यच्चोक्तम् (१) अनादिभावरूपत्वे सति ज्ञाननिवर्त्यत्वं..

५४. अविद्यालक्षणभङ्गः

न्यायामृतम्

यच्चोक्तम् (१) अनादिभावरूपत्वे सति ज्ञाननिवर्त्यत्वं, (२) भ्रमो-पादानत्वं वाऽविद्यालक्षणम् । प्रमाणं त्वहमज्ञः, मामन्यं च न जानामि, त्वदुक्तमर्थं न जानामीत्यादिप्रत्यक्षं, तथा एतावन्तं कालं न किञ्चिदह-मवेदिषमिति परामर्शसिद्धसौषुप्तिकानुभवः । तथा ‘प्रमाणज्ञानं स्वप्रागभाव-व्यतिरिक्तस्वविषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकम्, अप्रकाशितार्थ-प्रकाशकत्वाद्, अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावद्’ इति विवरणोक्तमनुमानम् । स्वप्रागभावं, स्वोत्पादकादृष्टं, स्वप्रतिबन्धकादृष्टं, विषयगतमज्ञातत्वं च व्युदसितुं साध्यविशेषणानि । तथा ‘चैत्रप्रमा चैत्रगतप्रमाप्रागभावातिरिक्तानादि निवर्तिका, प्रमात्वात्, मैत्रप्रमावत्,’ ‘विगीतो विभ्रमः एतज्जनकाबाध्याति-रिक्तोपादानकः, विभ्रमत्वात्, सम्मतवद्’ इति तत्त्वप्रदीपिकोक्तानुमानम् । तथा ‘‘तम आसीत्’’ इत्यादिश्रुतिः । तथा मिथ्याभूतस्यार्थज्ञानात्मकस्य भ्रमस्य कादाचित्कत्वेन सोपादानत्वाद् भावरूपं कार्यानुगुणं मिथ्याभूत-मुपादानमनवस्थापरिहारार्थमनाद्यङ्गीकार्यमित्याद्यर्थापत्तिश्च । न च न जाना-मीति प्रत्यक्षं ज्ञानाभावविषयम् । धर्मिण्यात्मनि प्रतियोगिनि च ज्ञाने ज्ञाते तस्य विषयनिरूप्यत्वेन विषयस्यापि ज्ञाततया तज्ज्ञानाभावायोगात् । अज्ञाते तु हेत्वभावेन ज्ञानाभावज्ञानायोगात् । न च विषयोऽपि सामान्यतो ज्ञायत इति युक्तम् । सामान्यस्य ज्ञातत्वादेव तज्ज्ञानाभावायोगात् । विशेषज्ञानाभावे सत्यपि निरूपकविशेषज्ञानाभावेन तन्निरूपितविशेषज्ञानाभावज्ञानायोगादिति।

तत्र ब्रूमः – आद्यलक्षणे अव्याप्तिः । सादिशुक्त्याद्यवच्छिन्नचैतन्यावरका-ज्ञानानामनादित्वायोगस्योक्तत्वाद् । आरोपिताभावोपादानाज्ञाने भावत्वाभावाच्च । अभावस्य भावोपादानकत्वे असत्यस्य सत्योपादानकत्वापातात् । तस्याज्ञाना-नुपादानकत्वे ज्ञानान्निवृत्तिर्न स्यात् । शुद्धं ब्रह्म वृत्तिव्याप्यमपि नेति मते तदज्ञाने, चरमसाक्षात्कारानन्तरभाविजीवन्मुक्त्यनुवृत्ते अज्ञाने, ऊर्ध्वाग्रत्वा-द्यधिष्ठानतत्त्वसाक्षात्कारानिवर्तितजलस्थवृक्षाधोग्रत्वादिसोपाधिकभ्रमोपादानाज्ञाने च ज्ञाननिवर्त्यत्वाभावाच्च । न हि अब्रह्मज्ञानेन ब्रह्माज्ञाननिवृत्तिः । जीव-न्मुक्त्यनुवृत्ताज्ञानस्य ज्ञाननिवर्त्यत्वे च स्वकार्यैरारब्धकर्मभिः सह पूर्वेणैव साक्षात्कारेण निवृत्तिः स्यात् । न च सोपाधिकभ्रमोपादानमज्ञानमुपाधि-निवृत्तिसचिवतत्त्वज्ञाननिवर्त्यम् । तस्य स्वप्रागभावं प्रतीवाज्ञानं प्रत्यप्यन्य-निरपेक्षस्यैव निवर्तकत्वात् । न हि जाते क्वचिदपि न जानामीति धीरस्ति । चैतन्याविद्यासम्बन्धेऽतिव्याप्तिश्च । साक्षाज्ज्ञाननिवर्त्यत्वविवक्षायां चानादि-पदवैयर्थ्यम् । असम्भवश्च । कल्पितत्वेन दोषजन्यधीमात्रशरीरस्याज्ञानस्या-नादित्वायोगस्योक्तत्वात् । ज्ञाननिवर्त्यस्याभावविलक्षणस्य रूप्यवदनादित्वा-योगाच्च । अज्ञानसम्बन्धोऽपि पक्षतुल्यः । न चाज्ञानत्वानधिकरणत्वमुपाधिः, पक्षेतरत्वात् । अवच्छिन्नाज्ञाने साध्याव्याप्तेश्च । व्यतिरेकासिद्धेश्च । त्वन्मते अज्ञानस्य भावविलक्षणत्वेन भावत्वाभावाच्च । भावविलक्षणस्याभावत्वनियमेन भावविलक्षणे अभाववैलक्षण्यस्याप्ययोगाच्च । अपि चानादेरभावविलक्षण-स्यात्मवदनिवर्त्यत्वम् । न च भावत्वमात्मत्वं वोपाधिः । अत्यन्ताभावे असति च साध्याव्याप्तेः । त्वन्मते आत्मन्यप्यभाववैलक्षण्यातिरेकेण भावत्वाभावाच्च ।

यदत्रोक्तं विवरणे – ‘‘न सादित्वमनादित्वं वा विनाशाविनाशयो-र्निमित्तम् । किं तु विरोधिसन्निपातासन्निपातौ । किं चानादिभावो न निवर्तत इति सामान्यव्याप्तेरज्ञानं ज्ञाननिवर्त्यमिति विशेषव्याप्तिर्बलीयसी । अपि चाभाववैलक्षण्यादात्मवदनिवृत्तौ भाववैलक्षण्यात्प्रागभाववन्निवृत्तिः किं न स्याद्’’ इति । तन्न । अनादिभावत्वेनैव विरोध्यसन्निपातस्याप्यनुमानात् । यः पर्वतः सोऽनग्निकः इति विशेषव्याप्तिरित्यतिप्रसङ्गाच्च । त्वदभिमतानाद्यज्ञानस्य ज्ञाननिवर्त्यत्वे दृष्टान्ताभावेनाज्ञानशब्देन सादिभ्रान्त्यादिसाधारणज्ञानविरोधि-मात्रस्य विवक्षणीयत्वेन विशेषव्याप्तित्वायोगाच्च । भाववैलक्षण्येन निवृत्ता-वत्यन्ताभावस्य ध्वंसस्य च निवृत्त्यापाताच्च । अविद्यानिवृत्तिरूपमोक्षाभावोऽपि मयैवापाद्यते । प्रतीतिमात्रशरीरस्याज्ञानस्य यावत्स्वविषयधीरूपसाक्षिसत्त्व-मनुवृत्तिनियमेन निवृत्त्ययोगाच्च । अज्ञानस्यात्यन्ताभावप्रतियोगित्वरूप-मिथ्यात्ववतो निवृत्त्ययोगस्योक्तत्वाच्च ।

द्वितीयलक्षणेऽपि, यावन्ति ज्ञानानि तावन्त्यज्ञानानीति मते अभ्रमपूर्वक-प्रमानिवर्त्याज्ञाने, अभावारोपनिवर्तकप्रमानिवर्त्याज्ञाने चाव्याप्तिः । अभावस्य निरुपादानकत्वात् । सोपादनकत्वेऽपि भावरूपाज्ञानोपादानकत्वायोगात् । किं च, ब्रह्म जगदुपादानमायाधिष्ठानमिति पक्षे दोषाभावेऽपि मायावच्छिन्नं ब्रह्मो-पादानमिति पक्षे असम्भवः । रज्वाः सूत्रद्वयमिव मायाब्रह्मणी उपादाने इति पक्षे अतिव्याप्तिः । अपि चार्थज्ञानरूपस्य भ्रमस्य भावविलक्षणत्वेन निरुपादा-नत्वादसम्भवः । न च भावविलक्षणाज्ञानोपादेयस्य भ्रमस्य भावत्वं युक्तम् । कार्यकारणयोरभेदात् । सोपादानत्वे च भावत्वमेव तन्त्रम् । न त्वभाव-विलक्षणत्वम् । गौरवात् । अपि चार्थस्य मन्मते असत्त्वेन त्वन्मते च सद्विलक्षणत्वेन निरुपादानत्वात्, ज्ञानस्य तु त्वन्मते सद्विलक्षणत्वेन निरुपादानत्वात्, मन्मते तु सत्त्वेन तत्प्रत्यात्मनोऽन्तःकरणस्य वोपादानत्वात् नाज्ञानमुपादानम् । सोपादानत्वे कदाचित्सत्त्वमेव तन्त्रम् । न त्वसद्विलक्षणत्वम् । कदाचिदेव सत्त्वेन प्रतीयमानत्वं वा, गौरवात् । तुच्छस्यापि शब्दाभासादिना सत्त्वेन प्रतीतिसम्भवाच्च । न च ज्ञानस्य सत्त्वेऽर्थस्यापि सत्त्वप्रसङ्गः । मिथ्याभूतमज्ञानं वेदान्ततात्पर्यं चरमसाक्षात्कारं च प्रति विषयस्य ब्रह्मणः सत्त्ववत्, सन्तं व्यवहारं परोक्षज्ञानं च प्रति विषयस्य खपुष्पादेरसत्त्ववत्, सत्यसाक्षिवेद्याज्ञानादेर्मिथ्यात्ववच्चोपपत्तेः । एतावन्तं कालं रजतज्ञानमासीदिति ज्ञानस्य सत्त्वानुसन्धानाच्च । असद्वै-लक्षण्यमात्रेण सत्त्वानुसन्धाने च सद्वैलक्षण्येन नासीदित्यनुसन्धानापातात् । अर्थेऽप्यासीदित्यनुसन्धानापाताच्च । एतावन्तं कालमिहादर्शे मुखमासी-दित्यनुसन्धानं तु प्रतिबिम्बस्य छायादिवत्सत्यत्वात् । किं चाज्ञानस्य भावविलक्षणत्वात् सद्विलक्षणत्वाच्च नोपादानत्वम् । अन्यथा तत्त्वज्ञानप्रागभाव एव भ्रमोपादानं स्यात् । उपादानत्वे च भावत्वं सत्त्वं च तन्त्रम् । न त्वाभावविलक्षणत्वमसद्विलक्षणत्वं वा । गौरवात् । किं च यद् यदनुविद्धतया भाति तत्तदुपादानकम् । न च रूप्यं तज्ज्ञानं वा अज्ञानमिति भाति ।

यत्तु ज्ञाननिवर्त्यत्वमज्ञानलक्षणम्, न च प्रपञ्चेऽतिव्याप्तिः, तस्या-ज्ञानपरिणामत्वात् । न हि पृथिवीलक्षणस्य घटादावतिव्याप्तिरिति । तन्न । जीवन्मुक्त्यनुवृत्ताज्ञानादावव्याप्त्यादेरुक्तत्वात् । यद्भावरूपाज्ञानं विप्रतिपन्नं तस्य शुक्तिरूप्यादिव्यावृत्तस्य कारणावस्थानाद्यज्ञानस्यैव लक्षणीयत्वेन, रूपित्वस्य तेजोलक्षणत्वे तत्परिणामेऽप्यबदाविवास्यापि प्रपञ्चेऽतिव्याप्तेश्च, पृथिवीलक्षणेऽपि कारणावस्थस्यैव लिलक्षयिषितत्वे घटादावतिव्याप्तिरेव । साक्षात्पदप्रक्षेपेणोपादाननिवृत्तिद्वारेण ज्ञानेन निवर्त्ये प्रपञ्चेऽतिव्याप्तिपरिहारेऽपि ‘‘अभावाभावो भावव्याप्यः’’ इति मते ज्ञानप्रागभावस्यापि साक्षात्तन्निवर्त्य-त्वाच्च । अन्यथा विवरणाविद्यानुमाने आद्यविशेषणवैयर्थ्यम् ।

अद्वैतसिद्धिः

अथ– केयमविद्या ? न तावद् (१) अनादिभावरूपत्वे सति ज्ञाननिवर्त्या सेति । सादिशुक्त्याद्यवच्छिन्नचैतन्यावारकाज्ञानेऽव्याप्तेः । तस्यानादित्वाभावात् । अभावोपादानाज्ञाने च भावत्वाभावात्तत्राव्याप्तिः । अभावस्य भावोपादानकत्वे असत्यस्यापि सत्योपादानकत्वं स्यात् । अज्ञानानुपादानकत्वे तस्य ज्ञानान्निवृत्तिर्न स्यादिति । अत्र ब्रूमः– रूप्यो-पादानाज्ञानमप्यनादिचैतन्याश्रितत्वादनाद्येव । उदीच्यं शुक्त्यादिकं तु तदवच्छेदकमिति न तत्राव्याप्तिः । भावत्वं चात्राभावविलक्षणत्वमात्रं विवक्षितम् । अत आरोपिताभावो-पादानाज्ञानेऽप्यभावविलक्षणत्वस्वीकारान्नाव्याप्तिः । न च सजातीयोपादानकत्वनियमः, अन्यथा असत्यस्यापि सत्यमुपादानं स्यादिति वाच्यम् । सर्वथा साजात्ये सर्वथा वैजात्ये वोपादानोपादेयभावादर्शनेन तथा साजात्यस्य वैजात्यस्य वा आपादयितुमशक्यत्वात् । न हि कार्याकारकारणाकारतोऽप्यभेदे कार्यकारणभावः । सत्यस्य त्वसत्योपादानत्वे सत्यस्य निवृत्त्यसम्भवेन तदुपादेयस्यासत्यस्यापि निवृत्तिर्न स्याद् । उपादाननिवृत्तिमन्तरेणो-पादेयानिवृत्तेः । अतो न सत्यमसत्यस्योपादानम् । सत्यस्यापरिणामित्वाच्च । विवर्ता-धिष्ठानत्वं त्वभ्युपेयत एव । न च ब्रह्माज्ञाने ब्रह्मणो वृत्त्यव्याप्यत्वपक्षेऽव्याप्तिः । तस्य ज्ञानानिवर्त्यत्वादिति वाच्यम् । स्वरूपसदुपाधिमत्तद्विषयकज्ञाननिवर्त्यस्य तन्मतेऽपि भावात् । उपपादितं चैतद् दृश्यत्वहेतूपपादने ।

अथ– औपाधिकभ्रमोपादानाज्ञाने, ब्रह्मसाक्षात्कारानन्तरविद्यमानजीवन्मुक्ताज्ञाने च ज्ञाननिवर्त्यत्वाभावादव्याप्तिः । तयोर्ज्ञाननिवर्त्यत्वे उपाधिकालजीवन्मुक्तिकालयोरेव ज्ञानप्रागभाववत्तन्निवृत्त्यापत्तिरिति चेन्न । उपाधिप्रारब्धकर्मणोः प्रतिबन्धकयोरभावविलम्बेन निवृत्तिविलम्बेऽपि तयोर्ज्ञाननिवर्त्यत्वानपायात् । न हि क्वचिदविलम्बेन जनकस्य क्वचित् प्रतिबन्धेन विलम्बे जनकताऽपैति । न च तर्हि ज्ञातेऽपि तत्राज्ञात इति व्यवहारापत्तिः । तादृग्व्यवहारे आवरणशक्तिमदज्ञानस्य कारणत्वेन तदावरणशक्त्यभावादेव ईदृग्व्यवहारा-नापत्तेः । यथा चैतत्तथोपपादयिष्यते । न चाविद्याचैतन्यसम्बन्धेऽतिव्याप्तिः । साक्षाज्ज्ञान-निवर्त्यत्वस्य विवक्षितत्वात्, तस्याप्यविद्यात्मकत्वाद्वा । न च विशेषणान्तरवैयर्थ्यम् । अनादिपदस्योत्तरज्ञाननिवर्त्ये पूर्वज्ञाने, भावपदस्य ज्ञानप्रागभावे ज्ञानजन्यकार्यप्रागभावे चातिव्याप्तिवारकत्वेन सार्थकत्वात् । ज्ञानत्वेन साक्षाज्ज्ञाननिवर्त्यत्वं तु भवति लक्षणा-न्तरम् । ननु – असम्भवः, कल्पितत्वेन दोषजन्यधीमात्रशरीरस्याज्ञानस्य ज्ञाननिवर्त्यस्या-भावविलक्षणस्य च रूप्यवदनादित्वायोगादिति चेन्न । कल्पितत्वमात्रं हि न दोषजन्यधीमात्रशरीरत्वे सादित्वे वा तन्त्रम् । किन्तु प्रतिभासकल्पकसमानकालीन-कल्पकवत्त्वं, सादिकल्पकवत्त्वं, विद्याऽनिवृत्त्यप्रयुक्तनिवृत्तिप्रतियोगित्वं, प्रागभावप्रतियोगित्वं वा तन्त्रम् । न च तत् प्रकृतेऽस्ति । ज्ञाननिवर्त्यत्वसमानाधिकरणाभावविलक्षणत्वेना-विद्यायाः सादित्वसाधने ‘अजामेकाम्’, ‘अनादिमायया’ इत्यादिशास्त्रविरोधः । अनादित्व-साधकेन ज्ञाननिवर्त्यत्वे सति भावविलक्षणत्वेन सत्प्रतिपक्षश्च, भावत्वस्योपाधित्वं च ।

न च अभावविलक्षणाविद्यादौ भावविलक्षणत्वमसम्भवि, परस्परविरोधादिति वाच्यम् । भावत्वाभावत्वयोर्बाधकसत्त्वेन तृतीयप्रकारत्वसिद्धौ परस्परविरहव्यापकत्वरूपविरोधासिद्धेः । परस्परविरहव्याप्यत्वरूपस्तु विरोधो नैकविरहेणापरमाक्षिपति । न हि गोत्वविरहोऽश्वत्व-माक्षिपतीत्युक्तम् । न चात्मवदनादेरभावविलक्षणस्यानिवर्त्यत्वम् । आत्मत्वस्यैवोपाधि-त्वात् । न चात्यन्ताभावान्योन्याभावयोः साध्याव्याप्तिः । अधिकरणातिरिक्तस्यानिवर्त्य-स्यात्यन्ताभावादेरनभ्युपगमात् । न च तुच्छे साध्याव्याप्तिः । अभावविलक्षणत्वरूप-साधनावच्छिन्नसाध्यव्यापकत्वोपपत्तेः । किं च सादित्वमनादित्वं वा न निवर्त्यत्वा-निवर्त्यत्वयोः प्रयोजकम् । ध्वंसप्रागभावयोस्तदभावात् । नापि भावत्वविशेषितं तत् तथा । अभावे तदसत्त्वेन भिन्नभिन्नप्रयोजककल्पनापत्तेः । भावनिवृत्त्यनिवृत्त्योरेव तयोः प्रयोजकत्वे च भावविलक्षणाविद्यादौ ताभ्यां तयोरनापादनात् । तस्मान्नाशसामग्रीसन्निपातासन्निपातावेव निवर्त्यत्वानिवर्त्यत्वयोः प्रयोजकाविति मन्तव्यम् । तौ च फलबलकल्प्याविति न कोऽपि दोषः । अपि च यद्यविद्यादेरभावविलक्षणत्वसमानाधिकरणानादित्वेनाऽत्मवदनिवर्त्यत्वं साध्यते । तर्हि भावविलक्षणत्वेन प्रागभाववन्निवर्त्यत्वमेव किं न साध्यते ? न च ध्वंसात्यन्तान्योन्याभावेषु व्यभिचारः । अधिकरणातिरेके तेषामपि निवर्त्यत्वाभ्युपगमात् । न च– अज्ञानस्य यावत्स्वविषयधीरूपसाक्षिसत्त्वमनुवृत्तिनियमेन निवृत्त्ययोग इति वाच्यम् । दुःखशुक्तिरूप्यादेः स्वभासके साक्षिणि सत्येव निवृत्त्यभ्युपगमेन साक्षिभास्यानां यावत्साक्षि-सत्त्वमवस्थाननियमानभ्युपगमात् । किं च केवलचिन्मात्रं न साक्षि, किन्त्वविद्यावृत्त्युप-हितम् । तथा चास्थिराविद्यावृत्त्युपहितस्य साक्षिणोऽप्यस्थिरत्वेन तत्सत्त्वपर्यन्तमव-स्थानेऽप्यविद्यादेर्निवृत्तिरुपपद्यते । न च वृत्त्यनुपधानदशायामविद्यादेः शुक्तिरूप्यवद-सत्त्वापत्तिः । सादिपदार्थ एवैतादृङ्नियमाद् । धारावाहिकाविद्यावृत्तिपरम्पराया अतिसूक्ष्माया अभ्युपगमाद्वेति शिवम् ।

