अस्तु वा मिथ्यात्वं यत्किञ्चित्, तथापि मिथ्यात्वमबाध्यम्? बाध्यं वा? आद्ये अद्वैतहानिः
१२. अथ सामान्यतो मिथ्यात्वभङ्गः
न्यायामृतम्
अस्तु वा मिथ्यात्वं यत्किञ्चित्, तथापि मिथ्यात्वमबाध्यम्? बाध्यं वा? आद्ये अद्वैतहानिः । न हि प्रपञ्चोपाधिकं भ्रमकालानिश्चितं तन्मिथ्यात्वं निरुपाधिक- भ्रमकालनिश्चिताधिष्ठानब्रह्ममात्रम् । तस्य मां प्रत्यपि सिद्धत्वात् । दृश्यत्वादे-र्मिथ्यात्व एव व्यभिचारश्च । मिथ्यात्वस्य चादृश्यत्वेऽनुमानवैयर्थ्यम् । तस्य साध्य-ज्ञप्त्यर्थत्वात् । अन्त्ये सिद्धसाधनम् । अद्वैतश्रुतेरतत्त्वावेदकत्वं च स्यात् ।
जगच्च सत्यं स्याद् आत्मवत् । न चात्मत्वमुपाधिः, सत्यत्वं विना तद्विरुद्धस्य मिथ्यात्वस्य मिथ्यात्वे व्याघातवदज्ञातृत्वादिरूपानात्मत्वस्यासत्यत्वं विना व्याघाता भावेनोपाधेरप्रयोजकत्वात् । न च मिथ्यात्वं न ब्रह्ममात्रं किन्तु द्वितीयाभावोपलक्षितं ब्रह्मेति वाच्यम् । उपलक्षणे द्वितीयाभाव एव बाध्याबाध्यविकल्पात् । द्वितीया-भावाधिकरणतयाऽविद्याधिष्ठानतया तत्साक्षितया च भासमानचिदन्यस्योपलक्ष्यस्या-भावेन द्वितीयाभावस्योपलक्षणत्वायोगाच्च ।
ननु रूप्यधर्मो मिथ्यात्वमपि मिथ्यैव । न च तथात्वे रूप्यस्य सत्यत्वं सत्यं स्यादिति वाच्यम् । धर्मिणो मिथ्यात्वे विरुद्धयोरपि धर्मयोर्मिथ्यात्वात् । परस्पर-विरुद्धयोरेकस्याभावेऽन्यस्य सत्त्वनियमस्तु यत्र धर्मी कल्पलता, वरङ्गिणीकाराणां मते (सन्निति) ‘सन्’ इति तत्रैव । न हि वन्ध्यासुतस्य श्यामत्वाद्यभावे गौरत्वं सत्यम् । न वा स्वप्ने ज्ञातस्य गजस्य मिथ्यात्वे तत्रैव ज्ञातस्तदभावस्सत्य इति चेन्न, प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं हि मिथ्यात्वम् । न च प्रतियोगित्वं धर्मान्तरवद्धर्मि सत्तासापेक्षमित्यनिर्वाच्यत्वभङ्गे वक्ष्यते । धर्म्यसत्त्वे धर्मासत्त्वं तु धर्मिसत्तसापेक्षधर्मविषयम् । मिथ्यात्वं तु तत्प्रतिकूलम्; अन्यथा सिद्धसाधनात् ।
अद्वैतसिद्धिः
ननु– उक्तमिथ्यात्वस्य मिथ्यात्वे प्रपञ्चसत्यत्वापातः, एकस्मिन् धर्मिणि प्रसक्तयोः विरुद्धधर्म-योरेकमिथ्यात्वे अपरसत्यत्वनियमात्, मिथ्यात्वसत्यत्वे च तद्वदेव प्रपञ्चसत्यत्वापत्तेः । उभयथाप्य-द्वैतव्याघात इति चेन्न; मिथ्यात्वमिथ्यात्वेऽपि प्रपञ्चसत्यत्वानुपपत्तेः । तत्र हि विरुद्धयोर्धर्म-योरेकमिथ्यात्वे अपरसत्यत्वम्, यत्र मिथ्यात्वावच्छेदकमुभयवृत्ति न भवेत्; यथा परस्परविरहरूपयो रजतत्वतदभावयोः शुक्तौ, यथा वा परस्परविरहव्यापकयो रजतभिन्नत्वरजतत्वयोः तत्रैव; तत्र निषेध्यतावच्छेदकभेदनियमात् । प्रकृते तु निषेध्यतावच्छेदकमेकमेव दृश्यत्वादि । यथा गोत्वाश्वयोरेकस्मिन् गजे निषेधे गजत्वात्यन्ताभावव्याप्यत्वं निषेध्यतावच्छेदकमुभयोस्तुल्यमिति नैकतरनिषेधे अन्यतरसत्त्वम्, तद्वत् । यथा च सत्यत्वमिथ्यात्वयोर्न परस्परविरहरूपत्वम्, न वा परस्परविरहव्यापकत्वम्, तथोपपादितमधस्तात् । परस्परविरहरूपत्वेऽपि विषमसत्ताकयोरविरोधात्, व्यावहारिकमिथ्यात्वेन व्यावहारिकसत्यत्वापहारेऽपि काल्पनिकसत्यत्वानपहारात्, तार्किकमत-सिद्धसंयोगतदभाववत् सत्यत्वमिथ्यात्वयोः समुच्चयाभ्युपगमाच्च । एकस्य साधकेन अपरस्य बाध्यत्वं विषमसत्ताकत्वे प्रयोजकम्, यथा शुक्तिरूप्यतदभावयोः । एकबाधकबाध्यत्वं च समसत्ताकत्वे प्रयोजकम्, यथा शुक्तिरूप्यशुक्तिभिन्नत्वयोः । अस्ति च प्रपञ्चतन्मिथ्यात्वयोरेकब्रह्मज्ञानबाध्यत्वम् । अतः समसत्ताकत्वान्मिथ्यात्वबाधकेन प्रपञ्चस्यापि बाधान्नाद्वैतक्षतिरिति कृतमधिकेन ।
न्यायामृततरङ्गिणी
ननु मिथ्यात्वस्याबाध्यत्वेऽपि नाद्वैतहानिः । तस्य ब्रह्मस्वरूपत्वात् इत्यत आह– नहीति ।। भ्रमकालानिश्चितमिति ।। अन्यथा रूप्यभ्रमाद् रूप्यार्थिप्रवृत्तिर्न स्यादित्यर्थः ।। अधिष्ठानेति ।। एतच्च भ्रमकाले ब्रह्मणो निश्चयोऽस्तीत्यस्योपपादकम् ।। तस्येति ।। ब्रह्मस्वरूपमात्रस्य प्रपञ्चमिथ्यात्वस्येत्यर्थः ।। दृश्यत्वादेरिति ।। ब्रह्मस्वरूपेऽबाध्ये मिथ्यात्वे दृश्यत्वस्य सत्त्वादित्यर्थः । ननु साध्याभाववत्यपि मिथ्यात्वे दृश्यत्वस्य हेतोरभावान्न व्यभिचार इत्यत आह – मिथ्यात्वस्य चेति ।। मिथ्यात्वानुमाने यदि मिथ्यात्वं न विषयः, तदा मिथ्यात्वानुमानवैयर्थ्यमित्यर्थः ।। तस्येति ।। मिथ्यात्वानुमानस्य मां प्रति मिथ्यात्वज्ञप्त्यर्थत्वेन त्वया प्रयुक्तत्वादित्यर्थः ।। अन्त्य इति ।। मिथ्यात्वस्य बाध्यत्व इत्यर्थः ।। सिद्धसाधन-मिति ।। अविद्यमानानतिरिक्तबाध्यत्वरूपमिथ्यात्वस्य प्रपञ्चे ममानिष्टत्वाभावादित्यर्थः ।। अद्वैतश्रुतेरिति ।। बाध्यत्वरूपमिथ्यात्वस्यातत्त्वस्यावेदकत्वादित्यर्थः ।। जगदिति ।। जगत् सत्यम् मिथ्याभूतमिथ्यात्वकत्वात् आत्मवदित्यनुमानादित्यर्थः ।।
नचेति ।। आत्मनि सत्ये साध्यव्यापकम्, पक्ष एव साधनाव्यापकमात्मत्वमुपाधिर्न स्यादित्यर्थः ।। सत्यत्वं विनेति ।। प्रपञ्चसत्यत्वविषयके स्थापनानुमाने मिथ्याभूतमिथ्यात्व-कत्वस्य हेतोः सत्यत्वरूपसाध्येन व्याप्तिग्राहको व्याघातरूपस्तर्कोऽस्ति । आत्मत्वस्योपाधे-र्व्यतिरेकेणानात्मत्वेन क्रियमाणे स्थापनानुमानीयसाध्यस्य सत्यत्वस्य व्यतिरेकानुमानेऽनुकूल-तर्काद्यभावेनोपाधेरप्रयोजकत्वादित्यर्थः ।। नचेति ।। द्वितीयाभावोपलक्षितं ब्रह्मस्वरूपं च न निरुपाधिकम् न वा भ्रमकाले निश्चितम् इति न पूर्वोक्तदोष इति भावः ।। उपलक्षण इति ।। उपलक्षणद्वितीयाभावस्य बाध्यत्वे तद्रूपस्य मिथ्यात्वस्य बाध्यत्वात् सिद्धसाधनादि । अबाध्यत्वे त्वद्वैतहानिरिति दूषणसहिताद् विकल्पात् न वाच्यमित्यनेनान्वयः ।।
द्वितीयेति ।। अप्रसिद्धोपलक्ष्यस्य प्रसिद्धमुपलक्षणं भवति । द्वितीयाभावरूपोपलक्षणं प्रत्युपलक्ष्यस्य ब्रह्मणो नित्यसिद्धत्वेन न तत् प्रति तस्योपलक्षणत्वमित्यर्थः । ज्ञातस्यैवोप-लक्षणत्वेन द्वितीयाभावस्याभावरूपोपलक्षणस्य ज्ञानार्थं तदधिकरणभूतशुद्धब्रह्मज्ञानमावश्यक-मित्यभिसन्धायोक्तम् – द्वितीयाभावाधिकरणतयेति ।। तथाचोपलक्षणज्ञानार्थं प्रागेव ज्ञातं शुद्धं ब्रह्म प्रति न द्वितीयाभावस्योपलक्षणत्वमिति भावः । सर्वदा प्रतीयमानत्वेनाङ्गीकृता-विद्यायाः प्रतीतिस्तदधिकरणशुद्धब्रह्मस्फुरणं विना न सम्भवति, इति तदर्थमपि शुद्धब्रह्मज्ञान-मावश्यकमित्यभिप्रायेणोक्तम् – अविद्येत्यादि ।। ननु काकेन गृहगतसंस्थानविशेष इव प्रकाशमानब्रह्मगतधर्मान्तरमेव द्वितीयाभावेनोपलक्ष्यतामित्यत उक्तम् – अन्यस्येत्यादि ।। उपलक्षणकाले द्वितीयमात्राभावादिति भावः ।
जगच्च सत्यं स्यादात्मवदित्युक्तानुमाने व्यभिचारं शङ्कते – नन्विति ।। रूप्यगत-मिथ्यात्वस्य मिथ्यात्वेन मिथ्याभूतमिथ्यात्वकत्वं हेतुः रूप्ये वर्तते, साध्यं च सत्यत्वं नास्ति, इति व्यभिचार इति भावः । सिद्धान्ती व्यभिचारपरिहारं शङ्कते – नच तथात्व इति ।। यदि रूप्ये मिथ्यात्वं मिथ्या, तर्हि मिथ्यात्वविरुद्धं सत्यत्वं सत्यं स्यात् । यथा गवि गोत्वाभावस्य मिथ्यात्वे गोत्वं तद्विरुद्धं सत्यम् । तथाच प्रयोगः – रूप्यम् मिथ्याभूतमिथ्यात्वाधिकरणं न भवति, सत्यभूततद्विरुद्धसत्यत्वानधिकरणत्वात् । यत् सत्यभूततद्विरुद्धाधिकरणं न भवति, तत् मिथ्याभूततदधिकरणं न भवति, यथा सत्यभूतगोत्वविरुद्धगोत्वाभावानधिकरणं गौर्गोत्वाभाव-विरुद्धमिथ्याभूतगोत्वाधिकरणं न भवति । तथाच रूप्यमिथ्यात्वस्य सत्यत्वेन रूप्ये हेतो-रेवागमनात् न व्यभिचार इति भावः । पूर्वपक्षी व्यभिचारपरिहारं दूषयति – धर्मिण इति ।। सत्यभूतसत्यत्वानधिकरणमपि रूप्यं सत्यभूतमिथ्यात्वस्याधिकरणं न भवति । किन्तु मिथ्यात्वस्यापि मिथ्याभूतस्यैवाधिकरणम् । धर्मिणो रूप्यस्य मिथ्यात्वात् । तथाच प्रयोगः– रूप्यगतत्वेनोच्यमाने सत्यत्वमिथ्यात्वे मिथ्या, मिथ्यात्वोपेतधर्मिकत्वात् । स्वप्नप्रतीतगजरूप-वदिति । तथाच जगच्च सत्यं स्यादित्युक्तानुमानस्य रूप्ये व्यभिचारस्तदवस्थ इति भावः ।
