नन्विदं रूप्यमित्यत्रेदमितिवत् सन् घट इत्यत्रापि..

न्यायामृतम्

नन्विदं रूप्यमित्यत्रेदमितिवत् सन् घट इत्यत्रापि सन्नित्यधिष्ठानब्रह्मानुवेध एवेति चेन्न, चाक्षुषादिज्ञाने रूपादिहीनब्रह्मास्फुरणादित्युक्तत्वात् । नीलो घटः, मिथ्या रूप्यम् असन्नृशृङ्गमित्यादावपि नील इत्यादिरधिष्ठानानुवेध इत्यापाताच्च । नैल्यादिकं घटेऽस्ति सत्त्वं तु नेति चेन्न, अस्यारोपितत्वसिद्ध्यधीनत्वेनान्योन्या-श्रयात् । अन्यथा सत्यं ज्ञानमित्यत्रापि सत्यमित्यधिष्ठानानुवेध इति स्यात् । न ह्यद्यापि ब्रह्मैव सद्रूपमन्यन्मिथ्येति सिद्धम् ।

ननु तथापि कथं प्रत्यक्षमात्यन्तिकाबाध्यत्वग्राहि ? तात्कालिकाबाधस्तु रूप्यादेरिवेष्ट इति चेत्, किं प्रत्यक्षमप्रमाणमेव ? उत प्रमाणमपि वर्तमानमात्रग्राहि-त्वात् त्रिकालाबाधग्रहाक्षमम् । आद्येऽपि स्वतः प्राप्तस्य तत्त्वावेदनरूपप्रामाण्यस्य त्यागः किमनुमानविरोधात् ? आगमविरोधाद्वा ? भाविबाधकशङ्कामात्रेण वा ? नाद्यौ, तयोः प्रामाण्ये तद्विरोधेनाक्षस्याप्रामाण्यम्, सति च तस्मिन्मानाविरोधेन तयोः प्रामाण्यमित्यन्योन्याश्रयात् । अक्षस्य तु प्रबलस्य प्रामाण्यमनुमानागमा-विरोधापेक्षं नेति नान्योऽन्याश्रयः । न हि सिंहः शशशावकाभावमपेक्ष्य वनं गाहते । प्रत्यक्षस्यानुमित्यादितः प्राबल्यं च तदगृहीतरेखोपरेखादिविशेषग्राहित्वादनुमित्याद्य-निवर्तितदिङ्मोहादिनिवर्तकत्वाच्च जात्यैव । दृष्टं हि वह्निशैत्यानुमाने धर्म्यादे-श्चक्षुरादिनापि सिद्ध्या अनुपजीव्यत्वेऽपि औष्ण्यप्रत्यक्षस्य जात्यैव प्राबल्यम् । ‘‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्’’ इति तु वैदिकार्थविषयम् । अत एवोक्तम्– ‘‘क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितम्’’ इति ।

अद्वैतसिद्धिः

किञ्चेदं रूप्यं’ इत्यत्र इदमितिवत् ‘सन् घटः’ इत्यत्रापि सदित्यधिष्ठानभूतं ब्रह्मैव भासते । न च चाक्षुषादिज्ञाने रूपादिहीनस्य ब्रह्मणः कथं स्फुरणमिति वाच्यम् । रूपादिहीनस्यापि कालादि-न्यायेन स्फुरणस्य प्रागेवोपपादितत्वात् । नन्वेवं ‘नीलो घटः’ ‘मिथ्या रूप्यम्’ असन्नृशृृङ्गम्’ इत्यादावपि ‘नीलः’ इत्यदिरधिष्ठानानुवेध इति स्यात् । न च नैल्यं घटादिष्वस्ति, सत्त्वं तु नेति वाच्यम् । अस्यारोपितत्वसिद्ध्युत्तरकालीनत्वेनान्योन्याश्रयात् । अन्यथा ‘सत्यं ज्ञानं’ इत्यत्रापि सत्यमित्यधिष्ठानानुवेध एव स्यात् इति चेन्न । सन्नित्यस्य ‘घटः’ इत्यनेन सामानाधिकरण्यस्य बाधितत्वात् । तथा हि – सत्ताजतिस्फुरणनिबन्धनं वा, स्वरूपसत्त्वनिबन्धनं वा, कालत्रया-बाध्यत्वनिबन्धनं वा सामानाधिकरण्यं स्यात् । न चाभावादिसाधारणसत्प्रतीतौ सत्ताजातिस्फुरणं सम्भवति । अभावादिषु त्वयापि तदनङ्गीकारात् । न च क्वचित्साक्षात्सम्बन्धेन क्वचित् परम्परा-सम्बन्धेन सदिति प्रतीत्युपपत्तिः । विजातीयसम्बन्धेन समानाकारप्रतीत्यनुपपत्तेः । अन्यथा सम्बन्धभेद एव न सिध्येत् । न च स्वरूपसत्त्वेनाभावादौ तत्प्रतीतिः, अननुगमात् । अननुगतेनापि अनुगतप्रतीतौ जातिमात्रोच्छेदप्रसङ्गात् । अत एव न सर्वत्रापि स्वरूपसत्त्वेनैव सद्व्यवहारः । एकेनैव सर्वानुगतेन सर्वत्र सत्प्रतीत्युपपत्तौ बहूनां तद्धेतुत्वकल्पने मानाभावात् । नापि कालत्रया-बाध्यत्वनिबन्धनं तत् । तस्य चक्षुराद्यगम्यत्वस्योक्तत्वात् । ‘सदिदं रजतम्’ इत्यादिभ्रमे अभावाच्च । तस्मादेकं सर्वाधिष्ठानमेव सदिति सर्वत्रानुभूयत इति युक्तम् । नीलादेस्तु घटादिसामानाधिकरण्ये किमपि नास्ति बाधकम् । न वा नीलादेरधिष्ठानत्वं सम्भवति । प्रागसत्त्वात् । नीलपीतादि-प्रातिस्विकानन्ताधिष्ठानकल्पने गौरवात् । अधिष्ठेयेन तुल्ययोगक्षेमत्वाच्च । अधिष्ठेयविषमसत्ताकमेव ह्यधिष्ठानं भवति । ‘मिथ्या रूप्यम् असन्नृशृृङ्गम्’ इत्यादौ मिथ्यात्वासत्त्वयोरधिष्ठानत्वशङ्कापि नास्ति । शून्यवादापत्तेः । तत्र चानुपपत्तिरुक्ता, वक्ष्यते च । यत्तु ‘सत्यं ज्ञानमनन्तम्’ इत्यत्रापि तथा स्याद् इति । तन्न । यतो न तत्र सत्तासम्बन्धेन सत्त्वम्, किंतु स्वरूपेणैवेत्युक्तदोषा-नवकाशात् । न चैवं घटादावपि स्वरूपेणैव तथात्वम् । पूर्वमेव निराकृतत्वात्, इति सन्घट इति प्रत्यक्षेऽधिष्ठानानुवेधनिरूपणम् ।

किञ्च निश्चितप्रामाण्यमेव प्रत्यक्षमितरबाधकं भवेत्, न चात्र प्रामाण्यं निश्चितम्; आगम-विरोधाद्, अनुमानविरोधाद्, भाविबाधाभावानिर्णयाच्च । ननु प्रत्यक्षमेव प्रबलमनुमानागमबाधकम् । नानुमानागमौ । प्रत्यक्षाप्रामण्ये तद्विरोधाभावेनानुमानागमयोः प्रामाण्यम्, तयोः प्रामाण्ये च तद्विरोधात् प्रत्यक्षाप्रामाण्यमित्यन्योन्याश्रयात् । न हि प्रत्यक्षस्य प्रामाण्येऽप्येवमन्योन्याश्रयः । तस्यानपेक्षत्वाद् इति चेन्न । चन्द्रतारकादिपरिमाणप्रत्यक्षे अनुमानागमविरोधेन तस्याप्रामाण्यदर्शनात्, तेनापि स्वप्रामाण्यसिद्ध्यर्थमितराविरोधस्यावश्यमपेक्षणीयत्वात् । तथा चान्योन्याश्रयतुल्यत्वात् परस्परविरोधेन प्रामाण्यसन्देहे सत्यनाप्ताप्रणीतत्वादिना प्रमाजनकत्वव्याप्तेर्वेदप्रामाण्यनिश्चये जाते तेन स्वतस्सम्भावितदोषस्य प्रत्यक्षस्य बाधात् अस्मन्मते क्वान्योन्याश्रयः ? अन्यथा देहात्मैक्यप्रत्यक्ष-बुद्ध्या बाधाद् देहभिन्नत्वमप्यात्मनो नागमानुमानाभ्यां सिद्ध्येत् ।

ननु प्रत्यक्षमनुमानाद्यपेक्षया जात्यैव प्रबलम् । कथमन्यथा औष्ण्यप्रत्यक्षेण वह्निशैत्यानुमिति-प्रतिबन्धः? न च तत्रोपजीव्यत्वनिबन्धनं प्रत्यक्षस्य बाधकत्वम् । धर्म्यादेश्चक्षुरादिनैव सिद्धेस्त्वचोऽ-नुपजीव्यत्वात् । किञ्च प्रत्यक्षस्य प्राबल्यमनुमानाद्यगृहीतरेखोपरेखादिग्राहकत्वादनुमानाद्यनिवर्तित- दिङ्मोहादिनिवर्तकत्वाच्च इति चेन्न । त्वाचप्रत्यक्षस्याप्युपजीव्यत्वेनैव शैत्यानुमितिप्रतिबन्धकत्व-सम्भवात् । चक्षुरादिना धर्म्यादिग्रहेऽपि त्वचं विना साध्यप्रसिद्धेरभावात् । तथा च न जात्या प्राबल्ये मानमस्ति ।

तदगृहीतग्राहित्वमपि न प्राबल्ये प्रयोजकम् । प्रत्यक्षागृहीतधर्मादिग्राहकत्वेन परोक्षप्रमाणस्यैव प्राबल्यापत्तेः । नाप्यनुमानाद्यनिवर्तितदिङ्मोहादिनिवर्तकत्वेन प्राबल्यम् । एतावता हि वैधर्म्यमात्रं सिद्धम् । न च तावतेतरप्रमाणापेक्षया प्राबल्यं भवति । अन्यथा त्वाचप्रत्यक्षानिवर्तितवंशोरगभ्रम-निवर्तकत्वाच्चक्षुषोऽपि त्वगपेक्षया प्राबल्यं स्यात् । ततश्च चित्रनिम्नोन्नतज्ञानस्य चाक्षुषस्य तद्विरोधित्वाचज्ञानाद् बाधो न स्यात् । प्रत्युतागमस्यैव सर्वतः प्राबल्यं स्मार्यते– ‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्’ इति । न च तद्वैदिकार्थविषयमिति वाच्यम् । अद्वैतस्यापि वैदिकार्थत्वात् । ‘क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितम् इति तु परीक्षितप्रामाण्यप्रत्यक्षविषयम् ।

