जडेशभेदे जडजीवभेदे च ..

२१. भेदपञ्चकेऽनुमानानि

न्यायामृतम्

जडेशभेदे जडजीवभेदे च (१) ब्रह्म जीवो वा अनात्मप्रतियोगिकधर्मिज्ञानाबाध्य-भेदवान्, पदार्थत्वाद्, घटवत् (२) ब्रह्म जीवो वा घटप्रतियोगिकधर्मिज्ञाना-बाध्यभेदवान्, घटासम्बद्धकालसम्बन्धित्वात्, तदसम्बद्धदेशसम्बन्धित्वात्, तज्जनका-जन्यत्वाद् वा पटवत् । (३) ब्रह्म जीवो वा जडप्रतियोगिकधर्मि ज्ञानाबाध्यभेदवान्, जडानात्मकत्वाद्, यदेवं तदेवं यथा दूरस्थवनस्पत्योरेकः । विपक्षे तु घटसिद्ध्यैव ब्रह्मसिद्ध्या वेदान्तवैयर्थ्यम् । ब्रह्मणो जडत्वानित्यत्वाद्यापत्तिः । मुक्तिसमानाधिकरण-संसाराधारस्य जीवस्य जडवन्निवृत्यापत्तिः । गौरोऽहमित्यादिज्ञानं च प्रमा स्यादित्यादिबाधकम् ।

जडानामन्योन्यं भेदे तु– (१) घटस्तत्त्वतश्शुक्त्यभिन्नो न शुक्तिसम्बद्धकाला-सम्बन्धित्वात्, तज्जनकाजन्यत्वात्, शुक्त्यारोपितरूप्यवत् । परमतेऽपि व्यावहारिक-भेदस्य सत्त्वान्नासिद्ध्यादि शंक्यम् । अन्यथा भेदसिद्ध्यध्यसिद्ध्योेर्दोषतदभाव-योश्चाभेदेन स्वक्रियादिविरोधः स्यात् ।

(२) अनात्मा स्ववृत्तिधर्मानाधारज्ञानाबाध्यान्तर्गणिकभेदवान्, पदार्थत्वाद्, आत्मवत् । विपक्षे दूरस्थवनस्पत्योश्शुक्तिरूप्ययोश्चाभेदग्राहि प्रत्यक्षं तत्त्वावेदकं स्यात् मुक्तिसंसारादिसाङ्कर्यं च स्यादित्यादि बाधकम् ।

आत्मनां परस्परमात्मानात्मनोश्च तात्त्विकभेदे (१) अनात्मा, स्वावृत्ति-धर्माधिकरणप्रतियोगिक प्रतियोगिज्ञानाबाध्यभेदाधिकरणं, यत् स्वावृत्तिधर्माधिकरणं तत् प्रतियोगिकप्रतियोगिज्ञानाबाध्यभेदाधिकरणम्, पदार्थत्वाद्, आत्मवत् । पक्षे स्वावृत्तिधर्माधिकरणमात्मा, ततो भिन्नादात्मान्तराद्भिन्नत्वेन साध्यसिद्धिः । दृष्टान्ते तु स्वावृत्तिधर्माधिकरणं जडं, ततो भिन्नाज्जडान्तराद्भिन्नत्वेन । भेदस्य तात्त्विकत्वार्थं प्रतियोगि ज्ञानाबाध्येति विशेषणम् ।

जीवस्य ब्रह्मतो जीवाच्च जडस्य सत्यभेदे– पृथिवी, ब्रह्मप्रतियोगिकधर्मिज्ञाना-बाध्यभेदाधिकरणं यदप्त्वाद्यनधिकरणं तत् प्रतियोगिकप्रतियोगिज्ञानाबाध्यभेदवती, वस्तुत्वाद्, अम्बुवत् । अप्त्वादीत्यादिशब्देन तत्तद्वादिनः प्रति तत्तद्वादिसिद्धाः पृथिवी-त्वादन्ये जडनिष्ठा धर्मा विवक्षिताः । पक्षे ब्रह्मभिन्नाज्जीवाद्भिन्नत्वेन साध्यसिद्धिः । दृष्टान्ते तु ब्रह्मभिन्नात्पार्थिवाद्भिन्नत्वेनेति ज्ञेयम् ।

जीवस्य ब्रह्मजीवान्तराभ्यां जीवाच्च जडस्य भेदे– पृथिवी, ब्रह्मप्रतियोगिकधर्मि-ज्ञानाबाध्यभेदाधिकरणम् यदप्त्वाद्यनधिकरण् आन्तर्गणिकभेदवच्च तत् प्रतियोगिक-प्रतियोगिज्ञानाबाध्यभेदवती, वस्तुत्वाद्, अम्बुवत् । अत्र जीवस्य जीवान्तरादपि भेदार्थं पूर्वस्मादधिकमान्तर्गणिकभेदवदिति विशेषणम् । अत्र पक्षे ब्रह्मतः परस्परं च भिन्नाज्जीवाद्भिन्नत्वेन साध्यसिद्धिः । दृष्टान्ते तु ब्रह्मतः परस्परं च भिन्नात्पार्थिवाद् भिन्नत्वेनेति ज्ञेयम् । जीवस्य ब्रह्मजीवान्तराभ्यां जडस्य च जीवाद् ब्रह्मणो जडाच्च भेदे– पृथिवी, ब्रह्मप्रतियोगिकधर्मि ज्ञानाबाध्यभेदाधिकरणं यदप्त्वाद्यनधिकरणं आन्तर्गणिकभेदवच्च तत् प्रतियोगिकप्रतियोगिज्ञानाबाध्यभेदवत्त्वे सति अप्त्वाद्य-नधिकरणासंसारिधर्मिकधर्मिज्ञानाबाध्यभेदप्रतियोगिनी, वस्तुत्वाद् अम्बुवत् । अत्र च ब्रह्मणो जडादपि भेदार्थं पूर्वस्मादधिकमप्त्वाद्यनधिकरणासंसारीत्यादिविशेषणम् । अत्र पक्षे अप्त्वाद्यनधि करणासंसारि ब्रह्म, तद्धर्मिकभेदप्रतियोगित्वेन साध्यसिद्धिः । दृष्टान्ते तु अप्त्वाद्यनधिकरणासंसारि पार्थिवं, तद्धर्मिकभेदप्रतियोगित्वेनेति ज्ञेयम् ।

भेदमात्रे तु (१) ब्रह्म, भेदहीनं नावतिष्ठते स्वज्ञानाबाध्यभेदवद्वा, पदार्थत्वाद् घटवत् । (२) अनात्मा स्वान्यज्ञानाबाध्यभेदाधिकरणम्, पदार्थत्वाद्, आत्मवत् । (३) ब्रह्मभेदो न सर्वनिष्ठात्यन्ताभाव प्रतियोगी, ब्रह्मनिरूप्यत्वाद्, ब्रह्माभेदवत् । (४) ब्रह्मज्ञानं, स्वाबाध्यभेदवद्विषयम्, ज्ञानत्वात्, शुक्तिज्ञानवत् । (५) घटो घटसंसर्गानवच्छिन्नप्रतियोगिताकपटादिधर्मिकत्रैकालिकाभावप्रतियोगी, द्रव्यत्वात्, पटवत् । अत्र विपक्षे बाधकानामुक्तत्वात् नाभाससाम्यादि । (६) एवं समानाधि-करणकर्मप्रागभावसमानकालीन ज्ञानबाधायोग्यो भेदः परमार्थसन्, प्रातिभासिकत्वा-नधिकरणत्वे सत्यसत्त्वानधिकरणत्वात्, स्वासत्त्वागोचरप्रमां प्रति साक्षाद्विषयत्वाद्, आरोपितमिथ्यात्वकत्वात्, कल्पकरहितत्वात्, स्वविषयकसाक्षात्कारात्पूर्वभावित्वाच्च आत्मवत् । (७) जीवब्रह्मभेदः परमार्थसन् अनादित्वात् आत्मवत् । (८) साक्षिवेद्यः सुखदुःखादिभेदः परमार्थसन्, अनिषेध्यत्वेन दोषाजन्यज्ञानं प्रति साक्षाद्विषयत्वाद्, आत्मवत् । (९) धर्माधर्मयागदानादिभेदः परमार्थसन्, श्रुति-तात्पर्यविषयत्वाद्, ब्रह्मवत्, इत्याद्यूह्यम् । अत्र कण्टकोद्धारः जगत्सत्यत्वमानप्रस्तावे कृतः । इति भेदपञ्चकेऽनुमानानि ।। २१ ।।

अद्वैतसिद्धि:

एवं जडेशभेदे जडे जीवभेदे च तात्त्विकं प्रमाणं नास्ति । (१) ब्रह्म, जीवो वा, अनात्म-प्रतियोगिकधर्मि ज्ञानाबाध्यभेदवान्, पदार्थत्वाद्, घटवत्, (२) ब्रह्म जीवो वा, घटप्रतियोगिक-धर्मिज्ञानाबाध्यभेदवान्, घटासम्बन्धि कालसम्बधित्वात्, तदसम्बन्धिदेशसम्बन्धित्वात्, तज्जनका-जन्यत्वाद् वा पटवत्, (३) ब्रह्म जीवो वा, जडप्रतियोगिक धर्मिज्ञानाबाध्यभेदवान्, जडानात्मकत्वाद्, यदेवं तदेवम्, यथा दूरस्थवनस्पत्योरेक इत्यादिषु पूर्वोक्तदोषानतिवृत्तेः । परिच्छिन्नत्वस्य जडत्वस्य जन्यत्वस्य चोपाधित्वाद्, अप्रयोजकत्वाच्च । जीवो ब्रह्म वा, आत्मप्रतियोगिक तादृग्भेदाधिकरणम्, पदार्थत्वात् इत्याद्याभाससाम्याच्च । न च– घटाभेदे घटसिद्ध्यैव तत्सिद्ध्या वेदान्तवैयर्थ्यम्, ब्रह्मणो जडत्वानित्यत्वाद्यापत्तिः, मुक्तिसमानाधिकरणबन्धाधारस्य जीवस्य जडवन्निवृत्त्यापत्तिः, गोरोऽह-मित्यादिप्रतीतिश्च प्रमा स्यादित्यादिविपक्षबाधकान्नाभाससाम्यादिकमिति वाच्यम् । स्वप्रकाशत्वेन सर्वप्रत्ययवेद्यत्वेन च ब्रह्मसिद्धावपि सविलासाज्ञाननिवर्तकज्ञानाय वेदान्तसाफल्यस्य बहुधाऽभिधानात् । घटादौ कल्पितव्यक्त्यन्तरेणाकल्पितभेदस्याभावेऽपि न यथा कल्पितव्यक्त्यात्मकत्वं तद्वत् प्रातिभासिकत्वतद्वद्विशेषदर्शनेन निवृत्तिर्वा कल्पितव्यक्त्यन्तरेणैक्यज्ञानप्रमात्वं वा, तथा प्रकृतेऽपि कल्पितजडेन तदभावेऽपि न तदात्मकत्वादीति न विपक्षबाधकस्याप्यप्रसरः ।

