यच्चोच्यते जपाकुसुमस्थं लौहित्यं स्फटिक इव मनस्स्थं कर्तृत्वमात्म-न्यध्यस्तम्..

६७. कर्तृत्वाध्यासभङ्गः

न्यायामृतम्

यच्चोच्यते जपाकुसुमस्थं लौहित्यं स्फटिक इव मनस्स्थं कर्तृत्वमात्म-न्यध्यस्तम्, न तु तात्त्विकम् आत्मनो निर्विकारत्वात्, सुषुप्तौ बुद्ध्य-भावेनाकर्तृत्वदर्शनात्, श्रुत्यादिविरोधाच्चेति । तत्र ब्रूमः–

प्रत्येकं स्फटिके पुष्पे भवेद्रक्तत्वबुद्धिवत् ।

चिति बुद्धौ च कर्तृत्वसाक्षात्कारः कदाचन ।।

भवितव्यं हि बुद्धिस्थस्य कर्तृत्वस्यात्मन्यारोपे रक्तं कुसुममितिवत् कदाचिन्मनः कर्त्रिति प्रत्यक्षप्रमया, रक्तः स्फटिक इतिवत्कदाचिच्चैतन्यं कर्त्रिति भ्रमेण च । न हि बुद्धिस्थं कर्तृत्वमप्रत्यक्षम् । ननु मन-श्चैतन्यात्मनाऽध्यस्तं कुसुमं तु न स्फटिकात्मनेति वैषम्यमिति चेन्न, अधिष्ठानात्मनाऽनध्यस्तं जपाकुसुमादिस्थानीयमुपाधिं विना भीषणत्वा-दियुक्तसर्पस्य रज्ज्वात्मनेव कर्तृत्वादियुक्तबुद्धेः चिदात्मनाऽध्यासे रज्जौ भीषण-त्वान्तरस्येवात्मनि कर्तृत्वान्तरस्यानध्यासेन तदध्यासस्य सोपाधिकत्वा-योगात् । मनो न स्फुरणम्, किं तु स्फुरतीति तयोर्भेदधीदशायामपि प्रत्येकं कदापि कर्तृत्वाप्रतीतेश्च । इदं सर्पयोः शरीरात्मनोश्चाभेदग्रहणदशायामप्ययं भीषणः सर्पो भीषणः अहं गौरः शरीरं गौरमितिवत् मनश्चितोरभेदग्रह-दशायामपि स्फुरणं कर्तृ, मनः कर्त्रिति धीप्रसङ्गाच्च । न चोपाधेरधिष्ट-नात्मनाऽध्यासेऽप्युपाधेस्तद्धर्मस्य वाऽधिष्ठानसमसत्ताकत्वं वाऽध्यस्यमाना-दधिकसत्ताकत्वं वा सोपाधिकत्वे तन्त्रमिति वाच्यम्, आद्ये त्वन्मते बुद्धे-स्तत्कर्तृत्वस्य च चित्समसत्ताकत्वाभावेन सोपाधिकत्वायोगात् । द्वितीये बुद्धिगतकर्तृत्वस्य पारमार्थिकताया वा आत्मस्थकर्तृत्वस्य प्रातिभासिकताया वा प्रसङ्गात् । उभयत्रापि नीरे क्षीरत्वाध्यासस्यापि सोपाधिकत्वापाताच्च । एतेन कर्तृत्वं बुद्धिगतमहमर्थेऽहमर्थगतं वाऽऽत्मन्यध्यस्यते । ततश्चैतन्यं कर्त्रिति मनः कर्त्रिति च प्रतीत्यभावो युक्त इति निरस्तम् । आद्ये आत्मन्यारोपितस्याप्यनर्थाभावेन बुद्धेरेवाहमर्थस्यैव वा बन्धमोक्षापातात् । द्वितीयेऽहमर्थस्थेनानध्यस्तकर्तृत्वेनैवाहं कर्तेति प्रतीत्युपपत्त्या आत्मनि तद-ध्यासासिद्धेः । किं च मनसः कर्तृत्वेऽपि करणत्वप्रसिद्धिविरोधः ।

अपि च कर्ता शास्त्रार्थवत्त्वादित्यधिकरणे त्वयापि साङ्ख्यरीत्या बुद्धेः कर्तृत्वे प्राप्ते जीवस्येति सिद्धान्तितत्वेन तद्विरोधः । बुद्ध्यात्मनोरविवेकस्य साङ्ख्यमतेऽपि सत्त्वात् । किं च–

बन्धस्य तदपायेन कृतेस्तत्फलभाक्तया ।

सामानाधिकरण्याच्च न बुद्धेः कर्तृता मता ।।

तथा हि– कर्तृत्वभोक्तृत्वाद्यनर्थरूपो बन्धो बुद्धिगतश्चेत् ततो मोक्षोऽपि तद्गतः स्याद्, बन्धमोक्षयोः सामानाधिकरण्यात् । अज्ञानमपि हि दुःखादि-भोगद्वारैवानर्थः । न च बुद्धिगतं सत्यं भोक्तृत्वादिकं नानर्थः, किं तु तदुपाधिकं मिथ्या भोक्तृत्वादिकमिति वाच्यम्, एतत्कल्पनायाः कर्तृत्वा-ध्याससिद्ध्यधीनत्वेनान्योन्याश्रयात् । मोक्षस्य सत्यस्यैव पुरुषार्थत्ववद् भोक्तृत्वादिरूपबन्धस्यापि सत्यस्यैवानर्थत्वाच्च । तदुक्तं वार्तिके बौद्धं प्रति–

न हि स्वप्नसुखाद्यर्थं धर्मे कश्चित्प्रवर्तते ।

यादृच्छिकत्वात्स्वप्नस्य तूष्णीमास्येत पण्डितैः ।। (श्लो.वा.) इति ।

स्थूलः करोमि स्थूलोऽहं भुञ्ज इत्यादिप्रतीत्या देहस्याप्यनर्थान्वयापाताच्च । नापि बुद्ध्युपाधिकमात्मस्थं भोक्तृत्वादिकमनर्थः, न तु देहस्थमिति वाच्यम्, अनर्थाश्रयस्यात्मनोऽनर्थकोटित्वायोगात् । भ्रमकालेऽहं भोक्तेति प्रमाकाले तु बुद्धिर्भोक्त्रीत्येव प्रतीत्या शुद्धात्मनि कदापि तदप्रतीतेश्च । अपि च मनसः श्रवणादिकर्तृत्वे तत्फलं मोक्षोऽपि तस्यैव स्यात् । ‘शास्त्रफलं प्रयोक्तरि’ इति न्यायेन यस्मिन् साधनकृतिः, तस्यैव फलभाक्त्वात् । अन्यथा कृतहाना-कृताभ्यागमापातात् । जातेष्टावपि पित्रर्थपुत्रगतं पूतत्वादिकं तदनुष्ठातुः पितुरेव फलम्, तेन तदुद्देशात् । न चात्रात्मान्तःकरणार्थः येनात्मगतो मोक्षो मनस उद्देश्यः स्यात् । आर्त्विज्यादेरपि दक्षिणैव फलम् ।

नन्वारोपितमेव वा आत्मारोपितमेव वा कर्तृत्वं फलान्वये तन्त्रमिति चेन्न, निरस्तत्वात् । सत्यकर्तृत्ववत्या बुद्धेः सांसारिकफलभोक्तृत्वापाताच्च । न चोभयं तन्त्रम्, अननुगमात् । अपि च कृतिकर्मत्वकरणत्वादीनां मनसि श्रुतेः बुद्ध्यभावेऽपि कर्तृत्वश्रुतेर्बुद्धेर्न कर्तृता । श्रूयते हि ‘तन्मनोऽकुरुत’ इत्यादौ मनसः कृतिकर्मत्वम् । तथा ‘शृृण्वन्तः श्रोत्रेण विद्वांसो मनसा’ इत्यादिश्रुतौ ‘शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नर’ इत्यादिस्मृतौ च करणत्वम् । तथा ‘मन उदक्रामत् मीलित इवाश्नन् पिबन्नास्तैव’ इत्यादौ मनस उत्क्रमणेऽप्यात्मनः कर्तृत्वम् । तथा ‘एतं प्राणमयमात्मानमुपसङ्क्रम्य’ ‘एतं मनोमयमात्मानमुपसङ्क्रम्य’ ‘इमांल्लोकान् कामान्नी कामनरूप्यनुसञ्चरन्’ इत्यादौ त्वद्रीत्या प्राणाद्यतिक्रमणेऽपि सञ्चरणादिकर्तृत्वम् । तथा ‘परं ज्योति-रुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स तत्र पर्येति जक्षन् क्रीडन् रममाणः’ इत्यादौ स्वरूपाविर्भावरूपपरममुक्तावपि कर्तृत्वम् । अपि च–

अहं करोमीत्यध्यक्षात् फलभाक्त्वादिलिङ्गतः ।

कर्ताऽऽत्मेत्यादिवाक्याच्च स्थितं कर्तृत्वमात्मनः ।।

न चाहं करोमीत्यादिप्रत्यक्षेण (१) विमत आत्मा मोक्षसाधनविषय-कृतिमान्, तत्फलान्वयित्वात्, सम्मतवत् । (२) अज्ञानं ज्ञानसमानाधि-करणम्, ज्ञाननिवर्त्यत्वात्, ज्ञानप्रागभाववत् । (३) दुःखादिभोगः मोक्ष-समानाधिकरणः, बन्धत्वात्सम्मतवदित्याद्यनुमानैः, ‘कर्ता विज्ञानात्मा यो वेदेदं जिघ्राणीति स आत्मा, आनन्दभुक् तथा प्राज्ञ’ इत्यादिश्रुतिभिश्च सिद्धे आत्मनः कर्तृत्वादौ बाधकमस्ति । न च श्रुतिरनुवादः । अहमर्थान्यात्मस्थ-कर्तृत्वस्य ‘नामरूपे व्याकरोत् स हि सर्वस्य कर्ता’ इत्यादि श्रुत्युक्तेश्वरस्थ-कर्तृत्वस्य च प्रत्यक्षेणाप्राप्तेः । न च निर्धर्मकत्वं बाधकम् । निर्धर्मकत्व-रूपधर्मभावाभावाभ्यां व्याघातात् । ज्ञानत्ववत्, सौषुप्तिकाज्ञानादिसाक्षित्व-वत्, बुद्धिं प्रति बुद्ध्यविशिष्टस्य ज्ञातृत्ववच्च सत्यस्यासत्यस्य वा ज्ञातृत्वादे-रप्यात्मन्येव सम्भवाच्च । नापि निष्क्रियत्वं बाधकम् । क्रियाया धात्वर्थत्वे आत्मन्यप्यस्त्यादिधात्वर्थसत्तादेः सत्त्वेनासिद्धेः । परिस्पन्दत्वे ज्ञानादीनाम-परिस्पन्दत्वेनाप्रयोजकत्वात् । नापि निर्विकारत्वं बाधकम् । आकाशस्य संयोगाद्याश्रयत्व इवात्मनोऽज्ञानतद् ध्वंसाद्याश्रयत्व इव च ज्ञानरूपगुणाश्रय-त्वेऽपि द्रव्यान्तरत्वापत्तिरूप विकारानापातात् । न च सुषुप्तौ मनसोऽभावे कर्तृत्वाद्यदर्शनं बाधकम्, तदाऽप्युच्छ्वासादिकर्तृत्वदर्शनात् । सुप्तौ भूर्भूरित्येव प्रश्वसितीत्यादिश्रुतेश्च । देहादिवन्मनसो निमित्तत्वेनापि तदुपपत्तेश्च । नापि श्रुतिर्बाधिका । विज्ञानं यज्ञं तनुते इति श्रुतेः विज्ञानं ब्रह्म चेद्वेद तस्माच्चेन्न प्रमाद्यति, शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्नुत’ इत्यादिवाक्यशेषेण ब्रह्मपरत्वात् । ‘कामः सङ्कल्प’ इत्यारभ्य ‘एतत्सर्वं मन एव’ इतिश्रुतेः ‘मनसा वा अग्रे सङ्कल्पयति’ इत्यादिश्रुत्या मनःकरणकत्वपरत्वात् । ‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ इति श्रुतेरात्मनो भोक्तृत्वे देहादि-वन्मनसः सहकारितेत्येवम्परत्वात् । ‘ध्यायतीव लेलायतीव’ इत्यादिश्रुता-विवशब्दस्य परतन्त्रप्रभौ प्रभुरिवेतिवत् जीवस्थकर्तृत्वस्येश्वरतन्त्रत्वपरत्वात् । ‘अहङ्कारविमूढात्मा कर्ताहमिति मन्यत’ इति स्मृतेरपि जीवे स्वातन्त्र्य-निषेधकत्वात् ।

तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।

पश्यत्वकृतबुद्धित्वान्न स पश्यति दुर्मतिः ।।

इत्यादि वाक्यशेषात् । अन्यथोक्तश्रुत्यादिविरोधात् । न च कर्तृत्वस्य क्लेशसम्बन्धान्न श्रुतिस्तत्परा । दर्शपूर्णमासादावप्यतात्पर्यापातात् । लीलादे-रुच्छ्वासादेश्चाकरण एव क्लेशदर्शनाच्च । यदा वै करोत्यथ तिष्ठतीति श्रुत्यैव कर्तृत्वस्य फलसम्बन्धोक्तेश्चेति ।

अद्वैतसिद्धि:

ननु कर्तृत्वं यद्यनात्मधर्मः स्यात् कथमात्मनि भासेत? न च जपाकुसुमस्थं लौहित्यं स्फटिक इवान्तःकरणगतं कर्तृत्वमात्मन्यध्यस्तं, न तु तात्त्विकम्, निर्विकारत्वश्रुति-विरोधात्, सुषुप्तौ बुद्ध्यभावेऽकर्तृत्वदर्शनाच्चेति वाच्यम् । एवं हि ‘रक्तं कुसुमम्’ इतिवत् कदाचिद् मनःकर्त्रिति प्रत्यक्षप्रमा ‘लोहितः स्फटिकः’ इतिवत् चैतन्यं कर्त्रिति भ्रमश्च स्यादिति चेन्न, कर्तृत्वविशिष्टान्तःकरणस्य चैतन्यात्मनाध्यासेन न तथा प्रतीतिः, कुसुमस्य तु स्फटिकात्मना नाध्यास इति वैषम्यात् । न च अधिष्ठानात्मनाऽनध्यस्तजपाकुसुम-स्थानीयमुपाधिं विना भीषणत्वादियुक्तसर्पस्य रज्ज्वात्मनेव कर्तृत्वादियुक्तबुद्धेश्चिदात्मनाध्यासे रज्जौ भीषणत्वान्तरस्येवात्मनि कर्तृत्वान्तरस्यानध्यासेन सोपाधिकत्वं न स्यादिति वाच्यम् । आत्मनि कर्तृत्वान्तरस्यैवाध्यासात् । न च तर्हि कर्तृत्वद्वयस्य विविच्य प्रतीतिः स्यात् । आत्मान्तःकरणयोरैक्याध्यासात् । रज्जुसर्पादौ अध्यस्यमानक्रूरत्वादिविशिष्टसर्पापेक्षया अधिकसत्ताकस्य सर्पान्तरस्य सम्भवेन नायमुपाधिः, अतो निरुपाधिकत्वम् । अत्र त्वध्यस्यमानान्तःकरणापेक्षया कर्तृत्वादिधर्मविशिष्टमन्यदधिकसत्ताकं नास्त्येवेति अन्तःकरण-मत्रोपाधिरिति न सोपाधिकत्वानुपपत्तिः । न च एवमपि मनो न स्फुरणम्, किन्तु स्फुरतीति तयोर्भेदधीदशायां प्रत्येकं ‘रक्तं कुसुमं’ ‘स्फटिको रक्तः’ इतिवत् ‘मनः कर्तृ’ ‘चैतन्यं कर्तृ’ इति प्रतीत्यापत्तिरिति वाच्यम् । तादात्म्यारोपविरोधिभेदग्रहस्यैव तत्प्रयोजकत्वात् । प्रकृते च तदभावात् । यत्त्वभेदग्रहदशायामपि ‘अयं भीषणः सर्पो भीषणः, अहं गौरः शरीरं गौरम्’ इतिवत् ‘मनः कर्तृ’ ‘चैतन्यं कर्तृ’ इति प्रतीतिः स्यादिति । तन्न । तादात्म्यग्रहस्यैव प्रतिबन्धकस्य सत्त्वेन दृष्टान्तस्यैवासम्प्रतिपत्तेः ।

यदपि सोपाधिकत्वे तन्त्रत्वेनाधिष्ठानसमसत्ताकत्वमुपाधेः तद्धर्मस्य वा, अध्यस्य-मानापेक्षयाधिकसत्ताकत्वं वा तयोरिति पक्षद्वयमुद्भाव्य प्रकृते तद्द्वयं न सम्भवतीति दूषणाभिधानम्, तदनुक्तोपालम्भनम्, यदन्वयव्यतिरेकानुविधायितया यत्प्रतीयते तदपेक्षया अधिकसत्ताकतद्धर्माश्रयान्तराभावस्यैव सोपाधिकत्वे तन्त्रत्वात् । न चैवं क्षीरसम्पृक्त-नीरैक्याध्यासनिबन्धनक्षीरधर्मप्रतीतिः सोपाधिकी स्यात्, तस्याः सोपाधिकत्वे इष्टापत्तेः । ननु बुद्धिगतं कर्तृत्वं किमहमर्थे, अहमर्थगतं वात्मनि अध्यस्यते । आद्ये आरोपित-स्याप्यनर्थस्यात्मन्यभावे तस्य बन्धमोक्षानधिकरणत्वापत्तिः, द्वितीये अनध्यासेनैव ‘अहं कर्ता’ इति प्रतीत्त्युपपत्तौ किमध्यासेनेति चेन्न, अहङ्कारस्तु चिदचिद्ग्रन्थिरूपतया द्व्यंशः । तत्राचिदंशे बुद्धौ कर्तृत्वसत्त्वेऽपि तद्विशिष्टाया बुद्धेश्चित्यैक्याध्यासं विना ‘अहं कर्ता’ इति प्रतीतेरयोगेनाध्यासस्यावश्यकत्वात् । एतेन आरोपितकर्तृत्वस्याप्यभावे आत्मनो बन्धमोक्षा-नधिकरणत्वं स्यादिति निरस्तम् ।

न च ‘कर्ता शास्त्रार्थवत्त्वात्’ इत्यधिकरणे त्वयाऽपि साङ्ख्यरीत्या बुद्धेः कर्तृत्वे प्राप्ते, जीवस्यैवेति सिद्धान्तितत्वेन विरोधः । न चाविवेकनिबन्धनं जीवनिष्ठत्वम्, अविवेकस्य साङ्ख्यमतेऽपि सत्त्वादिति वाच्यम् । बुद्धेरेव कर्तृत्वम्, भोक्तृत्वं चैतन्यस्येति पूर्वपक्षं कृत्वा कर्तृत्वभोक्तृत्वयोरैकाधिकरण्यनियमेन भोक्तृत्ववत् कर्तृत्वमप्यङ्गीकर्तव्यमित्युक्तम्, न तु बुद्धेः अकर्तृत्वं आत्मनो वा स्वाभाविकं कर्तृत्वमिति । ‘यथा च तक्षोभयथा’ इत्युत्तराधि-करणे पूर्वाधिकरणोक्तस्यात्मकर्तृत्वस्य स्वाभाविकत्वपूर्वपक्षे औपाधिकत्वस्य स्थापितत्वात् । अतो न तदधिकरणविरोधः ।

यदपि बुद्धेः कर्तृत्वे करणत्वं कथमिति ? तदप्ययुक्तम् । अन्यत्र कर्त्र्या एव बुद्धेरुप-लब्धिं प्रति करणत्वोपपत्तेः । न च कर्तृत्वाद्यनर्थरूपबन्धस्य बुद्धिगतत्वेन मोक्षस्यापि तदन्वयापत्तिः, अनर्थतन्निवृत्त्योरैकाधिकरण्यनियमादिति वाच्यम्, कर्तृत्वादेश्चेतनगततयैवा-नर्थतया बुद्धेरनर्थानाश्रयत्वात् । न च चैतन्यगतस्यानर्थत्वे चैतन्यस्याप्यनर्थकोटौ निवेशा-पत्तिः, आत्मसबन्धित्वेनैवानर्थस्य हेयत्वेनात्मनोऽपि हेयत्वं सर्वमतेऽपि स्यात् । आरोपितत्वपुरस्कारेणानर्थत्वाभावात् नान्योन्याश्रयः । न च शुद्धात्मनः कदापि नानर्था-श्रयत्वेन प्रतीतिः, भ्रमकाले अहं भोक्ता प्रमाकाले बुद्धिर्भोक्त्रीति प्रतीतेरिति वाच्यम्, शुद्धस्य भोक्तृत्वाद्यनर्थानाश्रयत्वेऽपि उपहितस्य शुद्धात्स्वाभाविकभेदाभावेन बन्धमोक्षसामानाधि-करण्योपपत्तेः । एतेन बुद्धिः श्रवणादिकर्त्रीति तस्या एव फलं मोक्षोऽपि स्यादिति वाच्यम्, ‘शास्त्रफलं प्रयोक्तरि’ इति न्यायाद्, अन्यथाऽतिप्रसङ्गादिति निरस्तम्, जातेष्टिपितृयज्ञयो-र्व्यभिचारात् । न च पूतपुत्रकत्वं स्वर्गभागिपितृकत्वं वा कर्तृगतमेव फलम्, तस्य फलत्वेनाश्रवणात् । न च तादृक्पुत्रकत्वं फलेन सम्बन्धः, न तु फलमिति वाच्यम्, एवं हि संयुक्तसमवायादिना पित्रन्यस्यापि तत्फलं स्यात्, अशास्त्रीयत्वाविशेषात् । न च पित्रर्थ-पुत्रगतं पूतत्वादिकं तदनुष्ठातुः पितुरेव फलम्, तेन तदुद्देशात्, न चेहात्मा अन्तःकरणार्थः येनात्मगतो मोक्षः तस्योद्देश्यः स्यादिति वाच्यम्, आत्मा यद्यपि नान्तःकरणार्थः, अहमर्थ-गततया तथापि फलस्योद्देश्यत्वानुभवाद् अहमर्थस्य चात्मानात्मरूपत्वेनात्मन्यपि फले उद्देश्यगतत्वानपायात् । यद्वा आरोपितानारोपितसाधारणं कर्तृत्वमेव फलभाक्त्वे प्रयोजकम्, तच्चात्मन्यस्त्येव । न च शरीरेऽप्यारोपितकर्तृत्वेन फलभाक्त्वापत्तिः, फलपर्यन्तमसत्त्वेन फलभाक्त्वासम्भवात् । न हि कर्तुः फलभाक्त्वनियमं ब्रूमः, किन्तु फलभाजः कर्तृत्वनियमम्, अजनितफलकर्मकर्तरि व्यभिचारात्, अप्रयोजकत्वाच्च ।