ननु रूप्यमिथ्यात्वे मिथ्यात्वसाधकस्य मिथ्यात्वोपेतधर्मित्वस्य हेतोः रूप्यमिथ्यात्वे मिथ्यात्वाभावसाधकेन सामान्यव्याप्तिमूलकेनानुमानेन सत्प्रतिपक्षितस्य न रूप्यमिथ्यात्वे मिथ्यात्वरूपसाध्यज्ञानजनकत्वम्, अतो रूप्ये मिथ्याभूतमिथ्यात्वकत्वस्य हेतोरज्ञानाद् नोक्तानु-मानस्य रूप्ये व्यभिचारः, इत्यतः सिद्धान्त्युक्तसामान्यव्याप्तावुपाधिमाह– परस्परेत्यादिना ।। धर्मी सन्निति ।। तथाच तत्रामिथ्यात्वमुपाधिः । अतस्तस्य हीनबलत्वात् तेन नास्य सत्प्रतिपक्षितत्वम् । अतो रूप्ये हेतुज्ञानसम्भवाद् व्यभिचारस्तदवस्थ इति भावः । उक्तसामान्य-व्याप्तौ व्यभिचारमप्याह – नहीति ।। नहि– सत्यभूतस्य गौरत्वविरुद्धश्यामत्वस्यानधिकरणे वन्ध्यासुते तद्विरुद्धं गौरत्वं मिथ्याभूतं नास्ति, किन्तु सत्यभूतं गौरत्वमस्तीति युज्यते । किन्तु गौरत्वं तद्विरुद्धं श्यामत्वं चेत्युभयमपि वन्ध्यासुते मिथ्यैव; धर्मिण एव मिथ्यात्वात् । तथाचोक्तव्याप्तौ व्यभिचार इति भावः ।
ननु उक्तसामान्यव्याप्तौ विरुद्धत्वं न सहानवस्थितत्वादिसाधारणम्, किन्तु परस्परविरह-रूपत्वम् । नच गौरत्वश्यामत्वे परस्परविरहरूपे । अतो नोक्तो व्यभिचार इत्यत आह– नवा स्वप्न इति ।। स्वप्ने स्वप्नावस्थायाम् । क्वचिदधिकरण इति शेषः ।। तत्रैवेति ।। तदधिरकण इत्यर्थः । स्वप्नावस्थायां दृष्टे क्वचिदधिकरणे सत्यभूतगजाभावविरहरूपस्य गजस्यानधिकरणत्वं वर्तते, गजविरहरूपस्य गजाभावस्य मिथ्याभूतस्य नाधिकरणत्वम्, किन्तु सत्यभूतस्यैव गजाभावस्याधिकरणत्वमिति नास्ति । किन्तु गजो गजाभावश्चेत्युभयमपि मिथ्यैव इति परस्पर-विरहरूपविरुद्धत्वगर्भाया अप्युक्तव्याप्तेर्व्यभिचार इति भावः ।
रूप्यस्य धर्मिणो मिथ्यात्वात् तत्र सत्यत्वमिथ्यात्वे परस्परविरहरूपे अपि मिथ्यैवेत्युक्तं दूषयति– प्रतिपन्नेति ।। धर्मिसत्त्वानपेक्षधर्मस्य सत्यत्वं धर्मिमिथ्यात्वेऽपि युक्तम् । तथाच त्वदुक्तहेतोरप्रयोजकत्वादस्मदुक्तहेतोर्न रूप्ये व्यभिचार इति भावः । ननु प्रतियोगित्वमपि धर्मो विना धर्मिणं नावतिष्ठते, वन्ध्यासुतादावपि नात्यन्ताभावप्रतियोगित्वम्, किन्त्वत्यन्ताभावे एव वन्ध्यासुतप्रतियोगिकत्वमित्यत आह– अनिर्वाच्यत्वभङ्ग इति ।। अत्यन्ताभावस्य वन्ध्यासुत-प्रतियोगिकत्वे वन्ध्यासुतस्यापि तत्प्रतियोगित्वमवर्जनीयमेवेत्यादि वक्ष्यत इत्यर्थः । परोक्ते मिथ्यात्वोपतधर्मिकत्वे हेतौ धर्म्यसत्त्वप्रयुक्तसत्त्वाभाववत्त्वमुपाधिमाह– धर्म्यसत्त्व इत्यादिना ।। असत्त्वे सद्विलक्षणत्वे । असत्त्वम् सद्विलक्षणत्वम् ।।
धर्मिसत्त्वेति ।। धर्म्यसत्त्वप्रयुक्तसत्त्वाभाववत्त्वमित्यर्थः । अयं च साधनावच्छिन्न-साध्यव्यापको बोध्यः । तेन ब्रह्मण्यारोपितमिथ्यात्वादौ न साध्याव्याप्तिः । नञ्द्वयान्तर्भावाच्च वन्ध्यासुतश्यामत्वादौ च न साध्याव्याप्तिशङ्केति ध्येयम् । उक्तोपाधेः पक्षाद् व्यावृत्तिमाह– मिथ्यात्वमिति ।। मिथ्यात्वं तु धर्मिसत्त्वस्य विरहरूपम् । अतो धर्मिसत्यत्वं नापेक्षते, प्रत्युत धर्मिसत्यत्वं प्रतिक्षिपति इति त्वत्प्रतिकूलमित्यर्थः ।। अन्यथेति ।। सत्त्वविरहरूपातिरिक्तं ब्रह्मभिन्नत्वादिकं पारिभाषिकं मिथ्यात्वं सत्यत्वपक्षेऽप्यविरुद्धमित्यर्थः ।
अत्र वदन्ति – मिथ्यात्वमिथ्यात्वेऽपि प्रपञ्चसत्यत्वानुपपत्तिः । तत्र हि परस्परविरुद्ध-योरेकमिथ्यात्वेऽपरसत्यत्वम्, यत्र मिथ्यात्वावच्छेदकमुभयवृत्ति न भवेत्; यथा परस्परविरह-रूपयोः रजत–तदत्यन्ताभावयोः शुक्तौ । यथा वा परस्परविरहव्यापकयोः रजतभिन्नत्व–रजतत्वयोस्तत्रैव । तत्र निषेध्यतावच्छेदकभेदनियमात् । प्रकृते तु निषेध्यतावच्छेदकमेकमेव दृश्यत्वादि । यथा गोत्वाश्वत्वयोरेकस्मिन् गजे निषेधे गजत्वात्यन्ताभावव्याप्यत्वं निषेध्यता-वच्छेदकमुभयोस्तुल्यम्, इति नैकतरनिषेधेऽन्यतरसत्त्वम्, तद्वत् । यथाच सत्यत्व-मिथ्यात्वयोर्न परस्परविरहरूपत्वम्, न वा परस्परविरहव्यापकत्वम्, तथोपपादितमधस्तात् । पररस्परविरह-रूपत्वेऽपि विषमसत्ताकयोरविरोधात्, व्यावहारिकमिथ्यात्वेन व्यावहारिकसत्यत्वापहारेऽपि काल्पनिकसत्यत्वानपहारात् । तार्किकमतसिद्धसंयोग–तदभाववत् सत्यत्व–मिथ्यात्वयोः समुच्चयाभ्युपगमाच्च । एकसाधकेनापरस्य बाध्यत्वं विषमसत्ताकत्वे प्रयोजकम्; यथा शुक्तिरूप्य–तदभावयोः । अस्ति च प्रपञ्च–तन्मिथ्यात्वयोरेकब्रह्मज्ञानबाध्यत्वम्; अतस्समसत्ताकत्वात् मिथ्यात्वबाधकेन प्रपञ्चस्यापि बाधाद् नाद्वैतहानिः– इति ।
अत्रोच्यते; न तावत् परस्परविरहरूपयोरेकनिषेध्यतावच्छेदकावच्छिन्नत्वं सम्भवति । क्वाप्यदर्शनात् । गोत्वाश्वत्वादौ तु न परस्परविरहरूपत्वम्; अतो नोक्तदोषः । यथाच सत्यत्व–मिथ्यात्वयोः परस्परविरहरूपत्वम्, तथोपपादितमधस्तात् । उपपादयिष्यते च । यदपि च विषमसत्ताकयोरविरोध इत्युक्तम्, तदपि न । विषमसत्ताके सत्यत्व–मिथ्यात्वे किं रूप्येऽङ्गी-क्रियेते? किं वा जगति? नाद्यः । त्वया ‘रूप्यमिथ्यात्वं तात्त्विकमि’त्यग्र उक्तत्वेन तद्विरोधात् । रूप्ये मिथ्यात्वस्य व्यावहारिकत्वे बाध्यत्वापत्त्या रूप्ये सत्यत्वस्य तात्त्विकत्वा-पत्तेः । नान्त्यः; विषमसत्ताकयोस्तयोः प्रपञ्चे त्वयाऽनङ्गीकारात् । अत्रैव ‘सत्यत्वप्रमिथ्यात्वे प्रपञ्चे समसत्ताके’ इत्युक्तत्वाच्च । तथा सति अप्रातिभासिकत्वेनाङ्गीकृतस्य प्रपञ्चस्य व्यावहारिकमिथ्यात्वयुक्तस्य तात्त्विकत्वापत्तेर्दुवारत्वाच्च । सत्यत्वमिथ्यात्वयोस्समुच्चय-स्त्वत्यन्तायुक्तः । त्वयाऽपि सत्यत्व–मिथ्यात्वयोः परस्परसमुच्चये विरोधाद् बिभ्यता सदसद्वैलक्षण्यस्य रूप्येऽङ्गीकाराच्च ।
यच्चोक्तम् – एकबाधकेनापरबाध्यत्वमित्यादि, तदपि न । परस्परविरहरूपयोरेकबाधक-बाध्यत्वस्यासिद्धेः । शुक्तिरूप्य–शुक्तिभिन्नत्वयोः परस्परविरह रूपत्वाभावात् । यच्चोक्तम् – प्रपञ्चगतसत्यत्वमिथ्यात्वयोः समसत्ताकत्वमिति, तदपि न । निरसिष्यमाणत्वात् । विरुद्धयो-र्द्वयोरेकाधिकरणे समसत्ताया असिद्धेः । अन्यथा वह्नावपि व्यावहारिकानौष्ण्य–तदभावौ स्याताम्, इति कालात्ययापदिष्टमात्रोच्छेदः स्यात् । त्वयैव व्यावहारिकौष्ण्याभावविषयत्वेन बाधव्यवस्थोक्तेश्च इति पूर्वापरविरोधपरिहारं भवानेव पृष्टो व्याचष्टाम् । तस्मात् साधूक्तम् – जगच्च सत्यं स्यादात्मवदिति ।।
न्यायामृतकण्टकोद्धारः
विशेषतो मिथ्यात्वं खण्डयित्वा सामान्यतोऽपि खण्डयति – अस्तु वेति ।। ननु मिथ्या-त्वस्य ब्रह्मस्वरूपत्वात् नाद्वैतहानिकरत्वमित्यत आह– न हीति ।। विरुद्धधर्माधिकरण-योरैक्यासम्भवादिति भावः । ननु निरुपाधिकं भ्रमकालनिश्चितं निरुक्तातिरिक्तमेव मिथ्यात्वं ब्रह्मस्वरूपं साध्यते अतो न दोषः इत्यत आह– तस्येति ।। एतादृशमिथ्यात्वरूपं ब्रह्मैव प्रपञ्चे साध्यते चेत्, तस्य ब्रह्मरूपमिथ्यात्वस्य प्रपञ्चे मयाऽप्यङ्गीकारात् सिद्धसाधनं स्यादित्यर्थः । ब्रह्मणो व्यापकत्वेनान्तर्यामित्वेन सर्वत्राङ्गीकारादिति भावः । जगच्चेति ।। तथा च जगत्, सत्यम्, मिथ्याभूतमिथ्यात्वकत्वात्, आत्मवदित्यनुमानं फलितमित्यर्थः ।
