किञ्च त्वन्मते शुद्धब्रह्मणश्चिन्म•त्रत्वेऽपि श्रुत्यादौ तस्य सर्वज्ञत्वात् कथमज्ञानम्
६२. सर्वज्ञस्याज्ञानाश्रयत्वभङ्गः
न्यायामृतम्
किञ्च त्वन्मते शुद्धब्रह्मणश्चिन्म•त्रत्वेऽपि श्रुत्यादौ तस्य सर्वज्ञत्वात् कथमज्ञानम् ।
सर्वं हि यो विजानीते तस्य कुत्रापि नाज्ञता ।
न हि यो यद्विजानीते स तत्राज्ञानवान् भवेत् ।।
सविशेषमेव ब्रह्म सर्वज्ञमिति चेन्न, ‘तुरीयं तत्सर्वदृक्सदे’ति शुद्धे तच्छ्रुतेः । एतेन सर्वज्ञत्वं भ्रान्त्या प्रमाणतो वा स्वरूपज्ञप्त्या वा त्रेधाप्यविद्यासिद्धिः, भ्रान्तेः प्रमातृत्वादेश्चाविद्यामूलत्वात् । असङ्गस्वरूपज्ञप्तेश्चाविद्यां विना विषया-सङ्गतेः । उक्तं हि–
स्वरूपतः प्रमाणैर्वा सर्वज्ञत्वं द्विधा स्थितम् ।
तच्चोभयं विनाऽविद्यासम्बन्धं नैव सिद्ध्यति ।।
इति निरस्तम्, अविद्यारहिते तुरीयेऽपि सार्वज्ञ्यश्रुतेः । एकाश्रयैकविषयक-ज्ञानाज्ञानयोर्विरोधस्यानुद्धाराच्च । स्वरूपज्ञप्तेः स्वतः सर्वकालाद्यसम्बन्धे असत्त्वापातेन स्वतः सर्वसम्बन्धाभावे असर्वगतत्वापातेन चाविद्ययेव स्वत एवान्येनापि सम्बन्धोपपत्तेश्च । असङ्गश्रुतेस्तु गतिरुक्ता । एतेन ब्रह्मणो ज्ञातृत्वमुपेत्याज्ञानं वदन्तो निरस्ताः । तदुक्तम्– अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चनेति ।।
अद्वैतसिद्धिः
ननु– शुद्धब्रह्मणः चिन्मात्रस्याज्ञानाश्रयत्वे सार्वज्ञ्यविरोधः । न च विशिष्ट एव सार्वज्ञ्यम्, ‘तुरीयं सर्वदृक्सदा’ इति शुद्धस्यैव सर्वज्ञत्वोक्तेरिति चेन्न, सर्वदृक्पदेन सर्वेषां दृग्भूतं चैतन्यमित्युच्यते, न तु सर्वज्ञं तुरीयम्, तस्माद्विशिष्ट एव सार्वज्ञ्यम् । तच्चाविद्यां विना न सम्भवतीत्यविद्यासिद्धिः । तथा हि– सर्वज्ञो हि प्रमाणतः, स्वरूपज्ञप्त्या वा । तत्र प्रमाणस्य भ्रान्तेश्चाविद्यामूलत्वाद्, असङ्गस्वरूपज्ञप्तेश्चाविद्यां विना विषयासङ्गतेः । तदुक्तम्–
स्वरूपतः प्रमाणैर्वा सर्वज्ञत्वं द्विधा स्थितम् ।
तच्चोभयं विनाऽविद्यासम्बन्धं नैव सिद्ध्यति ।। इति ।