ननु मनसः कर्तृत्वं न घटते, कृतिकर्मत्वस्य करणत्वस्य च तद्विरोधिनः श्रुत्यादि-सिद्धत्वाद्, बुद्ध्यभावेऽपि कर्तृत्वस्य श्रूयमाणत्वाच्च । तथा हि– ‘तन्मनोऽकुरुत’ इत्यादौ मनसः कृतिकर्मत्वम्, ‘शृृण्वन्तः विद्वांसो मनसे’त्यादिश्रुतौ ‘शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नरः’ इत्यादिस्मृतौ च करणत्वम्, ‘मन उदक्रामन्मीलित इवाश्नन् पिबन्नास्तैव’ इत्यादिश्रुतौ मनउत्क्रमणेऽप्यात्मनः कर्तृत्वम्, तथा ‘परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स तत्र पर्येति जक्षन् क्रीडन् रममाण’ इत्यादौ स्वरूपाविर्भावरूपपरममुक्तावपि कर्तृत्वं ‘कर्ता विज्ञानात्मा यो वेदेदं जिघ्राणीति स आत्मा’ ‘आनन्दभुक्त्या प्राज्ञ’ इत्यादिश्रुतितश्च कर्तृत्वम्, तथा च बुद्धिर्न कर्त्रीति चेन्न, ‘विज्ञानं यज्ञं तनुते’ इत्यादिश्रुत्या मनसः कर्तृत्वेन स्वकृतिकर्मत्वविरोधेऽपि तत्रेश्वरकृतिकर्मत्वस्य उपलब्धिं प्रति करणत्वस्य चाविरोधाद्, ईश्वरे अविद्यावृत्तिरूपज्ञानेच्छावत् तद्रूपकृतिसम्भवात् । न च विज्ञानपदं ब्रह्मपरम्, ‘विज्ञानं ब्रह्म चेद्वेद, तस्माच्चेन्न प्रमाद्यति, शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्नुते’ । इत्यादिवाक्यशेषादिति वाच्यम्, वाक्यशेषोक्तमुमुक्षुज्ञेयशुद्धब्रह्मणो यज्ञकर्तृत्वा-सम्भवेन कर्तृत्वेन प्रतिपाद्यमाने विज्ञाने ततोऽर्थान्तरत्वनिश्चयाद् ‘अन्नं ब्रह्मेत्युपास्ते’ इत्येतद्वाक्यसमानयोगक्षेमत्वाच्च । ‘तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्य-कृतबुद्धित्वात् न स पश्यति’इत्यादि स्मृतेः ‘प्रकृतेः क्रियमाणानि’ इत्यादिस्मृतेश्च । न चात्मनि स्वातन्त्र्येण कर्तृत्वनिषेधबोधकत्वमनयोः, सामान्यतो निषेधे बाधकाभावात् । अत एव ‘ध्यायतीव लेलायतीव’ इत्यादाविवशब्दः । न चेवशब्दः परतन्त्रप्रभौ प्रभुरिवेतिवत् जीवकर्तृत्वे परतन्त्रतामात्रपरः, तद्वदत्र बाधकाभावात् । न च बुद्ध्यभावेऽपि आत्मनः कर्तृत्वश्रवणाद् बुद्धेः कर्तृत्वासम्भव इति वाच्यम् । बुद्धेः कर्तृत्वे जनकत्वमात्रे वा सर्वथा तस्या जीवनिष्ठत्वेनाभिमतायां कृतावपेक्षणीयत्वेन तदभावे कर्तृत्वबोधकस्य तवापि मते उपचरितार्थत्वात् । निर्धर्मकत्वनिर्विकारत्वनिष्क्रियत्वादिबोधकश्रुतिविरोधाच्च । न च निर्धर्मकत्वरूपधर्मभावाभावाभ्यां व्याघातात् ज्ञानत्वसाक्षित्वादिवत् सत्यस्यासत्यस्य वा ज्ञातृत्वादेरप्यात्मन्येव सम्भवाच्च निर्धर्मकत्वश्रुतिर्न श्रूयमाणार्थपरेति वाच्यम्, निर्धर्मकत्वस्य धर्माभावरूपस्य ब्रह्मस्वरूपानतिरेकेण धर्मत्वाभावेन व्याहत्यभावात् । यत्त्वसत्यस्य सत्यस्य वा ज्ञातृत्वस्यात्मन्यपि सम्भव इत्युक्तम् । तदिष्टमेव । न ह्यारोपितमपि कर्तृत्वमात्मनि प्रतिषेधामः । न च निर्विकारत्वं द्रव्यान्तररूपतया परिणामाभावपरम्, न तु विशेषाकारा-भावपरम्, तच्चात्मत्मनः कर्तृत्वादिसत्त्वेऽप्यविरुद्धमिति वाच्यम्, द्रव्यान्तररूपतया परिणाम-निषेधकमपीदं वाक्यं निर्धर्मकश्रुत्यनुसारेण विशेषाकारमात्रस्यैव निषेधपरम्, सामान्यनिषेधेनैव विशेषनिषेधप्राप्तेः । नापि निष्क्रियत्वे क्रिया परिस्पन्दो वा ? धात्वर्थो वा ? आद्ये इष्टापत्तिः, द्वितीये आत्मन्यपि अस्त्यादिधात्वर्थरूपसत्तादेः सत्त्वेनासिद्धिरिति वाच्यम्, ब्रह्मण एव सद्रूपत्वेन तत्र सत्तादेरप्यभावात्, क्रियापदस्य कृतिपरत्वाच्च । अत एव मनसोऽभावे सुषुप्तौ कर्तृत्वाद्यदर्शनम् । न च तदापि श्वासादिकर्तृत्वं दृश्यत एव, सुषुप्तौ ‘भूर्भूरित्येव प्रश्वसिति’ इति श्रुतेरिति वाच्यम्, ‘न तु द्वितीयमस्ति’ इत्यादि श्रुत्या तं प्रति श्वासस्यैवाभावेन तत्कर्तृत्वस्य सुतरामसम्भवात् । यद्वा क्रियाशक्तिप्राधान्येन प्रामात्मक-स्यान्तःकरणस्य तदापि सत्त्वेन तदुपाधिककर्तृत्वस्य तदापि सत्त्वात् । तथा च श्रुति-रन्यपरा । दर्शनं च द्रष्ट्रविद्याकल्पितश्वासादिविषयम् । इदं च दृष्टिसृष्टिवाद एव समर्थितम् । ‘कामः सङ्कल्पः’ इत्यारभ्य ‘ह्रीर्धीर्भीरित्येतत्सर्वं मन एव’ इत्यन्ता श्रुतिरपि मनसः कर्तृत्वपरा, न तु मनसो निमित्तत्वपरा । न च ‘मनसा वा अग्रे सङ्कल्पयति’ इत्यादिश्रुत्या ‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ इत्यादि श्रुत्या च मनसः करणत्वमिति वाच्यम्, मनोव्यतिरिक्तस्य सङ्कल्पानाश्रयत्वेन ‘मनसा वा’ इति श्रुतेरुपचरितार्थत्वात् ।

नापि १. आत्मा मोक्षसाधनविषयकृतिमान्, तत्फलान्वयित्वात्, ‘सम्मतवत्, २. अज्ञानं ज्ञानसमानाधिकरणम्, ज्ञाननिवर्त्यत्वात् ज्ञानप्रागभाववत्, ३. दुःखादिभोगः मोक्ष-समानाधिकरणः बन्धत्वात्, सम्मतवदित्याद्यनुमानैरात्मनः कर्तृत्वसिद्धिरिति वाच्यम्, आद्यानुमाने आरोपितानारोपितसाधारणकृतिमत्त्वं वा साध्यम् ? अनारोपितकृतिमत्त्वं वा ? आद्ये इष्टापत्तिः । द्वितीये जातेष्टिपितृयज्ञजन्यफलान्वयिनि व्यभिचारः । द्वितीयानुमानेऽपि आरोपितानारोपितसाधारणज्ञानाधिकरणवृत्तित्वं वा ? अनारोपितज्ञानाधिकरणवृत्तित्वं वा ? अत्राप्याद्ये इष्टापत्तिः । द्वितीये अनादिभावभिन्नत्वस्योपाधित्वम् । तृतीयानुमाने आरोपिता-नारोपितसाधारणसम्बन्धेन मोक्षसामानाधिकरण्ये इष्टापत्तिः । अनारोपितसम्बन्धेन सामानाधि-करण्ये साध्याप्रसिद्धिः । तस्मात् सिद्धं मनसः कर्तृत्वमात्मन्यारोप्यत इति ।।

न्यायामृततरङ्गिणी

नन्वहमर्थस्यात्मत्वे तस्मिन्नकर्तरि कर्तृत्वं प्रतीयेत, कर्त्रन्तरस्याभावेन तदुपाधिक-कर्तृत्वस्याप्यभावात् । अतः कर्तृत्वादिमदन्तःकरणस्य चिदात्मतयाध्यास इति चिद-चित्सम्वलनसिद्धिरित्यादिमतमुत्थापयति ।। यच्चोच्यत इत्यादिना ।। आत्मनि कर्तृत्वा-ध्यासो निरुपाधिको वा ? सोपाधिको वा ? आद्ये सोपाधिकत्वोक्तिविरोधः । द्वितीये कुसुमस्फटिकयो रक्तत्वद्वयप्रतीतिवत् मनश्चितोः कर्तृत्वद्वयप्रतीतिः स्यादिति दूषयति ।। तत्र ब्रूम इत्यादिना ।। नन्वध्यस्यमानरक्तत्वातिरिक्तरक्तत्वाश्रयस्य कुसुमस्य भिन्नस्य सत्त्वात् रक्तद्वयप्रतीतिः । इह त्वध्यस्यमानकर्तृत्वातिरिक्त कर्तृत्वाश्रयस्यान्तःकरणस्या-भावेन न कर्तृत्वद्वयप्रतीतिरिति शङ्कते ।। ननु मन इति ।। सोपाधिके भ्रमे हि जपाकुसुमादिरुपाधिर्न स्फटिकाद्यात्मनाध्यस्यते । किं तु तत्र तद्गतधर्मसदृशं धर्मान्तरम् । निरुपाधिके तु भीषणत्वादियुतं सर्पादिकं रज्ज्वात्मनारोप्यते । न तु सर्पगतभीषण-त्वातिरिक्तं भीषणत्वम् । अत्र तु कर्तृत्वादिमदन्तःकरणमेव चिदात्मतयाध्यस्यते । न तु कर्तृत्वान्तरमिति सर्वाध्याससदृशोऽयं निरुपाधिक एव स्यादिति परिहरति ।। अधिष्ठा-नेति ।। कर्तृत्वान्तरस्येति ।। न चात्राप्यात्मनि कर्तृत्वान्तरमध्यस्यत इति वाच्यम् । तर्हि कर्तृत्वद्वयस्यापि विविच्य प्रतीतिः स्यात् । न चात्मान्तःकरणयोरैक्याध्यासान्न तथा प्रतीतिरिति वाच्यम् । कर्तृत्वादिमदन्तःकरणस्य चिदात्मतयाध्यासेनैव चिदात्मनि कर्तृत्वप्रतीतिसम्भवेन कर्तृत्वान्तरारोपकल्पनायुक्तेः । न च रज्जुसर्पादावध्यस्यमान-क्रूरत्वादिविशिष्टसर्पापेक्षयाधिकसत्ताकसर्पान्तरस्य सम्भवेन नायमुपाधिरतो निरुपाधि-कत्वम् । अत्र त्वध्यस्यमानान्तःकरणापेक्षया कर्तृत्वादिधर्मविशिष्टमन्यदधिकसत्ताकं नास्त्येवेत्यन्तःकरणमत्रोपाधिरिति वाच्यम् । कर्तृत्वान्तरारोपाभावे सोपाधिकत्वानु-पपत्तेः । तदारोपे तु कर्तृत्वद्वयप्रतीतेर्दुर्वारत्वादित्युक्तत्वात् । ननु चिन्मनसोर्भेदाग्रहान्न कर्तृत्वद्वयप्रतीतिरित्यत आह ।। मन इति ।। ननु तादात्म्यारोपविरोधिभेदग्रहस्य प्रतिबन्धकत्वम् । अयं तु न तथेति चेन्न । सोपाधिके तादात्म्यारोपस्यादर्शनेनास्यापि तद्विरोधित्वात् । अन्यथान्योन्याश्रयात् । ननु चिन्मनसोरभेदग्रहस्य प्रतिबन्धकत्वान्न तद्द्वयप्रतीतिरित्यत आह ।। इदंसर्पयोरिति ।।