न्यायामृततरङ्गिणी

सन् घट इति प्रत्यक्षस्य घटादौ सत्त्वाग्राहकत्वेन न तद्विरोधो दृश्यत्वादेरिति शङ्कते ।। नन्विति ।। इदं रूप्यमित्यत्र रूप्ये इदंताविरहेणाधिष्ठानभूतशुक्तिकायामिदंत्वेन गृह्यमाणायां तदभिन्नरजतमपीदमिति निर्दिश्यते यथा तथा सद्रूपे ब्रह्मणि घटादेरध्यस्तत्वेन सद्रूपब्रह्माभिन्नत्वा-दधिष्ठानब्रह्माभिन्नत्वेन भाने तद्गतमेव सत्त्वं घटादौ व्यवह्नियते । तथा च न घटादौ सत्त्वं प्रत्यक्षविषय इत्यर्थः ।। उक्तत्वादिति ।। परिच्छिन्नत्वहेतुभङ्ग इति शेषः । न च रूपादि-हीनस्यापि कालादिन्यायेन स्फुरणमस्त्विति वाच्यम् । इदानीं रूपमिति कालोल्लेखवत् ब्रह्मणोऽभावेन ब्रह्मणस्तद्विषयत्वाभावात् ।। न हीति ।। एवं च यथा सत्यं ब्रह्मेत्यत्र ब्रह्मण्येव सत्त्वं प्रतीयते न त्वधिष्ठानादिगतं तथा सन् घट इत्यत्रापि घटगतमेव सत्त्वं प्रतीयत इत्यभ्युपेयमिति भावः ।

ननु सद्ब्रह्मणोः सामानाधिकरण्यस्याबाधितत्वात्तत्र तथाऽस्तु । न तु घटे । सन्नित्यस्य घट इत्यनेन सामानाधिकरण्यस्य बाधितत्वात् । तथा हि । सत्ताजातिस्फुरणनिबंधनं वा, स्वरूप-सत्तानिबंधनं वा, कालत्रयाबाध्यत्वनिबंधनं वा सामानाधिकरण्यं स्यात् । न चाभावादि-साधारणसत्प्रतीतौ जातिस्फुरणं सम्भवति । अभावादिषु त्वयापि तदनङ्गीकारात् । न च क्वचित्साक्षात्सम्बन्धेन क्वचित्परम्परासम्बन्धेन सदिति प्रतीत्युपपत्तिः । विजातीयसम्बन्धेन समानाकारप्रतीत्यनुपपत्तेः । अन्यथा सम्बन्धभेद एव न सिद्ध्येत् । न च स्वरूपसत्त्वेनाभावादौ तत्प्रतीतिः । अननुगमात् । अननुगतेनाप्यनुगतप्रतीतौ जातिमात्रोच्छेदप्रसङ्गात् । अत एव न सर्वत्रापि स्वरूपसत्वेनैव सद्व्यवहारः । एकेनैव सर्वानुगतेन सर्वत्र सत्प्रतीत्युपपत्तौ बहूनां तद्धेतुत्वकल्पने मानाभावात् । नापि कालत्रयाबाध्यत्वनिबन्धनं तत् । तस्य चक्षुराद्यगम्य-त्वस्योक्तत्वात् । सदिदं रजतमित्यादिभ्रमेऽभावाच्च । तस्मादेकं सर्वाधिष्ठानमेव सदिति सर्वत्रानु-भूयत इति युक्तम् । नीलादेस्तु घटादिसामानाधिकरण्ये नास्ति किमपि बाधकम् । न च नीलादेरधिष्ठानत्वं सम्भवति । प्रागसत्त्वात् । नीलपीतादिप्रातिभासिकानंताधिष्ठानकल्पने गौरवात् । अधिष्ठेयसमानयोगक्षेमत्वात् । अधिष्ठेयविषमसत्ताकं ह्यधिष्ठानं भवति । मिथ्यारूप्य-मसन्नृशृङ्गमित्यादौ मिथ्यात्वासत्त्वयोरधिष्ठानत्वशङ्कापि नास्ति । शून्यवादापत्तेः । यत्तु सत्यं ज्ञानमित्यत्रापि तथा स्यादिति तन्न । यतो न तत्र सत्तासम्बन्धेन सत्त्वं, किंतु स्वरूपेणैवेत्युक्त-दोषानवकाशात् । न चैवं घटादावपि स्वरूपेणैव तथात्वम् । पूर्वमेव निराकृतत्वादिति ।।

अत्रोच्यते । सन् घट इति व्यवहारस्य सत्ताजातिस्फुरणनिबंधनत्वे बाधकाभावात् । न चाभावादिषु सत्ताविरहात्तद्व्यवहारानुपपत्तिः । तत्रापि समवायेतरसम्बन्धेन सत्तासत्त्वात् । न च विजातीयसम्बन्धेन समानाकारप्रतीत्यनुपपत्तिः । लोहितः स्फटिक इति प्रतीतेरेकाकारायाः साक्षात्परम्परासम्बन्धविषयत्वेऽप्रमात्वस्य प्रमात्वस्य च सर्वैरुपपादितत्वात् । नीलो घटो नीलो गुण इति प्रतीत्योरेकाकारत्वेऽपि सम्बन्धभेदाच्च । न च सम्बन्धभेदासिद्धिः । असाधारण्येन तत्तत्सम्बन्धगोचरबुद्धेरेव तत्सिद्धेः । स्वरूपसत्त्वनिबन्धनाद्वा सद्व्यवहारः । न चाननुगमः । तव मते प्रमेयत्वस्याननुगमेऽप्यनुगतव्यवहारवदुपपत्तेः । तव मतेऽपि सत्यं ब्रह्मेति व्यवहारः स्वरूपसत्तया सन् घट इति व्यवहारस्त्वधिष्ठानसत्तानुवेधेनेत्यननुगमस्य तदवस्थत्वाच्च । वस्तुतस्तु उक्तरूपसत्त्वेनैव सर्वत्र सदिति व्यवहारः । तस्य च यथा प्रत्यक्षत्वं तथोक्तम् । न च नीलादेरधिष्ठेयाधिसत्ताविरहान्नाधिष्ठानत्वमिति वाच्यं । घटादेरधिष्ठानत्वेनाभिमतस्य ब्रह्मणो घटाद्यधिकसत्ताया असम्प्रतिपत्तेः । ब्रह्मणि तत्सत्यमित्यादिश्रुतेरिव सन् घट इति प्रत्यक्षस्यापि घटादौ ब्रह्मसमानसत्त्वग्राहकस्य सत्त्वात् । न च मिथ्या रूप्यमसन्नृशृङ्गमित्यादौ मिथ्यात्वा-सत्त्वयोरधिष्ठानताशङ्काऽपि नास्ति । शून्यवादापत्तेरिति वाच्यम् । वियदादेः सर्वस्य मिथ्यात्वे किं न शून्यवादः ? अधिष्ठानमात्रसत्यत्वस्य च शून्यवादेऽपि सत्त्वात् । तस्मात्सन् घट इत्यादौ यदि ब्रह्मसत्तानुवेधः तर्हि नीलो घट इत्याद्यप्यधिष्ठानानुवेधः स्यादिति साधूक्तम् ।

प्रत्यक्षस्य जात्या प्राबल्यमनुमानादिभ्यः समर्थयते ।। प्रत्यक्षस्येति ।। ननु तत्रोप-जीव्यत्वनिबन्धनं प्रत्यक्षस्य बाधकत्वमत आह ।। दृष्टं हीति ।। धर्म्यादेश्चक्षुरादिनैव सिद्धेस्त्व-चोऽनुपजीव्यत्वादित्यर्थः । ननु त्वाचप्रत्यक्षस्याप्युपजीव्यत्वेनैव शैत्यानुमितिप्रतिबन्धकत्वम् । चक्षुरादिना धर्म्यादिग्रहेऽपि त्वचं विना साध्यप्रसिद्धेरभावात् । तथा च न जात्या प्राबल्ये मानमस्ति । तदगृहीतग्राहित्वमपि न प्राबल्यप्रयोजकम् । प्रत्यक्षागृहीतधर्मादिग्राहकत्वेन परोक्ष-प्रमाणस्यैव प्राबल्यापत्तेः । नाप्यनुमानाद्यनिवर्तितदिङ्मोहादिनिवर्तकत्वेन प्राबल्यम् । एतावता हि वैधर्म्यमात्रं सिद्धम् । न च तावतेतरप्रमाणापेक्षया प्राबल्यं भवतीति । मैवं । शैत्या-द्यनुमित्याद्यनिवर्तितपीतभ्रमनिवर्तकजातिविशेषावच्छिन्नज्ञानजनकत्वेन प्रत्यक्षस्य प्राबल्यम् । न च चक्षुरनिवर्तितवंशोरगभ्रमनिवर्तकत्वात्त्वचोऽपि चक्षुरपेक्षया प्राबल्यं स्यादिति वाच्यम् । मंडूकवसांजनदोषेण हि दुष्टचक्षुषो वंशोरगभ्रमानिवर्तकत्वं दूरादिदोषवशात् । निर्दुष्टस्य चक्षुषः पुरैव च त्वचो वंशोरगादिभ्रमनिवर्तकत्वम् । न च प्रत्यक्षगृहीतधर्मादिग्राहकत्वेन परोक्षप्रमाण-स्यैव प्राबल्यापत्तिः । स्वविषये विशेषग्राहकत्वस्य प्रत्यक्षे प्राबल्यबीजत्वात् । धर्मादेस्तु तदविषयत्वात् । परोक्षप्रमाणे स्वविषये तदग्राहकत्वात् ।

प्रत्यक्षस्य जात्या प्राबल्ये आगमस्य तत्प्रतिपादकेन ब्रह्मतर्कवचनेन विरोधं परिहरति ।। प्राबल्यमागमस्यैवेति ।। न चाद्वैतस्यापि वैदिकार्थत्वमिति वाच्यम् । औते प्रमाणाभावस्य वक्ष्यमाणत्वादिति ।। क्व चेति ।। न चैतत्परीक्षितप्रामाण्यप्रत्यक्षविषयमिति वाच्यम् । सन् घट इति प्रत्यक्षस्यापि फलपर्यन्तं परीक्षितत्वात् । त्वयाऽपि परोक्षज्ञानेनानिवृत्तस्य भेदभ्रमस्यापरोक्ष-ज्ञानेन निवृत्तेः स्वीकाराच्च । अनुभूयते चानुमानादिभ्योऽपि विश्वासहेतुः प्राबल्यं प्रत्यक्षे । दीक्षणीयेष्टेरर्थवादेऽपि प्रत्यक्षस्य शब्दापेक्षया प्राबल्यं ज्ञायते । तथा ह्यैतरेयब्राह्मणे । ‘‘तस्मा-द्दीक्षितेन सत्यमेव वदितव्यं अथो खल्वाहुः कोऽर्हति मनुष्याः सर्वं सत्यं वदितुं सत्यसंहिता वै देवा अनृतसंहिता मनुष्या इति विचक्षणवतीं वाचं वदेत् चक्षुर्वै विचक्षणं विधानेन पश्यतीति । एतद्वै मनुष्येषु सत्यं निहितं यच्चक्षुस्तस्मादाचक्षाणमाहुरद्रागिति स यद्यदर्शमित्याह– अथ हास्य श्रद्दधति यस्तु वै स्वयं पश्यति न बहूनां नान्येषां श्रद्दधाति तस्माद्विचक्षणवतीमेव वाचं वदेत् सत्योत्तरा हैवास्य वागुदिता भवति’’ इति । अत्र दीक्षितस्य सत्यवचनं विधाय, सत्यवाक्त्वं देवधर्मो मनुष्याणामशक्य इत्यथो खल्वाहुरित्यनेन पूर्वपक्षयित्वा चक्षुःसंवादिवदनमेव सत्य-वचनमिति सिद्धान्तितं विचक्षणवतीं वाचं वदेदित्यनेन । तत्र विचक्षणवतीमित्यनेन कथं चक्षुःसंवादित्वमित्यपेक्षायां विचक्षणशब्दस्य चक्षुःपरत्वं योगेनेत्युक्तं विधानेन पश्यतीति । एतच्चक्षुः सर्वप्रमाणापेक्षया सत्यं बलवत् । अत एव वक्तारं पृच्छति । अद्राक् दृष्टवानिति । स वाक्योच्चारयिता यद्यदर्शं पश्यामीत्याह तर्हि श्रद्दधति तद्वचनं, नान्यस्य । तस्माच्छ्रुतिसिद्धं प्रत्यक्षस्य प्राबल्यम् ।।

