ननु मुक्तौ न तारतम्यम् । मानाभावात्
५. मुक्तावपि ब्रह्मादीनां तारतम्यसमर्थनम्
न्यायामृतम्
ननु मुक्तौ न तारतम्यम् । मानाभावात् । ‘परमं साभ्युमुपैति’ इति साम्य-श्रुतेश्च । सातिशयत्वे च मुक्तेः स्वर्गादिवदनित्यत्वं स्यात् । अधिकदर्शनेन दुःखद्वेषेर्ष्यादिकं च स्यादिति चेत् । उच्यते । मुक्तावतारतम्यं किं तत्र भेदभोगा-देरेवासत्त्वात् ? किं वा तत्सत्त्वेऽपि साम्यात् ? नाद्यः । भेदप्रस्तावोक्त श्रुत्यादि-भिस्तत्सिद्धेः । अन्त्येऽपि किं मुक्तजीवेशयोरतारतम्यम् ? किं वा मुक्तजीवानामेव ? नाद्यः । त्वन्मतेऽपि तयोर्विभुत्वाणुत्वशेषत्वस्वातन्त्र्यपारतन्त्र्यादिना तारतम्यात् । अनेकेश्वरापत्त्या जगतप्रवृत्त्ययोगाच्च । ‘अल्पशक्तिरसार्वज्ञ्यम्’ इत्यादि भेदप्रस्तावोक्त-श्रुतिभिः ।
ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते ।
तद्यत्स्वभावः कैवल्यं स भवान्केवलो हरे ।।
इत्यादिस्मृतिभिः, ‘जगद्व्यापारवर्जम्’ इत्यादिसूत्रैः,
(१) ‘मुक्तजीवभोगः ईश्वरभोगान्निकृष्टः, जीवभोगत्वात् संसारिभोगवत्’ । एवं मुक्तजीवज्ञानादिकमपि पक्षीकृत्य प्रयोक्तव्यम् । (२) ‘ईश्वरानन्दो जीवानन्दादुत्कृष्टः, तदवश्यतन्नियामकानन्दत्वात्, यदेवं तदेवम्, यथा सेवकानन्दात्सेव्या(व्यमाना)-नन्दः’ । (३) ईश्वरो जीवस्वभावानन्दादित उत्कृष्टस्वाभाविकानन्दादिमान्, तत्प्रेप्सुत्वे सति तत्र शक्तत्वात् । यो यत्प्रेप्सुत्वे सति तत्र शक्तः स तद्वान्, यथा सम्मतः’ इत्याद्यनुमानैश्च विरोधाच्च । न द्वितीयः । त्वन्मतेऽपि जीवान् प्रति शेषिणोऽपि लक्ष्मीतत्त्वात् तान् प्रति नियामकाद्विष्वक्सेनादितश्चेतरजीवानां निकृष्टत्वात् । ‘सैषानन्दस्य मीमांसा भवति’ । ‘ते ये शतं मानुषानन्दाः स एको मनुष्य-गन्धर्वाणामानन्दः, श्रोत्रियस्य चाकामहतस्य’ इत्यादितैत्तरीयश्रुत्त्या, ‘अथ ये शतं कर्मदेवानामानन्दाः, स एक आजानजदेवानामानन्दः । यश्च श्रोत्रियोऽवृजि-नोऽकामहतः’ इत्यादिवाजसनेयश्रुत्या, ‘अक्षण्वन्तः कर्णवन्तः सखायो मनोजवे-ष्वसमा बभूवुः’ इत्याद्यैतरेयश्रुत्या,
नृपाद्याः शतधृत्यन्ता मुक्तिगा उत्तरोत्तरम् ।
सर्वैर्गुणैः शतगुणा मोदन्त इति हि श्रुतिः ।।
मुक्तानामपि सिद्धानां नारायणपरायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ।।
इत्यादिस्मृतिभिः ‘वृद्धिह्नासभाक्त्वमन्तर्भावादुभय सामञ्जस्यादेवम्’ इत्यादिसूत्रैरुक्त-वक्ष्यमाणश्रुतितर्कानुगृहीतैः (१) ‘अस्मदादिमुक्तभोगः, मुक्तचतुर्मुखभोगान्निकृष्टः, अस्मदादिभोगत्वात् संसारस्थास्मदादिभोगवत् । एवम् अस्मदादिज्ञानादिकं च पक्षीकृत्य प्रयोक्तव्यम् । (२) ‘जीवस्वरूपानन्दः परतन्त्रानन्दत्वसाक्षाद्व्याप्यधर्मेण सजातीयानन्दप्रतियोगिकतारतम्य वान्, जीवानन्दत्वात्, तदीयवैषयिकानन्दवत्’ (३) ‘प्रकृतिबन्धनिवृत्तिः, स्वसजातीयबन्धनिवृत्त्याश्रय प्रतियोगिकतारतम्यवन्निष्ठा, बन्ध-निवृत्तित्वात्, निगडबन्धनिवृत्तिवत्’ इत्याद्यनुमानैश्च विरोधाच्च । स्वरूपसुखानां प्रत्येकमेकत्वेनाणुत्वेन च संख्यापरिमाणकृतवैषम्याभावेऽपि जलसुधापानसुखयोरिव मधुरमधुरतरत्वादिवत्स्वरूपकृतवैषम्यं युक्तम् ।
प्रसिद्धं च सालोक्यादिमुक्तितः सायुज्यादेरुत्कृष्टत्वम् । न च सायुज्यमैक्यम् । सारूप्यादिमति सालोक्यादिवत्सायुज्यवत्यपि सारूप्यादेः सत्त्वात् । ‘चन्द्रमसः सायुज्यं सलोकतामाप्नोति’ इत्यादिश्रुतौ ‘सायुज्यं चेदिभूभुजः’ इत्यादिस्मृतौ च भेदे सत्यपि सायुज्योक्तेश्च । ‘सयुजः परमात्मानं प्रविश्य च बहिर्गताः’ इत्यादिस्मृतौ सयुजां प्रवेशमात्रोक्तेश्च । सयुजोर्भावः सायुज्यमिति तच्छब्देन सम्बन्धस्यैवोक्तेश्च । ‘सालोक्यमथ सामीप्यं सारूप्यं योग एव च’ इति स्मृतौ सायुज्ये सम्बन्धार्थयोग-पदप्रयोगाच्च । तस्मात्सायुज्यं नाम क्षीरनीरवदन्यदेहप्रविष्टग्रहदेवतादिवच्च संश्लेषमात्रं, न त्वैक्यम् ।
हरौ नियतचित्तत्वाद् ग्रहवत्तत्प्रवेशनात् ।
मोक्षं तादात्म्यमित्याहुर्न तु तद्रूपतः क्वचित् ।। इति स्मृतेः ।
न चोक्ततारतम्यश्रुतिरमुक्तविषया । प्रकृते मनुष्यगन्धर्वादौ, अप्रकृतेऽन्यस्मिन्वा संसारिणि तैत्तरीयोक्तस्याकामहतत्वस्य, वाजसनेयोक्तयोरवृजिन त्वाकामहतत्व-योश्चायोगात् । अकामहतत्वं हि कामकृतोपद्रवाभावः । न त्वकामत्वम् । हतशब्द-वैयर्थ्यात् । स च सत्यकामस्य मुक्तस्यैव, ‘सोऽश्नुते सर्वान्कामान्’‘कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि’ इत्यादिश्रुतेः । ‘स हि मुक्तोऽकामहतः’ इति ब्रह्माण्डोक्ते-श्च । अवृजिनत्वमप्यदुःखत्वमपापत्वं वा, उभयमपि मुक्तस्यैव । अपरोक्षज्ञानिन्यपि प्रारब्धपापतत्कार्यदुःखयोः सत्त्वात् । न चाबाधे मुख्यार्थस्त्यागार्हः । श्रोत्रियत्वं च मुक्तस्यैव मुख्यम् ।
प्राप्तश्रुतिफलत्वात्तु श्रोत्रियाः प्राप्तमोक्षिणः ।
त एव चाप्तकामत्वात्तथाऽकामहता मताः ।। इति भारतोक्तेः ।
किञ्च प्रकृतमनुष्यगन्धर्वादिपरत्वे ‘श्रोत्रियस्य च’ इत्यत्र ‘यश्च श्रोत्रियः’ इत्यत्र चैकवचनं समुच्चयार्थश्चशब्दश्चायुक्तः । न हि सम्भवति वसिष्ठो ब्रह्मिष्ठोऽ-रुन्धतीपतिश्च तथेति । अप्रकृतसंसारिपरत्वे तु बाधः । चतुर्मुखाद्यानन्दस्यान्यस्मि-न्संसारिण्यदर्शनात् । अपि च प्रकृतश्रोत्रियः सर्वत्राप्येकश्चेन्मानुषादिभ्यः सावधारणं शतगुणिमनुष्यगन्धर्वाद्यनेकानन्दा एकस्मिन् विरुद्धाः । भिन्नश्चेदकामहतत्वादेरेक-रूपतया श्रुतस्याव्यवस्थापकत्वादानन्दव्यवस्थाऽयोगः । अथ व्यवस्थार्थं तत्र तत्र तत्तत्पदाकामः तदितरपदकामश्च विवक्ष्यते, तदाऽश्रुतकल्पना बाधश्च । न हीन्द्रादि-पदे राजपदे वा निष्कामस्य भिक्षुकस्येन्द्राद्यानन्दानुभवोऽस्ति । उक्तं हि–
कुत्रचित्कामिनः पुंसः कामाभावात् क्वचित्क्वचित् ।
इन्द्रादिसुखभोगोऽस्तीत्यनुभूतिर्हि कुप्यति ।। इति ।
न चाबाधे वैराग्यप्रशंसामात्रपरत्वं युक्तम् । तस्मात् श्रुत्या पूर्ववाक्येनामुक्तानां तारतम्यमुक्त्वा ‘श्रोत्रियस्य च’ इत्यादिना ‘यश्च श्रोत्रियः’ इत्यादिना चोत्तरवाक्येन मुक्तस्य तदुच्यते । ‘अक्षण्वन्तः’ इति श्रुतिस्तु तत्प्रकरणे ‘ऋचां त्वः पोषमास्ते’ इत्यादिना ब्रह्मब्रहुत्वोक्तेर्मुक्तविषया ।
अपि च ‘मुक्तसुखं परस्परं तारतम्यवत्, परस्परं तारतम्यवत्साधनसाध्यत्वात्, सम्मतवत्’ । न चासिद्धिः । मुक्तिः प्रयागमरणभगवद्द्वेषभक्त्यादिना ज्ञानकर्मसमुच्चयेन वा साध्येति मते प्रयागमरणादीनां वर्णाश्रमकर्मणां च विषमत्वात् । ज्ञानैकसाध्येति सिद्धान्तेऽपि ‘कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति’। ‘सर्वे गुणा ब्रह्मणैव ह्युपास्या नान्यैर्देवैः किमु सर्वैर्मनुष्यैः’ इत्यादिश्रुत्या ‘ब्रह्मापि यं वेद न चैव सम्यगन्ये कुतो देवमुनीन्द्रमर्त्याः’ इत्यादिस्मृत्या देवर्षिमनुष्यादिस्थमुक्तिहेतुब्रह्मज्ञानगतस्य बह्व-ल्पाल्पतरशाखाश्रवणादिसाध्यत्वस्य बह्वल्पाल्पतरब्रह्मगुणविषयकत्वं विनाऽयोगे-नार्थापत्त्या च तत्सिद्धेः । चरमदेहोऽपि हि मर्त्यादिरेव ।
यस्य आशिष आशास्ते न स भृत्यः स वै वणिक् ।
स वै भृत्यः स वै स्वामी गुणलुब्धौ न कामुकौ ।।
मुमुक्षोरमुमुक्षुस्तु वरो ह्येकान्तभक्तिमान् ।
इत्यादिस्मृत्या मुमुक्षुभक्तादमुमुक्षोर्निरुपाधिकभक्तस्याधिक्योक्तेश्च । तत्राधिक्यस्य लोकरीतिसिद्धत्वाच्च । ‘भक्तिः सिद्धेर्गरीयसी’ इत्यादिस्मृत्याऽल्पभक्तिसाध्य-मुक्तितोऽधिकमुक्तिहेतुभक्तेराधिक्योक्तेश्च ।
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ।।
इत्यत्रापिशब्देन,
‘स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ।
किं पुनर्ब्राह्मणाः पुण्याः’
इत्यत्र कैमुत्येन साधनतारतम्येन साध्ये तत्प्रतीतेश्च ।
‘साधनस्योत्तमत्वेन साध्यं चोत्तममाप्नुयुः ।
ब्रह्मादयः क्रमेणैव यथानन्दश्रुतौ श्रुताः’ ।। इति ब्राह्मे,
अधिकं तव विज्ञानमधिका च गतिस्तव’ इति मोक्षधर्मे च साधनतारतम्येन साध्ये तदुक्तेश्च ।
‘विकल्पो विशिष्टफलत्वात्’ इति सूत्रे त्वया विकल्पेन मोक्षहेतुत्वेनोक्तानां दहरादिविद्यानाम् अधिकाल्पगुण विषयत्वेन तारतम्याच्च । १त्वद्रीत्या प्रत्येकं मोक्षहेत्वोर्निरन्तरचिन्ताभरन्यासरूपयोर्भक्तिप्रपत्त्योः स्वरूपतः कर्मापेक्षानपेक्षाभ्या-मावृत्त्यनावृत्तिभ्यां च विषमत्वाच्च । न च तयोरुक्तरीत्याऽधिकाल्पत्वेऽपि विश्वासाल्प त्वाधिक्याभ्यां साम्यमिति वाच्यम् । विश्वासस्यावर्तनीयायां भक्तावेव यावदा-वृत्त्यपेक्षितत्वेनानावर्तनीय प्रपत्तितोऽधिकत्वात् । यदि च फलसाम्येन साधनसाम्यार्थं प्रपत्तावधिकविश्वासः कल्प्येत, तर्ह्यन्योन्याश्रयः । साधनवैषम्येऽपि साध्यसाम्ये चाधिकविधात्र्याः श्रुतेरनुपादेयत्वं फलदातुरीश्वरस्य वैषम्यादिकं च स्यात् । न च देवमनुष्यादीनां तत्र शक्त्यशक्तिमात्रेण शक्ताशक्तानुष्ठितनित्यकर्मण इव न फलवैषम्य-मिति वाच्यम् । अशक्तार्जितस्य ज्ञानस्यान्धपंग्वादिकृतकाम्यकर्मण इव विकलत्वेन काम्यमोक्षसाधनत्वायोगेन तत्साधनत्वाय स्वोचितमुक्तिफलं प्रत्यविकलताया वक्तव्यत्वात् ।
एतेन भक्तिप्रपत्त्योर्विषमत्वेऽपि शक्ताशक्तविषयत्वात्फलसाम्यमिति निरस्तम् । तथाऽश्रवणात् । कल्पने चातिप्रसङ्गात् । तस्मात्साधनतारतम्यान्मुक्तितारतम्यम् । अत एव–
कर्मणामल्पमहतां फलानां च स्वगोचरे ।
विभागस्थानसामान्यादविशेषेऽपि चोदितः ।।
इति वार्तिकेनाविशेषेण स्वर्गसाधनत्वेन श्रुतयोरपि ज्योतिष्टोमाग्निहोत्रयो-स्तारतम्यात्तत्साध्ये स्वर्गेऽपि तदुक्तम् । उक्तं च–
युक्तं च साधनाधिक्यात्साध्याधिक्यं सुरादिषु ।
नाधिक्यं यदि साध्ये स्यात् प्रयत्नः साधने कुतः ।। इति
