विमतं प्रातिभासिकम्, दृश्यत्वाच्छुक्तिरूप्यवत्

१८. दृश्यत्वादेः आभाससाम्यम्

न्यायामृतम्

विमतं प्रातिभासिकम्, दृश्यत्वाच्छुक्तिरूप्यवत् । ब्रह्म मिथ्या, व्यवहार विषयत्वादसद्विलक्षणत्वाद्वा शुक्तिरूप्यवदित्याभासमाम्यं च । जगतोऽ-प्रातिभासिकत्वग्राहि प्रत्यक्षम्, ब्रह्मणस्सत्यत्वश्रुतिश्चानुमानविरोधादप्रमाणम् । विपक्षे च गौरवम् । व्यवहृतिव्यवहार्ययोः सम्बन्धान्तराभावात्, सर्वव्यवहार्यं व्यवहृतावध्यस्तमित्यादि च बाधकमिति सुवचत्वात् ।

अद्वैतसिद्धिः

ननु विमतं प्रातिभासिकम् दृश्यत्वात्, ब्रह्म मिथ्या व्यवहारविषयत्वाद् असद्विलक्षणत्वाद्वा शुक्तिरूप्यवदित्याद्याभाससाम्यमिति चेन्न । जगतो व्यावहारिकसत्त्वबाधे व्यवहारानुपपत्तिः, ब्रह्मणो मिथ्यात्वे शून्यवादापत्तिश्चेति प्रतिकूलतर्कपराघातेन तयोरसाधकत्वात् । प्रकृते च प्रतिकूलतर्कस्य निरसिष्यमाणत्वात् । किञ्च प्रातिभासिकत्वं ब्रह्मज्ञानेतरबाध्यत्वम् ? प्रतिभासमात्रशरीरत्वं वा ? आद्ये साध्ये देहात्मैक्ये व्यभिचारः अप्रयोजकत्वं च । द्वितीये दृष्टिसृष्टिमतेन सिद्धसाधनम् । एवं ब्रह्मणि मिथ्यात्वे साध्ये सोपाधिके सिद्धसाधनम् । अनुपाधिके व्यवहारविषयत्वरूपो हेतुरसिद्धः । वेदान्तजन्यवृत्ति विषयत्वाभ्युपगमेऽप्यप्रयोजकः । एवमसद्विलक्षणत्वमपि ब्रह्मण्यसिद्धमेव । क्वचिदप्युपाधौ सत्त्वेन प्रतीत्यनर्हत्वं ह्यसत्त्वम् । सद्विलक्षणत्वं च क्वचिदप्युपाधौ सत्त्वेन प्रतीत्यर्हत्वरूपम्, तच्च शुद्धे ब्रह्मणि नास्त्येव । न च बाध्यत्वमसत्त्वम्, तद्विलक्षणत्वं चाबाध्य-त्वम्, तच्च ब्रह्मण्यस्त्येवेति वाच्यम् । अबाध्यत्वेन बाध्यत्वलक्षणमिथ्यात्वसाधने विरोधात् । शुक्तिरूप्यदृष्टान्तस्य साधनविकलत्वाच्च । शून्यवादस्याग्रे निराकरिष्यमाणत्वाच्च । तस्मान्न दृश्यत्वादीनामाभाससाम्यमिति सिद्धम् ।

