यच्चोक्तम्– ‘यथा तटाकोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान्प्रविश्य

श्रीवेदव्यासाय नमः

पदवाक्यप्रमाणपारावारपारीण–सर्वतन्त्रस्वतन्त्र–श्रीव्यासतीर्थविरचितम्

न्यायामृतम्

प्रथमपरिच्छेदे द्वितीयो भागः

३४. प्रतिकर्मव्यवस्थाभङ्गः

न्यायामृतम्

यच्चोक्तम्– ‘यथा तटाकोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान्प्रविश्य तद्वदेव चतुष्कोणाद्याकारं भवति, तथा विषयेन्द्रियसम्प्रयोगादिके सति सावयवं तैजसमन्तःकरणं चक्षुरादिद्वारेण निर्गत्य ध्रुवादिविषयपर्यन्तं चक्षुर्वच्छीघ्रं दीर्घ-प्रभाकारेण परिणम्य विषयं व्याप्य तदाकारं भवति, सेयं वृत्तिरित्युच्यते । तत्र जीवचैतन्यम् अविद्योपाधिकं सत् सर्वगतम्, अन्तःकरणोपाधिकं सत्परिच्छिन्नं चेति मतद्वयम् । तत्राऽद्ये विषयप्रकाशकं जीवचैतन्यं, द्वितीये ब्रह्मचैतन्यम् । सर्वगतत्वपक्षेऽपि जीवचैतन्यम् अविद्यानावृतम् आवृतं चेति मतद्वयम् । तत्राऽद्ये वृत्तिर्जीवचैतन्यस्य विषयोपरागार्था, द्वितीये त्वावरणाभिभवार्था ।

परिच्छिन्नत्वपक्षे तु जीवचैतन्यस्य विषयप्रकाशकब्रह्मचैतन्याभेदाभि व्यक्त्यर्था । अनावृतत्वपक्षे ह्यनावृतं सर्वगतमपि जीवचैतन्यं तत्तदाकार वृत्त्यैवोपरज्यते, न तु विषयैः, असङ्गत्वात् । यथा गोत्वादिकं सर्वगतमपि सास्नादिमद्व्यक्त्यैवोपरज्यते, न तु केसरादिमद्व्यक्त्या, यथा वा प्रदीपप्रभा आकाशगन्धरसादिप्रदेशव्यापिन्यपि तान्न प्रकाशयति, रूपिसंसर्गितया तदेव प्रकाशयति, तद्वत् केवलाग्न्यदाह्यस्यापि अयःपिण्डसमारूढाग्निदाह्यत्ववच्च केवल चैतन्याप्रकाश्यस्यापि घटादेस्तदाकारवृत्त्युपारूढचैतन्यप्रकाश्यत्वं युक्तम् । एवं चानावृतत्वपक्षे तत्तदाकारवृत्तिद्वारा चैत(न्यस्य)न्ये च तत्तदुपरागे तत्तत्प्रकाशः । आवृतत्वपक्षेऽपि तत्तदाकारवृत्त्या तत्तदवच्छिन्नचैतन्यावरणाभिभवे तत्त-त्प्रकाशः । परिच्छिन्नत्वपक्षेऽपि तत्तज्जीवावच्छेदकान्तःकरणीयतत्तद्विषयाकार-वृत्त्या तत्तद्विषयावच्छिन्नब्रह्मचैतन्याभिव्यक्तौ तत्तत्प्रकाश इति नातिप्रसङ्गः । विषयानुभवस्य ब्रह्मचित्त्वेऽपि वृत्त्या जीवचैतन्याभेदेनाभिव्यक्तत्वात्, जीवचित्त्वम् अविरुद्धमिति प्रतिकर्मव्यवस्था युक्ता’ इति ।

