केचित्तु अधीतात्स्वाध्यायात्प्रयोजनवदर्थदर्शनात्तन्निर्णयाय पुरुषः ..

४. श्रोतव्य इत्यादेरनुवादकत्वभङ्गः

न्यायामृतम्

केचित्तु अधीतात्स्वाध्यायात्प्रयोजनवदर्थदर्शनात्तन्निर्णयाय पुरुषः स्वयमेव तत्त्वदर्शिन आचार्यान्न्याय युक्तवाक्यार्थग्रहणरूपे श्रवणे प्रवर्तत इति ‘श्रोतव्यः’ इत्यनुवादः । आचार्योपदिष्टस्यार्थस्य स्वात्मन्येवमेव युक्तमिति हेतुतः प्रतिष्ठापन-रूपस्य मननस्य श्रवणप्रतिष्ठार्थत्वेन प्राप्तत्वात् ‘मन्तव्यः’ इति चानुवादः । ‘निदिध्यासितव्यः’ इत्येव तु विधिः । अविच्छिन्नस्मृतिसन्तानरूपध्यानात्मक-निदिध्यासनकर्तव्यताया अन्यतोऽप्राप्तेः । ‘द्रष्टव्यः’ इत्यनेन तु तस्य ध्यानस्य विशदतरावभासत्वरूपा दर्शनसमानाकारता विधीयत इत्याहुः । तन्न । त्वयापि ‘सहकार्यन्तरविधिः’ इति सूत्रे ‘तस्माद् ब्राह्मणः पाण्डित्यम्’ इत्यादिवाक्ये औपदेशिकार्थाधिगमस्य पुनः पुनर्ब्रह्मसंशीलनस्य च विधेरनङ्गीकृतत्वेन तयोरेव ‘श्रोतव्यो मन्तव्यः’ इत्याभ्यां विधिसम्भवात् । औपदेशिकार्थाधिगमादौ श्रवणादि-पदप्रयोगात् ।

किञ्चोपायत्वदशाप्रभृति भगवज्ज्ञानं प्रीतिरूपमिति वदतस्तव मते कृतश्रवणमननं पुरुषं प्रति भगवतोऽत्यन्तानुकूलत्वाद् अनुकूलविषयचिन्तने च रागत एव प्रवृत्ते-श्चिन्तनरूपनिदिध्यासनस्यैव विधिर्न स्यात् । तत्र रागप्राप्ते चिन्तनेऽविच्छिन्नत्वादि-गुणविधानं चेत्, रागप्राप्ते वाक्यार्थग्रहणे गुरुमुखपूर्वकत्वादिगुण विधानं श्रवणादिवाक्येष्वस्तु । किञ्च ज्ञानस्य विशदतरावभासत्वं, न तावदधिक-विषयत्वम् । स्मरणस्य स्वजनकानुभवात्तज्जन्यस्मरणाच्चाधिकविषयत्वायोगात् । नापि साक्षात्त्वम् । स्मृतौ तदसम्भवात् । पुत्रादिध्यानस्येव साक्षात्त्वस्य भ्रान्तिमात्रत्वे च मोक्षहेतुत्वा-योगात् । दर्शनश्रुतीनामुपचरितार्थत्वापत्तेश्च ।। इति श्रोतव्य इत्यादेरनु-वादत्वभङ्गः ।। ४ ।।

न्यायामृततरङ्गिणी

रागप्राप्ते वाक्यार्थग्रहण इति ।। वेदाध्ययनकाले वाक्यार्थज्ञानस्य प्रयोजनवत्त्व-ज्ञानात्तत्रेच्छा ।। दर्शनश्रुतीनामिति ।। साक्षात्कार एव दृशेः प्रयोगादित्यर्थः ।। इति श्रोतव्य इत्यादेरनुवादकत्वभङ्गः ।। ४ ।।

न्यायामृतकण्टकोद्धारः

केचित्– ‘निदिध्यासितव्यः’ इत्येव विधिः । ‘श्रोतव्यो मन्तव्यः’ इति त्वनुवादः’ इत्यास्थिताः । तन्मतं दूषयितुम् अनुवदति– केचित्त्विति । तन्निर्णयाय अर्थनिर्णयाय । तथा च अधीतस्वाध्यायस्यार्थज्ञानहेतुताया दृष्टत्वात् वाक्यार्थग्रहणरूपश्रवणस्यान्यतः प्राप्तत्वेनाप्राप्तार्थत्वाभावात् नायं विधिरिति भावः । ‘मन्तव्यः’ इत्यस्याप्यनुवादित्व-मुपपादयति– आचार्येति । उपायत्वदशाप्रभृतीति । साधनानुष्ठानदशाप्रभृतीत्यर्थः । स्मरणस्येति । अननुभूतार्थस्यास्मर्यमाणत्वाद् अनुभवस्मृत्योः समानविषयत्वनियमादिति भावः । साक्षात्त्वमिति । प्रत्यक्षत्वरूपत्वमित्यर्थः । तत्वज्ञानस्यैव मोक्षहेतुताया उक्तत्वाद् भ्रान्त्या मोक्षो न सम्भवतीति भावः । दर्शनश्रुतीनामिति । असिंहे सिंहशब्दवद् असा-क्षात्काररूपे साक्षात्त्वस्याभावेनौपचारिकत्वं स्यादिति भावः ।। इति श्रोतव्य इत्यादेरनुवाद-कत्वभङ्गः ।। ४ ।।

न्यायकल्पलता

अन्येषां वृत्तिकाराणां मतं दूषयितुम् उपन्यस्यति– केचित्त्विति ।।  रागप्राप्ते वाक्यार्थग्रहण इति ।। वेदाध्ययन काले वाक्यार्थज्ञानस्य प्रयोजनवत्त्वज्ञानात्तत्रेच्छा ।। दर्शनश्रुतीनामिति ।। ‘दृष्ट्वैव तं मुच्यते’‘ततस्तु तं पश्यते’ इत्यादीनामित्यर्थः । अपरोक्षज्ञान एव दृशेः प्रयोगादित्यर्थः ।।

।। इति श्रोतव्य इत्यादेरनुवादकत्वभङ्गः ।। ४ ।।