न्यायामृतकण्टकोद्धारः

।। चाक्षुषादिज्ञान इति ।। न च रूपादिहीनस्यापि ब्रह्मणः कालादिवच्चाक्षुषादिज्ञाने प्रतिभासोऽस्त्विति वाच्यम् । कालादेर्नियमतः साक्ष्युपनीतत्वेन तज्ज्ञानसम्भवेऽपि सद्रूपब्रह्मणस्तथात्वाभावेन नियमतश्चाक्षुषादिज्ञानविषयत्वानुपपत्तेरित्याद्युक्तत्वात् ।

।। नीलो घट इति ।। ननु सन्नित्यस्य घटसामानाधिकरण्यानुपपत्त्या अधिष्ठान-ब्रह्मानुवेधोऽङ्गीक्रियते । तथा हि । तद्धि किं सत्ताजातिनिबन्धनं वा स्वरूपसत्त्वनिबन्धनं वा कालत्रयाबाध्यत्वनिबन्धनं वा सामानाधिकरण्यं स्यात् । न तावदाद्यः । अभावादि-साधारणसत्प्रतीतौ जातिनिबन्धनत्वायोगात् । अभावादौ सत्ताजात्यनङ्गीकारात् । न द्वितीयः । स्वरूपसत्त्वस्याननुगतत्वात् । अनुगतप्रतीतेस्तन्निबन्धनत्वायोगात् । अननुगतेनाप्यनुगतप्रतीतौ जात्युच्छेदापत्तेः । एकेनैव सर्वानुगतेन सत्प्रतीत्युपपत्तौ बहूनां तद्धेतुत्वकल्पने मानाभावाच्च । नापि तृतीयः । तस्य चक्षुराद्यगोचरत्वात् । सदिदं रजतमिति भ्रमे तदभावाच्च । तस्मादेकं सर्वाधिष्ठानमेव सदिति सर्वत्रानुभूयत इति युक्तमुत्पश्यामः । नीलादेस्तु घटादिसामानाधिकरण्ये नास्ति बाधकम् । किञ्च नीलादेरधिष्ठानत्वमसम्भवि । प्रागसत्त्वात् । नीलपीताद्यनेकाधिष्ठान-कल्पने गौरवाच्च । अधिष्ठेयतुल्ययोगक्षेमत्वाच्च । अधिष्ठेयविषमसत्ताकमेव ह्यधिष्ठानं भवति । मिथ्या रूप्यमसन्नृशृङ्गमित्यादौ मिथ्यात्वासत्त्वयोरधिष्ठानत्वशङ्कैव न सम्भवति । शून्यवादा-पत्तेरिति चेन्मैवम् । स्वरूपसत्त्वनिबन्धनमेवास्तु सामानाधिकरण्यम् । सद्ब्रह्मेत्यादौ दृष्टत्वात् । न चाननुगतसत्त्वानामनुगतव्यवहारप्रयोजकत्वं कथमिति वाच्यम् । सत्तात्रैविध्यं वदता त्वया सद्ब्रह्य, सन् घटः, सद्रूप्यमिति अनुगतव्यवहारस्याननुगतैरेव सत्त्वैः समाधेयत्वात् । न चैवं जात्युच्छेद इति वाच्यम् । इष्टापत्तेः ।

अथवा त्रिकालाबाध्यत्वनिबन्धनमस्तु सामानाधिकरण्यम् । न च तस्य चक्षुराद्यगोचरत्व-मुक्तमिति वाच्यम् । तद्योग्यत्वस्याधस्तादेवोपपादितत्वात् । न च सदिदं रजतमिति भ्रमे तदभाव इति वाच्यम् । न हि सत्सामानाधिकरण्यमात्रे त्रिकालाबाध्यत्वं प्रयोजकमिति विदाङ्कुर्मः । किन्तु प्रमिते सामानाधिकरण्ये । एवं च सदिदं रजतमिति सामानाधिकरण्यं भ्रान्तमिति नात्र तत्प्रयोजकमित्यवैहि । तथा च सन्नित्यस्य घट इत्यनेन सामानाधिकरण्ये बाधकाभावेऽपि यद्यधिष्ठानानुवेधः कल्प्यते तर्हि नीलो घट अनित्यो घट इत्यादावपि अधिष्ठानानुवेधः कल्पनीयः । न च नीलादेरधिष्ठानत्वं न सम्भवति, प्रागसत्त्वादिति वाच्यम् । घटादौ नैल्यारोपात् नीलरूपवतोऽप्यधिष्ठानत्वकल्पनसम्भवेन तदनुरोधेन प्रागवस्थानसम्भवात् । आत्मारोपेणात्मनोऽधिष्ठानत्वानापाताच्च । स्वीकृतश्चायम् । अन्यथाऽपसिद्धान्तात् । यच्च नीलपीताद्यनेकधिष्ठानकल्पने गौरवमिति तदपि न । कल्प्यानेकत्वगौरववदधिष्ठानानेकत्व-कल्पनागौरवस्यापि समाधेयत्वात् । कल्पनामात्रशरणस्य नीलपीतादिरूपमधिकरणमेकमित्यपि कल्पनसम्भवे गौरवाभावात् । यच्चाधिष्ठेयविषमसत्ताकत्वाभावान्नाधिष्ठानत्वं नीलादेरिति तन्न । लाघवेनाधिष्ठेयविलक्षणत्वस्यैव प्रयोजकत्वेन विषमसत्ताकत्वस्य तत्त्वे गौरवात् । यदपि मिथ्यात्वासत्त्वयोरधिष्ठानत्वशङ्कैव नोदेति शून्यवादापत्तेरिति तदपि तुच्छम् । त्वयाऽपि आत्मानात्मनोरन्योन्यतादात्म्यारोपमन्योन्यधर्मारोपं च वदता मिथ्याभूतस्याधिष्ठानत्वाभ्युप-गमात् । नृशृङ्गमस्तीति शब्दाभासजन्यज्ञाने सत्त्वारोपं प्रति नृशृङ्गस्याधिष्ठानत्वाच्च । सर्वशून्य-त्वाङ्गीकार एव शून्यवादापत्तिः । तस्मान्नीलो घट इत्यादौ नील इत्याद्यधिष्ठानानुवेध इत्यापादनं साधु ।। अन्यथेति ।। मिथ्यात्वसिद्धिदशायामेवं कल्पन इत्यर्थः । यदि सत्यं ज्ञानमित्यत्र ब्रह्मणि सत्तासंबन्धेन न सत्त्वं किन्तु स्वरूपेणैवेति तर्हि घटादावपि तथेत्युक्तमिति समम् ।। कथमिति ।। न कथमपीत्यर्थः । तस्याप्रमाणत्वात् प्रमाणत्वेऽपि त्रिकालाबाध्यत्वग्रहाक्षमत्वात् प्रत्यक्षं न बाधकमिति भावः । तथैव विकल्पयति ।। किं प्रत्यक्षमिति ।। अक्षस्य त्विति ।।

ननु चन्द्रतारकादिपरिमाणप्रत्यक्षेऽनुमानागमविरोधेन तस्याप्रामाण्यदर्शनात् तेनापि स्वप्रामाण्यसिद्ध्यर्थमितराविरोधस्यावश्यमपेक्षणीयत्वात् कथमन्योन्याश्रयपरिहारः । किञ्च प्रत्यक्षागमयोः परस्परविरोधेनाप्रामाण्यसन्देहे अनाप्ताप्रणीतत्वादिना भ्रमाजनकत्वव्याप्तेर्वेद- प्रामाण्यनिश्चये जाते तेन सम्भावितदोषस्य प्रत्यक्षस्य बाध इति क्वान्योन्याश्रयः । अन्यथाऽऽ-त्मनो देहभिन्नत्वमपि न सिद्ध्येत् । देहात्मैक्यप्रत्यक्षबुद्ध्याऽनुमानागमयोर्बाधादिति चेन्मैवम् । प्रत्यक्षं न स्वप्रामाण्यसिद्ध्यर्थमनुमानागमविरोधपरिहारमपेक्षते । चन्द्रतारकादिपरिमाणप्रत्यक्षमपि नानुमानागमविरोधेनाप्रमाणम् । तत्र हि यद्दूरस्थत्वादिदोषयुक्तं तत् परिमाणादावयथार्थमिति पूर्वमेव विपरीतनिश्चयसत्त्वेन पश्चाज्जायमानं प्रत्यक्षं पूर्वतनप्रबलप्रत्यक्षविरोधादप्रमाणं बाधित-मेवोत्पद्यते, न पुनरनुमानागमविरोधेनाप्रामाण्यम् । न चैवमेव जगत्प्रत्यक्षमस्त्विति वाच्यम् । प्रकृते विपरीते निश्चायकाभावात् । मिथ्यात्वानुमानागमयोश्चाद्याप्यप्रामाण्यसन्देहान्तारनिविष्ट-त्वात् । मिथ्यात्वे प्रबलप्रत्यक्षस्याभावाच्च । तथाच प्रत्यक्षं स्वप्रामाण्यसिद्ध्यर्थं प्रत्यक्षेतर-विरोधपरिहारं नापेक्षते । तद्विरोधेनाप्रामाण्यादर्शनादिति युक्तमुक्तम् ।

यच्चोक्तमनाप्ताप्रणीतत्वादिना वेदे प्रामाण्यनिश्चय इति तन्न । क्रियाकारकफलभेदादि-प्रतिपादकागमे व्यभिचारात् । न च तस्यापि प्रामाण्यं तत्त्वावेदनलक्षणमङ्गीक्रियते । व्यावहारिकपराः कर्मादिप्रतिपादका इति स्वोक्तिविरोधात् । अपि च वेदेऽपि तात्पर्यभ्रमरूपो दोषोऽस्ति । तथा च कथं प्रत्यक्षरूपे विरोधिनि जाग्रति तदभिप्रेतेऽर्थे प्रामाण्यनिश्चयः । तथा चागमेन प्रत्यक्षस्य बाध इति शिष्यव्यामोहनमात्रम् । यच्चोक्तं प्रत्यक्षेणानुमानागमबाधे देहाद्भिन्नत्वमात्मनो न सिद्ध्येत् । देहात्मैक्यप्रत्यक्षबुद्ध्या बाधादिति, तन्न । आविपाल-गोपालदेहात्मभेदस्यैव प्रत्यक्षसिद्धत्वेन देहात्मैक्यभ्रमाभावात् । अन्यथेष्टसाधनताज्ञानानु-मित्यभावेन बालस्य स्तनपानादौ प्रवृत्त्यभावेन जीवनमेव न सिद्ध्येत् । न च देहात्मभेदज्ञाने संसारानुपपत्तिरिति वाच्यम् । स्वातन्त्र्यज्ञानेनैव तदुपपत्तेरिति दिक् ।