श्रीमधुसूदनसरस्वतीविरचिता

अद्वैतसिद्धिः

ननु विश्वस्याध्यासिकत्वे प्रातिभासिकस्थल इव विषयेन्द्रियसन्निकर्षाधीनायाः प्रतिकर्म व्यवस्थायाः अनुपपत्तिरिति चेन्न । वृत्तेः पूर्वमेव घटादीनां चैतन्येऽध्यासेन प्रातिभासिक स्थलापेक्षया वैलक्षण्यात् । तथा हि– अन्तःकरणं चक्षुर्वत्तेजोवयवि । तच्चेन्द्रियद्वारेण तत्संयुक्तं विषयं व्याप्य तदाकारं भवति । यथा नद्याद्युदकं प्रणाल्या निःसृत्य केदाराद्याकारं भवति । सैव वृत्तिरित्युच्यते । तत्र जीवचैतन्यमविद्योपाधिकं सत् सर्वगतं, अन्तःकरणोपा धिकं सत् परिच्छिन्नमिति मतद्वयम् । तत्राऽद्ये विषयप्रकाशकं जीवचैतन्यम् । द्वितीये ब्रह्मचैतन्यम् । आद्ये पक्षेऽपि जीवचैतन्यमविद्यानावृतम्, आवृतं च । तत्राऽद्ये वृत्तिर्जीव-चैतन्यस्य विषयोपरागार्था । द्वितीये त्वावरणाभिभवार्था ।

परिच्छिन्नत्वपक्षे तु जीवचैतन्यस्य विषयप्रकाशकतदधिष्ठनचैतन्याभेदाभिव्यक्त्यर्था । अनावृतत्वपक्षे ह्यनावृतं सर्वगतमपि जीवचैतन्यं तत्तदाकारवृत्त्यैवोपरज्यते, न तु विषयैः, असङ्गत्वात्, यथा गोत्वं सर्वगतमपि सास्नादिमद्व्यक्त्याऽभिव्यज्यते, न तु केसरादि मद्व्यक्त्या । यथा वा प्रदीपप्रभा आकाशगन्धरसादिव्यापिन्यपि तानप्रकाशयन्ती रूपसंसर्गि तया रूपमेव प्रकाशयति तद्वत् केवलाग्न्यदाह्यस्यापि अयःपिण्डादिसमारूढाग्निदाह्यत्ववच्च केवलचैतन्याप्रकाश्यस्यापि घटादेस्तत्तदाकारवृत्त्युपारूढचैतन्यप्रकाश्यत्वं युक्तम् । एवञ्चाना-वृतत्वपक्षे तत्तदाकारवृत्तिद्वारा चैतन्यस्य तत्तदुपरागे तत्तदर्थप्रकाशः । आवृतत्वपक्षे तत्त-दाकारवृत्त्या तत्तद्विषयावच्छिन्नचैतन्यावरणाभिभवेन तत्तदर्थप्रकाशः । अन्तःकरणावच्छिन्न-चैतन्यरूपत्वे जीवस्यावच्छेदकान्तःकरणतत्तद्विषयाकारवृत्त्या तत्तद्विषयावच्छिन्नचैतन्याभि-व्यक्तौ तत्तत्प्रकाशः । यद्यपि प्रकाशकमधिष्ठानचैतन्यं सर्वगतं, जीवचैतन्यं चान्तःकरणा-वच्छिन्नम्, तथापि चैतन्याभेदेनाभिव्यक्तत्वाद् व्यवस्थोपपत्तिः ।

श्रीव्यासरामाचार्यविरचिता

न्यायामृततरङ्गिणी

दृश्यस्य दृगध्यस्तत्वे प्रातिभासिकस्थल इव इन्द्रियसन्निकर्षायोगेन त्वदुक्तप्रति-कर्मव्यवस्थाऽयोग इति वक्तुं प्रस्तौति– यच्चोक्तमिति ।। कुल्या कृत्रिम जलप्रवाहः । केदाराः क्षेत्राणि ।। सावयवमिति ।। अत एव विषयाकारेण परिणमते ।। तैजसम् ।। अत एव चक्षुरादिसूक्ष्मद्वारेण निर्गच्छति । तत्र एतादृशी वृत्तिरिति मते ।। जीवचैतन्यमिति ।। सर्वगतं परिच्छिन्नमिति मतद्वयमित्यन्वयः । अविद्यायाः सर्वगतत्वात्तदुपाधिको जीवोऽपि सर्वगत इत्यर्थः ।। अन्तःकरणेति ।। अन्तःकरणस्यासर्वगतत्वात्तदुपाधिको जीवोऽपि तथेत्यर्थः ।। तत्राऽद्य इति ।। जीवचैतन्यस्य सर्वगतत्वात्तत्रैव विषयस्याध्यस्तत्वेन जीवचैतन्यमेव विषयप्रकाशक- मित्यर्थः ।। सर्वगतत्वपक्ष इति ।। असर्वगतत्वपक्षे त्वनावृतमेवेति बोध्यम् ।। विषयेति ।। विषयेण सहोपरागः संश्लेषविशेषः । स च वृत्तिद्वारकः । आवरण विरहस्य स्वतः सिद्धत्वादिति भावः ।। आवरणेति ।। स्वत एव चैतन्यमुपरज्यत इति नोभयार्था वृत्तिरिति भावः ।