न्यायामृततरङ्गिणी

इत्याभाससाम्यं चेति ।। ननु – जगतोऽव्यावहारिकत्वे साध्ये व्यवहारानुपपत्तिः, ब्रह्मणो मिथ्यात्वे शून्यवादापत्तिश्चेति प्रतिकूलतर्कपराघातेन तयोरसाधकत्वम् । प्रकृते च प्रतिकूलतर्काभावः । किञ्च प्रातिभासिकत्वं ब्रह्मज्ञानेतरबाध्यत्वम्, प्रतिभासमात्रशरीरत्वं वा ? आद्ये साध्ये देहात्मैक्ये व्यभिचारः, अप्रयोजकत्वं च । द्वितीये दृष्टिसृष्टिमतेन सिद्धसाधनम् । एवं ब्रह्मणि मिथ्यात्वे साध्ये सोपाधिके सिद्धसाधनम् । अनुपाधिके व्यवहारविषयत्वरूपो हेतुरसिद्धः । वेदान्तजन्यवृत्तिविषयत्वाभ्युपगमेऽप्यप्रयोजकः । एवमसद्विलक्षणत्वमपि ब्रह्मण्य-सिद्धमेव । क्वचिदप्युपाधौ सत्त्वेन प्रतीत्यनर्हत्वं ह्यसत्त्वम् । तद्विलक्षणत्वं च क्वचिदप्युपाधौ सत्वेन प्रतीत्यर्हत्वरूपम् । तच्च शुद्धे ब्रह्मणि नास्त्येव । न च बाध्यत्वमसत्वम् । तद्वि-लक्षणत्वमबाध्यत्वम्, तच्च ब्रह्मण्यस्त्येवेति वाच्यम् । अबाध्यत्वेन बाध्यत्वलक्षणमिथ्यात्वे साध्ये विरोधात् । शुक्तिरूप्यदृष्टान्तस्य साधनविकलत्वाच्च । शून्यवादस्याग्रे निराकरिष्यमाणत्वात् । तस्मात् न दृश्यत्वादीनामाभाससाम्यम्, इति । अत्रोच्यते । यत्तावदुक्तं जगतोऽ-व्यावहारिकत्वानुमाने व्यवहारानुपपत्तिरूपप्रतिकूलतर्कपराहतिरिति, तन्न । सुखानुभवपर्यन्त-व्यवहारस्याप्यव्यावहारिकत्वेनाप्रतिकूलत्वात् । स्वप्नोत्थापिततर्कवत् । इहापि प्रतिकूलतर्कस्य वक्ष्यमाणत्वाच्च । यच्चोक्तम् – किञ्चेत्यादि तदपि न । देहात्मैक्ये हेतोरेवाभावात् न व्यभिचारः। दृष्टिसृष्टिपक्षस्य चाप्रामाणिकत्वेन सर्वैरङ्गीकारात् न तस्मिन् साध्ये सिद्धसाधनम् । यच्चोक्त-मनुपाधिकस्य न व्यवहार इति, तथा सति तस्यासिद्ध्यापत्त्या तद्व्यवहारस्यावश्यं वाच्यत्वात् । यच्चोक्तम् – ब्रह्म क्वचिदप्युपाधौ सत्त्वेन प्रतीत्यनर्हमिति, तदपि न । शुद्धस्य ब्रह्मणो भूम्नः ‘‘स भगवः कस्मिन् प्रतिष्ठितः? स्वे महिम्नी’’ति प्रश्नप्रतिवचनाभ्यां स्वोपाधावेव प्रतीत्यर्हत्वात् नासिद्धिः । एतस्य शुक्तिरूप्यादावपि सत्त्वात् नासिद्धिः । निराकरिष्यमाणशून्यवादस्या-निष्टत्वेन परं प्रत्यापाद्यमानत्वात् । जगन्मिथ्यात्वे शून्यवादापाताच्च । मिथ्यात्वातिरिक्तस्य तुच्छत्वस्याभावादित्युक्तत्वात् । तस्माद् युक्तमाभाससाम्यम् ।।

ननु आभाससाम्यं कथं दोषः? इति चेत्, यथायथं सर्वदोषज्ञापकतया । तथा हि– यस्मिन्नाभासे वादि–प्रतिवादिभ्यां यो दोषो ज्ञातः, तद्दोषेतरसकलतदाभासगतसाधकबाधक-वत्तया ज्ञायमानायां स्थापनायां तत्र तस्यापि दोषस्योपस्थितिर्भवति, इति तादृशसकलदोषो-त्थापकतया तस्य दोषत्वमिति प्रोचुः ।।