।। प्रत्यक्षस्यानुमित्यादित इति ।। प्राबल्यं च जात्यैवेत्यन्वयः । प्रत्यक्षस्यानुमानादितः प्राबल्ये हेतुः तदगृहीतेति । अनुमानाद्यगृहीतरेखोपरेखादिविशेषग्राहित्वादित्यर्थः । ननु तदगृहीतग्राहकत्वं न प्राबल्ये प्रयोजकम् । अन्यथा प्रत्यक्षागृहीतधर्मादिग्राहकत्वेनानुमानस्यैव प्राबल्यापत्तेरिति चेन्न । समानविषययोः प्रत्यक्षानुमानयोरनुमानागृहीतरेखोपरेखादिग्राहकत्वेन प्रत्यक्षस्य प्राबल्यमनुमानादुच्यते । दृष्टं च तथा कन्यासौन्दर्यासौन्दर्यविषययोः प्रत्यक्षानुमान-योरनुमानापेक्षया विशेषग्राहकत्वेन प्रत्यक्षस्य प्राबल्यम् ।। अनुमानाद्यनिवर्तितेति ।। नन्वनुमानाद्यनिवर्तितदिङ्मोहादिनिवर्तकत्वमपि प्राबल्ये न तन्त्रम् । एतावता हि वैधर्म्यमात्र-मुक्तम् । न च तावतेतरमानापेक्षया प्राबल्यं भवति । अन्यथा त्वाचप्रत्यक्षानिवर्तितवंशोरगभ्रम-निवर्तकत्वात् चक्षुषोऽपि त्वगपेक्षया प्राबल्यं स्यात् । तथा सति चित्रनिम्नोन्नतादिज्ञानस्य चाक्षुषस्य तद्विरोधित्वाचज्ञानाद्बाधो न स्यादिति चेन्मैवम् । अनुमानाद्यनिवर्तितदिङ्मोहादि-निवर्तकत्वं प्राबल्ये तन्त्रम् । लोके सम्यक् प्रतिपादकयोः पुरुषयोर्यद्वाक्यादज्ञाननिवृत्तिर्भवति तद्वाक्यस्य प्राबल्यव्यवहारात् । अन्यथा तु तन्न स्यात् । यच्चोक्तमन्यथेत्यादि तत्रोभयोः समबलत्वेऽपि सोपाधिकभ्रमे उपाधिनिवृत्तिसहितस्यैव भ्रमनिवर्तकत्वम् । वंशोरगभ्रमस्थले च त्वाचप्रत्यक्षस्य तत्समवहितत्वाभावादनिर्वतकत्वम् । एतावता त्वचो दुर्बलत्वापादकं न भवति । तेनान्यत्र त्वचोऽपि चाक्षुषभ्रमनिवर्तकत्वं सम्भवति । प्रकृते च प्रत्यक्षस्योपाधिनिवृत्तिरूप-सहकार्यनपेक्षत्वात् युक्तं प्राबल्यम् । तथा च प्रत्यक्षमनुमानादितः प्रबलं, तदनिवर्तितनिवर्तक-त्वादिति हेतौ उपाधिनिवृत्त्यसहकृतत्वेन विशेषणान्न त्वगनिवर्तितभ्रमनिवर्तके चक्षुषि व्यभिचार इति दिक् ।

।। दृष्टं हीति ।। ननु तत्र त्वाचप्रत्यक्षस्योपजीव्यत्वेनैव प्राबल्यम् । धर्म्यादेश्चक्षुरादिना सिद्धावपि साध्यप्रतियोगिन औष्ण्यस्य त्वचं विनाऽसिद्धेरिति चेन्न । शब्दादिना तत्सिद्ध्यु-पपत्तेः । अनुमाने हि साध्यज्ञानं कारणम् । तस्य चाभावरूपस्य ज्ञानं प्रतियोगिज्ञानाधीनम् । प्रतियोगिज्ञानं च शब्दादिनाऽपि धर्मादिज्ञानाद्भविष्यति । अनौष्ण्यस्य भावरूपताया वक्ष्य-माणत्वाच्च । शैत्यानुमाने तथाप्यगतेश्च । तथा चोदाहृतस्थले जात्यैव प्रत्यक्षस्य प्राबल्यमिति ।

।। प्राबल्यमागमस्येति ।। नन्वेवमद्वैतस्यापि वेदार्थत्वादीदृशे आगमस्यैव प्राबल्यमिति चेन्न । अत्र हि स एव वैदिकार्थो विवक्षितः यद्भावाभावविषये प्रत्यक्षं न प्रवर्तते । प्रकृते चाद्वैताभावो द्वैतं मिथ्यात्वाभावः सत्त्वं च प्रत्यक्षसिद्धमिति नाद्वैतस्य वेदार्थत्वम् । स्वोक्तेऽर्थे उपोद्बलकमाह ।। अत एवोक्तमिति ।।

न्यायामृतप्रकाशः

सन्घट इत्यादिप्रत्यक्षस्य घटादै सत्त्वाग्राहकत्वेन न तद्विरोधोऽनुमानस्येत्याशङ्कते ।। नन्विति ।। यथा इदं रूप्यमित्यत्र रूप्ये इदन्ताविरहात् अधिष्ठानभूतशुक्तिकायाम् इदन्त्वेन गृह्यमाणायां तत्रारोपितं रजतमपीदमिति भ्रमे निर्दिश्यते तथा सद्रूपे ब्रह्मणि घटादेरध्यस्तत्वेन तद्गतमेव सत्त्वं घटादौ व्यवह्रियते । तथा च न घटादौ सत्त्वं प्रत्यक्षविषय इत्यर्थः ।। उक्तत्वादिति ।। परिच्छिन्नत्वहेतुभङ्ग इति शेषः ।। अन्योन्याश्रयादिति ।। घटादेरारोपितत्वसिद्धौ सत्त्वाभावसिद्धिः तत्सिद्धौ चाधिष्ठानगतमेव सत्त्वं प्रतीयते न वस्तुत इत्येतत्प्रमेयसिद्ध्या आरोपितत्वसिद्धि-रित्यन्योन्याश्रयादित्यर्थः । प्रतिबन्दीं गृह्णाति ।। अन्यथेति ।। सदित्यधिष्ठानगतमेव सत्त्वं प्रतीयत इत्यङ्गीकार इत्यर्थः । ननु सत्यंज्ञानमित्यत्र सदित्यधिष्ठानानुवेधो न भवति । ब्रह्मणः सद्रूपत्वात् घटादौ त्वधिष्ठानानुवेध एव तस्य मिथ्यात्वादित्यत आह ।। न हीति ।। तथा च ब्रह्मैव सद्रूपमन्यन्मिथ्येति विभागासिद्धौ सत्यं ज्ञानमित्यत्र सत्यमिति नाधिष्ठानानुवेधः । सन्घट इत्यत्रतु तदनुवेध इति प्रमेयद्वयसिद्धिस्तत्सिद्धौ चोक्तविभागसिद्धिरित्यन्योन्याश्रय इत्यर्थः । एवं च यथा सत्यं ब्रह्मेत्यत्र ब्रह्मगतमेव सत्त्वं प्रतीयते न त्वधिष्ठानगतं, एवं सन्घट इत्यत्रापि घटगतमेव सत्त्वं प्रतीयत इत्यङ्गीकार्यमिति भावः ।

प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपमिथ्यात्वसाधकानुमानस्य प्रत्यक्षविरोधे नास्तीत्या-शङ्कते ।। नन्विति ।। आत्यन्तिकाबाध्यत्वं कालत्रयेऽपि सत्त्वम् । तथा च ग्राह्याभावानवगाहित्वान्न विरोध इति भावः । ननु वर्तमानकालीनबाधाभावग्राहकत्वमात्रेणैव विरोधोऽस्त्वित्यत आह ।। तात्कालिकेति ।। तात्कालिकबाधाभावश्च न वस्तुसत्त्वसाधकः । तथात्वे रूप्यादेरपि तदापातादिति भावः । आद्यपक्षस्य त्रेधा विकल्पितत्वान्नाद्यावित्युक्तम् । तयोः अनुमानागमयोः ।। मानेति ।। प्रत्यक्षरूपप्रमाणाविरोधेनेत्यर्थः । ननु भवत्पक्षेऽप्यन्योन्याश्रयः । प्रत्यक्षस्य प्रामाण्ये तद्विरोधादनु-मानादेरप्रामाण्यं तयोरप्रामाण्ये तद्विरोधाभावात्प्रत्यक्षस्य प्रामाण्यमितीति चेन्न । प्रत्यक्षप्रामाण्य-सिद्धेरनुमानादिविरोधाभावानपेक्षत्वान्नान्योन्याश्रय इत्याह ।। अक्षस्य त्विति ।। प्रबलस्य दुर्बल-विरोधाभावापेक्षा नास्तीत्यत्र दृष्टान्तमाह ।। न हीति ।। ‘‘पोतस्तोकोऽर्भको डिम्भः पृथुकः शावकः शिशु’’रित्यभिधानम् ।

स्यादयमन्योन्याश्रयपरिहारः यदि प्रत्यक्षस्यानुमानादितः प्राबल्यं स्यात्तदेव कुत इत्यतः तस्यानुमानादितो जात्या प्राबल्यं समर्थयते ।। प्रत्यक्षस्येति ।। प्रत्यक्षस्यानुमानादितः प्राबल्यं च तदसाध्यकार्यकारित्वेन । तच्च कार्यं द्विविधम् । तदगृहीतार्थविषयकत्वं तदनिवर्त्यनिवर्तकत्वं चेत्यभिप्रेत्योक्तम् ।। तदगृहीतेत्यादि ।। अनुमित्याद्यगृहीतवस्तुगतरेखोपरेखादिग्राहकत्वादित्यर्थः । दिङ्मोहादीति ।। प्रतीच्यां प्राचीत्वारोपेनेयं प्राचीत्याद्याप्तवाक्यजन्यज्ञाने नेयं प्राची सूर्योदयशून्यत्वा-दित्याद्यानुमानिकज्ञाने च सत्यपि यावत्प्रत्यक्षेण सूर्योदयादिकं न पश्यति तावत्स भ्रमो न निवर्तत इत्यर्थः । ननु धर्मिप्रतियोग्यादिग्राहकत्वेनोपजीव्यतयैव प्राबल्यं लोके दृष्टं, तदतिरिक्तं जात्या प्राबल्यं नाम कीदृशमित्यतस्तद्दर्शयति ।। दृष्टं हीति ।। वह्निः शीत इत्यनुमाने स्पार्शनप्रत्यक्षस्य प्राबल्येन बाधकत्वं तावदस्ति । तत्र प्राबल्यं कथमिति प्रष्टव्यम् । धर्मिग्राहकत्वेनोपजीव्यत्वादिति चेन्न । चक्षुरादिना धर्मिभूतवह्नेः सिद्धत्वात् । नाप्यनौष्ण्यप्रतियोग्यौष्ण्यग्राहकत्वेनोपजीव्यत्वं सम्भवति । स्यादेतदेवं यद्यनौष्ण्यं साध्यं स्यात् । न चैवं, भावरूपस्य शैत्यस्य साध्यत्वात् । तदिदमुक्तं वह्निशैत्येति । तथा च एतादृशस्थले धर्मिप्रतियोगिग्राहकत्वादिना प्रत्यक्षस्योप-जीव्यत्वाद्यभावेऽपि केवलं जात्यैव प्राबल्यं दृष्टमित्यर्थः । नन्वेवं प्रत्यक्षस्यैवानुमानागमाभ्यां जात्या प्राबल्ये ‘‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृत’’मिति ब्रह्मतर्कवचनविरोध इत्यत आह ।। प्राबल्यमिति । वैदिकपरब्रह्मादिरूपार्थनिर्णयविषये आगमस्यैव जात्या प्राबल्यम् । अत्र तु घटादि-प्रपञ्चरूपलौकिकार्थस्य प्रस्तुतत्वात्तद्विषये जात्या प्रत्यक्षस्य प्राबल्याभिधाने न तद्विरोध इत्यर्थः । अत एवेति ।। एवं लौकिकार्थविषये प्रत्यक्षस्यैव जात्या प्राबल्यदर्शनादेवेत्यर्थः । उक्तं भगवत्पादैः ।