एवं जडानाम् अन्योन्यभेदेऽपि नानुमानम् । (१) घटः, तत्त्वतः शुक्त्यभिन्नो न शुक्तिसम्बद्ध-कालासम्बन्धित्वात्, तज्जनकाजन्यत्वात् तत्रारोपितरूप्यवद्, व्यावहारिकभेदस्य त्वयाऽप्यङ्गीकारेण न पक्षदृष्टान्ताद्यनुपपत्तिः । अन्यथा भेदसिद्ध्यसिद्ध्योर्दोषतदभावयोश्चाभेदेन स्वक्रियाविरोधः स्यादिति । अत्र तात्त्विकशुक्त्यभिन्नत्वरूपप्रतियोग्यप्रसिद्ध्या साध्याप्रसिद्धेः । तत्त्वत इत्यस्य नेत्यत्र विशेषणत्वे सुतराम् अप्रसिद्धेः । घटादिसमसत्ताकभेदमात्रेण हेतोरुपपत्त्या अप्रयोजकत्वाच्च, भेदस्य तात्त्विकत्वे बाधस्योक्तत्वेन बाधाच्च । (२) अनात्मा, स्ववृत्तिधर्मानाधारज्ञानबाध्यान्तर्गणिक भेदवान्, पदार्थत्वादात्मवद् । विपक्षे च दूरस्थवनस्पत्योः शुक्तिरूप्ययोश्चाभेदग्राहि प्रत्यक्षं तत्त्वावेदकं स्यात् मुक्तिसंसारादिसाङ्कर्यं च स्यादित्यादि बाधकमिति यत्, तन्न, एकत्र घटे कल्पिता ये अनेके घटाः, तेषु स्ववृत्तिधर्मानधिकरण घटज्ञानाबाध्यभेदवत्सु व्यभिचारात् । यत्किञ्चित्स्ववृत्तिधर्मानाधारोक्तौ घटत्वानधिकरणपटज्ञानाबाध्य भेदेनात्मज्ञानबाध्येनार्थान्तरम् । स्ववृत्त्यशेषधर्मानाधारोक्तौ तव मते ब्रह्मणोऽपि वाच्यत्वादिकेवलान्वयिधर्माधारत्वेन साध्याप्रसिद्धेः । कल्पितेन सह तात्त्विकभेदाभाववत् तात्त्विकाभेदस्याप्यभावेन उदाहृतस्थले तत्त्वावेदकत्व साङ्कर्यादीनाम् अप्रसङ्गात् ।

यत्तु आत्मनामात्मानात्मनोश्छ परस्परं तात्त्विकभेदे– अनात्मा, स्वावृत्तिधर्माधिकरण-प्रतियोगिकप्रतियोगि ज्ञानाबाध्यभेदाधिकरणं यत्स्वावृत्तिधर्माधिकरणं तत्प्रतियोगिकप्रतियोगिज्ञानाबाध्य-भेदाधिकरणम्, पदार्थत्वादात्मवत् । पक्षे स्वावृत्तिधर्माधिकरणमात्मा, ततो भिन्नादात्मान्तराद्भिन्नत्वेन साध्यसिद्धिः । दृष्टान्ते च स्वावृत्तिधर्माधिकरणं जडम्, ततो भिन्नात् जडान्तरात् भिन्नत्वेन साध्य-सत्त्वमिति । तन्न । पक्षदृष्टान्तयोः स्वपदार्थप्रतियोगिपदार्थयोरननुगमेन व्याप्यत्वासिद्धेः । अजडत्व-स्योपाधित्वाच्च । जडत्वेन व्यतिरेकिणा सत्प्रतिपक्षाच्च । यदपि जीवस्य ब्रह्मतो जीवाच्च जडस्य सत्यभेदे– ‘पृथिवी, ब्रह्मप्रतियोगिकधर्मिज्ञानबाध्यभेदाधिकरणं यदप्त्वाद्यनधिकरणम्, तत्प्रतियोगिक-प्रतियोगि ज्ञानाबाध्यभेदवती, वस्तुत्वात्तोयवत्, अप्त्वादीत्यादिशब्देन तत्तद्वादिनः प्रति तत्तद्वादिसिद्धाः पृथिवीत्वभिन्नाः जडनिष्ठा धर्मा विवक्षिताः । पक्षे ब्रह्मभिन्नाज्ज्वीवाद् भिन्नत्वेन साध्यसिद्धिः । दृष्टान्ते तु ब्रह्मभिन्नपार्थिवभिन्नत्वेनेति । तन्न । अप्त्वाद्यनधिकरणत्ववज्जीवत्वानधिकरणेत्यपि विशेषणं दत्वा जीवब्रह्मभिन्नात्मनोऽपि साधनप्रसङ्गाद्, गन्धाधारत्वादिव्यतिरेकिणा सत्प्रतिपक्षसम्भवाच्च, धर्मिपदविकल्पनिबन्धनदोषतादवस्थ्याच्च ।

एतेन– जीवस्य ब्रह्मजीवान्तराभ्यां जीवाच्च जडस्य भेदे– पूर्वप्रयोग एव जीवस्य जीवान्तराद्भेदसिध्यर्थम् अन्तर्गणिकभेदवदिति ‘अप्त्वानधिकरणे’त्यत्र विशेषणं दत्वाऽनुमानम् । अत्र च पक्षे ब्रह्मणः परस्परं च भिन्नाज्जीवाद् भिन्नत्वेन साध्यसिद्धिः । दृष्टान्ते तु ब्रह्मणः परस्परञ्च भिन्नात् पार्थिवाद् भिन्नत्वेनेति निरस्तम् । जीवस्य ब्रह्मजीवान्तराभ्यां जडस्य च जीवाद् ब्रह्मणो जडाच्च भेदे– ‘पृथिवी, ब्रह्मप्रतियोगिकधर्मिज्ञानाबाध्यभेदाधिकरणम् अप्त्वाद्यनधिकरणमान्तर्गणिकभेदवच्च यत्तत्प्रतियोगिकप्रतियोगिज्ञानाबाध्यभेदवत्त्वे सति अप्त्वाद्यनधिकरणासंसारि धर्मिकधर्मिज्ञानाबाध्यभेद-प्रतियोगिनी, वस्तुत्वादम्बुवदित्यत्र ब्रह्मणो जडादपि भेदार्थं पूर्वस्मादधिकम् अप्त्वानधि करणासंसारी-त्यादि विशेषणम् । अत्र पक्षे अप्त्वाद्यनधिकरणम् असंसारि ब्रह्म, तद्धर्मिकभेदप्रतियोगित्वेन साध्यसिद्धिः, दृष्टान्ते त्वप्त्वाद्यनधिकरणासंसारि पार्थिवम्, तद्धर्मिकभेदप्रतियोगित्वेन ज्ञेयम् । अत्र जीवत्वानधिकरणत्वस्य अप्त्वानधिकरणेत्यत्र विशेषणत्वेन पूर्ववदाभाससाम्यात्, पाकजरूपाधि-करणत्वादिना सत्प्रतिपक्षाच्च, धर्मादिपदविकल्पग्रासाच्च ।

एवं भेदमात्रेऽपि नानुमानम् । (१) ब्रह्म, भेदहीनं नावतिष्ठते स्वज्ञानाबाध्यभेदवद्वा, पदार्थत्वाद्, घटवद् इति । तन्न मुक्त्यसहवृत्तित्वस्य जडत्वस्य चोपाधित्वात्, स्वपदविकल्पग्रासाच्च । एतेन (२) अनात्मा स्वान्यज्ञानाबाध्य भेदाधिकरणम् । पदार्थत्वाद्, आत्मवदिति– निरस्तम् । (३) ब्रह्मभेदो न सर्वनिष्ठात्यन्तभावप्रतियोगी, ब्रह्मनिरूप्यत्वाद्, ब्रह्माभेदवदित्यत्र ब्रह्माभिन्नावृत्तित्वमुपाधिः, ब्रह्माभेदस्याब्रह्मनिरूप्यत्वेन तदनिरूप्यतया साधनवैकल्यं च । (४) ब्रह्मज्ञानं, स्वाबाध्यभेद-वद्विषयकम्, ज्ञानत्वाच्छुक्तिज्ञानवदित्यत्राज्ञानात्मविषयत्वमुपाधिः । स्वपदेन ब्रह्मज्ञानोक्तौ तदबाध्यभेदाप्रसिद्ध्या साध्याप्रसिद्धिः, शुक्तिज्ञानोक्तौ सिद्धसाधनम् । (५) घटो घटसंसर्गा-नवच्छिन्नप्रतियोगिताक पटादिधर्मिकत्रैकालिकाभावप्रतियोगी, द्रव्यत्वात्, पटवदित्यत्र काल्पनिका-भावस्यापि कालत्रयवृत्तित्वसम्भवेन सिद्धसाधनम् । घटसंसर्गानवच्छिन्नेतिवत्तादात्म्यानवच्छिन्नेत्यपि विशेषणं दत्वा पञ्चमाभावसाधनस्यापि प्रसङ्गश्च । विपक्षबाधकाभावस्य उभयत्र सत्त्वात् ।