(२) यद्वा भ्रमोपादानत्वमज्ञानलक्षणम् । इदं च लक्षणं विश्वभ्रमोपादानमायाधिष्ठानं ब्रह्मेति पक्षे । न तु ब्रह्ममात्रोपादानत्वपक्षे, ब्रह्मसहिताविद्योपादानत्वपक्षे वा । अतो ब्रह्मणि नातिव्याप्तिः । इतरत्र तु पक्षे परिणामित्वेनाचेतनत्वेन वा भ्रमोपादानं विशेषणीय-मिति न दोषः । न चाभावारोपनिवर्तकप्रमानिवर्त्येऽव्याप्तिः । तस्यापि भ्रमोपादानत्वात् । ननु – भ्रमे भावविलक्षणाज्ञानोपादानकत्वं न घटते । भ्रमस्य भावविलक्षणत्वे उपादेयत्वा-योगाद् । भावत्वे च भावोपादानकत्वनियमादिति चेन्न । अज्ञानस्य भ्रमस्य च भाव-विलक्षणत्वेऽप्युपादानोपादेयभावोपपत्तेः । न हि भावत्वमुपादानत्वे उपादेयत्वे वा प्रयोजकम् । आत्मनि तददर्शनात्, किन्त्वन्वयिकारणत्वमुपादानत्वे तन्त्रम् । सादित्व-मुपादेयत्वे । तदुभयं च न भावत्वनियतम् । अत उपादानोपादेयभावोऽपि न भावत्व-नियतः । न चैवं ध्वंसस्याप्युपादेयत्वापत्तिः, इष्टापत्तेः । न चैवं ज्ञानप्रागभावस्यैव भ्रमोपादानत्वमस्तु, किमभावविलक्षणाज्ञानोपादानकल्पनेनेति वाच्यम् । प्रागभावस्य प्रतियोगिमात्रजनकत्वनियमेन भ्रमं प्रति जनकत्वस्याप्यसिद्धेः, तद्विशेषरूपोपादानत्वस्यैव दूरनिरस्तत्वात् । अतः सद्विलक्षणयोरज्ञानभ्रमयोर्युक्त उपादानोपादेयभावः । भ्रमस्य च सद्विलक्षणत्वमुक्तम् । वक्ष्यते च । न चैवमज्ञानानुविद्धतया भ्रमस्य प्रतीत्यापत्तिः, मृदनुविद्धतया घटस्येवेति वाच्यम् । यद् यदुपादानकं, तत् तदनुविद्धतयैव प्रतीयत इति व्याप्त्यसिद्धेः । न हि घटोपादानकं रूपं घट इति प्रतीयते । प्रकृतिद्व्यणुकाद्यनुविद्धतया प्रतीतेः परैरप्यनभ्युपगमात् । केनचिद्धर्मेण तदनुवेधस्तु प्रकृतेऽपीष्ट एव । न च यावन्ति ज्ञानानि तावन्त्यज्ञानानीति पक्षे भ्रमापूर्वकप्रमानिवर्त्येऽज्ञाने अव्याप्तिः । भ्रमोपादानता-योग्यत्वस्य विवक्षितत्वात् । सहकारिवैकल्यात् कार्यानुदयेऽपि योग्यतानपायात् । अथ योग्यतावच्छेदकरूपापरिचये कथं तद्ग्रहणम् ? प्रथमलक्षणस्यैव योग्यतावच्छेदकत्वात् । एकमेवाज्ञानमिति पक्षे तु तत्र भ्रमोपादानत्वमक्षतमेव । न चैवं शुक्तिज्ञानेनैवाज्ञाननाशे मोक्षापत्तिः । तस्यावस्थाविशेषनाशकत्वाङ्गीकारात् । व्युत्पादितं चैतदस्माभिः सिद्धान्तबिन्दौ । ज्ञानत्वेन रूपेण साक्षाज्ज्ञाननिवर्त्यत्वं वा तल्लक्षणमिति च प्रागुक्तमेव । तस्मान्नाविद्यालक्षणासम्भव इति सर्वमवदातम् ।

न्यायामृततरङ्गिणी

जगतोऽनाविद्यकत्वायाविद्यां प्रतिक्षिपति ।। यच्चोक्तमित्यादिना ।। अनादीति ।। शुक्तिरूप्यं उत्तरज्ञाननिवर्त्यज्ञानं वा, ज्ञानप्रागभावं आत्मानं च व्यावर्तयितुं क्रमेण विशेषणानि । चैतन्याविद्यासम्बन्धं वारयितुं ज्ञानपदम् । तस्य च न ज्ञाननिवर्त्यत्वं, किं तु ज्ञानजन्याज्ञाननिवृत्तिनिवर्त्यत्वमिति भावः ।। भ्रमेति ।। अन्तःकरणवृत्तेरभ्रमत्वात्तदुपादानेऽन्तःकरणे नातिव्याप्तिरित्यर्थः ।। अहमज्ञ इति ।। एतस्य अन्यविषयकज्ञानाभावविषयत्वं व्युदसितुमन्यं न जाना-मीत्युदाहृतम् । एतस्याप्यन्यार्थज्ञानाभावविषयत्वं व्युदसितुं त्वदुक्तमर्थं न जाना-मीत्युक्तम् । एतस्यापि तदुक्तार्थसङ्ख्याज्ञानाभावविषयत्वं व्युदसितुं सङ्ख्यां न जानामि शास्त्रार्थं न जानामीत्याद्युदाहर्तव्यम् । सङ्ख्यायां सङ्ख्यान्तराभावात्सङ्ख्यां न जानामीत्युक्तेः । सङ्ख्याज्ञानाभावविषयत्वं विरुद्धम् । ननु तत्रापि परोक्षतया ज्ञातेऽपरोक्षज्ञानाभावाभिप्रायेण व्यपदेशोपपत्तिरिति शङ्कानिरासाय शास्त्रार्थं न जानामीत्युदाहृतम् । नित्यपरोक्षापूर्वादौ तथा व्यपदेशस्यापरोक्षज्ञानाभावाभि-प्रायत्वानुपपत्तिरिति भावः ।

।। प्रमाणज्ञानमिति ।। अत्र विवादगोचरापन्नं प्रमाणज्ञानमिति विवरण-पाठानुसारेण पठनीयम् । धर्म्यंशप्रमाणवृत्तेरिदमित्याकाराया अज्ञानानिवर्तिकाया अपक्षत्वाय विवादेति विशेषणम् । रूप्यादिज्ञानेऽबाधाय प्रमाणपदम् ।। स्वोत्पाद-केति ।। एतच्चोपलक्षणम् । उत्तरज्ञानव्यावर्त्यपूर्वज्ञानवारणार्थमपि । मिथ्याज्ञान-व्यावृत्त्यर्थं वस्त्वन्तरेति । हेतौ द्वितीयादिज्ञाने व्यभिचारवारणायाप्रकाशितेति । दृष्टान्ते सौरालोकदेशस्थप्रभाव्यावृत्त्यर्थमन्धकारेति । द्वितीयादिप्रभाव्यावृत्त्यर्थं प्रथमेति विशेषणमित्याहुः ।। चैत्रगतेति ।। एतच्च प्रमाप्रागभावविशेषणम् । न प्रमायाः । तस्या अन्तःकरणसमवेतत्वेन चैत्रगतत्वाभावात् । चैत्रसम्बन्धित्व-मात्रविवक्षायां तु मैत्रनिष्ठचैत्रविषयकप्रमाप्रागभावातिरिक्तघटप्रमाप्रागभावनिवर्त-कत्वेन चैत्रप्रमायां सिद्धसाधनात् । पक्षे प्रमाप्रागभावातिरिक्तज्ञाननिवर्त्यानाद्यज्ञान-मादाय साध्यसिद्धिः । दृष्टान्ते तु चैत्रप्रमाप्रागभावभिन्नमैत्रप्रमाप्रागभावमादाय साध्यसिद्धिरित्यर्थः ।। एतज्जनकेति ।। पक्षीभूतभ्रमस्य यदुपादानं तस्य पक्षीभूत-भ्रमजनकतया तदतिरिक्तत्वस्य तदुपादाने बाधितत्वेन तदुपादानेऽबाध्याति-रिक्तत्वसिद्ध्या पक्षीभूतभ्रमेऽबाध्यातिरिक्ताविद्योपादानकत्वं सिद्ध्यति । दृष्टान्ती-भूतभ्रमे तु पक्षीभूतभ्रमजनकातिरिक्तोपादानकत्वमादाय साध्यसिद्धिरित्यर्थः ।। तम आसीदिति ।। तमोनीहारादिशब्दा अविद्यावाचकाः । तन्मिथ्यात्वं तु नासदासी-दित्यादिना सदसती निषिध्य तम आसीदित्युच्यमानं तमोऽविद्याख्यं सदसद्विलक्षण-मुच्यत इत्यर्थात्सिद्धम् ।

।। अव्याप्तिरिति ।। शुक्त्याद्यज्ञानेष्विति शेषः । तेषां सादित्वादित्यर्थः । ननु रूप्योपादानाज्ञानमप्यनादिचैतन्याश्रितत्वादनाद्येव वाच्यम् । शुक्त्यादिकं तु तद-वच्छेदकमिति न तत्राव्याप्तिरिति तत्राऽह ।। सादीति ।। रूप्यस्य शुद्धचैतन्या-वरकाज्ञानोपादेयत्वे तदज्ञानस्य शुक्तिज्ञानान्निवृत्त्यभ्युपगमे सद्यो मोक्षापातः । अनभ्युपगमे रूप्यादेः सविलासाविद्यानिवृत्तिरूपबाधो न स्यात् । ज्ञानस्याज्ञान-निवर्तनद्वारेणैवान्यनिवर्तकतयाऽज्ञानमनिवर्त्य रूप्यनिवर्तकत्वासम्भवश्चेत्यर्थः ।। उक्तत्वादिति ।। प्रतिकर्मव्यवस्थाभङ्ग इति शेषः ।। आरोपितेति ।। अत्यन्तं वैजात्येनाभावं प्रति भावस्यानुपादानत्वादित्यर्थः । अनादित्वाभावश्चकारार्थः । ननु सर्वथा साजात्ये वैजात्ये चोपादानोपादेयभावादर्शनेन तथा साजात्यं वैजात्यं वा नोपपादयितुं शक्यम् । कार्याकारकारणाकारतया सति सादृश्ये कार्यकारणभावस्या-सम्भवः स्यादित्यत आह ।। अभावस्येति ।। सत्यासत्ययोरपि किञ्चित्सादृश्य-मस्तीति भावः । ननु सत्यस्यासत्योपादानत्वे सत्यस्य निवृत्त्यसम्भवेन तदुपादे-यस्यासत्यस्यापि निवृत्तिर्न स्यात् । सत्यस्यापरिणामित्वाच्च । भावस्याभावो-पादानत्वे तु न किञ्चिद्बाधकमिति । मैवम् । समवायिकारणनाशाद्वा, विरोधि-सन्निपाताद्वा कार्यनाशदर्शनात् । सत्यस्य दुग्धादेः परिणामदर्शनाच्च ।। ज्ञाना-दिति ।। त्वद्रीत्येति शेषः ।

न केवलमनादित्वाभावोऽपि तु ज्ञाननिवर्त्यत्वमपि नास्तीत्याह ।। शुद्धमिति ।। स्वरूपसद्वृत्त्युपहितस्यावृत्तिविषयत्वात् शुद्धस्य वृत्त्यविषयत्वं, तदज्ञानस्य ज्ञान-निवर्त्यत्वं चोपपन्नमिति भावः । तदेवाह ।। न हीति ।। उपाधिरूपया वृत्त्या स्वरूपसत्याऽपि स्वोपधेये शुद्धे ब्रह्मणि किञ्चिन्मालिन्यकरणे तस्य शुद्धत्वाभावेन तद्विषयकवृत्तेः शुद्धब्रह्मज्ञानत्वाभावेन तया शुद्धब्रह्माज्ञाननिवृत्त्ययोगः । किञ्चि-न्मालिन्यकरणे तस्याशुद्धत्वेन वृत्त्यविषयत्वान्न तदज्ञाननिवृत्तिः । न ह्यशुद्धब्रह्म-ज्ञानेन शुद्धब्रह्माज्ञाननिवृत्तिरित्यर्थः । ननु जीवन्मुक्त्यनुवृत्तस्य सोपाधिकभ्रमो-पादानस्य चाज्ञानस्य प्रारब्धकर्मभिरुपाधिना च प्रतिबन्धनान्न पूर्वतनेन साक्षा-त्कारेण निवृत्तिः । न हि प्रतिबन्धदशायां कार्याजनकमकारणं भवतीत्याशङ्क्य निराकरोति ।। न चेति ।। एतज्जीवन्मुक्त्यनुवृत्ताज्ञानस्याप्युपलक्षणम् ।। उपाधीति ।। आरब्धकर्मणामप्युपलक्षणम् ।

ननु प्रतिबन्धकाभावस्य कार्यमात्रहेतुत्वात् ज्ञाने सत्यप्यज्ञानवृत्त्या सोऽपेक्षित इत्यत आह ।। न हीति ।। अज्ञाननिवृत्तिस्थले प्रतिबन्धकाभावस्य ज्ञानस्वरूप-मात्रपर्यवसायित्वादिति भावः । नन्वावरणशक्तेर्न जानामीति व्यवहारहेतोरपगमान्न तथा व्यवहार इति चेन्न । शक्तेरज्ञानातिरिक्तत्वे तत्रैवैतल्लक्षणातिव्याप्तिः । अज्ञान-रूपत्वे तन्निवृत्त्ययोगात् ।। चैतन्येति ।। तस्यानादित्वादिति भावः । न च तस्य ज्ञाननिवर्त्यत्वं नास्तीत्युक्तमिति वाच्यम् । सर्वस्य चैतन्यान्यस्य ज्ञाननिवर्त्यत्व-मिति परमसिद्धान्तेनास्याभिधानात् ।। अनादीति ।। तद्व्यावर्त्यस्य घटादेः साक्षात् ज्ञाननिवर्त्यत्वाभावादित्यर्थः । न चोत्तरज्ञाननिवर्त्यपूर्वपूर्वज्ञानं वारयितुमनादि-पदमिति वाच्यम् । निवर्त्यमात्रस्य ज्ञाननिवर्त्यतया ज्ञानपदस्याव्यावर्तकतया ज्ञानत्वेन ज्ञाननिवर्त्यत्वस्यावश्यवाच्यत्वे तत एव तद्वारणात् । न चैवं भावपदमपि व्यर्थमिति वाच्यम् । इष्टापत्तेः । ननु लक्षणद्वये तात्पर्यान्न कोऽपि दोष इति तत्राह ।। असम्भवश्चेति ।। ननु कल्पितत्वमात्रं न दोषजन्यधीमात्रशरीरत्वे सादित्वे वा तन्त्रम् । किं तु प्रतिभासकल्पकसमानकालीनकल्पकवत्त्वं वा प्रागभावप्रतियोगित्वं वा । न च तत्प्रकृतेऽस्तीत्यत आह ।। उक्तत्वादिति ।। कल्पितत्वेन प्रागभाव-प्रतियोगित्वादेरप्यापाद्यमानत्वादित्युक्तत्वादित्यर्थः ।। ज्ञानेति ।। न चात्रानु-मानेऽजामेकां अनादिमाययेत्यादिशास्त्रविरोधः । आद्यस्य प्रकृतिविषयत्वात् । द्वितीयस्य भगवदिच्छाविषयत्वात् ।। व्यतिरेकेति ।। उपाधिव्यतिरेकवति पक्षे साध्यव्यतिरेकस्य सन्दिग्धत्वादित्यर्थः । भावत्वमपि नोपाधिः । प्रध्वंसे साध्याव्याप्तेः ।

प्रकारान्तरेणासम्भवमाह ।। त्वन्मत इति ।। ननु भावशब्देनाभाववैलक्षण्यमात्रं विवक्षितम् । किञ्चोक्तस्य सादित्वसाधकहेतोरनादित्वसाधकेन ज्ञाननिवर्त्यत्वे सति भावविलक्षणत्वेन हेतुना सत्प्रतिपक्ष इत्यत आह ।। भावेति ।। परस्पर-विरोधादित्यर्थः । तथा च स्वरूपासिद्ध्या न तुल्यबलत्वमत एवोक्तलक्षणस्या-सम्भवोऽपीति भावः । तृतीयप्रकारसिद्धौ न तयोर्विरोध इति त्वन्योन्याश्रयान्निरस्तम् ।। अनिवर्त्यत्वमिति ।। तथा चासम्भव इत्यर्थः ।। अत्यन्ताभाव इति ।। प्रतिपन्नोपाधिस्थनिषेध इत्यर्थः । अधिकरणस्वरूपातिरिक्तस्यात्यन्ताभावस्यानङ्गीकारे नेति नेतीति श्रौतनिषेधस्य ब्रह्मस्वरूपमात्रबोधनपर्यवसानेन परस्येष्टापत्तिरिति भावः ।। असतीति ।। न चाभावविलक्षणत्वरूपसाधनावच्छिन्नसाध्यव्यापकत्वमिति वाच्यम् । असत्यभाववैलक्षण्यस्यापि सत्त्वादिति भावः ।। आत्मनीति ।। तथा च पक्षे नोपाधिविरह इत्यर्थः । उक्तानुमाने विरोध्यसन्निपातमुपाधिं शङ्कते ।। यदत्रे-त्यादिना ।।  सादित्वमिति ।। ध्वंसप्रागभावयोर्व्यभिचारात् । भावत्वविशेषणेऽ-व्यभिचारेऽपि अभावे प्रयोजकान्तरकल्पनापत्तिः । अभावनिवृत्तिप्रयोजकेनानादि-भावत्वेन भावविलक्षणाविद्याया अनिवृत्त्यापादनायोगश्चेति भावः ।। अनादिभाव-त्वेनेति ।। तथा च पक्षे नोपाधिविरह इत्यर्थः ।। विशेषेति ।। प्रागभावादि-साधारण्यादिति भावः ।

परोक्तानुमाने व्यभिचारमाह ।। भाववैलक्षण्यादिति ।। अत्यन्ताभावस्येति ।। अत्यन्ताभावादेर्निवर्त्यत्वे प्रतियोगिसत्त्वापत्तिरिति भावः । नन्वज्ञानस्या-निवर्त्यत्वानुमाने तन्निवृत्तिबोधकागमबाध इत्यत आह ।। अविद्येति ।। अज्ञान-निवृत्तिबोधकागमवशात् भावत्वाद्यनन्तर्भावेनाज्ञानलक्षणं वाच्यम् । इतरथा तन्निवृत्तिरूपमोक्षासिद्धिः स्यादिति भावः ।। प्रतीतिमात्रेति ।। ननु सुखादेः शुक्तिरूप्यादेश्च स्वभासके साक्षिणि सत्येव निवृत्त्यभ्युपगमेन साक्षिभास्यानां यावत्साक्षिसत्त्वमवस्थानं नेष्यते । किञ्च न केवलचिन्मात्रं साक्षि । किन्तु अविद्यावृत्त्युपहितम् । तथा चास्थिराविद्यावृत्त्युपहितस्य साक्षिणोऽप्यस्थिरत्वेन तत्सत्त्वपर्यन्तमवस्थानेऽप्यविद्यादेर्निवृत्तिरुपपद्यते । मैवम् । सुखादेरक्षणिकत्वस्य दुःखादिसमानकालीनत्वस्य च त्वयाङ्गीकृतत्वेन तत्प्रतीतिनिवृत्तिमन्तरेण तन्निवर्तकाभावेन यावत्प्रतीतिसत्त्वमवश्यं सुखादेरवस्थानं वाच्यम् । तदिदमुक्तम् प्रतीतिमात्रशरीरस्येति । अविद्यावृत्त्युपहितचितः साक्षित्वेऽविद्यावृत्तेर्दोषजन्यत्वेन सुखादिज्ञाने व्यवहारकालेऽपि भ्रमत्वापत्तिः । वृत्त्यनुपधानदशायामविद्यादेः शुक्ति-रूप्यवदसत्त्वापातच्च । न च सादिपदार्थ एवायं नियम इति वाच्यम् । नियामका-भावात् । अविद्यावृत्तेरपि वृत्त्यन्तरप्रतिबिम्बितचिद्वेद्यत्वेऽनवस्थादिकं च । विस्तृतं चैतदविद्याप्रतीतिभङ्गे ।। अज्ञानस्येति ।। मिथ्याभूते रूप्यादौ ज्ञाननिवर्त्यत्वा-ननुभवात् । न हि ज्ञानेन रूप्यं नष्टमिति प्रतीतिरित्यर्थः ।। उक्तत्वादिति ।। ज्ञाननिवर्त्यत्वभङ्ग इति शेषः ।

।। अभ्रमेति ।। न च योग्यत्वं विवक्षितं अभ्रमपूर्वकप्रमानिवर्त्याज्ञाने सहकारिवैकल्यात् कार्यानुत्पादकेऽपि तद्योग्यताऽस्त्येवेति वाच्यम् । योग्यता-वच्छेदकापरिचये तदग्रहात् । न चाद्यलक्षणमेव तदवच्छेदकम् । तस्य निरस्तत्वा-दिति भावः ।। गौरवादिति ।। एतच्चोपलक्षणम् । भावविलक्षणेऽभाववैलक्षण्य-स्याप्यभाव इत्युक्तम् । यत्त्वन्वयिकारणत्वमुपादानत्वे तन्त्रमिति । तन्न । तत्र किमन्वयित्वम् । न भावत्वम् । असिद्धेः । नाप्ययुतसिद्धत्वम् । अज्ञानेऽसिद्धेः । भ्रमं विविच्य तस्याज्ञानोपादानकत्वं दूषयति ।। अपि चेति ।। अर्थस्येति ।। नाज्ञानमुपादानमित्यनेनान्वयः ।। अन्यथेति ।। भावविलक्षणस्याप्युपादानत्व इत्यर्थः ।। तत्वज्ञानेति ।। न च प्रागभावस्य प्रतियोगिमात्रजनकत्वेन न भ्रमं प्रति जनकत्वम् । नितरां चोपादानत्वमिति वाच्यम् । धर्मिकल्पनागौरवेण क्लृप्त-प्रागभाव एव तत्कल्पनौचित्यात् । न चैकाविद्यातिरिक्तानन्तप्रागभावे मानाभावः । उत्पन्नस्योत्पत्त्यदर्शनेन तस्यावश्यकत्वात् । तस्याभावविलक्षणत्वाभावाच्च ।। यद्यदनुविद्धेति ।। न च रूपं घट इति प्रतीत्यभावान्नायं नियम इति वाच्यम् । शुक्लो घटश्चलति घट इति विशेषानुवेधस्य सत्त्वात् । न च प्रकृत्याद्यनुवेधः परमतेऽपि नास्तीति प्रकृत्युपादानकत्वमपि न स्यादिति वाच्यम् । मृद्घट इत्यादेरेव तदनुवेधात् । भ्रान्तेस्तु न केनापि रूपेणाज्ञानानुवेधः सम्भवतीति भावः ।। भावव्याप्य इतीति ।। अभावाभावो भाव इति मते ज्ञानप्रागभावनिवृत्तेः ज्ञान-रूपाया न ज्ञानजन्यत्वमिति ज्ञानजन्यनिवृत्तिप्रतियोगित्वरूपं ज्ञाननिवर्त्यत्वं ज्ञानप्रागभावे नास्ति । प्रतियोगिव्याप्या प्रतियोगिभिन्ना प्रतियोगिजन्या प्रागभावस्य निवृत्तिरिति मते प्रागभावस्य साक्षाज्ज्ञाने निवर्त्यत्वमस्तीति तत्रातिव्याप्तिरित्यर्थः ।। अन्यथेति ।। प्रागभावस्य ज्ञाननिवर्त्यत्वाभावे स्वनिवर्त्येति विशेषणेनैव तद्व्यावृत्तिसिद्धौ स्वप्रागभावव्यतिरिक्तेत्याद्यविशेषणमविद्यानुमाने व्यर्थं स्यादित्यर्थः ।