किञ्च ‘तस्य तावदेव चिरं यावन्न विमोक्ष्येताथ सम्पत्स्यते’ इत्यादिश्रुत्या ‘तस्य कार्यं न विद्यते’ इत्यादिस्मृत्या च यस्य स्थितप्रज्ञस्य मोक्षाय कर्तव्यान्तराभाव उक्तस्तस्यापरोक्षज्ञानिनो भक्तस्य प्रपन्नस्य वा शुकादेर्नित्यादिकर्मब्रह्मध्यानादिकं च न तावदज्ञस्येव विविदिषादिद्वारा वा, पापक्षयादिद्वारा वा, प्रत्यवायपरिहारद्वारा वा ज्ञानादेः सन्निपत्यङ्गम्, तस्य सिद्धत्वात् । नापि फलोपकार्यङ्गम् । मुक्तौ ज्ञान कर्मणोः समुच्चयापातात्, । कर्मणां विचित्रत्वेन मोक्षवैचित्र्यापाताच्च । मोक्षाय कर्तव्यान्तरा-भावपरोक्त श्रुत्यादिविरोधाच्च । नापि फलान्तरार्थम् । नित्यत्वात्, ज्ञानिनोऽ-निष्टत्वाच्च । नापि लोकसङ्ग्रहार्थमीश्वराज्ञा पालनार्थं वा, तयोरपि स्वतोऽफलत्वात् । नापीश्वरप्रीत्यर्थम् । भक्त्यादिनैव मोक्षहेतुप्रीतेः सिद्धेः । नापि तत्प्रीत्यतिशयार्थम् । फलातिशयाभावे तस्य पारिभाषिकत्वापातात्, तद्वैयर्थ्याच्च । नापीश्वरवल्लीलार्थम् । ‘आचार्याद्विद्यामवाप्यैतमात्मानमभिगम्य शान्तो भवेद्दान्तो भवेत्’ ‘पश्यन्नपीममात्मानं कुर्यात्कर्माविचारयन्’ इत्यादिनापरोक्षज्ञानिनः,
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।।
इत्यादिना भक्तिप्रपत्तिमतश्च तद्विधानात् ।
शक्रेण वर्षकोटीश्च धूमः पीतोऽतिदुःखतः ।
वर्षायुतं च सूर्येण तपोऽर्वाक्शिरसा कृतम् ।।
इत्यादिस्मृतिषु क्लेशेनानुष्ठानोक्तेश्च । सूर्यादयश्चापरोक्ष ज्ञानिनः । ‘न देवपदवीं प्राप्ता ब्रह्मदर्शनवर्जिताः’ इत्यादिस्मृतेः । औतिभिः ‘यावदधिकारम्’ इति सूत्रे क्लेशेन कर्मानुष्ठातॄणां वसिष्ठादीनाम् अपरोक्षज्ञानित्वोक्तेश्च । तस्मादपरोक्षज्ञानोत्तरं कर्मादिकं मुक्तावानन्दातिशयार्थमेव । ब्रह्माण्डे च–
ज्ञानान्मोक्षो भवत्येव सर्वाकार्यकृतोऽपि तु ।
आनन्दो ह्रसतेऽकार्याच्छुभं कृत्वा च वर्धते ।। इति ।
स्मर्यते च–
सर्वदुःखनिवृत्तिस्तु ज्ञानिनो निश्चितैव हि ।
उपासया कर्मभिश्च भक्त्या चानन्दचित्रता ।। इति ।
अत एव ‘स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते’ इति श्रुतौ ज्ञानिकृतस्य कर्मणो मोक्षान्वयादक्षयफलत्वमुक्तम् । न हि मोक्षदन्यत्राक्षयत्वम् । परमसाम्यश्रुतिस्तु दुःखाभावसत्यकामत्वादिना सरःसागरयोरिव स्वयोग्यानन्दपूर्त्या च साम्यात् । ‘लिङ्गभेदः परानन्दो दुःखाभावः समानता’ इति स्मृतेः । अन्यथा मुक्तस्येश्वरवज्जगत्स्रष्टृत्वादि किं न स्यात् । तच्च ‘जगद्व्यापारवर्जम्’ इति सूत्रे त्वयापि निषिद्धम् । अत्र जगद्व्यापारशब्द उपलक्षणार्थ इति तवापि सम्मतम् । अन्यथा मुक्तस्य स्वातन्त्र्याद्यपि स्यात् । ‘भोगमात्रसाम्यलिङ्गाच्च’ इति सूत्रस्थमात्र-शब्दस्य तु मन्मते भोगसामान्य एव साम्यम्, न तु तद्विशेष इत्यर्थः । त्वन्मतेऽपि भोगमात्रे मुक्तस्य ब्रह्मसाम्याल्लिङ्गात् जगद्व्यापारवर्जम् इति व्याख्यातत्वाद् अवधारणार्थो मात्रशब्दो न कात्स््नर्यार्थः । सत्यकामत्वं च जगत्स्रष्टृत्वादाविवाधिका-नन्देऽपि कामस्यैवाभावाद्युक्तम् । वाराहे च–
स्वाधिकानन्दसम्प्राप्तौ सृष्ट्यादिव्यापृतिष्वपि ।
मुक्तानां नैव कामः स्यादन्यान्कामांस्तु भुञ्जते ।। इति ।
सातिशयत्वेऽपि नित्यत्वं चेश्वरादपकृष्टत्व इव मुक्तान्तरेण साम्य इव च श्रुत्यादिबलाद्युक्तम् । अन्यथोत्कर्षस्याप्यनित्यत्वव्याप्त्या ब्रह्मानन्दोऽप्यनित्यः स्यात् । न च द्वेषेर्ष्यादिप्रसङ्गः ।
निःशेषगतदोषाणां बहुभिर्जन्मभिः पुनः ।
स्यादापरोक्ष्यं हि हरेर्द्वेषेर्ष्यादि ततः कुतः ।।
भवेयुर्यदि चेर्ष्याद्याः समेष्वपि कुतो न ते ।
तप्यमानाः समान्दृष्ट्वा द्वेषेर्ष्यादियुता अपि ।।
दृश्यन्ते बहवो लोके दोषा एवात्र कारणम् ।
यदि निर्दोष (ता तत्र)तैवात्र किमाधिक्येन दूष्यते ।। इत्युक्तेः ।
न च मुक्तिः स्वरूपा (नन्दा) विर्भावमात्ररूपा, स्वरूपाणि चैकरूपाणीति कथं तारतम्यमिति वाच्यम् । ‘यो यद्रूपः स तद्रूपः निसर्गो ह्येष भवति’ इत्यादिश्रुत्या,
अवजानन्ति मां मूढा मानुषी तनुमाश्रितम् ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ।।
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ।।
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ।।
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः’ । इत्यादिस्मृत्या चतुर्मुखादेरितरेभ्य उत्कर्षस्य दृष्टेनादृष्टेन वाऽऽगन्तुकहेतुना साध्यत्वे तत्रापि हेत्वन्तरान्वेषणेऽनवस्था-पत्त्याऽनादियोग्यताहठापरपर्यायस्वभावो हेतुर्वाच्य इत्यादियुक्त्या च तारतम्यस्य स्वभावत्वात् । ‘तद्यथा पेशस्कारी पेशसो मात्रामुपादायान्यन्नवतरं कल्याणं रूपं तनुते एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वाऽन्यन्नवतरं कल्याणं रूपं कुरुते । पित्र्यं वा गान्धर्वं वा प्राजापत्यं वा ब्राह्मं वाऽन्येषां भूतानाम्’ इति श्रुतौ लिङ्गशरीरा-विद्यानिवृत्तेरूर्ध्वमपि पितृत्वाद्युक्तेश्च । न च मुक्तस्य देहाद्यस्ति चेद्, दुःखादि स्यात् । न चेत् भोगायोग इति वाच्यम् । ईश्वर वच्चिदात्मकस्य वा कर्मा-नारब्धस्यैच्छिकस्य प्राकृतदेहस्य वा सत्त्वात् । अस्ति हि तावच्चिद्रूपं शरीरम् ।
चिदानन्दशरीरेण सर्वे मुक्ता यथा हरिः ।
भुञ्जते कामतो यो(भो)गांस्तदन्तर्बहिरेव च ।। इति श्रुतेः ।
न्यायविवरणे– ‘न च मुक्तस्य चिदात्मको देहोऽपि नास्तीति वाच्यम् । अकृत्रि-मत्वेन तस्यानपगमात्’ इत्युक्तेश्च । अस्ति च जडशरीरम्–
स्वेच्छया वा शरीराणि तेजोरूपाणि कानिचित् ।
स्वीकृत्य जागरितवद् भुक्त्वा त्यागः कदाचन ।। इति ब्रह्मवैवर्तोक्तेः ।
तत्त्वप्रदीपे– ‘शुद्धप्रकृतिमयानि ज्योतीरूपाणि सुखैकतानानि शरीराण्यनुप्रविश्य’ इत्युक्तत्वाच्च । ‘चिता वाऽचिता वाऽनित्येन वा नित्येन वाऽथानन्दी ह्येष भवति’ इति देहद्वयश्रुतेश्च । मोक्षधर्मे च–
प्रकृतिं चाप्यतिक्रम्य गच्छत्यात्मानमव्ययम् ।
परं नारायणात्मानं निर्द्वन्द्वं प्रकृतेः परम् ।।
इन्द्रियाण्यनुबुध्यन्ति स्वदेहं योगिनो नृप ।
करणान्यात्मनस्तानि सूक्ष्मैः पश्यति तैस्तु सः ।।
‘स जिघ्रति यथान्यायं स्पर्शान्स्पृशति च प्रभो’ इति । न च प्राकृतदेहयोगे दुःखाद्यापत्तिः । मुक्तस्य वश्यप्रकृतित्वेन प्रकृतिवशत्वाभावात् । न हि यस्य वह्न्यादिर्वश्यस्तस्य तद्योगजं दुःखम् । उक्तं हि न्यायविवरणे– ‘मुक्तानां वशिता यतः’ इति । तत्त्वप्रदीपे च– ‘वश्यप्रकृतीनाम्’ इति । भाष्ये च– ‘शरीरमनुप्रविश्य पुण्यानेव भोगाननुभवति, न तु दुःखादीन् । यथा प्रदीपो दीपिकादिषु प्रविष्टस्तत्स्थं तैलाद्येव भुङ्क्तेन तु कार्ष्ण्यादीन्’ इति । सूत्रितं च ‘प्रदीपवदावेशस्तथा हि दर्शयति’ इति । ‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति’ इति श्रुतिस्तु कर्मारब्ध-देहविषया । मुक्तस्याशरीरत्वश्रुतिरपि तन्निरुक्त्यभावात् । न हि तानि शार्यन्ते । तच्छशरीरस्य लोकविलक्षणत्वाच्चाभावोक्तिः । ‘अप्रहर्षमनानन्दम्’ इत्यादिवत् । उक्तं च– ‘ग्रामस्था अपि न ग्राम्या वैलक्षण्याद्धि सज्जनाः’ इति । कथमन्यथा देहि-(सदेहे)ष्वेव जयादिषु ‘देहेन्द्रियासुहीनानाम्’ इत्युक्तिः । तस्मात्फलाध्यायोक्तन्यायै-स्तरतमभावापन्नमुक्तब्रह्मरुद्रादिनियामको भगवान् श्रीपतिः सर्वोत्तम इति सिद्धम् ।।५।।
नमो निरस्तदोषाय समस्तगुणराशये ।
विमलानन्ददेहाय कमलापतये सदा ।। ५ ।।
मत्प्रेरकेण हरिणा या पूजा स्वस्य कारिता ।
वाग्यज्ञरूपा लक्ष्मीशस्तया प्रीणातु केशवः ।। २ ।।
।। इति मुक्तावपि ब्रह्मादीनां तारतम्यसमर्थनम् ।। ५ ।।
।। इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमद्ब्रह्मण्यतीर्थपूज्यपादानां शिष्येण व्यासयतिना सङ्गृहीते न्यायामृते चतुर्थः परिच्छेदः ।
अद्वैतसिद्धि:
यत्तु परमतेऽपरोक्षज्ञानिनोऽपि स्वयोग्यपरमानन्दहेतुपरमकाष्ठापन्नभक्त्यभावे तत्साध्यस्य मोचकस्य ईश्वरप्रसादस्याभावेन प्रारब्धकर्मणा संसारानुवृत्तौ जीवन्मुक्तिः । तद्भावे तु प्रसादस्यापि भावेन निश्शेषदुःखनिवृत्तिविशिष्ट स्वतोनीचोच्चभावापन्नस्वरूपानन्दाविर्भावरूपा मुक्तिरिति, तन्न । ‘तावदेवास्य चिरम्’ इत्यादिश्रुत्या अस्योत्पन्नतत्त्व साक्षात्कारस्य प्रारब्धकर्मक्षयमात्रमपेक्षणीयं कैवल्यसम्पत्त्यर्थमिति प्रतिपादनेन ईश्वरप्रसादापेक्षाया वक्तुमशक्यत्वात् । स्मृतिपुराणादीनां श्रुतिविरोधेन स्तुतिपरत्वात् । ‘यमेवैष वृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते तनूं स्वाम्’ इति भक्तिजन्येश्वरप्रसादस्यापि तत्साक्षात्कारस्वरूप एवोपयोगस्य बोधितत्वेन स्मृत्यादीनामपि तदनुसारित्वाद् वैपरीत्येन साध्यसाधनभावे मानाभावात् । न च प्रारब्धकर्मक्षये प्रसादविनियोगः । प्रसादनिरपेक्षभोगादेव तत्सिद्धेः । नापि मुक्तावुच्चनीचभावः । तस्य द्वितीयसापेक्षत्वेन तदाऽसम्भवात् । ‘परमं साम्यमुपैति’ इति साम्यश्रुतेश्च । सातिशयत्वे मुक्तेः स्वर्गादिवदनित्यत्वं स्यात् । अधिकदर्शने दुःखद्वेषादिकं च स्यात् ।
ननु मुक्तौ अतारतम्यं किं भेदाभावात्, उत सत्यपि भेदे तत्साम्यात् । नाद्यः । श्रुत्या भेदसिद्धेः । नान्त्यः । साम्यं किं जीवेश्वरयोः, उत जीवानामेव । नाद्यः । तयोर्विभुत्वाणुत्वशेषशेषिभावस्वातन्त्र्य-पारतन्त्र्यादिना तारतम्याद् अनेकेश्वरापत्त्या जगत्प्रवृत्त्ययोगात् । तद्द्वयतारतम्यप्रतिपादकस्मृतिभिः, ‘जगद्व्यापारवर्जम्’ इत्यादिसूत्रैरुत्कृष्टत्वनिकृष्टत्वग्राहकानुमानैर्विरोधाच्च । नान्त्यः । जीवान् प्रति शेषिणो लक्ष्मीतत्त्वात् तान् प्रति नियामकाद् विष्वक्सेनादितश्च(इतर)जीवानां निकृष्टत्वात् । ‘सैषानन्दस्य’ इत्यादितैत्तरीयादिश्रुतिभिः,