(६) समानाधिकरणकर्मप्रागभावसमानकालीनज्ञानबाधायोग्यो भेदः, परमार्थसन्, प्रातिभासि-कत्वानधि करणत्वे सत्यसत्त्वानधिकरणत्वात्, स्वासत्त्वागोचरप्रमां प्रति साक्षाद्विषयत्वाद्, आरोपितमिथ्यात्वकत्वात्, कल्पकरहितत्वात्, स्वविषयकसाक्षात्कारात् पूर्वभावित्वाद्, आत्मवत् । (७) ब्रह्मजीवप्रतियोगिको भेदः, परमार्थसन्, अनादित्वादात्मवत् । (८) साक्षिवेद्यसुखदुःखादिभेदः, परमार्थसन्, अनिषेध्यत्वेन दोषाजन्यज्ञानं प्रति साक्षाद्विषयत्वात् (९) धर्माधर्मयागदानादिभेदः, परमार्थसन्, श्रुतितात्पर्यविषयत्वात् इत्यादिष्वात्मसाधारणधर्माणां चेतनत्वादीनामुपाधित्वं जडत्वादिना सत्प्रतिपक्षश्च । मिथ्यात्वसाधकानां प्राबल्यस्योक्तत्वेन तैर्बाधश्च । आद्ये च प्रातिभासिकत्वस्य दोषप्रयुक्तभानत्वात्मकत्वे असिद्धिः । ब्रह्मज्ञानेतरबाध्यत्वोक्तौ चरमवृत्त्यव्यवहित प्रातिभासिके व्यभिचारश्च । द्वितीयहेतौ तादृक्प्रमाविषयत्वस्य भेदपारमार्थिकत्वसिद्ध्यधीनत्वेन साध्या-विशेषपर्यवसानम् । तृतीये चरमवृत्त्यन्यबाध्यमिथ्यात्वकत्वस्योपाधित्वम् । चतुर्थे अविद्यारूपकल्पक-सत्त्वेनासिद्धिः । पञ्चमे दृष्टिसृष्टिपक्षे असिद्धिः, इतरत्राप्रयोजकता । अनादित्वं च अज्ञानादौ व्यभिचारि । दोषाजन्यज्ञानं प्रतीत्यत्र श्रुतितात्पर्यविषयत्वादित्यत्र चासिद्धिः । साक्ष्यवच्छेदकवृत्तेर्दोष-जन्यत्वात्, मुख्यतस्तात्पर्यस्य तत्राभावात् । तस्माद् भेदपञ्चकं नानुमानविषयः ।। इत्यद्वैतसिद्धौ भेदपञ्चके अनुमानभङ्गः ।। २१ ।।

न्यायामृततरङ्गिणी

।। ब्रह्म जीवो वेति ।। न च परिच्छिन्नत्वं जडत्वं वोपाधिः । ब्रह्मणि साध्याभावनिश्च-येन व्यतिरेकहीनत्वात् ।। तत्वतः शुक्त्यभिन्नो नेति ।। न च तत्वतः शुक्त्यभिन्नत्वरूप-प्रतियोग्यप्रसिद्व्या साध्याप्रसिद्धिः । औतमते ब्रह्मणि द्वैतमते च शुक्तौ तत्प्रसिद्धेः ।। अनात्मेति ।। ईशभेदेनार्थान्तरवारणाय अन्तर्गणिकेति । नन्वेकत्र घटे कल्पिता येऽनेके घटास्तेषु स्ववृत्तिधर्मानधिकरणघटज्ञानबाध्यभेदवत्सु व्यभिचारः । मैवम् । आरोपितघटावृत्ति धर्मवत्त्वस्याधिष्ठानभूते घटेऽसिद्धेः । ननु यत्किञ्चित्स्ववृत्तिधर्मानाधारोक्तौ घटत्वानधिकरण-पटज्ञानाबाध्यभेदेनात्म ज्ञानबाध्येनार्थान्तरम् । स्ववृत्त्यशेषधर्मानाधारोक्तौ तव मते ब्रह्मणोऽपि वाच्यत्वादिकेवलान्वयिधर्माधारत्वेन साध्यासिद्धिः । मैवम् । तादृशज्ञानबाध्यत्वानां सामान्याभावस्य साध्यत्वान्नार्थान्तरम् ।। स्वावृत्तीत्यादि ।। स्वशब्देन घटादिः तदवृत्ति-धर्माधिकरणं चैत्रः तत्प्रतियोगिकश्चैत्रज्ञानाबाध्यो यश्चैत्रभेदः तदधिकरणं यो मैत्रः घटाद्य-वृत्तिधर्माधिकरणं च तत्प्रतियोगिको मैत्रज्ञानाबाध्यश्च यो मैत्रभेदः तदधिकरणम् । एतेन घटादीनामात्मनः सकाशादात्मनां च मिथो भेदः सिध्यति । न चाजडत्वमुपाधिः । उपाधिव्यतिरेकवति जडे साध्यव्यतिरेकानिश्चयात् ।।

जीवस्य ब्रह्मत इति ।। न चात्र जीवत्वानधिकरणेत्यपि साध्ये विशेषणं दत्वा जीवब्रह्मभिन्नात्मनोऽपि साधनप्रसङ्ग इति वाच्यम् । बाधात्तदसिद्धेः । जीवब्रह्मजडानां तद्भेदानां चोभयसिद्धानां तात्विकत्वमात्रस्य साधनान्नातिप्रसङ्गः । जीवाज्जडस्य भेदसिध्यर्थम् अप्त्वादीति विशेषणम् । एवमग्रेऽपि बोध्यम् ।। ब्रह्मप्रतियोगिकेत्यादि ।। आद्यमधि-करणान्तं जीवस्य ब्रह्मणः सकाशाद्भेदसिध्द्यर्थं, अप्त्वाद्यनधिकरणमिति जडात्, आन्तर्गणिक-भेदवदिति जीवान्तरात् । एवं च ब्रह्मजडजीवान्तरेभ्यो भिन्नाज्जीवात्पृथिव्यां भेदः सत्यन्तेन सिध्यति । द्वितीयेनाप्त्वादीत्यनेनेश्वरस्य जडभेदः । तादृशादीश्वराद्भेदः पृथिव्यां सिध्यतीति पञ्चापि भेदा युगपत्सिध्यन्तीत्यर्थः ।। भेदहीनमिति ।। न च मुक्त्यसहवृत्तित्वं जडत्वं चोपाधिः । व्यतिरेकहीनत्वात् । मुक्तिकाले साध्याव्याप्तेश्च ।। स्वाबाध्येति ।। न चानात्मविषयत्वमुपाधिः । व्यतिरेकहीनत्वात् ।। घटसंसर्गेति ।। न च काल्पनिकाभावस्य कालत्रयवृत्तित्वसम्भवेन सिद्धसाधनम् । काल्प निकस्य स्वरूपेणात्यन्ताभावप्रतियोगितया एककालसम्बन्धस्यापि तत्राभावात् । ननु घटसंसर्गानवच्छिन्नेतिवत्तादात्म्यानव च्छिन्नेत्यपि विशेषणं दत्वा पञ्चमाभावसाधनस्यापि प्रसङ्ग इत्यत आह– अत्र चेति ।। समानाधि-करणेति ।। मिथ्यात्वेनोभयसिद्धभेदव्यावृत्तयेऽबाध्यान्तं भेदविशेषणम् ।। इति भेदपञ्चकेऽनुमानानि ।। २१ ।।

न्यायामृतकण्टकोद्धारः

ननु तथापि न भेदपञ्चकम् अनुमानगम्यम् । जडजीवभेदे जडानाम् अन्योन्यभेदे चानुमानानुक्तेः । जीवो ब्रह्म वा जडभिन्नं, तदनात्मकत्वादित्यादीनां कल्पितभेदेन सिद्धिसाधनत्वादिना दुष्टत्वादित्यत आह– जडेशभेद इत्यादिना । अत्र ‘ब्रह्म जीवो वा अनात्मभिन्नं न वेति विप्रतिपत्तौ प्रथमं, घटभिन्नं न वेति विप्रतिपत्तौ द्वितीयम् । अतो नार्थान्तरमिति द्रष्टव्यम् । अत्र जीवब्रह्मशब्देन संसाराधारतदनाधारचैतन्ये विवक्षिते । अतो विशिष्टपक्षत्वे विशिष्टज्ञानस्य कल्पिताबाधकत्वेन सिद्धसाधनतेति परिहृतम् । साध्ये कल्पितभेदेन सिद्धसाधनवारणाय धर्मीति । न च जडत्वं परिच्छिन्नत्वं जन्यत्वं वा उपाधिरिति वाच्यम् । ब्रह्मपक्षे जीवे, जीवपक्षे ब्रह्मणि साध्याव्यापकत्वात् । न च मन्मते साध्यम् असम्प्रतिपन्नमिति वाच्यम् । तथापि सन्दिग्धसाध्यव्यापकत्वेन प्रतिपक्षोन्नायकत्वासम्भवात् । अनुमानप्रयोगवेलायां च व्यभिचारानुन्नायकत्वात् । जडस्यापि मया नित्यस्याङ्गीकृतत्वेन त्वयाप्यज्ञानस्यानादित्वाङ्गी कारेण तत्र जन्यत्वोपाधेः तथाऽविद्यायाः परिच्छिन्नत्वहेतुभङ्गे परिच्छिन्नत्वाभावस्य समर्थितत्वेन परिच्छिन्नत्वस्यापि तत्र साध्याव्यापकत्वात् । जडत्वहेतुभङ्गोक्तन्यायेनाज्ञानत्वादिरूपस्य जडत्वस्य पक्षे सत्वेन साधनाव्यापकत्वाभाव निश्चयाच्च । न च ब्रह्म जीवो वा स्वात्मप्रतियोगिकधर्मिज्ञानाबाध्यभेदवान् पदार्थत्वात् घटवदित्याभाससाम्यमिति वाच्यम् । बाधितत्वेन साम्याभावात् । प्रकृते च बाधाभावात् ।

