नापि ‘‘प्राणा वै सत्यं तेषामेष सत्यम्’’ इति श्रुतार्थापत्तिस्तत्र मानम्
५१. सत्यस्य सत्य इति श्रुता(श्रौता)र्थापत्तिप्रमाणभङ्गः
न्यायामृतम्
नापि ‘‘प्राणा वै सत्यं तेषामेष सत्यम्’’ इति श्रुतार्थापत्तिस्तत्र मानम् । राजराजः, देवदेवः, मन्मथमन्मथः, ‘‘पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्’’ (‘‘प्राणस्य प्राणः’’ ‘‘चक्षुषश्चक्षुः’’ ‘‘श्रोत्रस्य श्रोत्रम्’’) इत्यादौ राजत्वदेवत्वादीनामिव प्राणादिसत्यत्वस्य ज्ञानाबाध्यत्वे सत्येवापकृष्टत्वमात्रेण तदुपपत्तेः । नापि ‘‘सत्यं ज्ञानम्’’ इत्यादौ ब्रह्मणः सत्यत्वलक्षणोक्त्य-न्यथानुपपत्तिर्मानम् । छान्दोग्ये (८/३/५) (बृहदारण्यके इति कण्टकोद्धार-पाठः) ‘‘तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति तानि ह वा एतानि त्रीण्यक्षराणि सत् ति यमिति तद्यत् सत् तदमृतम्, अथ यत्ति तन्मर्त्यम्, अथ यद्यं तेनोभे यच्छति’’ इति मुक्तामुक्तनियन्तृत्वं सत्यत्वमित्युक्तेः ।
सत्ये प्रतिष्ठितः कृष्णः सत्यमस्मिन् प्रतिष्ठितम् ।
सत्तासत्ते च गोविन्दस्तस्मात् सत्यं सतां मतः ।।
इति भारतोक्तेश्च । न च रूढ्यर्थं श्रौतयोगत्यागः । ‘‘यदाजिमीयुस्तदा-ज्यानामाज्यत्वम्’’ इत्यादाविव निरवकाशश्रौतयोगबाधायोगात् । शास्त्रस्था वेति न्यायेनासति बाधके वेदे वैदिकार्थस्यैव ग्राह्यत्वाच्च । उक्तं च वार्तिके–
‘‘गौणं लाक्षणिकं वाऽपि वाक्यभेदेन वा स्वयम् ।
वेदोऽयमाश्रयत्यर्थं को नु तं प्रतिकूलयेत् ।।’’ इति ।
किञ्च ‘‘विज्ञानमानन्दं ब्रह्म’’ इत्यत्र ‘‘सैषाऽनन्दस्य’’ इत्यादिश्रुत्युक्त-मानुषाद्यानन्दव्यावृत्तापरिच्छिन्नानन्दत्ववदिहापि अन्यव्यावृत्तमनन्याधीनसत्यत्वं लक्षणमस्तु । नापि ‘‘विमुक्तश्च विमुच्यते’’ इति श्रुतार्थापत्तिर्मानम् । सज्जनस्यासत्सङ्गाद्दौर्जन्यस्य ताम्रद्रवत्वादिवत् सत्यत्वेऽपि ‘‘सज्जनः सज्जनो जातः’’ इतिवत् संसारस्य सत्यत्वेऽपि अस्वाभाविकत्वेन तदुपपत्तेः । भारते–
‘‘उभे सत्ये क्षत्रियाद्यप्रवृत्ते मोहो मृत्युः सम्मतोऽयं कवीनाम् ।
प्रमादं वै मृत्युमहं ब्रवीमि तथाऽप्रमादादमृतत्वं ब्रवीमि ।।’’ इति ।
संसारः सत्योऽप्यज्ञानाधीन इत्युक्तेः । एवमन्यदपि योज्यमिति सत्यमेव जगदिति ।
न्यायामृततरङ्गिणी