व्यासाद्रिसृततर्काम्बुपूरैः पक्षयुगं युजि ।

न्यायामृततरङ्गिण्यामविद्यालक्षणक्षतिः ।।

न्यायामृतकण्टकोद्धारः

किञ्च लक्षणप्रमाणाभावाच्चाविद्या गगनकुसुमायमानाऽतस्तन्मयत्वं प्रपञ्चस्यासम्भवीति वक्तुं परोक्तं लक्षणं प्रमाणं च दूषणायानुवदति ।। यच्चेति ।। तत्रानुभव इत्यन्तेन प्रत्यक्षमुक्तम् । यद्यपि न जानामीत्यादिकमपि साक्ष्यनुभवरूपं परामर्शसिद्धसौषुप्तिकानु-भवोऽपि साक्षिप्रत्यक्षमेव, तथा च कस्यचित् प्रत्यक्षशब्देन कस्यचिदनुभवशब्देनोपादान-मयुक्तम् । तथाप्यहमज्ञ इत्यादेः प्रत्यक्षत्वं तार्किकादिसिद्धम् न सौषुप्तिकानुभवस्येति तदभिप्रायेण अहमज्ञ इत्यादेः प्रत्यक्षत्वमुक्तमिति सामान्यविशेषभावाच्च समुच्चयोऽप्यु-पपद्यत इति भावः ।। तथा प्रमाणज्ञानमिति ।। अत्र यद्यपि उक्तलक्षणविशिष्टमज्ञानं न विषयः, ज्ञाननिवर्त्यत्वस्य व्यापककोटिप्रवेशेऽपि अनादित्वभावत्वयोरप्रवेशात् । तथापि ज्ञाननिवर्त्यत्वसिद्धौ साक्षाज्ज्ञाननिवर्त्त्यत्वेन हेतुना प्रागभावदृष्टान्तेनानादित्वस्योपादा-नत्वादिना भावत्वस्य सिद्धिरिति ।

यद्वा आवरणस्य सादित्वे तत्कारणपरम्परयाऽनवस्था स्यात् । अनादित्वे च लाघव-मिति । लाघवप्रमाणोपस्थितमनादित्वं कर्त्रैकत्वमिव परमाणुनिरवयवत्वमिव च अनुमितावेव विषयो लाघवस्य प्रमाणमात्रसहकारित्वादिति आवरणत्वादेव भावत्व-सिद्धिः । अन्धकारस्यापि भावत्वान्न तत्र व्यभिचारः । अत्राप्रकाशितार्थप्रकाशकत्वं पक्षतावच्छेदककोटिनिविष्टम् । तेन द्वितीयादिज्ञानेन बाधासिद्धी । प्रथमोत्पन्नप्रमायाः पक्षीकरणाच्च ।

।। अज्ञातत्वं चेति ।। नन्वज्ञातत्वमज्ञानविषयत्वम् । तद्व्युदसनं नामाज्ञान-व्युदसनमेव । तथा चेदं विशेषणमज्ञानसिद्धिविरोधीति चेन्न । ज्ञातो घट इति प्रतीत्य-न्यथानुपपत्त्या ज्ञातत्वमिव अज्ञातो घट इति प्रतीत्यन्यथानुपपत्त्याऽज्ञातत्वमपि विषय-निष्ठं भिन्नं नाज्ञानविषयत्वम् । अन्यथा ज्ञातत्वमपि ज्ञानविषयत्वमेव स्यात् । तथा च विषयनिष्ठस्याज्ञातत्वस्य भिन्नत्वात्तद्व्यावृत्त्यर्थं स्वदेशगतत्वं विशेषणं युक्तम् ।

नन्वज्ञानं प्रमाणदेशगतं कथं प्रमाणज्ञानस्यान्तःकरणाश्रितत्वादज्ञानस्य च चिन्मात्रा-द्याश्रितत्वादिति चेन्न । प्रमाणज्ञानस्य ज्ञानस्य चैकचिन्मात्राध्यासेनाधिष्ठानैक्यादेकदेश-गतत्वम् । न चैवं विषयगताज्ञातत्वस्यापि तत्रैवाध्यासात्स्वदेशगतपदेन कथं तद्व्यावृत्ति-रिति वाच्यम् । तस्य विषयावच्छिन्ने चैतन्येऽध्यासेन भिन्नदेशगतत्वेन भवति तद्व्यावृत्ति-रिति । अत्रानुमाने विपक्षाविशेषदूषणावसर एव प्रपञ्चयिष्याम इति नेह मन्यते ।। तथेति ।। अत्र चानुमानेऽनादित्वज्ञाननिवर्त्यत्वे सिद्ध्यतः । भावत्वमात्रमनुमानान्तरेण साध्यमिति पूर्वापेक्षया लाघवम् ।। विगीत इति ।। अत्र भ्रमोपादानत्वविशिष्टमज्ञानं सिद्ध्यति । अभावभ्रमस्यापि सोपादानत्वान्न तत्र व्यभिचारः । न चैतन्मते शुक्ति-रजतभ्रमे संमतेऽबाध्यातिरिक्तोपादानत्वस्यातत्त्ववादिमतेऽभावाद्दृष्टान्तः साध्यविकलः । भ्रममात्र आत्मनः अन्तःकरणस्य वा सम्बाध्यस्यैवोपादानत्वात् इति वाच्यम् । तत्र भ्रमस्य मिथ्यात्वं प्रसाध्य वक्ष्यमाणयाऽर्थापत्त्या मिथ्याभूतमेवोपादानं स्वीकर्तव्यमिति सिद्धम् । कृत्वैतदनुमानप्रयोग इति न काप्यनुपपत्तिरिति ।

यद्वा आत्मनि व्यतिरेकव्याप्तिरिति । ननु प्रत्यक्षेण नाज्ञानसिद्धिस्तत्र । ज्ञाना-भावस्यैव विषयत्वात् । क्लृप्तेन ज्ञानाभावेन प्रतीतिव्यवहारयोरुपपत्तावतिरिक्तकल्पने गौरवादित्याशङ्क्य निषेधति ।। न चेति ।। अज्ञाते त्विति ।। तथा च न ज्ञानाभाव-विषयत्वेनोपपत्तिरिति भावः ।। उक्तत्वादिति ।। प्रतिकर्मव्यवस्थाभङ्ग इति शेषः । आवरणस्य चाव्रियमाणेन व्याप्तत्वात्तदभावे तदसम्भवादिति भावः । न चेश्वरज्ञानस्य सादिघटादिविषयत्वेऽपि अनादित्वं, तथा प्रकृते शुक्त्यादेः सादित्वेऽप्यज्ञानमनादि किं न स्यादिति वाच्यम् । तत्रानादिविषयान्तरसम्भवात् । सविषयकत्वादेः अज्ञान-स्वभावत्वात् । न च प्रकृतेऽप्यज्ञानस्यैक्याद्विषयान्तरं स्यादिति वाच्यम् । एकाज्ञानपक्षे शुक्तिज्ञानेन तन्नाशे सद्यो मोक्षापत्त्या प्रतिविषयमज्ञानमनेकमिति वाच्यम् । तथा चोक्तदोषः । न च चैतन्याश्रितत्वादनाद्येवाविद्या । उदीच्यशुक्त्यादिकं तु तदवच्छेदक-मिति न तत्राव्याप्तिरिति वाच्यम् । शुद्धस्याश्रयत्वे विषयत्वे चैतन्यमज्ञं चैतन्य-मज्ञातमिति प्रतीत्यापत्त्या अहमज्ञो शुक्तिर्न ज्ञातेति प्रतीत्यनापत्त्या च विशिष्टस्य तत्त्वे तस्य ब्रह्मान्यत्वेन सादित्वात् तदाश्रिततद्विषयाज्ञानस्यानादित्वायोगात् । चैतन्यमात्रा-श्रयत्वे च शुक्तिज्ञानेन तस्य निवृत्तौ सद्यो मोक्षापाताच्च । तथा चाव्याप्तिः सुदृढेति भावः ।। आरोपितेति ।। न च भावपदेन अभावविलक्षणत्वं विवक्षितम् । आरोपिता-भावोपादानाज्ञाने तु अभावविलक्षणत्वस्वीकारात् न तत्राव्याप्तिरिति वाच्यम् । अभावविलक्षणस्यारोपिताभावोपादानत्वानुपपत्तेः । कार्यस्य सजातीयोपादानकत्व-नियमात् । अन्यथा सत्योपादानकत्वापत्तेः । न च सर्वथा साम्ये उपादानो-पादेयभावानुपपत्तिरिति वाच्यम् । आकारभेदेऽप्यभावविलक्षणस्योपादानत्वानुपपत्तेः । अन्यथा मृद्विलक्षणस्य घटोपादानत्वानुपपत्तेः । न च सत्योपादानकत्वे ज्ञानान्निवृत्तिर्न स्यात् । उपादानद्वारैवोपादेयस्य निवृत्तेः । सत्यस्य चानिवृत्तेरिति वाच्यम् । सत्यस्यापि निवृत्तेः प्रागेव समर्थनात् । मिथ्याभूतत्वे परं निवृत्तिर्न युज्यते । न हि शुक्तिरजतस्य निवृत्तिरनुभूयत इत्युक्तम् । उपादाननिवृत्तिं विनापि द्व्यणुकादिवन्निवृत्तिसम्भवाच्च । तथा चारोपिताभावोपादानाज्ञाने भावत्वमवश्यं स्वीकर्तव्यमित्यव्याप्तिरेव ।

किञ्चोपादानत्वस्य भावत्वनियतत्वात्कथं तदभावोपादानत्वम् ? अन्यथाऽभावस्या-प्युपादानत्वं स्यात् । न चाभावविलक्षणत्वमेव तत्र तन्त्रम् । गौरवात् । भावत्वाभावे भावविलक्षणत्वानुपपत्तेश्चेत्यलम् ।। शुद्धं ब्रह्मेति ।। न च स्वरूपसदुपाधिमत्तद-विषयज्ञाननिवर्त्यत्वस्य तन्मते भावान्नोक्तदोष इति वाच्यम् । वृत्तिव्याप्यत्वाभावे ज्ञानस्य तद्विषयकत्वानुपपत्तेः ब्रह्मणो वृत्तिव्याप्यत्वाभावे वेदान्तजन्यज्ञानस्य तत्त्वानु-पपत्तेश्च । उपपादितं चैतत् दृश्यत्वभङ्ग इति नेह तन्यते ।। तस्येति ।। उपलक्षणं चैतत् । जीवन्मुक्तौ निरुपाधिकभ्रमो न स्यात् । तदभावे च भिक्षाटनाद्यर्थं प्रवृत्त्यभावापत्तिरिति द्रष्टव्यम् ।। न हीति ।। न च न जानामीति बुद्धावज्ञानगतावरणशक्तेः प्रयोजकत्वा-त्साक्षात्कारेण च तस्य निवृत्तत्वात् न जानामीति व्यवहारो न भवतीति वाच्यम् । आवरणशक्तेरप्यज्ञानकार्यत्वेनाज्ञानमनिवर्त्य तन्निवर्तकत्वायोगात् । आवरणशक्ते-रज्ञानोपादानकत्वाभावे च ज्ञानान्निवृत्तिर्न स्यात् । ज्ञानस्याज्ञानतदुपादेयनिवृत्तावेव सामर्थ्यात् । न च चावरणशक्तिरज्ञानमेवेति वाच्यम् । तथात्वेऽज्ञानस्य निवृत्तत्वा-त्संसारोपलम्भो न स्यात् । न चावरणशक्तिरज्ञानांश इति वाच्यम् । अज्ञानस्य निरंशत्वात् । तस्मादज्ञानानिवृत्तौ न जानामीति व्यवहारः स्यादिति साधूक्तम् । एवं प्रत्येकविशेषणाभावप्रयुक्तामव्याप्तिमुक्त्वातिव्याप्तिमाह ।। चैतन्येति ।। साक्षादिति च शब्दो भिन्नक्रमः । तथा च अनादिपदवैयर्थ्यमतिव्याप्तिश्चेत्यर्थः । उपलक्षणं चैतत् । भावपदवैयर्थ्यं च द्रष्टव्यम् । न चाविद्याचैतन्यसम्बन्धस्याज्ञानमयत्वात्कथं साक्षा-ज्ज्ञाननिवर्त्यत्वम् ? अज्ञाननिवृत्तिद्वारैव तस्य ज्ञाननिवर्त्यत्वादिति वाच्यम् । अविद्या-सम्बन्धस्यानादित्वेनाज्ञानमयत्वानुपपत्तेः । अज्ञानमयत्वं ह्यज्ञानोपादानकत्वम् । अन्यस्यानिर्वचनात् । तथा च कथमनादित्वम् ? अन्यथा ज्ञानस्याप्यज्ञानोपादान-कत्वापत्तेः । तथा च तन्निवर्तकत्वमपि न साक्षादित्यसम्भवापत्तेः । न चोत्तर-ज्ञाननिवर्त्यपूर्वज्ञानेऽतिव्याप्तिनिराकरणार्थमनादिपदमिति वाच्यम् । तस्याप्यज्ञानमयत्वेन साक्षाज्ज्ञाननिवर्त्यत्त्वाभावस्य त्वया वक्तव्यत्वात् । न हि परप्रक्रियालक्षणप्रणयन-मुचितम् । ब्रह्मातिरिक्तस्य सर्वस्यैवाज्ञानोपादानकत्वात् । न च प्रागभावेऽति-व्याप्तिवारणार्थं भावपदमिति वाच्यम् । तत्रोक्तरीत्या ज्ञाननिवर्त्त्यत्वाभावादेवाति-व्याप्त्यभावात् ।

किं च ज्ञाननिवर्त्यत्वं हि ज्ञानजन्यनिवृत्तिप्रतियोगित्वम् । न चैतत्प्रागभावेऽस्ति । ज्ञानस्यैव प्रागभावनिवृत्तित्वेन तज्ज्ञानजन्यनिवृत्तेरभावात् । विषयगताज्ञातत्वेऽप्यति-व्याप्तिश्च इति द्रष्टव्यम् । विषयगताज्ञातत्त्वं चावश्यमङ्गीकर्तव्यमित्युक्तम् ।। कल्पि-तत्त्वेनेति ।। ननु न कल्पितत्त्वमात्रं दोषजन्यधीमात्रशरीरत्वे सादित्वे प्रयोजकम् । किन्तु प्रतिभाससमानकालीनकल्पकवत्वम्, सादिकल्पकवत्त्वं वा अविद्यानिवृत्त्य-प्रयुक्तनिवृत्तिप्रतियोगित्वं वा तन्त्रम् । न च तत्प्रकृतेऽस्ति । तथा चानादित्व-सम्भवान्नासम्भव इति चेत् । मैवम् । लाघवात्कल्पितत्त्वस्यैव दोषजन्यप्रतिभासशरीरत्वे तत्वात् । दोषाजन्यस्यापि कल्पितत्वे ब्रह्मणोऽपि कल्पितत्त्वापत्तेः । उक्तप्रयोजक-त्रयस्याविद्यादावपि सत्त्वाच्च । शुक्तिरजतादौ कल्पकस्य सादित्वं च शरीराद्यपेक्षया । तच्चाविद्याकल्पकेऽप्यस्ति । स्वरूपतस्तु शुक्तिरजतादिकल्पकेऽपि नास्ति । अविद्याया अपि अविद्यानिवृत्त्यप्रयुक्तनिवृत्तिप्रतियोगित्वाच्च । न ह्यविद्यानिवृत्तिरविद्यानिवृत्ति-प्रयुक्ता । आत्माश्रयात् । आद्यं त्वविद्यायां स्पष्टम् । तत्कल्पकस्य प्रतिभाससमान-कालीनत्वात् । तत्प्रतिभासकाल एव वृत्तित्वं तु शुक्तरजतादिकल्पकेऽपि नास्ति । तस्मात्कल्पितत्त्वस्यैव सादित्वप्रयोजकत्वादसम्भवः सुस्थ इति ।। ज्ञाननिवर्त्त्यस्येति ।। न चाविद्यायाः सिद्धौ बाधः । तस्या अनादित्वेनैव सिद्धत्वात् । तदसिद्धौ पक्षासिद्धेः कथं सादित्वसाधनमिति वाच्यम् । जगदुपादानत्वेन पक्षत्वात् । न च तथापि भवन्मते बाधासिद्धी स्याताम् । भवद्भिर्जगदुपादानस्य सादित्वज्ञाननिवर्त्त्यत्वयोरनङ्गीकारादिति वाच्यम् । जगदुपादानं यदि ज्ञाननिवर्त्त्यत्वे सति अभावविलक्षणं स्यात् सादि स्यादित्यापादनमात्रस्याभिप्रेतत्वात् । अनेन ‘‘अजामेकाम्’’ इत्यादिश्रुतिबाधोऽप्य-पास्तः । तर्के तस्यानुगुणत्वात् । न च ज्ञाननिवर्त्त्यत्वे सति भावविलक्षणत्वेन सत्प्रति-पक्ष इति वाच्यम् । अभावविलक्षणत्वेन भावत्वेनासिद्धेः । परस्परविरुद्धयोरन्यतर-प्रतिक्षेपेऽन्यतरसत्तानियमात् । न च गोत्वाश्वत्वयोः व्यभिचारः । तृतीयप्रकाराभावे सतीति विशेषणात् । न चासिद्धिः । प्रकृतेऽप्युभयत्र बाधकात् तृतीयप्रकारकल्पनादिति वाच्यम् । एवं हि तृतीयप्रकारोऽपि न स्यात् । तत्रापि बाधकानामुक्तत्वात् । वक्ष्यमाणत्वाच्च । न च तत्र कथञ्चित्परिहारं प्रकल्प्य तृतीयः प्रकारः कल्प्यत इति वाच्यम् । एवं हि भावत्वाभावत्वयोरेव प्रामाणिकत्वात् । तत्रैव बाधकपरिहारः कल्प्यते । लाघवात् भावत्वे बाधकाभावाच्च । न चानिर्वचनमेव बाधकम् । तस्य ब्रह्मण्यपि साम्यात् । भावत्वादेरन्यत्र निरुक्तत्वाच्च । तथा चासिद्ध्या न सत्प्रति-पक्षत्वम् । ब्रह्मत्वस्योपाधित्वाच्च । न च प्रागभावे साध्याव्यापकत्वम् । अभाव-विलक्षणत्वरूपपक्षधर्मावच्छिन्नसाध्यव्यापकत्वसम्भवात् । अत एव भावत्वोपाधिरपि परास्तः । साधनव्यापकत्वादेव ।

ननु अज्ञानसम्बन्धे सन्दिग्धैनैकान्तिकतेत्यत आह ।। अज्ञानेति ।। ननु पक्षतुल्यत्वेऽपि सन्दिग्धानैकान्तिकतायाः भवद्भिरुपपादितत्वात्कथमत्र तदभाव इति चेन्न । अत्र तमादायापि पक्षत्वासम्भवात् । यत्रासम्भवस्तत्रैव सन्दिग्धानैकान्तिकताया उक्तत्वादित्याशयात् ।। पक्षेतरत्वादिति ।। न च पक्षेतरत्वं नाम पक्षमात्रव्यावर्तक-विशेषणवत्वम् । प्रकृते च तद्विशेषणाभावेऽप्रसिद्धिरेवेति वाच्यम् । अनधिकरणत्वं यत्किञ्चिदनधिकरणत्वं सर्वानधिकरणत्वं वा प्रसिद्धमेवेति पक्षेतरत्वमेव ।। अवच्छिन्नेति ।। सादिशुक्त्याद्यवच्छिन्न इत्यर्थः । तत्र सादित्वस्योपपादितत्वादिति भावः ।। व्यतिरेकेति ।। तथा च सत्प्रतिपक्षोत्थापकत्वं व्यभिचारोन्नायकत्वं वा न सम्भवति । उभयोरपि उपाधिव्यतिरेकसिद्ध्यधीनत्वादिति भावः ।। त्वन्मत इति ।। तथा च भावत्वाभावादप्यसम्भव इति भावः । ननु भावत्वमभावविलक्षणत्वमतो नोक्त-दोष इत्यत आह ।। भावविलक्षणस्येति ।। तथाप्यसम्भव एवेति भावः । यथा चैत-त्तथोपपादितम् । ज्ञाननिवर्त्यत्वाभावाच्चासम्भव इत्याह ।। अपि चेति ।। अत्यन्तेति ।। न चाधिकरणातिरिक्तात्यन्तान्योन्याभावयोरनङ्गीकारान्नोक्तदोष इति वाच्यम् । प्रतीति-वैलक्षण्येन तयोरवश्यं स्वीकार्यत्वात् । अन्यथा प्रागभावप्रध्वंसयोरपि अधिकरणाति-रिक्तत्वं न स्यात् । त्वदुक्तरीत्या सापेक्षस्याभावादेर्निरपेक्षाधिकरणात्मत्वानुपपत्तेश्च । न चाभाववैलक्षण्यावच्छिन्नसाध्यव्यापकत्वान्न तुच्छे साध्याव्याप्तिरिति वाच्यम् । तुच्छ-स्याप्यभावविलक्षणत्वात् । न हि तुच्छमभावः । तथात्वे तस्य सत्त्वापत्तेः । अभावस्य भाववत्सत्वात् ।। त्वन्मत इति ।। तथा च भावत्वोपाधिः साधनव्यापकोऽपीति भावः ।

