अत्र परैरुक्तं– ‘अनिच्छतोऽपि दुर्गन्धादिज्ञानदर्शनात् ..
८. ज्ञानविधिसमर्थनम्
न्यायामृतम्
अत्र परैरुक्तं– ‘अनिच्छतोऽपि दुर्गन्धादिज्ञानदर्शनात् ज्ञानस्य प्रमाणवस्तु-परतन्त्रत्वेनाविधेयत्वात् लिङादयः श्रूयमाणा अपि शिलातलप्रयुक्तक्षुरतैक्ष्ण्यवत् कुण्ठीभवन्ति’ इति । तन्न । ‘पत्न्यवेक्षितमाज्यं भवति’, ‘विदुषा कर्म कर्तव्यं’ ‘तस्मात्पश्येत नित्यशः’ इत्यादिना तद्विधानात् । १तत्र तद्धेत्विन्द्रियसम्प्रयोगादि विधौ लक्षणाप्रसङ्गात् । सम्प्रयोगस्यापीन्द्रियनिष्ठक्रियाद्वारा कृतिसाध्यत्वेन साक्षात्तदसाध्यत्वात् । परम्परया कृतिसाध्यत्वस्य च ज्ञानेऽपि सम्भवात् । अनिच्छतश्चानिष्टसम्प्रयोगदर्शनात् । ‘भक्षेहि’ इति भक्षमन्त्रे च तृप्तेरनुनिष्पादित-तयाऽननुष्ठेयत्वेन तृप्तिप्रकाशकभागस्य तत्र विभज्य विनियोगाभावेऽप्यवेक्षणस्यानुष्ठेय त्वात्तत्प्रकाशकभागस्यावेक्षणे विभज्य विनियोग इति तृतीयेऽभिहितत्वात् । एकश्रोत्र-गतानेकतारगकारेषु च बुभुत्साप्रयत्नाभ्यामभीष्टगकारज्ञानदर्शनात् । ज्ञानस्य च ‘यदेव विद्यया करोति’ इत्यङ्गत्वश्रवणात् । अविहितस्य चाङ्गत्वानुपपत्तेः । दुर्गन्धादिज्ञान-स्येच्छाविषयत्वाभावेऽपि ब्रह्मज्ञानस्य तद्विषयत्ववत्, ज्ञानान्तरस्य नियमादृष्टासाध्य-त्वेऽपि ब्रह्मज्ञानस्य तत्साध्यत्ववत्, पर्वतादिज्ञानस्य नयनोन्मीलने सति प्रयत्नान्तर-निरपेक्षत्वेऽपि ध्रुवारुन्धत्यादिज्ञानस्य तत्सापेक्षत्ववच्चातिसूक्ष्मब्रह्मज्ञानस्येच्छाप्रयत्न-साध्यत्व सम्भवात् । शास्त्रार्थज्ञानस्य च नियमेन पुंतन्त्रत्वदर्शनात् । ब्रह्मणश्च शास्त्रार्थत्वात् । प्रशस्ताप्रशस्तज्ञानयोश्च विधिनिषेधदर्शनात् । इच्छादिना चोत्पत्ति-निरोधयोरनुभवात् । तत्र च करणव्यापारस्येव पुंतन्त्रत्वाङ्गीकारे नामादिषु ब्रह्मो-पासनायां त्वया विधेयत्वेनाङ्गीकृतायामपि मनोनिरोधादेरेव पुंतन्त्रत्वम्, न तूपासनाया इति प्रसङ्गात् ।
अनेकशाखाजन्यज्ञानरूपस्य च श्रवणस्य, तदुपक्रमोपसंहारैकरूप्याद्यनुसन्धान-रूपस्य च मननस्य, श्रुतमतानेकगुणविशिष्टतया निरन्तरानुस्मरणरूपस्य च निदि-ध्यासनस्य, अतिप्रयत्नसाध्यत्वानुभवात् । निदिध्यासनादेश्च ‘खण्डा स्मृतिर्धारणा स्यादखण्डा ध्यानमुच्यते । अप्रयत्नात्समाधिश्च’ इत्यादिस्मृत्या प्रयत्नसाध्यत्वप्रतीतेः । त्वन्मतेऽपि परोक्षज्ञानसन्तानरूपस्य निदिध्यासनस्य विधेयत्वात् । सन्तानिनां च कृत्यसाध्यत्वे सन्तानस्य तदयोगात् । श्रवणादीनां ज्ञानातिरेकेण दुर्निरूपत्वस्योक्त-त्वात् । तेषां च ज्ञानानात्मकत्वे ‘श्रवणं यावदज्ञानम्’ इत्यज्ञानविरोधित्वस्मृतेः श्रवणेनाज्ञानं निवृत्तमित्यनुभवस्य चानुपपत्तेः । ‘विज्ञाय प्रज्ञां कुर्वीत’ इत्यादौ च विज्ञानानन्तरभाविनः प्रज्ञाशब्दार्थस्य विचारत्वानुपपत्तेः । ध्यानस्य च त्वयापि विधेयत्वेनाङ्गीकृतत्वात् । तस्य च ज्ञानानात्मकत्वे तेन स्वविषये व्यवहाराभाव-प्रसङ्गात् । ध्यानान्यज्ञानेन च ध्यानविषये व्यवहाराङ्गीकारे गौरवात् । ध्यानविषये च कदाचिन्न जानामीत्यनुभवप्रसङ्गात् । संस्कारस्य च ज्ञानजन्यत्वेन ध्याने स्मरणा-भावप्रसङ्गात् । ‘तस्याभिध्यानात्’ इति श्रुतौ च ध्यानस्य मायाख्याविद्यानिवर्त-कत्वोक्तेः । त्वयापि विधेयतयाऽङ्गीकृतोपासनायां च श्रुतौ ‘मनो ब्रह्मेत्युपासीत य एवं वेद’ इति, तथा ‘आत्मेत्येवोपासीत यस्तद्वेद’ इत्यादि बहुस्थलेषु ज्ञानार्थ‘विद’-धातुप्रयोगेणोपासनाया ज्ञानात्मकत्वात् । प्रमाणादिपरतन्त्रस्यापि ज्ञानस्य प्रतिग्रहीत्रादि-परतन्त्रस्यापि दानादेरिव पुंतन्त्रत्वोपपत्तेः । ब्रह्मपरवाक्यमध्येऽप्युपासनाविधिवत् ज्ञानविधेरपि सम्भवात् । वृथैव वैदिकलिङादेरस्वारस्यायुक्तेः ।
न च ज्ञानस्याक्रियात्वेनाविधेयत्वम्, धात्वर्थस्य पूर्वापरीभूतस्य वा क्रियात्वासिद्धेः । ‘शास्त्रार्थं जानामि’ इत्यादौ ‘पचति’ इत्यादाविव पूर्वापरीभाव-प्रतीतेः । स्पन्दस्याक्रियात्वे तु यागादेरप्यक्रियात्वं स्यात् । तस्मात्–
पत्न्यवेक्षितमित्यादौ ज्ञानस्यैव विधानतः ।
सूक्ष्मशास्त्रार्थबुद्धेश्च कृतिसाध्यत्वदर्शनात् ।।
ध्यानस्यापि च विज्ञानव्यतिरेकानिरूपणात् ।
ज्ञानस्वरूपमपि च श्रवणादि विधीयते ।।
ननु तथापि ज्ञानस्यानवगमे तत्कर्तव्यताबोधनासम्भवात्तदवगमस्य च विषयावगर्मो विधिरिति चेन्न, त्वयापि विचारविध्यङ्गीकाराद् विचारस्य च विषयनिरूप्यत्वेन साम्यात् । सामान्यतो ब्रह्मज्ञानमात्रेण च तद्विषयकश्रवणादेः कर्तव्यताबोधनसम्भवात् । वेदान्तवाक्यानुग्राहकन्यायानुसन्धानादिरूपतया च ब्रह्मज्ञानात्प्रागेव ज्ञातस्य मननादेः ब्रह्मज्ञानाय विधानसम्भवाच्चेति ।।
