब्रह्मण्यपि भेदः प्रसक्तः । तथा गजतुरगादिनियन्तॄणां स्थलजलादिभिन्नस्थान-गतानां च लोके दर्शनात् । प्रकृते ‘यः पृथिवीमन्तरो यमयति’ इत्यादिनियम्यानां ‘यः पृथिव्यां तिष्ठन्’ इत्यादिस्थानानां च भेदस्य सत्त्वादनुमानेन भेदप्रसक्तिरस्त्वित्यर्थः ।

श्रुत्या प्रत्यक्षेण तत्प्रसक्तिरस्तीत्याह– यदेकमिति ।। अपर्यायेति ।। घटपटयोरपर्याय- शब्दवाच्यत्वेन भेदोऽस्ति अभेदे एकतरपरिशेषापत्त्या घटपटयोस्तदभावेन भेददर्शनाज्ज्ञाना -नन्दादिगुणेष्वपि भेदप्रसक्तिरित्यर्थः । जगज्जन्मादिकारणे गुरुतरविचित्रकार्यभेदेनेत्यादि-विशिष्य तत्प्रसक्तिर्न कथ्यते किं नामेत्यत आह– सर्वत्रेति ।। जगज्जन्मादिकारणे ब्रह्मणि अन्तर्यामिणि अवतारेषु गुणगुण्यादौ ज्ञानानन्दादौ सर्वत्रापि श्रुतितात्पर्यापरिज्ञानेन स्वगत- भेदप्रसक्तेः । केयं श्रुतिर्यत्तात्पर्यापरिज्ञानेन तत्प्रसक्तिरित्यत उक्तम् अन्योन्तर इति ।। अन्तर्यामिणि प्रयुक्तान्यादिशब्दतात्पर्यापरिज्ञानेन तत्र भेदप्रसक्तिरित्यर्थः । आदिपदेन ‘इन्द्रो मायाभिः पुरुरूप ईयते’ ‘आनन्दं ब्रह्मणः’ ‘यस्य ज्ञानमयं तपः’ ‘परास्य शक्तिः’ ‘बृहन्तो ह्यस्मिन्गुणाः’ इत्यादिश्रुतिग्रहणम् । एतत्तात्पर्यापरिज्ञानेन सर्वत्रावतारादिषु भेदप्रसक्ति-र्द्रष्टव्येति साम्प्रदायिकोऽर्थः । अन्ये तु सर्वत्रेत्यस्य स्वगतभेदप्रतिपादकत्वेनापाततः प्रतीतासु श्रुतिष्वित्यर्थ इत्याहुः ।

नेहनानेति वाक्यस्य बृहदारण्यककाठकयोः सत्त्वादुभयत्रापि विशिष्य स्वगतभेदप्रसक्तिम् आह– किं चेति ।। ज्ञानादीति ।। घटपटयोरिव भिन्नधर्माश्रयत्वाद्धर्मिणोऽपि तत्प्रसक्तिः इति ध्येयम् । न च भिन्नरूपादिधर्माश्रयेऽपि घटे एकत्वदर्शनाद्धर्मभेदो न धर्मिभेदप्रयोजक इति वाच्यम् । तथापि सन्देहानिस्तारादिति द्रष्टव्यम् । श्रुतिविशेषे स्वगतभेदनिराकरणं तवापि सम्मतमित्याह– दृष्टश्चेति ।। एको देव इति ।। एक इत्यनेन स्वगतभेदस्य निषेध-स्त्वया कृतो दृष्टश्चेत्यर्थः । भारते सम इत्यनेन स्वगतभेदनिषेधः ।। अन्यथेति ।। स्वगतभेदस्य सर्वथा प्रसक्त्यभावे ब्रह्मणोऽपि निर्भिन्नत्वरूपाखण्डत्वप्रतिपादकस्याखण्डवाद- स्यानारम्भः स्यादित्यर्थः ।