ननु मनसश्चिदात्मनाध्यासेऽपि सोपाधिकारोप एवायं, तत्प्रयोजकस्यात्र सत्त्वा-दित्याशङ्क्य निराकरोति ।। न चेति ।। अध्यस्यमानेति ।। उपाधेस्तद्धर्मस्य चेत्यनुपङ्गः ।। द्वितीय इति ।। आत्मनि कर्तृत्वस्य व्यावहारिकत्वे बुद्धौ तत्पारमार्थिकं, बुद्धौ तस्य व्यावहारिकत्वे आत्मनि तत्प्रातिभासिकं स्यादित्यर्थः । यत्तु यदन्वयव्यतिरेकानु विधायितया यत्प्रतीयते तदपेक्षयाधिकसत्ताकतद्धर्माश्रयान्तराभाव एव सोपाधिकत्वे तन्त्रमिति, तन्न । स्फटिके रक्तारोपेऽसम्भवात् ।। उभयत्रेति ।। न चेष्टापत्तिः । उपाधेः पृथगदर्शनेन तत्र सोपाधिकत्वाव्यवहारात् ।। बुद्धिगतमिति ।। केवलबुद्धिगतं कर्तृत्वं चिदचित्सम्वलनरूपेऽहमर्थे आरोप्यते तद्गतं वा शुद्धात्मनीत्यर्थः । द्वितीयेऽहमर्थचैतन्ययोः कर्तृत्वे प्रतीयेतामिति दोषे सत्येव दोषान्तरमाह ।। द्वितीय इति ।। नन्वहमर्थ-श्चिदचित्सम्वलनरूपत्वात् द्व्यंशः । तत्राचिदंशो बुद्धौ कर्तृत्वसत्त्वेऽपि तद्विशिष्टाया बुद्धेश्चित्यैक्याध्यासं विहायाहं कर्तेति प्रतीत्ययोगेन तदध्यास आवश्यक इति चेन्न । अस्मिन्पक्षे बुद्धिगतकर्तृत्वस्यात्मन्यध्यस्तत्वाङ्गीकारेणोक्तपक्षद्वयबहिर्भावात् । तच्च कर्तृत्व-द्वयप्रतीत्यापत्त्या निरस्तम् । करणत्वस्यौपचारिकत्वं निरस्यति ।। प्रसिद्धीति ।। न चान्यत्र कर्त्रुपलब्धिं प्रति करणत्वाविरोध इति वाच्यम् । उपलब्धुरात्मनोऽन्तर्बहिः करणत्वेनैव मनश्चक्षुरादीनां प्रसिद्धेः ।। अपि चेति ।।

ननु कर्ता शास्त्रार्थवत्त्वादित्यधिकरणे बुद्धेरेव कर्तृत्वम् । भोक्तृत्वं तु चैतन्यस्येति पूर्वपक्षे तयोः सामानाधिकरण्यनियमेन चैतन्यस्य भोक्तृत्ववत् कर्तृत्वमप्यङ्गीकार्य-मित्युक्तम् । न तु बुद्धेरकर्तृत्वमात्मनो वा स्वाभाविककर्तृत्वमिति । यथा च तक्षोभयथेत्युत्तराधिकरणे पूर्वाधिकरणोक्तस्यात्मकर्तृत्वस्य स्वाभाविकत्वं पूर्वपक्ष-य्यौपाधिकत्वस्य स्थापितत्वादिति चेन्न । कर्तृत्वभोक्तृत्वनियमोऽसिद्ध इति वाच्यम् । बाधकाभावे तस्य तन्नियम इति वक्ष्यमाणत्वात् । ननु बुद्ध्यात्मनोरविवेकनिबन्धनं जीवनिष्ठं कर्तृत्वमिति तत्र सिद्धान्तितमतो न तद्विरोध इत्यत आह ।। बुद्धीति ।। फलभाक्तयेति ।। कर्तुः फलभोक्तृत्वं नत्वकर्तुरित्यर्थः । नन्वज्ञानरूपानर्थस्यात्मगतत्वा-न्मोक्षसामानाधिकरण्यमित्यत आह ।। अज्ञानमपीति ।। दुःखादेरेवानर्थत्वात्तस्य च कर्तृत्वाधीनभोक्तृत्वनियन्त्रितत्वान्न बन्धमोक्षयोः सामानाधिकरण्यमित्यर्थः ।। एत-दिति ।। कल्पितोऽनर्थोऽस्तीत्यस्येत्यर्थः । एतेनारोपितत्वपुरस्कारेणानर्थत्वाभावा-न्नान्योन्याश्रय इति निरस्तम् ।

ननु मोक्षस्यापि कल्पितस्यैव पुरुषार्थत्वमिति मन्दाशङ्कां वार्तिकसम्मत्या परिहरति ।। तदुक्तमिति ।। आरोपितस्य कर्तृत्वादेरनर्थत्वे देहेऽपि तत्स्यादित्याह ।। स्थूल इति ।। आत्मस्थमिति ।। तथा च देहस्थभोक्तृत्वं नानर्थ इति भावः ।। अनर्थकोटित्वेति ।। देहादिगतस्य कर्तृत्वादेरनर्थत्वं वारयितुमात्मनो विशेषणत्वादित्यर्थः । उपलक्षणत्वे तु देहादिगतस्याप्यनर्थत्वापत्तिरिति बोध्यम् । यत्तूक्तमात्मसम्बन्धित्वेनैवानर्थस्य हेयत्वा-दात्मनोऽपि हेयत्वं सर्वमतेऽपि स्यादिति तत्त्वतिमन्दम् । अनर्थस्य स्वत एव हेयस्य निवृत्तिरात्मसम्बन्धितया सुखवदिष्यते । इह त्वारोपितकर्तृत्वादेर्देहात्मनोर्वृत्तेः देहगतं तद्व्यावर्तयितुमात्मविशेषणमिति तस्यानर्थकोटौ निवेशः स्यादेव । शुद्धात्मनि कदापि कर्तृत्वाद्यप्रतीतेर्न तत्र तद्भ्रम इत्यत आह ।। भ्रमेति ।। न च शुद्धस्य भोक्तृत्वा-द्यनर्थानाश्रयत्वेऽप्युपहितस्य शुद्धात्स्वाभाविकभेदाभावेन बन्धमोक्षसामानाधिकरण्योपपत्ति-रिति वाच्यम् । उपहितानुपहितयोर्भेदात् । अन्यथा दृश्यत्वस्योपहितवृत्तित्वेन शुद्ध-वृत्तितापत्तेः ।। शास्त्रफलमिति ।। तृतीयेऽभिहितं शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वा-त्तस्मात्स्वयं प्रयोगे स्यात् । शास्त्रफलं कर्मप्रयोक्तरि यजमाने तस्मात्स्वयमेव यजमानः परिक्रयद्वारा वाङ्गप्रधानेषु कर्ता स्यादिति सूत्रार्थः ।

ननु शास्त्रफलं प्रयोक्तरीति न नियमः जातेष्टिपितृयज्ञादौ व्यभिचारात् । न च पूतपुत्रकत्वं स्वर्गभागिपितृत्वादिकं वा कर्तृगतमेव फलमिति वाच्यम् । तस्य फलत्वेनाश्रवणात् । न च तादृक्पुत्रकत्वं फलेन सम्बन्धः, न तु फलमिति वाच्यम् । एवं हि संयुक्तसमवायादिना पित्रन्यस्यापि तत्फलं स्यादशास्त्रीयत्वाविशेषादिति शङ्कां परिहरति ।। जातेष्टावपीति ।। पित्रर्थेति ।। न च तस्य फलत्वेनाश्रवणम् । यस्मिन् जात एता-मिष्टिं निर्वपति पूत एव स तेजस्व्यन्नादो भवतीति पुत्रगतपूतत्वस्य फलत्वेन श्रुतस्य पित्रोद्देशात्तस्योद्देश्यत्वो पपादनाय पित्रर्थेत्युक्तम् । यथा ग्रामपश्वादेः स्वासमवायिनोऽपि स्वस्य सुखसाधनतयोद्देश्यत्वेन स्वसमवेतफलत्वं तथा पुत्रगतपूतत्वस्यापि स्वनिष्ठफलत्वम् । अन्तःकरणस्य तु नात्मगतो मोक्ष उद्देश्य इत्याह ।। न चेति ।। नन्वारोपानारोपसाधारणं कर्तृत्वमेव फलभोक्तृत्वे प्रयोजकम् । तच्चात्मन्यस्त्येव । न च शरीरेऽप्यारोपितकर्तृत्वेन फलभाक्त्वापत्तिः । फलपर्यन्तमसत्त्वेन फलभाक्त्वासम्भवात् । मैवम् । तस्य फलभाक्त्वा-न्यथानुपपत्त्यैव सूक्ष्मरूपेणावस्थितस्य पुनरुपचयो वा अदृष्टद्वारा फलपर्यन्तसत्त्वं वा कल्पनीयम् । न कर्तुः फलवत्त्वनियमः । किं तु फलभाजः कर्तृत्वनियमः । अजनित-फलकर्तरि व्यभिचारादिति । मैवम् । अपवादाभावे सति कर्तुः फलवत्त्वनियमात् । अन्यथा बहुयजमानकाग्निष्टोमादौ कस्यचित्फलाभावशङ्कया कदाप्यनेकेषां प्रवृत्तिर्न स्यात् । अत एव न व्यभिचारोऽपि ।

ननु यागकर्तृणामृत्विजां स्वर्गफलाभावाद्व्यभिचार इत्यत आह ।। आर्त्विज्यादे-रपीति ।। आर्त्विज्यस्य न स्वर्गः फलं परिक्रमेण तेषां यागकर्तृत्वात् । किं तु दक्षिणेत्यर्थः ।। नन्विति ।। बन्धमोक्षसामानाधिकरण्याय पूर्वशङ्कितं कृतिफलयोः सामानाधिकरण्याये-होच्यत इति भेदः ।। निरस्तत्वादिति ।। आद्ये देहादेरपि फलभाक्त्वप्रसङ्गः । द्वितीये कर्तृत्वाध्यासे सिद्धे आरोपितस्यापि कर्तृत्वस्य फलान्वयप्रयोजकत्वं, तस्मिन् सति कृतिफलयोः सामानाधिकरण्याव्यभिचारात्कर्तृत्वाध्याससिद्धिरित्यन्योन्याश्रय प्रसङ्ग इत्यर्थः । उभयत्र दोषमाह ।। सत्येति ।। उभयमिति ।। क्वचित्प्रमा क्वचिद्भ्रम इत्यर्थः । कर्तृत्वं मुख्यत आत्मनिष्ठं, मुख्यतोऽन्यानिष्ठत्वे सति निष्ठत्वात्, सम्मतवदित्यभिसंहितानु-माने विशेषणासिद्धिं परिहरति ।। अपि चेत्यादिना ।। श्रूयते हीति ।। ‘नैवेह किञ्चनाग्र आसीत्’ इत्यारभ्य ‘तन्मनोऽकुरुतात्मन्वी स्याम्’ इत्यत्र कृतिकर्मत्वम् । तथा प्राणन्तः-प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृृण्वन्तः श्रोत्रेण विद्वांसो मनसैवमजीविष्मेति श्रुतौ करणत्वम् । तथा मन उदक्रामदित्यत्र तथा मनो होच्चक्रामतत्संवत्सरं प्रोष्यागत्योवाच कथमशकत माम् ऋते जीवितुमिति ते होचुर्यथा मुग्धा अविद्वांसो मनसा प्राणन्तः प्राणेन वदन्तो वाचेत्यादौ मनस उत्क्रमणेऽप्यात्मनः कर्तृत्वम् । आत्मनः कर्तृत्वसाधकं विशिष्य निरूपयन् बाधकमप्याह ।। न चाहङ्करोमीत्यादि ।। न चेत्यस्य बाधकमस्तीत्यनेन अन्वयः ।। मोक्षेति ।। फलान्वयित्वं प्रत्यनारोपितकृतेरेव प्रयोजकतया नारोपितकृति-मादाय सिद्धासाधनादि ।। फलेति ।। न च जातेष्टिफलान्वयिनि पुत्रे व्यभिचारः । तत्फलस्य पुत्रपूतत्वादेः पुत्रासमवेतत्वात् ।। ज्ञानेति ।। स्वसत्ताकज्ञानसमानाधि-करणमित्यर्थः । तेनारोपितज्ञानसामाना धिकरण्यमादाय न सिद्धसाधनादि । न चानादि-भावभिन्नत्वमुपाधिः । सत्तादौ साध्याव्याप्तेः ।। मोक्षेति ।। मोक्षसत्तया मोक्षः समानाधिकरण इत्यर्थः । तेनारोपितादिसाधारणसामानाधिकरण्यसाधने इष्टापत्तिः । अनारोपितसम्बन्धेन तत्साधने साध्याप्रसिद्धिरिति निरस्तम् ।। कर्तेति ।। प्रश्नोपनिषदि बोद्धा कर्ता विज्ञानात्मा पुरुष इति । छान्दोग्ये ‘अथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम्’ । माण्डूक्ये ‘विश्वो हि स्थूलभुङ् नित्यं तैजसः प्रविविक्तभुक् । आनन्द-भुक्तथा प्राज्ञस्त्रिधा भोगं निबोधत’ इत्यादिभिः ।। अहमर्थेति ।। अहं करोमीति प्रत्यक्षस्याहमर्थान्यात्मनि कर्तृत्वबोधकत्वे तदेव तत्र प्रमाणम् । श्रुतिस्तु तद्दार्ढ्यार्था । तदबोधकत्वे तु श्रुतेर्नानुवादकत्वम् । ईश्वरकर्तृत्वस्य प्रत्यक्षेण सर्वथाऽप्राप्तेर्नानुवादकत्व-मित्यर्थः ।। स हीति ।। बृहदारण्यके ‘न तत्र रथा न रथयोगा, इत्यारभ्य ‘स हि सर्वस्य कर्ता’ इति पाठः । तत्रैव यस्यानुवित्त इति मन्त्रे स ह विश्वकृत्स हि सर्वस्य कर्तेति पाठः ।। निर्धर्मकत्वेति ।। न च निर्धर्मकत्वं धर्माभावरूपं ब्रह्मस्वरूपमेव न तु धर्म इति वाच्यम् । कर्तृत्वेऽपि तुल्यत्वात् ।। सत्यस्येति ।। तात्विकस्य व्यावहारिकस्य चेत्यर्थः । एतेनारोपितकर्तृत्वस्यात्मन्यपि सम्भवादिष्टापादनमिदमिति निरस्तम् ।। आत्मन्यपीति ।। अस्ति ब्रह्मेति श्रुतेः । न च सद्रूपं ब्रह्म न तु तत्र सत्तास्तीति वाच्यम् । कर्तृत्वशून्यस्यापि कर्तृरूपत्वाविरोधात् । अस्ति ब्रह्मेति सत्ताश्रयत्वस्यैव श्रुतत्वाच्च ।। सुप्त इति ।। ‘देवाः परमात्मानं भूरित्युपासां चक्रुः । तस्मात् तत एव एतर्हि इदानीमपि सुप्तः पुरुषः भूर्भूरित्येव प्रश्वसिति’ श्वासं करोतीति श्रुत्यर्थः । तथा च सामान्यतः क्रियाऽभावोऽसिद्धो विशेषतस्तु तदभावोऽन्यथासिद्ध इत्याह ।। देहादिति ।। मनोव्यतिरेकेण क्रियादर्शनं तस्यास्तन्निमित्तकत्वं गमयति न तु तत्कर्तृकत्वमित्यर्थः ।