न च– स्वरूपज्ञप्तेः स्वतः कालाद्यसम्बन्धेऽसत्त्वापातेन स्वतः सम्बन्धाभावेऽ-सर्वगतत्वापातेन चाविद्ययेव स्वत एवान्येन सम्बन्धो वक्तव्य इति वाच्यम्, अविद्या-सम्बन्धस्याप्याविद्यकत्वेनाविद्ययेवेति दृष्टान्तानुपपत्तेः । स्वतः परतो वा कालादिसम्बन्धेन सर्वसम्बन्धेन चासद्वैलक्षण्यसर्वगतत्वयोरुपपत्तेर्न तयोरर्थे स्वतः कालसम्बन्धसर्वसम्बन्धा-पेक्षा । असङ्गत्वश्रुतिरपि स्वतः सङ्गाभावविषयत्वेनोपपद्यते । अत एव ‘अज्ञताऽखिल-संवेत्तुर्घटते न कुतश्चने’ति– निरस्तम् । तस्माच्चिन्मात्राश्रितैवाविद्या । इत्यज्ञानवादे सर्वज्ञस्याविद्याश्रयत्वोपपत्तिः ।
न्यायामृततरङ्गिणी
ननु बिम्बभूतं ब्रह्म सर्वज्ञं तच्च नाज्ञानाश्रय इत्यत आह ।। सविशेषमेवेति ।। तुरीयमिति ।। जाग्रदाद्यवस्थातीतं शुद्धं तुरीयमित्यर्थः । न तु सर्वदृक्पदेन सर्वेषां दृग्भूतं चैतन्यमुच्यते । न तु सर्ववेत्ता । सर्वपदवैयर्थ्यात् । तुरीयं प्रति सर्वस्या-भावाच्च ।। सर्वज्ञस्याज्ञानाश्रयत्वभङ्गः ।।
न्यायामृतकण्टकोद्धारः
शुद्धं ब्रह्म चिन्मात्रादन्यत् चिन्मात्रमेव वा ? नाद्यः चिदन्यस्य कल्पितत्वेन शुद्धत्वानुपपत्तेः । न द्वितीय इत्याह ।। किञ्चेति ।। ननु सर्वज्ञत्वेऽप्यज्ञानं किं न स्यादित्यत आह ।। सर्वं हीति ।। तुरीयमिति ।। उपलक्षणमेतत् । यथा विशेष्यनिष्ठमज्ञानं विशिष्टजीवनिष्ठतत्वज्ञानविरोधि तथा सविशेषब्रह्मनिष्ठतत्त्वज्ञानेनापि विरुध्येताविशेषात् । अन्यथा जीवनिष्ठतत्त्वज्ञाननाश्यं न स्यात् । विशेष्यविशिष्टभावस्य नियामकत्वान्नातिप्रसङ्ग इत्यपि द्रष्टव्यम् । न च सर्वदृक्शब्देन सर्वेषां दृग्भूतं चैतन्यं प्रतिपाद्यते न सार्वज्ञ्यमिति वाच्यम् । सर्वदृक्पदस्य सर्वज्ञादिपदपर्यायत्वेन प्रसिद्धेः । सर्वमध्ये स्वस्यापि पतितत्वेन तद्दृक्त्वाभावात् । न हि स्वविषया दृक् स्वयमेव । क्रियायाः स्वविषयत्वस्य विरुद्धत्वात् । यः सर्वज्ञ इत्यादावप्येवमेवार्थापत्या प्रमाणसत्वं न स्यात् । न चात्र बाधकादर्थान्तरम् । सार्वज्ञादेरौपाधिकं सार्वज्ञादेराविद्यकत्वे चिन्मात्र एव तदङ्गीकारौचित्याच्च अविद्यायाः स्वाश्रय एव स्वकार्यकरत्वादिति दिक् । एतेन सर्वज्ञत्वाज्ञत्वयोर्विरोधेन तुरीयेऽपि श्रवणेन चेत्यर्थः ।। स्वरूपज्ञप्तेरिति ।। न च स्वतः कालादिसम्बन्धाभावेऽपि परतः कालादिसम्बन्धमात्रेणासत्त्वादिपरिहारोपपत्तिरिति वाच्यम् । यथाकथञ्चित् कालादिसम्बन्धस्य खपुष्पादिसाधारणत्वात् । औपाधिक-कालादिसम्बन्धेनासत्त्वाभावादिके अङ्गीक्रियमाणे सत्त्वाभावव्यापकत्वादेरौपाधिकत्वेन वास्तवासत्त्वाद्यापाताच्च साक्षात् कालादिसत्वस्यैवासत्त्वाद्यभावादिप्रयोजकत्वाच्च । न चापरिच्छिन्नत्वमात्रेण व्यापकत्वमिति वाच्यम् । त्रिविधपरिच्छेदशून्यत्वरूपापरिच्छिन्न-त्वस्यासत्साधारणत्वात् न चाविद्ययेति दृष्टान्तो न युज्यते । अविद्यासम्बन्धास्या-विद्यकत्वेन स्वतः सम्बन्धाभावादिति वाच्यम् । आत्माश्रयान्योन्याश्रयादेरपरिहारात् ।। असङ्गत्वश्रुतेस्त्विति ।। पुण्यपापलेपाभावोपपत्तय इत्यर्थः । उक्तार्थे आचार्यसम्मतिमाह ।। तदुक्तमिति ।। अत्र संवेत्तुरिति ताच्छीलिकतृन्प्रत्ययेन ज्ञानादेरनौपाधिकत्वमुच्यत इति भावः ।
न्यायामृतप्रकाशः
सर्वज्ञत्वात् ‘‘यस्सर्वज्ञ’’ इत्यादौ सर्वज्ञत्वेन प्रतिपादितत्वादित्यर्थः । ननु मया ज्ञान-रूपत्वाङ्गीकारान्न सर्वज्ञातृत्वरूपं सार्वज्ञमङ्गीकृतमित्यत उक्तं चिन्मात्रत्वेऽपीति । त्वया तथाऽङ्गीकारेऽपि श्रुत्याद्यनुसारेण सार्वज्ञमङ्गीकार्यमिति भावः । ‘‘अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चने’’ति भगवत्पादीयोक्तिं, तथा ‘‘ननु सर्वज्ञस्याज्ञानं न घटत इत्यत्र नान्वय-दृष्टान्तः । परमात्मानं विनाऽन्यस्य सर्वज्ञस्याभावात् । नापि व्यतिरेकदृष्टान्तः । अज्ञानाश्रयस्यान्यस्य परेणानभ्युपगमात्तत्कथमेतदिति । मैवम् । यो यत्र ज्ञानवान्नासौ तत्राज्ञानवानिति सामान्यव्याप्तेरविरोधादि’’ति टीकाकारीयोपपादनं च हृदि निधाय सङ्गृह्णाति ।। सर्वं हीति ।। ननु बिम्बभूतं ब्रह्म सर्वज्ञं तच्च नाज्ञानाश्रय इत्याशङ्कते ।। सविशेषमेवेति ।। विशिष्टं शबलमित्यर्थः ।। तुरीयमिति ।। जाग्रदाद्यवस्थातीतं शुद्धं तुरीयमिति तदर्थः ।। तच्छ्रुतेरिति ।। सार्वज्ञश्रुतेरित्यर्थः ।। भ्रान्त्येति ।। सर्वविषयकं भ्रमरूपमेवेति तदर्थः । सर्वविषयकज्ञानस्य भ्रान्तिरूपत्वे प्रमाणतः सर्वज्ञत्वे वाऽविद्या-सिद्धिमुपपादयति ।। असङ्गेति ।। प्रमाणतः स्वरूपप्रज्ञया वा सर्वज्ञत्वमविद्यासम्बन्ध-साक्षेपमित्यत्र संमतिमाह ।। उक्तं हीति ।। एवं च ब्रह्म नाज्ञानाश्रयः सर्वज्ञत्वादित्यनुमाने विरुद्धता स्यात् सर्वज्ञत्वस्याज्ञानसापेक्षत्वादित्युक्तं भवति ।। तुरीयेऽपीति ।। तथा च तत्र श्रुतं सार्वज्ञं नाविद्यासापेक्षमित्यर्थः । सर्वज्ञत्वमङ्गीकृत्याविद्याङ्गीकारे विरोधश्चेत्याह ।। एकाश्रयेति ।। किञ्च विकल्पितपक्षत्रयमध्ये स्वभावसिद्धप्रज्ञयैव सार्वज्ञमित्यङ्गीकुर्मः । न चासङ्गाया ज्ञप्तेर्न