न्यायकल्पलता

ननु तथापि ‘मनसैवानुद्रष्टव्यं नेह नानास्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ इति बृहदारण्यकगतम्, ‘यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । मनसैवेदमाप्तव्यं नहे नानास्ति किञ्चन । मृत्योः स मृत्युं गच्छन्ति य इह नानेव पश्यति’ इति काठकगतमपि वाक्यं मिथ्यात्वे मानमस्त्वित्या- शङ्क्य निराकरोति– अत्रेति ।। एतस्यां श्रुतौ ब्रह्मगतो भेदो निषिध्यत इत्यर्थः । वक्ष्यमाणगुणादिभेदसङ्ग्रहाय ‘गत’ इत्युक्तम् । ननु ‘नेह नानेति श्रुतौ भेदाभिधानाभावात् कथमत्र स्वगतभेदनिषेध इत्यत आह– नानाशब्द इति ।। ननु नानाशब्दस्य भिन्नार्थाभि-धायकत्वान्न तस्य निषेधान्वयबोधप्रयोजकभेदोपस्थितिहेतुत्वमत आह– द्व्येकयोरिति । ‘आदशतः सङ्ख्या सङ्ख्येये वर्तते’ इति न्यायात् द्व्येकशब्दयोर्द्वित्वैकत्वविशिष्टपदार्थवाचक- त्वेन वृत्यर्थस्य बहुत्वात् ‘एकद्वा’ इतिवत् बहुवचन(प्रयोग)प्रसङ्गेऽदूरविप्रकर्षन्यायेन वृत्ति वाक्ययोरेकत्वाभिप्रायेण द्वौ च एकश्चेत्येव वाक्यमङ्गीकृत्य ‘द्व्येकयोः’ इति वृत्तिगतद्व्येक शब्दयोर्द्वित्वैकत्वार्थतया बह्वर्थत्वाभावाद्बहुवचनप्रसङ्गो न भवतीत्यभिसन्धिना ‘द्व्येकयोः’ इति सूत्रे यथा द्व्येकशब्दौ द्वित्वैकत्वार्थौ तथा ‘नेहनाने’ ति श्रुतौ नानाशब्दो नानात्वार्थः । नानात्वं च भेद एवेत्यर्थः ।

भावप्रधानत्वादिति ।। अन्योपसर्जनभेदमुत्थापयन्नपि नानाशब्दो निष्कृष्य स्वातन्त्र्ये-णापि तमुत्थापयति (ही)इत्यर्थः ।। लोके चेति । एतच्चानुपदं वक्ष्यते । पृथग्भावः पृथक्त्वम् । भेद इत्यर्थः । पूर्ववाक्यानुसारेणोत्तरवाक्यस्य नेयत्वात् नेहनानेत्यस्मिन्नपि वाक्ये स्वगतनानात्वमेव निषिध्यत इत्याशयेनाह– पूर्वेति ।। श्रुताविदमदः प्रातिपदिकार्थ-सन्निकृष्टविप्रकृष्टवस्तुसत्वमभ्युपेत्यान्तर्यामितया तदन्तःस्थितब्रह्मरूपभेदाभावस्यैव श्रुत्युक्त-त्वेन नियम्यजगन्नानात्वनिषेधानुपपत्तेरित्येवशब्दप्रयुञ्जानस्य भावः । यद् ब्रह्मरूपम्, इह पृथिव्यादौ तत्कार्यदेहे तदधिष्ठातृजीवे चान्तर्यामितयाऽस्ति तदेवामुत्र प्रकृतिमहदहङ्कारादौ तदधिष्ठातृचित्प्रकृतिहिरण्यगर्भादौ सूर्यादौ चास्ति तत् उत्कृष्टापकृष्टनियमाधिष्ठानभेदेन भिन्नं न भवति किं नामात्यन्ताभिन्नमेव । शेषनरलक्षणबलभद्रवदवान्तरविशेषनिरासायोक्तक्रमविपर्य-येण ‘यदमुत्र तदनु इह’ इति पुनरुक्तमिति बोध्यम् ।

