यत्तु कौमुद्याम् ‘‘अतोऽन्यदार्तम्’ इति वाक्यं तत्र मानम्’’ इत्युक्तं, तत्त्वतितुच्छम्
४८. अतोऽन्यदार्तमिति श्रुत्यर्थविचारः
न्यायामृतम्
यत्तु कौमुद्याम् ‘‘अतोऽन्यदार्तम्’ इति वाक्यं तत्र मानम्’’ इत्युक्तं, तत्त्वतितुच्छम् । अज्ञान्तर्यामिणः प्रकृतत्वादेतच्छब्दस्य प्रकृतपरत्वात् । अन्य शब्दस्य च ‘एतद् ब्राह्मणादन्यमानय’ ‘समानमितरच्छ्येनेन’ इत्यादाविव प्रकृतसमानजातीयान्यपरत्वात् । ब्रह्मणोऽन्यज्जीवजातमार्तं दुःखीति जीव भेदस्यैवोक्तेः । न हि जीवादन्यस्यार्तिः ।
।। इति अतोऽन्यदार्तमिति श्रुत्यर्थः ।।
न्यायामृततरङ्गिणी
ननु ‘एष आत्माऽन्तर्याम्यमृतोऽतोऽन्यदार्तम्’ इति वाक्यं तत्र मानं भविष्यति इत्यत आह– यत्त्विति ।। स्वभाष्यविरोधाद् एतदतीवाप्रामाणिकमित्याह– अति तुच्छमिति ।। तथा हि शाङ्करीये बृहदारण्यकभाष्ये– ‘अतोऽस्मादीश्वरादात्मनोऽ-न्यदार्तं विनाशी’ इति व्याख्यातम् ।। समानमिति ।। इतरत् अङ्गजातं श्येन-सङ्ज्ञक यागेन समानं तद्वदित्यर्थः ।। दुःखीतीति ।। आङ्पूर्वस्य ऋधातोर्दुःख-वाचकत्वादिति भावः ।
।। इति श्रीव्यासरामाचार्यविरचिता न्यायामृततरङ्गिणी ।।
न्यायामृतकण्टकोद्धारः
ननु तथापि अतोऽन्यदार्तमिति श्रुतिर्मिथ्यात्वे प्रमाणम् । तत्र ब्रह्मातिरिक्तस्यार्तशब्देन मिथ्यात्वाभिधानादित्यत आह यत्त्विति । प्रकृतत्वादिति । अन्तर्यामिब्राह्मणेऽस्य श्रवणादिति भावः । एतच्छब्दस्येति । अत इत्यस्येत्यर्थः । ‘एतदोऽश’ इत्यनेनाशादेशे जाते तसिल्यत इति भवतीति भावः । अन्येतरशब्दयोः समानार्थकत्वमङ्गीकृत्याह समानेति । सप्तमाध्याये प्रथमपादे द्वितीयाधिकरणे चिन्तितम् । ‘समाने पूर्ववत्वादुत्पन्नाधिकारः स्यात्’ । इषुनामकश्च श्येननामकश्च द्वावेकाहौ ज्योतिष्टोमविकारौ । तत्र इषावेकाहे ज्योतिष्टोमविकारे इषुं विष्टुतिं करोति शस्ताङ्गं भवतीति क्वचित्पाठः हुं भवतीति प्राकृतानां स्तोत्राणां विकारं विधाय श्रूयते समानमितरच्छ्येनेनेति । तत्र संशयः किमयम् अनुवाद उत श्येनवैशेषिकायामतिदेशविधिरिति ।
पूर्वपक्षस्तु इतरशब्दस्य सन्निहितपरत्वात् श्येन वैशेषिकाणां चासन्निहितत्वान्न तद्वाच-कत्वम् । चोदकप्राप्तास्तु ज्योतिष्टोमधर्माः । ते श्येनेऽपि समाना विद्यन्ते । तच्च समानत्वमिषुप्रकरणे अनेन वाक्येनानूद्यते समानमितरच्छ्येनेनेति । नन्वत्रेतरशब्दोक्तिरनु पपन्ना, तत्प्रतियोगिनः कस्यचिदनिर्दिष्टत्वादिति चेन्न । पूर्ववाक्यविहितस्य विशेषधर्मस्य प्रतियोगित्वात् । इषौ यो वैशेषिको धर्मो विहितस्तं परित्यज्येतरच्चोदकप्राप्तं सर्वं श्येनेन समानमित्यर्थः । तस्मादनुवादकमिदं वाक्यमिति ।
सिद्धान्तस्तु– सत्यमितरशब्दः सन्निहितमभिधत्ते । न तु तन्मात्रम् । पूर्वनिर्दिष्टसदृशं सन्निहितं च यद्द्वयं तदभिधत्ते । तद्यथा देवदत्त एवाधीते, नेतरः कश्चिदित्युक्ते अध्ययन प्रसक्तिमान् यज्ञदत्तादिमाणवकः प्रतीयते । न तु गवाश्वघटपटादिः । तदिह यत् सन्निहितं ज्योतिष्टौमिकं न तत् पूर्वोक्तसदृशम् । प्राकृतानां सप्ताहादीनां पूर्वमुक्तत्वात् । यत्त्व-प्राकृतं लोहितोष्णीषादिकं श्येनवैशेषिकं तद् यद्यप्यसन्निहितम् । तथापि सादृश्यमस्तीति अवश्य हातव्येऽन्यतरस्मिन् वचनार्थवत्त्वाय