ननु ‘विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च’ इति श्रुतौ विज्ञानपदोदित-बुद्धेर्यज्ञादिकर्तृत्वश्रवणमेवात्मनः कर्तृत्वबाधकमित्याशङ्क्य निराकरोति ।। नापीति ।। नात्र विज्ञानशब्दाद्बुद्धिः किं तु ब्रह्मेत्यर्थः । मनसेति तृतीयया मनसः करणत्वस्य, सङ्कल्पयति व्याहरतीत्यात्मनः कर्तृत्वस्य चावगमादित्यर्थः । एतच्चोपलक्षणम् । ‘अन्यत्र मना अभूवं नादर्शमन्यत्र मना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृृणोति कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्धीर्भीरित्येतत्सर्वं मन एव तस्मादपि पृष्ठत उपसृष्टो मनसा विजानाति’ इत्यत्रैव श्रुतौ तृतीयानिर्देशान्मनसः करणत्वं कर्तृलकारनिर्देशादात्मनः कर्तृत्वं चावगम्यत इत्यपि बोध्यम् । ‘आत्मेन्द्रियमनोयुक्तम्’ इति श्रुतौ मनोयुक्तस्यैव भोक्तृत्वं न केवलस्येति शङ्कां वारयति ।। आत्मेति ।। ‘आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव तु । इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ इति काठकश्रुतौ देहादिसाधारणमनःसहकारेणात्मनो भोक्तृत्वमुच्यते । अन्यथा देहादेरपि भोक्तृत्वापत्ते-रित्यर्थः ।। ध्यायतीवेति ।। ज्योतिर्ब्राह्मणे ‘कतम आत्मेति योऽयं विज्ञानमयः पुरुषः प्राणेषु हृद्यन्तर्ज्योतिः समानः सन्नुभौ लोकावनुसञ्चरति’ ध्यायतीवेत्यादिश्रुतिः ।

न्यायामृतकण्टकोद्धारः

।। निर्विकारत्वादिति ।। निर्विकारोऽक्षर इत्यादि श्रुतेरिति भावः । कर्तृत्वभ्रमो रजतादिभ्रमवत् निरुपाधिकः किं न स्यादित्यत आह ।। सुषुप्ताविति ।। उपाध्यन्वय व्यतिरेकानुविधानात् सोपाधिकत्वमिति भावः ।। श्रुतिविरोधाच्चेति ।। निष्कलं निष्क्रिय-मित्यादेरिति भावः । भ्रमो हि भवन् निरुपाधिको न भवतीति तेनाङ्गीकृतम् । अतः सोपाधिकत्वे दूषिते कर्तृत्वज्ञानं प्रमैवेति सेत्स्यतीत्याशयेन सोपाधिकत्वं दूषयति ।। प्रत्येकमिति ।। ननु मनसोऽप्रत्यक्षत्वात् तत्स्थं कर्तृत्वं कथं प्रत्यक्षं स्यादित्यत आह ।। नहीति ।। मनसः साक्षिवेद्यत्वेन प्रत्यक्षत्वादिति भावः । ।। अधिष्ठानात्मनेति ।। न चात्मनि कर्तृत्वान्तरमेवाध्यस्यत इति वाच्यम् । तर्हि विविच्य कर्तृत्वद्वयप्रतीतिः स्यात् । न चान्तःकरणैक्याध्यासान्न विविच्य प्रतीतिरिति वाच्यम् । तर्हि निरुपाधिकत्वापातात् । न च यत्रारोप्यादधिकसत्ताकमारोप्यसजातीयं तिष्ठति तत्र निरुपाधिकत्वम् । प्रकृते तु न तथेति न निरुपाधिकत्वमिति वाच्यम् । एवं हि सोपाधिकत्वेन प्रसिद्धस्य लोहितः स्फटिक इत्यादि भ्रमस्य निरुपाधिकत्वं स्यात् । तत्रारोप्यादधिकसत्ताकस्य लोहितत्वा-न्तरस्य विद्यमानत्वात् । तस्मादधिष्ठानसमसत्ताक मारोप्यजातीयं ज्ञात्वा तत्सन्निधानात् यत्रारोपः तत्र सोपाधिकत्वम् । प्रकृते तु तथाभावो नाङ्गीक्रियते । अतोऽस्य सोपाधिकत्वं न स्यादिति साधूक्तम् ।

ननु प्रकृतेऽपि भेदग्रहणदशायां प्रत्येकं कर्तृत्वप्रतीतिरस्तीति सोपाधिकत्वं स्यादिति तत्राह ।। मनो न स्फुरणमिति ।। न च तादात्म्यारोपविरोधिभेदग्रहस्यैव तत्प्रयोजकत्वात् प्रकृते च तदभावात् न तथा प्रतीतिरिति वाच्यम् । अस्यैव तादात्म्यारोपविरोधित्वे नास्मिन् विद्यमाने तादात्म्यारोपस्यैवासम्भवात् तथाप्रतीत्यापत्तितादवस्थ्यात् । तादात्म्या-रोपस्य कर्तृत्वद्वयप्रतीतिप्रतिबन्धकत्वं दृष्टान्तप्रदर्शनमुखेन खण्डयति ।। इदंसर्पयोरिति ।। न च तादात्म्यग्रहस्य प्रतिबन्धकस्य सत्त्वेन दृष्टान्तासम्प्रतिपत्तिरिति वाच्यम् । गौरोऽहमिति तादात्म्यग्रहणे सत्येव तादृशानुभवेन तादृशप्रतीतौ तादात्म्यग्रहस्या-प्रतिबन्धकत्वात् । अनुभवापलापेऽतिप्रसङ्गात् ।। आद्य इति ।। न चायमनुक्तोपालम्भः मया तादृशस्य सोपाधिकताप्रयोजकस्यानभिधानादिति प्रसङ्गात् ।। आद्य इति ।। न चायमनुक्तोपालम्भः मया तादृशस्य सोपाधिकताप्रयोजकस्यानभिधानादिति वाच्यम् । सोपाधिकभ्रमे तत्प्रयोजकताया दृष्टत्वेन तस्यैव वक्तव्यत्वाच्च । न च यदन्वयव्यतिरेकानु-विधायितया यत्प्रतीयते तदपेक्षयाऽधिकसत्ताकतद्धर्माश्रयान्तराभावस्यैव सोपाधिकत्वे तन्त्रत्वसम्भवात् कथं तदसम्भव इति वाच्यम् । अत्र तदपेक्षयेत्यत्र तच्छब्दः किं प्रथमयत्पदार्थेनान्वेति, द्वितीयेन वा ? नाद्यः । रजतादिभ्रमस्य सोपाधिकत्वापत्तेः । तत्रापि यद्दोषप्रधानाद्यपेक्षया रजतं प्रतीयते तद्दोषाद्यपेक्षयाऽधिकसत्ताकरजतान्तराभावात् । न द्वितीयः । जपाकुसुमप्रयुक्तभ्रमस्य सोपाधिकत्वाभावापत्तेः । तत्रापि स्फटिके प्रतीय-मानापेक्षयाऽधिकसत्ताकतद्धर्माश्रयान्तरस्य सद्भावात् ।। उभयत्रापीति ।। न चेष्टापत्तिरिति वाच्यम् । सोपाधिकभ्रमस्याप्रवर्तकत्वेन नीरक्षीरत्वार्थिनः प्रवृत्यभावापत्तेः । रजतभ्रम-स्यापि सोपाधिकत्वापत्तेश्च । एतेनेति परामृष्टं हेतुमाह ।। आद्य इति ।।  द्वितीय इति ।। न चाहमर्थस्य द्व्यंशतयाऽचिदंशे कर्तृत्वसत्त्वेऽपि तद्विशिष्टबुद्धेश्चित्यैक्यं विनाऽहं कर्तेति प्रतीत्यनुपपत्तेः तदर्थमध्यासस्यावश्यकत्वमिति वाच्यम् । अहमर्थस्य द्व्यात्मकतायाः प्रागेव निरस्तत्वात् । तथाननुभवाच्च । कर्तृत्वस्य बुद्धिनिष्ठत्वे बुद्धिः कर्त्रीति प्रतीत्या-पादनस्य पूर्वमेव कृतत्वाच्च ।। किञ्चेति ।। करणत्वे हि कारकान्तरप्रयोज्यत्वं स्यात् । कर्तृत्वं तु तदप्रयोज्यत्वम् । तथा च करणत्वकर्तृत्वयोर्विरोधान्नान्तःकरणस्य कर्तृत्व-मित्यर्थः । न च विरोधात् करणत्वमेव त्याज्यमिति वाच्यम् । अप्रमितस्वीकारेण प्रमितत्यागायोगादिति ।। अपि चेति ।। न च तत्र बुद्धेरेव कर्तृत्वं भोक्तृत्वं चैतन्यस्येति पूर्वपक्षं कृत्वा भोक्तृत्ववत् कर्तृत्वमप्यङ्गीकर्तव्यम् इत्युक्तम् । न तु बुद्धेरकर्तृत्वमात्मनो वा स्वाभाविकं कर्तृत्वमिति वाच्यम् । तथात्वे पूर्वपक्षसिद्धान्तयोरविशेषप्रसङ्गात् । सिद्धान्त आत्मनो वास्तवकर्तृत्वासाधनात् कर्तृत्वारोपस्य पूर्वपक्षेऽपि भावात् । किञ्च यथा च तक्षोभयथेत्युत्तराधिकरणविरोधः । न च तत्रात्मन औपाधिकं कर्तृत्वमुच्यत इति वाच्यम् । औपाधिकत्वप्रत्यायकपदाभावात् तत्रास्वतन्त्रकर्तृत्वस्यैव साधनाच्च । किञ्च बुद्धेः कर्तृत्वाङ्गीकारे संसारो बुद्धेरेव स्यात् । ततश्च मोक्षोऽपि तस्या एव स्यात् इत्याह ।। किञ्चेति ।।