व्यासाद्रिसृततर्काम्बुपूरैः पक्षयुगं युजि ।

न्यायामृततरङ्गिण्यां मृषायुक्तीतरे समे ।।

न्यायामृतकण्टकोद्धारः

विमतमिति । न च – जगतो व्यावहारिकसत्त्वबाधे व्यवहारानुपपत्तिः, ब्रह्मणो मिथ्यात्वे शून्यवादापत्तिः, इति प्रतिकूलतर्कपराहतत्वादितर(देतत्)साम्यं कथं मिथ्यात्वानु-मानस्य? इति – वाच्यम् । मिथ्यात्वानुमानस्यापि यदि जगत् मिथ्या स्यात्, अर्थक्रियाकारि न स्यात्, ब्रह्मव्यतिरिक्तस्य सर्वस्यापि मिथ्यात्वे ब्रह्मणो निर्विशेषत्वापत्त्या शून्यवादापत्तिश्च स्यात्, इति तर्कपराहतत्वसाम्यात् । ननु च – प्रातिभासिकत्वं किं ब्रह्मज्ञानेतरबाध्यत्वम्? प्रतिभासमात्रशरीरत्वं वा? आद्ये देहात्मैक्ये व्यभिचारः, अप्रयोजकत्वं च । द्वितीये दृष्टिसृष्टिपक्षे सिद्धसाधनम् । एवं सोपाधिकस्य ब्रह्मणो मिथ्यात्वे साध्ये सिद्धसाधनम्, निरुपाधिकस्य मिथ्यात्वे साध्ये हेतोरसिद्धिः । न च वृत्तिविषयत्वं विवक्षितमिति वाच्यम्; अप्रयोजकत्वादिति चेत्, न । उभयथाऽप्यदोषात्, देहात्मैक्यभ्रमाभावस्य प्रागुक्तत्वेन न तत्र व्यभिचारः । तदङ्गीकारे वा देहात्मैक्यविवेकबाध्यत्वात् । अप्रयोजकत्वं च मिथ्यात्वानुमानेऽप्यविशिष्टम् । न च प्रतिभासमात्रशरीरत्वपक्षे सिद्धसाधनम् । तस्य प्रतिकर्मव्यवस्थाद्यनुपपत्त्याऽनिष्टत्वेन सिद्ध-साधनानवकाशात् । निरुपाधिकस्यैव मिथ्यात्वसाधनात् न सिद्धसाधनम् । न च हेत्वसिद्धिः । वृत्तिविषयत्वस्य निरुपाधिके व्यवस्थापितत्वेन व्यवहारविषयत्वसिद्ध्यविरोधात् । नाप्य-प्रयोजकत्वम् । मूलानुमानेऽपि साम्यात्, अनुकूलतर्काणां च निरसिष्यमाणत्वात् ।। असदिति ।। ननु असत्त्वं क्वचिदप्युपाधौ सत्त्वेन प्रतीत्यनर्हत्वम् बाध्यत्वं वा? नाद्यः । क्वचिदप्युपाधौ सत्त्वेन प्रतीत्यनर्हविलक्षणत्वं हि क्वचिदप्युपाधौ सत्त्वेन प्रतीत्यर्हत्वम् । न च तद् ब्रह्मण्यस्ति, इत्यसिद्धिः । न द्वितीयः । बाध्यविलक्षणत्वं चाबाध्यत्वम् । न च तेन बाध्यत्व-रूपमिथ्यात्वसाधनं सम्भवति । विरोधात्, दृष्टान्तस्य साधनवैकल्याच्चेति – चेत्, ; असद्विलक्षणपदेन सत्त्वेन प्रतीतिविषयत्वस्य विवक्षितत्वात् । न चैवं पूर्वाभेदः । पूर्वं व्यवहारशब्देनाभिलापस्य विवक्षितत्वात् । अथवा असद्विलक्षणत्वमभावविलक्षणत्वं विवक्षितम् । न च – एवं ब्रह्मण्यसिद्धिः । ब्रह्मणोऽभावात्मकत्वादिति वाच्यम्; तस्य ‘‘सत्यं ज्ञानमि’’त्यादिश्रुत्या भावरूपत्वावगमात् । न च तुच्छे व्यभिचारः; तत्रापि बाध्यत्व-रूपमिथ्यात्वसत्त्वादिति । न च विपक्षे बाधकाभावादप्रयोजकत्वमित्यत आह– विपक्षे चेति ।।