सन्निधिं हित्वा सादृश्यपरिग्रहेण श्येन-वैशेषिकाणामतिदेशविधिः । तथा चेषुवाक्यविहितस्य पूर्ववाक्योक्तस्य प्रतियोगित्वात् तत्सजातीयं श्येन गतं लोहितोष्णीषादिरूपं वैशेषिकधर्मजातमितरशब्देन प्रतिभाति । तच्च प्रकृतावभावात् चोदकेन न प्राप्तमतिदेशेन विधीयते । यद्वा चोदकप्राप्तानां विष्टुत्यादीनां विकारः इषुः विष्टुत्यादिरपूर्वविहितः । तत इतरत् चोदकप्राप्तमितरशब्देनोद्दिश्य तस्य लोहितोष्णीषादि विकारः श्येनादतिदिश्यते । एवं सन्निहितवचनत्वमर्थवत्त्वं च वचनस्य भविष्यतीति । एवं च समानमितरच्छ्येनेनेत्यादौ यथेतरशब्दः सजातीयपरः तथैव ‘अतोऽन्यत्’ इत्यत्रान्य शब्दोऽप्येतच्छब्दनिर्दिष्ट ब्रह्मसदृशजीवपर इत्यर्थः । एवं सति फलितं वाक्यार्थं परप्रतिकूलं दर्शयति ब्रह्मण इति । अन्यशब्देनान्तर्यामिब्रह्मसजातीय-जीवाग्रहणे बाधकमाह– न हीति । आर्तिर्दुःखानुभव इत्यर्थः । तत्रैवार्तिशब्दप्रयोगात् । न हि घटादिकम् आर्तिमदिति प्रयोगः कस्यचिदिति भावः ।
।। इति पाण्डुरङ्गि आनन्दभट्टारकविरचितः न्यायामृतकण्टकोद्धारः ।।
न्यायामृतप्रकाशः
ईश्वरादन्यद् आर्तम् आर्तिमत् । आर्तिर्विनाशः । ‘यस्योभयं हविरार्तिमार्च्छेत्’ इत्यार्ति-शब्दस्य विनाशे प्रयोगात् । तथा च ज्ञानेन निवृत्त्युक्त्या मिथ्यात्वं लभ्यत इत्यर्थः । यद्वा अतोऽन्यद् जगत् आ ऋतम् ईषद् ऋतं पारमार्थिकसत्यं न भवतीत्यर्थः तन्मतरीतिरहस्यविदः । ‘अतोऽन्यत्’ इत्यत्र प्रकृतं यद् ब्रह्म तदन्यत् चेतनत्वादिना तत्सजातीयं यत् जीवजातं तत् आर्तं दुःखि इत्येवार्थः । अत्र ब्रह्मणः पूर्वप्रकृतत्वं कथम्? इत्यत आह– अत्रेति ।। एतच्छब्द स्येति ।। ‘एतदोऽश्’ इति सूत्रेण एतत् इत्यस्य अश् इत्यादेशे ‘अतः’ इति भवति । तथा च अतः एतस्मात् इत्यर्थः । अन्यशब्दस्य प्रकृतसजातीयपरत्वे उदाहरणमाह– ब्राह्मणादन्य-मिति ।। ‘ब्राह्मणादन्यमानय’ इत्युक्ते तदन्यस्तेन मनुष्यत्वेन सजातीय एव कश्चिदा नीयते, न घटादिरित्यर्थः । समानमिति ।। यथा इतरयागेषु तद्धर्मातिदेशाय ‘समानमितरत् श्येनेन’ इति विहितम् । तत्र प्रकृतो यः श्येनयागस्याङ्गकलापः तत्सजातीयाङ्गकलाप एव ‘इतरत्’ इत्येतेन प्राप्नोति, न यत्किञ्चिदित्यर्थः । आर्तं दुःखीति ।। आर्तो जिज्ञासुरिति दुःखिन्यार्तशब्दप्रयोग दर्शनादित्यर्थः । ननु जीवब्रह्मणोरभेद एवास्तु । श्रुतिस्तु ब्रह्मव्यतिरिक्त जडस्यार्तिप्रतिपादकतया तद्भेदपराऽस्त्वित्यत आह– न हीति ।।
।। इति श्रीनिवासतीर्थविरचितः न्यायामृतप्रकाशः ।।
न्यायकल्पलता
ननु ‘एष त आत्माऽन्तर्याम्यमृतोऽतोऽन्यदार्तम्’ इति श्रुतिस्तत्र मानमिति परोक्तम् अनुवदति– यत्त्विति ।। स्वभाष्यविरोधादेतदतीवाप्रामाणिकमित्याह– अतितुच्छमिति ।। तथा हि शाङ्करीये बृहदारण्यकभाष्ये– ‘अतोऽस्मादीश्वरादात्मनोऽन्यदार्तं विनाशी’ इति व्याख्यातम् । एतच्छब्दस्य चेति ।। एतस्मादित्यत इत्यत्र प्रकृतिभूतस्येत्यर्थः ।। समानमिति ।। इतरत् अङ्गजातम् । श्येनेन श्येनसंज्ञकेन यागेन । समानम् तद्वदित्यर्थः ।। दुःखीतीति ।। आङ्पूर्वकस्य ऋधातोर्दुःखवाचकत्वादिति भावः ।
।। इति श्रीकूर्मनरहरिआचार्यविरचिता न्यायकल्पलता ।।
।। इति अतोऽन्यदार्तमिति श्रुत्यर्थः ।।