अत्र कश्चित् – मिथ्यात्वमिथ्यात्वेऽपि प्रपञ्चसत्यत्वानुपपत्तिः । न च परस्परविरुद्धयोरेक-मिथ्यात्वेऽपरसत्यत्वनियम इति वाच्यम् । यत्र मिथ्यात्वावच्छेदकस्य विरुद्धधर्मवृत्तिता नास्ति तद्विषयत्वादस्य नियमस्य, परस्परविरहरूपधर्मविषयत्वाद्वा; यथा परस्परविरहरूपयो रजतत्व-तदभावयोः शुक्तौ । यथा वा परस्परविरहव्यापकयो रजतभिन्नत्वरजतत्वयोस्तत्रैव तत्र निषेध्यतावच्छेदकभेदनियमात् । यथा च न सत्यत्वमिथ्यात्वयोः परस्परविरहरूपत्वम्, न वा परस्परविरहव्यापकत्वम् तथोपपादितमधस्तात् । यत्र तु निषेध्यतावच्छेदकमुभयवृत्ति, तत्रोभयोरपि विरुद्धयोर्धर्मयोर्निषेधः; यथा गजे गोत्वाश्वत्वयोरुभयोर्निषेधः । निषेध्यतावच्छेदकस्य गजत्वात्यन्ताभावव्याप्यत्वस्योभयत्र विद्यमानत्वात् । प्रकृते च निषेध्यतावच्छेदकं दृश्यत्वं सत्यत्व–मिथ्यात्वयोरुभयोरप्यस्ति इत्युभयनिषेधोपपत्तिः । अस्तु वा परस्परविरहरूपत्वम् । तथापि विषमसत्ताकयोः विरोध एव नास्ति । व्यावहारिकमिथ्यात्वेन व्यावहारिकसत्यत्वाप-हारेऽपि काल्पनिकसत्यत्वानपहारात् । तार्किकमतसिद्धसंयोग–तदत्यन्ताभाववत् सत्यत्व-मिथ्यात्वयोः समुच्चयाभ्युपगमाच्च । एकसाधकेनापरस्य बाध्यत्वं विषमसत्ताकत्वे प्रयोजकम् । यथा शुक्तिरूप्यतदभावयोः । एकबाधकबाध्यत्वं हि समसत्ताकत्वे प्रयोजकम्; यथा शुक्तिरूप्य–शुक्तिभिन्नत्वयोः । अस्ति च प्रपञ्चतन्मिथ्यात्वयोरेकब्रह्मज्ञानबाध्यत्वम् । अतः समसत्ताकत्वात् मिथ्यात्वबाधकेन प्रपञ्चस्यापि बाधनात् नाद्वैतहानिः – इत्याह ।
तन्न । प्रकृतेऽपि तुच्छब्रह्मणोरपि दृश्यत्वस्य विद्यमानत्वेन निषेध्यतानवच्छेदकत्वात् । किञ्च परस्परात्यन्ताभावरूपयोरेकमिथ्यात्वेऽपरसत्यत्वनियमः । गोत्वाश्वयोश्च न परस्परात्यन्ता-भावरूपत्वम् । तयोर्जातित्वेन भावरूपत्वात् । न च सत्यत्व–मिथ्यात्वयोरपि परस्परात्यन्ता-भावरूपत्वमसिद्धमिति वाच्यम् । प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपमिथ्यात्वा-भावस्यैव सत्यत्वात् । न च तुच्छस्यापि सत्यत्वापातः; तत्र मिथ्यात्वव्यतिरेकासिद्धेः । तथा चोक्तनियमान्नाप्रयोजकत्वमिति ।।
यच्चोक्तम् – परस्परविरहरूपत्वेऽपि विषमसत्ताकयोर्न विरोध इति, तन्न । सिद्धे प्रपञ्च-मिथ्यात्वे विषमसत्ताकयोरविरोध इति कल्पना, तस्यां च सत्यां मिथ्यात्वसिद्धिः, इतीतरे-तराश्रयप्रसङ्गात् । यदपि – संयोग-तदत्यन्ताभावयोरिव समुच्चयोऽभ्युपगम्यत इति, तदपि न । संयोग-तदत्यन्ताभावयोरवच्छेदकभेदेन भिन्नाश्रितत्वस्यैवानुभवेन समुच्चयासम्प्रतिपत्तेः, तद्वत् प्रकृतेऽवच्छदकभेदाभावाच्च । न च अत्रापि स्वरूपेण सत्यत्वं पारमार्थिकत्वेन निषेधः, इति समुच्चयोपपत्तिरिति वाच्यम् । उक्तरीत्या सत्यत्वमिथ्यात्वयोर्निर्धर्मके ब्रह्मण्यपि सम्भवेन ब्रह्मापि सत्यं मिथ्या च इत्यङ्गीकारः स्यात् । यदपि च – एकबाधकबाध्यत्वं समसत्ताकत्वे प्रयोजक-मिति, तदपि न । प्रपञ्चवत् तन्मिथ्यात्वस्यापि ब्रह्मज्ञानबाध्यताङ्गीकारे ‘मिथ्यात्वस्य तात्त्विक-त्वाद् ब्रह्मस्वरूपत्वेन नाद्वैतहानिः’ इति स्वोक्तिविरोधापत्तेरिति दिक् ।
जगत् सत्यम्, मिथ्याभूतमिथ्यात्वकत्वादित्यत्रोपाधिमाशङ्क्य निषेधति – न चेति ।। उपाधेः स्वातन्त्र्येण दूषकत्वाभावात्, जगत्, असत्यम्, अनात्मत्वादिति सत्प्रतिपक्षोन्नायकतया दूषकत्वं वक्तव्यम् । तच्च न सम्भवति । प्रतिपक्षानुमानस्याप्रयोजकतापराहतत्वात् । न च अप्रयोजकत्वं पूर्वानुमानेऽप्यविशिष्टमिति वाच्यम् । तत्र विपक्षे व्याघातरूपबाधकवत् प्रकृते बाधकाभावात् । न च प्रपञ्चस्य मिथ्यात्वेन यः सत्यः, स अनात्मा नेति व्याप्त्या हेतूच्छित्तिरेव बाधिकेति वाच्यम् । अस्य मिथ्यात्वसिद्धु्यत्तरकालीनत्वेनान्योन्याश्रयात् । तस्मात् नाय-मुपाधिरित्याह– सत्यत्वं विनेति ।। ‘न ही’त्युक्तपरिहारमाशङ्क्य निषेधति – न चेति ।। तथा च न विरुद्धधर्माधिकरणत्वमिति भावः । द्वितीयाभावस्तदोपलक्षणं स्यात्, यदि तदुपलक्ष्यं पूर्वाज्ञातं किञ्चित् स्यात् । तदेव नास्तीत्याह– द्वितीयाभावाधिकरणतयेति ।। जगत्, सत्यम्, मिथ्याभूतमिथ्यात्वादित्यत्र व्यभिचारं शङ्कते – नन्विति ।। तथा च रूप्ये व्यभिचार इति भावः । उक्तानुमाने व्यभिचारपरिहारमाशङ्क्य निषेधति – न च तथात्व इति ।। धर्मिणो मिथ्यात्व इति ।। तथा च धर्मिमिथ्यात्वम्, मिथ्या, धर्मिमिथ्यात्वादित्यनुमानं फलितम् । उक्तव्याप्तेश्च सत्यभूतधर्मिविषयकत्वादिति भावः । ननु तर्हि सामान्यनियमस्य का गतिरितित्यत आह– परस्परेति ।। तस्यापि सत्यभूतधर्मिविषयकत्वादिति भावः । धर्म्यसत्त्वेऽप्यस्य नियम-स्याङ्गीकारेण बाधकमाह – न हि वन्ध्येति ।। ननु परस्परविरुद्धयोरित्यनेन परस्परविरह-रूपत्वस्य विवक्षितत्वात् नोक्तबाधकावसरः, इत्यतो बाधकान्तरमाह– न वा स्वप्न इति ।। हेतोरेवानागमनात् न व्यभिचार इत्याह – प्रतिपन्नोपाधाविति ।। तच्च सत्यमेव, इति न व्यभिचार इति शेषः । रूप्यमिथ्यात्वम्, मिथ्या, धर्मिमिथ्यात्वादित्यत्राप्रयोजकत्वमाह– न च प्रतियोगित्वमिति ।। तथा च धर्मिमिथ्यात्वेऽपि धर्मस्य सत्यत्वोपपत्तेरिति भावः । नन्वेवं धर्म्यसत्त्वे धर्मासत्त्वमिति व्याप्तेः का गतिरित्यत आह – धर्म्यसत्त्व इति ।। अन्यथेति ।। यदि धर्मिसत्वानुगुणं मिथ्यात्वं साध्यत इत्यर्थः ।
न्यायामृतप्रकाशः
ननु मिथ्यात्वस्याबाध्यत्वेऽपि ब्रह्मस्वरूपत्वाङ्गीकारान्नाद्वैतहानिरित्यत आह– नहीति ।। प्रपञ्चेति ।। कालादिप्रपञ्चघटितत्वादिति भावः ।। भ्रमकालेति ।। रूप्यमिथ्यात्वस्य भ्रमकाले निश्चये रूप्यभ्रमाद्रूप्यार्थिनः प्रवृत्तिर्न स्यादिति भावः । ब्रह्मणो भ्रमकाले निश्चितत्वोपपादनायाधिष्ठाने-त्युक्तम् ।। तस्य मां प्रत्यपि सिद्धत्वादिति ।। मिथ्यात्वस्य ब्रह्मस्वरूपत्वे प्रपञ्चो मिथ्येत्यस्य प्रपञ्चो ब्रह्मस्वरूपवानित्यर्थः स्यात् । इदं च मां प्रत्यपि सिद्धम् । ब्रह्मणो व्याप्तत्वेन प्रपञ्चेऽपि सत्त्वेन सिद्धसाधनतेति भावः ।। व्यभिचारश्चेति ।। दृश्यत्वसत्त्वेऽपि मिथ्यात्वाभावादिति भावः । हेतोरेवाऽभावान्न व्यभिचार इत्याशङ्क्य निराकरोति – मिथ्यात्वस्येति ।। कुतोऽनुमानवैयर्थ्यमित्यत आह– तस्येति ।। सिद्धसाधनमिति ।। जगन्निष्ठमिथ्यात्वस्य बाध्यताया अस्माभिरङ्गीकारादिति भावः ।। अतत्वेति ।। बाध्यभूतमिथ्यात्वावेदकत्वादिति भावः ।। जगच्चेति ।। जगत्सत्यं मिथ्याभूत-मिथ्यात्वकत्वादात्मवदित्यनुमानमुक्तं भवति ।। उपाधिरिति ।। आत्मनि साध्यव्यापकत्वात्पक्षे जगत्यभावेन साधनाव्यापकत्वाच्चेति भावः ।। सत्यत्वं विनेत्यादि ।।
अयमभिप्रायः । आत्मत्वमुपाधिमुक्त्वा तद्व्यतिरेकेण जगत्सत्यं न अनात्मत्वाद्व्यतिरेकेणाऽऽत्म-वदिति सत्प्रतिपक्षोन्नयनं कार्यम् । तन्न सम्भवति । अनात्मत्वमस्तु सत्यत्वमेवास्त्वित्यप्रयोजकत्वेन सत्यत्वे आत्मत्वोपाधेरप्रयोजकत्वात् । न चैवं भवदीये स्थापनानुमानेऽपि अस्तु मिथ्याभूत-मिथ्यात्वकत्वं सत्यत्वं माऽस्त्वित्यप्रयोजकत्वमेवेति साम्यमिति वाच्यम् । मिथ्याभूतमिथ्यात्वकत्वे सत्यत्वस्यैव प्राप्त्या पुनः सत्यत्वं माऽस्त्वित्युक्तेः स्वक्रियाविरुद्धत्वेन व्याघाताख्यानुकूलतर्कस्य हेतुसाध्यव्याप्तिग्राहकस्य सत्त्वान्नाप्रयोजकता शङ्क्या । शङ्कायाः व्याघातावधित्वात् । ‘‘व्याघाता-वधिराशङ्के’’त्युदयनोक्तेः । ननु (तर्हि)मदीये सत्प्रतिपक्षानुमानेऽपि व्याघातरूपानुकूलतर्कस्य हेतु-साध्यव्याप्तिग्राहकस्य सत्त्वान्नाप्रयोजकतेति चेन्न । अनात्मत्वमस्तु सत्यत्वमेवास्त्वित्यत्रानात्मत्व-सत्यत्वयोर्व्याघाताभावात् । नन्वस्ति व्याघातः । असत्यत्वमनात्मत्वं सत्यत्वमेव चात्मत्वमिति चेन्न । अनात्मत्वस्याज्ञातृत्वादिरूपत्वात्सत्यत्वस्य चाबाध्यत्वादिरूपत्वेन विरोधाभावादिति ।