ननु तथापि ज्ञानं न विधेयम् । तथा हि– विधीयमानं ज्ञानं किं शाब्दम् ? किं वा तदभ्यासः ? यद्वा तत्त्वम् अनपेक्ष्यारोपितविषयतया मनसः सङ्कल्पप्रवाहरूपं ध्यानम् ? किं वा परोक्षफलं ज्ञानान्तरम्? नाद्यः । कर्मकाण्ड इव गृहीतसङ्गतेः स्वतः सिद्धत्वेन कृत्यसाध्यत्वेन विध्यनपेक्षणात् । द्वितीये तद्विधिर्मोक्षाय चेत्, तस्य नैयोगिकफलत्वेन स्वर्गादिवदनित्यत्वं स्यात् । साक्षात्काराय चेत्स नादृष्टं फलम् । प्रमाणायत्तत्वात्तस्य । नापि फलं दृष्टम् । परोक्षज्ञानाभ्यासेन साक्षात्कारादर्शनात् । अत एव न तृतीयः । प्रोषितपुत्रादिध्यानेनारोपितरूपसाक्षात्कारदर्शनेऽपि तत्त्व-साक्षात्कारादर्शनात् । चतुर्थे शब्दस्य ब्रह्मणि प्रामाण्यं न स्यात् । ब्रह्मणि प्रमाणी-भूतज्ञानकर्तव्यतायामेव प्रमाणत्वादिति चेत्, न तावदाद्ये दोषः । कर्मकाण्डेऽप्यापात-जन्यस्य स्वतः सिद्धत्वेऽपि विमर्शजन्यस्य कृतिसाध्यत्वात् । अन्यथाऽध्ययनविधेरुत्तर-क्रतु विधेर्वा तद्विचाराक्षेपकता न स्यात् । द्वितीयेऽपि न दोषः । दृष्टफलत्व इव नैयोगिकफलत्वेऽपि बन्धध्वंसस्य ध्वंसत्वात् श्रुत्यादिबलाच्च नित्यत्वोपपत्तेः । तृतीयेऽपि न दोषः । मोक्षस्य नैयोगिकफलत्वेऽपि नित्यताया उक्तत्वात् । ध्यानादिना प्रसन्नदेवतासाक्षात्कारदर्शनेन ध्यानसंस्कृतमनसा ब्रह्मसाक्षात्कारोपपत्तेश्च । चतुर्थेऽपि न दोषः । ज्ञानविधिवाक्यस्य ज्ञानकर्तव्यतायां प्रमाणत्वेऽपि ब्रह्मण्यपि महा-तात्पर्यवत्त्वात् । सत्यज्ञानादिवाक्यस्याविधिपरत्वाच्चेति । ज्ञानविधिसमर्थनम् ।। ८ ।।
अद्वैतसिद्धि:
नन्वत्र श्रूयमाणलिङादेः का गतिरिति चेत्, शिलातलप्रयुक्तक्षुरतैक्ष्ण्यवत् कुण्ठीभावात् ‘जर्तिलय-वाग्वा वा जुहुयात्’ इत्यादाविवार्थवादत्वमेव । न च ‘पत्न्यवेक्षितमाज्यं भवति’, ‘विदुषा कर्म कर्तव्यं, तस्मात् पश्येत नित्यशः’ इत्यादिना ज्ञानस्यापि विधानं दृष्टमिति वाच्यम् । तत्र तद्धेत्विन्द्रियसंयोगादेर्विधेयत्वाद् अनन्यगत्या लक्षणाया इष्टत्वात् । न च ‘न विधौ परः शब्दार्थः’ इत्यनेन विरोधः ‘गोभिः श्रीणीत मत्सरम्’ इत्यादौ विधिवाक्येऽपि लक्षणादर्शनेन तस्यौत्सर्गिकत्वाद्, अर्थवादानुरोधेन विधौ न परः शब्दार्थ इत्यर्थकत्वाच्च । न च साक्षात्कृतिसाध्यत्वस्य इन्द्रिय-सम्प्रयोगेऽप्यभावाद् इन्द्रियनिष्ठक्रियाद्वारा परम्परया कृतिसाध्यत्वस्य ज्ञानेऽपि सम्भवात् । अनिच्छतो दुर्गन्धादिज्ञानवद् अनिष्टसम्प्रयोगस्यापि दर्शनाच्च ज्ञानसाम्यं संयोगस्येति वाच्यम् । स्वर्गादाविव स्वेच्छाधीनकृतिसाध्यत्वस्य विधेयताप्रयोजकस्य ज्ञानेऽभावात्, सम्प्रयोगस्य तु तद्वैपरीत्येन विशेषात् । न च ‘भक्षेहि’ इति भक्षमन्त्रेषु तृप्तेरनुनिष्पादिततयाऽननुष्ठेयत्वेन तृप्तिप्रकाशभागस्य तत्र विभज्य विनियोगाभावेऽप्य वेक्षणस्यानुष्ठेयत्वात् तत्प्रकाशकभागस्य अवेक्षणे विनियोग इति तृतीया-ध्यायोक्तिविरोध इति वाच्यम् । इन्द्रियसम्प्रयोग रूपावेक्षणस्य तृप्त्यादिवदनुनिष्पादित्वाभावेनानुष्ठेयतया तत्प्रकाशकभागस्य तस्मिन्विभज्य विनियोग इत्येवम्परत्वात् । यच्च एकश्रोत्रगतानेकगकारेषु बुभुत्साप्रयत्नाभ्यामभीष्टगकारज्ञानदर्शनेन ज्ञानस्यापि विधेयत्वमिति, तन्न, अनभिमतविषय वैमुख्यस्यैव बुभुत्साप्रयत्नसाध्यतया ज्ञानं प्रति तयोरजनकत्वात् । न च– ‘यदेव विद्यया करोति’ इति विद्याया अङ्गत्वश्रवणाद् अविहितस्य चाङ्गत्वानुपपत्त्या विद्याया विधेयत्वमिति वाच्यम् । तस्य वाक्यस्योद्गीथोपासनाप्रकरणस्थतया तत्रत्यविद्यापदस्य उपासनापरतया विहितत्वेनाङ्गत्वाविरोधात्, ‘तन्निर्धारणानियमस्तद्दृष्टे ’रित्यत्र विद्याया अङ्गावबद्धाया अङ्गत्वनिरासेऽपि न विधेयत्वहानिः ।