परिच्छिन्नत्वपक्षे वृत्त्युपयोगमाह– परिच्छिन्नत्वेति ।। ब्रह्मचैतन्ये विषय-स्याध्यासात्तदेव विषयप्रकाशकम् । जीवोपाधेरन्तःकरणस्य परिणामे च वृत्त्या ब्रह्माकारया विषयाधिष्ठानब्रह्मचैतन्येऽप्यावृते जीवब्रह्मचैतन्ययोरेकान्तःकरणोपाधि- युक्तत्वेन ब्रह्मचैतन्येन सह जीवचैतन्यस्याभेदाभिव्यक्त्या जीवोऽपि घटप्रकाशको भवतीत्यर्थवती वृत्तिरिति भावः । वृत्तिर्विषयोपरागार्थेति पक्षमुपपादयति–  अनावृतत्वपक्ष इति ।। वृत्त्यैवेति ।। स्वत इति शेषः । ननु वृत्तिरुपरागार्थेति न युक्तम् । असङ्गस्यापि चैतन्यस्य वृत्त्येव विषयेणाप्युपरागसम्भवात् । गोत्व-दृष्टान्तोऽप्ययुक्तः । तस्य सास्नादिमद्व्यक्त्युपरागो नाम तज्ज्ञेयत्वम् । ब्रह्म तु न वृत्त्या ज्ञायते । किन्तु तया घटादिज्ञानरूपं ब्रह्म भवति । प्रभादृष्टान्तोऽप्ययुक्तः । तस्याः प्रकाशकत्वं नाम विषयदेशस्थतमोनिवर्तकत्वमेव नान्यत् ।

एवं प्रभा रूपसंसर्गितमो निवर्तयन्ती रूपं प्रकाशयतीत्युच्यते । तथा आकाश गन्धरससंसर्गितमोऽपि निवर्तयन्ती आकाशादीनपि प्रकाशयत्येव । न ह्याकाशादि संसर्गितमो न निवर्तयति । अन्यथा तद्देशे रूपप्रकाशोऽपि न स्यादित्यत उदाहरणान्तरमाह– केवलेति ।। तथा च विषयप्रकाशनशक्तिरेव विषयोपरागः । स च चैतन्यस्य वृत्त्यधीन इति वृत्तिरुपरागार्थेति भावः । वृत्तिरावरणाभिभवार्थेति पक्षमुपपादयति– आवृतत्वेति ।। ननु जीवचैतन्यमसर्वगतमिति पक्षे तदनावृत मित्यङ्गीकारादावरणविरहस्य स्वतः सिद्धतया वृत्तिर्व्यर्थेति शङ्कां परिहरति– परिच्छिन्नत्वपक्ष इति ।। एतच्चोपपादितम् ।। ब्रह्मचित्त्वेऽपीति ।। अस्मिन्पक्षे ब्रह्मचित्येव विषयाध्यासादिति भावः ।। जीवचित्त्वमिति ।। विषयानुभवस्येत्यनु- षङ्गः ।। इतीति ।। इतिशब्दः प्रकारवचनः । वृत्तिर्विषयोपरागार्थेति पक्षे, आवरणा भिभवार्थेति पक्षे, प्रमातृजीवचैतन्यस्य विषयप्रकाशकब्रह्मचैतन्याभेदाभिव्यक्त्यर्थेति पक्षे चेति पक्षत्रयेऽपीत्यर्थः ।। प्रतिकर्मेति ।। व्यापकचैतन्येऽध्यासेऽपि तस्य घटादिकं कर्म प्रति नियम इत्यर्थः ।