मुक्तानामपि सिद्धानां नारायणपरायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ।।
इत्यादिस्मृतिभिः, ‘वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम्’ इत्यादिसूत्रैरुक्तश्रुतितर्कानुगृहीतै-रनुमानैर्विरोधाच्चेति चेन्न । भेदाभावेन तारतम्यासिद्धेः । यथा च श्रुत्यादेर्न भेदपरत्वं तथा प्रागेव गतम् । यत्तु द्वितीयपक्षमाशङ्क्य दूषणं, तदकाण्डताण्डवम् । भेदसत्त्वे अभेदात्मकपरमसाम्याभावात् तत्सत्त्वे भेदस्यैवाभावात् । किञ्च तारतम्याभिधानं परममुक्तौ ? उत ब्रह्मलोकादिवासरूपापरममुक्तौ वा ? नाद्यः । ‘एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः’ इति तृतीयान्त्याधिकरणे ‘ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात्’ इत्येतत्सूत्रोक्तज्ञानगतैहिकत्वामुष्मिकत्वरूपविशेषवन्मुक्तावपि तारतम्यमाशङ्क्य निषेधात् । द्वितीये त्विष्टापत्तिः ।
यत्तु ‘मुक्तजीवभोगः ईश्वरभोगान्निकृष्टः, जीवभोगत्वात्, संसारिभोगवत्’ । एवं जीवज्ञानादिकमपि पक्षीकृत्य प्रयोग ऊहनीयः । ‘ईश्वरानन्दः जीवानन्दादुत्कृष्टः, तन्नियामकानन्दत्वात्, यदेवं तदेवं यथा सेवकानन्दात् सेव्यानन्दः’ । ‘ईश्वरः जीवस्वभावानन्दादित उत्कृष्टस्वभावानन्दादिमान्, तत्प्रेप्सुत्वे सति तत्र शक्तत्वाद्, यो यत्प्रेप्सुत्वे सति यत्र शक्तः स तद्वान् यथा सम्मतः’ इत्यादीनि तारतम्यसाधकानि इति, तन्न । आद्ये मुक्तस्य ब्रह्मरूपतया उपाधिकृत जीवत्वाभावेनाश्रयासिद्धेः । ईश्वरत्वाभावेन साध्याप्रसिद्धेः, स्वरूपासिद्धेश्च । द्वितीयाद्यनुमाने जीवेश्वरविभागकाले तारतम्यसाधनं चेत्सिद्धसाधनम् । तद्भिन्ने काले चेत्, पूर्वदोषानतिवृत्तिः । ‘सैषानन्दस्य’ इत्यादिश्रुतिभिः मानुषानन्दमारभ्य ब्रह्मानन्दपर्यन्तेषु उत्तरोत्तरशतगुणत्वरूपतारतम्यमुपाधितारतम्येन वदन्तीभिर्निरुपाधिके स्वरूपानन्दे तारतम्यस्य वक्तुमशक्यत्वात् । एतेन ‘प्रकृता बन्धनिवृत्तिः, स्वसजातीयबन्धनिवृत्त्याश्रय-प्रतियोगिकतारतम्यवन्निष्ठा, बन्धनिवृत्तित्वात्, निगडबन्धनिवृत्तिवत्’ इति निरस्तम् । तारतम्यस्य गुणगतजातित्वेन बन्धनिवृत्त्याश्रयात्मनि वक्तुमशक्यत्वात् । अत एव निवृत्तिगततारतम्यसाधन-मप्यपास्तम् । निवृत्तेर्निरतिशयत्वादानन्दस्य स्वरूपतया उभयवादिसिद्धत्वेन गुणत्वाभावेन तत्रापि तस्य वक्तुमशक्यत्वात् । एतेन स्वरूपसुखानां प्रत्येकमेकत्वेनाणुत्वेन च सङ्ख्यापरिमाणकृत वैषम्याभावेऽपि जलसुधापानजन्यसुखयोरिव मधुरमधुरतरत्वादिवच्च स्वरूपकृतवैषम्यं मुक्ताविति निरस्तम् । वैषयिकसुखे साधनतारतम्यप्रयुक्ततारतम्येऽपि स्वरूपानन्दे तदभावाच्च ।
न च सालोक्यादिमुक्तिः सायुज्यादिमुक्तितोऽपकृष्टेति प्रसिद्धिविरोधः । परापरमुक्तिरूपतया तदुपपत्तेः । सायुज्यादिमुक्तावुत्कृष्टत्वव्यपदेशोऽपकृष्टत्वाभावमात्रेण । ननु सायुज्यं नैक्यम् । ‘चन्द्रमसः सायुज्यं सलोकतामाप्नोति’ इत्यादिश्रुत्या सत्यपि भेदे सायुज्योक्तेः ‘सयुजः परमात्मानं प्रविश्य च बहिर्गताः’ इत्यादौ सयुजां प्रवेशमात्रोक्तेश्च । सयुजो भावः सायुज्यमिति युजशब्देन सम्बन्धस्यैवोक्तेः । ‘सालोक्यमपि सामीप्यं सारूप्यं योग एव च’ इति स्मृतौ सायुज्ये सम्बन्धवाचकयोगशब्दप्रयोगाच्च । तस्मात्सायुज्यं नाम क्षीरनीरवद् अन्यदेहाविष्टग्रहदेवतादिवच्च संश्लेषमात्रं, न त्वैक्यमिति चेत्, न, व्यापकेनेश्वरेण संश्लेषस्य नित्यसिद्धत्वेनापुमर्थत्वात् । न चैतल्लोकस्थितस्य जीवस्य लोकान्तरस्थिता-लोकिकशरीरावच्छिन्नेनेश्वरेण संश्लेषः साध्यः, ‘अत्र ब्रह्म समश्नुते’ इति श्रुतेः । उत्क्रमण गमनादिसाध्यब्रह्मलोकावाप्तिवदुपाध्यवच्छिन्नजीवस्यानवच्छिन्नब्रह्माभेदरूपपरममुक्तेः पारलौकिक-फलत्वाभावात्, ‘ब्रह्मविदाप्नोति परम्’ इत्यादौ अवाप्तेः ब्रह्मरूपत्वात् सायुज्यस्यापि तद्रूपतया अङ्गीकरणीयत्वाच्च । ‘चन्द्रमसः सायुज्यम्’ इत्यादौ एकोपाध्यवच्छिन्नस्योपाध्यन्तरावच्छिन्नेन ऐक्यानुपपत्तिवदत्रानुपपत्तेरभावात्, प्रसिद्धार्थस्वीकारे बाधकस्योक्तत्वाच्च सायुज्यशब्दस्तावद्विभक्तत्वा-भावाभिप्रायकः ।
यच्च उत्तरोत्तरं शतगुणानन्दप्रकाशकवाक्येषु प्रतिवाक्यं मुक्तावकामहतशब्दप्रयोगात् मानुषानन्दवद् अकामहतमुक्तानन्देऽपि तारतम्यम् इति, तन्न, ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ इति सर्वेषां लौकिकानन्दानां परमानन्दान्तर्भावाभिधानोपपत्तेः, न तु तस्य तस्याकामहतस्य तावा-नेवानन्द इति । येन तत्रापि तारतम्यं कल्प्येत । तथा च ‘सोऽश्नुते सर्वान् कामान्’‘कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि’ इत्यादिश्रुतेः ‘स हि मुक्तोऽकामहतः’ इत्यादिब्रह्माण्डोक्तेश्च न विरोधः । ननु एकस्यैव श्रोत्रियस्य सर्वत्र परामर्शे मानुषानन्दादिभ्यः सावधारणशतगुणितमनुष्य-गन्धर्वाद्यनेकानन्दा एकस्मिन् विरुद्धाः । भिन्नाश्चेदकामहतत्वादेरेकरूपतया श्रुतस्याव्यवस्थापकत्वा-दानन्दव्यवस्थाऽयोगः । अथ व्यवस्थार्थं एतत्पदाकाम एतदितरपदकामश्च लक्ष्यते, तदाऽश्रुतकल्पना बाधश्च । न हीन्द्रादिपदे वा राजपदे वा निष्कामस्य भिक्षुकस्य इन्द्राद्यानन्दानुभवोऽस्ति । तस्माच्छ्रत्या पूर्ववाक्येनामुक्तानां तारतम्यमुक्त्वा, ‘श्रोत्रियस्य च’ इत्यादिना ‘यश्च श्रोत्रिय’ इत्यादिना चोत्तर-वाक्येन मुक्तस्य तदुच्यत इति चेन्न । सर्वेषु वाक्येषु अकामहतस्य मुक्तस्यैकत्वेऽपि तदानन्दे सर्वानन्दानामन्तर्भावात् स एव तस्मिन् तस्मिन्नानन्दे वक्तव्ये परामृश्यते । तत्तदिन्द्रादिसाम्येन तस्य सर्वत्राभिधानोपपत्तेः ‘अधिकं प्रविष्टं न तु तद्धानिः’ इति न्यायात् । साम्ये हि तत्सजातीयधर्मवत्त्वं तन्त्रम्, न तु तदितरधर्मानधिकरणत्वमपि । गौरवात् ।
यच्च मुक्तसुखं परस्परतारतम्यवत्, परस्परतारतम्यवत्साधनकत्वात्, सम्मतवदिति, तन्न, असिद्धेः । ननु मुक्तिः प्रयागमरणभगवद्द्वेषादिसाध्येति मते ज्ञानकर्मसमुच्चयसाध्येति मते च प्रयागमरणादीनां वर्णाश्रमकर्मणां च विषमत्वात् नासिद्धिः । ज्ञानैकसाध्येति मतेऽपि ‘कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति’‘सर्वे गुणा ब्रह्मणैव ह्युपास्या नान्यैर्देवैः किमु सर्वैर्मनुष्यैः’ इत्यादिश्रुत्या ‘ब्रह्मादि तद्वेद न चैव सम्यगन्ये कुतो देवमुनीन्द्रमर्त्याः’ इत्यादिस्मृतिभिः देवादिमनुष्यादिस्थ-मुक्तिहेतुब्रह्मज्ञानगतस्य बहुबहुतरशाखाश्रवणसाध्यत्वस्य बहुबहुतरगुणविषयत्वं विनाऽयोगेनार्थापत्त्या च तत्सिद्धिरिति चेन्न । केवलकर्मपक्षे समुच्चयपक्षे वा कर्मसाध्यत्वेन मुक्तेरनित्यत्वापत्तेः । ‘नान्यः पन्थाः’ इत्यादि श्रुतिविरोधाच्च । तृतीयपक्षे तूदाहृतश्रुतीनां ब्रह्मविद्यादुर्लभत्वप्रतिपादनपरत्वेन तदुक्तसाधनसाध्यत्वाप्रतिपादकत्वात् । न चार्थापत्त्या तत्सिद्धिः । ब्रह्मसाक्षात्कारस्य निर्गुणविषयतया गुणविषयत्वायोगात् । यत्तु–
‘यस्त आशिष आशास्ते न स भृत्यः स वै वणिक् ।
स वै भृत्यः स वै स्वामी गुणलुब्धौ न कामुकौ’ ।।
‘मुमुक्षोरमुमुक्षुस्तु वरश्चैकान्तभक्तिमान्’ इत्यादिस्मृत्या मुमुक्षुभ(क्त्य)क्तापेक्षया अमुमुक्षोर्भक्त-स्याधिक्योक्तेः, तदाधिक्यस्य लोकरीतिसिद्धत्वाच्च ‘भक्तिः सिद्धेर्गरीयसी’ इति स्मृत्या अल्पभक्ति-साध्यमुक्त्यपेक्षया अधिकमुक्तिहेतुभक्तेरपि आधिक्यस्योक्तेश्च इति, तन्न, ‘यस्त आशिषः’ इत्यादिना फलमनिच्छतो गुणलोभेन या भक्तिस्तस्यास्तु गरीयस्त्वं यत् प्रतिपादितं, तत्तत्त्वसाक्षात्कारे त्वरा-सम्पादकं न तु मुक्तितारतम्याक्षेपकम् । ‘भक्तिः सिद्धे ’रित्यादिना प्रतिपादितं गरीयस्त्वमपि तज्जनकत्वमात्रेण पुत्रात्पितुरिव । यत्तु–
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ।। इत्यत्रापिशब्देन,
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ।
किं पुनर्ब्रह्मणाः पुण्या भक्ता राजर्षयस्तथा ।।
इत्यत्र कैमुत्येन च साधनतारतम्येन साध्ये तत्प्रतीतिः इति, तन्न । न हि तरणे ‘अपि’ इत्यस्यान्वयः, किन्तु अधिकारिणि । तथा च विलम्बिततरणरूपफलसम्बन्धमात्रपर्यवसानात् कैमुत्यस्यापि त्वराफललाभमात्रेणोपपत्तेः साधनमात्रतारतम्यस्य फलतारतम्याप्रयोजकत्वाच्च । न हि दण्डतारतम्येन घटतारतम्यं क्वचिदपि दृश्यते । यत्तु–
‘साधनस्योत्तमत्वेन साध्यमुत्तममाप्नुयुः ।
ब्रह्मादयः क्रमेणैव यथानन्दश्रुतौ श्रुताः’ ।।
इति ब्राह्मे, ‘अधिकं तव विज्ञानमधिका च गतिस्तव’ इति साक्षान्मोक्षधर्मे च साधनतारतम्येन साध्ये तदुक्तिरिति, तन्न । साधनोत्तमत्वेन साध्योत्तमत्वस्यापरममुक्तिविषयत्वात्, विज्ञान-गताधिक्योक्तेरपि साक्षात्कारप्रयोजकसगुणविषयकज्ञानपरत्वाच्च । अत एव दहरादिविद्यानामधिकाल्प-गुणविषयकत्वेन साधनतारतम्यं यत्पराभिमतं तदप्येवमिति न कश्चिद्दोषः ।
तस्मात्स्वरूपानन्दस्य स्वप्रकाशात्मरूपिणः ।
प्राप्तिर्मुक्तिर्न तत्रास्ति तारतम्यं कथञ्चन ।। १ ।।
।। इत्यद्वैतसिद्धौ मुक्तौ तारतम्यभङ्गः ।।
यो लक्ष्म्या निखिलानुपेक्ष्य विबुधानेको वृतः स्वेच्छया
यः सर्वान् स्मृतमात्र एव सततं सर्वात्मना रक्षति ।
यश्चक्रेण निकृत्य नक्रमकरोन्मुक्तं महाकुञ्जरं
द्वेषेणापि ददाति यो निजपदं तस्मै नमो विष्णवे ।। १ ।।
श्रीमाधवसरस्वत्यो जयन्ति यमिनां वराः ।
वयं येषां प्रसादेन शास्त्रार्थे परिनिष्ठताः ।। २ ।।
सहजसरलां प्रेम्णा दीर्घां समस्तविशोधिनीं सकृदपि कृपादृष्टिं सन्तो दिशन्तु भवद्विधाः ।
कथमपि सती पूता सद्यस्तया विषयीकृता मम कृतिरियं हित्वा दोषान्भवत्वतिसद्गुणा ।। ३ ।।