नन्वज्ञानमेव संसारः । अविद्यास्तमयो मोक्षः सा संसार उदाहृत इत्युक्तेः । तथा च कथं बुद्धेः संसारान्वयो मोक्षान्वयो वेत्यत आह ।। अज्ञानमपीति ।। दुःखादिभोगस्य बुद्धिनिष्ठत्वेऽज्ञानस्यापि तन्निष्ठत्वापत्तिरिति भावः ।। एतदिति ।। न च कर्तृत्वादे-श्चेतनगतत्वेनैवानर्थत्वं नारोपितेन रूपेणेति वाच्यम् । एवं हि चेतनस्यानर्थकोटि-प्रवेशापत्तेः । अत एव चेतनगतं कर्तृत्वादिकमनर्थ इति न बुद्धेरनर्थान्वय इति निरस्तम् । किञ्चारोपितकर्तृत्वस्य संसारत्वे शरीरस्यापि संसारमोक्षान्वयः स्यादित्याह ।। स्थूल इति भ्रमकाल इति ।। तथा च शुद्धात्मनिष्ठस्य मोक्षस्य न बन्धसामानाधिकरण्यमिति भावः । न च शुद्धोपहितयोः स्वाभाविकभेदाभावेन बन्धमोक्षयोः सामानाधिकरण्यमिति वाच्यम् । स्वाभाविकाभेदाभावेन तदासामानाधिकरण्यापातात् । त्वन्मते स्वाभाविकभेदस्य कुत्राप्यभावेन सर्वेषां सर्वसामानाधिकरण्यापत्तेश्च ।। शास्त्रफलमिति ।। शास्त्रोक्तकर्मफलं प्रयोक्तरि प्रयोजककर्तरि भवतीति न्यायार्थः । तेन ऋत्विजामपि फलसाधनकृत्याश्रयत्वात् फलाश्रयत्वप्रसङ्ग इत्यपास्तम् । तेषां प्रयोजककर्तृत्वाभावात् ।। अन्यथेति ।। कृत्यनाश्रये फलाङ्गीकार इत्यर्थः । उपलक्षणमेतत् । फलोपपादकत्वेनापूर्वं पुरुषे न कल्प्येतेत्यपि द्रष्टव्यम् ।

ननु नायं नियमः शास्त्रफलं प्रयोक्तरीति । जातेष्टिपितृयज्ञयोर्व्यभिचारात् । न च पूतपुत्रकत्वं स्वर्गभागिपितृकत्वं वा फलम् । तच्च कर्तृगामीति न व्यभिचार इति वाच्यम् । तयोः फलत्वेनाश्रवणात् । फलत्वेनाश्रुतयोः फलत्वकल्पने श्रुतत्यागाश्रुतकल्पने स्याता-मित्यत आह ।। जातेष्टावपीति ।। उपलक्षणमेतत् । पिण्डपितृयज्ञे पितृगतस्वर्गोऽपीत्यपि द्रष्टव्यम् । न च तयोः कर्तृगतत्वाभावात् न व्यभिचारवारणमिति वाच्यम् । साक्षात्सम्बन्धेन तद्गतत्वाभावेऽपि परम्परासम्बन्धेन तद्गतत्वोपपत्तेः । न हि यावत् फलं तावत् साक्षात्सम्बन्धीति नियमः । वृष्टिकाम इत्यादावभावात् । न चैवमतिप्रसङ्ग इति वाच्यम् । उद्देश्यत्वानुद्देश्यत्वाभ्यां तत्परिहारसम्भवात् । अन्यथा बहुविप्लवापत्तेः ।

ननु ऋत्विजामपि शास्त्रफलस्य सत्त्वात् कथं प्रयोजककर्तर्येव शास्त्रफलमिति नियम इत्यत आह ।। आर्त्विज्यादेरपीति ।। अत एव परिक्रयः स्वामिनैव कर्तव्यः । स तु दृष्टार्थ इत्युपपादितम् । नन्वध्वर्य्वादेः पशुमानसानीत्यादि शास्त्रफलस्य विद्यमानत्वात् कथं दक्षिणैवेत्यवधारणमिति चेन्न । एवकारेण शास्त्रमुख्यफलस्य वारणात् । यदेव हि विधिवाक्ये कामनाविषयत्वेन फलं श्रूयते तस्यैव मुख्यत्वात् । तस्य च ऋत्विग्गामित्वाभावात् । सत्रे च सर्वे प्रयोजका एवेति न कश्चित् क्षुद्रोपद्रवः ।। निरस्तत्वादिति ।। प्रथमे बुद्धिशरीरादेरपि फलभाक्त्वप्रसङ्गात् द्वितीये आत्मनोऽनर्थकोटित्वप्रसङ्गादित्यर्थः ।। अननुगमादिति ।। क्वचित् सत्यकर्तृत्वं क्वचिदारोपितं कर्तृत्वमित्यननुगम इत्यर्थः । ननु कर्तृत्वसामान्यमेव फलभाक्त्वप्रयोजकम् । अतो नाननुगमः । न शरीरस्यापि फल-भोक्तृत्वापत्तिरिति वाच्यम् । कर्तुः फलभाक्त्वनियमानङ्गीकारात् । अजनितफलकर्मकर्तरि व्यभिचारात् । किन्तु फलभाजः कर्तृत्वनियम इति चेन्न । तथा नियमाङ्गीकारे जातेष्टौ पुत्रस्य पिण्डपितृयज्ञे च पुत्रस्य कर्तृत्वापत्तेः । न च कर्तुः फलभाक्त्वनियमाङ्गीकारे व्यभिचार उक्त इति वाच्यम् । फलभाक्त्वयोग्यतया नियमाङ्गीकारे बाधकाभावात् । प्रतिबन्धकाभावे सतीति विशेषणाद्वा न कश्चिद्दोषः ।। अपि चेति ।। न च ‘विज्ञानं यज्ञं तनुते’ इत्यादि श्रुत्या मनसः कर्तृत्वश्रवणात् ईश्वरनिष्ठकृतिकर्मत्वेऽपि स्वकृतिकर्मत्वा-नङ्गीकारान्न कर्तृत्वकर्मत्वयोर्विरोध इति वाच्यम् । ‘विज्ञानं यज्ञं तनुते’ इत्यस्य ब्रह्मपरत्वात् । अन्यथा ‘मान्त्रवर्णिकमेव च गीयते’ इति श्रुतिविरोधः स्यात् । ‘विज्ञानं ब्रह्म चेद्वेद’ इति वाक्यशेषविरोधाच्च । न च वाक्यशेषे मुमुक्षुज्ञेयशुद्धोक्तेः विज्ञानशब्देन च तद्ग्रहणे कर्तृत्वानुपपत्तिरिति वाच्यम् । कर्तृत्वस्य शुद्धत्वाघातकत्वस्याग्रे वक्ष्यमाणत्वात् । ईश्वरस्यापि त्वन्मते कृत्यनुपपत्तेश्च । न चेश्वरेऽविद्यावृत्तीच्छावत् कृतिर्भविष्यतीति वाच्यम् । दृष्टान्तासम्प्रतिपत्तेः । अविद्याकार्यस्य जीव एवाङ्गीकारेणेश्वरे तत्कार्यानुपपत्तेश्च । तथा च मनसः कर्तृत्वे कर्मत्वादिविरोधो दुष्परिहर एव ।। तथा मन इति ।। न च त्वन्मतेऽप्यात्मनिष्ठकृतौ अन्तःकरणस्य प्रयोजकत्वात् तदभावे कथं कृतिरिति तद्बोधक-श्रुतेरुपचरितार्थत्वं वाच्यमेवेति कथमयमस्माकं दोष इति वाच्यम् । मन्मते जन्य-कृतेस्तदपेक्षायामपि अजन्यकृतेस्तदनपेक्षणात् मोक्षे श्रूयमाणायाश्च नित्यत्वात् । किञ्च प्रत्यक्षानुमानागमसिद्धत्वात् कथमात्मनोऽकर्तृत्वमित्याशयवानाह ।। अपि चेति ।।

ननु प्रत्यक्षादिसिद्धमपि बाधकात् त्यज्यत इत्यत आह ।। न चेति ।। न च प्रत्यक्षं मनोनिष्ठमेव कर्तृत्वं विषयीकरोति । नात्मनिष्ठमिति वाच्यम् । आत्मनोऽहमर्थत्वस्य मनसस्तदभावस्य च पूर्वमेव साधितत्वात् । न चाद्यानुमान आरोपितानारोपित साधारणकृतिमत्त्वं वा साध्यते अनारोपितकृतिमत्त्वं वा ? नाद्यः । सिद्धसाधनात् । आत्मन्यप्यौपाधिककृतेरङ्गीकारात् । न द्वितीयः । जातेष्टिपितृयज्ञयोः तत्फलभोक्तरि तत्साधनकृत्यनन्वयेन व्यभिचारादिति वाच्यम् । द्वितीयपक्षस्यैव विवक्षितत्वात् । न चोक्तव्यभिचारः । तत्रापि परम्परासम्बन्धेन कृतिमत्त्वस्य सत्त्वात् । अन्यकृतिसाध्यतया प्रमाणाबोधितत्वे सतीति वा विशेषणाद्धेतौ न व्यभिचारः । न चैवं पक्षेऽसिद्धिः । न हि मोक्षोऽन्यकृत्या भवतीत्यत्र किञ्चिन्मानम् । यद्वा विशेषयोर्व्यतिरेकव्याप्तिरेवात्राभिमतेति न कश्चित् दोषः । एवं द्वितीयानुमानेऽपि ज्ञानसमानाधिकरणत्वं अनारोपितज्ञानाधिकरण वृत्तित्वम् । न चानादिभावभिन्नत्वमुपाधिः । तस्याप्यनेनैव पक्षे साधनात् पक्षेतरत्वाच्च । एवं तृतीयेऽपि अनारोपितसम्बन्धेनैव मोक्षसामानाधिकरण्यं विवक्षितम् । न च साध्याप्रसिद्धिः चित्व एव प्रसिद्धत्वात् । व्यतिरेकित्वोपपत्तेश्च ।। न चेति ।। निर्धर्मकत्वं हि धर्माभावः । कर्तृत्वाङ्गीकारे च तद्विरोध इत्यर्थः ।। निर्धर्मकत्वरूपेति ।। न च धर्माभावरूपं निर्धर्मकत्वं स्वरूपातिरेकेण धर्मो न भवतीति न व्याघात इति वाच्यम् । कर्तृत्वेऽपि तथात्वस्य वक्तुं शक्यत्वात् । न च कर्तृत्वं परोपाधिकं कथं स्वरूपमिति वाच्यम् । धर्माभावेऽपि तुल्यत्वात् ।। ज्ञानत्ववदिति ।। न चेष्टापत्तिर्मया ज्ञातृत्व-स्यारोपितस्यात्मन्यङ्गीकारादिति वाच्यम् । भ्रान्तोऽसि । न ह्यत्रात्मनि ज्ञातृत्वाङ्गीकार-मात्रमापादितम् । येनेष्टापत्तिर्वक्तुं शक्या स्यात् । किन्तु यथा ज्ञानत्वसाक्षित्वमन्यत्र नाङ्गीक्रियते तथा ज्ञातृत्वादिकमिति । न चात्रेष्टापत्तिर्वक्तुं शक्येति भावः ।। अस्त्या-दीति ।। न चात्मा अस्त्यादिरूपोऽतो न तत्रास्तित्वमिति वाच्यम् । सदेवेत्यादौ सत्त्वाश्रयत्वस्यैवोक्तेः ।। आकाशस्येति ।। न च निर्धर्मकत्वश्रुत्यनुसारात् विशेष-निषेधिकापि निर्विकारत्वश्रुतिः सामान्यनिषेधिकेति वाच्यम् । तस्या व्याहतत्वेन तदनुसरणस्यानुचितत्वात् ।। सुप्त इति ।। न च न तु द्वितीयमस्तीति श्रुत्या तं प्रति श्वासस्यैवाभावेन तत्कर्तृत्वं सुतरामसम्भवीति वाच्यम् । तर्हि तयैव श्रुत्या ज्ञानसंस्काराद्य-भावापत्तेः । अनुभवबलात् तदङ्गीकारेण श्रुतिसङ्कोचे प्रमाणबलात् श्वासादिकमप्यङ्गी-करणीयमिति । न च प्राणांशस्याहङ्कारस्य सत्त्वमङ्गीक्रियतेऽतः कर्तृत्वं श्वासादेर्भविष्यतीति वाच्यम् । तर्ह्यहङ्कारस्य तदा सत्त्वे तस्य सुप्तावभावेनात्मभिन्नत्वसाधना भावापातात् ।