पाण्डुरङ्गि आनन्दभट्टारकविरचितः

न्यायामृतकण्टकोद्धारः

किञ्च दृग्दृश्ययोराध्यासिकसम्बन्धे दृश्यस्य प्रातिभासिकत्वापत्त्या विषयसन्निकर्ष- साध्यवृत्त्ययोगेन तत्प्रयुक्तप्रतिकर्मव्यवस्था न स्यादिति वक्तुं परोक्तप्रतिकर्मव्यवस्थाप्रकारं दर्शयति– यच्चोक्तमिति ।। अविद्येति ।। अविद्याया अपरिच्छिन्नत्वादिति भावः । अन्तःकरणेति । तस्य परिच्छिन्नत्वादिति भावः । तत्रेति । सर्वगतत्वपरिच्छिन्नत्व- पक्षयोरित्यर्थः । आद्ये सर्वगतत्वपक्षे । तत्र अनावृतत्वावृतत्वपक्षयोः । आद्ये अनावृतत्वपक्षे । विषयेति । स्वच्छस्य चैतन्यस्य वृत्तिं विनाऽस्वच्छेन विषयेणा-सम्बन्धाद् वृत्तेश्च स्वच्छत्वात्सम्बन्धोपपत्तिरिति भावः । द्वितीये आवृतत्वपक्ष इत्यर्थः । चैतन्यस्यावरणाभिभवहेतुत्वे तस्य सर्वदा विद्यमानत्वेन सर्वदाऽऽवरणनिवृत्तौ सर्वदा प्रकाशः स्यादिति भावः । अनावृतत्वपक्षे वृत्त्युपयोगमुपपादयति– अनावृतत्वपक्ष इति ।। केवलाप्रकाश्यं वृत्त्युपारूढे घटादिकं प्रकाश्यमित्युपपादयति– केवलेति । नन्वावरणाभिभवपक्षे वृत्त्याऽऽवरणस्य निवृत्तत्वात्सर्वदा प्रकाशः स्यादित्यत आह– आवृतत्वपक्षेऽपीति ।। ननु परिच्छिन्नत्वपक्षे ब्रह्मचैतन्यस्य प्रकाशत्वात्तस्य च सर्वसाधारणत्वात् सर्वप्रकाशत्वापत्तिरित्यतिप्रसङ्ग इत्यत आह– परिच्छिन्नत्वपक्षेऽ-पीति ।। ब्रह्मचैतन्यस्य प्रकाशत्वेऽप्यभिव्यक्तस्यैव प्रकाशत्वाद् अभिव्यञ्जिकायाश्च वृत्तेस्तत्तदन्तःकरणीयत्वान्नातिप्रसङ्ग इति भावः । नन्वस्मिन् पक्षे विषयप्रकाशस्य ब्रह्मचित्त्वाज्जीवचित्त्वं न स्यात् । तथा च जीवचैतन्येन प्रकाश इति न स्यादित्यत आह– विषयानुभवस्येति ।

श्रीनिवासतीर्थविरचितः

न्यायामृतप्रकाशः

दृश्यस्य दृगध्यस्तत्वे प्रातिभासिकस्थले इवेन्द्रियसन्निकर्षायोगेन त्वदुक्तप्रतिकर्म व्यवस्थाऽयोग इति वक्तंु शिष्याणां स्पष्टं दूषणज्ञानाय तत्प्रक्रियामनुवदति यच्चोक्तम् इत्यादिना प्रतिकर्मव्यवस्था युक्तेत्यन्तेन । कुल्या कृत्रिमजलप्रवाहः । केदाराः क्षेत्राणि । विषयाकारेण परिणामोपपादनायोक्तम् सावयवमिति ।। शीघ्रगमनोपपादनायोक्तं तैजसमिति ।। ध्रुवादिविषयेति ।। तन्मण्डलादिरूपविषयेत्यर्थः । तत्रेति ।। जीवचैतन्यं सर्वगतं परिच्छिन्नं चेति मतद्वयमित्यन्वयः ।। अविद्येति ।। अविद्यायास्सर्वगतत्वेन तदुपाधिकजीवचैतन्यमपि सर्वगतमित्यर्थः ।। अन्तःकरणेति ।। अन्तःकरणस्यासर्वगतत्वा- त्तदुपाधिकजीवोऽप्यसर्वगत इत्यर्थः ।। तत्राऽद्य इति ।। जीवचैतन्यस्य सर्वगतत्वात्तत्रैव विषयस्याध्यस्तत्वेन जीवचैतन्यमेव विषयप्रकाशकं घटादिज्ञानमित्युच्यत इति यावदित्यर्थः ।। द्वितीय इति ।। अन्तःकरण(णोपाधि)परिच्छिन्नस्याऽन्तरत्वेन बाह्यप्रपञ्चाध्यासाधिष्ठान- त्वाभावाद् ब्रह्मचैतन्यं यदनावृतं तत्रैवाध्यस्तं तदेव च विषयप्रकाशकमित्यर्थः ।। सर्वगत- त्वेति ।। अविद्योपाधिकं सत् सर्वगतमिति पक्षेऽप्यविद्यावृतस्वभावं तदनावृतस्वभावं चेति मतद्वयमित्यर्थः । असर्वगतत्वपक्षे त्वनावृतमेवेति बोध्यम् ।