न्यायामृतप्रकाशः

ननु जगतः प्रातिभासिकत्वे तदप्रातिभासिकत्वग्राहि ‘‘सन्घट’’ इत्यादिप्रत्यक्षविरोधः । ब्रह्मणश्च मिथ्यात्वे तत्सत्यत्वग्राहिश्रुतिविरोध इत्यत आह ।। जगत इति ।। अत्राप्रयोजकता-परिहारायानुकूलतर्कमाह ।। विपक्षे चेति ।। जगतो दृश्यत्वमङ्गीकृत्य प्रातिभासिकत्वानङ्गीकारे जगतः पारमार्थिकत्वप्राप्त्या जगद्ब्रह्मरूपसत्यद्वयाङ्गीकारापत्त्या गौरवं स्यात् । व्यावहारिकत्वाङ्गीकारेऽपि ब्रह्मजगद्रूप्यादीनां त्रिविधसत्त्वाङ्गीकारे त्रैरूप्यापत्त्या गौरवम् । ब्रह्मण एकस्यैव सत्यत्वं तदितरस्य सर्वस्य प्रातिभासिकत्वाङ्गीकारे लाघवं । तथा ब्रह्मणोऽपि व्यवहारविषयत्वमङ्गीकृत्य मिथ्यात्वा-नङ्गीकारे सत्यत्वप्राप्त्या ब्रह्म सत्यं जगन्मिथ्येति द्वैरूप्याङ्गीकारापत्त्या गौरवं विपक्षे बाधकं, सर्वं मिथ्येत्यङ्गीकारे च लाघवमित्यर्थः । द्वितीयानुमानाप्रयोजकतापरिहाराय हेतूच्छित्तिरूपं बाधकान्तर-माह । व्यवहृतीति ।। बाधकं अप्रयोजकताशङ्कायां बाधकम् । ब्रह्मणो व्यवहारविषयत्वमङ्गीकृत्य मिथ्यात्वानङ्गीकारे सत्यत्वप्राप्त्या सत्यभूतब्रह्मव्यवहारयोः सम्बन्धान्तरायोगात्सर्वं व्यवहार्यं ब्रह्मादिव्यवहृतावध्यस्तमित्याध्यासिकसम्बन्ध एव वक्तव्यः । तथा च ब्रह्मणो व्यवहृतावध्यस्तत्व-प्राप्त्या मिथ्यात्वसिद्धिरित्यर्थः । एवमेव दृश्यत्वमङ्गीकृत्य प्रातिभासिकत्वानङ्गीकारे दृग्दृश्ययोः सम्बन्धो न स्यादित्याध्यासिक एव सम्बन्धो वाच्यस्तथा च जगतो ज्ञानेऽध्यस्ततया प्रातिभासिकत्व-सिद्धिरिति हेतूच्छित्तिरूपं बाधकं च द्रष्टव्यम् ।।

न्यायकल्पलता

दृश्यत्त्वादिहेतूनां सोपाधिकत्वमेवमुपपाद्याभाससाम्यं चाह । विमतमिति । इत्याभाससाम्यं चेति । ननु जगतः प्रातिभासिकत्वे साध्ये व्यावहारिकसत्वबाधेन व्यवहारानुपपत्तिर्ब्रह्मणो मिथ्यात्वे साध्ये शून्यवादापत्तिश्चेति प्रतिकूलतर्कपराघातेन भवदुक्तप्रथमद्वितीयहेत्वोरसाधकत्वम् । प्रकृते च प्रतिकूल-तर्काभावात् । किञ्च । प्रातिभासिकत्वं ब्रह्मज्ञानेतरबाध्यत्वं प्रतिभासमात्रशरीरत्वं वा । आद्ये साध्ये देहात्मैक्ये व्यभिचारोऽप्रयोजकत्वं च । द्वितीये दृष्टिसृष्टिमतेन सिद्धसाधनम् । एवं ब्रह्मणि मिथ्यात्वे साध्ये सोपाधिके सिद्धसाधनम् । अनुपाधिके व्यवहारविषयत्वरूपो हेतुरसिद्धः । वेदान्तजन्यवृत्ति-विषयत्वाभ्युपगमेऽपि अप्रयोजकः । एवमसद्विलक्षणत्वमपि ब्रह्मण्यसिद्धमेव । क्वचिदप्युपाधौ सत्वेन प्रतीत्यनर्हत्वं ह्यसत्त्वम् । तद्विलक्षणत्वं च क्वचिदप्युपाधौ सत्वेन प्रतीत्यर्हत्वरूपम् । तच्च शुद्धे ब्रह्मणि नास्त्येव । न च बाध्यत्वमसत्वम् । तद्विलक्षणत्वं चाबाध्यत्वं, तच्च ब्रह्मण्यस्त्येवेति वाच्यम् । अबाध्यत्वेन बाध्यत्वलक्षणमिथ्यात्वसाधने विरोधात् । शुक्तिरूप्यदृष्टान्तस्य साधनविकलत्वाच्च । शून्यवादस्याग्रे निराकरिष्यमाणत्वाच्च । तस्मान्न दृश्यत्वादीनामाभाससाम्यमिति ।