ननु अनादिभावत्वादज्ञानस्यानिवर्त्यत्वसाधनं न युज्यतेऽप्रयोजकत्वात् । न च निवर्त्यत्वे सादिभावत्वं प्रयोजकम् । प्रागभावे तदभावात् । न च तत्रान्यदेव प्रयोजकम् । भिन्नप्रयोजककल्पनायां गौरवात् । सर्वत्र विरोधिसन्निपातस्यैव निवर्त्यत्व-प्रयोजकत्वे लाघवात् । तथा चाज्ञानस्य निवर्त्यत्वं युक्तमित्यभिप्रायेण शङ्कते ।। यदत्रेति ।। तथा च भवदीयानुमाने विरोध्यसन्निपातोपाधिरपीति भावः ।। किञ्चेति ।। सामान्यव्याप्तेर्विशेषे तत्र सावकाशत्वाद्दुर्बलत्वम् । विशेषव्याप्तेर्निरवकाशत्वेन प्रबल-त्वात् । तथा सामान्यव्याप्तिबाध इति भावः ।। अपि चेति ।। नन्वेवं सत्प्रतिपक्षे ज्ञाननिवर्त्यत्वस्याप्यसिद्धौ कथं लक्षणत्वम् ? निश्चितस्यैवेतरभेदसाधकत्वेन लक्षण-त्वादिति चेन्न । विशेषव्याप्तिसहितस्यैव तस्य बलवत्वेन निश्चायकत्वोपपत्तेः ।। अनादीति ।। तथा त्वत्कल्पितप्रयोजकस्याप्यभावादनिवर्त्यत्वमिति भावः । न च फलबलात्तत्कल्पनम् । फलाभावसाधकं प्रति फलबलस्यासिद्धेः । न चैवं प्रयोजक-द्वयकल्पनागौरवं भावनिवर्त्यत्वाभावनिवर्त्यत्वयोः प्रयोज्ययोर्भेदे तस्यावश्यकत्वात् । किं चेत्युक्तं दूषयति ।। यः पर्वत इति ।। अप्रयोजकत्वान्न विशेषव्याप्तिरिति यदि तदैतदत्रापि तुल्यम् । विशेषव्याप्तित्वमपि नास्तीत्याह ।। त्वदभिमतेति ।। न च ज्ञानविरोधित्वं ज्ञानाविरोधिभ्यो विशेष एवेति वाच्यम् । तर्हि अनादिभावत्वस्यापि सादिभावापेक्षया विशेषत्वेन विशेषव्याप्तित्वापत्तेः साम्यात् । यद्येकव्यक्तिमात्र-विषयत्वमेव विशेषव्याप्तित्वं तदा तत्प्रकृतेऽपि नास्तीति भावः ।। भाववैलक्षण्येनेति ।। न च ध्वंसादीनामधिकरणव्यतिरेकेणासत्वान्न तत्र व्यभिचार इति वाच्यम् । प्रागभाव-वत्तेषामप्यतिरिक्तत्वस्यावश्यकत्वात् । अन्यथा तस्याप्यधिकरणस्वरूपत्वापत्तेः ।

किं च ध्वंसस्याधिकरणमात्रत्वे प्रतियोगिकालेऽप्यधिकरणस्य सत्वेन ध्वंससत्वापत्त्या ध्वंसप्रतियोगिनः कालिकविरोधः सर्वसिद्धो न स्यात् । अज्ञाननिवृत्तिरूपमोक्षस्य ब्रह्म-स्वरूपत्वेन श्रवणादिसाध्यत्वानुपपत्तेस्तद्विधिवैयर्थ्यप्रसङ्गाच्च । आधाराधेयभावप्रतीत्य-योगाच्च । तच्छब्दानां पर्यायतापाताच्च ।

नन्वविद्यायाः निवृत्त्यनङ्गीकारे मोक्षो न स्यात् । तथा च मोक्षशास्त्रविरोध इत्यत आह ।। अविद्येति ।। आपादने प्रमाणविरोधो न दूषणमिति भावः ।। प्रतीति-मात्रशरीरस्येति ।। न च सुखशुक्तिरूप्यादीनां साक्षिप्रतीतिमात्रशरीराणामपि साक्षिणि सत्येव यथा निवृत्तिस्तथा प्रकृतेऽपि स्यात् इति वाच्यम् । सुखादीनां साक्षिप्रतीतिमात्र-शरीरत्वानभ्युपगमात् । अभ्युपगमे वा तस्यापि पक्षतुल्यत्वात् ।

ननु न चिन्मात्रं साक्षी । तथात्वे ह्यसङ्गश्रुतिविरोधात् । किन्त्वविद्यावृत्त्युपहितम् । तथा च साक्षिणोऽप्यस्थिरत्वेन तत्पर्यन्तमवस्थानेऽप्यविद्यानिवृत्त्युपपत्तिरिति चेन्न । उपहितस्य जहत्वेन साक्षित्वानुपपत्तेः । सत्यां चाविद्यायां तादृशः साक्षी तस्मिंश्च सति तत्प्रतीतिशरीराविद्या इत्यन्योन्याश्रायाद्यापाताच्च । सुषुप्तावविद्यावृत्त्यभावेनाविद्याप्रतीत्य-भावे परामर्शविरोधश्च । अविद्यावृत्तेरप्यविद्यावृत्त्युपहितचिद्वेद्यत्वेऽन्योन्याश्रयाद्यापाताच्च । वृत्त्युपधानदशायां शुक्तिरूप्यवदविद्यादेरसत्वापत्तेश्च । न च सादिपदार्थ एव तादृङि्नयम इति वाच्यम् । सादिप्रतीतिमात्रशरीरस्यासत्वानुपपत्तेः । न च धारावाहिकाया अविद्या-वृत्तिपरम्पराया अतिसूक्ष्माया अभ्युपगमान्नोक्तदोष इति वाच्यम् । तस्या एवासिद्धौ तद्वृत्तिपरम्परयाः खपुष्पायमानत्वात् । एवं च चिन्मात्रस्यैव साक्षित्वे तन्मात्रप्रतीति-रूपाया अविद्यायाः निवृत्तिर्न सम्भवतीत्यसम्भवः सुस्थः ।। अज्ञानस्येति ।। सादिसत्यत्वस्यैव भावनिवृत्तिप्रयोजकत्वात् । अन्यथा शशविषाणस्यापि निवृत्तिः स्यादिति भावः । एवमव्याप्त्यतिव्याप्त्यसम्भवग्रस्तत्वात्प्रथमलक्षणमयुक्तमित्युपपादितम् । इदानीं द्वितीयलक्षणं दूषयति ।। द्वितीयलक्षणेऽपीति ।। न च भ्रमोपादानत्वयोग्यत्वं विवक्षितमतो नाभ्रमपूर्वकप्रमानिवर्त्याज्ञानेऽव्याप्तिरिति वाच्यम् । अवच्छेदकाभावेन योग्यताया ज्ञातुमशक्यत्वात् । न च सर्वं लक्ष्यमवच्छेदकं, तस्य दूषितत्वात् ।

नन्वभावारोपनिवर्तकप्रमानिवर्त्यज्ञाने नाव्याप्तिः । तस्यापि भ्रमोपादानत्वात् । न चैवमभावस्यापि सोपादानत्वापत्तिः । तन्मतेऽर्थज्ञानात्मकस्याध्यासस्य भ्रमत्वादिति वाच्यम् । इष्टापत्तेरित्यत आह ।। अभावस्येति ।। सोपादानत्वे साकारत्वापत्तिः । न ह्यभावस्य संस्थानविशेषात्मकाकारोपलब्धिरस्ति । न च सोपादानत्वेऽपि गुणा-दाविवोपपत्तिरिति वाच्यम् । गुणादीनां गुण्याद्यभेदेन तदाकारस्यैव तदाकारत्वसम्भवात् । न च प्रकृतेऽप्यन्यभावस्याधिकरणाभेदेनाकारोपपत्तिरिति वाच्यम् । दत्तोत्तरत्वात् । नन्वज्ञानमपि भावविलक्षणमित्यरुचेराह ।। किं चेति ।। न च प्रथमपक्ष एवेदं लक्षणमिति वाच्यम् । विवरणादिपर्यालोचनयाऽस्य सर्वमतसाधारणत्वप्रतीतेः । ननु मतत्रयसाधारणमेवेदं लक्षणमस्तु । न च द्वितीयतृतीययोरसम्भवातिव्याप्ती इति वाच्यम् । द्वितीयपक्षे भ्रमोपादानकावच्छेदकत्वस्य लक्षणत्वात् तृतीये परिणामित्वेनाचेतनत्वेन विशेषणान्ना कोऽपि दोष इति चेन्न । तथाऽपि साधारणत्वानुपपत्तेः । भ्रमोपादानका-वच्छेदकत्वस्य प्रथमपक्षे सम्भवात् । परिणामित्वादिविशिष्टस्य च द्वितीयपक्षे सम्भवात् । न च तत्तन्मतानुसारेण व्यवस्थितमेव लक्षणमिति वाच्यम् । वस्तुव्यवस्थायोगेन सर्वस्याप्यसम्भवात् । न ह्येकमेवोपादानतावच्छेदकमुपादानं परिणाम्यपरिणामि चेति सम्भवति । न त्वभ्युपगमाधीना वस्तुव्यवस्था । गुञ्जापुञ्जस्य वह्नित्वापत्तेः ।

ननु भ्रमस्य भावत्वाद्धेतुरसिद्ध इत्यत आह ।। न चेति ।। कार्यकारणयोरिति ।। तथात्वेऽज्ञानस्यापि भावत्वं स्यात् । अन्यथोपादानोपादेययोरभेदो न स्यात् । न चासावसिद्ध इति वाच्यम् । अपसिद्धान्तापातात् । एकविज्ञानेन सर्वविज्ञानस्योपादानो-पादेयभावेनोपपादनासम्भवाच्च ।। गौरवादिति ।। न च सोपादानत्वे सादित्वं तन्त्रम् । न तु भावत्वम् । तथा च भावविलक्षणत्वेऽपि सोपादानत्वं भविष्यतीति वाच्यम् । तथात्वे भावस्यापि सोपादानत्वापत्तेः । न चेष्टापत्तिरिति वाच्यम् । तस्य प्रागेव दूषितत्वात् ।। अपि चेति ।। न च सद्विलक्षणत्वमेव सोपादानत्वे तन्त्रमिति वाच्यम् । तथात्वे सतोऽपि सोपादानत्वापत्तेः । न चासद्विलक्षणत्वे सति सद्विलक्षणत्वम् । गौरवादसिद्धेश्च । तथा चासम्भव एवेति ।। कादाचित्कत्वमेवेति ।। कादाचित्क-भावत्वमित्यर्थः । तेन नाभावस्य सोपादानत्वापत्तिरिति भावः । आद्ये दोषमाह ।। गौरवादिति ।। अन्त्य आह ।। तुच्छस्यापीति ।। उपलक्षणमेतत् । ब्रह्मणोऽपि सोपादानत्वं स्यादित्यपि बोध्यम् । किमत्र ज्ञानस्य यादृशं रूपं तादृशं विषयस्येति सामान्यव्याप्तिरुत ज्ञानस्य सत्वे विषयस्यापि सत्वमिति विशेषव्याप्तिः । आद्ये मिथ्या-भूतमिति । द्वितीये सन्तमिति ।

नन्वसद्विषयकज्ञानादेः सत्त्वं न सम्प्रतिपन्नमित्यत आह ।। सत्येति ।। न चाविद्यावच्छिन्नचैतन्यस्य साक्षित्वात्तस्य च न सत्यत्वमिति वाच्यम् । मिथ्याभूतस्य जडत्वेन साक्षित्वानुपपत्तेः । अर्थासत्वेन ज्ञानासत्वे प्रत्यक्षविरोधश्च । न च प्रत्यक्षमसिद्धम् । अनुसन्धानसिद्धत्वादित्याह ।। एतावन्तमिति ।।

नन्वादर्शे मुखासत्वेऽपि सत्वानुसन्धानवत्प्रकृते किं न स्यादित्यत आह ।। एतावन्तमिति ।। तत् प्रतिमुखस्य सत्वादनुसन्धानं युक्तम् । न च प्रतिबिम्बस्य सत्वमसिद्धमिति वाच्यम् । प्रतिबिम्बस्य जीवस्यासत्वे तस्य ब्रह्मैक्यरूपमोक्षानुपपत्ते-रुक्तत्वात् । प्रतिबिम्बसत्वस्य वक्ष्यमाणत्वाच्चेति भावः । एवं तावदुपादेयत्वप्रयोजका-भावादुपादेयत्वं न सम्भवतीति न तदुपादानत्वमज्ञानस्येत्युपपाद्योपादानत्व-प्रयोजका-भावादपि उपादानत्वाभावादसम्भव इत्यत आह ।। किं चेति ।। अन्यथेति ।। भाव-विलक्षणस्याप्युपादानत्व इत्यर्थः । न च प्रागभावस्य प्रतियोगिमात्रजनकत्वनियमेन भ्रमं प्रति जनकत्वस्याप्यभावात् तद्विशेषोपादानत्वं सुतरामसम्भवीति वाच्यम् । धर्मिकल्प-नातो धर्मकल्पनायाः लघीयस्त्वेन प्रतियोगिजनकत्वमात्रनियमं परित्यज्य तत्त्वज्ञान-प्रागभाव एव भ्रमोपादानत्वस्य कल्प्यत्वात् । क्लृप्ताक्लृप्तयोः क्लृप्ते कार्यसम्प्रत्यय इति न्यायाच्च ।

ननु कार्योपादानत्वे कार्यान्वयित्वं प्रयोजकम् । तच्चास्त्यज्ञान इति चेत्किं कार्यकाले सत्वं कार्यान्वयित्वमुत कार्यजनकत्वम् । आद्यं तु तत्त्वज्ञानप्रागभावसाधारणम् । द्वितीयं तु निमित्तसाधारणम् ।। किं चेति ।। मृद्घट इति मृदनुविद्धतया घटप्रतीतिदर्शना-दित्यर्थः । यद्यदुपादानकं तत्तदनुविद्धतया प्रतीयते इति नियमो नास्ति । घटोपादानकस्य रूपस्य तदनुविद्धतया प्रतीत्यभावादिति चेन्न । घटरूपयोरुपादानोपादेयभावासिद्धेः ।

किं च यत् यदुपादानकं तत् तत्समानाधिकरणतया प्रतीयते । अस्ति च रूपस्य श्यामो घट इति घटसामानाधिकरण्येन प्रतीतिः । न च प्रकृतेऽज्ञानं रजतमित्यस्ति प्रतीतिः कदाचिदपि । अतो नाज्ञानोपादानकत्वं प्रपञ्चस्येति ।। यत्त्विति ।। ज्ञानत्वेन ज्ञाननिवर्त्यत्वमित्यर्थः । तेनोत्तरज्ञाननिवर्त्यपूर्वज्ञानादौ नातिव्याप्तिः ।। जीवन्मुक्त्यनु-वृत्तेति ।। न च तत्र नाज्ञानानुवृत्तिः । किन्तु संस्कारादेरिति वाच्यम् । तस्याज्ञाना-न्यत्वोपादानत्वानुपपत्तेः । अन्यथाऽज्ञानसिद्धिरेव न स्यात् । तदात्मकत्वे तु कथं नाव्याप्त्यादि ? किं चोपादानोपादेयभावेऽप्यसङ्कीर्णव्यवहारार्थमंसङ्कीर्णमेव लक्षणं वाच्य-मिति कारणलक्षणस्य कार्येऽव्याप्तिरेवेत्याह ।। यदिति ।। दृष्टान्तोऽप्यसम्प्रतिपन्न इत्याह ।। पृथिवीति ।। अन्यथेति ।। अभावाभावो भावव्याप्य इत्यनङ्गीकार इत्यर्थः । शुक्ति-तत्त्वज्ञानेनाज्ञाननिवृत्तौ सद्यो मोक्षश्च स्यादिति । न चाज्ञानावस्थैव तत्र निराक्रियते नाज्ञानमिति वाच्यम् । दत्तोत्तरत्वात् । दूषितं चैतत् प्रतिकर्मव्यवस्थाभङ्गे इत्यलम् । तस्मान्नाविद्यालक्षणं युक्तमिति ।

न्यायामृतप्रकाशः

वस्तुसिद्धेः लक्षणप्रमाणाधीनत्वेनाविद्यायां तदभावेन तस्या अप्रामाणिकत्वाच्च नाविद्यकं जगदिति वक्तुमनुवदति ।। यच्चोक्तमित्यादिना ।। वस्तुसिद्धेर्लक्षणाधीनत्वादादौ अविद्याया लक्षणद्वयमाह ।। अनादीति ।। शुक्तिरूप्ये उत्तरज्ञाननिवर्त्यपूर्वज्ञाने च ......... (अत्र कानिचित् वाक्यानि लुप्तानि) ............ ननु तत्रापि परोक्षतया ज्ञातेऽपरोक्षज्ञाना-भावविषयकत्वेनापि सावकाशत्वशङ्कापरिहाराय शास्त्रार्थमपूर्वं न जानामीत्युदाहर्तव्यम् । नित्यपरोक्षे चापूर्वादौ अपरोक्षज्ञानप्रसक्तेरेवाभावेन नापरोक्षज्ञानाभावविषयकत्वमस्य प्रत्यक्ष-स्येति ज्ञातव्यम् ।

ननु जानन्नेव न जानामीति ब्रूते परपरीक्षार्थं न त्वज्ञानसद्भावादिति चेत्, तथात्वे शास्त्रार्थाज्ञानेन गुरुशुश्रूषाश्रवणादौ प्रवृत्तिरेव न स्यात् । तदन्यथानुपपत्या तत्र भावरूपा-ज्ञानमेवास्तीत्यङ्गीकार्यमिति सुधोक्तं द्रष्टव्यम् । सौषुप्तिकानुभवः प्रमाणमिति सम्बन्धः । सौषुप्तिकानुभवस्याप्रामाणिकत्वशङ्कापरिहारायैतावन्तमित्याद्युक्तम् । परामर्शः स्मरणम् ।

अनुमानानि चात्र प्रमाणानि भवन्तीत्याह ।। तथा प्रमाणज्ञानमिति ।। अत्र प्रमाण-ज्ञानमित्येवोक्ते वेदान्तजन्यद्वितीयज्ञानमादाय बाधः स्यात् । तस्य प्रथमज्ञानरूपवस्तु-पूर्वकत्वेऽपि तस्य स्वविषयप्रकाशकत्वेन स्वविषयावरणत्वाभावात् । अतो विवादगोचरा-पन्नेति वक्तव्यम् । प्रमाणजन्यं चरमसाक्षात्काररूपं प्रथमज्ञानमित्यर्थः । साध्ये स्वशब्देन पक्षभूतं प्रमाणज्ञानं ग्राह्यम् ।। स्वप्रागभावमित्यादि ।। अत्र स्वविषयावरणेत्याद्येवोक्तौ प्रमाणज्ञानप्रागभावरूपवस्त्वन्तरपूर्वकत्वमादायार्थान्तरता स्यात् । तस्यापि स्वविषयावरण-त्वात् । स्वविषयावरणशब्देन स्वसत्तादशायां कार्यानुत्पादप्रयोजकत्वस्यैव विवक्षितत्वात् । अतः कथं प्रमाणज्ञानप्रागभावस्य स्वपदोक्तप्रमाणज्ञानविषयभूतब्रह्मावरकत्वं अभावस्यावर-कत्वानङ्गीकारादिति कुचोद्यानवकाशः । एवं च प्रमाणज्ञानप्रागभावस्यापि स्वसत्तादशायां कार्यानुत्पादप्रयोजकत्वेन स्वविषयावरणत्वात् आत्मनिष्ठत्वेन प्रमाणज्ञानसमानदेशत्वात् स्वेन निवर्त्यत्वाच्च ।

ननु प्रमाणज्ञानप्रागभावस्य कथं प्रमाणज्ञाननिवर्त्यत्वं, स्वजन्यध्वंसप्रतियोगित्वमेव हि स्वनिवर्त्यत्वं न हीदं प्रमाणज्ञानप्रागभावे युक्तम् । अभावाभावस्य भावत्वेन प्रतियोगिन एव प्रागभावध्वंसरूपत्वेन प्रमाणज्ञानस्यैव प्रमाणज्ञानप्रागभावध्वंसरूपतया स्वस्य स्वजन्यत्वा-भावादिति चेत् । सत्यम् । अभावाभावो भावव्याप्य इति मते प्रागभावनिवृत्तेः प्रतियोग्य-न्यत्वात् प्रमाणज्ञानजन्यध्वंसप्रतियोगित्वरूपं स्वनिवर्त्यत्वं प्रमाणज्ञानप्रागभावेऽस्त्येवातः स्वप्रागभावव्यतिरिक्तेत्युक्तम् । स्वविषयावरणपदत्यागे प्रमाणज्ञानोत्पादकादृष्टरूपवत्वं तत्पूर्वकत्वमादायार्थान्तरता स्यात् । तस्यापि स्वप्रागभावव्यतिरिक्तत्वात् अदृष्टस्य फलनाश्यत्वेन प्रमाणज्ञानोत्पादकादृष्टस्य प्रमाणज्ञाननाश्यत्वात् आत्मगतत्वेन प्रमाणज्ञान-समानदेशत्वाच्च । तत उक्तम् ।। स्वविषयावरणेति ।। तस्य चोत्पत्त्यनुकूलत्वेन स्वसत्ता-दशायां कार्यानुत्पादप्रयोजकत्वरूपस्वविषयावरणत्वाभावान्न तदादायार्थान्तरता । स्वनिवर्त्य-पदत्यागे प्रमाणज्ञानोत्पत्तिप्रतिबन्धकादृष्टरूपवस्त्वन्तरपूर्वकत्वमादायार्थान्तरता स्यात् । तस्यापि स्वप्रागभावव्यतिरिक्तत्वात् स्वोत्पत्तिप्रतिबन्धकत्वादेव स्वसत्तादशायां प्रमाणज्ञान-रूपकार्यानुत्पादप्रयोजकत्वेन स्वविषयावरणत्वात् आत्मनिष्ठत्वेन स्वदेशगतत्वाच्च । अत उक्तम् ।। स्वनिवर्त्येति ।। लोके च प्रतिबन्धकनिवृत्त्यनन्तरमेव कार्योत्पत्तिदर्शनेन कार्येण प्रतिबन्धकनिवृत्त्यभावेन प्रमाणज्ञानोत्पत्तिप्रतिबन्धकादृष्टस्य प्रमाणज्ञाननिवर्त्यत्वाभावान्न तेनार्थान्तरता । स्वदेशगतपदत्यागे विषये ज्ञाततावदज्ञाततापि काचन तिष्ठति । एवं च विषयावरकत्वेन विषयभूतब्रह्मगताज्ञातत्वस्य विषयभूतब्रह्मावरणत्वात् प्रमाणज्ञाननिवर्त्यत्वाच्च तेनार्थान्तरतेत्यत उक्तम् ।। स्वदेशगतेति ।। प्रमाणज्ञानस्य चात्मगतत्वात्तस्य च विषयगतत्वेन समानदेशत्वाभावान्नार्थान्तरता । वस्त्वन्तरपदत्यागे स्वप्रागभावव्यतिरिक्तेत्यादि- विशेषणोपेतमिथ्याज्ञानपूर्वकत्वमादायार्थान्तरता स्यादतो वस्त्वन्तरपदम् । अर्थज्ञानोभय-विधभ्रमाङ्गीकारेण मिथ्याज्ञानस्यावस्तुत्वान्न तेनार्थान्तरतेति साध्ये पदानां कृत्यं द्रष्टव्यम् । हेतौ तु अर्थप्रकाशकत्वादित्येवोक्तौ धारावाहिकद्वितीयादिज्ञाने व्यभिचारः स्यात् तत्र प्रथम-ज्ञानेनैवाज्ञानस्य निवृत्तत्वेन द्वितीयादिज्ञानेन तदनिवृत्तेः स्वनिवर्त्यवस्त्वन्तरपूर्वकत्वाभावात् अतोऽप्रकाशितेत्युक्तम् । अर्थपदं तु स्पष्टीकरणार्थम् । दृष्टान्ते सौराद्यालोकप्रदेशे प्रथमोत्पन्नप्रदीपप्रभायां साध्यसाधनवैकल्यपरिहाराय अन्धकार इत्युक्तम् । अन्धकारोत्पन्न-द्वितीयादिप्रभायां उभयवैकल्यपरिहाराय प्रथमेत्युक्तम् । अत्र पक्षेऽज्ञानमादाय साध्यपर्यवसानं दृष्टान्तेऽन्धकारमादायेति विवेकः ।। चैत्रप्रमेति ।। अत्र पक्षे चैत्रप्रमाप्रागभावाति-रिक्तानाद्यज्ञानमादाय साध्यपर्यवसानं दृष्टान्ते चैत्रप्रमाप्रागभावातिरिक्तमैत्रीयप्रमाप्रागभाव-मादायेति द्रष्टव्यम् । साध्ये चैत्रप्रमेति विशेषणमप्रसिद्धिवारणाय । दृष्टान्ते मैत्रप्रमायां अभावव्यतिरिक्तानादिनिवर्तकत्वस्य प्रतिवादिनोऽसंमतेः । प्रमाप्रागभावातिरिक्तेति विशेषणं प्रागभावमादाय सिद्धसाधनतावारणाय । पूर्वज्ञानं मिथ्यात्वज्ञानमादाय सिद्धसाधनता-वारणायानादीत्युक्तम् ।