न्यायकल्पलता

सन्घट इति प्रत्यक्षस्य घटादौ सत्वाग्राहकतया  न तद्विरोधो दृश्यत्वादेरिति शङ्कते । नन्विति । रूप्ये इदन्ताविरहेण इदं रूप्यमित्यत्राधिष्ठानभूतशुक्तिकायामिदंत्वेन गृह्यमाणायां तदभिन्नतया गृह्यमाणं रजतमपीदमिति यथा निर्दिश्यते तथा सद्रूपे ब्रह्मणि घटादेरप्यध्यस्तत्वेन सद्रूपब्रह्माभिन्नत्वादधिष्ठान-ब्रह्माभिन्नत्वेन भाने तद्गतमेव सत्वं घटादौ व्यवह्रियते । तथा च न घटादौ सत्वं प्रत्यक्षविषय इत्यर्थः । दृष्टान्तवैषम्येण दूषयति । न चाक्षुषादीति । उक्तत्वादिति ।। परिच्छिन्नत्वहेतुभङ्ग इति शेषः । न च रूपादिहीनस्यापि कालादिन्यायेन स्फुरणमस्त्विति देश्यम् । साक्ष्युपनीतस्य कालादेश्चाक्षुषादि-ज्ञानेऽधिकरणतया भानवद्ब्रह्मभानकल्पने प्रमाणाभावात् । इदानीं रूपमिति कालोल्लेखवत् ब्रह्मोल्लेखा-भावेन ब्रह्मणस्तद्विषयत्वाभावात् । अतिप्रसङ्गेनापि सन्घट इत्यादि चाक्षुषादिज्ञाने ब्रह्मभानं निराकरोति । नीलो घट इति । वैषम्येणाशङ्कते । नैल्यादिकमिति । नेति । घटादेरनारोपितत्वेन सत्वाभावकल्पने प्रमाणाभावादित्यर्थः । अप्रामाणिकस्य तस्य कल्पनां दूषयति । अन्यथेति । न हीति । एवं च यथा सत्वं ब्रह्मेत्यत्र ब्रह्मण्येव सत्वं प्रतीयते न त्वधिष्ठानगतं तथा सन् घट इत्यत्रापि घटगतमेव सत्वं प्रतीयत इत्यभ्युपेयमिति भावः ।

ननु सद्ब्रह्मेति सद्ब्रह्मणोः सामानाधिकरण्यस्याबाधितत्वात्तत्र तथाऽस्तु न तु घटे । सन्नित्यस्य घट इत्यनेन सामानाधिकरण्यस्य बाधितत्वात् । तथा हि । सत्ताजातिस्फुरणनिबन्धनं वा स्वरूपसत्वनिबन्धनं वा कालत्रयाबाध्यत्वनिबन्धनं वा सामानाधिकरण्यं स्यात् । न चाभावादिसाधारणसत्प्रतीतौ जातिस्फुरणं सम्भवति । अभावादिषु त्वयाऽपि तदनङ्गीकारात् । न च क्वचित्साक्षात्सम्बन्धेन क्वचित्परंपरासम्बन्धेन सदिति प्रतीत्युपपत्तिः । विजातीयसम्बन्धेन समानाकारप्रतीत्यनुपपत्तेः । अन्यथा सम्बन्धभेद एव न सिध्येत् । न च स्वरूपसत्वेनाभावादौ तत्प्रतीतिः । अननुगमात् । अननुगतेनाप्यनुगतप्रतीतौ जाति-मात्रोच्छेदप्रसङ्गात् । अत एव न सर्वत्रापि स्वरूपसत्वेनैव  सद्व्यवहारः । एकेनैव सर्वानुगतेन सर्वत्र सत्प्रतीत्युपपत्तौ बहूनां तद्धेतुत्वकल्पने मानाभावात् । नापि कालत्रयाबाध्यत्वनिबन्धनं तत् । तस्य चक्षुराद्यगम्यत्वस्योक्तत्वात् । सदिदं रजतमित्यादिभ्रमे अभावाच्च । तस्मादेकं सर्वाधिष्ठानमेव सदिति सर्वत्रानुभूयत इति युक्तम् । नीलादेस्तु घटादिसामानाधिकरण्ये किमपि नास्ति बाधकम् । न वा नीलादेरधिष्ठानत्वं सम्भवति । प्रागसत्वात् । नीलपीतादिप्रातिस्विकानन्ताधिष्ठानकल्पने गौरवात् । अधिष्ठेयतुल्ययोगक्षेमत्वाच्च । अधिष्ठेयविषमसत्ताकमेव ह्यधिष्ठानं भवति । मिथ्या रूप्यमसन्नृशृङ्ग-मित्यादौ मिथ्याऽसतोरधिष्ठानत्वशङ्काऽपि नास्ति । शून्यवादापत्तेः । यत्तु सत्यं ज्ञानमित्यत्रापि तथा स्यादिति । तन्न । यतो न तत्र सत्तासम्बन्धेन सत्वं किन्तु स्वरूपेणैवेत्युक्तदोषानवकाशात् । न चैवं घटादावपि स्वरूपेणैव तथात्वे पूर्वमेव निराकृतत्वादिति ।

मैवं सन्घट इति व्यवहारस्य सत्ताजातिस्फुरणनिबन्धनत्वे बाधकाभावात् । न चाभावादिषु सत्ताजातिविरहात्सद्व्यवहारानुपपत्तिः । तत्रापि समवायेतरसम्बन्धेन सत्ताजातेः सत्वे बाधकाभावात् । क्वचित् साक्षात्सम्बन्धेन क्वचित्परम्परासम्बन्धेन सदिति प्रतीत्युपपत्तेश्च । न च विजातीयसम्बन्धेन समानाकारप्रतीत्यनुपपत्तिः । लौहितः स्फटिक इति प्रतीतेरेकाकारायाः  साक्षात्परम्परासम्बन्धान्यतर-विषयत्वे अप्रमात्वस्य प्रमात्वस्य च सर्वैरुपपादितत्वात् । नीलो घटो, नीलो गुणो, नीलं वस्त्रं, नीलं रूपमिति प्रतीतीनामेकाकारत्वेऽपि सम्बन्धभेदाच्च । न च भेदासिद्धिः । असाधारण्येन तत्तत्सम्बन्ध-गोचरबुद्धेरेव तत्सिद्धेः । सर्वत्र स्वरूपसत्वनिबन्धनाद्वा सद्व्यवहारः । न चाननुगमो दोषाजन्यप्रत्यक्षत्वा-वच्छिन्नं षोढा सन्निकर्षस्य हेतुत्ववदुपपत्तेः । तव मते दृश्यत्वस्यानेकविधत्वेऽपि एकविधमिथ्या-त्वानुमितिवत्प्रमेयत्वादेरननुगमेऽप्यनुगतव्यवहारवच्च तत्सम्भवाच्च । सत्यं ब्रह्मेति व्यवहारः स्वरूपसत्ता-निबन्धनः, सन्घट इति व्यवहारस्तु अधिष्ठानसत्तानुवेधनिबन्धन इति सद्व्यवहारं प्रत्येकप्रयोजकाला-भादननुगमस्य तव मतेऽपि तदवस्थत्वाच्च ।

वस्तुतस्तु । निरुक्तरूपसत्त्वेनैव सर्वत्र सदिति व्यवहारः । तस्य च यथा प्रत्यक्षत्वं तथोपपादितम् । न च नीलादेरधिष्ठेयघटाद्यधिकसत्ताविरहान्नाधिष्ठानत्वमिति देश्यम् । घटादेरधिष्ठान-त्वेनाभिमतस्य ब्रह्मणोऽपि घटाद्यधिकसत्ताया असम्प्रतिपत्तेः । ब्रह्मणि तत्सत्यमित्यादिश्रुतेरिव सन्घट इति प्रत्यक्षस्यापि घटादौ ब्रह्मसमानसत्त्वग्राहकस्य सत्त्वात् । न च मिथ्या रूप्यमसन्नृशृृङ्गमित्यादौ मिथ्यासतोऽरधिष्ठानत्वशङ्कापि नास्ति । शून्यवादापत्तेरिति वाच्यम् । वियदादेः सर्वस्य मिथ्यात्वे किं न शून्यवादापातः । अधिष्ठानमात्रसत्यत्वस्य च शून्यवादेऽपि सत्वात् । न च नीलादेः प्रागसत्वेन घटाद्यनधिष्ठानत्वम् । नीलादेः प्राक्सत्वस्यापि कल्प्यत्वात् । आपादने च प्रमाणविरोधस्यालङ्काराच्च । अन्यथेष्टापादनं स्यात् । किञ्च अधिष्ठेयात्प्रागधिष्ठानसत्वमध्यासहेतुधर्मिज्ञानजनकेन्द्रियसन्निकर्षार्थं वाच्यम् । न च सन्मात्रब्रह्मरूपार्थसन्निकर्षोऽस्ति । केवलस्येन्द्रियागोचरत्वात् । घटानुुविद्धस्येन्द्रिय-गोचरत्वे तु एकवित्तिवेद्यत्वान्नाधिष्ठेयाधिष्ठानभावः । न च ब्रह्मणि स्वतःसिद्धे जगदारोपयितुं युक्तम् । स्वतःसिद्धेर्निरस्तत्वान्निरशिष्यमाणत्वाच्च । तस्माद्यदि सन्घट इत्यत्राधिष्ठानब्रह्मानुवेधः स्यात्तर्हि नीलो घट इत्यादावपि नीलादिरूपाधिष्ठानानुवेध एव स्यादिति साधूक्तम् । अधिष्ठेयस्य घटादेरप्यनुगतत्वेन नीलाद्यननुगमस्यादोषत्वादिति ।