ननु ‘कामः सङ्कल्पः’ इत्यादि श्रुतिः तथाऽत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुरित्यादिका च श्रुतिः आत्मनः कर्तृत्वं प्रतिपादयतीति तद्विरोध इत्यत आह ।। काम इति ।। ननु ध्यायतीवेतीवशब्दात् आत्मनो न कर्तृत्वमित्यत आह ।। ध्यायतीवेति ।। अस्वातन्त्र्येऽ-पीवशब्दस्य दर्शनादिति भावः । ननु तथाप्यात्मनि कर्तृत्वाभावप्रतिपादकश्रुतिस्मृतिविरोध इत्यत आह ।। अहङ्कारेति ।। ननु कर्तृत्वसामान्यनिषेध एव किं न स्यादित्यत आह ।। तत्रैवं सतीति ।। केवलपदस्य स्वातन्त्र्यार्थकत्वादिति भावः ।। अन्यथेति ।। कर्तृत्वसामान्यनिषेध इत्यर्थः । उपलक्षणमेतत् । तत्रैव केवलशब्दवैयर्थ्याच्चेत्यपि द्रष्टव्यम् ।। दर्शपूर्णमासादावपीति ।। तस्यापि कर्मरूपत्वात् । क्लिष्टं कर्मेति वाक्याच्चेति भावः । ननु तत्र फलसम्बन्धेनाक्लिष्टत्वमित्यत आह ।। यदेति ।। फलसम्बन्धस्य प्रकृतेऽपि सम्भवादिति भावः । इति कर्तृत्वाध्यास भङ्गः ।

न्यायामृतप्रकाशः

।। निर्विकारत्वादिति ।। कर्तृत्वाङ्गीकारे उच्चत्वादिविकारप्राप्तेरिति भावः । अन्तःकरणे सति आत्मनः कर्तृत्वमित्यन्वयः स्पष्ट एव । व्यतिरेकं चाह ।। सुषुप्ताविति ।। आत्मनः कर्तृत्वे तस्य सुप्तावपि सत्वात् तत्रापि कर्तृत्वापात इत्यर्थः । बुद्ध्यते अनयेति व्युत्पत्त्या बुद्धिरन्तःकरणम् ।। श्रुत्यादीति ।। ‘विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च’ इति श्रुतौ करणव्युत्पत्त्या विज्ञानशब्दोदितमनस एव कर्तृत्वप्रतीतेः । तथा ‘‘स समानः सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव’ इति श्रुतौ जीवस्यावास्तवकर्तृत्वप्रतीतेः । ‘अहङ्कार विमूढात्मा कर्ताहमिति मन्यत’ इति स्पष्टस्मृतेश्चेत्यर्थः । आत्मनि कर्तृत्वाध्यासाङ्गीकारे भ्रमस्थले रक्तः स्फटिक इति प्रतीतिर्भवति । कदाचित्कुसुमं रक्तमिति साक्षात्काररूपा प्रमा च भवति । यथा वा इदं रजतमिति भ्रमो भवति आपणे कदाचिद्रजतप्रमा भवति एव-मिहाप्यन्तः करणनिष्ठकर्तृत्वस्यात्मन्यध्यासाङ्गीकारे रक्तः स्फटिक इतिवत्कदाचिच्चैतन्यं कर्त्रिति भ्रमः स्यात् । रक्तं कुसुममितिवत् कदाचित् मनः कर्त्रिति प्रत्यक्षप्रमा स्यात् । न चैवमस्ति । अतो नायं भ्रम इत्याशयेनाह ।। अत्र ब्रूम इत्यादिना ।। प्रत्येकमिति ।। प्रत्येकं स्फटिके पुष्पे च रक्तत्वबुद्धिवत् चिति बुद्धौ च कर्तृत्वसाक्षात्कारः कदाचन यदि भवेत्तर्ह्येवायं भ्रमः । न चैवमस्तीति कारिकाशेषः । कारिकां व्याचष्टे ।। भवितव्यं हीति ।।

ननु जपाकुसुमस्थलौहित्यस्य प्रत्यक्षत्ववत् बुद्धिनिष्ठकर्तृत्वस्याप्रत्यक्षत्वान्नैवमित्यत आह ।। न हीति ।। बुद्धिनिष्ठकर्तृत्वस्यापि साक्षिवेद्यत्वादिति भावः । ननु रक्तः स्फटिकः रक्तं कुसुममितिवत्प्रतीतिद्वयापादनमयुक्तं वैषम्यात् । तत्र ह्यध्यस्यमानरक्तत्वातिरिक्त-त्वाश्रयस्य कुसुमस्य भिन्नस्य सत्वेन धर्म्यैक्यारोपाभावेन धर्ममात्रारोपाद्रक्तद्वयप्रतीतिः इह तु कर्तृत्वादिविशिष्टान्तःकरणस्यैव चिदात्मनाऽध्यासाङ्गीकारेण धर्मिविशिष्टधर्म्यारोपस्यै वाङ्गीकारादध्यस्यमानकर्तृत्वातिरिक्तकतृत्वाश्रयस्यान्तःकरणान्तरस्याभावेन न कर्तृत्वद्वय-प्रतीतिरिति शङ्कते ।। नन्विति ।। मनः कर्तृत्वादिविशिष्टं मनः । सोपाधिके हि भ्रमे जपाकुसुमादिरूपोपाधिर्न स्फटिकात्मनाऽध्यस्यते । किन्तु तत्र तद्गतधर्मसदृशधर्मान्तरम् । निरुपाधिके तु भ्रमे भीषणत्वादियुक्तं सर्पादिकमेव रज्ज्वात्मनाऽऽरोप्यते । न तु सर्पगत-भीषणत्वातिरिक्तभीषणत्वान्तरम् । अत्र तु कर्तृत्वादिमदन्तःकरणमेव चिदात्मतयाऽध्यस्यते । न तु तद्गतकर्तृत्वसदृशकर्तृत्वान्तरम् । अन्तःसर्पाध्याससदृशोऽयं निरुपाधिक एव भ्रमः स्यान्न सोपाधिकः । त्वया त्वयं भ्रमः सोपाधिकतयाङ्गीकृत इत्यपसिद्धान्तः स्यादित्याह ।। अधिष्ठानेति ।।

नन्वयमपि सोपाधिकभ्रम एव । न चोक्तरीत्या कर्तृत्वद्वयप्रतीतिप्रसङ्ग इति वाच्यम् । चिन्मनसोर्भेदाग्रहात्कर्तृत्व द्वयप्रतीत्यभावोपपत्तेरित्यत आह ।। मन इति ।। स्फुरणं चैतन्यम् स्फुरति चैतन्यविषयः । तयोः चिन्मनसोर्भेदग्रहदशायामपीत्यर्थः । यदुक्तं चिन्मनसोर्भेदाग्रहान्न कर्तृत्वद्वयप्रतीतिरिति तदयुक्तं भेदग्रहदशायामपि कर्तृत्वद्वयाप्रतीतेरिति व्यतिरेकव्यभिचारमुक्त्वा भेदाग्रहदशायामपि प्रतीतिद्वयसद्भावादन्वयव्यभिचारोऽपीत्याह ।। इदंसर्पयोरिति ।। अभेदग्रहणेति ।। भेदाग्रहणदशायामपीत्यर्थः । एवमुत्तरत्रापि । अयमितीदमंशापेक्षया अङ्गुल्या निर्दिश्यायं भीषण इति वदति सर्पो भीषण इति च वदति इत्यनुभवसिद्धमिति ज्ञातव्यम् ।

ननु मनसः चिदात्मना अध्यासेऽपि सोपाधिकारोप एवायं तत्प्रयोजकस्यात्र सत्वा-दित्याशङ्क्य निराकरोति ।। न चेति ।। उपाधेरन्तःकरणस्य । तथा च सोपाधिकत्वा-सम्भवेऽपीत्यर्थः ।। अधिष्ठानेत्यादि ।। पुष्पस्य तद्रक्तत्वस्य च व्यावहारिकत्वेनाधिष्ठान-भूतस्फटिकसमसत्ताकत्वात् तथाऽध्यस्यमानप्रातिभासिकस्फटिकगतरक्तत्वापेक्षयाऽधिक-सत्ताकत्वाच्च सोपाधिकभ्रमत्वमित्यर्थः । नन्विदं प्रकृते कथमस्तीति चेत् उच्यते । अविद्या-वच्छिन्नचैतन्यस्यान्तःकरणनिष्ठकर्तृत्वाध्यासाधिष्ठानत्वेन तस्य व्यावहारिकतयोपाधिभूतबुद्धे-स्तत्कर्तृत्वस्य चाधिष्ठानसमसत्ताकत्वादिकं ज्ञातव्यम् । अविद्यावच्छिन्नस्य चैतन्यस्य स्वयं कल्पितत्वेनाधिष्ठानत्वायोगाच्चित एवाधिष्ठानत्वं वाच्यं तथा च नैतत्प्रयोजकलाभ इत्याह ।। आद्य इति ।। द्वितीय इति ।। बुद्धिरूपोपाधिधर्मभूतं कर्तृत्वमात्मन्यध्यस्यत इत्युच्यते । तत्राध्यस्यमानं यदात्मकर्तृत्वं तच्चेद्व्यावहारिकं स्यात्तर्हि बुद्धिरूपोपाधेस्तद्धर्मभूतकर्तृत्वस्य चाध्यस्यमानादधिकसत्ताकत्वं वाच्यम् । ततश्च तयोः पारमार्थिकत्वप्रसङ्गः । बुद्धेस्तत्कर्तृ-त्वस्य च व्यावहारिकत्वाङ्गीकारेऽध्यस्यमानाधिकसत्ताकत्वायात्मगतकर्तृत्वस्य वा प्रातिभासिकत्वमङ्गीकार्यं स्यात् । न चेष्टापत्तिरिति वाच्यं बाधकप्रत्ययाभावादित्याशयः ।। उभयत्रापीति ।। प्रयोजकद्वयपक्षेऽपीत्यर्थः । क्षीररूपोपाधेस्तद्धर्मभूतक्षीरत्वस्य च व्यावहारिकत्वेनाधिष्ठाननीरसमसत्ताकत्वादध्यस्यमानप्रातिभासिकनीरगतक्षीरत्वापेक्षयाऽ धिकसत्ताकत्वेन सोपाधिकभ्रमत्वप्रयोजकसद्भावान्निरुपाधिकभ्रमतयाऽङ्गीकृतस्यापि नीरे क्षीरत्वाध्यासस्य सोपाधिकत्वापातादिति भावः । बुद्धिश्चिद्भागरहितान्तःकरणवृत्तिविशेषः । तथा च केवलं बुद्धिगतं कर्तृत्वं चिदचित्सम्वलनरूपेऽहमर्थे आरोप्यते । अहमर्थनिष्ठं वा शुद्धात्मन्यारोप्यत इत्यर्थः ।। ततश्चेति ।। बुद्धिगतमहमर्थे आरोप्यत इति पक्षे आरोपितकर्तृत्वस्य मनसि सत्वेन मनः कर्त्रिति प्रतीतिसम्भवेऽपि चैतन्ये आरोपित-कर्तृत्वस्याप्यभावेन न चैतन्यं कर्त्रिति प्रतीतिः सम्भवति । तथा च प्रतीत्यभावो युक्त इत्यत्र प्रतीतिद्वयाभावो युक्त इत्यर्थः । तथा चैकसत्वेऽपि द्वयं नास्तीति द्वित्वावच्छिन्नाभाव इति ज्ञातव्यम् । तेन पक्षद्वयेऽपि मनःकर्त्रिति प्रतीतिसम्भवात्कथं मनः कर्त्रिति प्रतीत्य-भावोक्तिरिति निरस्तम् । एतेनेत्युक्तं विशदयति ।। आद्य इत्यादिना ।। बुद्धिगतं कर्तृत्व-महमर्थे आरोप्यत इत्याद्यपक्षे बुद्धिः कर्त्री मनः कर्त्रिति प्रतीतिद्वयं स्यादेवेति दूषणे सत्येव दूषणान्तरमिदमिति ज्ञातव्यम् । अहमर्थगतं कर्तृत्वमात्मन्यध्यस्यत इति द्वितीयपक्षे चैतन्यं कर्तृ मनः कर्त्रिति प्रतीतिद्वयं स्यादेवेति दूषणे सत्येव दूषणान्तरमाह ।। द्वितीय इति ।।