ननु बृहदारण्यके ‘‘तस्योपनिषत्सत्यस्य सत्यम्’’, इति ‘‘प्राणा वै सत्यं तेषामेष सत्यम्’’ इति । अन्यत्रापि बृहदारण्यके ‘‘अथ नामधेयं सत्यस्य सत्यम्’’ इति ‘‘प्राणा वै सत्यं तेषामेष सत्यम्’’ इति ब्रह्मणि सत्यस्य सत्यमिति नामनिर्वचनेनान्यस्य ब्रह्मसत्तातोऽपकृष्टा सत्ता प्रतीयत इत्यत आह ।। नापीति ।। एष सत्यमिति ।। एष आत्मा । सत्यं सत्यः ।। लक्षणोक्तीति ।। ‘‘ब्रह्म-विदाप्नोति परम्’’ इति सूत्ररूपे वाक्ये उद्दिष्टस्य ब्रह्मणः ‘‘सत्यं ज्ञानमनन्तं ब्रह्म’’ इत्यनेन लक्षणान्युच्यन्ते । तत्र ब्रह्मणोऽन्यस्य सत्यत्वे तत्रैव तल्लक्षणातिव्याप्तिः स्यादित्यर्थः । नात्र सत्यशब्देनाबाध्यत्वरूपसत्यत्वं ब्रह्मलक्षणत्वेनाभिमतम् । किन्तु सर्वनियन्तृत्वम् । तच्च प्रपञ्चसत्यत्वेऽपि न तत्रातिव्याप्तमित्याशयेन दहर-प्रकरणे छन्दोगोपनिषदि विद्यमानं सत्यशब्दनिर्वचनवाक्यं पठति ।। तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति तानि ह वा एतानीत्यादि ।। हशब्दद्वयं च उभयत्र प्रसिद्धिद्योतनाय । उक्तं च सत्यशब्दस्यावयवत्रयवत्त्वं बृहदारण्यके – ‘‘ते देवाः सत्यमेवोपासते तदेतदक्षरं सत्यमिति स इत्येकमक्षरं तीत्येकमक्षरम्’’ इति । अत्र क्वचित् बृहदारण्यक इति पठित्वा तस्य ह वा एतस्येति वाक्यलेखनं तत्तु लेखकप्रमादात् । सत्तासत्ते मुक्तामुक्तौ गोविन्दाधीनौ ।
रथकारादिशब्दे रूढ्यर्थं योगत्यागवदिहापि तथा स्यादित्यत आह ।। श्रौतेति ।। सत्यपदान्वाख्यानलब्ध इत्यर्थः ।। यदाजिमीयुरिति ।। यदाजिमायन्निति छन्दोगानां पाठः । अन्यादृशस्त्वयुक्तः । एतच्च प्राक् प्रपञ्चितम् ।। शास्त्रस्था वेति ।। शास्त्रस्था वा त्तन्निमित्तत्वादिति जैमिनिसूत्रस्य सन्दिग्धार्थके शास्त्रे शास्त्रान्तरस्था प्रसिद्धिर्ग्राह्या । शास्त्रार्थनिर्णयस्य शास्त्राधीनत्वादित्यर्थः । यथा यवमयश्चरुर्भवतीत्यत्र यवशब्देन प्रियङ्ग्वादिकं वा दीर्घशूको वेति संशये पृथक्जनप्रसिद्ध्या प्रियङ्ग्वादीति प्राप्ते ‘‘यदान्या ओषधयो म्लायन्तेऽथ ते मोदमानास्तिष्ठन्ति’’ इति अन्यौषधिम्लानिकालेऽपि मोदमानानां दीर्घशूकानामेव यवशब्देन ग्रहणं तद्वदित्यर्थः । नन्वेवं घटादौ सत्यशब्दो न स्यात् । श्रौतयोगस्याभावादित्यत आह ।। वेद इति ।। यथा श्येनेन यजेतेति विहितयागे सामानाधिकरण्याच्छ्येननामकत्वेन प्रसिद्धेऽनेक-शक्तिकल्पनाभयाच्छ्येनशब्दस्य तद्वाचकभावानभ्युपगमेऽपि ‘‘यथा वै श्येनो निपत्यादत्त एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते’’ इत्यर्थवादावगतनिपत्यादायकत्व-सादृश्येन पक्षिजात्योपमितगौणत्वद्वारेण वाऽऽप्तप्रसिद्धिः श्येनशब्दः पुनरितरेषु यागेषु धर्मातिदेशाय समानमितरच्छ्येनेनेति प्रयुज्यमानो गौणोऽपि क्लृप्तत्वाद्यागविषय-त्वेनैवावसीयते, लोके तु श्येनत्वजात्यां रूढ्या पक्षिपरः, तथा लक्षणाद्युक्तौ रूढियोगाभ्यां सत्यादिशब्दा ब्रह्माभिदधति लोके रूढिमात्रेण तद्व्यवहार इति न दोषः । प्रत्युताबाध्यस्वरूपभिन्ने घटादौ त्वन्मत एव सत्यशब्दो न स्यादिति भावः ।