अत्रोच्यते– यत्तावदुक्तं जगतोव्यावहारिकत्वानुमाने व्यवहारानुपपत्तिरूपप्रतिकूलपराहतिरिति तन्न । न वयं जगतः प्रातिभासिकत्वं साधयामः । किंनाम त्वदीय एव कश्चित् दृश्यत्वादिना विना विश्वमिथ्यात्वमनुमिमानं प्रत्येकवमव्यावहारिकमनुमिनुयात्तदा तव तंप्रति उत्तराभावादित्यभिप्रायत्वात् । व्यवहारानुपपत्तेरपि विश्वान्तर्भूतत्वेन पृथगुपन्यसितुमनर्हत्वात् । व्यवहारो भ्रम इत्यपि सुवचत्वाच्च । अनुपपत्तेर्बिभ्यता जगतः स्वरूपसत्वमेवाभ्युपेयम् । एवमाक्षिपन्तं त्वदीयं प्रति विश्वस्य व्यावहारिक-सत्वसाधने तव दृष्टान्ताभावात् । सुखानुभवपर्यन्तव्यवहारस्याप्यव्यावहारिकत्वेनाप्रतिकूलत्वात् । स्वप्नोत्थापिततर्कवत् । इहापि प्रतिकूलतर्कस्य वक्ष्यमाणत्वाच्च ।

यच्चोक्तं किञ्चेत्यादि तदपि न । देहात्मैक्ये हेतोरेवाभावान्न व्यभिचारः । दृष्टिसृष्टिपक्षस्या-प्रामाणिकत्वेन सर्वैरद्वैतिभिरनङ्गीकारात् न तस्मिन्साध्ये सिद्धसाधनम् । एवं ब्रह्मणो मिथ्यात्वसाधनमपि पर्यनुयोगाभिप्रायम् । न्यायसाम्यात् । यच्चोक्तमनुपाधिकस्य न व्यवहार इति । तदप्यसत् । तथा सति ब्रह्मणो असिध्यापत्या तद्व्यवहारस्यावश्यं वाच्यत्वात् । यच्चोक्तं ब्रह्म क्वचिदप्युपाधौ सत्त्वेन न प्रतीत्यर्हमिति । तदप्यसारम् । शुद्धस्य ब्रह्मणो भूम्नः ‘‘स भगवः कस्मिन्प्रतिष्ठितः स्वे महिमि्न’’ इति प्रश्नप्रतिवचनाभ्यां स्वोपाधावेव प्रतीत्यर्हत्वात्् । आत्मैवोपरिष्टादित्यादिश्रुत्या चान्योपाधावपि प्रतीत्यर्हत्वान्नासिद्धिः । एतस्य शुक्तिरूप्यादावपि सत्वान्न दृष्टान्ते साधनवैकल्यम् । निराकरिष्यमाण-शून्यवादस्य तवानिष्टत्वेन त्वां प्रत्येवापाद्यमानत्वाच्च । जगन्मिथ्यात्वेऽपि शून्यवादापाताच्च । मिथ्यात्वव्यतिरिक्तस्य तुच्छत्वस्याभावादित्युक्तत्वात् ।

दृश्यत्वादीनामुक्तमाभाससाम्यमुपपादयति ।। जगत इति ।। अप्रमाणमिति सुवचत्वात् विश्वसत्यत्वश्रुतिवदिति शेषः । सुवचत्वादिति वक्ष्यमाणं सर्वत्राप्यन्वेतव्यम् । जगतः प्रातिभासिकत्वा-नङ्गीकारे ब्रह्मणो मिथ्यात्वानङ्गीकारे च सत्त्रैविध्यस्याप्रामाणिकस्य कल्प्यमानत्वाद्गौरवं, ब्रह्म जगतोरैकविध्याङ्गीकारे च लाघवमित्यपि सुवचत्वात् । सत्यत्वे दृग्दृश्यसम्बन्धानुपपत्तिसमानयोगक्षेमा-मनुपपत्तिं दर्शयति । व्यवहृतीति । तस्माद्युक्तमाभाससाम्यमिति । नन्वाभाससाम्यं कथं हेतुदोष इति चेत् । यथायथं सर्वदोषज्ञापकतया । तथा हि । यस्मिन्नाभासेऽभिहिते यो दोषः तद्दोषेतरसकलतदा-भासगतसाधकबाधकवत्तया ज्ञायमानायां स्थापनायां तत्र तस्यापि दोषस्योपस्थितिर्भवतीति तादृशसकलदोषोत्थापकतया तस्य दोषत्वमिति प्रोचुः ।