नन्वेतेषु मतेषु वृत्तेः क्वोपयोग इत्यतस्तदुपयोगमाह– तत्राऽद्य इति ।। अविद्योपाधिकं यत्सर्वगतं जीवचैतन्यं तदविद्यानावृतमेव विषयाध्यासाधिष्ठानम्, अत एव विषयप्रकाशक-मिति मत इत्यर्थः ।। विषयेति ।। सर्वगते जीवचैतन्ये विषयादिकमस्ति । तत्संश्लेषो जीवचैतन्ये नास्ति । असङ्गत्वात् । वृत्तिरगत्याऽसङ्गेऽपि तत्संश्लेषं सम्पादयतीत्यर्थः । आवरणविरहस्य स्वतः सिद्धत्वेनावरणाभिभवार्थत्वमेतन्मते नास्तीति ध्येयम् ।। द्वितीय इति ।। अविद्योपाधिकं जीवचैतन्यं सर्वगतमविद्यावृतमिति मत इत्यर्थः ।। आवरणेति ।। आवरणे चाभिभूते चैतन्यं स्वत एव विषयेणोपरज्यतेऽत आवरणाभिभवार्थैव वृत्तिर्न संश्लेषार्थेति भावः ।

अन्तःकरणोपाधिकं जीवचैतन्यं परिच्छिन्नं ब्रह्मचैतन्यमेव विषयप्रकाशमिति मते वृत्त्युपयोगमाह– परिच्छिन्नत्वपक्षे त्विति ।। अभेदेति ।। वृत्त्या आवरणेऽभिभूते सति वृत्तिप्रतिबिम्बितचैतन्यस्य विषयाधिष्ठानचैतन्यस्य च वस्तुगत्याऽभेदोऽस्ति । स व्यज्यत इत्यर्थः । तथा च वृत्तिप्रतिबिम्बितचैतन्येनाभिव्यक्ताभेदमधिष्ठानचैतन्यं भवतीति यावत् । अविद्योपाधिकं सर्वगतं जीवचैतन्यमनावृतं विषयाध्यासाधिष्ठानमिति मते वृत्तिश्चिदुपरागार्था नावरणाभिभवार्थेत्युक्तम् । तत्राऽवरणाभावेन चैतन्यस्य स्वत एव विषयेण संश्लिष्टत्वाद्वृत्ति- र्व्यर्थेत्यतस्तत्सार्थक्यमुपपादयति– अनावृतत्वेति ।। जीवचैतन्यं असङ्गत्वाद्विषयासंश्लिष्ट-मेवावतिष्ठत इति शेषः ।। उपरज्यत इति ।। विषयैरिति शेषः । विषयाकारवृत्तिरगत्याऽ- सङ्गत्वं परिहृत्य संश्लेषापरपर्यायमुपरागं सम्पादयतीत्यर्थः ।। न त्विति ।। वृत्तिं विना पूर्वं विषयैः स्वतो नोपरज्यतेऽसङ्गत्वादित्यर्थः ।