ननु यथा दुर्गन्धादिज्ञानस्येच्छाविषयत्वाभावेऽपि ब्रह्मज्ञानस्य तद्विषयत्वम्, यथा च ज्ञानान्तरस्य नियमादृष्टा साध्यत्वेऽपि ब्रह्मज्ञानस्य तत्साध्यत्वम्, यथा पर्वतादिज्ञानस्य नयनोन्मीलने सति प्रयत्नान्तरनिरपेक्षत्वेऽपि ध्रुवारुन्धत्यादि ज्ञाने तत्सापेक्षत्वम्, तथाऽतिसूक्ष्मब्रह्मज्ञानस्य इच्छाप्रयत्न-साध्यत्वसम्भव इति चेन्न, प्रामाणिकदृष्टविजातीयकिञ्चिद्धर्म दर्शनेनाप्रामाणिकवैजात्यस्य कल्पयितुम् अशक्यत्वात् । प्रयत्नान्वयव्यतिरेकयोश्च ज्ञानसाधनजनने उपक्षीणतया ध्रुवारुन्धात्यादिनिदर्शना-न्यथासिद्धतया तन्न्यायेन ब्रह्मज्ञाने कृतिसाध्यत्वस्य वक्तुमशक्यत्वाच्च । न च शास्त्रार्थज्ञानस्य नियमेन पुंतन्त्रत्वदर्शनाद् ब्रह्मणश्च शास्त्रार्थत्वात् तज्ज्ञानस्य पुंतन्त्रत्वमिति वाच्यम् । तत्रापि ज्ञानसाधनस्यैव पुंतन्त्रत्वात् । यच्च प्रशस्ताप्रशस्तज्ञानयोर्विधिनिषेधदर्शनम्, तदपि ज्ञानकारणविषयकमेव । यच्च इच्छादिना उत्पत्तिनिरोधयोरनुभवः, सोऽपि करणव्यापारविषयक एव । न चैवं नामादिषु ब्रह्मोपासनायां त्वया विधेयत्वेनाङ्गीकृतायां पुंतन्त्रत्वं न सिध्येत्, तत्रापि मनोधारणादेरेव पुंतन्त्रत्वस्य वक्तुं शक्यत्वादिति वाच्यम् । ज्ञानविध्युक्तानुपपत्तेस्तत्राभावेन निरोधादीनामन्यपरत्वस्य वक्तुमशक्यत्वात् । न च उक्तज्ञानरूपश्रवणादिष्वतिप्रयत्नसाध्यत्वस्यानुभवसिद्धत्वाद् विधेयत्वमिति वाच्यम् । अनुभवान्यथासिद्धेरुक्तत्वात् । न च त्वयापि निदिध्यासनस्य परोक्षज्ञानसन्तानरूपस्य विधेयत्वं वदता सन्तानिनां ज्ञानानामपि विधेयत्वमङ्गीकर्तव्यमेव । तदविधाने सन्ततिविधानानुपपत्तेरिति वाच्यम् । आवृत्तिगुणयोगस्यैव विधेयत्वाद् उपनिषदमावर्तयेदित्यत्रेव ।
न च श्रवणादेः ज्ञानानात्मकत्वे ‘श्रवणं यावदज्ञानम्’ इत्यज्ञानविरोधित्वस्मृतेः, ‘श्रवणेनाज्ञानं निवृत्तम्’ इत्यनुभवस्य चानुपपत्तिरिति वाच्यम् । आवृत्तिगुणयोगवाक्यार्थप्रमित्युपयुक्ततात्पर्यनिर्णयद्वारा उपक्रमादिलिङ्गविचारात्मक श्रवणादेरज्ञानादिविरोधितया स्मृत्यनुभवयोरुपपत्तेः । ‘विज्ञाय प्रज्ञां कुर्वीत’ इत्यादौ ज्ञानविधावुक्तानुपपत्त्या प्रज्ञाशब्दस्य विचारलाक्षणिकत्वोपपत्तेः । न च त्वया विधेयत्वेनाङ्गीकृतस्य ध्यानस्य ज्ञानभिन्नत्वे तस्य स्वविषये व्यवहारजनकत्वं न स्यादिति वाच्यम् । तदन्यज्ञानेनैव तत्कारणतयाऽऽवश्यकेन तद्विषये व्यवहारोपपत्तेः । प्रमाणवतोऽस्य गौरवस्यादोषत्वात् । अत एव ध्यानविषये जानामीत्यनुभवस्मरणे तद्भिन्नज्ञानप्रयुक्ततया व्याख्याते । ‘तस्याभिध्यानात्’ इति श्रुतौ ध्यानस्य मायाख्याविद्यानिवर्तकत्वेऽपि तदुक्तिः ध्यानानन्तरभाविसाक्षात्कारद्वाराभिप्रायेति न तया विरोधः । यत्तु ‘उपासीत’ इत्युपक्रम्य ‘य एवं वेद’ इत्युपसंहारेण त्वयापि विधेयत्वेनाङ्गी-कृतायामुपासनायां विदिधातुप्रयोगेण उपासनायाः ज्ञानत्वावगमाद् अन्यत्रापि ज्ञानत्वं न विधेयत्व-विरोधीति, तन्न, उक्तानुपपत्त्या विदेस्तत्रामुख्यत्वेनैव ज्ञानत्वागमकत्वाद् धात्वनेकार्थत्वेन वा । न च मानतन्त्रतामात्रेण कथमपुंतन्त्रता प्रतिग्रहीत्रादितन्त्रस्यापि दानादेस्तद्दर्शनादिति वाच्यम् । न ह्यन्यतन्त्रतामात्रेणाविधेयत्वं ब्रूमः किन्तु पुमिच्छाभिर्यत्कारणे सति अन्यथा कर्तुमशक्यत्वम् । इति ज्ञानस्य पुरुषतन्त्रताभङ्गः ।
किञ्च विधीयमानं ज्ञानं किं शाब्दम् ? किं वा तदभ्यासः ? यद्वा तत्त्वमनपेक्ष्यारोपितविषयतया ध्यानम् ? किं वाऽपरोक्ष्यफलकं ज्ञानान्तरम् ? नाद्यः, कर्मकाण्ड इव गृहीतसङ्गतेः स्वतः सिद्धत्वेन कृत्यसाध्यतया विध्यविषयत्वात् । न च कर्मकाण्डेऽप्यापातजन्यस्य स्वतः सिद्धत्वेऽपि विमर्शजन्यस्य कृतिसाध्यत्वम् । अन्यथा अध्ययनविधेरुत्तरक्रतुविधेर्वा तदाक्षेपकता न स्यादिति वाच्यम् । तज्जनकविचार एव विधेयताप्रयोजककृतिसाध्यत्वपर्यवसानेन तादृशज्ञानेऽप्यसम्भवात् । न द्वितीयः । स किं मोक्षाय विधीयते ? साक्षात्काराय वा ? नाद्यः । तस्य नैयोगिकत्वेन स्वर्गादिवदनित्यत्वा-पातात् । न च बन्धध्वंसस्य नैयोगिकत्वेऽपि ध्वंसत्वात् श्रुत्यादिबलाच्च नित्यत्वोपपत्तिरिति वाच्यम् । न हि मन्नय इव त्वन्नयेऽपि बन्धध्वंसमात्रं मुक्तिः किन्तु लोकान्तरप्राप्तिः । तस्यामुक्तदोषता-दवस्थ्यापत्तिः । न चानावृत्तिश्रुत्या नित्यत्वम्, ‘तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ इति श्रुत्या नैयोगिकस्यानित्यत्वावगमात् । न चैतच्छ्रुतिविरोधेन तस्यानित्यत्वाबोधकत्वम्, ‘यत्कृतकं तदनित्यम्’ इति युक्त्युपोद्वलिततया प्राबल्यात् । न द्वितीयः । तत् किं दृष्टफलकम् ? अदृष्टफलकं वा ? नाद्यः । परोक्षज्ञानाभ्यासेन तत्त्वसाक्षात्कारादर्शनात् । न द्वितीयः । प्रमाणायत्तत्वात्तस्य । अत एव न तृतीयः, ध्यानस्य ज्ञानरूपत्वाभावाच्च । न चतुर्थः शब्दस्यापि प्रामाण्याभावापाताद् ब्रह्मणि प्रमाणीभूतज्ञानकर्तव्यतायामेव प्रामाण्यात् । न च