।। विगीतो विभ्रम इति ।। प्रपञ्चभ्रम इत्यर्थः ।। एतज्जनकेति ।। पक्षीभूतभ्रमजनकं यदबाध्यं तदतिरिक्तोपादानक इत्यर्थः । एतज्जनकाबाध्यातिरिक्तत्वं एतज्जनकाबाध्यभिन्नत्वं इदं च विशिष्टस्य एतज्जनकाबाध्यत्वस्याभावरूपम् । एवं च दृष्टान्तीभूतो यो रूप्य-भ्रमस्तदुपादाने शुक्त्यज्ञानेऽबाध्यत्वरूपविशेष्यसत्त्वेऽपि एतज्जनकत्वरूपविशेषणाभावेन पक्षीभूतभ्रमजनकेऽज्ञाने एतज्जनकत्वरूपविशेषणसत्त्वेऽपि बाध्यत्वाभावरूपविशेष्याभावेन विशिष्टाभावोऽनुगतः । दृष्टान्त इव न विशेषणाभावमादाय विशिष्टाभावसिद्धिः । पक्षीभूत-भ्रमस्य यदुपादानं तस्य पक्षीभूतभ्रमजनकतया तत्रैतज्जनकातिरिक्तत्वस्य बाधितत्वादिति ध्येयम् । पक्षीभूतभ्रमेऽबाध्यातिरिक्तं बाध्यं यदज्ञानं तदुपादानकत्वमादाय साध्यसिद्धिः । दृष्टान्तीभूतभ्रमे तु पक्षीभूतभ्रमजनकातिरिक्तशुक्त्यज्ञानोपादानकत्वमादायेति विवेकः । बाध्योपादानक इत्येवोक्ते दृष्टान्तेऽप्रसिद्धिः प्रतिवादिनस्तदुपादाने बाध्यत्वासंमतेः अतो नञ्द्वयगर्भं साध्यं तच्च विशेषणाभावेनोक्तरीत्यास्तीति ज्ञातव्यम् । भावरूपाविद्यासद्भावे श्रुतिं चाह ।। तथा तम इति ।। तमोनीहारादिशब्दानां तन्मतेऽविद्यावाचकत्वादिति भावः ।

ननु तदुपादानं मिथ्याभूतं कुतोऽङ्गीकरणीयं सत्यमेव किं न स्यादित्यत उक्तम् ।। मिथ्याभूतस्येति ।। भ्रमस्य तावन्मिथ्यात्वं सिद्धं तदुपादानस्याज्ञानस्य सत्यत्वे सत्यो-पादानकत्वाद्भ्रमस्यापि सत्यत्वापत्तेरतो मिथ्याभूतभ्रमरूपकार्यानुगुणं मिथ्याभूतमेवाङ्गी-कार्यमिति भावः । एतादृशाज्ञानस्यानादित्वं कुतोऽङ्गीकार्यमित्यत उक्तम् ।। अनवस्थेति ।। तस्य सादित्वे पुनरज्ञानान्तरपरम्परयाऽनवस्था स्यादित्यर्थः । अहमज्ञ इति प्रत्यक्षं ज्ञाना-भावविषयकं किं न स्यादित्याशङ्क्य निषेधति ।। न चेति ।। न जानामीति प्रत्यक्षं अहमज्ञ इति प्रत्यक्षम् । ज्ञानाभावविषयकं कुतो न भवतीत्यत आह ।। धर्मिणीति ।।

इदं वाक्यमित्थं सम्प्रदायपरिशुद्ध्या कक्षाक्रमेण बुद्ध्या विविच्य योज्यम् । तथाहि । न जानामीत्यस्य मयि ब्रह्मज्ञानं नास्तीत्यर्थः । तथा चास्य न ज्ञानाभावविषयकत्वं युज्यते । अत्र धर्मिभूतात्मज्ञानस्यैव सत्त्वादित्यादौ वाच्यम् । एतदुपरि शङ्का किमनेन धर्मिज्ञानो-पपादनेनाजागलस्तनायितेन । एतावताऽज्ञ इति प्रत्यक्षस्य धर्मिज्ञानाभावविषयकत्वमुच्यते येनेदं दूषणं स्यात् किं तु ब्रह्मविषयकज्ञानाभावविषयकत्वमिति । अस्तु तर्हि धर्मिणो ज्ञातत्वाज्ञातत्वाभ्यां ज्ञानाभावज्ञानायोगः । किन्तु यदभावविषयकत्वं त्वयोच्यते तज्ज्ञान-भावाभावाभ्यामेवास्य प्रत्यक्षस्य न तदभावविषयकत्वमित्याशयेनोक्तम् ।। प्रतियोगिनि चेति ।। न जानामीति प्रत्यक्षस्य ब्रह्मज्ञानाभावविषयकत्वं न वक्तुं शक्यते । तथाहि । अत्र प्रतियोगिभूतस्य ब्रह्मज्ञानस्य ज्ञानमस्ति न वा । नेति पक्षे प्रतियोगिज्ञानाभावादेव ज्ञानाभावज्ञानायोगः । आद्ये ब्रह्मज्ञानस्य ज्ञातत्वेन तस्य विषयनिरूप्यत्वेन विषयभूतस्य ब्रह्मणो ज्ञातत्वाद्ब्रह्मविषयकज्ञानाभावायोगेन प्रत्यक्षस्य तद्विषयकत्वं न सम्भवतीति भावरूपाज्ञानविषयकत्वमेव वाच्यमिति भावः । तत्र च नोक्तदोषावकाशः । तस्य भाव-त्वादेव प्रतियोगिज्ञानापेक्षाया अभावादिति ज्ञातव्यम् ।। हेत्वभावेनेति ।। अभावज्ञान-हेतुभूतधर्मिप्रतियोगिज्ञानाभावेनेत्यर्थः । ननु ज्ञानाभावज्ञाने प्रतियोगिनो ब्रह्मज्ञानस्य ज्ञानमस्त्येव । न च ब्रह्मज्ञानस्य विषयनिरूप्यत्वेन ब्रह्मणोऽपि ज्ञाततया तज्ज्ञाना-भावज्ञानायोग इति वाच्यम् । विषयस्य ब्रह्मणोऽपि सामान्याकारेण ज्ञानाङ्गीकारादित्याशङ्क्य निषेधति ।। न चेति ।। अत्र सर्वत्र सामान्यविशेषशब्दौ सामान्यविशेषाकारपरौ ।

अयमर्थः । ब्रह्मणः सामान्यतो ज्ञातत्वेऽपि किमायातं प्रकृते । न ह्यहमज्ञ इति प्रत्यक्षस्य सामान्येन ब्रह्मज्ञानाभावविषयकत्वं युक्तम् । ब्रह्मज्ञानरूपप्रतियोगिनिरूपकस्य सामान्याकाररूपविषयस्यापि ज्ञातत्वात् । ननु सामान्यतो ज्ञाते तस्मिन्विशेषाकारज्ञानं नास्तीति विशेषज्ञानाभावविषयकत्वमेव प्रत्यक्षस्योच्यते तत्राभावज्ञानविरोधिनो विशेषज्ञानविषयीभूतविशेषाकारस्याज्ञातत्वाद्विशेषज्ञानाभावो युक्त एव । यच्चास्ति सामान्याकारज्ञानं तत् न विशेषाकारज्ञानाभावविरोधीति चेत् । सत्यम् । सामान्यतो विषयस्य ज्ञातत्वे तस्य तज्ज्ञानाभावविरोधित्वाद्विशेषज्ञानाभावः सम्भवत्येव तथापि तत्रैवायं विकल्पः प्रसरति । तथाहि । प्रतियोगिभूतं विशेषाकारज्ञानं ज्ञातं न वा । नेति पक्षे विशेषज्ञानाभावं प्रति प्रतियोगितया निरूपकस्य विशेषज्ञानस्य ज्ञानाभावेन तन्निरूपित-विशेषज्ञानाभावज्ञानायोगात् । आद्ये प्रतियोगिभूतविशेषाकारज्ञाने ज्ञाते तस्य विषय-निरूप्यत्वेन विषयस्य विशेषाकारस्यापि ज्ञातत्वाद्विशेषाकारज्ञानाभावज्ञानं न युक्तमिति न प्रत्यक्षस्य तद्विषयकत्वमपि तु भावरूपाज्ञानविषयकत्वमेवेति भावः ।

एवं पूर्वपक्षे प्राप्ते सिद्धान्ताभिधानं प्रतिजानीते ।। तत्र ब्रूम इति ।। आद्यलक्षण-मव्याप्त्यसम्भवातिव्याप्तिभिर्दूषयितुं आदावव्याप्तिं तावदाह ।। आद्य इति ।। सादीति ।। शुक्त्यादेः सादित्वात्तदवच्छिन्नचैतन्यावरकाज्ञानमपि साद्येवेत्यनादित्वाभावादव्याप्तिरित्यर्थः । न च शुक्त्यवच्छिन्नचैतन्यावरकाज्ञानानामप्यनादित्वमेवेति वाच्यम् । तथात्वे शुक्त्यादेः सादित्वेन तदुत्पत्त्यपेक्षया पूर्वं निर्विषयावरणापत्तेः । न च तदा शुद्धचैतन्यमात्रा-वरकत्वमेवेति वाच्यम् । तथात्वे शुद्धचैतन्यावरकाज्ञानस्य मूलाज्ञानत्वापत्त्या रूप्यस्य तदुपादेयत्वे शुक्तिज्ञानेन निवृत्त्यापत्त्या मूलाज्ञानस्य नष्टत्वात् सद्यो मोक्षापत्तिरिति भावः ।। उक्तत्वादिति ।। प्रतिकर्मव्यवस्थाभङ्ग इति शेषः । अनादित्वविशेषणस्याव्याप्तिमुक्त्वा भावत्वरूपविशेषणस्याप्यव्याप्तिमाह ।। आरोपितेति ।। अज्ञानमभावोपादानमेव न भवति अभावस्य तन्मते निरुपादानत्वादित्यत उक्तमारोपितेति । व्यावहारिकस्य कथञ्चित्तथात्वेऽपि यदा घटवति भूतले घटाभावारोपो भवति तदाऽरोप्यमात्रस्याज्ञानोपादानकत्वमङ्गीकार्यं, अन्यथा द्वितीयलक्षणस्यासम्भवप्रसङ्गात् । अतस्तस्मिन्नारोपिताभावोपादानाज्ञाने भावत्वा-भावादव्याप्तिः स्यादित्यर्थः ।

नन्वारोपिताभावोऽपि भावरूपाज्ञानोपादानक एवेति नाव्याप्तिरिति चेत्तर्हि अतिप्रसङ्ग इत्याह ।। अभावस्येति ।। ननु यद्यज्ञानोपादानकत्वमभावस्य स्यात् तदैव तदुम्पादान-भूतेऽज्ञानेऽव्याप्तिः स्यात् । न च तदङ्गीक्रियत इति चेत्तर्हि घटवति भूतले आरोपितस्य घटाभावस्य घटज्ञानेन निवृत्तिर्दृश्यते सा न स्यात् यतो ज्ञानमज्ञानस्य निवर्तकमित्याह ।। ज्ञानान्निवृत्तिर्न स्यादिति ।। न चेष्टापत्तिरिति वाच्यम् । तथात्वे ब्रह्मवत्सत्त्वापत्तेरिति द्रष्टव्यम् ।

अनादित्वभावत्वयोर्विशेषणयोरव्याप्तिमुक्त्वा ज्ञाननिवर्त्यत्वस्याप्यव्याप्तिमाह ।। शुद्धमिति ।। अस्मन्मते पुङ्गतमेव तमः । परमते विषयावरकतया विषयगतम् । एवं च ब्रह्मावरकाज्ञानस्य ज्ञाननिवर्त्यत्वं नास्ति कुतः यतो ब्रह्मज्ञाननिवर्त्यत्वमेव तस्य वक्तव्यं अब्रह्मज्ञानात्तन्निवृत्त्यनुपपत्तेः । तथा च ब्रह्मज्ञानमेव तन्मते नास्ति शुद्धब्रह्मणो वृत्तिव्याप्यत्वाभावात् । अतो ब्रह्मावरकाज्ञाने ज्ञाननिवर्त्यत्वाभावादव्याप्तिरित्यर्थः ।। जीवन्मुक्तीति ।। जीवन्मुक्त्यनुवृत्ताज्ञानस्य ज्ञाननिवर्त्यत्वाङ्गीकारे स्वकार्यारब्धकर्मादिभिः सह पूर्वेण चरमसाक्षात्कारेण निवृत्त्यापत्त्या भिक्षाटनादौ प्रवृत्तिर्न स्यात् । अतो ज्ञान-निवर्त्यत्वाभावादव्याप्तिरित्यर्थः । जलस्येत्युक्त्या भ्रमोपाधिर्दर्शितः । शुद्धं ब्रह्म वृत्तिव्याप्यं नेति मते ब्रह्माज्ञानस्य ब्रह्मज्ञाननिवर्त्यत्वाभावेऽपि ब्रह्मभिन्नज्ञानेन निवृत्तिरस्त्वित्यत आह ।। न हीति ।। तथा च ब्रह्मज्ञानेनैव तन्निवृत्तिर्वक्तव्या तच्च त्वन्मते न सम्भवतीत्यर्थः । जीवन्मुक्त्यनुवृत्ताज्ञानेऽव्याप्तिमुपपादयति ।। जीवन्मुक्तीति ।। जीवन्मुक्त्यनुवृत्ताज्ञानस्य ज्ञाननिवर्त्यत्वाङ्गीकारे स्वकार्यारब्धकर्मादिभिः सह पूर्वेण चरमसाक्षात्कारेण निवृत्त्यापत्त्या भिक्षाटनादौ प्रवृत्तिर्न स्यात् । अतोऽज्ञाननिवर्त्यत्वाभावादव्याप्तिरित्यर्थः ।। सोपाधि-केति ।। वृक्षाधोग्रत्वादिसोपाधिकभ्रमाज्ञानेष्वव्याप्तिः । तत्र ज्ञाननिवर्त्यत्वाभावात् । अधिष्ठानतत्त्वसाक्षात्कारेणैव हि तन्निवृत्तिः वक्तव्या । न चासौ सम्भवति । अधिष्ठानभूतो यो वृक्षः तस्य यदूर्ध्वाग्रादितत्त्वं तत्साक्षात्कारे सत्यपि अज्ञानस्यानिवृत्तत्वात् । तन्निवृत्तौ च सोपाधिकभ्रमानुवृत्तिरेव न स्यादतः तत्राव्याप्तिरित्यर्थः । जलस्येत्युक्त्या भ्रमोपाधिः दर्शितः । शुद्धं ब्रह्म वृत्तिव्याप्यं नेति मते ब्रह्माज्ञानस्य ब्रह्मज्ञाननिवर्त्यत्वाभावेऽपि ब्रह्मभिन्नज्ञानेन निवृत्तिरस्त्वित्यत आह ।। न हीति ।। तथा च ब्रह्मज्ञानेनैव तन्निवृत्तिर्वक्तव्या । तच्च त्वन्मते न सम्भवतीत्यर्थः ।

जीवन्मुक्त्यनुवृत्ताज्ञाने व्याप्तिमुपपादयति ।। जीवन्मुक्तीति ।। पूर्वेणेति ।। नोत्तरेणेत्यर्थः ।। स्यादिति ।। तथा च भिक्षाटनादौ प्रवृत्तिर्न स्यादिति भावः । ननु न सोपाधिकभ्रमोपादानाज्ञानेऽव्याप्तिः । तत्त्वज्ञाननिवर्त्यत्वं हि लक्षणं तच्च सोपाधिक-भ्रमाज्ञानस्याप्यस्ति । वृक्षाधोग्रत्वादेर्जलाद्युपाधिनिवृत्तिसचिवोर्ध्वाग्रत्वाद्यधिष्ठानतत्वज्ञान-निवर्त्यत्वादित्याशङ्क्य निषेधति ।। न चेति ।। तस्येति ।। यथा तत्त्वज्ञानस्य स्वप्रागभावनिवर्तनेऽन्यनिरपेक्षत्वं एवमज्ञाननिरसनेऽप्यन्यनिरपेक्षस्यैव कारणत्वं वाच्यमित्यर्थः । अन्यनिरपेक्षस्यैवाज्ञाननिवर्तकत्वमुपपादयति ।। न हीति ।। यदि ज्ञानस्याज्ञान-निरसनेऽन्यापेक्षा तर्हि कदाचिद्वस्तुनि सुखादौ ज्ञातैकसति सहकरिविलम्बेन न जानामीति धीः स्यात् न ह्येवमस्त्यतो ज्ञानस्याज्ञाननिवर्तनेऽन्यापेक्षा नास्तीत्यर्थः । एवं सति प्रकृते ज्ञाननिवर्त्यत्वमित्यत्रान्यनिरपेक्षतत्वज्ञानमात्रनिवर्त्यत्वमेव लक्षणतयाऽभिप्रेतमित्यवश्यं वाच्यम् । सोपाधिकभ्रमोपादानाज्ञाने चोपाधिनिवृत्तिसचिवतत्वज्ञाननिवर्त्ये तदभावादव्याप्तिर्वज्रलेपायितेति भावः । अव्याप्तिमुक्त्वाऽतिव्याप्तिमप्याह ।। चैतन्येति ।। चैतन्यातिरिक्तस्य सर्वस्यापि ज्ञाननिवर्त्यत्वाङ्गीकाराच्चैतन्याविद्यासम्बन्धस्यापि जगदन्तःपातित्वाल्लक्षणस्य तत्रातिव्याप्तिरित्यर्थः ।

ननु तत्र नातिव्याप्तिः साक्षाज्ज्ञाननिवर्त्यत्वस्य लक्षणतयाऽभिप्रेतत्वात् चैतन्याविद्या-सम्बन्धस्य चाविद्यारूपसम्बन्धिनिवृत्तिद्वारैव ज्ञानेन निवर्तमानत्वादित्यत आह ।। साक्षादिति ।। अनादिपदेति ।। शुक्तिरूप्येऽतिव्याप्तिवारणाय ह्यनादिपदं साक्षाज्ज्ञान-निवर्त्यत्वाभिप्राये च शुक्तिरूप्यादेरप्यज्ञाननिवृत्तिद्वारा निवर्तमानत्वेन साक्षाज्ज्ञाननिवर्त्यत्वा-भावात्तेनैवातिव्याप्तिपरिहारे सति अनादीति विशेषणं व्यर्थमित्यर्थः ।। असम्भवश्चेति ।। क्रमेण विशेषणानामसम्भवमुपपादयितुमादावनादित्वविशेषणस्यासम्भवमाह ।। कल्पित-त्वेनेति ।। कथमज्ञानस्य दोषजन्यधीमात्रशरीरत्वमित्यत उक्तम् ।। कल्पितत्वेनेति ।। प्रातिभासिकत्वेनेत्यर्थः ।। ज्ञानेति ।। तथा च अज्ञानं नानादि ज्ञानविलक्षणत्वे सत्यभाव-विलक्षणत्वाद्रूप्यवदित्यनुमानमुक्तं भवति । ब्रह्मज्ञानप्रागभावयोर्व्यभिचारवारणाय विशेषण-विशेष्यभागौ । ननु चैतन्याविद्यासम्बन्धे ज्ञाननिवर्त्यत्वे सति अभावविलक्षणत्वमस्ति अनादित्वमेवास्तीति व्यभिचार इत्यत आह ।। अज्ञानेति ।। अत्राप्यनेनैव हेतुनाऽनादित्वाभावोऽनुमीयतेऽतः पक्षतुल्यत्वान्न व्यभिचार इति । न हि पक्षे पक्षतुल्ये वा व्यभिचार इति पदार्थविदो मन्यन्त इति भावः ।। अज्ञानत्वेति ।। अनादित्वाभाववति शुक्तिरूप्ये सत्त्वात्साध्यव्यापकः हेतुमति पक्षे चाविद्यमानत्वात्साधनाव्यापकश्चेति भावः ।। पक्षेतरत्वादिति ।। अज्ञानत्वाधिकरणत्वमेवाज्ञानत्वं तदनधिकरणत्वं नामाज्ञानेतरत्व-मेवेत्यर्थ इत्याहुः । वस्तुतस्तु अनधिकरणत्वस्य केवलान्वयितया साधनव्यापकत्वादज्ञानेति पदस्य पक्षमात्रव्यावर्तकत्वादुपाधेः पक्षमात्रव्यावर्तकविशेषणवत्त्वेन पक्षेतरत्वमित्यर्थः । पक्षेतरत्वं चानुमानमात्रोच्छेदकत्वान्नोपाधिरित्याशयः ।। अवच्छिन्नेति ।। शुक्त्याद्य-वच्छिन्नाज्ञान इत्यर्थः । अनादित्वाभावे सत्यपि अज्ञानत्वाधिकरणत्वस्यैव सत्वादिति भावः ।। व्यतिरेकेति ।। साध्याभावाविनाभाव्यभावप्रतियोगिन एवोपाधित्वेन यत्राज्ञानत्वाधि-करणत्वं तत्रानादित्वमित्युपाध्यभावपुरस्सराव्याप्तिः सादिशुक्त्याद्यवच्छिन्नचैतन्यावरकाज्ञाने व्यभिचारादयुक्तेत्यर्थः । भावत्वविशेषणस्याप्यसम्भवमाह ।। त्वन्मत इति ।। अनिर्वाच्य-वादिनस्तव मत इत्यर्थः।