ननु धर्मातिदेशादिव्यवहारसिद्ध्यर्थं केनचिद् गुणयोगेन श्येनशब्दस्य याग-विशेषनामत्वाङ्गीकरणमर्थवत् । इह तु सत्यशब्दस्य रूढित्यागेन योगाङ्गीकारे न विशेषहेतुरस्तीत्याशङ्कां स्मृतिपादीयवार्तिकसम्मत्या परिहरति ।। उक्तं चेति ।। गौणं योगादिना लब्धम् । यथा श्येनशब्दस्य यागादिः ।। लाक्षणिकमिति ।। पुरोडाशानलं कुर्वित्यादौ पुरोडाशशब्दस्य धानाः करम्भः पुरोडाशः परीवापः पयस्येति सवनीयहविःपञ्चकं लाक्षणिकोऽर्थः । अश्ववालः प्रस्तर इत्यादौ कुशा-नामश्ववालशब्दवाच्यत्वं तेषां प्रस्तरकार्ये विधानमिति वाक्यभेदोऽपि वेदाङ्गीकृतत्वान्न दोष इत्यर्थः । उक्तं चात्रैव वार्तिके । अथापि गौणशब्दत्वं तथापि बलवत्तरम् । स्वतन्त्रस्य हि वेदस्य गौणत्वं न विचार्यते ।। इति । तस्माच्छास्त्रमतैवैका प्रतिपत्तिर्बलीयसी । न समा मुक्तकाचारैर्विप्रकृष्टैः ससङ्करैरिति च ।। भारत इति ।। सनत्सुजाते ‘‘यदिदं शृृणोमि मृत्युर्हि नास्तीति तवोपदेशम् । देवासुरा अचरन् ब्रह्मचर्यममृत्यवे तत्कतरन्नु सत्यम् ।’’ हे सनत्सुजात मृत्युर्नास्तीति तवोपदेशं शृृणोमि देवासुराः पुनः अमृत्यवे मृत्योरभावाय ब्रह्मचर्यमाचरन्निति मृत्योः सत्त्वमवगम्यते । न ह्यविद्यमानस्य मिथ्याभूतस्य वा निवृत्तये ब्रह्मचरणं सम्भवति । तथा च मृत्युरस्ति नास्तीत्येतयोः पक्षयोः कतरत् सत्यमिति धृतराष्टे्रण सनत्सुजातं प्रति पृष्टे उभे सत्ये इत्यादि धृतराष्ट्रं प्रति सनत्सुजातवाक्यम् । हे क्षत्रियाद्य मृत्युस्तदभावश्चेत्युभे अपि सत्ये एव प्रवृत्ते । तयोर्मध्ये मृत्युः संसारमोह इति सनत्सुजातवाक्यस्यार्थः ।
न्यायामृतकण्टकोद्धारः
ननु तथापि प्राणा वै सत्यमिति श्रुतौ सत्यस्य सत्यत्वमुच्यते । यद्युभयोः सत्यत्वं समानं तर्हि तस्य सत्त्वात् सत्यत्वोक्तिः वृथैव स्यादिति पूर्वसत्यत्वमौपचारिकं नास्तीति गम्यते इति सत्यसत्यत्वोक्त्यन्यथानुपपत्त्या मिथ्यात्वं सिद्ध्यतीत्यत आह ।। नापीति ।। तथा चोत्कृष्टत्वमात्रेण सत्यसत्यत्वोक्तिरुपपन्नेति भावः ।। नापि सत्यमिति ।। इतरव्यावृत्तस्यैव लक्षणत्वादितरस्य सत्त्वाभावः सिद्ध्यतीति भावः । सत्यं ज्ञानमित्यत्र न सत्यशब्दस्य रूढोऽर्थो गृह्यते, किन्तु श्रौतो यौगिकोऽर्थोऽतस्तस्यानतिप्रसक्तत्वाल्लक्षणत्व-मुपपद्यत इत्याह ।। बृहदारण्यक इति ।। ननूत्सर्गप्राप्तो रूढोऽर्थो न त्याज्य इत्यत आह ।। सत्य इति ।। भारते प्रपञ्चस्य बहुवारं सत्त्वोक्तेः सत्त्वस्य प्रपञ्चे साधारणत्वेन लक्षणत्वायोगान्न रूढार्थपरिग्रह इति भावः । अत्र सत्तासत्ते चेति न मूलपाठः । सत्यासत्येत्याकरपाठः ।