ननु यदेवेहेति पूर्ववाक्येऽपि न स्वगतभेदो निषिध्यते । किन्तु सर्वमेवेत्यत आह– अन्यथेति ।। इदमिति ।। तथा चोक्तिसौष्ठवमर्थसौष्ठवाधीनमित्यर्थः ।। गुरुतरेति ।। पट-प्रासादादिकर्तॄणां गजतुरगादिनियन्तॄणां स्थलजलादिभिन्नस्थानगतानाञ्च भेदस्य लोके दर्शनात् । प्रकृते चोत्पत्यादिमत्कार्याणां ‘यः पृथिवीमन्तरो यमयति’ इत्यादि नियम्यानां च ‘यः पृथिव्यां तिष्ठन्, योऽप्सु तिष्ठन्’ इत्यादि स्थानानाञ्च भेदस्य सत्वात्, ‘जगत् अनेक कर्तृकं स्वावान्तरभेदकधर्मवद्गुरुतरविचित्रकार्यत्वात् प्रासादवत्’ इत्यनुमानेन च भेदस्य प्रसक्तिरस्तीत्यर्थः । श्रुत्या प्रत्यक्षेण च तत्प्रसक्तिं दर्शयति– यदेकमिति ।। गुणेषु परिशेषेण भेदप्रसक्तिमाह– ज्ञानेति ।। ज्ञानानन्दयोरभेदे ज्ञानमेव वा आनन्द एव वा परिशिष्येत नोभयमित्यर्थः ।

सर्वत्रेति ।। भेदप्रतिपादकत्वेनापाततः प्रतीयमानासु श्रुतिष्वित्यर्थः । वाक्यद्वये विशिष्य स्वगतभेदप्रसक्तिमाह– किञ्चेति ।। तस्मिन्निति ।। ‘अणुः पन्थाः’ इति पूर्वो-दाहृते मन्त्रे यो ब्रह्मविदः प्राप्यो मुक्तलोक उक्तस्तस्मिञ्च्छुक्लादीनि भगवद्रूपाणि सन्ति । अत एव १‘तस्मिञ्च्छुक्लम्’ इति मन्त्रस्योत्तरार्धे २‘एष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च’ इति मार्गस्य ब्रह्मप्रसादसाध्यत्वमुच्यते । अतः शुक्लाद्यनेकरूपाणां भेदप्रसक्तिरित्यर्थः । ननु नात्र शुक्लादिशब्दैर्ब्रह्मरूपाण्युच्यन्ते । तथा हि । शाङ्करीये बृहदारण्यकभाष्ये । बृहदारण्यके ‘तस्मिञ्च्छुक्लम्’ इति मन्त्रात्पूर्वमुदाहृतः ३‘अणुः पन्थाः विततः पुराणो मास्पृष्टोऽनुवित्तो मयैव । तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वो  विमुक्ताः’ इति मन्त्रः ।

तस्यार्थः– अणुः सूक्ष्मः, दुर्विज्ञेयत्वात् । विततो विस्तीर्णः । वितर इति पाठान्तरे विस्पष्टतरणहेतुः । पुराणः पुरातनः । पन्थाः मोक्षसाधनज्ञानमार्गः । न तार्किकादि वदर्वाक्कल्पितः । म• स्पृष्टो मया स्पृष्टो, मया लब्ध इत्यर्थः । मयैवानुवित्तः । अनुवेदनं नाम विद्यायाः परिपाकः । स्तुतिरियम् । तद्यो यो देवानामिति श्रुतेः । तदेवाह । तेन ब्रह्मविद्यामार्गेण । धीराः प्रज्ञावन्तः । ब्रह्मविदः अन्येऽपि विमुक्ताः । इत ऊर्ध्वं स्वर्गलोकं मोक्षं गच्छन्ति । अस्मिन्मन्त्रे य उक्तो मोक्षमार्गः स तस्मिन्निति तच्छब्देन परामृश्यते । तस्मिन्मोक्षमार्गे । विप्रतिपत्तिर्मुमुक्षूणाम् । केचित् शुक्लमाहुः । अन्ये नीलादिकमाहुरिति । नैते मोक्षमार्गाः किन्तु य ‘आत्मकामादि’वाक्येन पूर्वमुक्तो ज्ञानमार्गः, एष एव पन्थाः’ इत्यादिग्रन्थेन मार्गविषयमेव शुक्लादिवाक्यं व्याख्यातम् । न तु परमात्मरूपविषयम्’ इति ।