ननु भावत्वस्य नासम्भवः । लक्षणे भावशब्देनाभाववैलक्षण्यस्यैव विवक्षितत्वादिति चेत्तत्राह ।। भावेति ।। अज्ञानं अभावविलक्षणं न भवति । अभाव एवेति यावत् । भावविलक्षणत्वात्प्रागभाववदित्यनुमाने व्याप्त्युपपादनायोक्तम् ।। भावविलक्षण इति ।। परस्परविरुद्धयोरिति न्यायादिति भावः । तथा च भावशब्देनाभाववैलक्षण्यविवक्षायामप्य-सम्भव एवेति भावः । ज्ञाननिवर्त्यत्वविशेषणस्याप्यसम्भवमाह ।। अपि चेति ।। तथा चाज्ञानं न निवर्तते अनादित्वे सत्यभावविलक्षणत्वादात्मवदित्यनुमानमुक्तं भवति । घटतत्प्रागभावयोर्व्यभिचारवारणाय विशेषणविशेष्यभागौ ।। भावत्वेति ।। अनिवृत्ते आत्मनि तयोः सत्त्वाद्धेतुमति पक्षे चाभावादिति भावः ।। अत्यन्ताभाव इति ।। जगदत्यन्ताभाव इत्यर्थः । अत्यन्ताभावस्य नित्यत्वेनानिवर्त्यत्वादसतश्च ज्ञानेनानिवर्त्यत्वा-त्तयोश्च भावत्वस्यात्मत्वस्य चाभावादित्यर्थः । त्वन्मते भावत्वोपाधेरात्मनि निर्धर्मके साध्याव्याप्तिश्चेत्याह ।। त्वन्मत इति ।। अज्ञानं न निवर्तते अनादित्वे सत्यभावविलक्षण-त्वादित्यनुमाने विरोध्यसन्निपात उपाधिः साध्यव्यापकत्वात्पक्षे ज्ञानस्यैव विरोधिनः सत्त्वेन साधनाव्यापकत्वाच्च, तथा च ज्ञाननिवर्त्यत्वस्य नासम्भव इति विवरणोक्तं दूषयितुमनुवदति ।। यदत्रोक्तं विवरण इति ।। अनादित्वमविनाशेऽनिवर्त्यत्वे निमित्तं प्रयोजकं न भवति । किंनाम विरोध्यसन्निपात एव विनाशकसामग््रयसन्निधानमेव प्रयोजकमित्यर्थः । यथा विनाशे सादित्वं न प्रयोजकं किं नाम विरोधिसन्निपात एव विनाशकसामग्रीसान्निध्यमेवेति दृष्टान्तार्थमिति केचित् । वस्तुतस्तु परेणोपाधिमुक्त्वा प्रतिपक्षोन्नयनं कार्यं अज्ञानं निवर्तते विरोधिसन्निपातवत्त्वादिति । तत्र सादित्वमुपाधिरिति प्रतिपक्षोन्नयनमयुक्तमिति शङ्कायां तत्रेदमुच्यते । विनाशे न सादित्वं प्रयोजकं किन्तु विरोधिसन्निपात एवेति । तथा चोपाधिना प्रतिपक्षोन्नयनं युक्तमिति भावः । अनादिभावः अनादित्वे सति अभावविलक्षणः ।। सामान्यव्याप्तेरिति ।। समस्तानादिसङ्ग्राहकत्वादिति भावः । अज्ञानं अनाद्यज्ञानम्, अज्ञानं ज्ञाननिवर्त्यं अनाद्यज्ञानत्वादिति प्रतिपक्ष उक्तो भवति ।। विशेषव्याप्तिरिति ।। अनादिभावविशेषाज्ञाननिष्ठत्वादिति भावः । अस्मदनुमानस्य प्रतिकूलतर्कपराहतिं प्रति-पक्षान्तरं चाह ।। अपि चेति ।। अज्ञानं निवर्तते भावविलक्षणत्वात्प्रागभाववदिति प्रतिपक्षानुमानं द्रष्टव्यम् ।। अनुमानादिति ।। तथा चाज्ञानं विरोधिसन्निपातशून्यं अनादित्वे सति भावत्वादित्यनुमानेनोपाधेरपि पक्षे साधनात्साधनव्यापकोऽयमुपाधि-स्ततश्चनुमानस्य निर्दोषत्वेन ज्ञाननिवर्त्यत्वाभावस्य सिद्ध्याऽसम्भवः सुस्थ इति भावः । किं चेत्यादिनोक्तं दूषयति ।। य इति ।। यो धूमवान् सोऽग्निमानिति सामान्यव्याप्तेः धूमवद्विशेषपर्वतनिष्ठा यः पर्वतः स निरग्निक इति विशेषव्याप्तिर्बलवती प्रसज्येत । तथा च पर्वतोऽग्निमानित्यस्यापि पर्वतो निरग्निकः पर्वतत्वादिति प्रतिपक्षसम्भवेनातिप्रसङ्ग इति भावः ।। दृष्टान्ताभावेनेति ।। अनाद्यज्ञानस्यैव पक्षत्वेनान्वयदृष्टान्ताभावादित्यर्थः । व्यतिरेक-व्याप्तिश्च वक्रत्वादुपेक्षितेति हृदयम् ।

।। अज्ञानशब्देनेति ।। अयमर्थः । अत्र ज्ञाननिवर्त्यतावच्छेदकं नानाद्यज्ञानत्वम् । ज्ञाननिवर्त्येषु साद्यज्ञानेषु अभावेन न्यूनवृत्तित्वात् अतोऽनादित्वविशेषणं परित्यज्याज्ञानत्व-मेव निवर्त्यतावच्छेदकमिति वक्तव्यम् । नेदमपि सम्भवति । ज्ञाननिवर्त्यत्वस्य भ्रान्तावपि भावेन न्यूनवृत्तित्वात् । अतोऽनाद्यज्ञानसाद्यज्ञानभ्रान्तिसाधारणं ज्ञाननिवर्त्यतावच्छेदकं ज्ञानविरोधित्वमात्रं विवक्षणीयम् । एवं चाज्ञानं ज्ञाननिवर्त्यं ज्ञानविरोधित्वादित्यनुमानं वाच्यम् । तथा च यज्ज्ञानविरोधि तज्ज्ञाननिवर्त्यमित्येवं व्याप्तिर्वाच्या । तथा चानादि-साद्यज्ञानभ्रान्तिसाधारणत्वान्नेयमपि विशेषव्याप्तिः । न च ज्ञानविरोधिविशेषभूतनाद्यज्ञाननिष्ठा व्याप्तिरिति वाच्यम् । अन्वये दृष्टान्ताभावादिति भावः । व्यतिरेकव्याप्तेरेव विशेषव्याप्ति-त्वोपपत्तेर्नेदं दूषणं समीचीनमिति । अपि चेत्यादिनोक्तं दूषयति ।। भावेति ।। निवृत्तौ आपादितायामिति शेषः । तथा चात्यन्ताभावे ध्वंसे च व्यभिचारः । तयोश्च निवर्त्यत्वे प्रतियोग्युन्मज्जनापत्तिरिति ध्येयम् । तथा चाज्ञानं न ज्ञाननिवर्त्यं अनादित्वे सत्यभाव-विलक्षणत्वादात्मवदित्यनुमानं सुस्थमिति भावः ।

ननु नैवमनुमातुं शक्यं ‘‘विश्वमायानिवृत्तिः’’ ‘‘तरत्यविद्यामि’’त्यादिज्ञाननिवर्त्यत्व-प्रतिपादकश्रुतिबाधापत्तेरिति चेन्न । स्यादिदं दूषणं यदि साधनानुमानमस्माकमभिप्रेतं स्यात् । न चैवं किं नाम अनादित्वे सत्यभावविलक्षणत्वादात्मवदज्ञानस्यानिवर्त्यत्वं स्यात् ततश्चासम्भव इत्यापाद्यमानत्वात् तत्र प्रमाणबाधादेरदूषणत्वादित्याशयेनाह ।। अविद्येति ।। अत्रादौ मयैवापाद्यत इत्येतद्योजनीयम् । मया आपाद्यत एव न साध्यते येन प्रमाणबाधः स्यादिति तदर्थः । तदुपर्येवमाशङ्का । ननु भवत्तर्कस्य प्रतितर्कपराहतिः । तथाहि । अनादित्वे सत्यभावविलक्षणत्वादज्ञानं ज्ञाननिवर्त्यं न स्याद्यदि तर्ह्यविद्यानिवृत्तिरूपो मोक्षो न स्यात् । अस्ति चासौ प्रमाणप्रमितोऽतो ज्ञाननिवर्त्यत्वमङ्गीकार्यम् । ततश्च नासम्भव इत्याशङ्कायामविद्येत्यादिकं समग्रं वाक्यं योजनीयम् । तथाहि । नैतदेवं मयापाद्यते अपि तु ममायमाशयः । अज्ञानस्य भावविलक्षणत्वात्प्रागभाववन्निवृत्तिर्यदि स्यात् तर्ह्यनादित्वे सत्यभावविलक्षणत्वादनिवृत्तिरपि स्यादित्यापादिते अत्रेष्टापत्तिस्त्वया नाशङ्क्या । तथात्वेऽ-विद्यानिवृत्तिरूपो मोक्षो न स्यादिति मयैवापाद्यमानत्वादिति सम्प्रदायविदः । प्रकारान्तरेण ज्ञाननिवर्त्यत्वस्यासम्भवमाह ।। प्रतीतीति ।। अज्ञानस्य त्वन्मते प्रातिभासिकत्वेन प्रतीतिमात्रशरीरतया यावत्प्रतीतिसत्त्वमनुवृत्तिनियमात् प्रतीतिनिवृत्तिमन्तरेण निवर्तकाभावा-दज्ञानप्रतीतेश्च साक्षिचैतन्यरूपत्वेन तस्य च नित्यत्वेन निवृत्त्यभावान्नाज्ञाननिवर्त्यत्व-मज्ञानस्येति भावः ।

नन्वविद्यावृत्तिप्रतिबिम्बितसाक्षिचैतन्यस्यैवाज्ञानप्रतीतिरूपत्वात्तस्य च विशिष्टजन्यत्वेन नाशादज्ञाननाशो युक्त एवेति न ज्ञाननिवर्त्यत्वस्यासम्भव इत्यस्वरसात्प्रकारान्तरेण असम्भवमाह ।। अज्ञानस्येति ।।  अत्यन्ताभावेति ।। तादृशमिथ्यात्ववतो रूप्यादे-र्ज्ञाननिवर्त्यत्वाननुभवात् । न हि शुक्तिज्ञानेन रूप्यं नष्टमिति धीरस्तीति ज्ञाननिवर्त्यत्वभङ्गे उक्तत्वेनाज्ञानस्यापि तादृशमिथ्यात्ववतो ज्ञानेन निवृत्तिरयुक्तेति सुस्थोऽसम्भव इति भावः ।

एवमाद्यं लक्षणमव्याप्त्यादिना दूषयित्वा भ्रमोपादानत्वरूपं द्वितीयलक्षणमप्यव्याप्त्यादिना दूषयति ।। द्वितीयलक्षणेऽपीति ।। अज्ञानमेकमेवेति मते तस्य चरमसाक्षात्कारनिवर्त्यत्वेन शुक्त्यादिप्रमानिवर्त्यत्वं नास्ति तथात्वेऽज्ञानस्यैकत्वेन तन्निवृत्तौ सद्यो मोक्ष एव स्यादत उक्तम् ।। यावन्तीति ।। भ्रमनिवर्त्याज्ञानाभावात् प्रमानिवर्त्येत्युक्तम् । नन्विदं रजतमिति भ्रमानन्तरं जायमाननेदं रजतमिति प्रमानिवर्त्यं यदज्ञानं शुक्त्यज्ञानं तत्र भ्रमोपादानत्व-मस्त्येवेति नाव्याप्तिरित्यत उक्तम् ।। अभ्रमपूर्वकेति ।। भ्रमानन्तरं जायमाना प्रमा न भवतीत्यर्थः । तथा चादावेवेयं शुक्तिरिति जायमाना या प्रमा तया शुक्त्यज्ञानं निवर्तते तस्मिन्नज्ञाने भ्रमस्यैवाभावेन भ्रमोपादानत्वाभावादव्याप्तिः स्यादित्यर्थः । न च भ्रमो-पादानत्वयोग्यत्वं विवक्षितं अभ्रमपूर्वकप्रमानिवर्त्याज्ञाने सहकारिवैकल्यप्रयुक्तकार्या-नुत्पादकत्वरूपं योग्यत्वमस्त्येवेति वाच्यम् । योग्यता हि किञ्चिदवच्छेदेन ज्ञातव्या । प्रकृते च योग्यतावच्छेदकीभूतो धर्मो न निरूपयितुं शक्यः । न तावदज्ञानत्वं तस्येदानीं निरुच्यमानत्वात् । न चाद्यं लक्षणमेव योग्यतावच्छेदकमिति वाच्यम् । तस्य दूषितत्वादिति द्रष्टव्यम् । अत एवास्वरसादाह ।। अभावारोपेति ।। घटवति भूतले आरोपितो घटाभावो घटप्रमया घटाज्ञाननिवृत्तिद्वारा निवर्तते तस्मिन्नज्ञाने भ्रमोपादानत्वाभावादव्याप्तिः स्यादित्यर्थः । प्रमापदाभावे आरोपधारायां द्वितीयारोपेण पूर्वारोपो निवर्तते । तत्र प्रथमारोपनिवर्तकद्वितीयारोपनिवर्त्याज्ञानाभावात्तत्राव्याप्तिकथनमयुक्तं स्यादत उक्तम् ।। प्रमानिवर्त्येति ।। ननु तदप्यज्ञानं आरोपिताभावोपादानं भवत्विति चेत्तत्राह ।। अभावस्येति ।। सोपादानकत्वेऽपीति ।। सोपादानकत्वाङ्गीकारेऽपीत्यर्थः ।। भाव-रूपेति ।। तथात्वे अभावस्यापि भावोपादानकत्वाद्भावत्वमेव स्यात् । असत्यस्यापि सत्योपादानकत्वप्रसङ्गादिति भावः ।

एवमव्याप्तिमुपपाद्यासम्भवातिव्याप्ती मतभेदेनोपपादयति ।। किं चेति ।। अत्र मतत्रयमस्ति । मायैव सर्वजगदुपादानं ब्रह्म तु तदधिष्ठानमात्रमित्येकं मतम् । मायावच्छिन्नं ब्रह्मैव सर्वजगदुपादानं न केवलं माया नापि केवलं ब्रह्मेत्यपरं मतम् । रज्ज्वाः सूत्रद्वयमिव मायाब्रह्मणी द्वे अपि प्रत्येकं जगदुपादाने इत्यन्यन्मतम् । तत्राद्ये मते नासम्भवः । मायाशब्दवाच्याज्ञानस्यैव सर्वजगदुपादानत्वाङ्गीकारात् भ्रमस्य च जगदन्तःपातित्वेन मायायां भ्रमोपादानत्वसम्भवात् । अतो द्वितीयमतेऽसम्भवः स्यात् । मायावच्छिन्नब्रह्मण एव सर्वजगदुपादानत्वेन मायायां भ्रमोपादानत्वाभावात् । विशिष्टस्य यद्भवतीति न्यायस्य च निरासात् ब्रह्मण्यतिव्याप्तिश्च द्रष्टव्या । तृतीये मतेऽसम्भवाभावेऽपि ब्रह्मण्यतिव्याप्तिः स्पष्टैवेत्यर्थः ।। भावेति ।। तथा च भ्रमो निरुपादानकः भावविलक्षणत्वादभाववदित्यनुमानं द्रष्टव्यम् । तथा च भ्रमस्य निरुपादानत्वादज्ञाने भ्रमोपादनत्वाभावादसम्भव इत्यर्थः ।

ननु भ्रमस्य भावत्वेन भावविलक्षणत्वाभावात्स्वरूपासिद्धिरित्यत आह ।। न चेति ।। भावेति ।। अज्ञानस्यानिर्वचनीयत्वेन भावाभावविलक्षणत्वादिति भावः । तथापि कुतो न युक्तमित्यत आह ।। कार्येति ।। तथा च भावविलक्षणाज्ञानकार्यस्य भाववैलक्षण्यमेव युक्तमिति न स्वरूपासिद्धिरिति भावः । ननु भवदनुमानस्य भ्रमः सोपादानः अभाव-विलक्षणत्वाद्घटत्वदिति सत्प्रतिपक्षत्वान्नासम्भव इत्यत आह ।। सोपादानत्वे चेति ।। तथा च भावत्वमत्रोपाधिः । घटादौ साध्यव्यापकत्वात् । हेतुमति पक्षे भावविलक्षणा-ज्ञानोपादाने भावत्वाभावेन साधनाव्यापकत्वाच्चेत्युक्तं भवति ।। गौरवादिति ।। अभाव-रूपत्वेन गौरवादिति भावः । इदानीं भ्रमस्वरूपं विविच्य तस्याज्ञानोपादानत्वं दूषयति ।। अपि चेति ।। भ्रमशब्देनार्थो विवक्षितः तज्ज्ञानं वा । नाद्य इत्याह ।। अर्थस्येति ।। तथा चार्थरूपो भ्रमो निरुपादानः असत्त्वाच्छशशृङ्गवदित्यनुमानेन निरुपादानत्वसिद्धेर-ज्ञानेऽर्थरूपभ्रमोपादानत्वाभावान्मद्रीत्याऽसम्भव इत्यर्थः । त्वद्रीत्या वाऽसम्भव इत्याह ।। त्वन्मते चेति ।। तथा चार्थरूपो भ्रमो निरुपादानः सद्विलक्षणत्वादज्ञानवदित्यनुमानेन निरुपादानत्वसिद्धेरज्ञाने तदुपादानत्वाभावात्त्वद्रीत्या चासम्भव इत्यर्थः । मायिनाऽर्थस्या-सद्विलक्षणत्वाङ्गीकारेणासत्त्वानङ्गीकारान्मद्रीत्या तन्मतेऽसत्त्वेन निरुपादानत्वानुमानायोगा-त्सद्विलक्षणत्वेनेत्युक्तम् । न द्वितीय इत्याह ।। ज्ञानस्य त्विति ।। त्वन्मत इति ।। तथा चार्थज्ञानं निरुपादानं सद्विलक्षणत्वादित्यनुमानेन निरुपादानत्वे सिद्धेऽज्ञाने तदुपादा-नत्वाभावात्त्वद्रीत्याऽसम्भव इत्यर्थः । मद्रीत्या चासम्भव इत्याह ।। मन्मते त्विति ।। सत्त्वेनेति ।। भ्रम आसीदित्यनुभवादित्यर्थः ।। तत्प्रतीति ।। भ्रमरूपज्ञानं प्रतीत्यर्थः । तार्किकरीत्या आत्मनः समवायिकारणत्वेनोपादानत्वान्नाज्ञानोपादानकत्वं स्वरीत्या तु ‘‘धीर्भीरित्येतत्सर्वं मन एवे’’ति श्रुतेरन्तःकरणोपादानकत्वेनाज्ञानोपादानकत्वाभावादसम्भव इत्यर्थः । मनस्यतिव्याप्तिश्च ।

नन्वर्थज्ञानात्मको भ्रमः सोपादानो भवितुमर्हति । असद्विलक्षणत्वात् कदाचिदेव सत्त्वेन प्रतीयमानत्वात् घटवत् । कदाचिदेवेति विशेषणं ब्रह्मण्यतिव्याप्तिपरिहाराय । तथा चानेनानुमानेन सोपादानत्वसिद्धेर्न तदुपादानाज्ञानेऽसम्भव इत्यत आह ।। सोपादानत्वे चेति ।। तथा च कदाचित्सत्त्वमुपाधिरित्युक्तं भवति । अर्थे उभयरीत्या सत्वाभावात् ज्ञाने त्वद्रीत्या सत्त्वाभावात्साधनाव्यापक इति द्रष्टव्यम् ।। गौरवादिति ।। कदाचित्सत्त्वा-पेक्षयाऽसद्विलक्षणत्वस्याभावरूपत्वेन गुरुत्वात् द्वितीयस्य शब्दतोऽपि गुरुत्वादिति भावः । सोपादानत्वसाधकत्वदुक्तद्वितीयहेतोस्तुच्छे व्यभिचारश्चेत्याह ।। तुच्छस्यापीति ।। यदुक्तं भ्रमरूपज्ञानस्वरूपस्य सत्त्वेनान्तःकरणोपादानकतया नाज्ञानोपादानकत्वमिति तदयुक्तम् । तथात्वे ज्ञानस्य सत्त्वेऽर्थस्य रूप्यस्यापि सत्त्वापत्तेः विषयविषयिणोः समानसत्ताकत्व-नियमादित्याशङ्क्य निषेधति ।। न चेति ।। कुतो न चेत्यतो विषयविषयिणोः समान-सत्ताकत्वनियमो नास्ति विषयिणो मिथ्यात्वाद्व्यभिचार इत्याह ।। मिथ्याभूतमिति ।। एवमव्याख्याने ज्ञानसत्त्वेनार्थस्यापि सत्त्वे परेणोक्तेऽज्ञानादेर्मिथ्याभूतत्वेऽपि विषयस्य ब्रह्मणः सत्त्वोक्तेरसङ्गतत्वादिति ध्येयमिति सम्प्रदायविदः ।