अन्यथा विप्रतिपत्त्यभावापत्तेः । अनुकूलतर्काभावात् । प्रकृते त्वनुकूलतर्कस्य वक्ष्यमाणत्वात् ।

द्वितीयहेतौ पटे व्यभिचारवारणाय घटासम्बद्धेति । नन्वत्र सर्वघटासम्बद्धत्वं विवक्षितम् अथवा यत्किञ्चिद् घटासम्बद्धत्वम् ? आद्ये घटे व्यभिचारः । न हि घटकाले सर्वघट-सम्बन्धः । न वा यत्किञ्चिद् घटासम्बन्धाभावः । तथा च व्यर्थविशेषणत्वमिति चेन्न यद्घटप्रतियोगिकभेदवत्त्वं साध्यते तद्धटासम्बद्धत्वं विवक्षितम् । एवं च तद्धट एव व्यभिचारवारकत्वेन विशेषणसार्थक्यात् । घटान्तरे तु साध्यसत्वादेव न व्यभिचारः । यद्वा साध्ये हेतौ च घटशब्देन घटत्वावच्छिन्न एव विवक्षितः । एवं च घटे व्यभिचारवारणाय घटासम्बद्धेति विशेषणम् । न च पटदृष्टान्तानुपपत्तिः । न हि पटकालो घटत्वावच्छिन्ना-सम्बद्धः । पटकाले कस्यचिद् घटस्य सद्भावादिति वाच्यम् । पट शब्देन प्रकृत्यादेरुप-लक्षणात् । न च हेतुविशेषणाप्रसिद्धिरिति वाच्यम् । घटत्वावच्छिन्नासम्बद्धस्य प्रलयकालस्य प्रसिद्धत्वात् ।

ब्रह्म जीवो वा जडभिन्नं न वेति विप्रतिपत्तावाह– ब्रह्मेति । न च पूर्वाभेदः । तत्रानात्मत्वमात्मभिन्नत्वमात्रम् । इह तु जडमात्मभिन्नं वस्त्विति भेदात् हेत्वन्तराच्च । न चात्र जडानात्मकत्वं जडभेदः । तथा च कथं न साध्याविशेषः ? न च हेतौ धर्मीति पदाभावान्न साध्याविशेष इति वाच्यम् । घटप्रतियोगिकप्रातिभासिकभेदवति घटे व्यभिचारेण तस्य हेतावावश्यकत्वादिति चेन्न । जडानात्मकत्वं जडैक्याभावः । ऐक्यं च न भेदाभावः । तस्य भावरूपत्वात् विधिप्रत्ययगम्यत्वात् । यद्वा जडानात्मकत्वं जडतादात्म्यरहितत्वम् । जडतादात्म्यं च जडवृत्ति जडत्वादिरूपम् । न हि ब्रह्मजीवयोर्जडत्वादिकं परो मन्यते । अन्यथा मिथ्यात्वादौ हेतुत्वं न स्यात् । अत्र यद्यदनात्मकं तत्तदुक्तभेदवदिति सामान्यव्याप्तिः । अत एवाह– यथेति । विशेषव्याप्तौ तदसङ्गतत्वापत्तेः । ननूक्तान्यनुमानानि अप्रयोजकानि । विपक्षे बाधक•)भावादित्यत आह– विपक्षे त्विति । वेदान्तवैयर्थ्यमिति । ननु न वेदान्तवैयर्थ्यम् । ब्रह्मसाधकत्वेऽपि सविलासाविद्यानिवर्तकत्वात् । अत एवोक्तं सिद्धं तु निवर्तकत्वादितीति चेन्न । ब्रह्मज्ञानेनैव तन्निवृत्तिसम्भवात् । वेदान्तज्ञानमपि न वेदान्त-ज्ञानत्वेन निवर्तकम् । अन्यविषयकवेदान्तज्ञानादपि निवृत्तिप्रसङ्गात् । नापि तज्जनित-ब्रह्मज्ञानत्वेन । तज्जनितेत्यस्य व्यर्थत्वात् । नापि वेदान्तजनितनिर्विषयक ज्ञानत्वेन । निर्विषयस्य घटादिवद् ज्ञानत्वायोगादित्युक्तत्वात् । विस्तृतं चैतद् दृश्यत्वभङ्गे । तस्मादज्ञाना-निवर्तकस्य ज्ञानत्वायोगात् ब्रह्मज्ञानत्वमिच्छता तस्यैवाज्ञाननिवर्तकत्वमेष्टव्यम् । तथा च वेदान्तवैयर्थ्यम् ।।

ब्रह्मण इत्यादि ।। न च घटादौ कल्पितव्यक्त्यन्तरेणाकल्पितभेदाभावेऽपि यथा कल्पितव्यक्तितादात्म्याद्यनापत्तिः तथा ब्रह्मणि कल्पितेन जडेन कल्पितभेदाभावेऽपि तदात्मकत्वाद्यनापत्तिरिति वाच्यम् । मया घटादेः कल्पिते व्यक्त्यन्तरेणाकल्पितभेदाङ्गीकारेण दृष्टान्तासम्प्रतिपत्तेः । न च त्वदङ्गीकारो निष्प्रमाणक इति वाच्यम् । कल्पिताधिष्ठानभेदस्य बाधबोध्यत्वेन सप्रमाणकत्वात् । नेदं रजतमिति हि बाधः । न चैतस्य बाधकमस्ति । न च ब्रह्मज्ञानं बाधकम् । तद्बाधकत्वस्यासिद्धेः । न च प्रतियोगिनः कल्पितत्वे तद्भेदस्य कथम् अकल्पितत्वमिति वाच्यम् । ब्रह्मण्यनृतव्यावृत्त्यादेरकल्पितत्ववदुपपत्तेः । विस्तृतं चैतत् मिथ्यात्वसामान्यभङ्गे ।

घटः शुक्तितस्तत्वतो भिन्नो न वेति विप्रतिपत्तावाह– जडानामिति । नन्वत्र नञ्द्वय-पुरस्कारेण भेदसाधनं कुतः ? भेदवानित्यन्वयमुखेनैव साध्यतामिति चेन्न । तथा साधने तत्वत इति विशेषणेऽप्रसिद्धविशेषणत्वात् । तददाने सिद्धसाधनत्वात् । विप्रतिपत्तिरप्येवमेवेति नार्थान्तरतेति द्रष्टव्यम् । नन्वत्रापि तत्वत इति अभेदविशेषणं वा अभावविशेषणं वा ? नाद्यः । अप्रसिद्धविशेषणत्वात् । न द्वितीयः । अभेदाभावस्यापि तात्विकस्य मां प्रत्यसिद्धेः तद्दोषतावस्थ्यादिति चेन्न । तत्वत इत्यस्याभावविशेषणत्वात् । न चाप्रसिद्धविशेषणता । अनृतव्यावृत्त्यादेस्त्वया तात्विकस्याङ्गीकर्तव्यत्वात् । अन्यथा तस्य वेदान्तप्रयोजनत्वानु-पपत्तेः । यद्वाऽस्त्वभेदविशेषणम् । न चाप्रसिद्धिः । सा ह्यप्रमा वा ? अज्ञानं वा ? नाद्योऽनुपयोगात् । न द्वितीयः । प्रतिवादिवाक्यतस्तज्ज्ञानसम्भवात् । न च प्रमाण-प्रसिद्धिस्तत्रापेक्षिता । गौरवात् । यद्वा विशेष्ये विशेषणमिति न्यायेन अभावेऽभेदः । तत्र च पारमार्थिकत्वं शुक्तिप्रतियोगिकत्वं चेति साध्यप्रसिद्धिसम्भवात् । यद्वा पारमार्थिकत्वम् अभेदनिष्ठं धर्मत्वादित्यादिना सामान्यप्रसिद्धिसम्भवात् । एवं च यद्यपि तात्विकभेदवानित्यपि सम्भवति तथाप्येवं विप्रतिपत्तावयमपि प्रकार इत्यदोषः । न चाप्रयोजकत्व(म्•त् । घटादौ कल्पिततत्प्रतियोगिकभेदमात्रेण तदर्थक्रियाकारित्वादेरभावेन तात्विकभेदस्यैव तत्र प्रयोजकत्वात् । न च प्रतियोगिसमानसत्ताकभेदमात्रेण तदुपपत्तिरिति वाच्यम् । प्रातिभासिके व्यावहारिक प्रतियोगिसमानसत्ताकभेदस्य त्वन्मतेऽभावेनोक्तहेत्वभावापत्तेः । जडे आत्मप्रतियोगिकप्रतियोगिसमानसत्ताकभेदाभावेन तदर्थक्रियाकारित्वादेरापत्तेश्च । तस्मात् तात्विकभेदस्यैव प्रयोजकत्वमिति कथम् अप्रयोजकत्वम् ? न च बाधः । तात्विकत्वे बाधस्योक्तत्वादिति वाच्यम् । बाधकानां परिहृतत्वात् । नन्वनुमानात् प्राक् भेदाभावेन कथं पक्षदृष्टान्तहेतुभाव इत्यत आह– परमतेऽपीति । अन्यथा व्यवहारिकभेदानङ्गीकारे ।