महातात्पर्यमादाय ब्रह्मण्यपि प्रामाण्यम्, तादृशज्ञानस्यापि प्रमाणायत्ततया विधिफलत्वाभावात् । तस्मात् पत्न्यवेक्षितमाज्यमित्यादावपि ज्ञानस्याविधानाद् ध्यानस्यापि विज्ञानव्यतिरेकसाधनात् सूक्ष्मशास्त्रार्थबुद्धौ कृत्यन्वयव्यतिरेकयोस्तत्साधनविषयतयान्यथासिद्धत्वाच्च नात्मज्ञानं विधातुं शक्यते । तदेवं श्रवणस्य ज्ञानरूपत्वे विधेयत्वानुपपत्तिः । तस्मात् ज्ञानविजातीयं श्रवणम् अपरोक्षज्ञानजनकशब्देतिकर्तव्यता-रूपविचारात्मकं मनननिदिध्यासनाङ्गकं प्रमेयावगमं प्रत्यङ्गतया प्रधानभूतमपरोक्षज्ञानफलकतया विधीयत इति सिद्धम् ।। इत्यद्वैतसिद्धौ ज्ञानविधिभङ्गः ।। ८ ।।
न्यायामृततरङ्गिणी
कुण्ठीभवन्तीति ।। ‘जर्तिलयवाग्वा जुहुयात्’ इत्यादिवदर्थवादा भवन्तीत्यर्थः । बाधकं विना वैदिकलिङादीनाम् अर्थवादत्वोक्तिरयुक्तेत्याह– पत्न्यवेक्षितमिति ।। जर्तिलादिवाक्येषु बाधकं दशमाध्यायस्याष्टमपादेऽभिहितम् । तथा हि । ‘अग्निहोत्रे जर्तिलयवाग्वा वा जुहुयाद्गवीधुकयवाग्वा वा’ इत्युक्त्वा ‘अनाहुतिर्वै जर्तिलाश्च गवीधुकाश्च’ इति चोक्त्वा ‘पयसाऽग्निहोत्रं जुहुयात्’ इति श्रुतम् । तत्र जर्तिलादिवाक्यस्य विधित्वेऽनाहुतिवादोऽनर्थकः स्यात् । तस्य हि षोडशिग्रहणवाक्यवद्विहितप्रतिषेधत्वाद्विकल्पः फलम् । तच्चानाहुतिवादं विनापि पयोवाक्यसद्भावात्सिद्धम् । तस्मादनाहुतिवादस्तावज्जर्तिलादिनिन्दाद्वारेण पयसः स्तुत्यर्थः । यदा चैवं तदा जर्तिलादिविधिरपि तन्निन्दाद्वारेण पयसः प्रशस्ततरत्वं ज्ञापयन्नर्थवाद इति । ‘पत्न्यवेक्षितम्’ इत्यादौ तु न किञ्चिद्बाधकमिति भावः । तदिदं वक्ष्यति ‘वृथैव वैदिकलिङादेरस्वारस्यायुक्तेः’ इति ।। भक्षेहीति ।। तृतीयस्य द्वितीयेऽभिहितम् । लिङ्गसमाख्याभ्यां भक्षार्थतानुवाक्यस्यास्ति भक्षानुवाको भक्षे हि मा विश दीर्घायुत्वायेत्यादिः । तत्र कश्चिदंशो भक्षणप्रकाशक उपहूतस्य, ‘उपहूतो भक्षयामि’ इत्यादिः, कश्चिद्ग्रहणस्य ‘अश्विनोस्त्वा बाहुभ्यां सख्यासम्’ इत्यादिः । सख्या सन्धारयामीत्यर्थः । कश्चिदवेक्षणस्य ‘अवख्येषम्’ इत्यादिः । तत्र किं सर्वोऽप्ययं मन्त्रो भक्षणे विनियोक्तव्य उत ग्रहणादिष्वपि यथासामर्थ्यं विभज्य विनियोक्तव्य इति संशये भक्षानुवाकसमाख्यावशाद्विहितभक्षण-प्रकाशकांशैकवाक्यत्वाच्च सर्वोऽपि भक्षणे विनियोक्तव्यः । यद्यपि सख्या समित्यादेर्ग्रहणादि-प्रकाशनसामर्थ्यरूपं लिङ्गमस्ति । तच्च वाक्यसमाख्याभ्यां बलवत् । तथापि मुख्यस्य ग्रहणादेरर्थप्राप्तस्यावेदितत्वेनाक्रत्वर्थत्वात्तादर्थ्येन मन्त्रस्य क्रत्वपूर्वानुपयोगितयाऽनर्थक्या पत्तेरसम्भवति लिङ्गविनियोगे सवित्रादिपदानामिव लक्षणया वाक्यशेषवशेन प्राक्कालवर्ति-ग्रहणादिविशिष्टचोदितभक्षार्थता युक्ता । तदुक्तम्–
सर्वस्य भक्षणाङ्गत्वं ग्रहणादेरचोदनात् ।
अक्रत्वर्थो न मन्त्रस्य द्वारीभवितुमर्हति ।।
भक्षानुवाकसंज्ञा च भक्षणाङ्गत्वबोधिनी । सामर्थ्यं चास्ति मन्त्रस्य भक्षणे तद्विशेषणात् ।। इति । तस्मात्सर्वानुवाको भक्षाङ्गमिति प्राप्ते असति ग्रहणादौ चोदितो भक्षो न शक्यते कर्तुमित्यर्थात्तदपि कर्तव्यं भक्षणाच्चोदनयैव न चोदितमित्यपि वक्तुं तच्चास्मृतमशक्य-मनुष्ठातुमिति स्मारकापेक्षत्वाद्भक्षद्वारेण च क्रतूपयोगत्वाच्छक्नोति स्मारकं मन्त्रं ग्रहीतुम् । एवं सम्भवति लैङ्गिके विभज्यविनियोगे वाक्यसमाख्याभ्यामेकवाक्यत्वापादनेन भक्षार्थता सर्वस्य न युज्यते । समाख्या च भक्षसम्बन्धमात्रं प्रतिपादयन्ती सम्बन्धस्य साक्षाद्वा ग्रहणादिद्वारेण वोभयथाप्युपपत्तेर्नानुपपन्ना । सम्यग्जरणपर्यन्तं च भक्षणं स्वरसतो लोकसिद्धम् । तादृशमेव द्रवद्रव्यस्य भक्षणमिति जरणमपि विधेयम् । तच्चासनविशेष-व्यापारादिसाध्यमिति युक्तस्तत्रापि मन्त्रविनियोगः । तस्माद्विभज्य विनियोगः । तदुक्तम्–
ग्रहणादौ विभागेन विनियोगोऽस्य लिङ्गतः ।
वाक्यसंज्ञे हि नेशाते कर्तुं लिङ्गस्य बाधनम् ।।