मैवम् । ‘तस्मिन्’ इति तच्छब्देनाव्यवहितमुक्तलोकग्रहणसम्भवे विप्रतिपत्तिवाचकस्य निषेधवाचकस्य वा पदस्याभावेन उक्तविधयाऽर्थवर्णनानुपपत्तेः । तस्मादयमुदाहृतमन्त्रार्थः – अणुः सूक्ष्मो दुर्विज्ञेयत्वात् । पन्थाः अर्चिरादिमार्गः । ‘तेऽर्चिषमभिसम्भवन्ति’ इत्यादि-श्रुतेः । विततः विशिष्टैर्देवैस्ततो व्याप्तः । वितर इति पाठे तु तरतिर्दानार्थः । विशिष्ट-पुरुषार्थं तरति ददातीति वितरः । पुराणः पुरातनः । मायावादिप्रभृतिभिरिव दुष्प्रेक्षा-कल्पितो न भवति । मंस्पृष्टः । ह्रस्व आर्षः । मां स्पृष्टः मया लब्ध इत्यर्थः । मया प्रसन्नीकृतेन परमात्मनाऽनुवित्तः पूर्णः । तेनार्चिरादिमार्गेण धीराः धिया रमन्ते धीराः । अन्येऽपि ब्रह्मविदः ब्रह्मापरोक्षज्ञानिनः विमुक्ताः । इत ऊर्ध्वं स्वर्गं दुःखासम्भिन्नसुखानु-भवात्मकं लोकं प्रकाशमानं मुक्तलोकं अपियन्ति प्रविशन्ति । तस्मिन्मुक्तलोके शुक्लं रूपं सङ्कर्षणाख्यम् अस्तीत्याहुः । एवं बहुरूपः परमात्माऽस्तीति वेदवेदो वदन्ति ।

एष पन्थाः परमात्मप्राप्तिमार्गः प्रसन्नेन ब्रह्मणा हेतुनाऽनुवित्तः प्रत्येतव्यः तेन मार्गेण पुण्यकृत्तैजसः प्रकाशमानो ब्रह्मवित्परमात्मानमेत्याप्नोतीति । तस्मादुक्तविधया शुक्लादिशब्दै- र्भगवतोऽनेकरूपाण्युच्यन्ते ।। यस्यानुवित्त इति ।। ‘यस्यानुवित्तः प्रतिबुद्ध आत्माऽस्मिन् सन्देहे गहने प्रविष्टः । स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव’ इति मन्त्रे– यतः सर्वकर्ता अत एव स विश्वकृत् विश्वो मुख्यवायुस्तत्कर्ता प्रतिबुद्धं ज्ञानं यस्य स प्रतिबुद्धः सर्वज्ञः, अस्मिन् सन्देघे सन्देहे मध्यदेहे । हस्य घत्वमार्षम् । गहने अन्यागम्ये गुहास्थाने प्रविष्टः यः परमात्मा स यस्य ब्रह्मविदः येन ब्रह्मज्ञानिना अनुवित्तः विदितो वर्तते । तस्य ब्रह्मविदः तस्य ब्रह्मणो यो लोकः स एव लोको निश्चित इति ब्रह्मणो ज्ञानादिधर्मा उक्ताः । अतो धर्मधर्मिभावेन भेदः प्रसक्त इत्यर्थः ।