ननु रूढेर्योगापहारकत्वस्य पङ्कजादौ दृष्टत्वात्प्रकृतेऽपि रूढार्थं गृहीत्वा तस्य लक्षण-त्वार्थं प्रपञ्चस्य मिथ्यात्वमेवाङ्गीकर्तव्यम् । भारते सत्वोक्तिस्तु व्यावहारिकसत्व-पराऽस्त्वित्याशङ्क्य निषेधति ।। न चेति ।। एवं च योगस्यापि निरवकाशत्वेन प्रबल-त्वात् रूढ्या बाधो, न वा भारतवचनस्य व्यावहारिकपरत्वम् । अन्यथा चित्रा-ज्याधिकरणेऽप्याज्यशब्दस्य रूढार्थपरिग्रहः स्यादिति भावः । आज्याधिकरणं शास्त्रस्था वेति न्यायश्च प्रागेव समर्थित इति न पुनः प्रयतितव्यम् । रूढ्यनङ्गीकारे मुख्यार्थ-परिग्रहापत्तिरिति शङ्का भट्टवार्तिकसंमत्या परिहरति ।। उक्तं चेति ।। एवं च यदा रूढादिपरित्यागेन सर्वथा मुख्यलाक्षणिकादिपरिग्रहस्तदा रूढत्यागेन यौगिकपरिग्रहे न किमप्यनिष्टमिति भावः ।
अस्तु रूढार्थपरिग्रहस्तथापि नानिष्टमित्याह ।। किञ्चेति ।। नापीति ।। अत्र विमुक्तश्चेत्युक्त्या मिथ्यात्वं गम्यते । सत्यं चेद्विमुक्तत्वं न स्यात् । निगडादिबन्धयुक्ते तदप्रयोगादिति भावः ।। अस्वाभाविकत्वेनेति ।। तथा च विमुक्तत्वस्यान्यथाप्युप-पत्तेर्न तेन मिथ्यात्वसिद्धिरिति भावः ।। उभे सत्य इति ।। क्षत्रियेतरस्य विद्धीति मूलपाठः । प्रमादं संसारम् । तथा च संसारस्य सत्यत्वं प्रमादत्वं चोक्तमित्य-स्वाभाविकत्वमेव सिद्ध्यतीति भावः । उक्तन्यायमन्यत्राप्यतिदिशति ।। एवमिति ।।
न्यायामृतप्रकाशः
श्रौतार्थापत्तिरिति ।। अत्र सत्यभूतप्राणानां सकाशादपि पुनः ब्रह्मणः सत्यत्वोक्त्य-न्यथाऽनुपपत्त्या तदपेक्षयाऽधिकसत्वं प्रतीयते । प्राणानां च तदपेक्षया व्यावहारिक-सत्वलक्षणं न्यूनसत्यत्वं प्रतीयत इतीयं श्रौतार्थापत्तिरेव प्राणादिजगन्मिथ्यात्वे मान-मित्यर्थः । राजत्वेति ।। अन्यथा तत्रापि प्रथमराजादिशब्दनिर्दिष्टेषु राजत्वादेः प्रातिभासि-कत्वाद्यापातात् । न चैवम् । किं तु तत्रापकृष्टत्वमात्रमेवेति भावः । लक्षणोक्तीति ।। जगतोऽपि सत्यत्वे ब्रह्मलक्षणस्यातिव्याप्त्यापत्तेरतस्तदन्यथाऽनुपपत्त्या मिथ्यात्वमङ्गीकार्य-मिति भावः । बृहदारण्यक इति पाठः प्रामादिकः । छान्दोग्य इत्येव पाठः । अस्य वाक्यस्य बृहदारण्यकेऽभावात् । छान्दोग्य एव भावादिति ज्ञातव्यम् । ‘सत्तासत्ते मुक्तामुक्तौ गोविन्दाधीनौ’ इति छान्दोग्यभारतोक्त्योः समानार्थत्वमित्याहुः । तथा च मुक्तामुक्त-नियामकत्वरूपसत्यत्वाख्यब्रह्मलक्षणस्य नेतरत्रातिव्याप्तिप्रसक्तिरिति भावः ।