यद्वा इत्थं व्याख्येयम् । आत्मत्वं नोपाधिः कुत इत्यत उक्तं – अप्रयोजकत्वादिति । साध्या-भावाविनाभाव्यभावत्वाभावेन सत्यत्वे आत्मत्वस्याप्रयोजकत्वादित्यर्थः । ‘‘साध्याभावाविनाभावी स उपाधिर्यदत्यय’’ इति वचनात् । तथाचोपाधेः साध्याभावाविनाभाव्यभावत्वेन यत्रात्मत्वाभावः तत्र सत्यत्वाभाव इति व्याप्तिस्तावदवश्यं ग्राह्या । सा न युक्ता । अनात्मत्वेऽपि सत्यत्वोपपत्तेरित्य-प्रयोजकत्वात् ।
ननु तर्हि भवदनुमानेऽपि मिथ्याभूतमिथ्यात्वकत्वेऽपि सत्यत्वं माऽस्त्वित्यप्रयोजकता स्यादिति चेन्न । सत्यत्वं विना मिथ्याभूतमिथ्यात्वकत्वेऽङ्गीक्रियमाणे व्याघातेनाप्रयोजकतायाः शङ्कानर्हत्वात् । ननु तर्हि यत्रात्मत्वाभावः तत्र सत्यत्वाभाव इत्युपाध्यभावसाध्याभावयोर्व्याप्तावपि नाप्रयोजकता । असत्यत्वरूपानात्मत्वमङ्गीकृत्य सत्यत्वाभावानङ्गीकारे व्याघातसम्यादिति चेन्न । अज्ञातृत्व-रूपानात्मत्वस्य असत्यत्वं सत्यत्वाभावं विना स्थित्यङ्गीकारे व्याघाताभावादिति योजनाद्वयेऽपि प्रमेयं त्वेकमेव । इयांस्तु विशेषः । उपाधिमुक्त्वा क्रियमाणे सत्प्रतिपक्षोन्नयने अप्रयोजकतापरत्वेन प्राचीनव्याख्यानम् । उपाधेरप्रयोजकत्वादिति मूलग्रन्थस्वारस्यानुसारेण साध्याभावाविना भाव्य-भावत्वस्योपाधिलक्षणत्वेनोपाध्यभावसाध्याभावयोरवश्यं व्याप्तिर्ग्राह्या । तत्राप्रयोजकतापरत्वेन द्वितीयव्याख्यानमिति ।
ननु मिथ्यात्वमबाध्यमित्यङ्गीक्रियते । नचाद्वैतहानिः । ब्रह्मस्वरूपत्वाङ्गीकारात् । नच सोपाधिकनिरुपाधिकयोरैक्यायोगः । निरुपाधिकब्रह्ममात्रत्वाभावेऽपि द्वितीयाभावोपलक्षितब्रह्म-स्वरूपत्वाङ्गीकारात् । द्वितीयाभावोपलक्षितं च ब्रह्मस्वरूपं न निरुपाधिकं नवा भ्रमकाले निश्चितं । द्वितीयरूपप्रपञ्चभ्रमकाले तदभावोपलक्षितब्रह्मस्वरूपस्यानिश्चितत्वात् । अतो नोक्तदोष इत्याशङ्क्य निषेधति – नचेति ।। उपलक्षण इति ।। उपलक्षणे द्वितीयाभावरूपमिथ्यात्व एव बाध्याबाध्य-विकल्पस्येदानीमस्माभिः क्रियमाणत्वेन मिथ्यात्वं मिथ्यात्वोपलक्षितब्रह्मस्वरूपमित्युक्तं स्यात् । तथाचात्माश्रय इति सांप्रदायिकोऽर्थः ।
केचित्तु उपलक्षणस्य द्वितीयाभावस्य बाध्यत्वे द्वितीयस्य प्रपञ्चस्याबाध्यत्वेन सत्यत्वं स्यात् । अबाध्यत्वे अद्वैतहानेरित्येवं मिथ्यात्वं यदुपलक्षितब्रह्मस्वरूपमित्युच्यते तस्मिन्नुपलक्षणे द्वितीयाभाव एव बाध्याबाध्यविकल्पप्रसारादित्यर्थ इत्याहुः ।
द्वितीयाभावस्योपलक्षणत्वमेवायुक्तम् । उपलक्ष्यस्याभावादित्याह– द्वितीयेत्यादि ।। अप्रसिद्ध-स्योपलक्ष्यस्य प्रसिद्धमुपलक्षणं भवति । ब्रह्म तु द्वितीयाभावरूपोपलक्षणज्ञाना(त्पूर्वमेव) त्प्रागेव ज्ञातमिति न तस्योपलक्ष्यत्वं युक्तम् । कथं तत्पूर्वं ज्ञातमस्तीत्यत उक्तम् – द्वितीयाभावेति ।। अभावज्ञाने अधिकरणज्ञानस्य कारणत्वाद्द्वितीयाभावरूपोपलक्षणस्य ज्ञानार्थं तदधिकरणभूतशुद्धब्रह्म-ज्ञानमावश्यकमित्यर्थः । तथाचोपलक्षणज्ञाना(त्पूर्वमेव)त्प्रागेव ज्ञातं शुद्धं ब्रह्म प्रति न द्वितीया-भावस्योपलक्षणत्वं युक्तमिति भावः । किञ्चाहमज्ञ इति प्रतीयमानत्वेनाङ्गीकृताया अविद्यायाः प्रतीतिस्तदधिष्ठानभूतशुद्धब्रह्मस्पुरणं विना न सम्भवतीत्यविद्यारोपार्थमधिष्ठानभूतशुद्धब्रह्मज्ञान-मावश्यकमित्यभिप्रायेणोक्तम् अविद्याधिष्ठानतयेति । प्रकारान्तरेणापि भासमानत्वमुपपादयति– तत्साक्षितयेति ।। अविद्याविषयकसाक्षिरूपज्ञानतयेत्यर्थः । तच्च ब्रह्मस्वरूपं स्वप्रकाशमिति सदा भासत इत्यर्थः । ननु काकेन गृहगतोत्तृणत्वादिसंस्थानविशेष इव प्रकाशमानब्रह्मगतं धर्मान्तरमेव द्वितीयाभावेनोपलक्ष्यतामित्यत उक्तम् – अन्यस्येति ।। निर्धर्मकत्वादिति भावः ।
जगत्सत्यं मिथ्याभूतमिथ्यात्वकत्वादात्मवदित्युक्तानुमाने रूप्ये व्यभिचार इत्याशयेन तत्र हेतुसत्त्वं साधयति – नन्वित्यादिना ।। रूप्यधर्म इति हेतुगर्भं विशेषणम् । धर्मिण एवाभावादिति भावः । तथाच रूप्यगतं मिथ्यात्वं मिथ्या अविद्यमानधर्मिकत्वादित्यनुमानमुक्तं भवति । एवं च रूप्ये मिथ्याभूतमिथ्यात्वकत्वे सत्यपि सत्यत्वाभावाद्व्यभिचार इति हृदयम् । सिद्धान्ती उक्तानुमानस्य प्रतितर्कपराहतिमाशङ्कते – नचेति ।। तथात्व इति ।। रूप्यगतमिथ्यात्वं यदि मिथ्या स्यात्तदा परस्परविरुद्धयोरेकस्याभावेऽन्यतरस्य सत्त्वनियमात् तत्सत्यत्वं सत्यं स्यादिति प्रतितर्कपराहत-त्वादुक्तानुमानमसत् । तथाच रूप्ये हेतोरेवाभावान्न व्यभिचार इति हृदयम् ।
ननु यदि धर्मिण एव मिथ्यात्वेन तत्रत्ययोर्विरुद्धयोस्सत्यत्वमिथ्यात्वरूपधर्मयोर्द्वयोरपिमिथ्यात्व- मुच्यते तर्हि परस्परविरुद्धयोरित्युक्तनियमभङ्ग इत्यत आह– परस्परेति ।। ननु यत्र धर्मी असन् तत्राप्ययं नियमः किं न स्यादित्यत आह– नहीति ।। तयोरपि सहानवस्थान-रूपविरोध-सद्भावादिति भावः ।
ननु वन्ध्यासुते श्यामत्वाभावे गौरत्वं न सत्यं तयोः परस्परविरहव्याप्यत्वेन परस्परविरह-रूपत्वाभावात् । तथाच परस्परविरहरूपविरोधिनोरेकस्याभावेऽन्यस्य सत्त्वमिति विवक्षितनियमस्य व्यभिचारस्याभावात् । प्रकृतेच रूप्यगतमिथ्यात्वसत्यत्वयोः परस्परविरहरूपत्वसद्भावेन तन्मध्ये मिथ्यात्वस्य मिथ्यात्वे सत्यत्वं सत्यं स्यादेवेत्यतोऽस्यापि नियमस्य व्यभिचारमाह– नवेति ।। तत्रैवेति ।। स्वप्न एवेत्यर्थः । तदभावो गजाभावः । तथाच स्वाप्नगजतदभावयोः परस्पर-विरह-रूपविरोधवतोरेकस्याभावेऽपरस्य सत्त्वाभावाद्व्यभिचार इति भावः । तथाच रूप्यगते मिथ्यात्वसत्यत्वे मिथ्या अविद्यमानधर्मिकत्वात् स्वाप्नगजतदभाववदित्यनुमानेनोभयोरपि मिथ्यात्वावगमेन मिथ्याभूत-मिथ्यात्वकत्वस्य जगत्सत्यत्वसाधकस्य रूप्ये व्यभिचारः सुस्थ इति हृदयम् ।
न्यायकल्पलता
अथ मिथ्यात्वं सामान्यतो निराकर्तुमुपक्रमते । अस्तु वेति ।। तत्राभ्यर्हितत्वेन प्रथमं विकल्पित-मबाध्यत्वं दूषयति । आद्य इति । ननु मिथ्यात्वस्याबाध्यत्वेऽपि नाद्वैतहानिः तस्य ब्रह्मस्वरूप-त्वादित्यत आह । न हीति । भ्रमकालानिश्चितमिति । अन्यथा पुरोवर्तिनि रजतभ्रमाद्रजतार्थिनः प्रवृत्तिर्न स्यादित्यर्थः । अधिष्ठानेति । एतच्च भ्रमकाले ब्रह्मणो निश्चयोऽस्तीत्यस्योपपादनम् । तस्येति । ब्रह्मस्वरूपमात्रस्य प्रपञ्चमिथ्यात्वस्येत्यर्थः ।। दृश्यत्वादेरिति ।। ब्रह्मस्वरूपे अबाध्ये मिथ्यात्वे दृश्यत्वस्य ज्ञातृत्वरूपजडत्वस्य च ब्रह्मावृत्तितया परिच्छिन्नत्वस्य च सत्वादित्यर्थः । ननु साध्या-भाववत्यपि मिथ्यात्वे दृश्यत्वस्य हेतोरभावान्न व्यभिचार इत्यत आह । मिथ्यात्वस्य चेति । यदि मिथ्यात्वं नानुमितिविषयस्तर्हि तदनुमानवैय्यर्थ्यमित्यर्थः । तस्येति । मिथ्यात्वानुमानस्य प्रतिवादिनं प्रति मिथ्यात्वसाध्यज्ञप्त्यर्थत्वेन त्वया प्रयुक्तत्वादित्यर्थः । उपलक्षणमेतत् । मिथ्यात्वस्याज्ञातृत्वादि-रूपजडत्वाभावे ज्ञातृत्वाद्यपत्तिः । परिच्छिन्नत्वाभावे ब्रह्मवृत्तित्वभङ्गः । अन्त्य इति । मिथ्यात्वस्य बाध्यत्वपक्ष इत्यर्थः । सिद्धसाधनमिति । बाध्यत्वरूपमिथ्यात्वस्य प्रपञ्चे ममानिष्टत्वाभावादित्यर्थः । अद्वैतश्रुतेरिति । बाध्यत्वरूपमिथ्यात्वस्यातत्त्वावेदकत्वादित्यर्थः । जगच्चेति । जगत्सत्यं बाध्य-मिथ्यात्वकत्वादात्मवदित्यनुमानादित्यर्थः ।