ननु सर्वगतस्यानावृतस्य विषयाध्यासाधिष्ठानस्य विषयैः सह वृत्तेः पूर्वमुपरागो नास्ति, वृत्त्यैवोपरज्यता इत्येतदयुक्तम् अदृष्टत्वादित्यतोऽत्र तार्किकादिसम्मतं दृष्टान्तमाह– यथेति ।। सास्नेति ।। केसरादिमत्सिंहादिव्यक्तावप्यस्ति गोत्वं, परं तु तस्य तदुपरागः संश्लेषविशेषः समवायरूपो नास्ति । सास्नादिमद्व्यक्त्यैव तूपरज्यत इत्यर्थः ।। आकाशेति ।। आकाश-देशव्यापिनी तथा घटादिपदार्थस्थितगन्धरसादिप्रदेशव्यापिनीत्यर्थः ।। रूपीति ।। रूपोपेत-पदार्थेत्यर्थः । अनावृतत्वपक्षे केवलजीवचैतन्याप्रकाश्यस्यापि घटादेस्तदाकारवृत्त्युपारूढ-सर्वगतचैतन्येन प्रकाश्यत्वं युक्तमित्यत्र दृष्टान्तमाह– केवलेति ।। वृत्त्युपारूढे ति ।। वृत्तिसहकृतेत्यर्थः । एवं वृत्तेरुपयोगमुपपाद्य चैतन्यस्य सर्वान्प्रत्यविशिष्टत्वात्सर्वस्य सर्वं प्रतीयेतेत्यतिप्रसङ्गं परिहरन्, एतेषु पक्षेषु घटप्रकाशकं चैतन्यं विवेचयन् प्रतिकर्मव्यवस्था-मुपपादयति– एवं चेत्यादिना ।। ननु जीवचैतन्यस्य परिच्छिन्नत्वपक्षे ब्रह्मचित एव विषयाध्यासाधिष्ठानतया विषयप्रकाशकत्वेन विषयानुभवरूपत्वादिदं जीवज्ञानमिति व्यवहारः कथम् । ब्रह्मचैतन्यज्ञानमित्येव व्यवहारः स्यादित्यत आह– विषयानुभवस्येति ।। जीवचैतन्येन वृत्त्युपारूढज्ञातृचैतन्येन साकं योऽभेदस्तद्वत्त्वेन घटाधिष्ठानभूतब्रह्मचैतन्य- स्याभिव्यक्तत्वाज्जीवचित्त्वं विषयानुभवस्य युक्तमित्यर्थः ।

श्रीकूर्मनरहरिआचार्यविरचिता

न्यायकल्पलता

विश्वस्य दृगध्यस्तत्वे प्रातिभासिकस्थल इव विषयेन्द्रियसन्निकर्षायोगेन भवदुक्तप्रतिकर्म व्यवस्थाया अनुपपत्तिरिति प्रस्तौति– यच्चोक्तमिति ।। कुल्या अल्पा कृत्रिमा सरित् । केदाराः क्षेत्राणि । विषयाकारेण परिणामोपपादनायोक्तम् सावयवमिति ।। तैजसम् चक्षुर्वत्तेजोवयवि । अत एव चक्षुरादीन्द्रियसूक्ष्मद्वारेणान्तःकरणं बहिर्निर्गच्छति । इन्द्रिय-द्वारेण तत्संयुक्तं विषयं व्याप्य तदाकारं भवति । यथा नद्याद्युदकं प्रणाड्या निःसृत्य क्षेत्राद्याकारं जायते । सेयं वृत्तिरित्युच्यते । औतिभिरिति शेषः । तत्र एतादृशी वृत्तिरिति मतेऽपि । जीवचैतन्यमिति सर्वगतं परिच्छिन्नमिति मतद्वयमित्यन्वयः । अविद्यायाः सर्व-गतत्वात्तदुपाधिको जीवोऽपि तथा । अन्तःकरणस्यासर्वगतत्वात्तदुपाधिको जीवोऽपि तथेत्यर्थः ।। तत्राद्य इति । जीवचैतन्यस्य सर्वगतत्वात्तत्रैव विषयस्याध्यस्तत्वेन जीव- चैतन्यमेव विषयप्रकाशकमित्यर्थः ।। सर्वगतत्वपक्ष इति । असर्वगतत्वपक्षे तु अनावृतमेवेति बोध्यम् ।