एतच्चोपलक्षणम् । तथा हि– बृहदारण्यके ‘नेह नाने’ति वाक्यादव्यवहितपूर्वेषु–

यदैतमनुपश्यन्त्यात्मानं दैवमञ्जसा ।

ईशानं भूतभव्यस्य न ततो विजुगुप्सते ।। १ ।।

यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते ।

तद्देवा ज्योतिषा ज्योतिरायुर्होपासतेऽमृतम् ।। २ ।।

यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः ।

तमेव मन्य आत्मानं विद्वान्ब्रह्माऽमृतोऽमृतम् ।। ३ ।।

प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रम् ।

मनसो ये मनो विदुस्ते निचिक्युर्ब्रह्म पुराणमग््रयम् ।। ४ ।।

इति श्लोकेषु द्वितीयान्तैतच्छब्देन सप्तम्यन्तयच्छब्देन च निर्दिष्टस्य, आत्मादिशब्दैरमृत शब्देन च ‘तमेव मन्ये’ इत्यादिना च निश्चितब्रह्मत्वस्य, षष्ठ्यन्तज्योतिःप्राणादिशब्द निर्दिष्टज्योतिःप्राणादिपञ्चजनाधारस्य, ये विदुस्ते निचिक्युरित्यादिवाक्यशेषाभिहितनिश्चित ब्रह्मत्वद्वितीयान्तज्योतिःप्राणादिशब्दनिर्दिष्टज्योतिः प्राणादिपञ्चकरूपताऽभिहितेति स्पष्टं भेद-प्रसक्तिः । प्रथमान्तज्योतिःप्राणादीनां च ब्रह्मत्वं परेषामपि सम्मतम् । यथोक्तं शाङ्करीये बृहदारण्यकभाष्ये । ‘ज्योतिषां ज्योतिः आदित्यादिज्योतिषामवभासकत्वात्, अमृतं ब्रह्मेति । किञ्च तेन हि चैतन्यात्मना ज्योतिषाऽवभास्यमानः प्राणः प्राणिति । तेन प्राणस्यापि प्राणः सः । तथा चक्षुरादीनां चक्षुरादिः । ब्रह्मशक्त्यधिष्ठितानां हि चक्षुरादीनां दर्शनादिसामर्थ्यं स्वतः काष्ठलोष्टसमानि हि तानि चैतन्यात्मज्योतिःशून्यानि’ इति ।। काठके चेति ।। काठकस्थ ‘नेह नाना’ इत्यतः प्राक्तनेन–

१‘यः पूर्वं तपसोऽजातमद्भ्यः पूर्वमजायत । 

  गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत । एतद्वै तत्’ ।।

२‘या प्राणेन संविशत्यदितिर्देवतामयी ।

  गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्व्यजायत । एतद्वै तत्’ ।।

इति वाक्येन, एतद्वाक्यप्राक्तनेन च–

 स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।

  महान्तं विभुमात्मानं मत्वा धीरो न शोचति ।।

  य इदं मध्वदं देवमात्मानं जीवमन्तिकात् ।

  ईशानं भूतभव्यस्य न ततो विजुगुप्सते ।।

एतद्वै तत् । इति वाक्येनेत्यर्थः । कस्याञ्चिच्छ्रुतौ स्वगतभेदनिराकरणं तवापि सम्मत-मित्याह– दृष्टश्चेति ।। ‘एको देवः’ इति श्रुतिसमनन्तरोदाहृते ‘ब्रह्मादयो हि भूतानि’ इति महाभारतवाक्ये च भूतशब्दनिर्दिष्टानां ब्रह्मादीनां सर्वभूतानां भिन्नत्वात्तदन्तर्गतपरमात्मनि प्रसक्तो भेद एकशब्देन निवार्यत इत्यर्थः ।। अन्यथेति ।। स्वगतभेदस्य सर्वथा प्रसक्त्य-भावे । सत्यज्ञानादिवाक्ये श्रौतज्ञानानन्दादिधर्माणामौपनिषदः ब्रह्मणश्च धर्मधर्मिभावरूपसंसर्ग निषेधकाखण्डार्थवादस्वीकारानुपपत्तिः । संसर्गस्य भेदगर्भितत्वात् । ‘तत्त्वमस्यादिवाक्ये च जीवप्रतियोगिकब्रह्मधर्मिकस्य ब्रह्मप्रतियोगिकजीवधर्मिकस्य वा मानान्तराप्राप्तस्य भेदस्य प्रतिषेधकाखण्डैकरसचित्स्वरूपाभेदप्रतिपादकाखण्डत्ववादस्यारम्भायोगश्च स्यादित्यर्थः ।

Load More