गुरूणां माहात्म्यान्निजविविधविद्यापरिचयाच्छ्रुतेर्यन्मे सम्यङ्मननपरिनिष्पन्नमभवत् ।
परब्रह्मानन्दस्फुरणमखिलानर्थशमनं तदेतस्मिन् ग्रन्थे निखिलमतियत्नेन निहितम् ।। ४ ।।
इह कुमतिरतत्त्वे तत्त्ववादी वराकः प्रलपति यदकाण्डे खण्डनाभासमुच्चैः ।
प्रतिवचनममुष्मै तस्य को वक्तु विद्वान्न हि रुतमनुरौति ग्रामसिंहस्य सिंहः ।। ५ ।।
कुतर्कगरलाकुलं भिषजितुं मनो दुर्धियां मयायमुदितो मुदा विषविघातिमन्त्रो महान् ।
अनेन सकलापदां विघटनेन यन्मेऽभवत् परं सुकृतमर्पितं तदखिलेश्वरे श्रीपतौ ।। ६ ।।
ग्रन्थस्यैतस्य यः कर्ता स्तूयतां वा स निन्द्यताम् ।
मयि नास्त्येव कर्तृत्वमनन्यानुभवात्मनि ।। ७ ।।
श्रीव्यासशङ्करसुरेश्वरपद्मपादान् वेदान्तशास्त्रसुनिबन्धकृतस्तथान्यान् ।
विद्याप्रदानिह यतिप्रवरान्दयालून् सर्वान् गुरून् सततमेव नमामि भक्त्या ।। ८ ।।
सिद्धीनामिष्टनैष्कर्म्यब्रह्मगानामियं चिरात् । औतसिद्धिरधुना चतुर्थी समजायत ।। ९ ।।
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वती श्रीचरणशिष्यश्रीमधुसूदनसरस्वती-विरचितायाम् औतसिद्धौ मुक्तिनिरूपणं नाम चतुर्थः परिच्छेदः ।।
न्यायामृततरङ्गिणी
भेदभोगेति ।। भेदे सत्यपि तार्किकमत इव भोगाभावात्तारतम्याभावः, आनन्दानुभव-रूपभोगे सत्यपि मायिमत इव भेदाभावात्तदभावः ।। ब्रह्मेशानादिभिरिति ।। ब्रह्मेशा-नादिभिर्देवैर्यत्कैवल्यं प्राप्तुं न शक्यते तत्कैवल्यं यत्स्वभावः यस्यासाधारणधर्मः स कैवल्याश्रयो भवान् ।। जगद्व्यापारवर्जमिति ।। जगत्सर्जनादिव्यतिरिक्तसर्वसामर्थ्य युक्तो भवतीति ।। तदवश्येति ।। प्रजानन्दादनुत्कृष्टे राजानन्दे व्यभिचारवारणाय तदवश्येति । समानन्दे तद्वारणाय तन्नियामकेति ।। श्रोत्रियस्य चेति ।। मानुषशतानन्दपरिमितैकानन्दयुक्तो मनुष्यगन्धर्वो मुक्तो यथा तथा तावदानन्दयुक्तः प्राप्तश्रोत्रफलोऽकामहतो मुक्तमनुष्यगन्धर्वोऽपि ।। असमा इति ।। मनोजवेषु ज्ञानादिष्वसदृशाः ।। वृद्धिह्रासेति ।। मुक्तेर्न्यूनाधिकत्वं भाक्तं, कुतः, ब्रह्मादीनां मुमुक्षुषु अन्तर्भावात्, तेषां साधनस्य न्यूनाधिकत्वात् । एवं सति ब्रह्मादीनां मुमुक्ष्वन्तर्भावो मुक्तिश्चेत्युभयसामञ्जस्यं भवति ।। परतन्त्रानन्दत्वेति ।। परतन्त्रानन्दत्वस्य साक्षाद्व्याप्यो धर्मो देवानन्दत्वादिः । तेन सजातीयः यो देवान्तरानन्दः, तत्प्रतियोगिकं तारतम्यं देवानन्द इत्यर्थः ।। सजातीयबन्धेति ।। निगडबन्धादिना सजातीयो बन्धः निगडबन्धाद्यन्तरं तन्निवृत्तेराश्रयो देवदत्तादिः, तत्प्रतियोगिकतारतम्यवान् यज्ञदत्तादिः, तन्निष्ठा यथानिगडबन्धनिवृत्तिः तथा पक्षीभूता देहादिरूपप्रकृतिबन्धनिवृत्तिरपि तदाश्रय-प्रतियोगितारतम्यवन्निष्ठेति साध्यार्थः ।।
प्रसिद्धमिति ।। समानलोकनिवासापेक्षया तदन्तःप्रवेशस्याभ्यर्हितत्वेन लोके प्रसिद्धत्वात्, श्रुतिस्मृत्योश्च ।। सारूप्यादिमतीति ।। सारूप्यादेर्भेदसामानाधिकरण्यनियमेन सारूप्य-नियतसायुज्यस्यापि भेदनियतत्वात् ।। भेदे सत्यपीति ।। चन्द्रमस इत्यादिषष्ठीश्रुत्या चन्द्रचेदिभूभुजादिना भेदे सत्यपि सायुज्योक्तेः ।। तच्छब्देनेति ।। सायुज्यशब्देन ।। सालोक्यमिति ।। अस्मिन्वाक्ये सारूप्यानन्तरं सायुज्ये वक्तव्ये वृद्धिमन्त्रन्यायेन सम्बन्धार्थको योगशब्दः प्रयुक्त इति योगशब्देन निर्दिश्यमानं सायुज्यं सम्बन्धरूपमेव ।। संश्लेषमात्रमिति ।। अभिव्यक्तप्रसाद विशेषवदीश्वरसम्बन्धः संश्लेषः । एतेन व्यापकेश्वरेण संश्लेषस्य नित्यसिद्धत्वादपुमर्थत्वम् । न चोत्क्रमणश्रुत्या लोकान्तरस्थितालौकिकशरीरा-वच्छिन्नेश्वरेण योगः स इति वाच्यम् । ‘न तस्य प्राणा उत्क्रामन्ति’ अत्र ब्रह्म समश्नुत’ इति श्रुतेर्मुक्तेः पारलौकिकत्वाभावात् । ब्रह्मलोकाद्यवाप्तेरेवोत्क्रमणगमनादिसाध्यत्वादिति निरस्तम् ।। संसारिणीति ।। एतच्च प्रकृतेऽप्रकृतेऽपि सम्बध्यते ।। स चेति ।। कामकृतोपद्रवाभावः सत्यकामस्य । आप्तकामस्य मुक्तस्यावाप्तकामत्वे श्रुतिमाह– सोश्नुत इत्यादि ।। उक्तश्रुतेर्जीवन्मुक्तिविषयत्वम् अपाकरोति– अपरोक्षेति ।।
ननु छन्दोध्येतर्यनुशिष्टः श्रोत्रियशब्द एव बाधक इत्यत आह– श्रोत्रियत्वं चेति ।। प्रकृतेति ।। श्रोत्रियशब्दस्य मनुष्यगन्धर्वान्वितत्वे ।। एकवचनमिति ।। मनुष्यगन्धर्वाणां बहुवचनेन प्रस्तुतत्वान्न तत्र तदन्वयः ।। चशब्दश्चेति ।। उद्देश्यविधेययोरेकत्वेन समुच्चेतव्या-भावात् । ननूद्देश्यादेरेकत्वेऽपि तदुपस्थितिभेदाच्चशब्दो युज्यत इत्यत आह– न हीति ।। वसिष्ठादिशब्दैस्तदुपस्थितिभेदेऽपि तत्र चशब्दार्थानन्वयात् ।। अप्रकृतेति ।। मनुष्यगन्धर्वादिभिन्नो यः कश्चित्संसारी श्रोत्रियपदेन बोध्यत इत्यङ्गीकारे ।। मानुषादिभ्य इति ।। मनुष्यगन्धर्वश्रोत्रिये मानुषानन्दशतगुणित एवानन्दो न तु मनुष्यगन्धर्वानन्द इत्यादिरूपमानन्दावधारणं न स्यात् । श्रोत्रियस्य मनुष्यगन्धर्वदेवगन्धर्वादिष्वेकत्वेन देवगन्धर्वश्रोत्रियादौ श्रुतस्य मनुष्यगन्धर्वानन्दशतगुणितानन्दादेरपि मनुष्यगन्धर्वे वक्तव्यत्वात् । तस्य च विरुद्धत्वादित्यर्थः ।। भिन्नश्चेदिति ।। मनुष्यगन्धर्वश्रोत्रियस्य देवगन्धर्वादिश्रोत्रियस्य च भिन्नत्वे तत्र तत्र श्रोत्रिये मनुष्यानन्दशतगुणितानन्द एव मनुष्यगन्धर्वसमीपश्रुतश्रोत्रियस्यैव मनुष्यगन्धर्वानन्दशतगुणितानन्द एव गन्धर्वसमीपश्रुतश्रोत्रियस्यैवेत्यादिव्यवस्था न सिध्यति । मानुषानन्दशतगुणितानन्दं प्रत्याधारत्वेनाकामहतत्वावृजिनत्वयुक्त एव श्रोत्रिय उपादीयते । तथाविधस्य देवगन्धर्वश्रोत्रियस्य देवगन्धर्वादिश्रोत्रियस्यैव मनुष्यगन्धर्वानन्दशतगुणितानन्द इत्याद्यव्यवस्थापत्तेरित्यर्थः ।
अकामहतत्वादेरिति ।। आदिपदेनावृजिनत्वम् ।। अथेति ।। मनुष्यगन्धर्वपदाकामस्य देवगन्धर्वपदकामस्य श्रोत्रियस्य मनुष्यगन्धर्वानन्दशतगुणितानन्दः । एवं देवगन्धर्वपदाकामस्य आजानजादिपदकामस्य देवगन्धर्वानन्दशत गुणितानन्दः । एवमुत्तरत्रापीत्यानन्दव्यवस्था सिध्यतीत्यर्थः ।। अश्रुतेति ।। तत्पदकामत्वादिबोधकपदाभावात् । नन्वश्रुतमपि योग्यत्वा-दियुक्तं कल्प्यमित्यत आह– बाधश्चेति ।। योग्यत्वमेव नास्तीत्यर्थः ।। तस्मादिति ।। अमुक्तमनुष्यानन्दापेक्षयाऽमुक्तमनुष्यगन्धर्वाणां शतगुणगुणितानन्दः । तेषां मध्ये यः श्रोत्रियादिर्मुक्तो मनुष्यगन्धर्वस्तस्याविमुक्तमनुष्यानन्दशतगुणितानन्द इति श्रुतेरर्थः । अत एवैकवचनं समञ्जसम् । बहूनां मनुष्यगन्धर्वाणां मध्ये कदाचित्कश्चिन्मुच्यत इत्येवं सूचनार्थ-त्वाच्च । तदिदमाह– मुक्तस्येति ।। अत एव चशब्दोऽपि सङ्गच्छते । मुक्तामुक्तमनुष्यगन्धर्व-स्यैकत्वेऽप्यमुक्तत्वमुक्तत्वरूपावस्थाभेदेन तदवस्थितोद्देश्यभेदात् । अयं कुमारः साधुर्युवा चेतिवत् । ननु विदितवेद्यानां बृहस्पतिशिष्यणां स्तुतिरूपः ‘अक्षण्वन्तः’ इति मन्त्रः कथं मुक्तपरो व्याख्यायत इत्यत आह– अक्षण्वन्त इतीति ।। साक्षात्कृतपरमात्मतत्वानामेव विदितवेद्यत्वात् मुक्तानामेवात्र स्तुतिरतोऽस्य सूक्तस्य मुक्तविषयत्वम् ।। ऋचां त्व इति ।। यज्ञे ब्रह्मणां गौणानां बहुत्वम् ।। देवर्षिमनुष्यादिस्थेति ।। मनुष्यज्ञानगतं यदल्पशाखा-श्रवणजन्यत्वं तदल्पतरगुणविषयत्वं विनाऽनुपपन्नमित्यादिरूपार्थापत्तिः ।
ननु देवादिदेहावच्छेदेन न ब्रह्मज्ञानं किन्तु चरमदेहावच्छेदेनैवेति देवर्ष्यादीत्याद्ययुक्तमित्यत आह– चरमदेहोऽपीति ।। चरमदेहोऽपि देवादिरूप एव ।। लोकरीतीति ।। लोके भृतिग्राहिसेवकात्तदग्राही सेवको राजाप्रियो दृष्टः ।। सिद्धेरिति ।। मुक्तेः ।। गतिरिति ।। श्वेतद्वीपादिमुक्तिस्थाननिवासः ।। दहरेति ।। दहरविद्यायां सत्यकाम त्वादयोऽक्षरविद्यायां प्रशासितृत्वादयोऽल्पगुणा उक्ताः ।। भरन्यासेति ।। रक्षिष्यत्येवेत्यादिविश्वासः ।। स्वरूपत इति ।। भक्तिस्वरूपं कर्मापेक्षम् । न तु प्रपत्तिस्वरूपम् । ननु भक्तिस्वरूपे कर्मावृत्तिभ्या-माधिक्येऽपि विश्वासोऽल्पः, प्रपत्तौ तु कर्मावृत्त्योरभावेऽपि विश्वासो भूयानिति दशरूप्यैक-सुवर्णन्यायेन भक्तिप्रपत्त्योः साम्यमित्याशङ्क्य निराकरोति– न च तयोरिति ।। प्रपत्त्यपे-क्षया भक्तावेव विश्वासाधिक्यमित्याह– विश्वासस्येति ।। सकृद्भोजने बहुघृतभोक्तुरपेक्षया बहुषु भोजनेष्वल्पघृतभोक्तुरेव बहुघृतभोक्तृत्ववदनेकभक्त्यावृत्तिष्वल्पाल्पविश्वासस्यापि सकृन्निवृत्तप्रपत्तिगतविश्वासा पेक्षयाऽधिकत्वादित्यर्थः ।। अन्धेति ।। अन्धेन कृते यागे आज्येक्षणाद्यङ्गवैकल्यं पङ्गुकृते विष्णुक्रमणाद्यङ्गवैकल्यम् ।। कर्मणामिति ।। अल्पस्य कर्मणोऽल्पं फलं महतो महदित्येवं विशेषवेदनाभावेऽप्यल्पस्य कर्मणः स्वविषयेऽल्पफलं महतो महदिति विभागो नियमो भवति ।। स्थानसामान्यादिति ।। यथा ब्राह्मणकाण्डे प्रथमस्थान-गतेन कर्मणा मन्त्रकाण्डे प्रथमस्थानगतस्य मन्त्रस्य क्रमप्रमाणेन सम्बन्धस्तथाऽल्पफलं प्रत्यल्पमेव कर्म साधनत्वेन सम्बध्यते महत्फलं प्रति महदित्यर्थः ।