श्रीमद्व्याससयतीन्द्रार्यसत्कल्पतरुसंश्रिति ।

न्यायकल्पलतायामाभासतां दृश्यताऽगमत् ।।

न्यायामृतसौगन्ध्यम्

दृश्यत्वादीनामाभाससाम्यत्वम् । तथा हि– विमतम्, प्रातिभासिकम्, दृश्यत्वात् । ब्रह्म, मिथ्या, व्यवहारविषयत्वात्, असद्विलक्षणत्वाद्वा, शुक्तिरूप्यवदित्याभाससाम्यम् । ननु जगतो व्यावहारिकसत्वबाधे व्यवहारानुपपत्तिः । ब्रह्मणो मिथ्यात्वे शून्यवादापत्तिश्चेति प्रतिकूलतर्कपराघातेन तयोरसाधकत्वात् । प्रकृते च प्रतिकूलतर्कस्य निरसिष्यमाणत्वात् । किञ्च प्रातिभासिकत्वं ब्रह्म-ज्ञानेतरबाध्यत्वम्? प्रतिभासमात्रशरीरत्वं वा? आद्ये देहात्मैक्ये व्यभिचारः, अप्रयोजकत्वं च । द्वितीये दृष्टिसृष्टिमतेन सिद्धसाधनम् । एवं ब्रह्मणि मिथ्यात्वे साध्ये सोपाधिके सिद्धसाधनम् । निरुपाधिके व्यवहारविषयत्वरूपो हेतुरसिद्धः । एवमसद्विलक्षणत्वमपि ब्रह्मण्यसिद्धम् । क्वचिदप्युपाधौ प्रतीत्यनर्हत्वं ह्यसत्वम् । तद्विलक्षणत्वं च क्वचिदप्युपाधौ सत्त्वेन प्रतीत्यर्हत्वरूपम् । तच्च नास्त्येव सत्त्वेन शुद्धे इति चेन्न । सुखानुभवपर्यन्तव्यवहारस्यापि स्वापि्नकव्यवहारवदव्यावहारिकत्वात् । एतेन स एवायं घट इति प्रत्यभिज्ञया जगतो व्यावहारिकत्वसिद्धिरिति निरस्तम् । स्वप्नवदुपपत्तेः । देहात्मैक्येत्यशुद्धम् । सप्रकारकज्ञानबाध्यत्वं हि प्रातिभासिकत्वम् । तच्च देहात्मभेदज्ञानबाध्ये देहात्मैक्येऽस्त्येव । दृष्टिसृष्टिपक्षस्य सर्वकार्यकारणभावमर्यादापलापकस्य निरसिष्यमाणत्वात् । निरुपाधिकेत्यशुद्धम् । तस्यासिद्ध्यापत्तेः । वेदान्तानां वैय्यर्थ्यापत्तेश्च ।

यत्तु ‘अचिन्त्यमव्यवहार्यम्’ इत्यादि श्रुत्याऽव्यवहार्यब्रह्मणः स्वत एव सिद्धिरुक्तेति तन्न । अव्यवहार्यादिशब्दैरेव व्यवह्रियमाणत्वात् । क्वचिदप्युपाधावित्यशुद्धम् । शुद्धस्य ब्रह्मणः भूम्नः ‘स भगवः कस्मिन् प्रतिष्ठितः स्वे महिम्नीति प्रश्नप्रतिवचनाभ्यां स्वोपाधावेव प्रतीत्यर्हत्वात् । शून्यवादस्यानिष्टत्वेन परं प्रत्यापाद्यमानत्वात् । जगन्मिथ्यात्वेऽपि तदापत्तेस्तुल्यत्वाच्च । न च सर्वासत्त्व एव तदापत्तिः । तच्च नास्ति मे, अधिष्ठानस्य ब्रह्मणः सत्त्वस्वीकारादिति वाच्यम् । प्रमाणासिद्धस्य त्वन्मते मिथ्यात्वात् । ब्रह्मणः प्रमाणागोचरत्वेनाप्रामाणिकत्वात् सुतरां तदापत्तेः ।