अनात्मा स्वान्तर्गणिकभेदवान्न वेति विप्रतिपत्तावाह– अनात्मेति । अत्रानात्म-मात्रस्यात्मत्वावच्छिन्न प्रतियोगिक भेदवतः पक्षत्वम् । तेन विशेषाभावमादायात्मनः पक्षत्वात् सिद्धसाधनमिति न मन्तव्यम् । स्ववृत्तिधर्मानधिकरण प्रतियोगिको ज्ञानबाध्यत्वात्यन्ता-भाववान् यः स्वान्तर्गणिको भेदस्तद्वानिति साध्यार्थः । अत्र भेदवानित्युक्तेरात्मभेदमादाय सिद्धसाधनतापरिहाराय अन्तर्गणिकेति । बाध्यभेदेन तद्वारणाय ज्ञानेति । स्वभेदसिद्धि-वारणाय स्वेति । न च स्वभेदस्य बाधादेवासिद्धेर्व्यर्थं विशेषणमिति वाच्यम् । बाधानवतारदशायां तत्सिद्धिसम्भवात् । उद्देशसिध्यर्थत्वाच्च । ननु स्ववृत्ति इत्यत्र यावत्स्व-धर्मानाधारत्वं विवक्षितं, यत्किञ्चित्स्वधर्मानाधारत्वं वा ? नाद्यः । ब्रह्मणि स्ववृत्ति-केवलान्वयिधर्मसद्भावेन साध्याप्रसिद्धेः । न द्वितीयः । यत्किञ्चित्स्वधर्मानाधार पट-प्रतियोगिकपटज्ञानाबाध्यात्मज्ञान बाध्यभेदेन सिद्धसाधनमिति चेन्न । अस्तु तावदाद्यः । न चाप्रसिद्धिः । मया केवलान्वयिधर्मानङ्गीकारात् । द्वितीयेऽप्यदोषः । ज्ञानाबाध्येत्यत्र सामान्याभावस्य विवक्षितत्वेनोक्तदोषाभावात् । न चैकस्मिन् घटे कल्पितानेकघटेषु व्यभिचारः । तद्भेदस्य बाध्यत्वादिति वाच्यम् । कल्पितानामपि भेदस्य बाधाभावेना-बाध्यत्वात् । न हि धर्मिमिथ्यात्वं प्रतियोगिमिथ्यात्वं वा भेदमिथ्यात्वे प्रयोजकम् । किन्तु बाधाभाव एव । प्रकृते च शुक्तिरूप्यं शुक्तिवङ्गादिभिन्नं नेति बाधाभावात् । तथा च तद्भेदस्य बाध्यत्वाभावान्न तत्र व्यभिचारः । न च दृष्टान्तस्य साध्यवैकल्यम् । आत्मनो निर्धर्मकत्वेन स्वेतीत्युक्तसाध्याभावादिति वाच्यम् । सगुणत्ववादे आत्मधर्माणां साधितत्वात् ।।

साङ्कर्यं चेति ।। न च तात्विकभेदवत् तात्विकाभेदस्याप्यभावेनासाङ्कर्यमिति वाच्यम् । एवं वदता तात्विकाभेदः साङ्कर्ये प्रयोजक इत्युक्तं स्यात् । तच्च न शोभनम् । एतद्धटस्यै-तद्धटेन तात्विकाभेदस्य त्वन्मतेऽभावेनासाङ्कर्यापत्तेः । तस्मात् तात्विक भेद एवासाङ्कर्ये प्रयोजक इति तदभावे साङ्कर्यं स्यादेवेति भावः । आत्मनामात्मानात्मनोश्च युगपत् तात्विक-भेदः साधनीय इति समयबन्धेऽनुमानप्रकारमाह– आत्मनामिति । अत्र स्वशब्देना-नात्मत्वावच्छिन्नं विवक्षितम् । तदवृत्तिर्धर्म आत्मत्वादिरूपः । तदधिकरणमात्मा । तत्प्रतियोगिकप्रतियोगिज्ञानाबाध्यभेदाधिकरणं स्ववृत्तिधर्मानधि करणमात्मान्तरम् । तत्प्रतियोगिकभेदसिद्धिरनात्मनीत्यर्थः । न च पक्षदृष्टान्तयोः स्वत्वस्यैकस्याभावाद् अनुगत व्याप्यतावच्छेदकाभावेन व्याप्त्यग्रह इति वाच्यम् । तथात्वे प्रमाणज्ञानं स्वप्रागभावेत्य-विद्यानुमानेऽपि व्याप्त्यग्रहादाभासत्वापत्तेः । एतादृशप्रयोगाणामभियुक्तसिद्धत्वेनानुमानाङ्गत्वेन बुद्धिविशेषणस्थत्वस्य सम्भवात् । अन्यथा शब्दसङ्केतग्रहोऽपि न स्यात् । न चाजडत्व-मुपाधिः । तस्य ज्ञातृत्वादिरूपस्य जडत्वभङ्गोक्तन्यायेनात्मन्यभावेन साध्याव्यापकत्वाद् अप्रयोजकत्वाच्च । न च जडत्वेन व्यतिरेकिणा सत्प्रतिपक्षत्वमिति वाच्यम् । अज्ञातृत्वादिरूपस्य जडत्वस्यात्मनि सत्वेन व्यभिचारात्तुल्यबलत्वाभावाद् अप्रयोजकत्वेन व्यतिरेकव्याप्त्यसम्भवाच्च । ननु शब्देनात्मत्वावच्छिन्नग्रहे दृष्टान्ते साध्यवृत्तिर्न सम्भवतीत्यत आह दृष्टान्ते त्विति । तदा तु स्वशब्देनात्मत्वावच्छिन्नं ग्राह्यमिति भावः ।

जीवब्रह्मभेदो जीवजडभेदश्चैकदैव साधनीय इति समयबन्धेऽनुमानप्रकारमाह– जीवस्येति । अत्र यदप्त्वाद्यनधिकरणमित्यन्तेन जीवस्य ब्रह्मतो भेदः, उत्तरेण च जडे जीवभेदः सिध्यतीति द्रष्टव्यम् । न चाप्त्वाद्यनधिकरणत्ववत् जीवत्वानधिकरणेति विशेषणं प्रक्षिप्य जीवाद्यतिरिक्तमपि वस्तु सिध्येतेत्याभाससमत्वमिति वाच्यम् । उक्तविशेषणोपेत-वस्तुनोऽभावेन साध्याप्रसिद्धेः । विपक्षबाधकाभावेनाप्रयोजकत्वाच्च । प्रकृतानुमाने च विपक्षबाधकानामुक्तत्वात् । न च धर्मिपदं विकल्प्य दूषणापत्तिः । तस्याः प्रागेव परिहृत-त्वात् । न च गन्धाधारत्वादिना सत्प्रतिपक्षत्वाज्जीवजडयोर्जीवब्रह्मणोश्च भेदानङ्गीकारे बाधकानामुक्तत्वेन स्थापनाय बलवत्त्वात् । जीवजडभेदे प्रत्यक्षस्योक्तत्वेन बाधाच्च । नन्वप्त्वादीत्यादिपदेन पृथिवीत्वजीवत्वादिग्रहणे कथमुक्तसिद्धिः ? अप्त्वादीत्यनेन जीवाप्राप्ते-र्जीवभेदासिद्धेः । तेनैव पृथिव्या अप्यप्राप्तेः तद्द्वारा दृष्टान्ते साध्यासम्भवाच्चेत्यत आह– अप्त्वादीत्यादिशब्देनेति । आदिशब्देन जीवत्वपृथिवीत्वयोरग्रहणात् उक्तरीत्योभयसिद्धिरिति द्रष्टव्यम् ।। दृष्टान्ते त्विति । न चाम्बुनि जीवभेदस्य सत्वेन दृष्टान्ते साध्यसम्भवे पृथिवीद्वारा दृष्टान्ते साध्यसत्वं किमर्थमुच्यत इति वाच्यम् । जीवजडमात्र भेदविप्रतिपत्तावस्य प्रवृत्तत्वेन अम्बुनि जीवभेदस्यासिद्ध्या पृथिवीद्वारैव साध्यसिद्धेर्वक्तव्यत्वात् । न च जडभेदस्याप्यसिध्या पुनर्दृष्टान्तानुपपत्तिरिति वाच्यम् । जडभेदाङ्गीकारिणं प्रत्येवास्योक्तत्वात् ।

जीवस्य ब्रह्मजीवान्तरभेदः जीवाज्जडस्य च भेद एकदैव साधनीय इति समयबन्धेऽनु-मानप्रकारमाह– जीवस्येति । अत्र दूषणपरिहारः पूर्ववद् द्रष्टव्यः । अन्तर्गणिकेत्यनेन जीवानां परस्परं भेदसिद्धिरिति द्रष्टव्यम् । पूर्वोक्तौ भेदौ ब्रह्मजडभेदश्चैकदैव साधनीया इति समयबन्धेऽनुमानप्रकारमाह– जीवस्येति । अत्रापि दूषणपरिहारः पूर्ववद् द्रष्टव्यः । न च पाकजरूपानधिकरणत्वादिना सत्प्रतिपक्ष इति वाच्यम् । दत्तोत्तरत्वात् । ब्रह्मादिषु भेदमात्र-विप्रतिपत्तावनुमानप्रकारमाह– भेदमात्रे त्विति । अत्र भेदवदिति साधने व्यावहारिक-भेदेनार्थान्तरमित्यतो भेदहीनमित्याद्युक्तम् । स्वसमसत्ताकभेदवदित्यर्थः । तेन नार्थान्तरमिति भावः । स्वपदाननुगमश्चाज्ञानसाधकानुमानवत् परिहरणीयः । न च मुक्त्यसहवृत्तित्वं जडत्वं वोपाधिरिति वाच्यम् । भेदमात्राभावेऽसत्वाद्यापत्त्या विपक्षबाधकाभावेन हेतोः साध्यव्याप्यत्वेन उपाधेः साध्याव्यापकत्वात् । श्रुत्यादिना मुक्तावपि जडस्य प्रमितत्वेन तत्र साध्याव्यापक-त्वाच्च । अज्ञानत्वादिरूपस्य जडत्वस्य पक्षवृत्तित्वस्योक्तत्वाच्च । अनुकूलतर्काभावेनोपाधेः साध्याव्यापकत्वनिर्णयाच्च ।। ब्रह्मभेद इति । ननु ब्रह्मण्येव ब्रह्मप्रतियोगिको यः कल्पितो भेदः तस्यापि पक्षत्वेंऽशतो बाध इति चेन्न । कल्पितत्वेनोभयासम्मतस्य पक्षत्वात् । नन्वत्र ब्रह्मनिष्ठो भेदः पक्षो, ब्रह्मप्रतियोगिको वा ? नाद्यः । तस्यान्यनिरूप्यत्वेन ब्रह्मनिरूप्यत्वा-भावेन हेतोरसिद्धेः । न द्वितीयः । ब्रह्मान्यवृत्तित्वस्योपाधित्वात् । भेदस्याद्विष्ठत्वेनाद्येऽ-प्यस्योपाधित्वाच्चेति चेत् न तावदाद्ये दोषः । तन्निरूप्यत्वं न तत्प्रतियोगिकत्वम् । किन्तु तज्ज्ञानाधीनज्ञानत्वम् । अभावज्ञाने च प्रतियोगिज्ञानवदधिकरणज्ञानस्यापि कारणत्वेन तत्सम्भवात् । अत एवोक्तं ‘सद्भ्यामधिकरणप्रतियोगिभ्याम् अभावो निरूप्यत इति ।