सदिदं रजतमिति शुक्तिरूप्यादिप्रत्यक्षसमानयोगक्षेमस्य सन्घट इति प्रत्यक्षस्यानुमित्सितमिथ्यात्व-बाधकत्वं नोपपद्यत इति शङ्कते । ननु तथापीति । सत्त्वग्राहित्वेऽपीत्यर्थः । स्वतः प्राप्तस्येति । स्वाश्रयग्राहकेण गृहीतत्वादित्यर्थः । ननु प्रत्यक्षस्य प्रामाण्ये निश्चिते तद्विरोधेनानुमानागमयोरप्रामाण्यं, सति च तस्मिन्मानान्तरविरोधेेन प्रत्यक्षस्य प्रामाण्यमित्यन्योन्याश्रयः सम एवेत्यत आह । प्रत्यक्षस्य तु प्रबलस्य प्रामाण्यमिति । अनुमानादिभ्यः प्रत्यक्षस्य जात्या तावत्प्राबल्यं समर्थयते । प्रत्यक्षस्यानु-मित्यादित इति । कथमन्यथौष्ण्यप्रत्यक्षेण वह्निशैत्यानुमितिप्रतिबन्ध इति भावः । ननु तत्रोपजीव्यत्व-निबन्धनं प्रत्यक्षस्य बाधकत्वमत आह । दृष्टं हीति । धर्म्यादेश्चक्षुरादिनैव सिद्धेस्त्वचोऽनुपजीव्यत्वा-दित्यर्थः । ननु त्वाचप्रत्यक्षस्याप्युपजीव्यत्वेनैव शैत्यानुमितिप्रतिबन्धकत्वम् । चक्षुरादिना धर्म्यादिग्रहेऽपि त्वचं विना साध्यप्रसिद्धेरभावात् । तथा च न जात्या प्राबल्ये मानमस्ति । तदगृहीतग्राहित्वमपि न प्राबल्ये प्रयोजकम्् । प्रत्यक्षागृहीतधर्मादिग्राहकत्वेन परोक्षप्रामाण्यस्यैव प्राबल्यापत्तेः । नाप्यनुमानाद्य-निवर्तितदिङ्मोहादिनिवर्तकत्वेन प्राबल्यम् । एतावता हि वैधर्म्यमात्रं सिद्धम् । न च तावतेतरप्रमाणा-पेक्षया प्राबल्यं भवतीति ।

मैवम् । वह्निः शीतो नेति त्वाचप्रत्यक्षस्य यदा शैत्यानुमितिप्रतिबन्धकत्वं तदा पयसि शीतस्पर्श-ग्राहिणः साध्यप्रसिद्धिहेतोस्त्वाचप्रत्यक्षस्योपजीव्यस्य वह्नौ शीतस्पर्शाभावग्राहिणो बाधकत्वादुपजीव्यतया प्राबल्यम् । यदा पुनरुष्णो वह्निरिति उष्णस्पर्शग्राहिणस्त्वाचप्रत्यक्षस्य शैत्यानुमितिप्रतिबन्धकत्वं तदा विषयभेदादुक्तानुमित्युपजीव्येन न बाधः । शैत्यविरहव्याप्यौष्ण्यग्राहिणा प्रत्यक्षेणानुपजीव्येनैव प्रतिबन्धात् । न ह्युष्णस्पर्शः शीतस्पर्शविरहः । तयोः स्पर्शत्वव्याप्यजातिविशेषावच्छिन्नत्वात् । न च साध्यविरहव्याप्यावगाहिज्ञानत्वेनानुमितिप्रतिबन्धकत्वस्यानुमानादिसाधारण्यात् प्रत्यक्षत्वेनेष्टं प्राबल्यं भज्येतेति देश्यम् । प्रतीचीत्वविरहव्याप्याचिरोदितसूर्यमण्डलशालित्वज्ञानेऽपि प्राच्यां प्रतीचीत्वभ्रमा-निवृत्तेः । तदेतभिसन्धायोक्तम् ।। औष्ण्यप्रत्यक्षस्येति ।

यद्वा शैत्यानुमित्याद्यनिवर्तितपीतभ्रमनिवर्तकजातिविशेषावच्छिन्नज्ञानकरणत्वेन प्रत्यक्षस्य प्राबल्यम् । नन्वनुमानाद्यनिवर्तितभ्रमनिवर्तकत्वात् प्रत्यक्षप्राबल्ये त्वाचप्रत्यक्षानिवर्तितमण्डूकवसाक्तनयनजन्यवंशोरग-भ्रमनिवर्तकत्वाच्चक्षुषोऽपि त्वगपेक्षया प्राबल्यं स्यात् । अथ यदिन्द्रियजन्यो यो भ्रमः स तदिन्द्रियजन्य-विशेषदर्शननिवर्त्य इत्यङ्गीक्रियेत तर्हि चित्रनिम्नोन्नतज्ञानस्य चाक्षुषस्य तद्विरोधित्वाच ज्ञानाद्बाधो न स्यात् । ततश्चक्षुरनिवर्तितभ्रमनिवर्तकत्त्वा त्वचोऽपि चक्षुरपेक्षया प्राबल्यमापन्नमिति चेन्न । दोष-विशेषस्यैव तत्र हेतुत्वात् । न हि जात्यैव कश्चिद्दोषोऽस्ति । क्वचित्कश्चिद्दोष इत्यङ्गीकारात् । चित्रे अवैषम्यावगाहित्वाचज्ञानेन दूरादिदोषनिवृत्तौ चक्षुषैव समूलघातं भ्रमनिवृत्तेश्च । मण्डूकवसांजनदोषेण हि दुष्टस्य चक्षुषो वंशोरगभ्रमानिवर्तकत्वम् । क्वचिद्दूरादिदोषेण वा । अदुष्टस्य तु चक्षुषः पुरैव त्वचो वंशोरगभ्रमादिनिवर्तकत्वम् । न च प्रत्यक्षागृहीतधर्मादिग्राहकत्त्वेन परोक्षप्रामाण्यस्यैव प्राबल्यापत्तिः । स्वयोग्यविषये प्रत्यक्षप्राबल्यस्याभिप्रेतत्वात् । धर्मादेस्तु तदयोग्यत्वात् । न च प्रत्यक्षसामग््रया अनुमिति-सामग््रयपेक्षया बलवत्वेन पर्वते वह्निप्रत्यक्षं स्यादिति युक्तम् । लौकिकप्रत्यक्षहेतोर्विशेषणेन्द्रिय-सन्निकर्षस्याभावात् । स्वविषये विशेषणग्राहकत्वस्य प्रत्यक्षे प्राबल्यबीजत्वाच्च । न च लिङ्गपरामर्शानन्तरं तद्द्वारा तदनुव्यवसायो वा स्यादिति वाच्यम् । भिन्ने विषये अनुमितिसामग््रया बलवत्वात् ।

प्रत्यक्षस्य जात्या प्राबल्ये ब्रह्मतर्कवचनेन विरोधं परिहरति । प्राबल्यमागमस्यैवेति ।। वैदिकार्थ-विषयं वेदैकसमधिगम्यार्थविषयमित्यर्थः । अन्यथा ‘अनुक्तं पञ्चभिर्वेदैर्न वस्त्वस्ति कुतश्चन’ इति वाक्यविरोधः । न च चन्द्रतारकाद्यल्पपरिमाणग्राहिप्रत्यक्षस्यागमबाध्यत्वं स्यादिति वाच्यम् ।  यद्दूर-स्थत्वादिदोषयुक्तं तत्प्रत्यक्षे तत्परिमाणादावयथार्थमिति साक्षिणैव तस्य भ्रमत्वनिश्चयेन तत्र प्रवर्तमान-स्यागमस्याबाधकायितत्वेनाबाधकत्वादिति वक्ष्यमाणत्वात् । न चाद्वैतस्यापि  वैदिकार्थत्वमिति युक्तम् । स्वप्रकाशब्रह्मात्मभूतस्यैक्यस्य त्वन्मते वेदवेद्यत्वायोगात् । औते प्रमाणाभावस्य वक्ष्यमाणत्वाच्च ।

क्व चेति । न चैतत्परीक्षितप्रामाण्यप्रत्यक्षविषयमिति देश्यम् । सन्घट इति प्रत्यक्षस्यापि फलपर्यन्तं परीक्षितत्वात् । त्वयाऽपि परोक्षज्ञानेनानिवृत्तस्य भेदभ्रमस्यापरोक्षज्ञानेन निवृत्तेः स्वीकाराच्च । अनुभूयते चानुमानादिभ्यो विश्वासहेतुः प्राबल्यं प्रत्यक्षे । न हि श्रुते अनुमिते वा दृष्ट इवाश्वासः । दीक्षणीयेष्टेरर्थवादेऽपि प्रत्यक्षस्यागमाद्यपेक्षया प्राबल्यं श्रूयते । तथा ह्यैतरेयब्राह्मणे । ‘‘तस्माद्दीक्षितेन सत्यमेव वदितव्यमथो खल्वाहुः । कोऽर्हति मनुष्यः सत्यं वदितुं सत्यसंहिता वै देवा अनृतसंहिता मनुष्या इति । विचक्षणवतीं वाचं वदेच्चक्षुर्वै विचक्षणं । विधानेन पश्यतीति । एतद्वै मनुष्येषु सत्यं निहितं यच्चक्षुस्तस्मादाचक्षाणमाहुरद्रागिति स यद्यदर्शमित्याह अथ हास्य श्रद्दधति यस्तु वै स्वयं पश्यति न बहूनां च नान्येषां श्रद्धधाति तस्माद्विचक्षणवतीमेव वाचं वदेत्सत्योत्तरा हैवास्य वागुदिता भवति’’ इति । अत्र दीक्षितस्य सत्यवदनं विधाय सत्यवाक्त्वं देवधर्मो मनुष्याणामशक्य इति अथो खल्वाहु-रित्यनेन पूर्वपक्षयित्वा चक्षुःसंवादिवदनमेव सत्यवदनमिति सिद्धान्तितं विचक्षणवतीं वाचं वदेदित्यनेन । तत्र विचक्षणवतीमित्यनेन कथं चक्षुःसंवादित्वमुक्तमित्यपेक्षायां विचक्षणशब्दस्य चक्षुःपरत्वं योगेनेत्युक्तं विधानेन पश्यतीति । एतच्चक्षुः सर्वप्रमाणापेक्षया सत्यं बलवत् । अत एव वक्तारं पृच्छन्ति । अद्राक् दृष्टवानिति ।  स वाक्योच्चारयिता । यद्यदर्शं अपश्यमित्याह तर्हि श्रद्धधति तद्वचनम् । नान्यथा । तस्मात् श्रुतिसिद्धं प्रत्यक्षस्य प्राबल्यम् ।