नन्वात्मनि सत्ये साध्यव्यापकपक्षे प्रपञ्च एव साधनाव्यापकमात्मत्वमुपाधिः स्यादित्याशङ्क्य निराकरोति । नचेति । कुतो न वाच्यमित्यत आह । सत्यत्वं विनेति । प्रपञ्चसत्यत्वविषयके स्थापनानुमाने मिथ्याभूतमिथ्यात्वकत्वस्य हेतोः सत्यत्वरूपसाध्येन व्याप्तिग्राहको व्याघातमूलस्तर्कोऽस्ति । आत्मत्वस्योपाधेर्व्यतिरेकेणानात्मत्वेन क्रियमाणे स्थापनानुमानीयसाध्यस्य सत्यत्वस्य व्यतिरेकानु-मानेऽनुकूलतर्काद्यभावेनोपाधेरप्रयोजकत्वादित्यर्थः । अयमभिसन्धिः । सत्यत्वमिथ्यात्वयोरुक्तवक्षमाण-रीत्या परस्परविरहरूपतया विपक्षे व्याघातलक्षणप्रतिकूलतर्कसद्भावेन यदि विमतं सत्यं न स्यात्तर्हि बाध्यमिथ्यात्वकं न स्याच्छुक्तिरूप्यवदित्यनुकूलतर्केण च स्थापनानुमाने हेतोः साध्यव्याप्यतानिश्चये साध्यव्याप्यहेत्वव्यापकत्वेनोपाधेः साध्यव्यापकत्वम् । तदुक्तम्–
अनुकूलेन तर्केण सनाथे सति साधने ।
साध्यव्यापकताभङ्गात् पक्षे नोपाधिसम्भव इति ।
ननु विमतमसत्यमनात्मत्वाच्छुक्तिरजतवदित्युपाध्युन्नीतानुमानेऽपि यदीदमसत्यं न स्यात्तदानात्म न स्यादात्मवदित्यनुकूलतर्कसद्भावात्तदुन्नायकेऽप्युपाधौ साध्यव्यापकताग्रहः प्रतिपक्षानुमाने विपक्षबाधकस्यैव तर्कस्य तन्निश्चायकत्त्वादिति चेत् । न । सत्यत्वमिथ्यात्वयोः परस्परविरहरूपत्वेन स्थापनानुमाने विपक्षबाधकव्याघातरूपतर्कवत्प्रतिपक्षानुमाने विपक्षबाधकव्याघातमूलकतर्काभावात् । तथा हि । परस्परविरहव्याप्यत्वस्य व्याघाताप्रयोजकत्वात् सत्यत्वानात्मत्वयोस्तदभावाच्च । त्वन्मते सत्येऽप्यात्मन्य-ज्ञातृत्वादिरूपानात्मत्वविरहासत्वात् । अज्ञातृत्वादिरूपानात्मत्ववति तस्मिन् सत्यत्वविरहाभावात् । एवं च तयोर्विरोधः किं परस्परविरहरूपतया आहोस्वित् परस्परविरहव्यापकतया । नाद्यः । अबाध्यत्व-रूपसत्यत्वस्याज्ञातृत्वादिरूपानात्मत्वविरहतानुपपत्तेः । न द्वितीयः । त्वन्मते सत्यत्वविरहवत्यन्तःकरणे अज्ञातृत्वरूपानात्मत्वाभावात् । अनात्मविरहवति तस्मिन्नेव सत्यत्वाभावात् । तथा च विपक्षे व्याघातरूपबाधकस्य तर्कस्याभावेनोपाधेः साध्यव्यापकत्वेनाप्रयोजकता । तदुक्तम् ।
यस्यानुकूलस्तर्कोस्ति स एव स्यात् प्रयोजकः ।
तदभावेऽन्यथासिद्धिस्तस्याः स हि निवारक इति ।
किञ्च प्रतिपक्षानुमाने स्वरूपेण त्रैकालिनिषेधप्रतियोगित्वमत्यन्तासत्त्वं वोपाधिः । तदभावस्य परेणापि प्रपञ्चेऽङ्गीकृतत्वात् । अथ चिद्रूपत्वमात्मत्वं तद्विरहोऽचिद्रूपत्वं एवं च सत्यत्वानात्मत्वयोः परस्पर-विरहरूपत्वाभावेऽपि परस्परविरहव्यापकतया प्रतिपक्षानुमाने विपक्षे व्याघातलक्षणप्रतिकूलस्य व्याप्ति-ग्रहानुकूलस्य तर्कस्य सद्भावादुपाधेः साध्यव्यापकता सेत्स्यतीति चेत् । न । तन्मते ब्रध्नीद्धेचैतन्ये सत्यत्वविरहे सत्यपि अचिद्रूपत्वाभावात् । अचिद्रूपत्वविरहवति तस्मिन्नेव सत्यत्वासम्भवात् । जडत्व-हेतुभङ्गे वक्ष्यमाणरीत्याऽऽत्मनश्चिद्रूपत्वायोगाच्च । ननु यद्यपि सत्यमबाध्यं बाध्यं मिथ्येति पक्षाश्रयेण सत्यत्वमिथ्यात्वयोः परस्परविरहरूपता तथाप्यनिर्वचनीयत्वं मिथ्यात्वमिति पक्षे न तयोस्तथात्वम् । नापि परस्परविरहव्यापकत्वम् । अनिर्वचनीयत्वविरहवति तुच्छे सत्यत्वाभावात्् । सत्यत्वविरहवति तस्मिन्नेवानिर्वचनीयत्वासम्भवात् । परस्परविरहव्याप्यत्वे सत्यपि तस्य व्याघाताप्रयोजकत्वात् । परस्परविरहव्याप्ययोरपि गोत्वाश्वत्वयोर्विरहस्य गजादौ सहोपलम्भात् । तथा चानिर्वचनीयत्व-रूपमिथ्यात्वस्य बाध्यत्वे न तेन प्रपञ्चस्य सत्यत्वसिद्धिरुभयविरहस्यापि सम्भवादिति चेत् । मैवम् । सदसत्त्वानधिकरणत्वरूपस्य ज्ञाननिवर्त्यत्वलक्षणस्य चानिर्वचनीयत्वरूपमिथ्यात्वस्य शुक्तिरजतादाव-सम्भवेन बाध्यत्व एव पर्यवसेयत्वात् । तस्मात्साधूक्तं बाध्यमिथ्यात्वकत्वे जगत्सत्यं स्यादिति ।
नन्वबाध्यं मिथ्यात्वमित्याद्यपक्षेऽपि नाद्वैतहानिः । द्वितीयाभावोपलक्षितब्रह्मस्वरूपत्वाङ्गीकारात् । न च तन्निरुपाधिकं न वा भ्रमकाले निश्चितं न वा त्वां प्रति सिद्धमित्याशङ्क्य निराचष्टे । न चेति । कुतो न वाच्यमित्यत आह । उपलक्षण इति । ब्रह्मोपलक्षणत्वेनोक्तो द्वितीयाभाव एव विवेक्तव्यः किं बाध्यः उताबाध्यः इति । नाद्यः । बाध्यद्वितीयाभावोपलक्षितब्रह्मात्मकस्य मिथ्यात्वस्यापि बाध्यत्वेन व्याहतिः । तदावेदकश्रुत्यप्रामाण्यसिद्धसाधनप्रपञ्चसत्यत्वप्रसङ्गात् । द्वितीये तु सदद्वैतमतक्षतिः । अद्वैतश्रुतेर-खण्डार्थत्वहानिः, ब्रह्मणः सविशेषत्वप्रसङ्गश्चेति दूषणसहिताद्विकल्पान्न वाच्यमित्यनेनान्वयो बोध्यः । किञ्च द्वितीयाभावस्योपलक्षणत्वं किं पताकवच्चैत्रग्रहमित्यत्र पताकाया इवायावद्द्रव्यभावित्वेन । उत चित्रगुमानयेत्यत्र गवामिव कार्यानन्वयित्वेन । न प्रथमः । अनित्यत्वापातात् । न द्वितीयः । मुक्तौ ब्रह्मणो जीवाभेदासिद्धिप्रसङ्गादिति । द्वितीयेति । अप्रसिद्धस्योपलक्ष्यस्य प्रसिद्धमुपलक्षणं दृष्टम् । द्वितीयाभावरूपोपलक्षणेन यदुपलक्ष्यं ब्रह्म तस्य त्वन्मते नित्यसिद्धत्वेन तस्य तत् प्रति नोपलक्षणत्व-मित्यर्थः । ज्ञातस्यैवोपलक्षणत्वेनाभावरूपो लक्षणस्य द्वितीयाभावस्य ज्ञानार्थं तदधिकरणभूतशुद्ध-ब्रह्मज्ञानमावश्यकमित्यभिसन्धायोक्तं द्वितीयाभावाधिकरणतयेति । तथा चोपलक्षणस्य ज्ञानात्प्रागेव ज्ञातं शुद्धं ब्रह्म प्रति न द्वितीयाभावस्योपलक्षणत्वमिति भावः । सुषुप्तावप्यनुभूयमानत्वेनाङ्गीकृताविद्यायाः प्रतीतिस्तदधिकरणशुद्धब्रह्मस्फुरणमन्तरेण न सम्भवतीति तदर्थमपि शुद्धब्रह्मज्ञानमावश्यकमित्यभि-प्रेत्योक्तं अविद्येत्यादि । अनाद्यविद्याया अनारोपितत्वे ब्रह्मसत्तासमसत्ताकत्वेनानिर्मोक्षप्रसङ्गात् आरोपितत्वं वक्तव्यम् । आरोपश्चाधिष्ठानद्रष्ट्रसापेक्ष इति तदधिष्ठानतया स्वप्रकाशसाक्षिरूपतया च ब्रह्मस्फुरणमुररीकरणीयं, तदन्यस्य तदधिष्ठानत्वतद्द्रष्ट्रत्वयोरयोगादिति भावः । ननु काकेन ग्रहगतसंस्थानविशेष इव प्रकाशमानब्रह्मवृत्तिधर्मान्तरमेव द्वितीयाभावेेन उपलक्ष्यतामित्यत उक्तम् । चिदन्यस्येति । ब्रह्मणो निर्विशेषत्वात् भासमानाभासमानविभागानुपपत्तेरुपलक्षणकाले च द्वितीय-मात्राभावाच्चेति भावः । विमतं सत्यं बाध्यमिथ्यात्वकत्वात्् आत्मवदिति प्रपञ्चसत्यत्त्वानुमाने व्यभिचारं शङ्कते । नन्विति । एवञ्च रजतवृत्तिमिथ्यात्वस्य मिथ्यात्वेन बाध्यमिथ्यात्वकत्वं हेतुः शुक्तिरूप्ये वर्तते । साध्यं च सत्यत्वमबाध्यत्वलक्षणं नास्तीति व्यभिचार इति भावः ।
ननु यदि रूप्यगतं मिथ्यात्वं मिथ्या तर्हि मिथ्यात्वविरुद्धं सत्यं प्रसज्येत । यथा गवि गोत्वविरहस्य मिथ्यात्वे तद्विरुद्धं गोत्वं सत्यम् । तदयं प्रयोगः । रूप्यं बाध्यमिथ्यात्वाधिकरणं न भवति । सत्यभूत-तद्विरुद्धसत्यत्वानधिकरणत्वात् । यत्सत्यभूतयद्विरुद्धानधिकरणं तन्मिथ्याभूततदधिकरणं न भवति । यथा सत्यभूतगोत्वविरुद्धगोत्वाभावानधिकरणं गौर्गोत्वाभावविरुद्धमिथ्याभूतगोत्वाधिकरणं न भवति । तथा च रूप्यमिथ्यात्वस्य सत्यत्वे तु रूप्ये हेतोरेवागमनान्न व्यभिचारः इति सिद्धान्तिनां व्यभिचारे परिहृते पूर्वपक्षी तन्निषेधति । न चेति । कुतो न वाच्यमित्यत आह । धर्मिण इति । शुक्तिरूप्यस्य सत्यभूत-सत्यत्वानधिकरणत्वेऽपि सत्यभूतमिथ्यात्वाधिकरणत्वं नास्ति किन्तु मिथ्याभूतमिथ्यात्वाधिकरणत्वमेव । धर्मिणो रूप्यस्य मिथ्यात्वात् । तथा चैवं प्रयोगः । रूप्यगतत्वेनोच्यमाने सत्यत्वमिथ्यात्वे मिथ्या मिथ्यात्वोपेतधर्मिकत्वात् । वन्ध्यासुतश्यामत्वगौरत्वरूपधर्मद्वयवत्, स्वप्नप्रतीतगजतदभाववद्वा । तथा च प्रपञ्चसत्यत्वसाधनाय प्रयुक्तस्य बाध्यमिथ्यात्वकत्वहेतोः शुक्तिरूप्ये व्यभिचारस्तदवस्थ इति भावः ।