ग्रहणादिव शास्त्रेण भक्षाद्यर्थेप्यचोदितम् । तथापि चोदितार्थेन कर्तव्यत्वात्प्रकाश्यते ।। इति । गुणाभिधानान्मन्द्रादिरेकमन्त्रः स्यात्तयोरेकार्थसंयोगादित्युत्तराधिकरणे मन्द्राभि-भूतिरित्यादि तृप्यत्वित्यन्तं तृप्तौ विनियोक्तव्यमुत वसुमद्गणादेकवाक्यं सत्तृप्तिविशिष्टं भक्षणमेव प्रकाशयतीति । पूर्ववल्लिङ्गात्तृप्तिप्रकाशने प्राप्तेऽभिधीयते । ‘तृप्तिर्भक्षा तु निष्पन्ना न व्यापारान्तरार्थिनी । तेन स्मृत्यनपेक्षत्वान्न मन्त्रोऽत्र प्रयुज्यते’ । तस्मात्तृप्तौ न विभज्य विनियोग इति ।। अनुनिष्पादिततयेति ।। भक्षणे दत्ते स्वयमेव तदनुसिद्धत्वात् ।। अवेक्षणस्येति ।। गृहीत्वावेक्षे सम्यग्जरणाय भक्षयामीत्येवं ग्रहणावेक्षणादीनाम् अनुष्ठेयत्वादत्राप्यवेक्षणशब्देन प्रियसंयोग इति कस्यचित्प्रलपनं निर्मूलम् ।। एकश्रोत्रगतेति ।। न चानभिमतवैमुख्यस्यैव बुभुत्सा प्रयत्नसाध्यतया ज्ञानं प्रति तयोरजनकत्वमिति वाच्यम् । अनभिमतविषयवैमुख्ये सत्यप्यभिमतविषयसाम्मुख्यं विना तदग्रहणस्यानुभवसिद्धत्वात् ।। अविहितस्य चेति ।। तदुक्तं शाबरभाष्ये । न चाविहितम् अङ्गं भवतीति । न चात्र विद्याशब्देनोपासनेति वाच्यम् । विद्याशब्दस्य ज्ञाने मुख्यत्वात् ।। अतिसूक्ष्मेति ।। ब्रह्मज्ञानादाविच्छादिविषयत्वं प्रामाणिकम् अत्र तु न तदित्येवाप्रामाणिकम् ।। शास्त्रार्थेति।। अत्र सर्वत्र साधनस्यैव पुन्तन्त्रत्वकल्पनं तु जल्पनमेव । अत एवाह– नामादिष्विति ।। विध्यनुपपत्तेरुभयत्राप्यभावात् ।। प्रयत्नसाध्यत्वानुभवादिति ।। अतदनुभवस्यानन्यथा-सिद्धत्वेन तदन्यथासिद्धिरसिद्धेत्यर्थः ।। प्रयत्नेति ।। समाधेरप्रयत्नसाध्यत्वोक्त्या ध्यान-धारणयोः प्रयत्नसाध्यत्वम् अवगम्यते ।। त्वन्मतेऽपीति ।। न चात्र वृत्तिगुण एव विधेय इति युक्तम् । आवर्त्यमानानुष्ठेयत्वे तदावृत्तेर्विषयत्वात् । ग्रहाभ्यासवत् ।। श्रवणमिति ।।
यत्तु वाक्यार्थप्रमित्युपयुक्ततात्पर्यनिर्णयद्वारोपक्रमादिलिङ्गविचाराद्यात्मकश्रवणादे-रज्ञानादिविरोधितया स्मृत्यनुभवयोरुपपत्तिरिति ।। तन्न । लिङ्गविचारस्य ज्ञानानात्मकत्वे संशयाद्यनिवर्तकत्वात् । ज्ञानस्यैव तन्निवर्तकत्वात् ज्ञानात्मकत्वे त्विष्टापत्तेः । तदिदमुक्तं– श्रवणादीनां ज्ञानातिरेकेण दुर्निरूपत्वस्योक्तत्वादिति ।। विचारत्वेति ।। ज्ञानानात्मक-विचारत्वानुपपत्तेरित्यर्थः ।। त्वयापीति ।। श्रवणादौ विधिमनङ्गीकुर्वतापि ।। तस्याभिध्या-नादिति ।। योजनरूपाच्छ्रवणात्तत्वभावरूपान्मननात्समुत्थं यद् ब्रह्मविषयं ध्यानं ततो मायाभूयोपि प्रारब्धतो भोगाय या स्थिता सापि निवर्तत इति परेषां श्रुत्यर्थः । न चात्र साक्षात्कार एव निवर्तकः । तस्याश्रुतत्वात् । ध्यानात्पूर्वमपि सत्त्वाच्च ।। विदिधात्विति ।। विदेरमुख्यार्थत्वकल्पनं तु जल्पनमात्रम् ।। पुन्तन्त्रत्वेति ।। पुमिच्छानुविधायित्वम् ।। वेदान्तवाक्येति ।। अनेन रूपेण ज्ञाने च न मननविषयज्ञानमायातीत्यर्थः ।। कर्मकाण्डेऽ-पीति ।। न च ज्ञानजनकविचार एव कृतिसाध्यता । विचारस्यापि ज्ञानानतिरेकस्योक्त-त्वात् ।। दृष्टफलत्व इवेति ।। पश्वादेर्दृष्टफलस्यानित्यत्वेऽपि तथाविधस्यापि बन्धध्वंसस्य नानित्यत्वं यथा तथा स्वर्गादेर्यौगिकफलस्यानित्यत्वेऽपि तथाविधस्यापि बन्धध्वंसस्य ध्वंसत्वात् श्रुत्यादिबलाच्च नित्यत्वं भवतु ।
ध्वंसत्वादिति ।। न च त्वन्मतेन ध्वंसमात्रं मुक्तिः । किन्तु लोकान्तरप्राप्तिरपि । अतस्तस्यानित्यत्वप्राप्तिरिति वाच्यम् । श्रुतिबलाल्लोकान्तरस्यापि नित्यत्वावगमात् । यत्र ज्योतिरजस्त्रमित्यत्रामृते लोके अक्षित इति । सुकिंशुकं शल्मलिमित्यादौ अमृतस्य लोकमित्युक्तेः । यथेह पुण्यजितो लोकः क्षीयते एवमेवामुत्र पुण्यजितो लोकः क्षीयत इति श्रुतिस्तु केवलपुण्यार्जितलोकविषया ।। ज्ञानविधीति ।। त्वन्मते तत्वंपदार्थशोधकवाक्यस्य ब्रह्मणीवेत्यर्थः ।। इति ज्ञानविधिसमर्थनम् ।। ८ ।।
न्यायामृतकण्टकोद्धारः
‘श्रोतव्यः’ इत्यादेः शब्दज्ञानादिरूपश्रवणादिविधित्वमुक्तमाक्षिपति– अत्र परैरिति । ज्ञानस्यापि विधेयत्वे अनिच्छतोऽपीत्ययं हेतुः । तर्हि तस्याकस्मिकताऽऽयातेत्यत उक्तं प्रमाणेति । तर्हि लिङादिप्रत्ययस्यानर्थक्यमित्यत आह– लिङादय इति । ननु तत्रावेक्षण-हेत्विन्द्रियसन्निकर्ष एव विधीयत इति न ज्ञानविधिरुपपद्यत इत्यत आह– तत्र चेति ।। ज्ञानविधेरुपपादयिष्यमाणत्वेनानन्यगतेरभावात् । किञ्च सम्प्रयोगस्य किं साक्षात्कृति-साध्यत्वाद् विधेयत्वमुत परम्परया ? नाद्य इत्याह– संप्रयोगस्येति । द्वितीयं प्रत्याह– परम्परयेति । ननु संप्रयोगो भवत्वितीच्छायां सत्यामेव तस्य भावाद् विधेयत्वमित्यत आह– अनिच्छतः इति । तथा च ज्ञानसाधनसंप्रयोगविधिर्युज्यत इति भावः । न च स्वर्गादिवत् फलेच्छाधीनकृतिसाध्यत्वस्य विधेयताप्रयोजकस्य ज्ञानेऽभावात् संप्रयोगे च भावाद् विशेष इति वाच्यम् । श्रवणादिरूपज्ञानेऽपि मोक्षरूपफलेच्छाधीनकृतिसाध्यत्वसत्वेन विशेषाभावात् । अवेक्षणविध्यनङ्गीकारे मीमांसाविरोधश्चेत्याह– भक्षेहीति भक्षमन्त्रे इति । न चेन्द्रिय-संप्रयोगरूपावेक्षणस्य तृप्त्यादि वदनुनिष्पादित्वाभावाद् अनुष्ठेयतया तत्प्रकाशकभागस्य तत्र विभज्य विनियोग इत्येवंपरत्वान्न विरोध इति वाच्यम् । ईक्षणस्येन्द्रियसंप्रयोगरूपत्वोक्तेः शब्दार्थाबोधनिबन्धनत्वात् । ‘ईक्ष दर्शनाङ्कनयोः’ इति हि पठ्यते । तथा च न तदुक्ति-रन्यथयितव्येति सुस्थस्तद्विरोध इति भावः ।