न्यायामृतसौगन्ध्यम्

ननु ‘इदं रूप्य’मित्यत्र इदमितिवत् ‘सन् घटः’ इत्यत्रापि सदित्यधिष्ठानभूतं ब्रह्मैव भातीति चेन्न दृश्यत्वाद्यापत्तेरुक्तत्वात्, किञ्चैवं नीलो घटः, असन्नृशृङ्गमित्यादावपि नील इत्यादिरधिष्ठानानुवेधः स्यात् । न च नैल्यादिकं घटादिष्वस्ति सत्त्वं तु नेति वाच्यम् । अस्यारोपितत्वसिध्युत्तरकालीन-त्वेनान्योन्याश्रयात् । अन्यथा सत्यं ज्ञानमित्यत्रापि सत्यमित्यधिष्ठानानुवेध एव स्यात् । ननु सन्नित्यस्य घट इत्यनेन सामानाधिकरण्यस्य बाधितत्वात् । तथा हि– सत्ताजातिस्फुरणनिबन्धनं वा स्वरूप-सत्त्वनिबन्धनं वा कालत्रयाबाध्यत्वनिबन्धनं वा सामानाधिकरण्यं स्यात् । न चाभावादिसाधारण-सत्प्रतीतौ जातिस्फुरणं सम्भवति । अभावादिषु त्वयापि तदनङ्गीकारात् । घटादिरूपद्रव्यादौ सत्तायाः समवायसम्बन्धेन द्रव्यादिकं सदिति प्रतीतिः अभावादिषु सत्तावदनुयोगिद्रव्यादिवृत्तित्वेनाभावादिकं सदिति प्रतीतिरत एव सत्ता सतीति प्रतीतिरपि सत्तायां सत्रावद्द्रव्यादिवृत्तित्वरूपसत्तात्ववत्वेन लीला-वतीकृद्भिः अङ्गीक्रियते । अत एव गुणादिषु द्वित्वबहुत्वादिसमानाधिकरणद्रव्यत्ववद्वृत्तित्वमत्तया द्वित्वबहुत्वादिसङ्ख्याप्रतीतिरपि तर्करसिकैः स्वीक्रियते । अत एव गुणत्वादिषु द्रव्यत्वाद्यभावे सन्निति प्रतीतिः सत्तावद्वृत्याश्रितत्वरूपपरम्परासम्बन्धेन निर्विशङ्कमुपपद्यते इति न कोऽपि दोषः । न च क्वचित्साक्षात्सम्बन्धेन क्वचित्परम्परासम्बन्धेन सदिति प्रतीत्युपपत्तिः । विजातीयसम्बन्धेन समानाकार-प्रतीत्यनुपपत्तेः । अन्यथा सम्बन्धभेद एव न सिध्येत् । न च स्वरूपसत्वेनाभावादौ तत्प्रतीतिः । अननुगमात् । अननुगतेनाप्यनुगतप्रतीतौ जातिमात्रोच्छेदप्रसङ्गात् । अत एव न सर्वत्रापि स्वरूपसत्त्वेनैव सद्व्यवहारः । एकैनैव सर्वानुगतेन सर्वत्र सत्प्रतीत्युत्पत्तौ बहूनां तद्धेतुत्वकल्पने मानाभावात् । नापि कालत्रयाबाध्यत्वनिबन्धनं तत् । तस्य चक्षुराद्य(गम्य)योग्यत्वस्योक्तत्वात् । सदिदं रजतमित्यादिभ्रमे अभावाच्च तस्मादेकं सर्वाधिष्ठानमेव सदिति सर्वत्रानुभूयत इति युक्तम् । नीलादेस्तु घटादिसामानाधि-करण्येऽपि किमपि नास्ति बाधकम् । न वा नीलादेरधिष्ठानत्वं सम्भवति, प्रागसत्त्वात् । नीलपीतादि-प्रातिस्विकानन्ताधिष्ठानकल्पने गौरवात् । अधिष्ठेयेन तुल्ययोगक्षेमत्वाच्च । अधिष्ठेयविषसत्ताकमेव ह्यधिष्ठानं भवति । मिथ्या रूप्यं असन्नृशृङ्गगमित्यादौ मिथ्यात्वासत्त्वयोरधिष्ठानशङ्कापि नास्ति शून्यवादापत्तेरिति चेन्न । अनित्यो घटः नीलो घटः पीतो घट इत्यादाविव सन्नित्यत्रापि सत्तायाः घटधर्मत्वात् । न हि त्वदभिमतं सर्वासङ्गि निर्विशेषं ब्रह्म घटधर्मो भवति ।

किञ्च तादात्म्यभानं हि केनचिद्रूपेणैव स्यात् । त्वदभिमतनिर्विशेषस्य सतस्तदसम्भवात् सन्निति सत्ताजातिस्फुरणम् । न च सामान्यादौ सत्ताभावेन सदिति व्यवहारो न स्यादिति वाच्यम् । एकार्थप्रत्यासत्या तत्रापि सत्वात् । न च द्रव्यादित्रये साक्षादन्यत्र परम्परया, अन्यत्रैव स्वरूप-सम्बन्धेनाभावत्वादिवदखण्डोपाधिः सत्ता वर्तते । द्रव्यादित्रये तु स्वरूपसम्बन्धघटितपरम्परया वेति विनिगमनाविरह इति वाच्यम् । जन्यसत्वावच्छिन्नं प्रति द्रव्यत्वेनोपादानत्वमावश्यकम् । अन्यथा कपालरूपोपादानकारणस्य स्वसमवायिसमवेतत्वसम्बन्धेन घटादाविव कपालरूपादावपि सत्वात्तत्रापि रूपादिकमुत्पद्येत इति द्रव्यादित्रये सत्तासमवायस्य आवश्यकत्वात् तद्घटितपरम्परासम्बन्धेनान्यत्र सत्तासम्बन्धस्य सत्वात् । अन्यत्र सत्तायाः स्वरूपसम्बन्धोक्तेरयुक्तत्वात् । न च एक एव नीलारुणादिव्यक्तय इत्यस्मिन्मते रूपादीनामाकाशवदविद्यादिजन्यत्वे कपालरूपाद्यजन्यत्वेनोक्तयुक्त्य-सम्भव इति वाच्यम् । एवं हि घटादीनामपि नित्यत्वं स्यात् । किञ्चान्वयव्यतिरेकसिद्धकार्यकारण-भावस्याभिव्यङ्ग्यअभिव्यञ्जकत्वादिना त्वयोपपादनीयत्ववात् । तथा च त्रसरेणुगतरूपस्य स्वसमवायि-समवेतत्वसम्बन्धेन चतुरणकादिरूपाभिव्यञ्जकत्वं वाच्यम् । तथा च स्वसमवायिसमवेतत्व सम्बन्धेन त्रयसरेणुरूपेण त्र्यसरेणुरसादौ रूपाभिव्यक्तिः स्यात् । अभिव्यङ्ग्यसत्वावच्छिन्नं प्रति द्रव्यत्वेन समवायितया अभिव्यञ्जकत्वमावश्यकम् । स्वरूपसत्वेन सत्वस्फुरणम् । न चैकसत्वेनैवानुगत-प्रतीतिसम्भवे अनेकसद्रूपत्वाङ्गीकारोऽनुचित इति वाच्यम् । सद्ब्रह्मेत्यत्र स्वरूपसत्त्वस्फुरणं, सन् घट इत्यत्राध्यासिकसत्त्वमिति तवाप्येकसत्त्वाभावात् । प्रपञ्चमिथ्यात्वस्याद्याप्यसिद्धत्वेन प्रपञ्चाधिष्ठानतया ब्रह्मणः सदाकारबुद्धौ घटादितादात्म्येन भानासम्भवात् । यत्तु घटादितादात्म्येन भासमानत्वं प्रति उपादानत्वप्रयुक्तस्य घटादितादाम्यस्यैव हेतुत्वमिति, तन्न त्वन्मते अज्ञानस्यैव परिणाम्युपादानत्वेन ब्रह्मणस्तदभावात् । ब्रह्मणो हि विवर्ताधिष्ठानस्वरूपमुपादानत्वम् । तच्च विश्वमिथ्यात्वसिद्धेः प्रागसम्भवि । विशिष्टस्य परिणाम्युपदानत्वस्वीकारे  तस्यानधिष्ठानत्वात् ।

अननुगमादित्यशुद्धम् । तवापि घटपटादिविशिष्टसद्रूपस्यापि नानात्वात् । नापीत्याद्यसाधु ‘तस्य चाक्षुषत्वं ह्युपपादितम् । सदिदं रजतमित्यशुद्धं, सद्ब्रह्म सदिदं रजतमित्यत्र तवाप्यनुपपत्तेस्तुल्यत्वात् । तस्मादित्यशुद्धं, सद्ब्रह्मेेत्यत्राधिष्ठानसद्रूपस्याभावात् । अतस्तवापि नैकानुगतं सत्त्वं, न वा नीलादे-रित्यप्ययुक्तम् । विश्वमिथ्यात्वसिद्धेः प्राक् ब्रह्मणोऽधिष्ठानत्वासिद्धेः । नीलपीतेत्याद्यशुद्धं, घटपटादि-तादात्म्यापन्नस्य सतस्तवापि नानात्वाच्च  । शुद्धस्य चक्षुराद्यगम्यत्वात् । अधिष्ठेयेत्ययुक्तम् । ब्रह्मणोऽपि जगतो अधिकसत्ताकत्वस्याद्याप्यसिद्धेः । प्रमाणसिद्धवियदादिमिथ्यात्वाङ्गीकारे शून्यवादापत्तेस्तुल्यत्वात् । यत्तु सत्यं ज्ञानमित्यत्रापि तथा स्यादिति न युक्तं तर्हि न सत्तासम्बन्धेन सत्वं किन्तु स्वरूपेणैवेति नोक्तदोष इति तन्न । घटादावपि स्वरूपेणैव तथात्वात् । किञ्च जातीयप्रत्यक्षं प्रबलं अनुमानागम-बाधकं, नानुमानागमौ तद्बाधकौ, प्रत्यक्षाप्रामाण्ये तद्विरोधाभावेनानुमानागमयोः प्रामाण्यं, तयोः प्रामाण्ये च तद्विरोधात् प्रत्यक्षाप्रामाण्यमित्यन्योन्याश्रयात् ।