ननु मुक्तामुक्तनियन्तृत्वस्य योगवृत्या सत्यशब्दार्थतया श्रुतत्वेऽपि रूढेर्बलवत्वात् पारमार्थिकत्वरूपसत्यत्वमेव श्रुतौ विवक्षितमस्तु । तथा च तस्य लक्षणत्वनिर्वाहाय जगतो मिथ्यात्वमङ्गीकार्यमित्याशङ्क्य निषेधति । न चेति ।। यदाजिमिति ।। आज्यैः स्तुवत इत्यत्र प्रसिद्धाज्यानां स्तोत्रकरणत्वासम्भवात् ‘यदाजिमीयुः’ इत्युत्तरवाक्यानुसारेण पञ्चदश-स्तोत्रविशेषेषु आज्यशब्दो यौगिक एव न तु रूढ इत्यङ्गीकृत्य योगेन रूढिबाधोऽङ्गीकृत इत्यर्थः । यैः पञ्चदशमन्त्रविशेषैः तदुच्चारणेनेति यावत् आजिं युद्धमण्डलं यज्ञस्थलविशेषं वा शूराः ऋत्विजो वा ईयुः प्राप्नुयः । यदाजिमीयुः तदेवाज्यानामाज्यपदप्रवृत्तिनिमित्तमिति श्रुत्यर्थः । शास्त्रस्था वेति न्यायेनेति ।। सन्धिग्धार्थकशास्त्रार्थनिर्णयस्य शास्त्रान्तरस्थ-प्रसिद्ध्यधीनतायाः यववराहाधिकरणे निर्णीतत्वादिति भावः । किं च नात्र सत्यत्वलक्षणस्य अतिव्याप्तिप्रसक्तिः । यथा ‘विज्ञानमानन्दम्’ इत्यत्र आनन्दत्वस्य ब्रह्मलक्षणत्वमुक्तं तस्य जीवानन्दादावतिव्याप्तिवारणायापरिच्छिन्नानन्दत्वं लक्षणमुक्तम् । जीवानन्दस्तु परिच्छिन्नः । ‘सैषाऽनन्दस्य’ इत्यादितारत्म्यावगमात् । अतस्तद्वदपराधीनसत्यत्वं लक्षणमस्तु । तस्य च नातिव्याप्तिः । अतो न तदन्यथाऽनुपपत्तिर्मानमित्याह । किं चेति ।। विमुक्तश्चेति ।। बन्धस्य सत्यत्वे मोक्षात् पूर्वं जीवस्य मुक्तत्वोक्त्ययोगात् । अतः तदन्यथाऽनुपपत्त्या बन्धस्य मिथ्यात्वसिद्धिरिति भावः । ताम्रेति ।। यथा ताम्रद्रवत्वं न स्वाभाविकम् । किं तु अग्निसम्बन्धोपाधिकं सत्यमेव । तद्वदेव दौर्जन्यस्याप्यौपाधिकस्य सत्यत्वेऽपि अस्वाभावि-कत्वात् तदपेक्षया ‘सज्जनः सज्जनो जातः’ इति व्यपदेशवदुपपद्यते इत्यर्थः । भारत इति । उद्योगपर्वणि सनत्सुजातीय इत्यर्थः । हे क्षत्रिया अद्य मृत्युः तदभावश्चेत्युभे अपि सत्ये एव प्रकृते । तयोर्मध्ये मृत्युः संसारो मोहो मोहहेतुकः । मोहश्चेत्तर्हि मिथ्या स्यात् । नेत्याह । प्रमादं वै मृत्युमिति ।। मृत्युं संसारं प्रमादम् अस्वाभाविकं भगवदज्ञाना-धीनमिति यावत् । तथा अमृतत्वं मोक्षम् अप्रमादात् भगवदज्ञानरूपप्रमादाभावात् तज्ज्ञानादिति यावत् ब्रवीमीत्यर्थः । क्वचित् ‘मोहान्मृत्युः’ इत्यपि पाठः । ‘तथाऽप्रमाद-ममृतत्वं ब्रवीमि’ इत्यपि पाठः । यथोक्तम्– प्रमादात्मकत्वात् बन्धस्य विमुक्तत्वं ह्युच्यत इति । अन्यदपीति ।। श्रौतार्थापत्त्यन्तरे परेण शङ्किते सति तदपि पूर्वोक्तन्यायेन योज्यमित्यर्थः । इति सत्यस्य सत्य इत्यादिश्रौतार्थापत्तिभङ्गविवरणम् ।