।। मिथ्याभूतमिति ।। अज्ञानादित्रयस्य ब्रह्मव्यतिरेकेण स्वरूपतो मिथ्यात्वादिति भावः । विषयिणः सत्त्वेऽपि विषयस्य मिथ्यात्वाच्च नोक्तनियम इत्याह ।। सन्तमिति ।। पूर्वं सामान्यनियमे व्यभिचारमुक्त्वा इदानीं ज्ञानस्य सत्त्वेऽर्थस्यापि सत्त्वमिति परोक्तनियम एव व्यभिचारमाह ।। सत्येति ।। सत्यचैतन्यरूपत्वेन सत्यत्वादिति भावः । भ्रमरूप-ज्ञानस्वरूपस्य सत्त्वानङ्गीकारे तत्सत्त्वग्राहिणानुभवेन विरोध इत्याह ।। एतावन्तमिति ।। नन्वासीदित्यनेन न ज्ञानस्य सत्त्वं विषयीक्रियते किंनामासद्वैलक्षण्यमात्रमित्याशङ्क्याति-प्रसङ्गमाह ।। असद्वैलक्षण्यमात्रेणेति ।। न सत्त्वेनेत्यर्थः ।। सद्वैलक्षण्येति ।। भ्रमरूपज्ञानस्य सदसद्विलक्षणत्वाङ्गीकारादिति भावः । असद्वैलक्षण्यमात्रस्य सत्त्वानुसन्धान-प्रयोजकत्वेऽतिप्रसङ्गान्तरमाह ।। अर्थेऽपीति ।। रूप्येऽपीत्यर्थः । त्वन्मते तस्या-सद्विलक्षणस्वरूपत्वादिति भावः । तथा चैतावन्तं कालं रूप्यमासीदित्यनुसन्धानं स्यादिति भावः । नन्वारोपितार्थस्य क्वचित्सत्त्वमनुसन्धीयत एव । एतावन्तं कालं ग्रीवास्थं मुखं आदर्श आसीदित्यनुसन्धीयमानत्वादित्यत आह ।। एतावन्तमिति ।। मुखं ग्रीवास्थमेव मुखम् ।। प्रतिबिम्बस्येति ।। तथा च मुखमासीदित्यस्य मुखप्रतिबिम्बं आसीदित्यर्थः । नन्वेवं चेत्तर्हि प्रतिबिम्बस्यापि मिथ्यात्वात्तत्रैवासीदित्यनुसन्धानं प्राप्तमेवेति तत्राह ।। छायादिवदिति ।। अस्तु वा भ्रमस्वरूपं यत्किञ्चित् । तथाप्यज्ञानस्योपादानत्वं नास्तीत्य-सम्भव इत्याह ।। किं चेति ।। तथा चाज्ञानं नोपादानं भावविलक्षणत्वादभाववत् अज्ञानं नोपादानं सद्विलक्षणत्वात् खपुष्पवदित्यनुमानद्वयमुक्तं भवति । आद्यानुमानेऽप्रयोजकत्व-मतिप्रसङ्गेन परिहरति ।। अन्यथेति ।। भावविलक्षणस्याप्युपादानत्व इत्यर्थः ।

ननु अज्ञानं उपादानं अभावविलक्षणत्वादसद्विलक्षणत्वाद्वा मृद्वदित्यनुमानाभ्यां भवदनु-माने सत्प्रतिपक्षतेत्याशङ्कायां भावत्वं सत्वं वा उपाधिः मृदादौ साध्यव्यापकत्वाद-निर्वचनीयतया भावाभावविलक्षणे असद्विलक्षणे चाज्ञाने उक्तोपाध्योरभावेन साधनाव्यापकत्वा- च्चेत्याशयेनाह ।। उपादानत्वे चेति ।। गौरवादिति ।। अभावरूपत्वादिति भावः । एतावता प्रबन्धेनाज्ञाने भ्रमोपादानत्वं नास्तीत्युपपाद्येदानीं भ्रमेऽज्ञानोपादानकत्वं नास्तीत्याह ।। किं चेति ।। यदिति ।। मृद्घट इति मृदनुविद्धतया प्रतीयमानो घटो मृदुपादानको दृष्ट इत्यर्थः ।। अज्ञानमितीति ।। रूप्यमज्ञानं तज्ज्ञानं वा ज्ञानमित्य-ज्ञानानुविद्धतया न भाति येन तदुपादानकं स्यादित्यर्थः । यत्त्वित्यस्य तन्नेत्यनेनान्वयः । तदुक्तमनुवदति ।। ज्ञानेति ।। अनादित्वाद्यविशेषितमित्यर्थः । अस्य लक्षणस्य प्रपञ्चेऽति-व्याप्तत्वात्तत्परिहाराय विशेषणं देयमेवेत्याशङ्क्य परिहरति ।। न चेति ।। प्रपञ्चस्याज्ञान-परिणामत्वेऽपि कुतोऽज्ञानलक्षणस्य तत्कार्ये नातिव्याप्तिरित्यत आह ।। न हीति ।। न हि पृथिव्या गन्धवत्त्वं लक्षणमित्युक्ते घटेऽतिव्याप्तौ केनचिदुक्तायां तत्परिहाराय केनचिद्विशेषणं दीयते किं नाम तस्यापि पृथिवीविकारत्वेन लक्ष्यान्तर्गतत्वान्नातिव्याप्तिरित्येव समाधीयते तद्वदिहापि प्रपञ्चस्याज्ञानपरिणामत्वेन लक्ष्यान्तर्गतत्वान्नातिव्याप्तिशङ्केत्यर्थः ।। जीव-न्मुक्तीति ।। भिक्षाटनाद्यन्यथानुपपत्त्येत्यर्थः । आदिशब्देनाज्ञानसंस्कारारब्धकर्मग्रहणम् ।। विप्रतिपन्नमिति ।। विषयावरकत्वानिर्वचनीयत्वादिना विप्रतिपन्नमित्यर्थः ।। शुक्तीति ।। शुक्तिरूप्यादिकमज्ञाननिवृत्तिद्वारा ज्ञाननिवर्त्यं तद्व्यावृत्तस्य साक्षाज्ज्ञाननिवर्त्यत्येत्यर्थः ।। कारणेति ।। प्रपञ्चादिकार्यं विहाय कारणावस्थं यदनाद्यज्ञानं तस्यैवेह लक्षणीयत्वादित्यर्थः।

अयमर्थः । ज्ञाननिवर्त्यत्वं हि कारणावस्थापन्नं यन्मूलाज्ञानं भावरूपं विवादास्पदं तस्यैव लक्षणं न तु सादिशुक्त्याद्यावरकाज्ञानादेः । तथा च कारणावस्थस्यैवानाद्यज्ञानस्य लक्ष्यत्वेन तल्लक्षणस्य तत्परिणामे प्रपञ्चेऽतिव्याप्तिः स्यादेव यथा ‘‘अग्नेराप’’ इति श्रुतेरबादिकारणावस्थापन्नस्य सूक्ष्मतेजस एव लिलक्षयिषितत्वे रूपित्वलक्षणस्य तत्परिणाम-भूतेऽबादौ अतिव्याप्तिः स्यादेव तद्वदित्यर्थः । भेदाभेदसद्भावात् । नन्वेवं पृथिव्या गन्धो लक्षणमित्यत्रापि कारणावस्थापन्नसूक्ष्मपृथिव्या एव लिलक्षयिषितत्वे घटादावतिव्याप्तिः स्यादेवेति चेत् इष्टापत्तिरित्याह ।। पृथिवीति ।। ननु तर्हि प्रपञ्चेऽतिव्याप्तिवारणाय साक्षाज्ज्ञाननिवर्त्यत्वं विवक्षितमिति चेन्न । तथापि ज्ञानप्रागभावेऽतिव्याप्तिः स्यात् । तस्य साक्षाज्ज्ञाननिवर्त्यत्वात् । ननु ज्ञानप्रागभावे ज्ञानजन्यध्वंसप्रतियोगित्वरूपं ज्ञाननिवर्त्यत्वं नास्ति । अभावाभावो भाव एवेति नियमात् । ज्ञानस्यैव ज्ञानप्रागभावध्वंसरूपत्वेन ज्ञानस्य ज्ञानाजनकत्वादिति चेत् अभावाभावो भावव्याप्त इति मते प्रागभावध्वंसस्य प्रतियोग्यति-रिक्तत्वात् अन्यथा तन्मतानाश्रयणे विवरणकारोक्तं यदाद्यानुमानं ‘‘प्रमाणज्ञानं स्वप्रागभाव-व्यतिरिक्ते’’त्यादिकं तत्र स्वप्रागभावव्यतिरिक्तेत्याद्यविशेषणं व्यर्थं स्यात् प्रागभावव्यावृत्त्यर्थं हि तद्विशेषणं तद्व्यावृत्तेश्च स्वनिवर्त्यपदेनैव जातत्वात् । अत उक्तमताश्रयणेनैव तद्विशेषण-सार्थक्यं वाच्यम् । तथा च ज्ञाननिवर्त्यत्वस्य ज्ञानप्रागभावेऽतिव्याप्तिः स्यादेवेति नाविद्यालक्षणद्वयमपि युक्तमित्याह ।। साक्षादित्यादिना ।।

न्यायकल्पलता

विश्वस्यानाविद्यकत्वायाविद्यां प्रतिक्षेप्तुं परोक्तमनुवदति ।। यच्चोक्तमित्यादिना ।। अनादीति ।। शुक्तिरूप्यमुत्तरज्ञाननिवर्त्यं पूर्वज्ञानं वा ज्ञानप्रागभावमात्मानं च व्यावर्तयितुं क्रमेण विशेषणानि । चैतन्याविद्यासम्बन्धं व्युदसितुं ज्ञानपदम् । तस्य च न ज्ञाननिवर्त्यत्वम् । किन्तु ज्ञानजन्याज्ञाननिवृत्तिनिवर्त्यत्वमिति भावः ।। भ्रमेति ।। अन्तःकरणवृत्तेरभ्रमत्वात्तदुपादानेऽन्तःकरणे नातिव्याप्तिरित्यर्थः ।। अहमज्ञ इति ।। अन्यविषयकज्ञानाभावविषयत्वं एतस्य व्युदसितुं अन्यं न जानामीत्युक्तम् । अस्यापि अन्योक्तार्थज्ञानाभावविषयत्वं निरसितुं त्वदुक्तमर्थं न जानामीत्युक्तम् । एतस्यापि त्वदुक्तार्थसङ्ख्याज्ञानाभावविषयत्वं परिहर्तुं सङ्ख्यां न जानामि शास्त्रार्थं न जानामीत्या-द्युदाहर्तव्यम् । सङ्ख्यायाः सङ्ख्यान्तराभावात्सङ्ख्यां न जानामीत्युक्तेः सङ्ख्याज्ञानाभाव-विषयत्वं विरुद्धम् । ननु तत्रापि परोक्षतया ज्ञातेऽपरोक्षज्ञानाभावाप्रायेण व्यपदेशोपपत्तिरिति शङ्कानिरासाय शास्त्रार्थं न जानामीत्युदाहृतम् । नित्यपरोक्षधर्मादौ तथा व्यपदेशस्यापरोक्ष-ज्ञानाभावाभिप्रायत्वानुपपत्तिरिति भावः ।

।। परामर्शेति ।। अननुभूतस्यार्थस्य परामर्शानुपपत्तेरित्यर्थः । अनुमानमप्याह ।। तथा प्रमाणज्ञानमिति ।। तथाशब्दः समुच्चये । अत्र विवादगोचरापन्नं प्रमाणज्ञानमिति विवरणनिर्देशानुसारेण पक्षे विशेषणं देयम् । धर्म्यंशप्रमाणवृत्तेरिदमित्याकाराया अज्ञाना-निवर्तिकाया अपक्षत्वाय विवादेति विशेषणम् । रूप्यादिज्ञानेऽबाधाय प्रमाणेत्युक्तम् ।। स्वोत्पादकेति ।। एतच्चोपलक्षणम् । उत्तरज्ञाननिवर्त्यपूर्वज्ञानवारणार्थमपि । मिथ्याज्ञान-व्यावृत्यर्थं वस्त्वन्तरेति । हेतौ द्वितीयादिज्ञानेषु व्यभिचारपरिहारायाप्रकाशितेति । सौरालोकदेशस्थप्रभाव्यावृत्यर्थं दृष्टान्तेऽन्धकारेति । द्वितीयादिप्रभाव्यावृत्यर्थं प्रथमेति विशेषणमित्याहुः ।। चैत्रगतेति ।। एतच्च प्रमाप्रागभावविशेषणम् । न प्रमायाः । तस्या अन्तःकरणसमवेतत्वेन चैत्रगतत्वाभावात् । चैत्रसम्बन्धित्वमात्रविवक्षायां तु मैत्रनिष्ठ-चैत्रविषयकप्रमाप्रागभावातिरिक्तघटप्रमाप्रागभावनिवर्तकत्वेन चैत्रप्रमायां सिद्धसाधनता । पक्षे प्रमाप्रागभावातिरिक्तज्ञाननिवर्त्यानाद्यज्ञानमादाय साध्यसिद्धिः । वस्तुतस्तु प्रागभावस्यापि प्रतियोगिसमानाधिकरणतया चैतगतत्वाभावेन सम्बन्धविशेषस्तदीयतानियामकः प्रमाया अपि सम इति बोध्यम् । दृष्टान्ते तु चैत्रप्रमाप्रागभावभिन्नमैत्रप्रमाप्रागभावमादाय साध्यसिद्धि-रित्यर्थः ।। एतज्जनकेति ।। पक्षीभूतभ्रमस्य यदुपादानं तस्य पक्षीभूतभ्रमजनकतया तदतिरिक्तत्वस्य तदुपादाने बाधितत्वेन तदुपादानेऽबाध्यातिरिक्तत्वसिद्ध्या पक्षीभूतभ्रमेऽ-बाध्यातिरिक्ताविद्योपादानकत्वं सिद्ध्यति । दृष्टान्तीकृतभ्रमे तु पक्षीकृतभ्रमजनकातिरिक्तो-पादानकत्वमादाय साध्यसिद्धिरित्यर्थः ।। तम आसीदिति ।। तमोनीहारादिशब्दा अविद्याभिधायकाः । तन्मिथ्यात्वं तु नासदासीदित्यादिना सदसती निषिध्य तम आसीदि-त्युच्यमानं तमोऽविद्याख्यं सदसद्विलक्षणमुच्यत इत्यर्थात्सिद्धमित्यर्थापत्तिस्तत्र मानमित्यर्थः ।

एवं श्रुतार्थापत्तिमुक्त्वाऽर्थापत्यन्तरमप्याह ।। तथेति ।। नन्वहमज्ञ इति प्रत्यक्षं न भावरूपाज्ञानविषयमित्याशङ्क्य निराकरोति ।। न चेति ।। धर्मिणीति ।। अभाव-स्याधिकरणप्रतियोगिनिरूप्यत्वेन ज्ञानरूपप्रतियोगिनश्च विषयांकितत्वेन च तद्ज्ञाने ज्ञाना-भावानुपपत्तिः । अधिकरणादिज्ञानाभावे च कारणाभावादेव तदसम्भव इत्यर्थः । ननु सामान्यतोऽधिकरणादिज्ञानं ज्ञानाभावज्ञाने हेतुरित्याशङ्क्य निराचष्टे ।। न च विषयेऽ-पीति ।। उभयथाऽप्यनुपपत्तिरित्याह ।। सामान्येति ।। विशेषेति ।। निरूपकज्ञानाभावे तन्निरूप्यज्ञानानुपपत्तेरित्यर्थः ।।

।। अव्याप्तिरिति ।। शुक्त्याद्यज्ञानेष्विति शेषः । तेषां सादित्वादित्यर्थः । ननु रूप्योपादानाज्ञानमप्यनादिचैतन्याश्रितत्वादनाद्येव वाच्यम् । शुक्त्यादिकं तु तदवच्छेदकमिति न तत्राव्याप्तिरिति । तत्राह ।। सादीति ।। रूप्यस्य शुद्धचैतन्यावरकाज्ञानोपादेयत्वे तदज्ञानस्य शुक्तिज्ञानान्निवृत्यभ्युपगमे सद्यो मोक्षापातः । अनभ्युपगमे रूप्यादेः सविलासाविद्यानिवृत्तिरूपबाधो न स्यात् । ज्ञानस्याज्ञाननिवर्तनद्वारेणैवान्यनिवर्तकतयाऽ-ज्ञानमनिवर्त्य तदुपादेयरूप्यनिवर्तकत्वासम्भवश्चेत्यर्थः ।। उक्तत्वादिति ।। प्रतिकर्म-व्यवस्थाभङ्ग इति शेषः ।। आरोपितेति ।। अत्यन्तं वैजात्येनाभावं प्रति भावस्यानुपादा-नत्वादित्यर्थः । अनादित्वाभावश्चकारार्थः ।

ननु सर्वथा साजात्ये सर्वथा वैजात्ये वोपादानोपादेयभावादर्शनेन तथा साजात्यं वैजात्यं वा नोपपादयितुं शक्यम् । कार्यकारणकारतयाऽपि सादृश्ये कार्यकारणभावस्यासम्भवः स्यादित्यत आह ।। अभावस्येति ।। सत्यासत्ययोरपि किञ्चित्सादृश्यमस्तीति भावः । ननु सत्यस्यासत्योपादनत्वे सत्यस्य निवृत्यसम्भवेन तदुपादेयस्यासत्यस्यापि निवृतिर्न स्यात् । उपादाननिवृतिमन्तरेणोपादेयानिवृत्तेः । अतो न सत्यमसत्यस्योपादानम् । सत्यस्या-परिणामित्वाच्च । भावस्याभावोपादानत्वे तु न किञ्चिद्बाधकमिति । मैवम् । असमवायि-कारणनाशाद्वा विरोधिसन्निपाताद्वा कार्यनाशदर्शनात् । सत्यस्य क्षीरादेः परिणामदर्शनाच्च ।। ज्ञानादिति ।। त्वद्रीत्येति शेषः । न केवलमनादित्वाभावोऽपि तु ज्ञाननिवर्त्यत्वं च नास्तीत्याह ।। शुद्धमिति ।। स्वरूपसद्वृत्त्युपहितस्यावृत्तिविषयत्वात् शुद्धस्य वृत्यविषय-त्वम् । तदज्ञानस्य ज्ञाननिवर्त्यत्वं चोपन्नमिति दृश्यत्वहेतुभङ्गे निरस्तमिति भावः । तदेवाह ।। न हीति ।। उपाधिभूतया वृत्या स्वरूपसत्याऽपि स्वोपधेये शुद्धे ब्रह्मणि किञ्चि-न्मालिन्यकरणे तस्याशुद्धत्वापत्या तद्विषयवृत्तेः शुद्धब्रह्मज्ञानत्वाभावेन तया शुद्धब्रह्माज्ञान-निवृत्ययोगः । किञ्चिन्मालिन्यकरणे तस्याशुद्धत्वेन वृत्यविषयत्वान्न तज्ञाननिवृत्तिः । न ह्यशुद्धब्रह्मज्ञानेन शुद्धब्रह्माज्ञाननिवृत्तिरित्यर्थः ।

ननु जीवन्मुक्त्यनुवृत्तस्य सोपाधिकभ्रमोपादानस्य चाज्ञानस्य प्रारब्धकर्मभिरुपाधिना च प्रतिबन्धान्न पूर्वतनेनापरोक्षज्ञानेन निवृत्तिः । न हि क्वचिदविलम्बेन जनकस्य क्वचि-त्प्रतिबन्धने विलम्बे जनकताऽपैतीत्याशङ्क्य निराकरोति ।। न चेति ।। एतच्च जीव-न्मुक्त्यनुवृत्तस्याज्ञानस्याप्युपलक्षणम् ।। उपाधीति ।। आरब्धकर्मणामप्युपलक्षणम् । ननु प्रतिबन्धकाभावस्य कार्यमात्रहेतुत्वात् ज्ञाने सत्यप्यज्ञाननिवृत्या सापेक्षित इत्यत आह ।। न हीति ।। अज्ञाननिवृत्तिस्थले प्रतिबन्धकाभावस्य ज्ञानस्वरूपमात्रपर्यवसायित्वादिति भावः । ननु न जानामीति व्यवहारे आवरणाशक्तिमदज्ञानस्य हेतुत्वेन तदावरणाशक्त्यभ्युप-गमादेव न तथा व्यवहार इति चेन्न । शक्तेरज्ञानातिरिक्तत्वे तत्रैव लक्षणातिव्याप्तिः । अज्ञानरूपत्वे तन्निवृत्ययोगात् ।। चैतन्येति ।। तस्यानादित्वादिति भावः । न च साक्षाद्ज्ञाननिवर्त्यत्वस्य विवक्षितत्वान्न तत्रातिव्याप्तिरिति वाच्यम् । तस्यानादित्वेनान्य-प्रयुक्तज्ञाननिवर्त्यत्वायोगात् । तस्याप्यविद्यात्मकत्वेन यदि नातिव्याप्तिस्तर्हि चैतन्यात्म-कत्वेनानिवृत्यापातः । दूषणान्तरं चाह ।। अनादीति ।। तद्व्यावर्त्यस्य घटादेः साक्षाद्-ज्ञाननिवर्त्यत्वाभावादित्यर्थः । न चोत्तरज्ञाननिवर्त्यपूर्वज्ञानं वारयितुमनादिपदमिति वाच्यम् । निवर्त्यमात्रस्य ज्ञाननिवर्त्यत्वेन ज्ञानपदस्याव्यवर्तकतया ज्ञानत्वेन ज्ञाननिवर्त्यत्वस्यावश्यं वाच्यत्वे तत एव तद्वारणात् । न चैवं भावपदमपि व्यर्थमिति वाच्यम् । इष्टापत्तेः ।

ननु लक्षणद्वये तात्पर्यान्न कोऽपि दोष इति तत्राह ।। असम्भवश्चेति ।। ननु कल्पितत्वमात्रं न दोषजन्यधीमात्रशरीरत्वे सादित्वे वा तन्त्रं किन्तु प्रतिभासकल्पक-समानकालीनकल्पकवत्वं सादिकल्पकवत्वं वा प्रागभावप्रतियोगित्वं वा । न च तत्प्रकृतेऽ-स्तीत्यत आह ।। उक्तत्वादिति ।। कल्पितत्वेन प्रागभावप्रतियोगित्वादेरप्यापाद्यमान-त्वादित्युक्तत्वादित्यर्थः ।। ज्ञानेति ।। न च ज्ञानजन्मनिवृत्तिसमानाधिकरणाभाव-विलक्षणत्वेनाविद्यायाः सादित्वानुमाने ‘अजामेकां’ ‘अनादिमायया’ इत्यादिशास्त्रविरोधः । आद्यस्य त्रिगुणात्मकप्रकृतिविषयत्वात् । द्वितीयस्य तु भगवदिच्छापरत्वात् ।। अवच्छिन्नेति ।। शुक्त्यज्ञान इत्यर्थः ।। व्यतिरेकेति ।। उपाधिव्यतिरेकवति पक्षे साध्यव्यतिरेकस्य सन्दिग्धत्वादित्यर्थः । भावत्वमपि नोपाधिः । प्रध्वंसे साध्याव्याप्तेः ।