दूषणान्तरमाह– एकश्रोत्रेति । अस्त्वङ्गत्वश्रवणम् । तथापि विधेयत्वं कुत इत्यत आह– अविहितस्य चेति । न चास्य वाक्यस्योपासनाप्रकरणस्थतया विद्यापदस्योपासनापरतया तस्या एव विहितत्वेनाङ्गत्वाविरोध इति वाच्यम् । उपासनस्यापि ध्यानरूपतया तस्य ज्ञानरूपतायाः समर्थयिष्यमाणत्वेन दोषाभावात् । ननु दुर्गन्धादिज्ञानस्येच्छाप्रयत्न-साध्यत्वाभाववत् ज्ञानत्वाविशेषाद् ब्रह्मज्ञानस्यापि इच्छाप्रयत्नसाध्यत्वाभाव इत्यत आह– दुर्गन्धादीति । न च प्रामाणिकदृष्टविजातीयकिञ्चिद्धर्मदर्शनेनाप्रमाणिकवैजात्यकल्पनम् अयुक्तमिति वाच्यम् । अनुभवादिप्रमाणैः ब्रह्मज्ञानस्येच्छाप्रयत्नसाध्यत्वस्य साधयिष्य-माणत्वेनाप्रामाणिकत्वाभावात् । ज्ञानस्य प्रयत्नसाध्यताया अन्वयव्यतिरेकसिद्धत्वाच्च । न चान्वयव्यतिरेकौ ज्ञानसाधन एवोपक्षीणाविति न ज्ञानस्य प्रयत्नसाध्यत्वे प्रमाणमिति वाच्यम् । अनुभवादिप्रमाणसिद्धसाधनत्वस्यान्यत्रोपक्षयकल्पने इन्द्रियान्वयव्यतिरेकयोरपि अर्थसन्निकर्ष एवोपक्षीणत्वसम्भवेनान्यथासिद्धतया ज्ञानजनकत्वाभावप्रसङ्गात् ।। शास्त्रार्थेति ।। न चात्रापि ज्ञानसाधनस्यैव पुंतन्त्रत्वमिति वाच्यम् । उक्तोत्तरत्वात् । विधिनिषेधदर्शनानुराधेनापि ज्ञानविधिः स्वीकर्तव्य इत्याह– प्रशस्तेति । ननु यत्र प्रशस्तज्ञानं विधीयते तत्र तज्ज्ञानकारणस्यैव पुंतन्त्रत्वमङ्गीक्रियत इति न ज्ञानविधिरित्यत आह– तत्र चेति । सामान्यतो ज्ञानविधिं समर्थ्य विशेषतः श्रवणादित्रयस्य प्रयत्नसाध्यत्वमनुभवे-नोपपादयति– अनेकेति । स्मृत्याऽप्युपपादयति– निदिध्यासनादेश्चेति । परमतेनाप्युप-पादयति– त्वन्मतेऽपीति । एवमपि सन्तानिभूतज्ञानानां कृत्यसाध्यत्वादविधेयत्वमेवेत्यत आह– सन्तानिनां चेति ।
ननु श्रवणादिविधिसमर्थनेऽपि न ज्ञानस्य विधेयत्वम् । श्रवणादेर्ज्ञानरूपत्वाभावादित्यत आह– श्रवणादीनाञ्चेति । विपक्षे बाधकेनाप्युपपादयति– तेषां चेति । किञ्च ध्यानस्य ज्ञानरूपत्वम् अवश्यम् अङ्गीकर्तव्यम् । अन्यथा हि ध्याते स्मरणं न स्यात् । स्मरणं संस्कारजन्यम् । संस्कारस्तु ज्ञानजन्यः । ध्यानस्य ज्ञानत्वानङ्गीकारे च ध्यानानन्तरभाविनः स्मरणप्राक्कालीनस्य तत्स्मरणजनकसंस्कारजनकस्य ज्ञानान्तरस्याभावात् तत्स्मरणं न स्यात् । न च मध्ये ज्ञानान्तरं कल्प्यत इति वाच्यम् । अप्रामाणिकतत्कल्पने गौरवापत्तेः । न चैवमपि संस्कारस्यानुभवजन्यत्वात् ध्यानस्य न स्मरणरूपत्वेन संस्काराजनकत्वात् ध्याते स्मरणाभावः स्यादेवेति वाच्यम् । अनुभवस्यैव संस्कारजनकत्वमित्यस्याप्रयोजकत्वात् । तथा हि– न तावदनुभवत्वं संस्कारजनकतावच्छेदकम् । निर्विकल्पकानुभवस्य संस्कार-जनकत्वापत्तेः । न च निर्विकल्पकभिन्नत्वविशेषितमवच्छेदकमिति वाच्यम् । तथा सति अपेक्षाज्ञानस्यापि संस्कारजनकत्वापत्तेः । न च तद्भिन्नत्वेनापि विशेषणीयम् । एवमपि संशयस्यापि तज्जनकत्वापत्तेः । न च संशयभिन्नत्वेनापि विशेषणीयम् । एवं च संशयभिन्न-निर्विकल्पकभिन्नापेक्षाज्ञानभिन्नजन्यानुभवत्वेनैव संस्कारजनकत्वमिति न ध्यानस्य तज्जनकत्वमिति वाच्यम् । एतदपेक्षया उक्तविधजन्यज्ञानत्वस्यैव संस्कारजनकतावच्छेदकत्व-सम्भवात् । अनुभवशब्दार्थपर्यालोचनया तत्रापि गौरवात् । एकदा स्मरणानन्तरं संस्कार-दार्ढ्यानुभवाच्च । तस्माद् ध्यानस्य स्मृतिरूपत्वेति न संस्कारजनकत्वं सम्भवतीत्युक्तम् अयुक्तम् ।