विषयेण स्वतः सम्बन्ध इत्यविद्यासिद्धिरिति वाच्यम् । असङ्गाया अपि स्वरूपज्ञप्तेः स्वतस्तावत्कालसम्बन्धोऽस्तीत्यङ्गीकार्यम् । अन्यथाऽसत्वापत्तेः । तथा स्वतः सार्वदेशसम्बन्धोऽप्यङ्गीकार्यः । अन्यथा सर्वगतत्वाभावापत्तेः । तद्वद्विषयैरपि स्वत एव सम्बन्धोपपत्तेः । यथा वा असङ्गाया अपि स्वरूपज्ञप्तेरविद्ययैव सम्बन्धोऽङ्गीकृतः । न ह्यविद्यासम्बन्धघटकाविद्यान्तरमस्ति । स्वनिर्वाहकत्वकल्पनं तु स्वरूपसिद्ध्युत्तरकालीनं तस्यैवेदानीं सन्दिह्यमानत्वात् । अतस्तद्वदन्येनापि सम्बन्धोपपत्तेर्न सर्वज्ञत्वस्याज्ञानापेक्षेति न विरुद्धत्वमित्याशयेनाह ।। स्वरूपज्ञप्तेरिति ।। ननु तर्ह्यसङ्गत्वश्रुतिविरोध इत्यत आह ।। असङ्गत्वेति ।। उक्तेति ।। तत्कृतलेपाभावपरतयेत्यर्थः । ज्ञातृत्वं सर्वज्ञत्वम् ।। निरस्ता इति ।। सर्वं हि यो विजानाति इत्यनुमानविरोधादित्यर्थः । इदं सर्वं भगवत्पादोक्तस्योपपादनं नोत्पे्रक्षितमिति ज्ञापयति ।। तदुक्तमिति ।।
न्यायामृतसौगन्ध्यम्
किञ्च चैतन्यस्याज्ञानाश्रयत्वे सार्वज्ञ्यविरोधः । न च विशिष्ट एव सार्वज्ञ्यम्, ‘तुरीयं तत् सर्वदृक् सदे’ति शुद्धस्यैव सार्वज्ञ्योक्तेः । न च सर्वदृक्पदेन सर्वेषां दृग्भूतं चैतन्य-मुच्यते, सर्वपदवैय्यर्थ्यापत्तेः ।
एतेन सार्वज्ञ्यं हि प्रमाणतः स्वरूपज्ञप्त्या वा भ्रान्त्या वा । सर्वथाप्यविद्यासिद्धिः । प्रामाणस्य भ्रान्तेश्चाविद्यां विना असम्भवात् । असङ्गस्वरूपज्ञप्तेश्चाविद्यां विना विषया-सङ्गतेरिति निरस्तम् । सर्वविषयकनित्यज्ञानत्वेन तत्सिद्धेः । ‘प्रकृतिं पुरुषं चापि प्रविश्यात्मेच्छया हरिः । क्षोभयामास संप्राप्ते सर्गकाले व्ययाव्यया’विति वैष्णवे भगवदिच्छादेः सृष्टेः प्रागुक्त्या नित्यत्वसिद्धिः ।
स्वरूपज्ञप्तेः स्वतः कालाद्यसम्बन्धेऽसत्वापत्तेः स्वतः सर्वसम्बन्धाभावेऽसर्वगतत्वा-पत्तेश्चाविद्ययेव स्वत एवान्येनापि सम्बन्धसम्भवाच्च । न चाविद्यासम्बन्धोऽप्याविद्यकः । अनवस्थापत्तेः । अविद्यासम्बन्धस्य तत्र श्रुतिगणैर्निरस्तत्वात् । न च स्वतः परतो वा कालादिसम्बन्धेनासद्वैलक्षण्यसर्वगतत्वोपपत्तिः । मोक्षे पराभावेनासत्वापत्तेर्दुर्वारत्वात् । अतस्तमआलोकयोरिव सर्वज्ञत्वासर्वज्ञत्वयोर्विरोधेन न सर्वज्ञास्याज्ञानाश्रयत्वमिति ।
।। इति सर्वज्ञस्याज्ञानाश्रयत्वभङ्गविवरणम् ।।