अपरोक्षज्ञानोत्तरमनुष्ठितानि विचित्रकर्माणि मोक्षेतरफलानि । मोक्षाहेतुत्वे सति फल-वत्त्वादिति सामान्य व्याप्तिकानुमानेन मोक्षे वैचित्र्यं सिध्यतीत्याह– तस्य तावदेवेति ।। विशेषणासिद्धिं परिहरति– नापीति ।। वैचित्र्यापाताच्चेति ।। तदङ्गीकारे त्विष्टापत्तिः । अर्थान्तरं परिहरति– नापि फलेति ।। बाधान्न तत्सिद्धिः ।। नित्यत्वादिति ।। मोक्षा-नन्वयेऽपि फलत्वात् । विशेष्यासिद्धिं परिहरति– नापीश्वरेति ।। लीलार्थं निष्फलम् । ‘अपरोक्षज्ञानिकृतं कर्म लीलार्थम्, सांसारिकभोगार्थम् अक्रियमाणज्ञानिकर्मत्वात्, ईश्वरकृतकर्मवत्’ । इत्यत्र विवक्षितस्याविधिबद्धकृतत्वस्योपाधेः पक्षाद्व्यावृत्तिं वक्तुं ज्ञानिनां कर्मविधिमाह– आचार्यादित्यादि ।। पक्षासिद्धिं परिहरति– सूर्यादय इति ।। शुकशक्र-सूर्यादयः ।। यावदधिकारमिति ।। ‘यावदधिकारमवस्थितिराधिकारिकाणाम्’ इति सूत्रम् ।। भोगसामान्य एव साम्यमिति ।। मुक्तभोगे ईश्वरभोगगतभोगत्वसदृशभोगत्वमस्तीत्यर्थः । न त्वीश्वरगतसामान्यभोगसदृशो मुक्तभोग इत्यर्थः । विशेषान्यसामान्यस्याभावात् ।। त्वन्मतेऽपीति ।। मुक्तानामैश्वरभोग विशेषवत्त्वे जगद्व्यापारस्यापीश्वरगतत्वेन तद्वर्जनं मुक्तानां न स्यादित्यर्थः ।। सातिशयत्वेऽपीति ।। साति शयस्येवापकृष्टस्य समस्य विनाश-दर्शनात्त्वत्पक्षेऽपि स स्यात् । श्रुतिबलात्तत्त्यागस्तु ममापि सम इत्यर्थः ।। उत्कर्षस्येति ।। गन्धर्वाद्युत्कर्षस्य ।। प्रकृतिमिति ।। स्वभावम् । स्वभावजेति स्वभावस्य त्रैविध्या-च्छ्रद्धात्रैविध्यमिति गम्यते ।। हठापरपर्यायेति ।। हठस्य कारणान्तरापूर्वकत्वान्नानवस्था ।। लिङ्गशरीराविद्यानिवृत्तेरिति ।। तथा च पितृत्वगन्धर्वत्वादिकं न देहाद्युपाधिकं किन्तु स्वरूपकृतमिति गम्यत इत्यर्थः ।
मुक्तानां भोगानुपपत्तिनिरासाय ‘अभावं बादरिराह ह्येवम्’ इत्यधिकरणसिद्धजडाजड-देहवत्त्वं तेषां साधयितुमाह– न च मुक्तस्येति ।। अभावं बादरिरिति सूत्रसिद्धचिच्छरीरत्वं मुक्तानां साधयति– अस्ति (हि) तावदिति ।। ‘भावं जैमिनिर्विकल्पाम्नानात्’ इति सूत्रसिद्धजडशरीरवत्त्वं साधयति– अस्ति चेति ।। यथा जाग्रदवस्थायां देहसद्भावेन भोगसम्भवस्तथा मुक्तावपि देहसद्भावेन भोगोपपत्तिरित्येवमर्थकेन ‘भावे जाग्रद्वत्’ इति सूत्रे सूचितं प्रमाणमाह– स्वेच्छया वेति ।। इन्द्रियवत्त्वं तेषां साधयति– मोक्षधर्मे चेति ।। शरीरमनुप्रविश्येति ।। इतः परं तत्प्रकाशयन्त इति शेषः । भाष्ये तथा पाठात् । एतद्भाष्य-व्याख्यातं सूत्रमाह– प्रदीपवदिति ।। जीवस्य शरीर प्रवेशेऽपि न दुःखानुभवप्राप्तिः । यतः साधूनेव भोगाननुभवन्ति प्रदीपवदिति सूत्रार्थः ।। तन्निरुक्त्यभावादिति ।। ‘तदशीर्यता-शारीति तच्छरीरमभवत्’ इत्याद्युक्तविशरणरूपतन्निरुक्तेः तस्मिन्मुक्तशरीरेऽभावादित्यर्थः । अत एवाह– न हि तानीति ।। शरीरे सत्येव वैलक्षण्यमात्रेण शरीराभावोक्तौ दृष्टान्तमाह– कथमन्यथेति ।। तारतम्य समर्थनमुपसंहरति– तस्मादिति ।। तत्प्रयोजनमाह– नियामक इति ।। स्वयं नियच्छति ब्रह्मादिभ्यो नियमयति चेत्यर्थः । एतद्ग्रन्थस्य ब्रह्ममीमांसा-सम्बन्धित्वमुक्तमुपसंहरिष्यंस्तदवधृतविशेषणवत्तयेष्टदेवतानमस्काररूपं मङ्गलं ग्रन्थ-समाप्तावाचरति– नम इति ।। स्वस्य स्वातन्त्र्येण कर्तृत्वस्याभावेऽपि पराधीनस्य तस्य सत्त्वादेतद्ग्रन्थकरणेन भगवत्प्रीतिमाशास्ते– मत्प्रेरकेणेति ।। सङ्गृहीत इति ।। अनेनात्रोक्त-न्यायानां मूलशास्त्रोक्तत्वं सूचितम् ।। इति मुक्तावपि ब्रह्मादीनां तारतम्यसमर्थनम् ।। ५ ।।
सद्योजातजटाजपावनसरिद्गोदावरीतीरतो
गव्यूतिर्वसतिस्सतां कुलवतामम्बापुरी तत्र ये ।
व्यासाख्या उपमन्युगोत्रजबुधास्तेष्वास्त यो मुद्गलः
तत्राजज्ञत ये मुरारिचरणा व्यासाभिधाना बुधाः ।। १ ।।
तेभ्योऽजायत विश्वनाथ इति यस्सज्ज्ञानरत्नाकर-
स्तस्मादाविरभूत्सुरद्रमयशा आचार्यनारायणः ।
रामाचार्य इतीरितस्तदनुजो यस्तत्ववादाम्बुधे-
रातानीत्सतरङ्गिणीमिह परिच्छेदश्चतुर्थोऽपि यः ।। २ ।।
।। इति श्रीमद्रामाचार्यविरचितायां न्यायामृततरङ्गिण्यां चतुर्थः परिच्छेदः ।। ४ ।।
न्यायामृतकण्टकोद्धारः
‘नीचोच्चभावमापन्ने’त्यनेन तारतम्यमभिप्रेतम् । तदसहमानः प्रत्यवतिष्ठते– नन्विति ।। मुक्तौ तारतम्याभावः किं प्रमाणाभावात् ? उत बाधकसत्वात् । नाद्यः । तत्र प्रमाणस्य वक्ष्यमाणत्वात् । द्वितीयं विकल्पयति– उच्यत इति ।। न च भेदाभावेन तारतम्यासिद्धिरिति वाच्यम् । साधकसत्त्वेन बाधकासद्भावेन च द्वितीयसत्वस्य निपुणतरमुपपादितत्वात् ।। अनेकेश्वरेति ।। तारतम्याभावे ईशवन्मुक्तानामपि सार्वज्ञ्यापत्त्याऽनेकेश्वरत्वं स्यादिति भावः ।। अल्पशक्तिरित्यादि ।। न च भेदसत्त्वे नाभेदात्मकपरमसाम्याभावः । तत्सत्त्वे भेद एव नास्तीति वाच्यम् । परमसाम्यस्य भेदाविरोधित्वात् । न च सादृश्यमात्रविवक्षायां परमशब्दोऽनर्थक इति वाच्यम् । संसारदशायां सत्यपि साम्येऽनभिव्यक्तत्वेनापरमत्वस्य सम्भवात् । मुक्तौ चाभिव्यक्त्या परमत्वसम्भवेन वैय्यर्थ्याभावेन त्वदुक्तेरेवाबोधविजृम्भितत्वे-नाकाण्डताण्डवत्वात् । न चैतत्तारतम्याभिधानं किं परममुक्तौ ? उत ब्रह्मलोकावासरूपापरम मुक्तौ । नाद्यः । ‘एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः’ इति तृतीयान्त्याधि-करणे मुक्तावपि तारतम्यमाशङ्क्य निषेधात् । न द्वितीयः । इष्टापत्तेरिति वाच्यम् । पक्षद्वयस्यापि निदुर्ष्टत्वेन स्वीकारात् । ‘वृद्धिह्रासभाक्त्वं’ इत्यत्र सूत्रकृतैव तारतम्यस्योक्त-त्वात् । एवं ‘मुक्तिफलानियमः’ इत्यस्यार्थान्तरपरत्वेन तारतम्यनिषेधपरत्वाभावात् । ‘तदवश्यतन्नियामकानन्दत्वात्’ इति हेतुद्वयम् । ‘तदवश्यत्वात्, तन्नियामकानन्दत्वात्’ इति । तेन न तदवश्येति विशेषणानर्थक्यमिति भावः । न चाधिकमुक्तस्य ब्रह्मरूप-तयोपाधिकृतजीवत्वस्याभावेन तारतम्यं वक्तुमशक्यमिति वाच्यम् । मुक्तानां ब्रह्मभेदस्य समर्थितत्वेन जीवत्वस्य स्वाभाविकतया तारतम्यस्य वक्तुं सुकृतत्वात् ।।
त्वन्मतेऽपीति ।। एतच्च रामानुजान् प्रति । सत्यपि भेदे साम्यस्यैव तैरङ्गीकारात् ।। परतन्त्रेति ।। परतन्त्रानन्दत्वस्य साक्षाद्व्याप्यो धर्मः जीवस्वरूपानन्दत्वं, तेन सजातीयो यः आनन्दः जीवान्तरस्वरूपानन्दः, तत्प्रतियोगिकं यत् तारतम्यं तद्वानित्यर्थः ।। स्व-सजातीयेति ।। स्वशब्देन पक्षीकृतबन्धनिवृत्तिः । सजातीया बन्धनिवृत्तिः अन्यपुरुषीया । तदाश्रयीभूतपुरुषान्तरम् । तत्प्रतियोगिकतारतम्यवान् पक्षीकृतबन्धनिवृत्त्याश्रयः तन्निष्ठेत्यर्थः । ननु स्वरूपे तारतम्यमयुक्तम् । स्वरूपसुखानामेकत्वात्; अणुत्वाच्च स्वरूपकृतवैषम्यस्या-भावादित्यत आह– स्वरूपेति ।। न च वैषयिकसुखे साधनतारतम्येऽपि स्वरूपानन्दे तदभाव इति वाच्यम् । स्वरूपानन्देऽपि तारतम्यस्य श्रुतिस्मृति सूत्रैर्निपुणतरमुपपादितत्वात् ।
प्रकारान्तरेणापि तारतम्यमुपपादयति– प्रसिद्धं चेति ।। न च परापरमुक्तितया तदुपपत्तिः । उत्कृष्टत्व व्यपदेशस्त्वपकृष्टत्वाभावमात्रेणेति वाच्यम् । त्वदभिमतपरममुक्तेर-प्रामाणिकत्वात् । सति ह्यपकृष्टे उत्कृष्टत्वव्यपदेशो न तु तदभावे । न हि दीर्घाभावे ह्रस्व-व्यपदेशो दृष्टः ।। तस्मादिति ।। नन्वेतदयुक्तम् । व्यापकेनेश्वरेण संश्लेषस्य नित्यसिद्धत्वात् । ‘ब्रह्मविदाप्नोति परम्’ इत्यत्रावाप्तेर्ब्रह्यरूपत्वोक्त्या सायुज्यस्यापि तद्रूपताया अङ्गीकरणीय-त्वात् । ‘चन्दमसः सायुज्यं’ इत्यादौ अवच्छिन्नस्योपाध्यन्तरावच्छिन्नेनैक्यानुपपत्तिवत् प्रकृते तदभावात् । प्रसिद्धार्थस्वीकारे बाधकस्योक्तत्वाच्चेति चेत् । मैवम् । न हि संश्लेषमात्रं सायुज्यशब्दार्थः । किन्तु ‘आदत्ते हरिहस्तेन हरिपादेन गच्छति । पश्येच्च हरिदृष्टिभ्यां’ इत्युक्तसंश्लेषविशेषस्य विवक्षितत्वात् । तस्य चासिद्धत्वेन पुमर्थत्वोपपत्तेः । ‘अवाप्ति-र्ब्रह्मरूपत्वे’त्यप्ययुक्तम् । तथा सति देवदत्तस्य ग्रामप्राप्तेरपि देवदत्तस्वरूपापत्तेः । ऐक्यानु-पपत्तिस्तु प्रकृतेऽप्यस्यैव सावर्ज्ञ्यादेः स्वाभाविकस्योपपादितत्वेन विरुद्धधर्मवतोरैक्यस्यानु-पपन्नत्वात् । बाधकाभावाच्च प्रसिद्ध एव सायुज्यशब्दार्थः ।। प्रकृते मनुष्यगन्धर्वादाविति ।। तथा चोत्तरोत्तरशतगुणानन्दप्रकाशकवाक्येषु प्रतिवाक्यं मुक्तेऽकामहतशब्दप्रयोगात् मुक्ता-नन्देऽपि तारतम्यमिति भावः । न च ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ इति सर्वेषां लौकिका नन्दानां परमानन्दान्तर्भावाभिधानोपपत्तेरिति । न तु तस्याकामहतस्य तावानेवानन्द इति, येन तारतम्यं कल्प्येदिति वाच्यम् । अत्र भगवदानन्दस्योपजीव्यत्वं अन्यानन्दस्य तूपजीवकत्वोक्त्या भेदस्यैवाभिप्रेतत्वेनान्तर्भावस्यैवाभावात् । अंशत्वस्य च ‘देवदत्तचतुर्भागबलो मैत्रः’ इतिवद् भिन्नत्वेऽप्युपपत्तेः । नन्वपरोक्षज्ञानिन एवावृजिनत्वं किं न स्यात् ? अत्राह– अपरोक्षेति ।।
दूषणान्तरमाह– अपि चेति ।। ननु सर्वेषु वाक्येषु अकामहतस्य मुक्तस्यैकत्वेऽपि तदानन्दे सर्वानन्दानामन्तर्भावात् स एव तस्मिन् तस्मिन्नानन्दे वक्तव्ये परामृश्यते । तत्तदिन्द्रादिसाम्येन तस्य सर्वत्राभिधानोपपत्तेः । साम्यं हि तत्सजातीयधर्मवत्वम् । न तु तदितरधर्मानाधिकरणत्वमपि । गौरवादिति । मैवम् । सर्वेषु वाक्येषूक्तस्यैकत्वे एकेनैव वाक्येन तस्य प्रतिपादितत्वात् वाक्यान्तरस्यानर्थक्यं स्यात् । सर्वानन्दानां तदानन्देऽन्तर्भाव इत्यप्ययुक्तम् । विरुद्धानामेकत्रान्तर्भावस्य बाधितत्वात् । तथा सति जलस्याप्यनलेऽन्त-र्भावापत्तिः । न च सर्ववाक्यप्रतिपादितस्य मुक्तस्यैकत्वादन्तर्भावो युक्त इति वाच्यम् । तदैक्यस्यैव गगनकुसुमायितत्वात् । एकस्यैवानन्दस्य सर्वत्राभिधानं च पुनरुक्तम् । न च तत्तदिन्द्रादिसाम्येन तदुपपत्तिरिति वाच्यम् । साम्यं हि तत्सजातीयधर्मवत्वम् । न च निर्विशेषानन्दे धर्मवत्वमुपपद्यते इत्ययुक्तमेवैतदिति, बाधमेव व्यक्तीकरोति– न हीति ।। उक्तार्थे आचार्यसम्मतिमाह– उक्तं हीति ।। उपसंहरति– तस्मादिति ।। तथापि ‘अक्षण्वन्तः’ इत्यस्य मुक्तविषयत्वं कथम् ? ज्ञापकाभावादित्यत आह– अक्षण्वन्त इति ।।