प्रकारान्तरेण लक्षणस्यासम्भवमाह ।। त्वन्मत इति ।। ननु भावपदेनाभाववैलक्षण्यमात्रं विवक्षितम् । किञ्च सादित्वसाधकस्योक्तहेतोरनादित्वसाधकेन ज्ञाननिवर्त्यत्वे सति भाव-विलक्षणत्वेन हेतुना सत्प्रतिपक्ष इत्यत आह ।। भावेति ।। परस्परविरोधादित्यर्थः । तथा च स्वरूपासिद्ध्या न तुल्यबलत्वम् । अत एव चोक्तलक्षणस्यासम्भवोऽपीति भावः । ननु भावत्वाभावत्वयोर्बाधकसत्वेन तृतीयप्रकारसिद्धौ परस्परविरहव्यापकत्वरूपविरोधासिद्धिः । परस्परविरहव्याप्यत्वरूपस्तु विरोधो नैकविरहेणापरमाक्षिपति । न हि गोत्व-विरहोऽश्वत्वाक्षेपीति चेन्न । तृतीयप्रकारासिद्धौ तयोरविरोधस्यान्योन्याश्रयेण निरस्तत्वात् ।। अनिवर्त्यत्वमिति ।। तथा चासम्भव इत्यर्थः ।। अत्यन्ताभाव इति ।। प्रतिपन्नोपाधिस्थत्रैकालिकनिषेध इत्यर्थः । अधिकरणस्वरूपातिरिक्तस्यात्यन्ताभावस्या-नभ्युपगमे स एष आत्मा नेतीति श्रौतनिषेधस्य ब्रह्मस्वरूपमात्रबोधनपर्यवसायितया परस्येष्टापत्तिरिति भावः ।। असतीति ।। न चाभावविलक्षणत्वरूपसाधनावच्छिन्नसाध्य-व्यापकत्वमिति युक्तम् । तुच्छेऽभाववैलक्षण्यस्यापि सत्वादिति भावः ।। आत्मन्यपीति ।। तथा च पक्षे नोपाधिविरह इत्यर्थः ।

उक्तानुमाने विरोध्यसन्निपातमुपाधिं शङ्कते ।। यदत्रेत्यादिना ।। न सादित्वमिति ।। ध्वंसप्रागभावयोर्व्यभिचारात् । भावत्वविशेषणेनाव्यभिचारेऽपि अभावे प्रयोजकान्तर-कल्पना-पत्तिः । भावानिवृत्तिप्रयोजकेऽनादिभावत्वेन भावविलक्षणाविद्याया अनिवृत्यापादना-योगश्चेति भावः । दूषयति ।। अनादिभावत्वेनेति ।। तथा च पक्षे नोपाधिविरह इत्यर्थः ।। विशेषेति ।। प्रागभावादिसाधारण्यादिति भावः ।

परोक्तानुमाने व्यभिचारमप्याह ।। भाववैलक्षण्यादिति ।। अत्यन्ताभावादेर्निवर्त्यत्वे प्रतियोगिसत्वापत्तिरिति भावेनोक्तम् ।। अत्यन्ताभावस्येत्यादि ।। न चाज्ञानस्या-निवर्त्यत्वानुमाने तन्निवृत्तिबोधकागमबाध इत्यत आह ।। अविद्येति ।। अज्ञाननिवृत्ति-बोधकागमवशात् भावत्वाद्यनन्तर्भावेनाज्ञानलक्षणं वाच्यम् । इतरथा तन्निवृत्तिरूपमोक्षासिद्धिः स्यादिति भावः ।। प्रतीतिमात्रेति ।। ननु सुखादेः शुक्तिरूप्यादेश्च स्वभासके साक्षिणि सत्येव निवृत्यभ्युपगमेन साक्षिभास्यानां यावत्साक्षिसत्वमवस्थानं नेष्यते । किञ्च न केवलं चिन्मात्रं साक्षि । किंत्वनिद्यावृत्युपहितम् । तथा चास्थिराविद्यावृत्युपहितस्य साक्षिणोऽ-प्यस्थिरत्वेन तत्सत्वपर्यन्तमवस्थानेऽप्यविद्यादेर्निवृत्तिरुपपद्यते । मैवम् । सुखादेरक्षणि-कत्वस्य दुःखादिसमानकालीनत्वस्य च त्वयाऽङ्गीकृतत्वेन तत्प्रतीतिनिवृत्तिमन्तरेण तन्निवर्तकाभावेन यावत्प्रतीतिसत्वमवश्यं सुखादेरवस्थानस्य वाच्यत्वात् । तदिदमुक्तं प्रतीतिमात्रशरीरस्येति । अविद्यावृत्युपहितचितः साक्षित्वेऽविद्यावृत्तेर्दोषजन्यत्वेन सुखादि-ज्ञानस्य भ्रमतया व्यवहारेऽपि बाधापत्तिः । वेदान्तमहावाक्यजन्याद्वैतज्ञानस्यापि भ्रमत्वा-पातश्च । अविद्यावृत्युपहितस्यैव साक्षिणः तत्प्रामाण्यग्राहकत्वात् । वृत्यनुपधानदशाया-मविद्यादेः शुक्तिरूप्यवदसत्वप्रसङ्गश्च ।

ननु सादिपदार्थ एवायं नियमः । धारावाहिकाविद्यावृत्तिपरंपराया अतिसूक्ष्माया अभ्युप-गम इति वा नोक्तदोष इति चेन्न । नियामकाभावात् । अविद्यावृत्तेरपि वृत्यन्तरप्रति-बिम्बितचिद्वेद्यत्वेऽनवस्थाद्यापाताच्च । विस्तृतं चैतदविद्याप्रतीतिभङ्गे ।। अज्ञानस्येति ।। मिथ्याभूते रूप्यादौ ज्ञाननिवर्त्यत्वाननुभवात् । न हि ज्ञानेन रूप्यं नष्टमिति प्रतीति-रित्यर्थः ।। उक्तत्वादिति ।। ज्ञाननिवर्त्यत्वभङ्ग इति शेषः ।

।। अभ्रमेति ।। ननु भ्रमोपादानतायोग्यत्वं विवक्षितम् । भ्रमापूर्वकप्रमानिवर्त्याज्ञाने सहकारिवैकल्यात्कार्यानुदयेऽपि योग्यतानपायादिति चेन्न । योग्यतावच्छेदकरूपापरिचये तदग्रहात् । न चाद्यलक्षणमेव तदवच्छेदकम् । तस्य निरस्तत्वादिति भावः ।। दोषा-भावेऽपीति ।। अपिशब्दोऽनास्थायाम् ।। गौरवादिति ।। एतच्चोपलक्षणम् । भाव-विलक्षणेऽभाववैलक्षण्यमप्यनुपपन्नमित्युक्तं ज्ञेयम् । यत्तु अन्वयिकारणत्वमुपादानत्वे तन्त्र-मिति । तन्न । तत्र किमन्वयित्वम् । न भावत्वम् । अनङ्गीकारात् । नाप्ययुतसिद्धत्वम् । अज्ञानेऽसिद्धेः । भ्रमं विविच्य तस्याज्ञानोपादानकत्वं दूषयति ।। अपि चेति ।। अर्थस्य नाज्ञानमुपादानमित्यन्वयः ।। अन्यथेति ।। भावविलक्षणस्याप्युपादानत्व इत्यर्थः ।। तत्वज्ञानेति ।। ननु प्रागभावस्य प्रतियोगिमात्रजनकत्वेन भ्रमं प्रति न जनकत्वम् । नतरां चोपादानत्वमिति चेन्न ।  धर्मिकल्पनागौरवेण क्लृप्ते प्रागभाव एव तत्कल्पनौचित्यात् । न चैकाविद्यातिरिक्तानेकप्रागभावकल्पने मानाभावः । उत्पन्नस्योत्पत्यदर्शनेन तस्यावश्य-कत्वात् । तस्याभावविलक्षणत्वाभावाच्च ।। भावत्वमिति ।। भावाचेतनत्वमित्यर्थः । तेन नात्मन्यतिप्रसङ्गः ।। यद्यदनुविद्धतयेति ।। न च रूपं घट इति प्रतीत्यभावान्नायं नियम इति युक्तम् । शुक्लो घटः पीतो घटो घटश्चलतीति विशेषानुवेधस्य सत्वात् । ननु प्रकृत्या-द्यनुवेधो भवन्मतेऽपि नास्तीति प्रकृत्युपादानकत्वमपि न स्यादिति चेन्न । प्रत्यक्षे साक्षा-दुपादानानुवेधस्य विवक्षितत्वात् । मृद्घट इत्यादेस्तदनुवेधस्य सत्वात् । भ्रान्तेस्तु न केनापि रूपेणाज्ञानानुवेधः सम्भवतीति भावः ।। तस्येति ।। वियदादिप्रपञ्चो ब्रह्मविवर्तः । तद-समसत्ताकत्वात् । अज्ञानस्य तु परिणामः । तत्सत्तासमसत्ताकत्वादित्यर्थः ।। जीव-न्मुक्तीति ।। अन्यथा प्रवचनादौ प्रवृत्यनुपपत्तेः ।। भावव्याप्य इतीति ।। अभावाभावो भाव इति मते ज्ञानप्रागभावनिवृत्तेः ज्ञानरूपाया न ज्ञानजन्यत्वमिति ज्ञानजन्यनिवृत्ति-प्रतियोगित्वरूपं ज्ञाननिवर्त्यत्वं ज्ञानप्रागभावे नास्ति । प्रतियोगिव्याप्या प्रतियोगिभिन्ना प्रतियोगिजन्या प्रागभावस्य निवृत्तिरिति मते प्रागभावस्य साक्षाद्ज्ञाननिवर्त्यत्वमस्तीति

तत्रातिव्याप्तिरित्यर्थः ।। अन्यथेति ।। प्रागभावस्य ज्ञाननिवर्त्यत्वाभावे स्वनिवर्त्येति विशेष- णेनैव तद्व्यावृत्तिसिद्धौ स्वप्रागभावव्यतिरिक्तेत्याद्यविशेषणमविद्यानुमाने व्यर्थं स्यादित्यर्थः ।।

श्रीमद्व्यासयतीन्द्रार्यसत्कल्पतरुसंश्रिति ।

न्यायकल्पलतायां त्वविद्यालक्षणक्षतिः ।।

न्यायामृतसौगन्ध्यम्

किञ्च केयमविद्या, न तावदनादिभावरूपत्वे सति ज्ञाननिवर्त्या सेति । सादिशुक्त्य-वच्छिन्नचैतन्यावरकाज्ञानेऽव्याप्तेः । तस्यानादित्वाभावात् । अभावोपादानाज्ञाने च भावत्वा-भावात् तत्राव्याप्तिः । अभावस्य भावोपादानकत्वेऽसत्यस्यापि सत्योपादानकत्वं स्यात् । अज्ञानानुपादानकत्वे तस्य ज्ञानान्निवृत्तिर्न स्यात् । न च रूप्योपादानाज्ञानमपि अनादि-चैतन्याश्रितत्वादनाद्येव । उदीच्यन्तु तदवच्छेदकमिति (न तत्राव्याप्तिरिति) वाच्यम् । अनाद्यावरकस्य साद्यावरकत्वासम्भवात् । न च शुक्त्यवच्छिन्नचैतन्यमनादि । अवच्छिन्ना-नवच्छिन्नचैतन्यावरकाज्ञानस्यैकत्वे शुक्त्यादिना ज्ञानेनैव तन्निवृत्या सद्यो मोक्षापत्तेः ।

यत्तु भावत्वं चात्राभावविलक्षणत्वमात्रं विवक्षितम् । अत आरोपिताभावोपादाना-ज्ञानेऽप्यभावविलक्षणत्वस्वीकारान्नाव्याप्तिरिति । तन्न । अभावविलक्षणस्याभावोपादानत्वा-सम्भवात् । अन्यथा सत्यस्यैवाज्ञानस्य मिथ्यावस्तूपादानत्वसम्भवे तवाज्ञानमिथ्यात्वकल्पनं निरर्थकं स्यात् । न च सत्यस्यासत्योपादानत्वे सत्यस्य निवृत्यसम्भवेन तदुपादेयस्या-सत्यस्यापि निवृत्तिर्न स्यात् इत्युपादान(त्व)स्याप्यसत्वस्वीकारः न तूपादेयसाजात्येनेति वाच्यम् । समवायिनिवृत्तिं विनाऽप्यसमवायिकारणनिवृत्या कार्यनिवृत्तेः सम्भवात् । सत्य-स्यैव शुक्त्यज्ञानभ्रमादेर्ज्ञानेन निवृत्तिदर्शनात् । न तु मिथ्याभूतस्य । न हि शुक्तिरूप्यं नष्टमिति प्रतीतिरस्ति ।

किञ्च ब्रह्माज्ञाने ब्रह्मणो वृत्त्यव्याप्यत्वपक्षेऽव्याप्तिस्तस्य ज्ञानानिवर्त्यत्वात् । न च स्वरूपसदुपाधिमत्तद्विषयकज्ञाननिवर्त्यत्वं तन्मतेऽप्यस्तीति वाच्यम् । उपहितविषयकज्ञानस्य अज्ञानासमानविषयकत्वेन तदनिवर्तकत्वात् ।

किञ्च सोपाधिकभ्रमोपादानाज्ञाने ब्रह्मसाक्षात्कारानन्तरविद्यमानजीवन्मुक्ताज्ञाने च ज्ञान-निवर्त्यत्वाभावादव्याप्तिः । तयोर्ज्ञाननिवर्त्यत्वे उपाधिकालजीवन्मुक्तिकालयोरेव ज्ञान-प्रागभाववत्तन्निवृत्यापत्तिः । न चोपाधिप्रारब्धकर्मणोः प्रतिबन्धकयोरभावविलम्बेन निवृत्ति-विलम्बेऽपि तयोर्ज्ञाननिवर्त्यत्वानपायः । न हि क्वचिदविलम्बेन जनकस्य क्वचित्प्रतिबन्धेन विलम्बे जनकताऽपैति इति वाच्यम् । ज्ञानेन स्वप्रागभावनिवृत्ताविवाज्ञाननिवृत्तावपि प्रतिबन्धकाभावानपेक्षणात् । अन्यथा ज्ञातेऽपि तत्र अज्ञात इति व्यवहारापत्तेः । न च तादृग्व्यवहारे आवरणशक्तिमदज्ञानं हेतुः । तदा आवरणशक्त्यभावान्न तादृग्व्यवहार इति वाच्यम् । आवरणशक्तेरज्ञानातिरिक्तत्वे ज्ञानेन निवृत्यसम्भवात् । तदभिन्नत्वे तन्निवृत्ताव-ज्ञानावस्थानासम्भवात् । न जानामीत्यावरणविषयकव्यवहारेणैव त्वया अज्ञानसाधनात् । एतेनानादिपदस्योत्तरज्ञाननिवर्त्यपूर्वज्ञाने, भावपदस्य ज्ञानप्रागभावे ज्ञानजन्यकार्यप्रागभावे वा अतिव्याप्तिवारकत्वेन सार्थक्यमिति निरस्तम् । साक्षाज्ज्ञाननिवर्त्यत्वेनैव तद्वारणात् ।

किञ्च असम्भवः, कल्पितत्वेन दोषजन्यधीमात्रशरीरस्य ज्ञाननिवर्त्यस्याभावविलक्षणस्य रूप्यवदनादित्वायोगात् । ननु कल्पितत्वं न दोषजन्यधीमात्रशरीरत्वे सादित्वे वा तन्त्रम् । किन्तु प्रतिभासकल्पकसमानकालीनकल्पकवत्त्वं, सादिकल्पकवत्त्वं, विद्याऽनिवृत्त्यप्रयुक्त-(अविद्यानिवृत्तिप्रयुक्त)निवृत्तिप्रतियोगित्वं प्रागभावप्रतियागित्वं वा तन्त्रम् । न च तत् प्रकृतेऽस्तीति चेन्न । विमतं तादृशकल्पकवत् सादिकल्पकवत् स्वकारणनिवृत्तिप्रयुक्तनिवृत्ति-प्रतियोगि वा प्रागभावप्रतियोगि वा कल्प्यत्वाच्छुक्तिरूप्यवदित्यापाद्यत्वात् । विमतं सादि ज्ञाननिवर्त्यत्वसमानाधिकरणाभावविलक्षणत्वात् सम्मतवत् । न च ‘अजामेकाम्’ ‘अनादि-मायया’ इति श्रुतिविरोधः । श्रुतेरनादिप्रकृतिपरत्वात् । न चानादित्वसाधकेन ज्ञान-निवर्त्यत्वे सति भावविलक्षणत्वेन सत्प्रतिपक्ष इति वाच्यम् । स्वरूपासिद्धेः । न च सादित्वसाधने भावत्वमुपाधिः । ध्वंसे साध्याव्याप्तेः । अभावविलक्षणाविद्यादौ भावविलक्षण-त्वस्य व्याहतत्वाच्च ।

किञ्चात्मवदनादेरभावविलक्षणस्यानिवर्त्यत्वनियमाच्च । न चात्मत्वमत्रोपाधिः । अत्यन्ताभावान्योन्याभावयोः साध्याव्याप्तेः । न चाधिकरणातिरिक्तानिवर्त्यात्यन्ताभावादि-र्नोपेयत इति वाच्यम् । अधिकरणस्य ब्रह्मणः सर्वाविरोधित्वेनाभावप्रतियोगिनः सत्यत्वो-पपत्तेः । उपाधेस्तुच्छे साध्याव्याप्तेश्च । न चाभावविलक्षणत्वरूपसाधनावच्छिन्नसाध्य-व्यापकत्वमिति वाच्यम् । तुच्छेऽपि अभावविक्षणत्वरूपसाधनावच्छिन्नसाध्यस्य तत्रापि सत्वात् ।

एतेन सादित्वमनादित्वं वा न निवर्त्यत्वानिवर्त्यत्वयोः प्रयोजकं किन्तु नाशसामग्री-सन्निपातासन्निपातौ च फलबलकल्प्याविति निरस्तम् । न च यद्यविद्यादेरभावविलक्षणत्व-समानाधिकरणानादित्वेनात्मवदनिवर्त्यत्वं साध्यते तर्हि भावविलक्षणत्वेन प्रागभाव-वन्निवर्त्यत्वमेव किं न साध्यत इति वाच्यम् । ध्वंसात्यन्ताभावान्योन्याभावेषु व्यभिचारात् । न चाधिकरणातिरिक्ता तन्निवृत्तिरुपेयत इति वाच्यम् । तत्प्रतियोगिनः सत्यत्वापत्तेः ।

किञ्चाज्ञानस्य यावत्स्वविषयधीरूपसाक्षिसत्वमनुवृत्तिनियमेन ज्ञानानिवृत्तौ तन्निवृत्तिर्न युक्ता । ननु दुःखशुक्तिरूप्यादेः स्वभासके साक्षिणि सत्येव निवृत्त्यभ्युपगमेन साक्षिभास्यानां यावत्साक्षिसत्वमवस्थाननियमानभ्युपगमः । किञ्च केवलचिन्मात्रं न साक्षि, किन्त्वविद्या-वृत्त्युपहितम् । तथा चास्थिराविद्यावृत्त्युपहितस्य साक्षिणोऽप्यस्थिरत्वेन तत्सत्वपर्यन्तमव-स्थानेऽप्यविद्यादेर्निवृत्तिरुपपद्यते इति चेन्न । प्रतिभासमात्रशरीरस्य रूप्यादेः प्रतिभास-निवृत्यतिरिक्तनिवर्तकाभावात् । दुःखादिज्ञानसमशरीरत्वाच्च । अविद्यावृत्त्युपहितस्य साक्षित्वे वृत्त्यनुदयदशायामविद्यादेः शुक्तिरूप्यवत्सत्वापत्तेः । न च सादिपदार्थ एवैतादृङ्नियमः । प्रतिभासमात्रशरीरत्वस्यापि सादिमात्रविषयत्वापत्तेः ।

एतेन भ्रमोपादानत्वमज्ञानलक्षणमिति निरस्तम् । अभावारोपनिवर्तकप्रमानिवर्त्येऽज्ञानेऽ-व्याप्तेः । न हि भ्रमस्य भावरूपस्य भावविलक्षणाज्ञानोपादानकत्वं घटते । भ्रमस्य भावविलक्षणत्वे उपादेयत्वं न स्यात् । न चाज्ञानभ्रमयोरुभयोर्भावविलक्षणत्वेऽप्युपादानो-पादेयभावोपपत्तिः । भावविलक्षणयोरुपादानोपादेयभावस्य लोकेऽदर्शनात् ।

किञ्चैवं ज्ञानप्रागभावस्यैव भ्रमोपादानत्वमस्तु, किमभावविलक्षणाज्ञानकल्पनया । न च प्रागभावस्य प्रतियोगिमात्रजनकत्वनियमेन भ्रमं प्रति जनकत्वमप्यसिद्धं, तद्विशेष-रूपोपादानत्वं दूरतो निरस्तमिति वाच्यम् । धर्मिकल्पनातो धर्मकल्पनाया लघीयस्त्वेन प्रागभावस्यैवोपादानत्वौचित्यात् ।

किञ्चाज्ञानानुविद्धतया भ्रमस्य प्रतीत्यापत्तिः, मृदनुविद्धतया घटस्येव । ननु यद्य-दुपादानकं तत्तदनुविद्धतयैव प्रतीयत इति न नियमः । न हि घटोपादानकं रूपं घट इति प्रतीयते । प्रकृतिद्व्यणुकानुविद्धतया प्रतीतेः परैरपि नाङ्गीक्रियते । केनचिद्रूपेण तदनुवेधस्तु प्रकृतेऽप्यस्तीति चेन्न । शुक्लो घट इत्यनुवेधस्य घटेऽपि सत्वात् । मृद्घट इत्यादौ प्रकृतेरपि मृत्त्वादिना प्रकृत्यनुवेधस्य सत्वाच्च । इदं रजतमित्यादौ अज्ञानस्य हि न केनचिद्रूपेणानु-वेधप्रतीतिः ।

किञ्च यावन्ति ज्ञानानि तावन्त्यज्ञानानीति पक्षे अभ्रमपूर्वक प्रमानिवर्त्याज्ञानेऽव्याप्तिः । न च भ्रमोपादानत्वयोग्यता तत्राप्यस्तीति वाच्यम् । योग्यतावच्छेदकरूपापरिचयेन योग्यताया असम्भवात् । न च प्रथमलक्षणमेव योग्यतावच्छेदकम् । अज्ञानतल्लक्षणा-सम्भवस्य दर्शितत्वात् । एकमेवाज्ञानमिति पक्षे शुक्तिज्ञानेनाज्ञाननाशे सद्यो मोक्षापत्तिः, तदनाशे सविलासभ्रमनिवृत्तिर्न स्यात् । न चावस्थाविशेषनाशात्तन्नाशः । अवस्थाविशेषस्य अज्ञानभिन्नत्वे भ्रमोपादानत्वे च नानाज्ञानवादापत्तेः, तदभिन्नत्वे निवृत्त्यनुपपत्तिरिति ।

।। इति अविद्यालक्षणभङ्गः ।।