विषयेति । विषयेण सहोपरागः संश्लेषविशेषः । स च वृत्तिद्वारकः । आवरणविरहस्य स्वतः सिद्धत्वादिति भावः ।। आवरणेति ।। स्वत एव चैतन्यमुपरज्यत इति नोभयार्था वृत्तिरिति भावः । परिच्छिन्नत्वपक्षे वृत्त्युपयोगमाह– परिच्छिन्नत्वेति । ब्रह्मचैतन्ये विषय-स्याध्यासात्तदेव विषयप्रकाशकम् । जीवोपाध्यन्तःकरणपरिणतिवृत्त्या ब्रह्माकारया विषयाधिष्ठानब्रह्मचैतन्येऽविद्यावृतेऽपि जीवब्रह्मचैतन्ययोरेकान्तःकरणरूपोपाधियुक्तत्वेन ब्रह्म- चैतन्येन सह जीवचैतन्याभेदाभिव्यक्त्या जीवोऽपि घटप्रकाशको भवतीत्यर्थवती वृत्ति-रित्यर्थः । वृत्तिर्विषयोपरागार्थेति पक्षमुपपादयति– अनावृत्तत्वपक्ष इति ।। वृत्त्यैवेति । स्वत इति शेषः ।

ननु वृत्तिरुपरागार्थेति न युक्तम् । असङ्गस्यापि चैतन्यस्य वृत्त्येव विषयेणाप्युपराग- सम्भवात् । गोत्वदृष्टान्तोऽप्ययुक्तः । तस्य सास्नादिमद्व्यक्त्युपरागो नाम तज्ज्ञेयत्वम् । ब्रह्म तु न वृत्त्या ज्ञायते किन्तु तया घटादिविज्ञानरूपं ब्रह्म भवति । प्रभादृष्टान्तोऽप्यनुपपन्नः । तस्याः प्रकाशकत्वं नाम विषयदेशस्थतमोनिवर्तकत्वमेव नान्यत् । एवं यथा प्रभा रूपसंसर्गितमो निवर्तयन्ती रूपं प्रकाशयतीत्युच्यते तथा आकाशगन्धरसादिसंसर्गितमोऽपि निवर्तयन्ती आकाशादीनपि प्रकाशयत्येव । न हि सा आकाशादिसंसर्गितमो न निवर्तयति । अन्यथा तद्देशे रूपप्रकाशोऽपि न स्यादित्यरुचेरुदाहरणान्तरं वक्ति– केवलेति । तथा च विषयप्रकाशनशक्तिरेव विषयोपरागः । स च चैतन्यस्य वृत्त्यधीन इति वृत्तिरुपरागार्थेति भावः ।

वृत्तिरावरणाभिभवार्थेति पक्षमुपपादयति– आवृतत्वेति । ननु जीवचैतन्यम् असर्वगत- मिति पक्षे तदनावृतमित्यङ्गीकारादावरणविरहस्य स्वतः सिद्धत्वाद्वृत्तिर्व्यर्थेति शङ्काम् अपा- करोति– परिच्छिन्नत्वपक्ष इति । एतच्चोपपादितम् ।। ब्रह्मचित्वेऽपीति । अस्मिन्पक्षे ब्रह्मचित्येव विषयाध्यासादिति भावः ।। जीवचित्वमिति । विषयानुभवस्येत्यनुषङ्गः ।। इतीति ।। इतिशब्दः प्रकारवचनः । वृत्तिर्विषयोपरागार्थेति  पक्षे, आवरणाभिभवार्थेति पक्षे, प्रमातृजीवचैतन्यस्य विषयप्रकाशकब्रह्मचैतन्याभेदाभिव्यक्त्यर्थेति पक्षत्रयेऽपीत्यर्थः ।। प्रति-कर्मेति । व्यापकचैतन्येऽध्यासेऽपि तस्य घटादिकं कर्म प्रति नियम इत्यर्थः ।।