नन्वेतन्मतमेवायुक्तम् । तथा हि– द्वेषस्य मोक्षसाधनताया प्रमाणबाधितत्वात् । कर्ममात्रस्य मोक्षसाधनताया प्रमाणबाधितत्वात् । कर्ममात्रस्य मोक्षसाधनत्वे स्वर्गादिवदेव मुक्तेरनित्यत्वापत्तिः । ‘नान्यः पन्थाः’ इत्यादिश्रुतिविरोधाच्च । ज्ञानैकसाध्यत्वपक्षेऽप्युदाहृत-श्रुतीनां ब्रह्मविद्यादुर्लभत्वप्रतिपादनपरत्वेनोक्तसाध्यसाधनभावप्रतिपादकत्वात् । नाप्यर्थापत्त्या तत्सिद्धिः । ब्रह्मसाक्षात्कारस्य निर्गुणविषयतया गुणविषयत्वस्यैवाभावादिति । मैवम् । द्वेषस्य मनोऽभिनिवेशहेतुत्वम् । मुक्तिस्तु ज्ञानादेवेत्यङ्गीकारेण प्रमाणबाधाभावात् । अनित्यत्वापादनमयुक्तम् । कर्ममात्रसाध्यत्वानङ्गीकारात् । कर्मणश्चोपसर्जनत्वं, ज्ञानस्यैव प्राधान्यमित्यङ्गीकारेण श्रुतिविरोधाभावात् । ‘मदन्यः कः ज्ञातुमर्हति’ ‘सर्वे गुणा ब्रह्मणैव’ इत्यादिश्रुत्यादिभिरन्यवेद्यत्वान्योपास्यत्वादिनिषेधेन तारतम्यपरत्वस्य स्पष्टप्रतिभासेन दौर्लभ्यमात्रपरकत्वाभावात् । सगुणातिरिक्तनिर्गुणाप्रामाणिकत्वस्योपपादितत्वेन साक्षात्कारस्य निर्गुणविषयत्वासम्भवेनार्थापत्तेरुपपन्नत्वात् । ननूक्तविधतारतम्यवत्साधनसाध्यश्चरमदेह एव । न तु सुखरूपमोक्ष इत्यत आह– चरमदेह इति ।। तस्य मर्त्यादिरूपस्यानित्यतयाऽपुमर्थत्वेन नोक्तविधसाधनसाध्यतेति भावः ।
प्रकारान्तरेणापि तारतम्यमुपपादयति– यस्त आशिष इति ।। न चैतद् भक्तेर्गरीयस्त्व-प्रतिपादनं तत्वसाक्षात्कारे त्वरासम्पादकत्वादन्यथासिद्धमिति न मुक्तितारतम्याक्षेपकमिति वाच्यम् । उक्तरीत्या श्रुतिसंवादेन च तारतम्यपरत्व सम्भवेऽन्यथासिद्धिकल्पकाभावात् ।। भक्तिः सिद्धेरिति ।। न चैतत् जनकत्वमात्रेणैव गरीयस्त्वप्रतिपादनं पुत्रात् पितुरिवेति वाच्यम् । कल्पकाभावेन दृष्टान्तमात्रस्याप्रयोजकत्वात् ।। अन्ये त्वेवमिति ।। न चैतद् विलम्बिततरणरूप फलसम्बन्धमात्रे पर्यवसन्नम् । कैमुत्यमपि त्वराफललाभमात्रेणोपपन्नमिति वाच्यम् । दत्तोत्तरत्वात् ।। साधनस्येति ।। न चास्य सगुणमुक्तिविषयत्वेन न परममुक्ति-विषयत्वम् । विज्ञानगताधिक्योक्तेरपि निर्गुणसाक्षात्कारप्रयोजक सगुणज्ञानविषयत्वमिति वाच्यम् । निर्गुणब्रह्मणो निर्गुणमुक्तेश्चाप्रामाणिकत्वस्योपपादितत्त्वेन तद्विषयत्वकल्पका-भावात् । एतेन दहराक्षरादिविद्यानां यदन्यथासिद्धिवर्णनं तदपि निरस्तम् ।
तारतम्यानङ्गीकारिणं रामानुजं प्रत्याह– विकल्प इति ।। भक्तिप्रपत्त्योः स्वरूपविवरणं चिन्तेत्यादि । तत्र चिन्ताभारो भक्तिः । न्यासः प्रपत्तिः ।। उक्तरीत्येति ।। आवृत्त्यनावृत्ति-रूपोक्तरूपेत्यर्थः ।। तर्ह्यन्योन्याश्रय इति ।। फलसाम्यसिद्धौ सत्यां प्रपत्तावधिकविश्वा-सकल्पना । तस्यां च सत्यां साधनसाम्यात् फलसाम्यसिद्धिरित्यन्यो न्याश्रय इत्यर्थः । सत्यपि साधनसाम्ये फलं विषममित्यत आह– साधनेति ।। ऐतेनेत्यस्यार्थमाह– तथेति ।। शक्ताशक्तविषयत्वात् फलसाम्यमित्येतत् किं श्रुतम् ? उत कल्प्यते ? नाद्य इत्याह– तथाऽ-श्रवणादिति ।। द्वितीयं प्रत्याह– कल्पन इति ।। साधनतारतम्येन साध्यतारतम्योपपादन-मुपसंहरति– तस्मादिति ।। उक्तार्थे सम्मतिमाह– अत एवेति ।।
अपरोक्षज्ञानोत्तरकालं क्रियमाणस्य कर्मब्रह्मध्यानादेः प्रयोजनान्तरार्थत्वासम्भवेन मुक्ता-वानन्दातिशयार्थत्वस्यैव वक्तव्यत्वेनावश्यं मुक्तौ तारतम्यं स्वीकर्तव्यमित्याशयेनापरोक्ष-ज्ञानिकृतस्य कर्मणः प्रयोजनान्तरार्थत्वाभावमुपपादयति– किञ्चेति ।। उक्तश्रुत्यादीति ।। ‘तस्य कार्यं न विद्यते’ इत्याद्युक्तश्रुत्यादीर्त्यर्थः । अनित्यत्वेऽपि कुतो न तदर्थत्वमित्यत उक्तम्– ज्ञानिन इति ।। आचार्यादिति ।। विहितस्य लीलात्वाभावादिति भावः । ननु सूर्यादीनाम् अपरोक्षज्ञानित्वाभावात् तदीयं क्लेशेनानुष्ठानं नानन्दातिशयार्थमित्यत आह– सूर्यादय इति ।। उक्तार्थे प्रमाणसम्मतिमाह– ब्रह्माण्ड इति ।। अत एवेति ।। आनन्दाति-शयार्थत्वादेवेत्यर्थः । ‘साम्यमुपैति’ इति श्रुतेः का गतिरित्यत आह– परमेति ।। अन्यथेति ।। स्मृत्युक्तसाम्यानङ्गीकार इत्यर्थः । अस्तु तदित्यत आह– तच्चेति ।। ननु स्रष्ट्रत्वादिनिषेधो न सूत्रात् प्रतीयत इत्यत आह– अत्रेति ।। अन्यथेति ।। उपलक्षणार्थत्वा-भाव इत्यर्थः । ननु भोगमात्रेति सूत्रे सर्वसाम्यस्योक्तत्वात् कथं तन्निषेध इत्यत आह– भोगमात्रेति ।। मन्मते तस्य कात्स््नर्याथत्वात् कथमेतदित्यत आह– त्वन्मत इति ।। ननु मुक्तानन्दस्य सातिशयत्वे कथं नित्यत्वम् ? अत आह– सातिशयत्वेऽपीति ।। तारतम्यस्य स्वभावत्वं श्रुतिस्मृतियुक्तिभिरुपपादयति– यो यद्रूप इति ।। ननु मुक्तानां द्विविधशरीरसद्भावोऽप्रामाणिक इत्यतस्तदुपपादयति– अस्ति तावदिति ।। जडशरीरसद्भाव-मप्युपपादयति– अस्ति चेति ।। वश्यप्रकृतित्वेनेति ।। वश्या प्रकृतिर्यस्य तत्त्वेनेति विग्रहः । तर्हि ‘न वै सशरीरस्य सतः प्रियाप्रिययोः’ इत्यादिश्रुतेः का गतिरित्यत आह– न ह वा इति ।। ‘तन्निरुक्त्याभावात्’ शीर्यत इति शरीरमिति शरीरशब्दार्थाभावादित्यर्थः । प्रसिद्ध्याऽप्येतदुपपादयति– किञ्चेति ।।
परिच्छेदार्थमुपसंहरति– तस्मादिति ।। एवं समापितैतद्ग्रन्थो व्यासतीर्थमुनिरन्तेऽपि मङ्गलमाचरति– नम इति ।। इति मुक्तावपि ब्रह्मादीनां तारतम्यसमर्थनम् ।।
कल्याणगुणसम्पूर्णो वारिताखिलदूषणः ।
भक्त्या तुष्टो ददातीष्टं जानते श्रीरमापतिः ।।
रघूत्तमार्यशिष्येणानन्दनाम्ना यथामति ।
कृतोऽयं कण्टकोद्धारः प्रीयतां तेन माधवः ।।
।। इति श्रीमद्रघूत्तमतीर्थपूज्यपादानां निजशिष्येण पाण्डुरङ्गि आनन्दाचार्येण कृते न्यायामृतकरण्टकोद्धारे चतुर्थः परिच्छेदः ।। ५ ।।
न्यायामृतप्रकाशः
भेदभोगादेरिति ।। वैशेषिकरीत्या भेदसहितभोगादेरित्यर्थः । ‘किं वा तस्य सत्त्वेऽपि साम्यात्’ इति रामानुजमताभिप्रायेण ।। तदवश्येति ।। अत्र यो यन्नियामकानन्दः स तदानन्दादुत्कृष्ट इत्येवोक्ते कश्चिद्राजा दरिद्रः धनिकप्रजादत्तान्नादिभोक्ता राजत्वेन तन्नियामकश्चास्ति । तदानन्दे प्रजानियामकस्य राज्ञ आनन्दत्वमस्ति प्रजानन्दादुत्कृष्टत्वरूपं साध्यं नास्ति । राजापेक्षया धनिकप्रजाया एव परम-सुखित्वदर्शनादतस्तत्र व्यभिचारवारणाय तदवश्येत्युक्तम् । राज्ञो दरिद्रत्वेऽपि प्रजानन्दस्य तद्वश्यत्वेन तदवश्यत्वाभावान्न व्यभिचार इत्यर्थः । समानन्द व्यभिचारवारणाय विशेष्यभागः । त्वन्मते रामानुजस्य तव मते । शेषिणः प्रधानभूतात् ।। तान्प्रतीति ।। लक्ष्मीतत्वनियम्यजीवान्प्रतीत्यर्थः ।। परतन्त्रेत्यादि ।। आनन्दप्रतियोगिकतारतम्यवानित्येवोक्ते जीवानन्दस्येश्वरानन्द प्रतियोगिकतारतम्य-वत्त्वस्य रामानुजैरङ्गीकृतत्वात्सिद्धसाधनता स्यात् । अतः ‘सजातीये’त्युक्तम् । नन्वीश्वरानन्दोऽप्या नन्दत्वेन धर्मेण जीवानन्दसजातीयोऽपि भवत्येवेति पुनः सिद्धसाधनवारणायोक्तं परतन्त्रानन्द त्वेत्यादि ।। परतन्त्रानन्दत्वस्य साक्षाद्व्याप्यो धर्मो देवानन्दत्वं तेन धर्मेण सजातीयो य आनन्दो देवानां परस्परमानन्दः । तथा परतन्त्रानन्दत्वसाक्षाद्व्याप्यो धर्मः ऋष्यानन्दत्वं तेनापि सजातीयो य ऋष्यादीनां परस्पर मानन्दस्तत्प्रतियोगिक तारतम्यवानिति साध्यार्थः ।। प्रकृतिबन्धनिवृत्तिरिति ।। देवादीनां जायमाना प्रकृतिबन्ध निवृत्तिरित्यर्थः ।। स्वसजातीयेत्यादि ।। स्वशब्देन पक्षीभूतदेवादि-बन्धनिवृत्तिस्तज्जातीया या बन्धनिवृत्तिर्ऋष्यादि बन्धनिवृत्तिस्तदाश्रयो ऋष्यादिस्तत्प्रतियोगिक-तारतम्यवन्तो देवास्तन्निष्ठेत्यर्थः । एवं च जीवानामन्योन्यतारतम्यसिद्धिः ।। निगडबन्धेति ।। देवदत्त-निष्ठनिगडबन्धनिवृत्तिः स्वसजातीया या बन्धनिवृत्तिर्यज्ञदत्तीया तदाश्रयो यज्ञदत्तस्तत्प्रति योगिक-तारतम्यवान् देवदत्तस्तन्निष्ठेत्यर्थः ।
ननु स्वरूपसुखे कथं तारतम्यम् । तेषामेकैकत्वेन सङ्ख्याकृततारतम्याभावात् । अणुभूत-जीवस्वरूपत्वेन परिमाणकृततारतम्याभावाच्चेति शङ्काभासं निराकरोति– स्वरूपेति ।। जलपानं सुधापानं च तदुभयजन्येत्यर्थः ।। सारूप्यादीति ।। सालोक्यसामीप्यसारूप्यसायुज्यरूपं मुक्तिचतुष्टयम् । तत्रोत्तरोत्तरमुक्तिमति तदधस्तना मुक्तिरस्ति । सारूप्यादिमति सालोक्यादिदर्शनात् । एवं सायुज्यवति सारूप्यादिमुक्तिदर्शनात् । सारूप्यादेश्च भेदगर्भत्वेन भेदगर्भसारूप्यादिमुक्तेः सायुज्यस्यैक्य-रूपत्वपक्षेऽयोगादित्यर्थः ।। भेदे सत्यपीति ।। न हि विशिष्टेन चन्द्रेणैक्यरूपं सायुज्यं युक्तमित्यर्थः ।। अन्यस्मिन्वा संसारिणीति ।। श्रोत्रियादिपदवाच्ये विरक्तपुरुष इत्यर्थः । किञ्च त्वत्पक्षे प्रकृतो विरक्तरूपः श्रोत्रियो यः स एक एव मनुष्यगन्धर्वमारभ्य ब्रह्मपर्यन्तं श्रुतेषु श्रोत्रियस्येत्यादिवाक्ये-षूच्यते । उत भिन्नः । नाद्य इत्याह– अपि चेत्यादिना ।। न द्वितीय इत्याह– भिन्नश्चेदिति ।। अकामहतत्वादेः सर्वेष्वपि श्रोत्रियेष्वेकप्रकारतया श्रवणेन तत्साध्यानन्देष्वपि तारतम्यरूपव्यवस्थाया अयोग इत्यर्थः ।। तदितरपदकामश्चेति ।। तथा चाकामहतत्वं न सर्वत्रैकप्रकारमित्यर्थः । अतो व्यवस्थोपपत्तिरिति भावः ।। उक्तं हीति ।। अनुव्याख्यान इत्यर्थः ।