यद्वा ब्रह्मनिरूप्यत्वं ब्रह्मसम्बन्धित्वम् । तथा च नासिद्धिः । प्रतियोगिवदधिकरणस्यापि सम्बन्धित्वात् । न च ब्रह्मवृत्तित्वमुपाधिः । तन्मते भेदस्य धर्मिमात्रनिष्ठत्वेन पक्षनिष्ठत्वेन साधनव्यापकत्वात् । केवलान्वयिधर्मे साध्याव्यापकत्वाच्च । तदनङ्गीकारे ‘स एवाधस्तात्’ इत्यादिना उक्तसाध्यवति ब्रह्मणि साध्याव्यापकत्वाच्च । अन्तर्यामिब्राह्मणेन तस्य सर्ववृत्तित्वात् । अस्तु वा द्वितीयः । उपाधिनिराकरणं च पूर्ववत् । न चार्थान्तरम् । ब्रह्मप्रतियोगिके भेदे सिद्धे ब्रह्मण्यपि तत्प्रतियोगिकभेदसिद्धेः ।। ब्रह्मज्ञानमिति । नन्वत्र सप्रकारकं ब्रह्मज्ञानं विवक्षितं, निष्प्रकारकं वा ? नाद्यः । सिद्धसाधनात् । न द्वितीयः । वादिनोऽसिद्धेः । वादिना निष्प्रकारकब्रह्मज्ञाना –नङ्गीकारादिति चेन्न । मोक्षहेतुब्रह्मज्ञानत्वेन पक्षत्वात् । तत्तु निष्प्रकारकं सप्रकारकं वेत्यन्यदेतत् । ननु साध्ये स्वपदेन ब्रह्मज्ञानविवक्षायां तदबाध्यभेदाप्रसिध्याऽप्रसिद्धविशेषणत्वम् । शुक्तिज्ञानविवक्षायां सिद्धसाधनतेति चेन्न । स्वशब्दस्य समभिव्याहृतपरत्वेनोक्तदोषाभावात् । अत एव स्वोपादानगोचरेत्या-द्यभियुक्तानुमानानि । अन्यथा तवापि प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तेत्यादौ बाधसिद्ध-साधनते स्याताम् । स्वपदानुगमस्य पूर्वमेवोक्तत्वाच्च ।

न चानात्मविषयत्वमुपाधिरिति वाच्यम् । अनुकूलतर्कसद्भावेन प्रकृतहेतोः साध्य-व्याप्यत्वात् । किञ्च किमिदमनात्मविषयत्वम् ? आत्मविषयताभिन्नत्वं वा, आत्म-विषयत्वाभावो वा, आत्मभिन्नविषयत्वं वा ? नाद्य द्वितीयौ । सप्रकारकब्रह्मज्ञाने साध्या-व्यापकत्वात् । न तृतीयः । आत्मभेदः कल्पितोऽकल्पितो वा ? न द्वितीयः । त्वन्मतेऽप्रसिद्धेः । नाद्यः । आत्मनि आत्मप्रतियोगिकभेदकल्पनसम्भवेन पक्षनिष्ठत्वेन साधनव्यापकत्वात् । अनुकूलतर्काभावेन साध्यव्यापकत्वानिर्णयाच्च । ननु घटादौ कथं भेदसाधनम् ? घटे पटादिप्रतियोगिकभेदसाधने कल्पितभेदेन सिद्धसाधनम् । तात्विकेति विशेषणेऽप्रसिद्धिरित्यत आह– घट इति । अत्र घटसंसर्गानवच्छिन्नप्रतियोगिता यस्यैवंविधः पटादिधर्मिको यस्त्रैकालिकोऽभावस्तत्प्रतियोगीत्यर्थः । अत्र घटसंसर्गेति संसर्गाभाववारणाय । स्वधर्मिकभेद सिद्धिवारणाय पटादीति । त्रैकालिकेत्यनेन सार्वकालिकपरेण भेदस्य कल्पितत्वेन सिद्धसाधनता परिहृता । कल्पितस्य सार्वकालिकत्वाभावात् । बाधकालेऽ-भावात् । अत एव कल्पितस्य त्रैकालिकत्वासम्भवेन सिद्धसाधनत्वदानं केषाञ्चिदपास्तम् । न च दृष्टान्ते तादृशोऽभावेऽत्यन्ताभाव एव वक्तव्यः । अन्योन्याभावस्य विप्रतिपत्तेः । तथा च तस्य कल्पितत्वेन सार्वकालिकत्वाभावेन साध्यवैकल्यमिति वाच्यम् । कृतकत्वादिवत् प्रसाध्याङ्गकत्वात् । यद्वा पटात्यन्ताभावस्य ब्रह्मात्मकत्वाङ्गीकारेण सत्यत्वाभ्युपगमात् साध्यावैकल्यात् ।

ननु भेदस्य धर्म्यात्मकत्वं समर्थितम् । तथा च पटादेस्त्रैकालिकत्वाभावात् तदात्मकस्य भेदस्य न त्रैकालिकत्वमिति बाध इति चेन्न । पटादीत्यतद्गुण संविज्ञानबहुव्रीहिणाऽनादिनित्यं जडं विवक्षितमिति नोक्तदोषः । यद्वाऽन्योन्याभावस्य धर्म्यात्मकत्वं नेति कृत्वाचिन्तयै-तज्ज्ञातव्यम् । न च तादात्म्यानवच्छिन्नप्रतियोगिताकेति विशेषणदानेन पञ्चमाभावसाधन समानयोगक्षेममिदमिति वाच्यम् । प्रकृते विपक्षबाधकसत्वेनान्यत्र तदभावेन साम्याभावात् । अत एव विपक्षबाधकान्युक्तानि । आदिशब्देनोपाधिपरिग्रहः ।। एवमिति । अत्र भेदमात्रस्य पक्षत्वे कल्पितभेदेंऽशतो बाधः स्यात् । तदर्थं बाधायोग्य इति । न च कल्पितव्यावृत्त्यर्थं न विशेषणं देयम् । तस्यासत्वेन तमादाय बाधाद्यसम्भवात् । अन्यथा पर्वतादिपक्षके तद्व्यावृत्त्यर्थं विशेषणदान प्रसङ्गात् । न चेष्टापत्तिः । तादृशाभियुक्तप्रयोगाभावादिति वाच्यम् । अभ्युपगमवादेनास्योक्तत्वात् । अत एव हेतावपि प्रातिभासिकेति विशेषणम् । तावत्युक्ते परमते आश्रयासिद्धिः स्यात् । परमते सर्वस्यापि बाधयोग्यत्वात् । अतः कर्मेत्यादि । तथापि बहुजीववादे व्यधिकरणधर्मप्रागभावमादाय दोषतादवस्थ्यम् । अत उक्तं समानाधिकरणेति । अत्र हेतुविशेषणकृत्यानि प्रपञ्चपरमार्थसत्यत्वसाधकवद् द्रष्टव्यानि । एतेषामेव तत्र हेतुत्वात् । न चात्र सर्वत्र ब्रह्मसाधारणधर्माणां चेतनत्वादीनामुपाधित्वमिति वाच्यम् । ब्रह्मणो निर्धर्मकत्वेन तत्र साध्यव्यापकत्वाग्रहेण साध्याव्यापकत्वात् । तादृशधर्मकल्पनाया अचेतनेऽपि सम्भवेन साधनव्यापकत्वात् । अत एव केचित् सर्वचैतन्यवादिनः । न च ब्रह्मण्यभिन्ना धर्माः सन्तीति वाच्यम् । अभेदे धर्मधर्मिभावानुपपत्तेः । ब्रह्मणो निर्विशेषत्वात् । न च जडत्वेन सत्प्रतिपक्षत्वमिति वाच्यम् । स्थापनाया अनुकूलतर्कसद्भावेन प्रबलत्वात् । जडत्वस्य जडत्वभङ्गोक्तन्यायेन ब्रह्मण्यपि सत्वेनानैकान्त्याच्च । न च मिथ्यात्वसाधकप्रमाणं बाधकमिति वाच्यम् । तेषां पूर्वमेव निराकृतत्वात् ।