न्यायकल्पलता
ननु बृहदारण्यके ‘‘तस्योपनिषत्सत्यस्य सत्यमि’’ति ‘‘प्राणा वै सत्यं तेषामेष सत्यमि’’ति । तस्य परमात्मनः उपनिषत् रहस्यं नाम । उत्तरत्रापि बृहदारण्यके ‘‘अथ नामधेयं सत्यस्य सत्यमि’’ति ‘‘प्राणा वै सत्यं तेषामेष सत्यमि’’ति ब्रह्मणि सत्यस्य सत्यमिति नामनिर्वचनेनान्यस्य ब्रह्मसत्तातोऽपकृष्टा सत्ता प्रतीयत इति श्रुतार्थापत्तिमाशङ्क्य निराकरोति ।। नापीति ।। एष सत्यमिति ।। सर्वप्राणलोकदेवभूतस्रष्टा आत्मा तेषां मध्ये सत्यं सत्य इत्यर्थः । उत्तरत्रापि । एष पुरुषस्तेषां प्राणानां मध्ये सत्यं सत्यसत्य इति ।। अपकृष्टत्वमात्रेणेति ।। तदधीनत्वमात्रेणेत्यर्थः ।। लक्षणोक्तीति ।। ब्रह्मविदाप्नोति परमिति बह्वर्थसेचके वाक्ये किं तद्ब्रह्म किं तद्वेदनं का च तत्प्राप्तिरिति जिज्ञासायाः प्रथमोद्दिष्टस्य ब्रह्मणः सत्यं ज्ञानमनन्तं ब्रह्मेत्यनेन लक्षणमुच्यते । तत्र ब्रह्मणोऽन्यस्य सत्यत्वे तत्रैव तल्लक्षणातिव्याप्तिः स्यादित्यर्थः । नात्र सत्यशब्देनाबाध्यत्व-रूपसत्यत्वं ब्रह्मलक्षणत्वेनाभिमतं किं तु सर्वनियन्तृत्वम् । तच्च प्रपञ्चसत्यत्वेऽपि न तत्रातिव्याप्तमित्याशयेनाह दहरप्रकरणे छन्दोगोपनिषदि विद्यमानं सत्यशब्दनिर्वचनवाक्यं पठति ।। तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति तानि ह वा एतानीत्यादि ।। हशब्दद्वयं वैशब्दद्वयं च प्रसिद्धिद्योतनार्थम् । उक्तं च सत्यशब्दस्यावयवत्रयवत्वं बृहदारण्यके ‘‘ते देवाः सत्यमेवोपासते तदेतदक्षरं सत्यमिति स इत्येकमक्षरं तीत्येकमक्षरं यमित्येकमक्षरमि’’ति । अत्र कुत्रचित् बृहदारण्यक इति पटित्वा तस्य ह वा एतस्येति वाक्यलेखनम् । तत्तु लेखकप्रमादात् । सत्तासत्ते मुक्तामुक्तौ गोविन्दाधीनौ । चशब्दात् मुक्तामुक्तावपि गोविन्दाधीनौ उतामृतत्वस्येशान इति मन्त्रवर्णात् । तल्प्रत्ययवत्त्वप्रत्ययः समूहार्थः । छन्दस्त्वात् । सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगादिति भागवते ।