ननु चरमदेहस्य सर्वेषामेकप्रकारत्वान्न तारतम्यमित्यत आह– चरमदेहोऽपीति ।। मर्त्यादिरेव मर्त्यऋषिदेवादिरूप एवेति तत्रैव तारतम्यमिति भावः । त्वत्पक्षे रामानुजपक्षे । निरन्तरचिन्ता भक्तिः । भरन्यासः अन्तःकरणभरन्यासः । प्रपत्तिर्विश्वास इति यावत् । ‘स्वरूपतो विषमत्वात्’ इत्यन्वयः ।। कर्मेति ।। निरन्तरचिन्तारूपभक्तिः अन्तःकरणशुद्धिद्वारा कर्मापेक्षा । प्रपत्तिस्तु कर्मानपेक्षेत्यर्थः ।। आवृत्तीति ।। चिन्तारूपा भक्तिर्निरन्तरमावृत्तिसापेक्षा । नैवं प्रपत्तिरित्यर्थः । ननु भक्तिस्वरूपकर्मावृत्तिभ्याम् आधिक्येऽपि विश्वासोऽल्पः । प्रपत्तौ तु कर्मावृत्त्योरभावेऽपि विश्वासो भूयानिति दशरूप्यैकसुवर्णन्यायेन भक्तिप्रपत्त्योः साम्यमित्याशङ्क्य निराकरोति– न च तयोरिति ।। प्रपत्त्यपेक्षया भक्तावेव विश्वासाधिक्यमित्याह– विश्वासस्येति ।। सकृद्भोजने बहुघृतभोक्त्रपेक्षया बहुषु भोजनेष्वल्प घृतभोक्तुरेव बहुघृतभोक्तृत्ववदनेकभक्त्यावृत्तिष्वल्पाल्पविश्वासस्यापि सकृन्निवृत्ति-प्रपत्तिगतविश्वासापेक्षयाऽधिक त्वादित्यर्थः ।। अन्धेति ।। अन्धेन कृते यागे आज्येक्षणाद्यङ्गवैकल्यं, पङ्गुकृते विष्णुक्रमाद्यङ्गवैकल्यम् ।। कर्मणामिति ।। अल्पकर्मणोऽल्पफलं महतो महदित्येवं विशेषचोदनाभावेऽप्यल्पस्य कर्मणः स्वविषयेऽल्पफले महति विभागो नियमो भवति स्थानसाम्यात् । यथा ब्राह्मणकाण्डे प्रथमस्थानगतेन कर्मणा प्रथमकाण्डे प्रथमस्थानगतस्य मन्त्रस्य स्थानप्रमाणेन सम्बन्धस्तथाऽल्पफलं प्रत्यल्पमेव कर्म साधनं सम्बध्यते महत्फलं प्रति महदित्यर्थः ।
अपरोक्षज्ञानोत्तरमनुष्ठितानि विचित्रकर्माणि मोक्षे तत्प्रयोजकानि । मोक्षाहेतुत्वे सति सफलत्वादिति सामान्यव्याप्तिकानुमानेन मोक्षे वैचित्र्यं सिध्यतीत्याह– तस्य तावदेवेति ।। विशेषणासिद्धिं परिहरति– नापीति ।। वैचित्र्यापाताच्चेति ।। तदङ्गीकारे त्विष्टापत्तिः । अर्थान्तरं परिहरति– नापि फलेति ।। बाधान्न तत्सिद्धिरिति भावः । विशेष्यासिद्धिं परिहरति– नापीश्वरेति ।। लीलार्थं निष्फलम् । ‘अपरोक्षज्ञानिकृतं कर्म लीलार्थं सांसारिकभोगार्थम् अक्रियमाणज्ञानिकर्मत्वात् ईश्वरकृतकर्मवत्’ इत्यत्र विवक्षितस्य विधिबद्धाकृतत्वस्योपाधेः पक्षाद्व्यावृत्तिं वक्तुं ज्ञानिनां कर्मविधिमाह– आचार्यादिति ।। पक्षासिद्धिं परिहरति– सूर्यादय इति ।। शुकशक्रसूर्यादयः ।। यावदधिकारमिति ।। ‘यावदधिकार-मवस्थितिराधिकारिकाणाम्’ इति सूत्रम् ।। भोगसामान्य एव साम्यमिति ।। मुक्तभोगे ईश्वरभोग-गतभोगत्वमस्तीत्यर्थः ।। त्वन्मतेऽपीति ।। मुक्तानामैश्वरभोगविशेषवत्त्वे जगद्व्यापारस्यापीश्वर गतभोगत्वेन तद्वर्जनं मुक्तानां न स्यादित्यर्थः ।। सातिशयत्वेऽपीति ।। सातिशस्येवापकृष्टस्य समस्य विनाशदर्शनात्त्वत्पक्षेऽपि स स्यात् । श्रुतिबलात्तत्त्यागस्तु ममापि सम इत्यर्थः ।।
उत्कर्षस्येति ।। गन्धाद्युत्कर्षस्य ।। प्रकृतिमिति ।। स्वभावम् ।। स्वभावजेति ।। स्वभावस्य त्रैविध्यात् श्रद्धात्रैविध्यमिति गम्यते ।। हठापरपर्यायेति ।। हठस्य कारणान्तरपूर्वकत्वात् नानवस्था ।। लिङ्गशरीराविद्यानिवृत्तेरिति ।। तथा च पितृत्वगन्धर्वत्वादिकं न देहाद्युपाधिकं किन्तु स्वरूपकृत-मिति गम्यत इत्यर्थः । मुक्तानां भोगानुपपत्तिपरिहाराय ‘अभावं बादरिराह ह्येवम्’ इत्यधिकरणसिद्ध-जडाजडदेहवत्त्वं तेषां साधयितुमाह– न च मुक्तस्येति ।। ‘अभावं बादरिः’ इति सूत्रसिद्धं चिच्छरीरत्वं मुक्तानां साधयति– अस्ति हि तावदिति ।। ‘भावं जैमिनिर्विकल्पाम्नानात्’ इति सूत्रसिद्धं जडशरीरत्वं साधयति– अस्तीति ।। यथा जाग्रदवस्थायां देहसद्भावेन भोगसम्भवस्तथा मुक्तावपि देहसद्भावेन भोगोपपत्तिरित्येवमर्थकेन ‘भावे जाग्रद्वत्’ इति सूत्रेण सूचितं प्रमाणमाह– स्वेच्छया वेति ।। इन्द्रियवत्त्वं तेषां साधयति– मोक्षधर्मे चेति ।। ‘शरीरमनुप्रविश्य’ इत्यनन्तरं ‘तत्प्रकाशयन्त’ इति शेषः । एतद्भाष्यव्याख्यातं सूत्रमाह– प्रदीपवदिति ।। तन्निरुक्त्यभावादिति ।। ‘तदशीर्यताशरीति तच्छरीरमभवत्’ इत्याद्युक्तविशरणरूपतन्निरुक्तेस्तस्मिन् मुक्तशरीरेऽभावादित्यर्थः । अत एवाह– न हीति ।। शरीरे सत्येव वैलक्षण्यमात्रेण शरीराभावोक्तौ दृष्टान्तमाह– कथमन्यथेति ।। तारतम्य-समर्थनमुपसंहरति– तस्मादिति ।। तत्प्रयोजनमाह– नियामक इति ।। स्वयं नियच्छति ब्रह्मादिभ्यो नियमयति चेत्यर्थः ।। एतद्ग्रन्थस्य ब्रह्ममीमांसासम्बन्धित्वमुक्तमुपसंहरिष्यन् तदवधृतविशेषणवत्तयेष्ट देवतानमस्काररूपमङ्गलं ग्रन्थसमाप्तावाचरति– नम इति ।। स्वस्य स्वातन्त्र्येण कर्तृत्वस्याभावेऽपि पराधीनस्य सत्त्वादेतद्ग्रन्थकरणेन भगवत्प्रीतिमाशास्ते– मत्प्रेरकेणेति ।। सङ्गृहीत इत्युक्त्याऽत्रोक्त-न्यायानां मूलशास्त्रोक्तत्वं सूचितमिति ज्ञातव्यम् ।। इति मुक्तावपि ब्रह्मदीनां तारतम्यसमर्थनम् ।।५।।
।। इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकश्रीनिवासेन विरचिते
न्यायामृतप्रकाशे चतुर्थः परिच्छेदः ।।
न्यायकल्पलता
परममुक्तौ तारतम्यमसहमानः शङ्कते– नन्विति ।। विकल्पानुपपत्त्या समादधति– मुक्ताव-तारतम्यमिति ।। भेदभोगेति ।। सत्यपि भेदे वैशेषिकमत इव भोगाभावात्तारतम्याभावः । आनन्दानुभवरूपभोगे सत्यपि मायिमत इव भेदाभावात्तदभावः ।। ब्रह्मेशानादिभिरिति ।। ब्रह्मरुद्रादिभिर्देवैर्यत्कैवल्यं स्वातन्त्र्यलक्षणं सर्वोत्तमत्वं प्राप्तुं न शक्यते तत्कैवल्यं यत्स्वभावः यस्यानागन्तुकोऽसाधारणधर्मः स कैवल्याश्रयो भवान् ।। जगद्व्यापारवर्जमिति ।। जगत्सृष्टृत्वादि-व्यतिरिक्तसर्वसामर्थ्ययुक्तो भवतीत्यर्थः ।। तदवश्येति ।। आचार्यकेण वृतस्यानन्दस्य सकाशात् उत्कृष्टे राजाद्यानन्दे व्यभिचारवारणाय तदवश्य इत्युक्तम् । समानन्दे तद्वारणाय तन्नियामकेति ।। श्रोत्रियस्य चेति ।। यथा मानुषशतानन्दपरिमितैकानन्दयुक्तो मनुष्यगन्धर्वोऽमुक्तस्तथा तावानानन्दयुक्तः प्राप्तश्रोत्रफलोऽकामहतो मुक्तमनुष्यगन्धर्वोऽपि ।। असमा इति ।। मनोजवेषु ज्ञानादिष्वसदृशाः ।। वृद्धिह्रासभाक्त्वमिति ।। मुक्तेर्न्यूनाधिकत्वं भाक्त्वं, कुतः, ब्रह्मादीनां मुमुक्षुषु अन्तर्भावात्, तेषां च साधनस्य न्यूनाधिकत्वात् । एवं सति ब्रह्मादीनां मुमुक्षुष्वन्तर्भावो मुक्तिश्चेत्युभयसामञ्जस्यं भवति ।। परतन्त्रेति ।। परतन्त्रानन्दत्वस्य साक्षाद्व्याप्यो धर्मो देवानन्दत्वादिः । तेन सजातीयो देवान्तरानन्दः, तत्प्रतियोगिकं तारतम्यं देवानन्दे इत्यर्थः ।। सजातीयबन्धेति ।। निगडबन्धादिना सजातीयो बन्धः निगडबन्धाद्यन्तरं तन्निवृत्तेराश्रयो देवदत्तादिः, तत्प्रतियोगिकतारतम्यवान् यज्ञदत्तादिः, तन्निष्ठा या यथा निगडबन्धनिवृत्तिः तथा पक्षीभूता देहादिरूपप्रकृतिबन्धनिवृत्तिरपि तदाश्रयप्रतियोगि कतारतम्यवन्निष्ठेति साध्यार्थः ।।
प्रसिद्धमिति ।। समानलोकनिवासापेक्षया तदन्तःप्रवेशस्याभ्यर्हितत्वेन लोके प्रसिद्धत्वात् लोके श्रुतिस्मृत्योश्च प्रसिद्धत्वात् ।। सारूप्यादिमतीति ।। सारूप्यादेर्भेदसामानाधिकरण्यनियमेन सारूप्यनियतसायुज्यस्यापि भेदनियतत्वादित्यर्थः ।। भेदे सत्यपीति ।। ‘चन्द्रमसः’ इत्यादिषष्ठीश्रुत्या चन्द्रचेदिभूभुजादिना भेदे सत्यपि सायुज्योक्तेः ।। तच्छब्देनेति ।। सायुज्यशब्देन ।। सालोक्यमिति ।। अस्मिन्वाक्ये सारूप्यानन्तरं सायुज्ये वक्तव्ये दधिमन्त्रन्यायेन सम्बन्धार्थको योगशब्दः प्रयुक्त इति योगशब्देन निर्दिश्यमानं सायुज्यं सम्बन्धरूपमेव ।। संश्लेषमात्रमिति ।। अभिव्यक्तप्रसादविशेषवदीश्वरसम्बन्धः संश्लेषः । एतेन व्यापकेश्वरसंश्लेषस्य नित्यसिद्धत्वादपु-मर्थत्वम् । न चोत्क्रमणश्रुत्या लोकान्तरस्थितालौकिकशरीरावच्छिन्नेश्वरेण योगः स इति युक्तम् । ‘न तस्य प्राणा उत्क्रामन्ति’ अत्र ब्रह्म समश्नुत’ इति श्रुतेर्मुक्तेः पारलौकिकत्वाभावात् । ब्रह्मलोका-द्यवाप्तेरेवोत्क्रमण गमनादिसाध्यत्वादिति निरस्तम् ।। संसारिणीति ।। एतच्च ‘प्रकृतेऽप्रकृतेऽपि’ इत्यनेन सम्बध्यते ।। स चेति ।। कामकृतोपद्रवाभावः । सत्यकामस्य आप्तकामस्य । मुक्तस्या-वाप्तकामत्वे श्रुतिमाह– सोश्नुत इति ।। विविधं विलक्षणं च पश्यं जीवजडात्मकं चेतति जानातीति विपश्चित् । ‘पृषोदरादीनि यथोपजुष्टम्’ इति साधुत्वम् ।तेन विपश्चिता ब्रह्मणा सह तदविनाभूतः सन् सर्वान् स्वयोग्यान् काकाननुभवतीत्यर्थः । एतेन ‘ब्रह्मविदाप्नोति परम्’ इत्यादौ अवाप्तेर्ब्रह्मरूपत्ववत् सायुज्यस्यापि तद्रूपतैवेत्यङ्गीकरणीयम् । ‘चन्द्रमसः सायुज्यम्’ इत्यादौ एकोपाध्यवच्छिन्नस्य उपाध्यन्तरावच्छिन्नेनैक्यानुपपत्तिवदत्रानुपपत्तेरभावः इति निरस्तम् । तेनैव सायुज्यशब्दोऽत्र विभक्तत्वाभावाभिप्रायक इति व्युदस्तम् । मुख्यार्थे बाधकाभावात् । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति इति ब्रह्मानन्दप्रति बिम्बानन्दानुभवस्यैवोक्तेश्च ।। कामस्य यत्राप्ता इति ।। देहादुच्चिक्रमिषुर्मुख्यवायुम् अभ्यर्थयते । उदाहृतश्रुतेर्जीवन्मुक्ति विषयत्वम् अपाकरोति– अपरोक्षेति ।।
ननु ‘श्रोत्रिमं छन्दोऽधीत’ इति छन्दोध्येतर्यनुशिष्टः श्रोत्रियशब्द एव बाधक इत्यत आह– श्रोत्रियत्वं चेति ‘स्वाध्यायोऽध्येतव्यः’ इति अध्ययनविधेरक्षरग्रहणमात्रस्यापुरुषार्थत्वेन फलवदर्थावबोधपर्यवसायितया श्रोत्रियशब्दः प्राप्ताध्ययनफले मुक्ते मुख्यः ‘मुख्यामुख्ययोः मुख्ये कार्यसम्प्रत्ययः’ इति न्यायादित्यर्थः । न्याय्यमर्थं इतिहासेन दर्शयति– प्राप्तेति ।। पराभिमतेऽर्थे बाधकं चाह– प्रकृतेति ।। श्रोत्रियशब्दस्य मनुष्यगन्धर्वान्वितत्वे ।। एकवचनमिति ।। मनुष्य-गन्धर्वाणां बहुवचनेन प्रस्तुतत्वान्न तत्र तदन्वयः ।। चशब्दश्चेति ।। उद्देश्यविधेययोरेकत्वेन समुच्चेतव्याभावात् । ननूद्देश्यादेरेकत्वेऽपि तदुपस्थितिभेदाच्चशब्दो युज्यत इत्याशङ्काम् अपाकरोति– न हीति ।। वसिष्ठादिशब्दैस्तदुपलक्षित भेदेऽपि तत्र चशब्दानन्वयात् । विशेषणसमुच्चयस्तु अगतिकागतिः ।। अप्रकृतेति ।। मनुष्यगन्धर्वादिभिन्नो यः कश्चित्संसारी श्रोत्रियपदेन बोध्यत इत्यङ्गीकारे ।। मनुष्यादिभ्य(मानुषादिभ्य) इति ।। मनुष्यगन्धर्वश्रोत्रिये मानुषानन्दशतगुणित एवानन्दो न तु मनुष्यगन्धर्वानन्दशतगुणितानन्द इत्यादिरूपमानन्दावधारणं न स्यात् । श्रोत्रियस्य मनुष्यगन्धर्वदेवगन्धर्वादिष्वेकत्वेन देवगन्धर्वश्रोत्रियादौ श्रुतस्य मनुष्यगन्धर्वानन्दशतगुणितानन्दादेरपि मनुष्यगन्धर्वे वक्तव्यत्वात् । तस्य च विरुद्धत्वादित्यर्थः ।। भिन्नश्चेदिति ।। मनुष्यगन्धर्वश्रोत्रियस्य देवगन्धर्वादिश्रोत्रियस्य च भिन्नत्वे तत्र तत्र श्रोत्रिये मानुषानन्दशतगुणितानन्द एव मनुष्यगन्धर्वसमीप-श्रुतश्रोत्रियस्यैव मनुष्यगन्धर्वानन्द शतगुणगुणितानन्द एव देवगन्धर्वसमीपश्रुतश्रोत्रियस्यैवेत्यादिव्यवस्था न सिध्यति । मानुषानन्दशतगुणितानन्दं प्रत्याधारत्वेनाकामहतत्वावृजिनत्वयुक्त एव श्रोत्रिय उपादीयते । तथाविधश्च देवगन्धर्वश्रोत्रियोऽपीति तस्य मानुषानन्द शतगुणितानन्दः । मनुष्यगन्धर्व-श्रोत्रियस्य तु मनुष्यगन्धर्वानन्दशतगुणितानन्द इत्याद्यव्यवस्थापत्तेरित्यर्थः ।