ननु प्रमाणादिपरतन्त्रस्य ज्ञानस्य कथं पुंतन्त्रत्वमित्यत आह– प्रमाणादीति । ननूपांशुयाजवाक्यमध्यस्थस्य विष्ण्वादिवाक्यस्य विधिपरत्वाभाववत् श्रोतव्य इत्यादेरपि ब्रह्मपरवाक्यमध्यस्थत्वान्न विधिपरत्वमित्यत आह– ब्रह्मपरेति । कथमुभयविधक्रियात्वं ज्ञानस्येत्यत आह– शास्त्रार्थमिति । उक्तमर्थं सङ्गृह्णाति– तस्मादिति । बाधकान्तरमा-शङ्कते– ननु तथापीति । प्रतिबन्द्या परिहरति– त्वयापीति । प्रतिबन्द्या अनुत्तरत्वादाह– सामान्यत इति । नैयोगिकफलत्वेनेति । नियोगसाध्यं नैयोगिकम् । नियोगो ह्यपूर्वम् । परोक्षज्ञानेति । अन्यथा धर्मादिविषयपरोक्षज्ञानाभ्यासेन तत्साक्षात्कारः स्यादिति भावः । अत एवेत्यस्यार्थमाह– प्रोषितेति । तर्हि किं सर्वथाऽप्रामाण्यमेव तस्येत्यत आह– ब्रह्मणीति । ब्रह्मापरोक्ष्यफलत्वात् ज्ञानं ब्रह्मणि प्रमाणम् । विधिरूपशब्दस्य तु ज्ञानकर्तव्यतायामेव प्रामाण्यं स्यादिति भावः । विमर्शजन्यस्येति । अन्यथेति । विमर्शजन्यस्य कृत्यसाध्यत्व इत्यर्थः ।। इति ज्ञानविधिसमर्थनम् ।। ८ ।।
न्यायकल्पलता
कुण्ठीभवन्तीति ।। ‘जर्तिलयवाग्वा वा जुहुयात्’ इतिवदर्थवादा भवन्तीत्यर्थः । १बाधकं विना वैदिकलिङादीनाम् अर्थवादत्वोक्तिरयुक्तेत्याह– पत्न्यवेक्षितमिति ।। जर्तिलादिवाक्ये तु बाधकं दशमाध्यायस्याष्टमपादेऽभिहितम् । तथा हि– ‘अग्निहोत्रे जर्तिलयवाग्वा वा जुहुयाद्गवीधुकयवाग्वा वा’ इत्युक्त्वा ‘अनाहुतिर्वै जर्तिलाश्च गवीधुकाश्च’ इति चोक्त्वा ‘पयसाऽग्निहोत्रं जुहुयात्’ इति श्रुतम् । तत्र जर्तिलादिवाक्यस्य विधित्वेऽनाहुतिवादोऽनर्थकः स्यात् । तस्य हि षोडशि-(श्य)ग्रहणवाक्यवद्विहितप्रतिषेधत्वाद्विकल्पः फलम् । तच्चानाहुतिवादं विनापि पयोवाक्यसद्भावा-त्सिद्धम् । तस्मादनाहुतिवादस्तावज्जर्तिलादिनिन्दाद्वारेण पयसः स्तुत्यर्थः । यदा चैवं तदा जर्तिलादिविधिरपि तन्निन्दाद्वारेण पयसः प्रशस्ततरत्वं ज्ञापयन्नर्थवाद इति । ‘पत्न्यवेक्षितम्’ इत्यादौ तु न किञ्चिद्बाधकमिति भावः । तदिदं वक्ष्यति ‘वृथैव वैदिकलिङादेरस्वारस्यायुक्तेः’ इति ।। भक्षेहीति ।। तृतीयस्य द्वितीये चिन्तितम् । लिङ्गसमाख्याभ्यां भक्षार्थतानुवाक्यस्यास्ति भक्षानुवाकः ‘भक्षे हि मा विश दीर्घायुत्वाय’ इत्यादिः । तत्र कश्चिदंशो भक्षणस्य प्रकाशकः उपहूतस्य ‘उपहूतो भक्षयामि’ इत्यादिः, कश्चिद्ग्रहणस्य ‘अश्विनोस्त्वा बाहुभ्यां सख्यासम्’ इत्यादिः । सख्यासं धारयामीत्यर्थः । कश्चिदवेक्षणस्य ‘अवख्येषम्’ इत्यादिः । तत्र किं सर्वोऽप्ययं मन्त्रो भक्षणे विनियोक्तव्य उत ग्रहणादिष्वपि यथासामर्थ्यं विभज्य विनियोक्तव्य इति संशये भक्षानुवाक समाख्यावशा-द्विहितभक्षणप्रकाशकांशैकवाक्यत्वाच्च सर्वोऽपि भक्षणे विनियोक्तव्यः । यद्यपि सख्या समित्यादे-र्ग्रहणादिप्रकाशनसामर्थ्यरूपं लिङ्गमस्ति । तच्च वाक्यसमाख्याभ्यां बलवत् । तथापि मुख्यस्य ग्रहणादेरर्थ प्राप्तस्याचो(वे)दितत्वेनाक्रत्वर्थत्वात्तादर्थ्येन मन्त्रस्य क्रत्वपूर्वानुपयोगितयाऽनर्थक्यापत्तेर-सम्भवति लिङ्गविनियोगे सवित्रादिपदानामिव लक्षणया वाक्यशेषवशेन प्रागूर्ध्वलवर्तिग्रहणादि-विशिष्टचोदितभक्षार्थता युक्ता । तदुक्तम्–
सर्वस्य भक्षणाङ्गत्वं ग्रहणादेरचोदनात् ।
अक्रत्वर्थो न मन्त्रस्य द्वारीभवितुमर्हति ।।
भक्षानुवाकसंज्ञा च भक्षणाङ्गत्वबोधिनी ।
सामर्थ्यं चास्ति मन्त्रस्य भक्षणे तद्विशेषणात् ।। इति ।
तस्मात्सर्वानुवाको भक्षाङ्गमिति प्राप्ते असति ग्रहणादौ चोदितो भक्षो न शक्यते कर्तुमित्यर्थात्तदपि कर्तव्यं भक्षणचोदनयैव वा चोदितमित्यपि शक्यं वक्तुम् । तच्चास्मृतमशक्यमनुष्ठातुमिति स्मारकापेक्षत्वा-द्भक्षद्वारेण च क्रतूपयोगित्वाच्छक्नोति स्मारकं मन्त्रं ग्रहीतुम् । एवं सम्भवति लैङ्गिके विभज्य विनियोगे वाक्यसमाख्याभ्यामेकवाक्यत्वापादानेन भक्षार्थता सर्वस्य न युज्यते । समाख्या च भक्षसम्बन्धमात्रं प्रतिपादयन्ती सम्बन्धस्य साक्षाद्वा ग्रहणादिद्वारेण वोभयथाप्युपपत्तेर्नानुपपन्ना । सम्यग्जरणपर्यन्तं च भक्षणं स्वरसतो लोकसिद्धम् । तादृशमेव द्रवद्रव्यस्य भक्षणमिति जरणमपि विधेयम् । तच्चासनविशेषव्यापारादिसाध्यमिति युक्तस्तत्रापि मन्त्रविनियोगः । तस्माद्विभज्य विनियोगः । तदुक्तम्–
ग्रहणादौ विभागेन विनियोगोऽस्य लिङ्गतः ।
वाक्यसंज्ञे हि नेशाते कर्तुं लिङ्गस्य बाधनम् ।।