ननु रूप्यमिथ्यात्वे मिथ्यात्वसाधकस्य मिथ्यात्वोपेतधर्मिकत्वस्य हेतोर्न रूप्यमिथ्यात्वे मिथ्यात्व-रूपसाध्यानुमितिजनकत्वम् । रूप्यमिथ्यात्वे मिथ्यात्वाभावसाधकेन सामान्यव्याप्तिमूलकेन सत्यभूत-मिथ्यात्वविरुद्धसत्यत्वानधिकरणत्वानुमानेन प्रतिरुद्धत्वात् । तथा च बाध्यमिथ्यात्वकत्वस्य मदुक्तहेतोः शुक्तिरूप्ये निश्चेतुमशक्यत्वान्न व्यभिचार इत्यतः सिद्धान्त्युक्तसामान्यव्याप्तावुपाधिं वक्ति । परस्परे-त्यादिना । धर्मी सन्निति । यत्राधिकरणं सत्यमस्ति तत्रैव परस्परविरुद्धयोः धर्मयोर्मध्ये अन्यतर-विरहेऽन्यतरसत्वमिति नियमः । प्रकृते तु धर्मिणो मिथ्यात्वान्न तथात्वम् । एवञ्च तत्रामिथ्यात्व-मुपाधिरतस्तस्य हीनत्वान्न तेनास्य प्रतिरुद्धत्वं यतो अतो रूप्ये हेतुनिश्चयसम्भवाद्व्यभिचारः सुस्थः इति भावः । सिद्धान्त्युक्तसामान्यव्याप्तौ व्यभिचारमपि दर्शयति । न हीति । न हि सत्यभूतस्य गौरत्व-विरुद्धश्यामत्वस्यानधिकरणे वन्ध्यासुते तद्विरुद्धं गौरत्वं मिथ्याभूतं नास्ति किन्तु सत्यभूतं गौरत्व-मस्तीत्युपपद्यते । किन्नाम गौरत्वं तद्विरुद्धश्यामत्वं चेत्युभयमपि वन्ध्यासुते मिथ्यैव । धर्मिण एव मिथ्यात्वात् । तथा चोक्तव्याप्तौ व्यभिचार इति भावः ।
ननूक्तसामान्यव्याप्तौ विरुद्धत्वं न सहानवस्थितादिसाधारणं किन्तु परस्परविरहरूपत्वम् । न च गौरत्वश्यामत्वे परस्परविरहरूपे अतो नोक्तव्यभिचार इत्यनुशयेनाह । न वा स्वप्न इति । स्वप्ने स्वप्नावस्थायाम् । क्वचिदधिकरण इति शेषः । तत्रैवेति । तदधिकरण एवेत्यर्थः । अयं भावः । स्वप्ना-वस्थायां दृष्टे कस्मिंश्चिदधिकरणे सत्यभूूतगजाभावविरहरूपस्य गजस्यानधिकरणत्वं वर्तते । गजविरह-रूपस्य मिथ्याभूतस्य गजाभावस्य नाधिकरणत्वं किन्तु सत्यभूतस्यैव गजाभावस्याधिकरणत्वमिति नास्ति । किं नाम गजो गजाभावश्चेत्युभयमपि मिथ्यैवेति परस्परविरहरूपविरुद्धत्वगर्भाया अप्युक्त-व्याप्तेर्व्यभिचाराद्भङ्ग इति ।
यदुक्तं पूर्वपक्षिणा रूप्यरूपधर्मिणे मिथ्यात्वात्तत्र सत्यत्वमिथ्यात्वे परस्परविरहरूपे अपि मिथ्यैवेति तद्दूषयति । न प्रतिपन्नेत्यादिना । धर्मिसत्त्वानपेक्षस्य धर्मस्य सत्यत्वं धर्मिमिथ्यात्वेऽपि युक्तम् । न तु तदपेक्षस्य रूप्यादेः । एवञ्च रूप्यमिथ्यात्वं मिथ्या मिथ्यात्वोपेताधिकरणकत्वा-द्वन्ध्यासुतश्यामत्ववदिति त्वदीयानुमाने धर्मिसत्तापेक्षधर्मत्वमुपाधिरतो भवदुक्तहेतोरप्रयोजकत्वादस्मदुक्त-हेतोर्न रूप्ये व्यभिचार इति भावः । उक्तस्योपाधेः पक्षवृत्तित्वेन साधनव्यापकतां निरस्यति । न चेति ।
ननु प्रतियोगित्वमपि धर्मान्तरेण धर्मिणं नावतिष्ठते । वन्ध्यासुतादावपि नात्यन्ताभावप्रतियोगित्वं किं नामात्यन्ताभाव एव वन्ध्यासुतप्रतियोगिकत्वमित्यत उक्तमनिर्वाच्यत्वभङ्ग इति । अत्यन्ताभावस्य वन्ध्यासुतप्रतियोगिकत्वे वन्ध्यासुतस्यापि तत्प्रतियोगित्वमवर्जनीयमेवेत्यादि वक्ष्यत इत्यर्थः । साध्यव्यापकतामप्युपाधेराह । धर्म्यसत्व इति । यद्यपि रूप्यधर्मो मिथ्यात्वमपि मिथ्यैव, धर्मिणो मिथ्यात्वादिति प्रकृतत्वेन धर्मिमिथ्यात्वे धर्ममिथ्यात्वं त्विति वक्तव्यम् । न तु धर्म्यसत्वे धर्मासत्व-मिति । तथापि मिथ्यात्वस्याप्यत एव पर्यवसानं वन्ध्यासुतश्यामत्वादौ सदसद्विलक्षणत्वरूप-मिथ्यात्वस्याभावेन धर्मिसत्तासापेक्षधर्मत्वस्योपाधेः साध्यव्याप्तिं च दर्शयितुमुक्तम् । धर्म्यसत्व इति । सति सप्तमीयं न तु निमित्तसप्तमी । तुशब्दो विशेषार्थः । तथा च वन्ध्यासुतरूपादेर्धर्म्यसत्वे सत्यपि योऽभावः स धर्मिसत्तासापेक्षसत्वप्रयुक्तः । न तु हेतुभूतधर्म्यसत्वमात्रप्रयुक्तः । धर्म्यसत्वमात्रस्या-सत्वाप्रयोजकत्वात् प्रागभावदशायामसत एव घटादेः प्रतियोगित्वदर्शनेन प्रतियोगित्वस्य रूपादिवद्ध-र्मिसत्वसापेक्षत्वाभावात् । स्थलान्तरे सत्वस्येदानीमनुपयोगात् । असति त्वस्य सद्वैलक्षण्यस्यासद्विषय-व्यवहारौ प्रति विषयत्वस्य त्वयोग्यमात्रे प्रतियोगित्वाभावस्य । एवञ्च यत्र धर्म्यसत्वे धर्मासत्वं तत्र धर्मिसत्तासापेक्षधर्मत्वं यथा वन्ध्यासुतश्यामत्व इति वन्ध्यासुतरूपस्य हि रूपसजातीयत्वेन धर्मि-सत्तासापेक्षत्वादेव वन्ध्यासुतधर्मिणः असत्वात्तदभावः । न तु धर्म्यसत्वमात्रप्रयुक्त इति सुस्थः प्रतिबन्धः । मिथ्यात्वं तु धर्मिसत्तासापेक्षं नेति साधनाव्यापकतामाह । मिथ्यात्वन्त्विति । विपक्षे दण्डं दर्शयति । अन्यथेति । स्वाधिकरणे प्रतियोगिसत्वासहिष्णुसत्ताकस्यैव प्रतिषेधस्य तत्प्रतिषेधत्वं स्वदेशकालयोस्तत्स्वरूप सहिष्णोस्तत्प्रतिषेधत्वस्यपारिभाषिकत्वेनास्माकमप्रतिपक्षत्वादिति भावः ।
केचित्तु परोक्ते मिथ्यात्वोपेतधर्मिकत्वे हेतौ धर्म्यसत्वप्रयुक्तसत्वाभाववत्वमुपाधिमाह । धर्म्यसत्व इत्यादिना । असत्वे सद्विलक्षणत्वे । असत्वं सद्विलक्षणत्वम् । धर्मिसत्त्वेति ।। धर्म्यसत्व-प्रयुक्तसत्वाभाववत्वमित्यर्थः । अयं च साधनावच्छिन्नसाध्यव्यापको बोध्यः । तेन ब्रह्मण्यारोपित-मिथ्यात्वादौ न साध्याव्याप्तिः । नञ्द्वयान्तर्भावाच्च । वन्ध्यासुतश्यामत्वादौ च न साध्याव्याप्तिशङ्केति ध्येयम् । उक्तोपाधेः पक्षाद्व्यावृत्तिमाह । मिथ्यात्वमिति । मिथ्यात्वं तु धर्मिसत्यत्वस्य विरहरूपमतो धर्मिसत्यत्त्वं नापेक्षते प्रत्युत धर्मिसत्यत्वं प्रतिक्षिपतीति त्वत्प्रतिकूलमित्यर्थः । अन्यथेति । धर्मि-सत्यत्वविरहरूपातिरिक्तं ब्रह्मभिन्नत्वादिकं पारिभाषिकं मिथ्यात्वं सत्यत्वपक्षेऽप्यविरुद्धमित्यर्थ इत्याहुः ।
इदमत्रालोचनीयम् । पूर्वपक्षिणापि धर्म्यसत्वस्य हेतोर्धर्मसत्वाभावे प्रयोजकत्वस्याङ्गीकृतत्वेन पूर्वपक्षसिद्धान्तयोरैकरूप्यं स्यात् । वन्ध्यासुतविरहवत्तदीयश्यामत्वादिविरहस्याप्यन्यविरहाप्रयुक्तत्वात् । प्रमितं खल्वाश्रयविरहप्रयुक्तविरहप्रयुक्तविरहप्रतियोगि । अथ यदि वन्ध्यासुतश्यामत्वादिकं सत्स्यात्तर्हि आश्रयसत्तापेक्षसत्ताकं स्यादित्यापादितधर्मिसत्त्वविरहप्रतियोगित्वं विवक्षितं तर्हि यथान्यासमेवास्तु । यदि रूप्यमिथ्यात्वं धर्म्यविरोधिमिथ्यात्वधर्मकं स्यात् तर्हि धर्मिसत्तापेक्षसत्ताकधर्मः स्यात् । यो धर्मः यदाश्रयाविरोधी स तदाश्रयसत्तापेक्षसत्ताको यथा रूपादीति सामान्यव्याप्तावविरोधात् । अयं च पक्षधर्मावच्छिन्नसाध्यव्यापको बोध्यः । पक्षधर्मपदेन साधनसमानाधिकरणस्य धर्मस्य विवक्षितत्वात् । तथा च बाध्यमिथ्यात्वकत्वस्य सत्यत्वाव्यभिचाराज्जगत्सत्यत्वोपपत्तिरिति ।
अत्राहुर्विवर्तवादिनः । मिथ्यात्वामिथ्यात्वेऽपि प्रपञ्चसत्यत्वानुपपत्तिः । तत्र हि विरुद्धयो-र्धर्मयोरेकमिथ्यात्वे अपरसत्यत्वम् । यत्र मिथ्यात्वावच्छेदकमुभयवृत्ति न भवेत् । यथा परस्परविरह-रूपयो रजततदभावयोः शुक्तौ । यथा वा परस्परविरहव्यापकयो रजतभिन्नत्त्वरजतत्वयोस्तत्रैव तत्र निषेध्यतावच्छेदकभेदनियमात् । प्रकृतेतु निषेध्यतावच्छेदकमेकमेव दृश्यत्वमिति । अत्र ब्रूमः । यदुक्तं प्रपञ्चमिथ्यात्वस्य बाध्यत्वेऽपि न प्रपञ्चसत्यत्वमुपपन्नम् । प्रपञ्चतन्मिथ्यात्वयोरेकनिषेध्यतावच्छेदका-वच्छिन्नत्वात् । अस्ति च तदुभयत्र निषेध्यतावच्छेदकं दृश्यत्वमेकमिति । तन्न । परस्परविरह-रूपयोरेकनिषेध्यतावच्छेदकस्याप्रसिद्धेः । यथा रजततदत्यन्ताभावयोः शुक्तौ । यथा वा रजतभिन्नत्व-रजतत्वयोस्तत्रैव । तत्र निषेध्यतावच्छेदकभेदनियमात् ।
यच्चोक्तम् । गोत्वाश्वत्वयोरेकस्मिन् गजे निषेधे गजत्वात्यन्ताभावव्याप्यत्वं निषेध्यतावच्छेदक-मुभयोस्तुल्यमिति नैकतरनिषेधे अन्यतरसत्वं तद्वत् प्रकृते स्यादिति । तदसारम् । तयोः परस्परविरह-रूपत्वाभावात् । दृश्यत्वस्यानिषेध्ये ब्रह्मण्यपि सत्त्वेन निषेध्यतावच्छेदकत्वायोगाच्च । गोत्वाद्यसाधारण-धर्मेण निषेधसम्भवे साधारणस्य निषेध्यतावच्छेदकत्वकल्पने अतिप्रसङ्गाच्च । अन्यथा धूमवह्न्योरेकत्र हृदे निषेधे हृदत्वात्यन्ताभावव्याप्यत्वस्य निषेध्यतावच्छेदकत्वापातः । धूमवत्वस्य वह्निसमानाधि-करणतप्तायःपिण्डीयात्यन्ताभावप्रतियोगितानवच्छेदकतया तदवच्छिन्नधूमसमानाधिकरणस्य वह्नेः धूमव्याप्यताप्रसङ्गश्च । तथा चानुमानव्यवहारोच्छेदः ।