ननु चन्द्रतारकादिपरिमाणप्रत्यक्षे अनुमानागमविरोधेन तस्याप्रामाण्यदर्शनात् । तेनापि स्वप्रामाण्य-सिध्यर्थमितराविरोधो अपेक्षणीयः । तथा च तुल्योऽन्योन्याश्रय इति चेन्न । परीक्षितप्रत्यक्षस्यैवानु-मानादिबाधकत्वोक्तेः । अन्यथा स्वापि्नकाद्वैतश्रुतेर्बाधितार्थकत्वदर्शनेन त्वदभिमताद्वैतश्रुतावपि अप्रामाण्यशङ्कासम्भवात्प्रत्यक्षस्य जात्यैव प्राबल्यं विना वह्निशैत्यानुमितिप्रतिबन्धकत्वानुपपत्तेः । न च तत्रोपजीव्यत्वनिबन्धनं तत् । धर्म्यादेश्चक्षुरादिनैव सिद्धेः । न च त्वाचप्रत्यक्षस्य उपजीव्यत्वेनैव शैत्यानुमितिप्रतिबन्धकत्वं त्वचं विना साध्यप्रसिद्धेरभावात् । अतो न जात्या प्राबल्ये मानमस्तीति वाच्यम् । शाब्दादिनापि साध्योपस्थितिसम्भवेन तदर्थं नियमेन त्वचोऽनपेक्षणात् साध्यविशेष्यकानुमितौ साध्यप्रसिद्धेरपेक्षणाच्च । किं चानुमानाद्यगृहीतरेखोपरेखादिग्राहकत्वादक्षस्य प्राबल्यम् । न च प्रत्यक्षा-गृहीतधर्म्यादिग्राहकत्वेनानुमानादेरप्यक्षात् प्राबल्यं स्यादिति वाच्यम् धर्मादेरक्षायोग्यत्वेन तत्र प्रत्यक्षाप्रसरात् मानानामेकत्र प्रसङ्गे हि प्राबल्यादिविचारः । किं चानुमानाद्यनिवर्तितदिङ्मोहादि-निवर्तकत्वेनापि अक्षस्य प्राबल्यम् । न चैतावता वैधर्म्यमात्रं सिद्धं नेतरप्रमाणापेक्षया प्राबल्यम् । अन्यथा त्वाचप्रत्यक्षानिवर्तितवंशोरगभ्रमनिवर्तकत्वेन चक्षुषोपि त्वगपेक्षया प्राबल्यं स्यात् । ततश्च चित्रनिम्नोन्नतज्ञानस्य चाक्षुषस्य तद्विरोधित्वाचज्ञानाद्बाधो न स्यादिति वाच्यम् । क्वचित्तूलकपिण्डादौ पाषणत्वस्य चाक्षुषस्य त्वचा निवृत्तिदर्शनेनानयोः प्राबल्यदौर्बल्यादेरेकतरस्य नियन्तुमशक्यत्वात् । ‘‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्’’ । इति तु वैदिकार्थविषयम् । न चाद्वैतमपि वैदिकं, तस्य सर्वमानविरुद्धत्वात् । न च वैदिके प्रत्यक्षाप्राप्तिः । भीष्मः प्रसारितं शंतनुहस्तं त्यक्त्वा कुशोपर्येव पिण्डं दत्तवान् ।। यदर्थं हि पिण्डदानं तस्य हस्तः प्रत्यक्षश्चेत्तत्रैव प्रसक्त्तं पिण्डदानं शास्त्रात्तु कुशोपरि अतो हि तत्र प्राबल्यम् । क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितमिति स्मृत्याऽक्षस्य प्राबल्यमुक्तम् । न च परीक्षितप्रामाण्यं प्रत्यक्षविषयं, सन्घट इति प्रत्यक्षस्यापि सुतरां परीक्षितत्वात् ।

न्यायामृतमाधुरी

अथेदं रजतमिति विपर्यस्तरजतस्याधिष्ठानेदन्तातिरेकेणेदन्तानङ्गीकारेऽपि ताद्रूप्येण गृह्यमाणेऽ-धिष्ठाने तदभिन्नमिदं रजतमित्यादिनिर्देशाः यथा सङ्गच्छन्ते । तद्वद्घटादिजगतः सद्रूपे ब्रह्मण्यध्यस्त-तयाऽधिष्ठानसत्तातिरेकेण तदनङ्गीकारेऽपि तत्तादात्म्यभानेऽधिष्ठानगतमेव सत्त्वमवलम्बमानाः सन् घट इत्यादिनिर्देशा अपि युज्यन्ते इति तादृशप्रत्यक्षस्य घटादौ सत्त्वानवगाहितया न तद्बाधः प्रकृतानुमितेरित्याशङ्कते । नन्विति ।। उक्तत्वादिति । परिच्छिन्नत्वहेतुभङ्ग इति पूरणीयम् । इदानीं रूप्यमिति कालोल्लेखवद्ब्रह्मोल्लेखाभावेन नीरूपस्यापि ब्रह्मणस्तादृशकालस्येव स्फुरणमस्त्विति शङ्का सुदूरनिरस्तैव ।

अत्राद्वैतसिद्धिकारः । सन्नित्यस्य घट इत्यनेन सामानाधिकरण्यस्य बाधितत्वात् । तथा हि सत्ताजातिस्फुरणनिबन्धनं वा स्वरूपसत्त्वनिबन्धनं वा कालत्रयाबाध्यत्वनिबन्धनं वा सामानाधिकरण्यं स्यात् । न चाभावादिसाधारणसत्प्रतीतौ सत्ताजातिस्फुरणं सम्भवति । अभावादिषु त्वयाऽपि तदनङ्गीकारात् । न च क्वचित्साक्षात्सम्बन्धेन क्वचित्परम्परासम्बन्धेन सदिति प्रतीत्युपपत्तिः । विजातीयसम्बन्धेन समानाकारप्रतीत्यनुपपत्तेः । अन्यथा सम्बन्धभेद एव न सिध्येत् । न च स्वरूपसत्वेनाभावादौ तत्प्रतीतिः, अननुगमात् । अननुगतेनाप्यनुगतप्रतीतौ जातिमात्रोच्छेदप्रसङ्गात् । अत एव न सर्वत्रापि सत्त्वेनैव सद्व्यवहारः । एकेनैव सर्वानुगतेन सर्वत्र सत्प्रतीत्युपपत्तौ बहूनां तद्धेतुत्वकल्पने मानाभावात् । नापि कालत्रयाबाध्यत्वनिबन्धनं तत् । तस्य चक्षुराद्यगम्यत्व-स्योक्तत्वात् । सदिदं रजतमित्यादिभ्रमे अभावाच्च । तस्मादेकं सर्वाधिष्ठानमेव सदिति सर्वत्रानुभूयत इति युक्तम् । नीलादेस्तु घटादिसामानाधिकरण्ये किमपि नास्ति बाधकम् । न वा नीलादेरधिष्ठानत्वं सम्भवति । प्रागसत्त्वात् । धूमे नीलपीतादिप्रातिस्विकानन्ताधिष्ठानकल्पने गौरवात् । अधिष्ठेयेन तुल्ययोगक्षेमत्वाच्च । अधिष्ठेयविषमसत्ताकमेव ह्यधिष्ठानं भवति । मिथ्या रूप्यं असन्नृशृृङ्गमित्यादौ मिथ्यात्वासत्तयोरधिष्ठानशङ्कैव नास्ति । शून्यवादापत्तेः । तत्र चानुपपत्तिरुक्ता वक्ष्यते च । यत्तु सत्यं ज्ञानमनन्तम् इत्यत्रापि तथा स्यादिति । तन्न । यतो न तत्र सत्तासम्बन्धेन सत्त्वं, किन्तु स्वरूपेणै-वेत्युक्तदोषानवकाशात् । न चैवं घटादावपि स्वरूपेणैव तथात्वम् । पूर्वमेव निराकृतत्वादित्यवोचत् ।

तदतिस्थवीयः । नीलो घटः, अनित्यो घट इत्यादाविव सन्नित्यत्रापि सत्तारूपस्य घटधर्मस्यैव भानात् । त्वदभिप्रेतनिर्विशेषसर्वासङ्गिब्रह्मणो घटधर्मित्वेन भानायोगात् । सन् घट इत्यादिव्यवहाराः सत्ताजातिस्फुरणनिबन्धना एव । परन्तु सा च जातिर्द्रव्यादित्रितये साक्षात्सम्बन्धेन । निःसामान्ये तु समवाय–स्वरूपसम्बन्धादिघटितसामानाधिकरण्येन भासते । सम्बन्धभेदेऽपि घटाश्चतुर्विंशति-र्गुणाश्चतुर्विशतिः पञ्च घटाः, पञ्च कर्माणि, द्वौ घटौ, द्वे सामान्ये, चत्वारो घटाश्चत्वारो भावा इत्यादितुल्यजातीयप्रतीतेर्नैय्यायिकादिभिरुपपादितत्वात् । उक्ताध्यवसायबलेनैव सम्बन्धभेदस्यापि सिद्धत्वात् । त्वन्मतेऽपि सन् घट इत्यादिव्यवहारा अधिष्ठानसत्तानुविद्धाः । सत्यं ब्रह्मेत्यादिकस्तु स्वरूपसत्तयेत्यननुगमतादवस्थ्येन स्वरूपसत्वनिबन्धनताकल्पोऽपि साधीयानित्यादिकमन्यत्रैव प्रपञ्चितमितीहोपरम्यते ।।

प्रत्यक्षस्य स्वेतरप्रमाणावधिकबलीयस्तां प्रत्यक्षत्वजातिनियन्त्रितां समर्थयते । प्रत्यक्षस्येति । जात्यैव प्रत्यक्षत्वेनैव, न त्वन्यमानाविरुद्धप्रत्यक्षत्वादिना । तथा च प्रत्यक्षपक्षकं तादृशप्राबल्य-साध्यकं ग्राहित्वान्तहेतुकं निवर्तकत्वान्तहेतुकं चौष्ण्यप्रत्यक्षनिदर्शनकमनुमानं ध्वनितम् । निदर्शने साध्यं सङ्गमयति । दृष्टं हीति ।। (ननु)प्रकृतकार्यौपयिकधर्म्यादिग्रहजननायावश्यमुपेयमुपजीव्यं, तथाविधं चक्षुरादिकमेव न स्पार्शनप्रत्यक्षमपि, तस्य चोपजीव्यत्वेनैव शैत्यानुमितिप्रतिबन्धकत्व-सम्भवात् । चक्षुरादिना धर्मादिग्रहेऽपि त्वचं विना साध्यप्रसिद्धेरभावात् । तथा च न जात्या प्राबल्ये मानमस्ति । तदगृहीतग्राहित्वमपि न प्राबल्ये प्रयोजकम् । प्रत्यक्षागृहीतधर्मादिग्राहकत्वेन परोक्ष-प्रमाणस्य प्राबल्यापत्तेः । नाप्यनुमानाद्यनिवर्तितदिङ्मात्रादिनिवर्तकत्वेन प्राबल्यम् । एतावता हि वैधर्म्यमात्रं सिद्धं न च तावता इतरप्रमाणापेक्षया प्राबल्यं भवति । अन्यथा त्वाचप्रत्यक्षानिवर्तिते वंशोरगभ्रमनिवर्तकत्वाच्चक्षुषोऽपि त्वगपेक्षया प्राबल्यं स्यात् । ततश्च चित्तनिम्नोन्नतज्ञानस्य चाक्षुषस्य तद्विरोधित्वाचज्ञानाद्बाधो न स्यादित्याह । तद्रभसात् । चक्षुरादिना धर्म्यादेरिव शब्दादिना साध्यस्यापि सुग्रहतया साध्यप्रसिद्धेस्त्वगेकनिबन्धनत्वाभावात् । तत्प्रमाणग्रहणयोग्यतायां सत्यामपि तदगृहीतग्राहित्वं तदपेक्षया प्राबल्यहेतुरिति न परोक्षप्रमाणस्यापरोक्षात्प्राबल्यापत्तिः । तदनिवर्तित-निवर्तकत्वमपि तादृगेव । मण्डूकवसाञ्जनदोषेण यदा चक्षुर्दूषितं न तदा तेनापि वंशोरगभ्रमो निवर्तते । तादृशदोषसमवधानदशायां तु त्वाचेनापि स निवर्तत इत्यादिकमन्यत्र विवेचितमिति नेह विवेचनीयम् ।

प्रत्यक्षस्य जात्या प्राबल्ये आगमस्य तदवगमकब्रह्मतर्कवचनेनाविरोधं दर्शयति । प्राबल्य-मागमस्यैवेति । अद्वैतस्य निष्प्रमाणताया अभिधास्यमानतया न तस्य वैदिकत्वमिति भावः । क्व चेति । सन् घट इति प्रत्यक्षस्यापि फलपर्यन्तं परीक्षिततया न क्षतिरिति भावः ।

Load More