नन्वत्र प्रातिभासिकत्वं दोषप्रयुक्तभानत्वं वा, ब्रह्मेतरज्ञानबाध्यत्वं वा ? नाद्यः । पक्षेऽसिद्धेः । न द्वितीयः । चरमवृत्त्यव्यवहिते प्रातिभासिके व्यभिचारादिति चेन्न । ब्रह्मेतरज्ञानबाध्यत्वयोग्यत्वस्य वा, प्रतिभासमात्रशरीरत्वस्य वा, अर्थक्रियानर्हत्वे सति सत्वेन प्रतीयमानत्वस्य वा, प्रातिभासिकपदेन विवक्षितत्वात् । चरमवृत्त्यव्यवहित प्रातिभासिके चोक्तविधप्रातिभासिकत्वस्य सद्भावेन हेत्ववृत्तेर्न व्यभिचारः । न च द्वितीयहेतोः साध्य-सिध्यधीनत्वेन साध्याविशेषपर्यवसानमिति वाच्यम् । मिथ्यात्वसाधकप्रमाणाभावेना-सत्वगोचरप्रमाणाभावेन तद्विषयत्वाभावसिद्धेः । प्रमाणाभावश्च प्रागेव व्युत्पादितः । न च तृतीये चरमवृत्त्यन्यबाध्यमिथ्यात्वकत्वमुपाधिरिति वाच्यम् । अनुकूलतर्कसद्भावेन प्रकृतहेतोः साध्यव्यापकत्वात् । साधनाविशेषत्वाच्च । बाध्यत्वस्यैवारोपितत्वात्मकत्वात् । अप्रयोजकत्वेन साध्यव्यापकत्वानिर्णयाच्च । बाध्यमिथ्यात्वकत्वस्यैवोपाधित्वे शेषवैयर्थ्याच्च । पक्षव्यावृत्त्यर्थत्वे पक्षेतरत्वात् । न च चतुर्थेऽसिद्धिः । अविद्यारूपकल्पकसत्वादिति वाच्यम् । अविद्याया जडत्वेन कल्पकत्वासम्भवात् । तस्य चेतनधर्मत्वात् । न हि घटादौ कल्पकत्व-व्यवहारः । न च पञ्चमे दृष्टिसृष्टिपक्षेऽसिद्धिरिति वाच्यम् । दृष्टिसृष्टिपक्षस्य प्रमाणशून्यत्वेन प्रत्यभिज्ञादिप्रमाणबाधितत्वेन प्रतिकर्मव्यवस्थाद्यनुपयुक्ततयाऽसम्भवात् । यद्वा प्रतिकर्म-व्यवस्थावादिमत एव तस्य हेतुत्वं द्रष्टव्यम् ।।

अनिषेध्यत्वेनेति । न च वृत्तिप्रतिबिम्बितचैतन्यस्य साक्षित्वेन दोषजन्यत्वाद् असिद्धिरिति वाच्यम् । तथात्वेऽविद्यावृत्तित्वेत्यादेर्ग्रहणं न स्यादित्युक्तत्वात् ।। श्रुतीति । न च मुख्यं श्रुतितात्पर्यं धर्मादौ नेति वाच्यम् । तात्पर्यभावस्यैव प्रयोजकत्वे मुख्यत्व-विशेषणस्य व्यर्थत्वात् । उक्तविरोधो ‘भेदः परमार्थसन् । उभयसिद्धसाधकशून्यत्वात् आत्मवत् । चेतननिष्ठो जडभेदः परमार्थसन्. चेतनधर्मिकत्वात् चेतनाभेदवत्’ इत्याद्यादिशब्देन ग्राह्यम् । ननूक्तानुमानेषु असिध्यादिकण्टकोद्धारः कुतो न कृत इत्यत आह– अत्रेति । ।। भेदपञ्चकेऽनुमानानि ।। २१ ।।

न्यायामृतप्रकाशः

जडानात्मकत्वादिति ।। जडनिष्ठासाधारणधर्मशून्यत्वादित्यर्थः । अतो न साध्यावैशिष्ट्य-शङ्केयम् ।। विपक्षे त्विति ।। जडभेदानङ्गीकार इत्यर्थः । घटादिजडभेदानङ्गीकार इति यावत् ।। प्रमेति ।। गौरजडदेहाभेदस्यात्मनि सत्यत्वादित्यर्थः । व्यावहारिकशुक्तिभेदाङ्गीकारेण सिद्धसाधनता-वारणायाह– तत्वत इति ।। ननु सर्वपदार्थाभेदवादिमते घटजनकस्यापि शुक्तिजनकाभिन्नत्वाद्द्वितीय-हेतोरसिद्धिः । साध्यहेत्वोरप्यैक्यात्साध्यावैशिष्ट्यञ्चेत्यत आह– परमत इति ।। स्वक्रियेति ।। सर्वाभेदवादिना त्वया भेददूषणैर्भेदो न सिध्यतीत्युच्यते तदयुक्तं भेदासिद्धेस्तद्दूषणस्य च भेदसिद्धि-दूषणाभावाभ्याम् अभिन्नत्वेन तदसिध्द्युक्त्यैव तत्सिद्धिप्रसङ्गात् दूषणोक्तिरेव तदभावोक्तिः स्यादिति स्वक्रियाविरोध इत्यर्थः ।। स्ववृत्तीति ।। स्वशब्देन पक्षीभूतोऽनात्मा तद्वृत्तिधर्मानाधार ईश्वरः तज्ज्ञानाबाध्यो यः आन्तर्गणिक अन्तर्गणसम्बन्धी जडसमुदायान्तर्गतो भेदः तद्वानित्यर्थः । स्ववृत्तिधर्मानाधारप्रतियोगिकभेदवानित्युक्ते ईश्वरभेदेनार्थान्तरं स्यान्न तु परस्परजडभेदसिद्धिरत उक्तम् अन्तर्गणिकेति । व्यावहारिकभेदेनार्थान्तरवारणाय अनाधारज्ञानाबाध्येति । आत्मवत् जीववत् । दृष्टान्तीभूते जीवे स्वशब्दोक्तजीववृत्तिधर्मानाधारः पक्षीभूतोऽनात्मा तज्ज्ञानावाध्यो योऽन्तर्गणिको भेदः परस्परजीवभेदः तद्वत्त्वमस्तीति ध्येयम् ।। विपक्ष इति ।। जडेष्वन्तर्गणिकभेदाभावे परस्पराभेदस्य वास्तवत्वापत्त्येत्यर्थः ।। स्वावृत्तीत्यादि ।। तथा च स्वशब्देन घटादिस्तदवृत्तिधर्माधिकरणं चैत्रः तत्र तत्प्रतियोगिकः प्रतियोगिभूतचैत्रज्ञानाबाध्यो यश्चैत्रभेदस्तदधिकरणं यत् स्वशब्दोक्तपक्षीभूत-घटाद्यनात्माऽवृत्तिधर्माधिकरणं च मैत्रः । एतावता आत्मनां परस्परं भेदसिद्धिः । तत्प्रतियोगिको मैत्रप्रतियोगिकः प्रतियोगिभूतमैत्रज्ञानाबाध्यश्च यो भेदो मैत्रभेदस्तदधिकरणम् । अनेनात्मनः सकाशाद्धटाद्यनात्मनां भेदसिद्धिरिति ज्ञातव्यम् ।

पक्षे साध्यमुपपादयति– पक्ष इति ।। आत्मा चैत्रः । आत्मान्तरात् मैत्रात् । दृष्टान्ते साध्यमुपपादयति – दृष्टान्ते त्विति ।। स्वशब्देनाऽऽत्मा तदवृत्तिधर्माधिकरणं घटः तत्प्रतियोगिकः प्रतियोगिभूतघटज्ञानाबाध्यो यो भेदस्तदधिकरणं यत् स्वशब्दोक्तात्मावृत्तिधर्माधिकरणं पटः तत्प्रतियोगिकः प्रतियोगिभूतपटज्ञानाबाध्यः यो भेदस्तदधिकरणत्वमात्मन्यस्तीति दृष्टान्ते साध्यं द्रष्टव्यम् । पक्षे तु नैवं साध्यपर्यवसानं बाधादिति द्रष्टव्यम् ।। भेदस्येति ।। आत्मनां परस्परं भेदस्य व्यावहारिकत्व-निरासाय आत्मनः सकाशादनात्मनो भेदस्य व्यावहारिकत्वनिरासाय तात्विकत्वार्थं प्रतियोगि-ज्ञानाबाध्येति विशेषणद्वयमित्यर्थः । भेदस्य जीवज्ञानाबाध्यत्वे तस्यैव ब्रह्मत्वेन ब्रह्मज्ञानाबाध्यत्व-रूपतात्विकत्वसिद्धिरिति ध्येयम् । एवमुत्तरत्रापि ।। जीवस्येति ।। जीवेश्वरभेदे जीवजडभेदे चेत्यर्थः । जीवाज्जडस्य भेदसिद्ध्यर्थम् अप्त्वादीति विशेषणम् ।। धर्मीति ।। जीवेत्यर्थः । परमते जीवज्ञानाबाध्यत्वे तस्यैव ब्रह्मत्वेन ब्रह्मज्ञानाबाध्यत्वसिद्ध्या तात्विकत्वसिद्धिः । ब्रह्मप्रतियोगिक-जीवनिष्ठभेदस्य तात्विकत्वार्थं धर्मिज्ञानाबाध्येति विशेषणम् । जीवप्रतियोगिकपृथिवीनिष्ठभेदस्य तात्विकत्वार्थं प्रतियोगिज्ञानाबाध्येति विशेषणम् । ननु यैर्वादिभिरबादीनां नामान्तराणि स्थापितानि सन्ति तान्प्रति यदप्त्वाद्यनधिकरणमिति विशेषणायोगादाह– अप्त्वादीत्यादिशब्देनेति ।। पक्ष इत्यादि ।। ब्रह्मप्रतियोगिकः धर्मिभूतजीवज्ञानाबाध्यो यो भेदस्तदधिकरणं यत् अप्त्वाद्यनधिकरणं जीवस्तत्प्रतियोगिकः प्रतियोगिभूतजीवज्ञानाबाध्यो यो भेदस्तद्वत्त्वं पृथिव्यामस्ति । दृष्टान्तीभूते अम्बुनि–तु ब्रह्मप्रतियोगिकः धर्मिभूताम्बुज्ञानाबाध्यो यो भेदस्तदधिकरणं यत् अप्त्वाद्यनधिकरणं पक्षीभूता पृथिवी तत्प्रतियोगिकः प्रतियोगिभूतपृथिवीज्ञानाबाध्यो यो भेदस्तद्वत्त्वमस्तीति ध्येयम् ।।