किञ्च गवि गजाश्वान्यतरनिषेधे गजत्वात्यन्ताभावव्याप्यत्वं निषेध्यतावच्छेदकं दुर्वचम् । निषेध्यस्य गजत्वसमानाधिकरणत्वात् । तदसमानाधिकरणसमानाधिकरणनिषेधे तस्य तत्प्रतियोगितानवच्छेदकत्वात् । अन्यथा तेजसि पृथिवीजलान्यतरत्वनिषेधे पृथिवीत्वात्यन्ताभावव्याप्यत्वस्य निषेध्यतावच्छेदकत्वप्रसङ्गः । न च सत्यत्वमिथ्यात्वयोर्न परस्परविरहरूपत्वमिति देश्यम् । अबाध्यत्वरूपसत्यत्वात्यन्ताभावानात्मकस्य मिथ्यात्वस्य त्वया मां प्रति साधयितुमनुचितत्वात् । यथा सत्यत्वमिथ्यात्वयोः परस्परविरहरूपत्वं तथोपपादितमधस्तात् । उपपादयिष्यते च ।
यदपि परस्परविरहरूपत्वेऽपि विषमसत्ताकयोरविरोधात् । व्यावहारिकमिथ्यात्वेन व्यावहारिक-सत्यत्वापहारेऽपि काल्पनिकसत्यत्वानपहारात्तार्किकमतसिद्धसंयोगतदत्यन्ताभाववत्सत्यत्वमिथ्यात्वयोः समुच्चयाभ्युपगमाच्चेत्युक्तम् । तदप्यशोभनम्् । तथा हि । प्रातीतिकव्यावहारिकत्वेन विषमसत्ताके सत्यत्वमिथ्यात्वे किं शुक्तिरूप्येऽङ्गीक्रियेते किं वा जगति । नाद्यः । त्वया रूप्यमिथ्यात्वं तात्विकमित्यग्रे वक्ष्यमाणत्वेन तद्विरोधात् । रूप्ये मिथ्यात्वस्य व्यावहारिकत्वे बाध्यत्वापत्या रूप्ये सत्यत्वस्य तात्विकत्वापत्तेश्च । नान्त्यः । जगति मिथ्यात्वस्य व्यावहारिकत्वे तस्य प्रातिभासिकत्व-तात्विकत्वयोरन्यतरत्वापातात् । सत्ताभेदस्याद्याप्यसिद्ध्याऽन्योन्याश्रयात् । यच्चोक्तं प्रपञ्चगतसत्यत्व-मिथ्यात्वयोः समसत्ताकत्वमिति । तदयुक्तम् । निरशिष्यमाणत्वात् । विरुद्धयोरेकत्राधिकरणे समसत्ताया असिद्धेः । अव्यावहारिकौष्ण्याभावविषयत्वेन बाधव्यवस्थोक्तेश्चेति पूर्वापरस्ववचनविरोधपरिहारं भवानेव पृष्टो व्याचष्टे । तस्मात्साधूक्तं जगच्च सत्यं स्यादात्मवदिति ।
न्यायामृतसौगन्ध्यम्
अपि च मिथ्यात्वस्य मिथ्यात्वे प्रपञ्चसत्यत्वापातः । एकस्मिन् धर्मिणि प्रसक्तयोर्विरुद्धधर्म-योरेकमिथ्यात्वेऽपरसत्यत्वनियमात् । मिथ्यात्वसत्यत्वे च तद्वदेव प्रपञ्चसत्यत्वापत्तेः । उभयथाऽप्य-द्वैतव्याघातः । ननु मिथ्यात्वस्य मिथ्यात्वेऽपि प्रपञ्चस्य न सत्यत्वापत्तिः । तत्र हि विरुद्धयोर्धर्मयोरेक-मिथ्यात्वेऽपरसत्यत्वम् । यत्र मिथ्यात्वावच्छेदकमुभयवृत्ति न भवेत् । यथा परस्परविरहरूपयोः रजतत्वतदभावयोः शुक्तौ यथा वा परस्परविरहव्यापकयोः रजतभिन्नत्वरजतत्वयोस्तत्रैव । तत्र निषेध्यतावच्छेदकभेदनियमात् । प्रकृते तु निषेध्यतावच्छेदकमेकमेव दृश्यत्वादि । यथा गोत्वाश्वत्व-योरेकस्मिन् गजे निषेधे गजत्वात्यन्ताभावव्याप्यत्वं निषेध्यतावच्छेदकमुभयोस्तुल्यमिति । नैकतर-निषेधेऽन्यतरसत्त्वं तद्वत् । प्रकृते च सत्यत्वमिथ्यात्वयोर्न परस्परविरहरूपत्वादिकमिति चेत् । न । द्वितीयमिथ्यात्वलक्षणप्रस्तावे मिथ्यात्वाभावस्सत्यत्वमिति त्वयाऽप्यङ्गीकृतत्वात् ।
ननु परस्परविरहरूपत्वेऽपि विषमसत्ताकयोरविरोधात् व्यावहारिकमिथ्यात्वेन व्यावहारिक-सत्यत्वापहारेपि काल्पनिकसत्यत्वानपहारात् तार्किकमतसिद्धसंयोगतदभाववत् सत्यत्वमिथ्यात्वयोः समुच्चयाभ्युपगमाच्च । एकसाधकेनापरस्य बाध्यत्वं विषमसत्ताकत्वे प्रयोजकं यथा शुक्तिरूप्यतद-भावयोः । एकबाधकबाध्यत्वं च समसत्ताकत्वे प्रयोजकं यथा शुक्तिरूप्यशुक्तिभिन्नयोः । अस्ति च प्रपञ्चतन्मिथ्यात्वयोरेकज्ञानबाध्यत्वम् । अतस्समसत्ताकत्वाद् मिथ्यात्वबाधकेन प्रपञ्चस्यापि बाधाद् नाद्वैतहानिरिति चेन्न । व्यावहारिकमिथ्यात्वेन व्यावहारिकसत्यत्वापहारेऽपि जगतो ब्रह्मवत्पारमार्थिक-त्वोपपत्तेः । अन्यथा व्यावहारिकसत्यत्वापहारे प्रातिभासिकसत्यत्वापत्याऽर्थक्रियाकारित्वानुपपत्तेः । तार्किकेत्याद्यशुद्धं तद्वत् प्रकृतेऽवच्छेदकभेदाभावात् । अस्ति चेत्याद्ययुक्तम् । परस्परविरहरूपयोस्सम-सत्ताकयोरेकबाधकबाध्यत्वासम्भवात् ।
यत्तु यथा गोत्वतदभावादिस्थले सामान्यतो दृष्टोऽपि विरोधः संयोगतदभावादिस्थले एकावच्छेदेनैव स्वीक्रियते तार्किकैस्तथा सत्यत्वमिथ्यात्वयोः परस्परविरहादिरूपयोरविरोधोऽस्माभिः स्वीक्रियते । प्रमाणस्य तेषामिवास्माकमपि सत्त्वादिति । तन्न । अव्याप्यवृत्त्यभावप्रतियोगिनोरवच्छेदक-भेदेनैकत्राविरोधेऽपि व्याप्यवृत्त्योस्तदभावात् ।
न च मिथ्यात्वस्य सत्यत्वमिथ्यात्वाभ्यां दूषणं नित्यसमा जातिः । स्वव्याघातादेरभावात् । किञ्च ‘‘धर्मस्य तदतद्रूपविकल्पानुपपत्तितः धर्मिणस्तद्विशिष्टत्वभङ्गो नित्यसमो भवेदि’’ति हि तल्लक्षणम् । न चात्र मिथ्यात्वस्य मिथ्यात्वे धर्मिणो मिथ्यात्ववैशिष्ट्यभङ्ग उक्तः, किन्त्वद्वैतहानिः । प्रत्युत भेदः, किं भिन्ने ? उताभिन्ने ? इत्यादि त्वदुक्तिरेव भिन्नादिरूपविशिष्टमात्रनिरासकत्वेन स्वव्याघाताज्जातिः ।
यत्तु विकल्पितकोट्योरेकस्याद्वैतहानिप्रयोजकत्वेऽप्यन्यस्याः प्रपञ्चसत्यत्वतात्त्विक-त्वापत्तिद्वारा प्रपञ्चे धर्मिणि मिथ्यात्ववैशिष्ट्यभङ्गप्रयोजकत्वमस्त्येव । अन्यथा मिथ्यात्वकोटिमात्रस्यास्माभिराश्रयणे सत्यत्वकोटिप्रयुक्तस्याद्वैतहानिदोषस्यानवकाशात् ।
किञ्च मिथ्यात्वस्यापि मिथ्यात्वधर्मित्वेन तस्य सत्यत्वे मिथ्यात्ववैशिष्ट्यभङ्गेन सत्यत्वकोटेरपि धर्मिणि तद्वैशिष्ट्यभङ्गप्रयोजकत्वमावश्यकम् । न च स्वव्याघातकत्वाद्यभावाद् नेयं जातिरिति वाच्यम् । त्वदीयसर्वदेशीयात्यन्ताभावप्रतियोगित्वरूपासत्त्वस्यासत्त्वे तद्विरुद्धस्य ‘असदेवेदमग्र आसीत्’ इति वाक्याद् असति प्रतिपन्नतया त्वदभ्युपगतस्यासति तात्विकत्वापत्तिः । सत्त्वे तस्य सतोऽसति सम्बन्धानुपपत्तिः । उक्तं हि बौद्धधिक्कारे सदसतोस्सम्बन्धानुपपत्तेरिति । तथा तुच्छस्य विशेषाभावा-दिति । न च प्रागभाव ध्वंसप्रतियोगित्वादेरिव सतोऽपि तस्यासम्बन्ध इति वाच्यम् । प्रागभावादि-प्रतियोगिनः उक्तासत्त्वाभावात् । असच्छशविषाणमिति प्रतीतेः सत्त्वाश्रयासद्विषयकत्वे ‘वस्तुशून्यो विकल्पः’ इति पातञ्जलसूत्रविरोधात्स्वलक्षणस्य विकल्पागोचरत्वादिति बौद्धधिक्कारीयवाक्यविरोधश्च । सत्सम्बन्धश्च बौद्धधिक्कारादौ स्पष्ट इति । तन्न । प्रपञ्चे अतात्त्विकसत्त्वस्य तात्त्विकसत्वाविरोधेन तदा-पत्तिद्वारा मिथ्यात्ववैशिष्ट्यभङ्गाप्रयोजकत्वात् । अतात्त्विकमिथ्यात्वस्य प्रपञ्चे स्वीकारे क्षतेरभावात् ।
‘किञ्चेत्याद्यशुद्धम् । मिथ्यात्वस्य तात्त्विकत्वे मिथ्यात्वधर्मिताया व्याहतत्वात् । मिथ्यात्वस्य तात्त्विकत्वपक्षे प्रपञ्चतन्मिथ्यात्वादिनिष्ठमिथ्यात्वस्यैकस्याभावाच्च । अतात्त्विकमिथ्यात्वान्तरस्य तु तात्त्विकमिथ्यात्वधर्मिकत्वे बाधकाभावाच्च ।
त्वदीयेत्याद्यशुद्धम् । तात्त्विकस्यैवाभ्युपगमात् । सम्बन्धे बाधकाभावात् । बौद्धधिक्कारोक्तस्य सर्वस्य मया त्वया चानभ्युपगमात् । प्रागभावेत्याद्यशुद्धम् । आश्रयं विना प्रतियोगित्वस्योभयत्रावस्थान-साम्येनान्यसत्त्वस्याकिञ्चित्करत्वात् ।
वस्तुशून्येत्याद्यशुद्धम् । यत्र तादृशप्रतियोगित्वादिकं भासते चैतन्यं पुरुषस्य स्वरूपमित्यादौ । तत्रैव तेषां विकल्प इति व्यवहारात् । विकल्पस्य ज्ञानभिन्नत्वे स्मृतिव्यवहाराद्यनापत्तेः ।