ननु रूढिर्योगमपहरतीति न्यायाद्योगत्याग इत्याशङ्क्य निराकरोति ।। न चेति ।। वर्षसु रथकारोऽग्नीनाद्धधीतेत्यादौ रथकारादिशब्दे रूढ्यर्थं योगत्यागवदिहापि तथा स्यादित्यत उक्तम् ।। श्रोतेति ।। सत्यपदान्वाख्यानलब्ध इत्यर्थः ।। यदाजिमिति ।। यदाजिमायन्निति छन्दोगानां पाठः । क्वचिदीयुरिति पाठस्तु चिन्त्यः ।। निरवकाशेति ।। सावकाशनिरवकाशयोर्निरवकाशं बलीय इति न्यायादित्यर्थः ।। शास्त्रस्था वेति ।। शास्त्रस्था वा तन्निमित्तत्वादिति जैमिनिसूत्रस्यायमर्थः । सन्दिग्धार्थके शास्त्रे शास्त्रान्तरस्था प्रसिद्धरेव ग्राह्या । शास्त्रार्थनिर्णयस्य शास्त्राधीनत्वादिति । यवमयश्चरुर्भवतीत्यत्र यथा यवशब्देन प्रियङ्ग्वादिकं दीर्घशूको वेति संशये पृथग्जनप्रसिद्ध्या प्रियङ्ग्वादीति प्राप्ते ‘‘यदाऽन्या औषधयो म्लायन्तेऽथ ते मोदमानास्तिष्टन्ती’’ति अन्यौषधिम्लानिकालेऽपि मोदमानानां दीर्घशूकानामेव यवशब्देन ग्रहणं तद्वदित्यर्थः ।
नन्वेवं घटादौ सत्यशब्दप्रयोगो न स्यात् । श्रौतयोगस्याभावादित्यत उक्तम् ।। वेद इति ।। श्येनेन यजेतेति विहिते यागे यथा सामानाधिकरण्यात् श्येननामकत्वेन प्रसिद्धेऽनेकशक्तिकल्पनाभयात् श्येनशब्दस्य तद्वाचकत्वानभ्युपगमेऽपि ‘यथा श्येनो निपत्यादत्त एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते’ इत्यर्थवादावगतनिपत्यादायकत्वसादृश्येन पक्षिजात्योपमितगौणत्वद्वारेण वाऽप्तप्रसिद्धिः श्येनशब्दः पुनरितरेषु यागेषु धर्मातिदेशाय समानमितरच्छ्येनेनेति प्रयुज्यमानो गौणोऽपि क्लृप्तत्वाद्यागविषयत्वेनैवाश्रीयते, लोके तु श्येनत्वजात्यां रूढ्या पक्षिपरः, तथा लक्षणोक्तौ महारूढियोगाभ्यां सत्यादिशब्दा ब्रह्माभि-दधति । लोके तु रूढ्या योगेन वा तद्व्यवहार इति न दोषः । प्रत्युताबाध्यस्वरूपभिन्ने घटादौ त्वन्मत एव सत्यशब्दप्रयोगो न स्यादिति भावः ।
ननु धर्मातिदेशादिव्यवहारसिद्ध्यर्थं केनचिद्गुणयोगेन श्येनशब्दस्य यागविशेषनामत्वाङ्गी-करणमर्थवत् । इह तु सत्यशब्दस्य रूढित्यागेन योगाङ्गीकारे न विशेषहेतुरस्तीत्याशङ्कां स्मृतिपादीयवार्तिकसम्मत्या परिहरति ।। उक्तं चेति ।। गौणं योगादिना लब्धम् । यथा श्येनशब्दस्य यागादिः ।। लाक्षणिकमिति ।। पुरोडाशानलङ्कुर्युरित्यादौ पुरोडाशशब्दस्य धानाः करम्भः पुरोडाशः परीवापः पयश्चेति सवनीयहविःपञ्चकं लाक्षणिकोऽर्थः । अश्ववालः प्रस्तर इत्यादौ काशानामश्ववालशब्दवाच्यत्वम् । तेषां प्रस्तरकार्ये विधानमिति वाक्यभेदोऽपि वेदाङ्गीकृतत्वान्न दोष इत्यर्थः । उक्तं चात्रैव वार्तिके ‘अथापि गौणशब्दत्वं तथापि बल-वत्तरम् । स्वतन्त्रस्य हि वेदस्य गौणत्वं न विचार्यते’ इति । तस्माच्छास्त्रगतैवैक्य-प्रतिपत्तिर्बलीयसी । न समामुक्तकाचारैर्विप्रकृष्टैः ससङ्करैरिति च । युक्त्यन्तरमभ्युच्चिनोति ।। किञ्चेति ।। ‘विज्ञानमानन्दं ब्रह्म’ ‘रातिर्दातुः परायणम् । तिष्ठमानस्य