जीवस्येति ।। जीवेश्वरभेदे परस्परजीवभेदे जीवजडभेदे चेत्यर्थः । पृथिवीत्वानुमानं पूर्वोक्तमेव जीवेश्वर जीवजडभेदसाधकं तत्राऽऽन्तर्गणिकभेदवदिति विशेषणमधिकं तत्प्रयोजनमाह– अत्रेति ।। ब्रह्मप्रतियोगिकेत्यादि ।। आद्यम् अधिकरणान्तं जीवस्य ब्रह्मणः सकाशाद्भेदसिध्यर्थम् । अप्त्वाद्य-नधिकरणमिति जडात्, आन्तर्गणिकभेदवदि जीवान्तरात् । एवं च ब्रह्मजडजीवान्तरेभ्यो भिन्नाज्जीवात् पृथिव्यां भेदः सत्यन्तेन सिद्ध्यति । द्वितीयेनाप्त्वादीत्यनेनेश्वरस्य जडभेदः । तत्रासंसारिपदं ब्रह्मपरम् । तादृशादीश्वराद्भेदः पृथिव्यां सिध्यतीति पञ्चापि भेदा युगपत्सिध्यन्तीत्यर्थः ।। स्वान्येति ।। ब्रह्मेत्यर्थः । दृष्टान्ते आत्मनि स्वज्ञानबाध्यभेदाधिकरणत्वस्यैव सत्वेन स्वान्यज्ञानाबाध्यभेदाधिकरणत्व रूपसाध्यमस्तीति ज्ञातव्यम् ।। न सर्वेति ।। सर्वत्र नास्तीति नेत्यर्थः ।। ब्रह्मेति ।। ब्रह्माभेदस्य ब्रह्मण्येव सत्वेन सर्वनिष्ठात्यन्ताभावप्रतियोगित्वाभावरूपसाध्यमस्तीति भावः ।। शुक्तिति ।। शुक्तिज्ञानाबाध्यरजतभेदवच्छुक्तिविषयकं शुक्तिज्ञानमित्यर्थः ।। घट इत्यादि ।। पटादिधर्मिको यस्त्रैकालिकाभावोऽन्योन्याभावस्तत्प्रतियोगित्वं घटे साध्यते । एवं च पटनिष्ठभेदप्रतियोगित्वस्य घटे सिध्या जडभेदः सिध्यतीति ध्येयम् । अत्यन्ताभावस्यापि त्रैकालिकाभाव त्वेनार्थान्तरतावारणाय घटसंसर्गानवच्छिन्नप्रतियोगिताकेति त्रैकालिकाभावविशेषणम् । संसर्गाभावत्वं तादात्म्याभावत्वं चेत्यभावविभाजकोपाधिद्वयपक्षेऽत्यन्ताभावे संसर्गस्यैव प्रतियोगितावच्छेदकत्वादिति ध्येयम् । एवं च घटतादात्म्यावच्छिन्नप्रतियोगिताकपटादिधर्मिकत्रैकालिकाभावरूपान्योन्याभावप्रतियोगित्वमादाय पक्षे साध्यं द्रष्टव्यम् ।।

पटवदिति ।। पटे पटो नास्तीति प्रतीत्या पटात्यन्ताभावस्य पटे सत्वेन पटधर्मिकस्य पटात्यन्ता-भावरूपत्रैकालिकाभावस्य पटसंसर्गावच्छिन्नप्रतियोगिताकत्वेन घटसंसर्गावच्छिन्नप्रतियोगिताकत्व-सद्भावादुक्तसाध्यमस्तीति सम्प्रदायः ।। एवं समानाधिकरणेत्यादि ।। भेद इत्येव पक्षनिर्देशे मिथ्यात्वेनोभयसिद्धचन्द्रभेदमादाय बाधवारणोयोक्तम् अबाध्येति । मायिमते आश्रयासिद्धिपरिहारायोक्तं कर्मेत्यादि ।। कर्मप्रागभावसमानकालीनं यज्ज्ञानम् इदानीन्तनं, ब्रह्मज्ञानेतरत् अयं घट इत्यादिज्ञानं तदबाध्यत्वं मायिनः सम्मतम् । अस्माकं तु सर्वथाऽबाध्यत्वेन विशेषणं सम्मतमिति ध्येयम् । तथा च व्यावहारिको भेद इति तात्पर्यार्थः । तथैव पक्षनिर्देशेऽस्माकमाश्रयासिद्धिरित्यवधेयम् । मुक्तानां कर्मप्रागभावाभावेन भेदाबाधकेऽयं घट इत्यादिज्ञाने मुक्तात्मकर्मप्रागभावसमानकालीनत्वा-भावादाश्रयासिद्धिरित्यत उक्तं समानाधिकरणेति ।। मुच्यमानात्मनिष्ठेत्यर्थः । प्रातिभासिकासतो-र्व्यभिचारवारणाय विशेषणविशेष्ये । दोषाजन्यं बाधकज्ञानं प्रति निषेध्यत्वेन साक्षाद्विषये रूप्ये व्यभिचारवारणायोक्तम् अनिषेध्यत्वेनेति । नन्वत्र भेदस्य सत्वमात्रं साध्यतां पारमार्थिकत्वविशेषणं व्यर्थम् । वादिनो मम मते व्यावर्त्याप्रसिद्धेरित्याशङ्क्य परिहरति– अत्रेति ।। विमतं सद्वा पारमार्थिक-सद्वेत्यत्र वादिनः परमार्थत्वविशेषणं व्यर्थं व्यावर्त्याप्रसिद्धेरित्याशङ्क्य परप्रसिद्धत्वमात्रेण व्यावर्त्यत्वोपपत्तेः परार्थानुमाने परं प्रति सिद्धसाधनोद्धारास्यापि तत्प्रयोजनत्वादित्यादिना कृत इत्यर्थः । ।। भेदपञ्चकेऽनुमानानां विवरणम् ।। २१ ।।

न्यायकल्पलता

ब्रह्म जीवो वेति ।। न च परिच्छिन्नत्वं जडत्वं जन्यत्वं वोपाधिः । ब्रह्मणि साध्याभावनिश्चयेन व्यतिरेक हीनत्वात् ।। तत्वतः शुक्त्यभिन्नो नेति ।। न च तत्वतः शुक्त्यभिन्नत्वरूपप्रतियोग्यप्रसिद्व्या साध्याप्रसिद्धिः । औतमते ब्रह्मणि द्वैतमते च शुक्तौ तत्प्रसिद्धेः ।। अनात्मेति ।। ईशभेदेनार्थान्तर-वारणाय अन्तर्गणिकेति । नन्वेकत्र घटे कल्पिता येऽनेके घटास्तेषु स्ववृत्तिधर्मानधिकरणघटज्ञान-बाध्यभेदवत्सु व्यभिचारः इति चेन्न । आरोपितघटावृत्तिधर्मवत्त्वस्याधिष्ठानभूते घटेऽसिद्धेः । ननु यत्किञ्चित्स्ववृत्तिधर्मानाधारोक्तौ घटत्वानधिकरणपटज्ञानाबाध्यभेदेनात्मज्ञानबाध्यभेदेनार्थान्तरम् । स्ववृत्त्यशेषधर्मानाधारोक्तौ च तव मते ब्रह्मणोऽपि वाच्यत्वादिकेवलान्वयि धर्माधारत्वेन साध्या-प्रसिद्धिः । मैवम् । तादृशज्ञानबाध्यत्वानां सामान्याभावस्य साध्यत्वान्नार्थान्तरम् ।। स्वावृत्तीत्यादि ।। स्वशब्देन घटादिः, तदवृत्तिधर्माधिकरणं चैत्रः, तत्प्रतियोगिकश्चैत्रज्ञानाबाध्यो यश्चैत्रभेदः तदधिकरणं यो मैत्रः घटाद्यवृत्तिधर्माधिकरणं च तत्प्रतियोगिको मैत्रज्ञानाबाध्यश्च यो मैत्रभेदः तदधिकरणम् । एतेन घटादीनामात्मनः सकाशादात्मनां च मिथो भेदः सिध्यति । न चाजडत्वमुपाधिः । उपाधि-व्यतिरेकवति जडे साध्यव्यतिरेकानिश्चयात् ।।

जीवस्य ब्रह्मत इति ।। न चात्र जीवत्वानधिकरणेत्यपि साध्ये विशेषणं दत्वा १जीवब्रह्मजडानां तद्भेदानां चोभयसिद्धानां तात्विकत्वमात्रस्य साधनान्नातिप्रसङ्गः । जीवाज्जडस्य भेदसिध्यर्थम् अप्त्वादीति विशेषणम् । एवमग्रेऽपि बोध्यम् ।। ब्रह्मप्रतियोगिकेत्यादि ।। आद्यमधिकरणान्तं जीवस्य ब्रह्मणः सकाशाद्भेदसिध्द्यर्थं, अप्त्वाद्यनधिकरणमिति जडात्, आन्तर्गणिकभेदवदिति जीवान्तरात् । एवं च ब्रह्मजडजीवान्तरेभ्यो भिन्नाज्जीवात्पृथिव्यां भेदः सत्यन्तेन सिध्यति । द्वितीयेन अप्त्वा-दीत्यनेनेश्वरस्य जडभेदः । तादृशादीश्वराद्भेदः पृथिव्यां सिध्यतीति पञ्चापि भेदा युगपत्सिध्यन्ती-त्यर्थः ।। ब्रह्म भेदहीनमिति ।। न च मुक्त्यसहवृत्तित्वं जडत्वं चोपाधिः । व्यतिरेकहीनत्वात् । मुक्तिकाले साध्याव्याप्तेश्च ।। स्वाबाध्येति ।। न चानात्मविषयत्वमुपाधिः । व्यतिरेकहीनत्वात् ।। घटसंसर्गेति ।। न च काल्पनिकाभावस्य कालत्रयवृत्तित्वसम्भवेन सिद्धसाधनम् । काल्पनिकस्य स्वरूपेणात्यन्ताभावप्रतियोगितया एककालसम्बन्धस्यापि तत्राभावात् । ननु घटसंसर्गानवच्छिन्नेति-वत्तादात्म्यानवच्छिन्नेत्यपि विशेषणं दत्वा पञ्चा(पञ्चमा)नाम् अभावसाधनस्यापि प्रसङ्ग इत्यत आह– अत्र चेति ।। समानाधिकरणेति ।। मिथ्यात्वेनोभयसिद्धभेदव्यावृत्तयेऽबाध्यान्तं भेदविशेषणम् ।।

।। इति भेदपञ्चकेऽनुमानानि ।। २१ ।।