श्री वनमालिमिश्रविरचितम्

न्यायामृतसौगन्ध्यम्

यच्चोक्तं ‘यथा तटाकोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान्प्रविश्य तद्वदेव चतुष्कोण- त्वाद्याकारं भवति तथा विषयेन्द्रियसम्प्रयोगे सति सावयवं तैजसम् अन्तःकरणं चक्षुरादि- द्वारेण निर्गत्य ध्रुवादिविषयपर्यन्तं चक्षुर्वच्छीघ्रं दीर्घप्रभाकारेण परिणम्य विषयं व्याप्य तदाकारं भवति । सेयं वृत्तिरित्युच्यते । तत्र जीवचैतन्यम् अविद्योपाधिकं सत्सर्वगतं, अन्तःकरणोपाधिकं सत्परिच्छिन्नं चेति मतद्वयम् । तत्राद्ये विषयप्रकाशकं जीवचैतन्यम् । द्वितीये ब्रह्मचैतन्यम् । सर्वगतत्वपक्षेऽपि चैतन्यम् अविद्यानावृतम् आवृतं चेति मतद्वयम् । तत्राद्ये वृत्तिर्जीवचैतन्यस्य विषयोपरागार्था । द्वितीये त्वावरणाभिभवार्था । परिच्छिन्नत्वपक्षे तु जीवचैतन्यस्य विषयप्रकाशकब्रह्मचैतन्याभेदाभिव्यक्त्यर्था । अनावृतत्वपक्षे ह्यनावृतं सर्वगतमपि जीवचैतन्यं तत्तदाकारवृत्त्यैवोपरज्यते न तु विषयैः । असङ्गत्वात् । यथा गोत्वादिकं सर्वगतमपि सास्नादिमद्व्यक्त्यैवोपरज्यते न तु केसरादिमद्व्यक्त्या । यथा वा प्रदीपप्रभा, आकाशगन्धरसादिव्यापिन्यपि तानप्रकाशयन्ती रूपसंसर्गितया तदेव प्रकाशयति तद्वत् । केवलाग्न्यदाह्यस्याप्ययःपिण्डसमारूढाग्निदाह्यत्ववच्च केवलचैतन्या प्रकाश्यस्य घटादे-स्तत्तदाकारवृत्त्युपारूढचैतन्यप्रकाश्यत्वं युक्तम् ।

एवञ्चानावृतत्वपक्षे तत्तदाकारवृत्तिद्वारा चैतन्यस्य तत्तदुपरागे तत्तदर्थप्रकाशः । आवृतत्वपक्षेऽपि तत्तदाकारवृत्त्या तत्तद्विषयावच्छिन्नचैतन्यावरणाभिभवेन तत्तदर्थप्रकाशः । परिच्छिन्नत्वपक्षेऽपितत्तज्जीवावच्छेदकान्तःकरणीय तत्तद्विषयाकारवृत्त्या तत्तद्विषयावच्छिन्न ब्रह्मचैतन्याभिव्यक्तौ तत्तत्प्रकाश इति नातिप्रसङ्गः । विषयानुभवस्य ब्रह्मचित्वेऽपि वृत्त्या जीवचैतन्येनाभेदेनाभिव्यक्तत्वाज्जीव चित्वम् अविरुद्धमिति प्रतिकर्मव्यवस्था युक्ता’ इति ।

तन्न । स्वसन्निकृष्टेन्द्रियजन्यस्वज्ञानात्पूर्वं घटादेः प्रतीतिमात्रशरीरत्वव्याप्यकल्पित त्वायोगात् । न च कल्पितत्वविशेषः प्रातिभासिकत्वमेव तद्व्याप्यं, गौरवात् । वह्निं प्रति, अपर्वतीयधूमस्याप्रामाणिकत्वादिकं च प्रति प्रातिभासिकत्वस्यैव व्याप्यत्वापातात् । न च प्रतीतिमात्रशरीरत्वाभावेऽपि ज्ञाननिवर्त्यत्वादिना कल्पितत्वोपपत्तिः । प्रतीतिमात्रशरीरत्वा भावेनैव ज्ञाननिवर्त्यत्वाभावस्याप्यापादनात् । प्रतीतेस्तु विश्वसत्यत्वेन वा मिथ्यात्वेऽपि स्वप्नादिवदिन्द्रियसन्निकर्षानपेक्षतयैव वोपपत्तेश्च । व्यावहारिकत्वस्य भ्रान्तिदैर्घ्यमात्रेणोप पत्तेश्च । (अयं भागः न्यायामृतमूलम् ।)

Load More