न्यायामृतमाधुरी

आभाससाम्यमिति ।। उक्तानुमानाभासो यथा न साधकस्तथा प्रपञ्चमिथ्यात्वानुमानमित्यर्थः । अत्राद्वैतसिद्धिकारः । विमतमित्यादिकमनूद्य ‘जगतो व्यावहारिकसत्त्वबाधे व्यवहारानुपपत्तिः, ब्रह्मणो मिथ्यात्वे शून्यवादापत्तिश्चेति प्रतिकूलतर्कपराघातेन तयोरसाधकत्वात् । प्रकृते च प्रतिकूलतर्कस्य निरसिष्यमाणत्वात् । किञ्च प्रातिभासिकत्वं ब्रह्मज्ञानेतरबाध्यत्वं प्रतिभासमात्रशरीरत्वं वा । आद्ये साध्ये देहात्मैक्ये व्यभिचारः अप्रयोजकत्वं च । द्वितीये दृष्टिसृष्टिमतेन सिद्धसाधनम् । एवं ब्रह्मणि मिथ्यात्वे साध्ये सोपाधिके सिद्धसाधनम् । अनुपाधिके व्यवहारविषयत्वरूपो हेतुरसिद्धः । वेदान्त-जन्यवृत्तिविषयत्वाभ्युपगमेऽप्यप्रयोजकः । एवमसद्विलक्षणत्वमपि ब्रह्मण्यसिद्धमेव । क्वचिदप्युपाधौ सत्त्वेन प्रतीत्यनर्हत्वं ह्यसत्वम् । तद्विलक्षणत्वं च क्वचिदप्युपाधौ सत्त्वेन प्रतीत्यर्हत्वरूपम् । तच्च शुद्धे ब्रह्मणि नास्त्येव । न च बाध्यत्वमसत्वम् । तद्विलक्षणत्वं चाबाध्यत्वं तच्च ब्रह्मण्यस्त्येवेति वाच्यम् । अबाध्यत्वेन बाध्यत्व लक्षणमिथ्यात्वसाधने विरोधात् । शुक्तिरूप्यदृष्टान्तस्य साधन-विकलत्वाच्च । शून्यवादस्याग्रे निरसिष्यमात्वाच्च । तस्मान्न दृश्यत्वादीनामाभाससाम्यम्’ इति समाहितवान् । ब्रह्मानन्दस्तु– प्रपञ्चमिथ्यत्वानुमाने नानुपपत्तिः । उक्तानुमाने तु सा अस्तीत्यतो न तयोः साम्यमित्याशयेनाह । जगत इत्यादि । जगतः व्यावहारिकमात्रस्य । व्यावहारिकसत्त्वेति । अज्ञातसत्त्वेत्यर्थः । व्यवहारेति । चक्षुरादिजन्यवृत्तिप्रत्यभिज्ञानादीत्यर्थः । अज्ञातसत्वावच्छेदक-घटाद्यस्वीकारे चक्षुरादिजन्यवृत्तेर्विषयेन्द्रियसम्बन्धजन्याया अनुपपत्तिः । पूर्वदृष्टस्य दृश्यमानतया ऐक्य प्रत्यभिज्ञादेश्चानुपपत्तेरिति भावः । अप्रयोजक इति ।। मिथ्यात्वाभावेऽपि ब्रह्मणि मिथ्याभूतस्य वृत्तिविषयत्वस्य सम्भवादिति भावः । ब्रह्मणः साक्षित्वादिना तत्र बाधकप्रमाणं नावतरतीत्यपि बोध्यम् ‘‘तच्चेति’’ सत्तादात्म्य तत्त्वान्यतरवत्वरूपमुक्तार्हत्वं निर्धर्मके शुद्धब्रह्मणि नास्ति । किन्तु तदुपहित ब्रह्मणीत्यर्थः । शुद्धे स्वीकृतमपि तदप्रयोजकमित्याशयेनाह– शून्यवादस्येति ।। दृग्दृश्ययो-स्तादात्म्यमनुपपन्नम् । तस्य हि सम्बन्धान्तरसत्त्वेे तस्यापि सम्बन्धान्तरमित्यनवस्था सम्बन्धान्तरा-सत्वे तु न तस्य सम्बन्धत्वमुपपद्यते । असम्बन्धत्वात् । अतस्तस्य मिथ्यात्वं स्वीक्रियते । तथा च स्वप्नेन्द्रजालादाविवानुपपपत्तिर्न दोष इत्यसम्बन्धस्यापि सम्बन्धत्वम् । एवं (तस्येव) मिथ्याभूत-तादात्म्यप्रतियोगित्वानुयोगित्वविशिष्टरूपेण दृशोऽपि (दृश्यदृशोरपि) मिथ्यात्वमुक्तम् । शुद्धायास्तु दृशस्तदसंसर्गेण न मिथ्यात्वसिद्धिः । दृग्दृश्यसम्बन्धानुपपत्तिरूपतर्कस्य तादृशसम्बन्धानुयोगि-प्रतियोगिनोरेव मिथ्यात्वप्रापकत्वात् । अत एवोक्तमाचार्यैर्बौद्धाधिकारे– ‘तस्यासंसृष्टत्वेन न तत्र तर्कावतारस्त(र्क)स्य संसृष्टतामादायैव प्रवृत्तेः’ इति व्याचकार । तदतिस्थवीयः । सुखादिपर्यन्त-व्यवहारस्यापि व्यावहारिकसत्ताविनिर्मुक्तस्वाप्नव्यवहारकल्पतामुपगच्छतः प्रकृतसाध्यसिषाधयिषोर्मते तादृशसत्ताप्रयोज्यत्वस्य व्यवहारे असम्प्रतिपत्या सामग्रीवैकल्येन तादृशसत्त्वापादकव्यवहारानुपपत्या-द्यापाद्यकापत्तेरयोगात् । प्रतिकूलतर्कपराहतेश्च ग्रन्थकृतैव वक्ष्यमाणत्वात्् । चरमवृत्तीतरबाध्यत्वं हि प्रातिभासिकत्वं, तच्च देहात्मैक्ये तादृशदेहात्मभेदज्ञानबाध्यत्वस्य प्रागुपपादितत्वादेव नेहो-पपादनीयम् । दृष्टिसृष्टिमतं तु कार्यकारणभावादिनिखिलपर्यायाविलोपकत्वापत्या निरसिष्यमाणमेव । अनुपाधिकस्यालीकत्वापत्या शारीरकमीमांसावैय्यर्थ्यापत्या चाभिवादिव्यवहारागोचरतायाः दुरुप-गमतया सिद्ध्यनवकाशात् । अचिन्त्यमव्यवहार्यमित्यादिश्रुतिरव्यवहार्यादिपदैः ब्रह्मणो व्यवह्रिय-माणतया सामस्त्येनाव्यवहार्यत्वपरतया नेयेति न तद्बलात्तस्य तादृशहेतुमत्ताविनिर्मोकेऽपि स्वत एव तत्सिद्धिरिति शङ्कानवकाशः । शुद्धस्य ब्रह्मणो ‘‘भूम्नः स भगवान्् कस्मिन् प्रतिष्ठितः स्वे महिम्नी’’ति प्रश्नप्रतिवचनाभ्यां, ‘स एवाधस्त’दित्यादिश्रुत्या च स्वोपाधावेव प्रतीत्यर्हतया असिद्ध्यनापत्या नास्त्येवेत्यन्तमसङ्गतमेवेत्यादिकमन्यत्रैव प्रपञ्चितमिति नेह वितन्यते । अत्र व्याख्यातारः– नन्वाभाससाम्यं कथं दोष इति चेदित्याशङ्क्य यथायथं सर्वदोषज्ञापकतया यस्मिन्ना-भासे वादिप्रतिवादिभ्यां यो दोषो ज्ञातः तद्दोषेतरसकलदोषतदाभासगतसाधकबाधकवत्तया ज्ञाय-मानायां स्थापनायां तत्र तस्यापि दोषस्योपस्थितिर्भवति, इति तादृशसकलदोषोत्थापकतया तस्य दोषत्वमिति प्राञ्च इति व्याचक्षते ।

मायाविभिरलीकत्वहेतुश्चिन्तामणिर्मतः ।

दोषाविष्करणाद्ग्रन्थकृता काचमणीकृतः ।।

।। इति दृश्यत्वादेः आभाससाम्यम् ।।