ग्रहणाभिधानान्मन्द्रादिरेव मन्त्रः स्यात्, ‘तयोरेकार्थसंयोगात्’ इत्युत्तराधिकरणे मन्द्राभिभूतिरित्यादि तृप्यत्वित्यन्तं तृप्तौ विनियोक्तव्यमुत वसुमद्गणादेकवाक्यं सत्तृप्तिविशिष्टं भक्षणमेव प्रकाशयतीति । पूर्ववल्लिङ्गात्तृप्तिप्रकाशने प्राप्तेऽभिधीयते । ‘तृप्तिर्भक्षा तु निष्पन्ना न व्यापारान्तरार्थिनी । तेन स्मृत्यनपेक्षत्वान्न मन्त्रोऽत्र प्रयुज्यते’ । तस्मात्तृप्तौ न विभज्य विनियोग इति ।। अनुनिष्पादित-तयेति ।। भक्षणे कृते स्वयमेव तदनुसिद्धत्वादित्यर्थः ।। अवेक्षणस्येति ।। गृहीत्वावेक्ष्य सम्यग्जरणाय भक्षयामीत्येवं ग्रहणावेक्षणादीनाम् अनुष्ठेयत्वादत्राप्यवेक्षणशब्देनेन्द्रियसंप्रयोग इति कस्यचित्प्रलपितं निर्मूलम् । एतेन स्वर्गादाविव स्वेच्छाधीनकृतिसाध्यत्वं विधेयताप्रयोजकं ज्ञाने नास्तीति निरस्तम् । संप्रयोगस्यापि तथात्वाच्च । एकश्रोत्रगतेति ।। नन्वनभिमतवैमुख्यस्यैव बुभुत्साप्रयत्नसाध्यतया ज्ञानं प्रति तयोरजनकत्वमिति । मैवम् । अनभिमतविषयवैमुख्ये सत्यप्यभिमतविषयसाम्मुख्यमन्तरेण तदग्रहणस्यानुभवसिद्धत्वात् ।। अविहितस्य चेति ।। तदुक्तं शाबरभाष्ये– ‘न चाविहितम् अङ्गं भवति’ इति । न चात्र विद्याशब्देनोपासनेति युक्तम् । विद्याशब्दस्य ज्ञाने मुख्यत्वात् । ‘सञ्ज्ञायां समजनिषदनिपतमनविदेति’ पाणिनिस्मरणात् ।। अतिसूक्ष्मेति ।। ब्रह्मज्ञानादाविच्छादिविषयत्वं प्रामाणिकम् अत्र तु न तदित्येवाप्रामाणिकम् ।। शास्त्रार्थेति ।। अत्र सर्वत्र साधनस्यैव पुन्तन्त्रत्वकल्पनं तु वाचाटत्वमेव । अत एवाह– नामादिष्विति ।। विध्यनुपपत्तेरुभयत्राप्यभावात् ।। अतिप्रयत्नसाध्यत्वानुभवादिति ।। अत्र तदनुभवस्यानन्यथासिद्धत्वेन तदन्यथासिद्धिरसिद्धेत्यर्थः ।। प्रयत्नेति ।। समाधेरप्रयत्नसाध्यत्वोक्त्या ध्यानधारणयोः प्रयत्नसाध्यत्वम् अवगम्यते ।। त्वन्मतेऽ-पीति ।। न चात्रावृत्तिगुण एव विधेय इति युक्तम् । आवर्त्यमानानुष्ठेयत्वे तदावृत्तेर्विधेयत्वात् । ग्रहाभ्यासवत् ।। श्रवणमिति ।।
ननु वाक्यार्थप्रमित्युपयुक्ततात्पर्यनिर्णयद्वारा उपक्रमादिलिङ्गविचाराद्यात्मकश्रवणादेरज्ञानादि-विरोधितया स्मृत्यनुभवयोरुपपत्तिरिति । मैवम् । लिङ्गविचारस्य ज्ञानानात्मकत्वे संशयाद्यनिवर्तकत्वा-पातात् । ज्ञानस्यैव तन्निवर्तकत्वात् । ज्ञानात्मकत्वे त्विष्टापत्तेः । तदिदमुक्तं– श्रवणादीनां ज्ञानातिरेकेण दुर्निरूपत्वस्योक्तत्वादिति ।। विचारत्वेति ।। ज्ञानानात्मकविचारत्वानुपपत्तेरित्यर्थः ।। त्वयापीति ।। श्रवणादौ विधिमनङ्गीकुर्वतापि ।। तस्याभिध्यानादिति ।। योजनरूपाच्छ्रवणात्तत्वभावरूपान्मनना-त्समुत्थं यद् ब्रह्मविषयं ध्यानं ततो माया भूयोऽपि प्रारब्धभोगाय या स्थिता सापि निवर्तत इति परेषां श्रुत्यर्थः । न चात्र साक्षात्कार एव तन्निवर्तकः । तस्यात्राश्रुतत्वात् । ध्यानात्पूर्वमपि सत्त्वाच्च । तत्वभावेनानारोपितगुणवत्त्वे न तस्मिन् भूयो मनोयोजनादि निदिध्यासनादन्ते निर्णयेऽपरोक्षज्ञाने सति तस्याभिध्यानात् तत्प्रसादात् सर्वबन्धामाया निवर्तत इति तत्त्वविदामर्थः । विदि धात्विति ।। विदेरमुख्यार्थत्वकल्पनं तु जल्पनमात्रम् ।। पुन्तन्त्रत्वेति ।। पुमिच्छानुविधायित्वम् । ननु न विधेयं ज्ञानम् अक्रियात्वात् इत्याशङ्क्य निराकरोति– न च ज्ञानस्येति ।। उपसंहरन् सङ्गृह्णाति– तस्मादिति ।। विकल्पानुपपत्तेरिति भावः ।। वेदान्तवाक्येति ।। अनेन रूपेण ज्ञाने च (न) मननविषयज्ञानमायातीत्यर्थः ।। कर्मकाण्डेऽपीति ।। न च ज्ञानजनकविचार एव कृतिसाध्यतेति देश्यम् । विचारस्यापि ज्ञानानतिरेकस्योक्तत्वात् ।। दृष्टफलत्व इवेति ।। पश्वादेर्दृष्टफलस्यानित्यत्वेऽपि तथाविधस्यापि ध्वंसस्य नानित्यत्वं यथा तथा स्वर्गादेर्नैयोगिकफलस्यानित्यत्वेऽपि तथाविधस्यापि बन्धध्वंसस्य ध्वंसत्वात् श्रुत्यादिबलाच्च नित्यत्वं भवतु ।
ध्वंसत्वादिति ।। न च त्वन्मते न ध्वंसमात्रं मुक्तिः । किन्तु लोकान्तरप्राप्तिरपि । अतस्तस्या-मनित्यत्वप्राप्तिरिति युक्तम् । श्रुतिबलाल्लोकान्तरस्यापि नित्यत्वावगमात् । ऋग्वेदे– ‘यत्र ज्योतिरजस्त्रं यस्मिंल्लोके स्वर्हितं तस्मिन्मां धेहि पवमानोऽमृतेे लोके अक्षिते । इन्द्रायेन्द्रो परिस्रव । सुकिंशुकं शल्मलिं विश्वरूपम् । आरोह सूर्येऽमृतस्य लोकम्’ इति श्रवणात् । ‘यथेह पुण्यजितो लोकः क्षीयते एवमेवामुत्र पुण्यजितो लोकः क्षीयते’ इति श्रुतिस्तु केवलकाम्यपुण्यार्जितलोकविषया । ‘न हास्य कर्म क्षीयते’ इति श्रुतेः । ‘ईयुस्त्रीन् कर्मणा लोकान् ज्ञानेनैव तदुत्तरान्’ इति स्मृतेश्च । ज्ञान-विधीति ।। त्वन्मते तत्वंपदार्थशोधकवाक्यस्य ब्रह्मणीवेत्यर्थः । तेन श्रवणस्य ज्ञानरूपत्वे विधेयत्वानुपपत्तेः ज्ञानविजातीयं श्रवणम् अपरोक्षज्ञानजनकेतिकर्तव्यतारूपविचारात्मकं मनन-निदिध्यासनाङ्गकं प्रमेयावगमं प्रत्यङ्गतया प्रधानभूतापरोक्षज्ञानफलकतया विधीयते इति निरस्तम् ।।
।। इति ज्ञानविधिसमर्थनम् ।। ८ ।।