यत्तु भेदभिन्ने वेत्ययुक्तम् । वैतण्डिकतामाश्रित्य वदतो मम स्थापनाया अभावेन मां प्रति जातेर्व्याघातकत्वं नास्ति । सर्वदृश्यानां खण्डनयुक्तिभिर्बाधस्य ममेष्टत्वादिति । तन्न । ब्रह्ममीमांसाधि-करणेषु सिद्धान्त्यभिमतार्थस्य खण्डनयुक्तिभिर्बाधसम्भवेन तन्मीमांसाया उच्छेदापत्तेः । एवं ब्रह्मणोऽपि तद्युक्तिभिर्बाधापत्तिश्च । न च ब्रह्मणोऽसंसृष्टत्वेन तर्काविषयत्वेन सर्वसाक्षित्वेन च बाधासम्भव इति वाच्यम् । असंसृष्टत्वहेतोर्भावाभावाभ्यां व्याघातात् । किञ्च त्वदभिमतं ब्रह्म प्रमाणवेद्यं वा? न वा? आद्ये प्रमाणविषयत्ववत् खण्डनयुक्तीनामपि तत्र प्रसङ्गसम्भवात् । द्वितीये ह्यसिद्धिः (ब्रह्मासिद्धिः) स्यात् ।
इति सामान्यतो मिथ्यात्वमिथ्यात्वस्य भञ्जनम् ।
श्रीन्यायामृतसौगन्ध्ये श्रावितं वनमालिना ।।
न्यायामृतमाधुरी
प्रपञ्चोपाधिकम् । प्रपञ्चाश्रितम् । दर्शितमिथ्यात्वीयकल्पपञ्चकशरीरे प्रपञ्चस्य सदसत्वादेरिवा-प्रवेशेन घटकत्वाभावेन प्रपञ्चघटितत्वार्थकत्वायोगात् । भ्रमकालानिश्चितम् । व्यधिकरणप्रकारक-प्रवृत्त्यनुरोधात् । निरुपाधिकम् अनाश्रितम् । अधिष्ठानपदं समनन्तरविशेषणवैशिष्ट्योपपादकम् । भेदकोपपादनाय ब्रह्ममिथ्यात्वे परस्परव्यावर्तकविशेषणद्वय्या विशेषिते ।। वैय्यर्थमिति ।। अनुमानस्य साध्यविधेयकानुमित्येकफलकत्वादिति भावः । सिद्धसाधनमिति ।। शुक्तौ रूप्यादेरिव प्रपञ्चेऽपि मिथ्यात्वविपर्यासोपगमेनालीकमिथ्यात्वस्य तत्र सम्प्रतिपत्तेरिति भावः ।। जगदित्यादि ।। जगत्यात्मदृष्टान्तेन स्वाधिष्ठानकविपर्यासविषयीभूतमिथ्यात्वकत्वेन सत्यत्वसाधनादित्यर्थः । न चेति । आत्मनि प्रकृतसाध्यव्यापकत्वात्पक्षे प्रकृतसाधनाव्यापकत्वाच्चात्मत्वस्योपाधितेत्याशङ्कितुराशयः । सत्यत्वं विनेति । व्याघातवत् ।। प्रकृतहेतुसाध्ययोर्व्याप्तिग्राहकानुकूलतर्कवत् । व्याघाताभावेन प्रकृतसाध्योपाध्योर्व्याप्तिग्राहकानुकूलतर्काभावेन । अप्रयोजकत्वात् प्रकृतसाध्याव्यापकत्वात् । यद्यपि व्याघातवदित्यन्तमनर्थकम् । व्याघाताभावेनेत्यादिना साध्योपाध्योर्व्याप्तिग्राहकतर्काभावेनैव साध्य-व्यापकत्वाभावेनोपाधित्वाभावस्याध्यवसितत्वात् । तथापि तद्वदेव प्रकृतहेतुसाध्ययोरपि ग्राहकानुकूल-तर्काभावेन सहचारदर्शनमात्रस्य सांशयिकतयोपाधितासन्देहः स्यादिति शङ्काव्युदासकतया सार्थक्यात् । निश्चितोपाधेरिव सन्दिग्धोपाधेरपि वारणीयत्वात् । निरूढं चैतदुपाधिचिन्तामणाविति नेह प्रपञ्चनीयम् ।
मिथ्यात्वस्य भ्रमकालनिर्णीतद्वितीयाभावोपलक्षितब्रह्मस्वरूपत्वोपगमेन निरुपाधिकभ्रमकाल-निर्णीतब्रह्मात्मकतानुपगत्योक्तक्षत्यनवकाशः इत्यभिप्रेत्याशङ्कते– न चेति । उक्तक्षतितावदस्थ्यमाह– उपलक्षण इति । उपलक्षणत्वेनोपगतानां शाखास्थूलतारकादीनां उपलक्ष्यचन्द्रारुन्धत्याद्यधिगतिफलकत्वं दृष्टम् । प्रकृते चोपलक्षणत्वेनोपगतद्वितीयाभावस्योपलक्ष्याभिमतब्रह्मस्वरूपाधिगतिफलकतोपेयते तदीयविशेषाधिगतिफलकता वेति कल्पद्वयमभिप्रेत्योपलक्षणाभिमतद्वितीयाभावप्रतीत्यौपयिक-तत्पूर्वकालीनप्रतीतिविषयस्य सर्वदा भासमानत्वेनाङ्गीकृताविद्याप्रतीत्यौपयिकतदधिष्ठानाभिमत-सार्वकालिकस्फुरणविषयीभूतस्य च ब्रह्मण उपलक्षणत्वायोगेनाद्यकल्पं, तस्य निर्विशेषत्वोपगमेन द्वितीयं च प्रत्याख्याति– द्वितीयाभावेत्यादि ।
जगत्पक्षीकारेणालीकभूतमिथ्यात्वेन सत्यत्वसाधनेऽनैकान्त्यमाशङ्कते नन्विति । रूप्यमलीक-भूतमिथ्यात्वविशेषितं न मिथ्यात्वविरुद्धाविपर्यस्तसत्यत्वानधिकरणत्वात् । यद्यद्विरुद्धाविपर्यस्त-धर्मानाश्रयस्तत्तदनाश्रयो यथा घटो घटत्वविरुद्धाविपर्यस्तघटभिन्नत्वानाश्रयो अलीकघटत्वानाश्रय इति सनिदर्शनकानुमानेन रूप्यमिथ्यात्वस्य सद्रूपवत्तासिद्ध्या अनैकान्त्यानवकाश इत्याशङ्कते– न चेति । विपर्यस्तरूप्यवृत्तितया भासमाने सत्यत्वमिथ्यात्वे अलीके मिथ्याभूतधर्मिकत्वात् । वन्ध्यासुत-श्यामत्वगौरत्ववत् । स्वाप्नप्रतीतगजतदभावोभयवच्चेत्यनुमानेन रूप्यमिथ्यात्वस्य मिथ्यात्वसिध्याऽ-नैकान्त्यं दुर्वारमेव । वन्ध्यासुतस्य गौरत्वविरुद्धश्यामत्वानाश्रयत्वेऽपि सद्रूपगौरत्वाभावेन, राजम-न्दिरस्य स्वाप्नगजविरुद्धाविपर्यस्ततदभावानाश्रयत्वेऽपि तादृशगजानाश्रयत्वेन सामान्यव्याप्तेर्भङ्गे-नानुमानस्य प्रमाणतया तदवष्ठम्भेनानैकान्त्यस्य दुःसमाधेयत्वादित्याह– धर्मिण इत्यादि । धर्मभूत-रूप्यस्यैव मिथ्यात्वेन तत्र भासमाने सत्यत्वमिथ्यात्वेऽपि अलीके इत्यनैकान्त्याशङ्कायां समाधत्ते प्रतिपन्नेति । मित्रातनयत्वेन श्यामत्वे साध्ये शाकाद्याहारपरिणतिजत्वस्येव साधनावच्छिन्न-साध्यव्यापकं पक्षे साधनाव्यापकं धर्म्यसत्वप्रयुक्तसत्वाभावमुपाधिमभिप्रेत्याह । धर्म्यसत्व इत्यादि । अन्यथेति । विपर्यस्तमिथ्यात्वस्य तत्त्ववादिनयेऽप्युररीकृतत्वादिति भावः ।
अत्राद्वैतसिद्धिकारः । उक्तमिथ्यात्वस्य मिथ्यात्वेऽपि प्रपञ्चसत्यत्वानुपपत्तेः । तत्र हि एकस्मिन् धर्मिणि प्रसक्तयोर्विरुद्धयोर्धर्मयोरेकमिथ्यात्वेऽपरसत्यत्वम् । यत्र मिथ्यात्वावच्छेदकमुभयवृत्ति न भवेत् । यथा परस्परविरहरूपयो रजतत्वतदभावयोः शुक्तौ । यथा वा परस्परव्यापकयो रजत-भिन्नत्वरजतत्वयोस्तत्रैव । तत्र निषेध्यतावच्छेदभेदनियमात् । प्रकृते तु निषेध्यतावच्छेदकमेकमेव दृश्यत्वादि यथागोत्वाश्वत्वयोरेकस्मिन् गजे निषेधे गजत्वात्यन्ताभावव्याप्यत्वं निषेध्यतावच्छेदक-मुभयोस्तुल्यमिति नैकतरनिषेधेऽन्यतरसत्त्वं तद्वत् । यथा च सत्यत्वमिथ्यात्वयोर्न परस्परविरहरूपत्वं न वा परस्परविरहव्यापकत्वं तथोक्तमधस्तात् । परस्परविरहरूपत्वेऽपि विषमसत्ताकयोरविरोधात् । व्यावहारिकमिथ्यात्वेन व्यावहारिकसत्त्वापहारे काल्पनिकसत्वानपहारात्तार्किकमते संयोगतदभाव-वत्सत्यत्वमिथ्यात्वयोः समुच्चयाभ्युपगमाच्च । एकसाधकेनापरस्य बाध्यत्वं विषमसत्ताकत्वे प्रयोजकम् । यथाशुक्तिरूप्यतदभावयोः । एकबाधकबाध्यत्वं च समसत्ताकत्वे प्रयोजकम् यथा शुक्तिरूप्य-शुक्तिभिन्नत्वयोः । अस्ति च प्रपञ्चतन्मिथ्यात्वयोरेकब्रह्मज्ञानबाध्यत्वमतः समसत्ताकत्वान्मिथ्यात्व-बाधकेन प्रपञ्चस्यापि बाधान्नाद्वैतहानिरिति जगाद ।
तदतिस्थवीयः । भेदाभावस्य भेदप्रतियोगितावच्छेदकरूपताया आकरनिरूढतया रजतभिन्नत्व-रजतत्वयोरपि परस्परविरहव्यापकत्वोक्तेरयुक्तत्वात् । तन्मतानादरे च द्वितीयाभावस्य प्रथमाभाव-प्रतियोगिस्वरूपतामतस्याप्यनादरणीयतापत्या पूर्वविन्यासासाङ्गत्यप्रसङ्गात् । परस्परविरुद्धयोरित्यत्र सहानवस्थानलक्षणविरोधस्याभिप्रेततायामेव गोत्वाश्वत्वयोरपि विरुद्धतापत्या तदेकतराभावस्यापर-सत्यत्वातिप्रसञ्जकताया गजाधिकरणकात्यन्ताभावप्रतियोगितावच्छेदकीभूतगजत्वात्यन्ताभावव्याप्यत्वस्य गोत्वाश्वत्वोभयसाधारण्येन तादृशापत्त्यनवकाश इति समाहितिर्विधेया । तादृशविरोधस्य ग्रन्थकृदाभि-प्रेतताया एवानुपगतेः । परस्परविरहरूपत्वात्मकविरोधस्य विवक्षायां रजतत्वतदभावयोः सङ्ग्रहेऽपि रजतभिन्नत्वरजतत्वयोरसङ्ग्रहप्रसङ्गेन परस्परविरहव्यापकत्वतद्विवक्षायामभेदे व्याप्यव्यापकभावाभावेन सङ्ग्राह्यमात्रसङ्ग्रहप्रसङ्गेन परस्परप्रतियोग्यनुयोगितावच्छेदकधर्माधर्मतापन्नयोस्तदेकतरधर्मावच्छिन्नाभावे परधर्मावच्छिन्नसत्त्वमिति नियमशरीरेऽपगमे सङ्ग्राह्यानां रजतत्वतदभावरजतभिन्नत्वरजतत्वसत्यत्व-मिथ्यात्वस्वाप्नगजतदभावादीनां सङ्ग्रहसम्भवेन वारणीयानां वन्ध्यासुतश्यामत्वगोत्वाश्वत्वादीनां वारणेन क्षत्यनवकाशात् । घटतदभावसत्यत्वमिथ्यात्वोभयसाधारणस्य दृश्यत्वस्य निषेधप्रतियोगितावच्छेदक-तायाः प्रागेव निरस्तत्वात् । सत्यत्वमिथ्यात्वयोः परस्परविरहरूपतायाः सत्ताभेदसिद्धेर्मिथ्यात्व-सिध्युत्तरकालीनतायाश्च समर्थिततया न्यायनयवद्विरोधभञ्जकावच्छेदकभेदानुपगमेन व्यवस्थाया दुष्करतया एकबाधकबाध्यत्वोक्तेश्च टीकायामेव तत्र तत्र प्रत्याख्याततयाऽलं तन्निराक्रियाभियोगेन ।