अकामहतत्वादेरिति ।। आदिपदेनावृजिनत्वम् । शङ्कते– अथेति ।। मनुष्यगन्धर्वपदाकामस्य देवगन्धर्वपदकामस्य श्रोत्रियस्य मानुषा(गन्धर्वा)नन्दशतगुणि(गणि)तानन्दः । एवं देवगन्धर्वपदाकामस्य आजानजादिपदकामस्य मनुष्यगन्धर्वानन्दशतगुणितानन्दः । एवमुत्तरत्रापीत्यानन्दव्यवस्था सिध्यती-त्यर्थः । प्रतिक्षिपति– तदेति ।। तत्तत्पदाकामत्वादिबोधकपदाभावादश्रुतकल्पनेत्यर्थः । नन्वश्रुतमपि योग्यं कल्प्यमित्यत आह– बाधश्चेति ।। योग्यत्वमेव नास्तीत्यर्थः । अयोग्यतां विशदयति– न हीति ।। तस्मादिति ।। अमुक्तमनुष्यानन्दापेक्षयाऽमुक्त मनुष्यगन्धर्वाणां शतगुणगुणितानन्दः । तेषां मध्ये यः श्रोत्रियः प्राप्तश्रुतिमूलः अकामहतश्च मुक्तो मनुष्यगन्धर्वस्तस्याविमुक्तमनुष्यानन्द-शतगुणितानन्द इति श्रुतेरर्थः । अत एवैकवचनं समञ्जसम् । बहूनां मनुष्यगन्धर्वाणां मध्ये कदाचित्कश्चिन्मु(च्यत)क्त इत्येवं सूचनार्थत्वाच्च । तदिदमाह– मुक्तस्येति ।। तत एव चशब्दोऽपि सङ्गच्छते । मुक्तामुक्तमनुष्यगन्धर्वस्यैकत्वेऽप्यमुक्तत्वमुक्तत्वरूपावस्थाभेदेन तदवस्थितोद्देश्यभेदात् । अयं कुमारः साधुर्युवा चेतिवत् ।
ननु विदितवेद्यानां बृहस्पतिशिष्यणां स्तुतिरूपः ‘अक्षण्वन्तः’ इति मन्त्रः कथं मुक्तपरो व्याख्यायत इत्यत आह– अक्षण्वन्त इतीति ।। साक्षात्कृतपरमात्मतत्त्वानामेव विदितवेद्यत्वात् । भूतपूर्वगत्या बृहस्पतिशिष्यत्वात् । मुख्यतया वेदगर्भस्यैव बृहस्पतित्वाच्च । मुक्तानामेवात्र स्तुतिरतोऽस्य सूक्तस्य मुक्तविषयत्वम् ।। ऋचां त्व इति ।। ‘ऋचां त्वः पोषमास्ते पुपुष्वान्गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां वि मिमीत उ त्वः’ (ऋ.सं.१०–७१–११) इति मन्त्रस्यायमर्थः । त्वशब्दोऽन्यार्थः । मुक्तलोके त्वः कश्चिद् ब्रह्मा ऋचां पोषं पुपुष्वानास्ते । ऋचः पुष्टाः कुर्वन्नास्ते । त्वो ब्रह्मा शक्वरीषु ऋक्ष्वारूढं गायत्रं साम गायति । त्वो ब्रह्मा जातविद्यां पौरुषेयविद्यां वदति । त्वो ब्रह्मा यज्ञस्य विष्णोः मात्रां ? अशमेव? विमिमीते ध्यायतीति । इज्यतेऽसौ यज्ञ इति व्युत्पत्तेः । यज्ञशब्दो विष्णुवाची । ‘यज्ञेन यज्ञमयजन्तदेवाः’ इति मन्त्रवर्णात् । ‘यज्ञो विष्णुर्देवता’ इति हि श्रुतिः । अत्र ब्रह्मबाहुल्यश्रवणात्परममुक्तित्वम् । न च मन्त्रस्यास्य ऋत्विग्विषयत्वम् । ब्रह्मणो जातविद्यावादित्वस्याप्रसिद्धत्वात् । चतुर्णामपि पादानां होत्रादिभिन्नविषयत्वे तृतीयपादे त्व इति व्यर्थं स्यात् । तस्मादपवृक्तानेकगर्भविषयत्वमेव । अतीतकल्पेषु मुक्तानामनेकेषां ब्रह्मणां भावात् । यज्ञे तु ब्रह्मणां गौणानां बहुत्वम् ।। मदामदमिति ।। निरतिशयानन्दरूपमित्यर्थः ।। देवर्षिमनुष्यादिस्थेति ।। मनुष्यगते ज्ञाने यत् अल्पशाखाश्रवणजन्यत्वं तत्, अल्पतरगुणविषयत्वमन्तरेणानुपपन्नमित्यादिरूपार्थापत्तिरित्यर्थः ।
ननु देवादिदेहावच्छेदेन न ब्रह्मज्ञानं किन्तु चरमदेहावच्छेदेनैवेति देवर्ष्यादीत्याद्ययुक्तमित्यत आह– चरमदेहोऽपीति ।। चरमदेहोऽपि देवादिरूप एव ।। लोकरीतीति ।। लोके भृतिग्राहिसेवकात्तदग्राही सेवको राजाप्रियो दृष्टः ।। भक्तिरिति ।। ‘अनिमित्ता भगवति भक्तिः सिद्धेर्गरीयसी’ इति भागवते ।। सिद्धेः अल्पसाधनसाध्यमुक्तेः ।। गतिरिति ।। श्वेतद्वीपादि मुक्तिस्थाननिवासः ।। दहरेति ।। दहरविद्यायां सत्यकामत्वादयोऽक्षरविद्यायां प्रशासितृत्वादयोऽल्पगुणा उक्ताः ।। त्वद्रीत्येति ।। विशिष्टाद्वैतिरीत्या ।। भरन्यासेति ।। रक्षतीत्येवेत्यादिविश्वासः ।। स्वरूपत इति ।। भक्तिस्वरूपं कर्मापेक्षं, न तु प्रपत्तिस्वरूपम् । ननु भक्तिस्वरूपे कर्मावृत्तिभ्याम् आधिक्येऽपि विश्वासोऽल्पः, प्रपत्तौ तु कर्मावृत्त्योरभावेऽपि विश्वासो भूयानिति दशरूप्यैक सुवर्णन्यायेन भक्तिप्रपत्त्योः साम्यमिति विशिष्टाद्वैतिशङ्कां निराकरोति– न च तयोरिति ।। प्रपत्त्यपेक्षया भक्तावेव विश्वासाधिक्यमित्याह– विश्वासस्येति ।। सकृद्भोजने बहुघृतभोक्तुरपेक्षया बहुषु भोजनेष्वल्प घृतभोक्तुरेव बहुघृतभोक्तृत्व-वदनेकभक्त्यावृत्तिष्वल्पाल्प विश्वासस्यापि सकृन्निवृत्तप्रपत्तिगत विश्वासापेक्षयाऽधिकत्वादित्यर्थः ।।
अन्धेति ।। अन्धेन कृते यागे आज्येक्षणाद्यङ्गवैकल्यं पङ्गुकृते विष्णुक्रमणाद्यङ्गवैकल्यम् ।। कर्मणामिति ।। अल्पस्य कर्मणोऽल्पं फलं महतो महदित्येवं विशेषवेदनाभावेऽप्यल्पस्य कर्मणः स्वविषयेऽल्पफलं महतो महदिति विभागो नियमो भवति ।। स्थानसामान्यादिति ।। यथा ब्राह्मणकाण्डे प्रथमस्थानगतेन कर्मणा मन्त्रकाण्डे प्रथमस्थानगतस्य मन्त्रस्य क्रमप्रमाणेन सम्बन्ध-स्तथाऽल्पफलं प्रत्यल्पमेव कर्म साधनत्वेन सम्बध्यते महत्फलं प्रति महदित्यर्थः ।
अपरोक्षज्ञानोत्तरमनुष्ठितानि विचित्रकर्माणि मक्तिावतिशयितफलानि । मुक्त्यहेतुत्वे सति फलवत्त्वादिति सामान्यव्याप्तिकानुमानेन मोक्षे वैचित्र्यं सिध्यतीत्याह– तस्य तावदेवेति ।। विशेषणासिद्धिं परिहरति– नापीति ।। वैचित्र्यापाताच्चेति ।। तदनङ्गीकारे त्विष्टापत्तिः । अर्थान्तरं परिहरति– नापि फलान्तरार्थमिति ।। बाधान्न तत्सिद्धिरिति भावः ।। नित्यत्वादिति ।। मोक्षा-नन्वयिफलत्वादित्यर्थः । विशेष्यासिद्धिं उद्धरति– नापीश्वरेति ।। लीलार्थं निष्फलम् । ‘अपरोक्षज्ञानिकृतं कर्म लीलार्थम्, सांसारिकभोगार्थम् अक्रियमाणज्ञानिकर्मत्वात्, ईश्वरकृतकर्मवत्’ इत्यत्र विवक्षितस्याविधिबद्धकृतत्वस्योपाधेः पक्षाद्व्यावृत्तिं वक्तुं ज्ञानिनां कर्मविधिमाह– आचार्यादित्यादि ।। पक्षासिद्धिं निरस्यति– सूर्यादय इति ।। रुद्रशक्रसूर्यादयः ।। यावदधिकार-मिति ।। ‘यावदधिकारमवस्थितिराधिकारिकाणाम्’ इति सूत्रम् ।। भोगसामान्य एव साम्यमिति ।। मुक्तभोगे ईश्वरभोगगतभोगत्व सदृशभोगत्वमस्तीत्यर्थः । न त्वीश्वरगतसामान्यभोगसदृशो मुक्तभोग इत्यर्थः । विशेषान्यसामान्यस्याभावात् ।। त्वन्मतेऽपीति ।। मुक्तानामैश्वरभोगविशेषवत्त्वे जगद्व्यापारस्यापीश्वरगतभोगत्वेन तद्वर्जनं मुक्तानां न स्यादित्यर्थः ।। सातिशयत्वेऽपीति ।। सातिशयस्येवापकृष्टस्य समस्य विनाशदर्शनात्त्वत्पक्षेऽपि स स्यात् । श्रुतिबलात्तत्त्यागस्तु ममापि सम इत्यर्थः । उक्तानङ्गीकारे बाधकमाह– अन्यथेति ।। उत्कर्षस्य गन्धर्वाद्युत्कर्षस्य ।। प्रकृतिमिति ।। स्वभावम् । स्वभावजेति ।। स्वभावस्य त्रैविध्याच्छ्रद्धात्रैविध्यमिति गम्यते ।। हठापरपर्यायेति ।। हठस्य कारणान्तरापूर्वकत्वान्नानवस्था ।। निहत्येति त्यक्त्वा ।। लिङ्गशरीरा-विद्यानिवृत्तेरिति ।। तथा च पितृत्वगन्धर्वत्वादिकं न देहाद्युपाधिकं (किन्तु) स्वरूपसिद्धमिति गम्यत इत्यर्थः ।
मुक्तानां भोगानुपपत्तिनिरासार्थं ‘अभावं बादरिराह ह्येवम्’ इत्यधिकरणसिद्धजडाजडदेहवत्त्वं तेषां साधयितुमाह– न च मुक्तस्येति ।। अभावं बादरिरिति सूत्रसिद्धचिच्छरीरत्वं मुक्तानां साधयति– अस्ति तावदिति ।। ‘भावं जैमिनिर्निर्विकल्पाम्नानात्’ इति सूत्रसिद्धजडशरीरवत्त्वमाह– अस्ति जडमिति ।। यथा जाग्रदवस्थायां देहसद्भावेन भोगसम्भवस्तथा मुक्तावपि देहसद्भावेन भोगोपपत्ति-रित्येवमर्थकेन ‘भावे जाग्रद्वत्’ इति सूत्रेण सूचितं प्रमाणमाह– स्वेच्छया वे(चे)ति ।। इन्द्रियवत्त्वं तेषां साधयति– मोक्षधर्मे चेति ।। शरीरमनुप्रविश्येति ।। अतः परं तत्प्रकाशयन्त इति शेषः । भाष्ये तथा पाठात् । एतद्भाष्यव्याख्यातं सूत्रमाह– प्रदीपवदिति ।। जडशरीरप्रवेशेऽपि न दुःखानुभव-प्राप्तिः । यतः साधूनेव भोगाननुभवन्ति प्रदीपवदिति सूत्रार्थः ।। तन्निरुक्त्यभावादिति ।। ‘तदशीर्यता-शारीति तच्छरीरमभवत्’ इत्याद्युक्तविशरणरूपतन्निरुक्तेः तस्मिन्मुक्तशरीरेऽभावादित्यर्थः । अत एवाह– न हि तानीति ।। शरीरे सत्येव वैलक्षण्य१ मात्रेण शरीराभावोक्तौ दृष्टान्तमाह– कथमन्यथेति ।। तारतम्यसमर्थनमुपसंहरति– तस्मादिति ।। तत्प्रयोजनमाह– नियामक इति ।। स्वयं नियच्छति ब्रह्मादिभ्यो नियमयति चेत्यर्थः । एतद्ग्रन्थस्य ब्रह्ममीमांसा सम्बन्धित्वमुक्तमुपसंहरिष्यंस्तदवधृत-विशेषणवत्तयेष्टदेवतानमस्काररूपं मङ्गलं ग्रन्थसमाप्तावाचरति– नम इति ।। स्वस्य स्वातन्त्र्येण कर्तृत्वस्याभावेऽपि पराधीनस्य तस्य सत्त्वादेतद्ग्रन्थकरणेन भगवत्प्रीतिमाशास्तेमत्प्रेरकेणेति ।। सङ्गृहीत इति ।। अनेनात्रोक्तन्यायानां मूलशास्त्रोक्तत्वं सूचितम् ।। इति मुक्तावपि ब्रह्मादीनां तारतम्यसमर्थनम् ।। ५ ।।
सर्वसद्गुणरूपाय सर्वा(वद्यप्र)हाणये ।
सर्ववेदैकवेद्याय परस्मै ब्रह्मणे नमः ।।
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमद्व्यासतीर्थश्रीचरणकृतन्यायामृतटीकायां श्रीमत्कूर्मनृसिंहाचार्यविरचितायां न्यायकल्पलतायां चतुर्थः परिच्छेदः ।। ४ ।।
।। न्यायकल्पलता समाप्ता ।।