तद्विद’ इत्यत्र बृहदारण्यके यथा आनन्दं ब्रह्मेत्यपरिच्छिन्नानन्दरूपत्वं ब्रह्मणो लक्षणं यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्न बिभेति कदाचनेति श्रुतिबलादित्यर्थः । आनन्दमिति लिङ्गव्यत्ययश्च्छान्दसत्वात् । मिथ्यात्वेऽर्थापत्यन्तरमाशङ्क्य निराकरोति ।। नापीति ।। इतिहाससमत्या द्रढयति ।। भारत इति ।। उद्योगपर्वणीति शेषः । सन-त्सुजाते ‘यदिदं शृृणोमि मृत्युर्हि नास्तीति तवोपदेशम् । देवासुरा आचरन्ब्रह्मचर्याममृत्यवे तत्कतरन्नु सत्यम्’ हे सनत्सुजात मृत्युः संसारो नास्तीति तवोपदेशं शृृणोमि । देवासुराः । येषां च विरोधः शाश्वतिक इति नैकवद्भावः । बल्यादीनां शाश्वतिकविरोधाभावात् । पुनरमृत्यवे मृत्योरभावाय ब्रह्मचर्यमाचरन्निति मृत्योः सत्वमवगम्यते । न ह्यविद्यमानस्य मिथ्याभूतस्य वा निवृत्तये ब्रह्मचर्याचरणं सम्भवति । ब्रह्मचर्यं नाम वृत्ताध्ययनसम्पत्तिः । वृत्ताध्ययनसम्पत्तिर्ब्रह्मचर्यमितीरितमिति वचनात् । तथा च मृत्युरस्ति नास्तीत्येतयोरर्थयोः कतरत् सत्यमिति धृतराष्ट्रेण सनत्सुजातं प्रति पृष्टे तं प्रति उभे सत्ये इत्यादि धृतराष्टं प्रति सनत्सुजातवाक्यम् । हे क्षत्रियाद्य क्षत्रियश्रेष्ट संसारस्तन्मोक्षश्चेत्युभे अपि सत्ये एव प्रवृत्ते । प्रवृत्तं प्रवृत्तिरनयोरस्ति ते प्रवृत्ते । इश्वरेणेति शेषः । भावनिष्टान्तात्प्रवृत्तशब्दान्मत्वर्थी-योकारप्रत्ययः । अथवा हे क्षत्रिय क्षत्रकुलोद्भव । आद्यप्रवृत्ते इत्येकं पदम् । आद्येन भगवता प्रवर्तिते । अन्तर्णीतण्यर्थोऽयं प्रवृत्तशब्दः । बन्धको भवपाशेन भवपाशाच्च मोचकः । कैवल्यदः परं ब्रह्म विष्णुरेव न संशय इति स्कन्दपुराणोक्तेः । तयोर्मध्ये अयं प्रत्यक्षादिप्रमितः । मृत्युः संसारः मोहः । मुह्यतेऽनेनेति मोहः । मोहोद्भवः संसार इत्यर्थः । मोहश्चेत्तर्हि मिथ्या स्याच्छुक्तिरजतवदिति । नेत्याह । कवीनां ब्रह्मरुद्रादीनां संमतः सत्यत्वेनेति । माहेशब्दार्थमाह ।। प्रमादमिति ।। प्रमादोऽनवधानता । अहं मृत्युं संसारं प्रमादं तत्त्वानवधारणोद्भवं ब्रवीमि । वै इत्यनोक्तेऽर्थे श्रुतिप्रसिद्धिं दर्शयति । एष पन्था एतत्कर्म एतद्ब्रह्म एतत्सत्यं तस्मान्न प्रमाद्येतेति ह्यैतरयश्रुतिः । क्वचिन्मोहान्मृत्युरिति पाठः । अप्रमादात् प्रमादविरोधिब्रह्मतत्वावधारणोदिततत्प्रसादादमृतत्वं मोक्षं ब्रवीमि । इति सनत्सुजातश्लोकार्थः ।। अज्ञानाधीन इति ।। परमात्मस्वातन्त्र्याज्ञानाधीन इत्यर्थः ।
।। सत्यस्य सत्य इति श्रुतार्थापत्तिप्रमाणभङ्गः ।।