नन्वहं कर्तेति प्रतीत्यन्यथानुपपत्त्याऽऽत्मनि कर्तृत्वाध्यासोऽङ्गीकार्य इत्यत उक्तमहमर्थ-स्थेनेति ।। अनध्यस्तेति ।। तत्रैव वास्तवकर्तृत्वाङ्गीकारादिति भावः । कर्तृत्वेऽपि करणत्वमौपचारिकमिति न वक्तव्यमित्याशयेनोक्तं प्रसिद्धीति । करणत्वेन सर्वैर्ज्ञायमान-त्वादित्यर्थः । उपलब्धिं प्रति करणत्वेऽपि अन्यत्र कर्तृत्वं युक्तमिति चेन्न । चक्षुरादि-वत्करणे मनसि द्वैविध्यकल्पनानुपपत्तेरिति भावः । अन्तःकरणगतमेव कर्तृत्वमित्यङ्गीकारे दूषणान्तरमाह ।। अपि चेति ।। ननु कर्तृत्वाश्रयबुध्द्यविवेकमात्रेण जीवस्य कर्तृत्वं मया सिद्धान्तितमिति चेत्तत्राह ।। बुद्ध्यात्मनोरिति ।। तथा च त्वन्मते तदधिकरणसिद्धान्ता-नुत्थानप्रसङ्ग इति भावः । फलभाक्ता फलभोक्तृत्वं तयेत्यर्थः । बन्धस्य तदपायेन सामानाधिकरण्यादित्येतद्व्याचष्टे ।। कर्तृत्वेति ।। स्यादिति ।। तथा च नात्मनो मोक्षः स्यात् । तथा च ‘स पात्रं बन्धमोक्षयोः’ इति वचनविरोध इति भावः ।

ननु कर्तृत्वादिरूपबन्धस्य बुद्धिगतत्वेऽप्यज्ञानरूपबन्धस्यात्मगतत्वान्मोक्षसामानाधि-करण्यमस्तीति चेत्तत्राह ।। अज्ञानमपि हीति ।। अज्ञानं न स्वरूपेण बन्धः । किन्तु दुःखादिभोक्तृत्वादिरूपानर्थापादकतया । तथा च दुःखादिभोक्तृत्वाद्यनर्थरूपमुख्यबन्धस्य बुद्धिगतत्वाद्बुद्धेरेव मोक्षापात इति भावः ।। मिथ्येति ।। तथा च बुद्धिगतभोक्तृत्वादेर्जीवे आरोपितत्वेन मिथ्याभूतभोक्तृत्वरूपाऽनर्थस्य जीव एव सद्भावाद्बन्धमोक्षयोः सामानाधिकरण्यं युक्तमिति भावः ।। एतदिति ।। कल्पितोऽनर्थोऽस्तीति कल्पनाया इत्यर्थः ।। अन्यो-न्येति ।। कर्तृत्वाध्याससिद्धौ मिथ्याभूतकर्तृत्वाद्बन्धत्वसिद्धिः तत्सिद्धौ च मिथ्याभूत-बन्धमोक्षयोर्जीवे सामानाधिकरण्यस्य सम्भवेन तद्विरोधाभावाद्बुद्धेरेव सत्यभूतकर्तृत्वाद्युपपत्ते-रात्मनि तदध्याससिद्धिरित्यन्योया श्रयादित्यर्थः ।। सत्यस्यैवेति ।। अन्यथा स्वाप्न-ब्रह्महत्यादेरप्यनर्थत्वापात इति भावः । सत्यभूतानर्थस्य च बुद्धिनिष्ठत्वेन मोक्षस्य चात्म-निष्ठत्वेन बन्धमोक्षयोः सामानाधिकरण्यायोग एवेति ध्येयम् ।

ननु कर्तृत्वादिबन्धवन्मोक्षस्यापि कल्पितस्यैव पुरुषार्थत्वादात्मनि बन्धमोक्षयोः सामानाधिकरण्योपपत्तिरिति शङ्कां भट्टवार्तिकसम्मत्या परिहरति ।। तदुक्तमिति ।। स्वप्नसुख- वन्मोक्षसुखस्यापि कल्पितत्वमङ्गीकुर्वाणं बौद्धं प्रत्युच्यते ।। न हीति ।। न हि स्वप्नसुखार्थं कश्चिद्यत्नं करोति यदृच्छया निद्रायां स्वप्नस्य स्वत एव लभ्यमानत्वेन तत्सुखस्यापि तथात्वात् । अतो मौक्तसुखस्यापि कल्पितत्वेन तस्यापि स्वत एव यदृच्छया लभ्यमानत्व-सम्भवात्साधनानुष्ठानं विहाय तूष्णीमासीतेत्यर्थः । मिथ्याभूतभोक्तृत्वकर्तृत्वादेरनर्थस्य जीवे सद्भावमङ्गीकृत्य बन्धमोक्षसामानाधिकरण्याङ्गीकारे स्थूलः करोमीत्यादिप्रतीतेर्देहस्यापि मिथ्या-भूतकर्तृत्वभोक्तृत्वादिरूपानर्थान्वयप्राप्तौ मोक्षस्यापात इत्याह ।। स्थूल इति ।। अनर्थः आत्मन इति शेषः । तथा च तद्गत एव बन्धो मोक्षश्च न देहगत इति भावः ।। अनर्थ-कोटित्वेति ।। बुद्ध्युपाधिकात्मस्थभोक्तृत्वस्यात्मनोनर्थत्वे आत्मनोऽप्यनर्थकोटिनिवेशा-पत्तेरात्माश्रयः । तथाऽनर्थहानेः पुरुषार्थत्वादात्मनोऽपि तत्कोटिनिविष्टत्वेन तद्धानिरपि पुरुषार्थः स्यादिति भावः । किञ्च बुद्धिगतभोक्तृत्वादेः शुद्धात्मन्यध्यासाङ्गीकारे आत्मनि भोक्तृत्वादिप्रतीत्या भवितव्यम् । अस्तीति चेत् भ्रमकाले प्रमाकाले वा ? भ्रमकाले चेदहं भोक्तेत्यहमर्थनिष्ठत्वेनैव भोक्तृत्वं प्रतीयते । न शुद्धात्मनि । प्रमाकाले चेत् बुद्धिर्भोक्त्रीति प्रतीयेत । ततः शुद्धात्मनि तद्भ्रमो न युक्त इत्याह ।। भ्रमकाल इति ।। कृतेस्तत्फल-भाक्तया सामानाधिकरण्याच्चेत्युक्तं हेतुं विवृणोति ।। अपि चेति ।। कुत इत्यत आह ।। शास्त्रफलमिति ।। पूर्वतन्त्रे तृतीयाध्यायस्थं सूत्रं ‘शास्त्रफलं प्रयोक्तरि तस्मात्स्वयं प्रयोगः स्यात्’ इति । अस्यार्थः विधिनिषेधात्मकशास्त्रफलं स्वर्गनरकादिप्रयोक्तरि कर्मप्रयोक्तरि तत्साधनकर्मकृतिमति यजमान एव । तस्मात्स्वयमेव यजमानोऽङ्गप्रधानेषु कर्ता स्यादिति । साधनकृतिः साधनविषयकप्रयत्नः ।। अन्यथेति ।। साधनकृतेः पलभाक्त्वेन सामानाधि-करण्याभावमङ्गीकृत्य बुद्धेरेव कर्तृत्वादिकं आत्मन एव मोक्ष इत्यङ्गीकारे बुद्धिकृत-श्रवणादेर्हानिः वैयर्थ्यम् । फलाभावात् । श्रवणादिकर्तृत्वाभावेऽपि आत्मनो मोक्षागम इत्यदृष्टकल्पना स्यादित्यर्थः ।

ननु शास्त्रफलं प्रयोक्तरीति न नियमः ‘पुत्रे जाते इष्टिं कुर्यात्’ इत्येवं पुत्रपूतत्वोद्देशेन जातेष्टिः पितुर्विधीयते । तथा पितुः स्वर्गप्राप्त्यर्थं पुत्रं प्रति श्राद्धं विधीयते । एवं जातेष्टि-कृतेः पूतत्वरूपफलेन सामानाधिकरण्यं नास्ति  । पूतत्वरूपफलस्य पुत्रगतत्वात् । तथा स्वर्गरूपफलस्यापि पितृगतस्य न पुत्रगतश्राद्धकृतिसामानाधि करण्यमिति व्यभिचार इत्या-शङ्क्याह ।। जातेष्टाविति ।। पित्रर्थो यः पुत्रः तद्गतं पूतत्वादिकं तदनुष्ठातुर्जातेष्ट्यनुष्ठातुः पितुरेव फलम् । कुत इत्यत आह ।। तेनेति ।। जातेष्टिकर्त्रा पित्रा मम पुत्रस्य पूतत्वार्थ-मिष्टिं करिष्ये इति सङ्कल्पकरणादित्यर्थः । तथा च पूतपुत्रकत्वं पितुरेव फलम् । मम पूतपुत्रकत्वार्थं इष्टिं करिष्य इत्यपि सङ्कल्पः कार्यः । तेन च पुत्रेऽपि पूतत्वं सम्पाद्यते । एवं स्वर्गगामिपितृकत्वं श्राद्धकर्तुरेव फलमिति युक्तं शास्त्रफलं प्रयोक्तरीति न्यायेन कृतेः फलभाक्त्वेन सामानाधिकरण्यमिति भावः ।

ननु पुत्रस्य पित्रर्थत्वेन पूतपुत्रकत्वं पितुरेव फलं तेन तदुद्देशादित्युक्तम् । एवमिहापि आत्मनोन्तःकरणार्थत्वेन मुक्तात्मकत्वमपि अन्तःकरणस्यैव । तेनान्तःकरणेनात्ममोक्षोद्देशा-दित्यहमपि वदिष्यामीति चेत् मैवमप्रामाणिकं भाषिष्ठा इत्याह ।। न चेति ।। अन्तःकरणार्थः न चेत्यर्थः । प्रत्युतान्तःकरणमेवात्मार्थमिति द्रष्टव्यम् । ननु यागविषयककृतिमतां ऋत्विजां स्वर्गफलाभावेन व्यभिचारान्न कृतेः फलभाक्त्वेन सामानाधिकरण्यमित्यत आह ।। आर्त्वि-ज्यादेरिति ।। आर्त्विज्यस्य स्वर्गः फलमेव न भवति । द्रव्यदानेन यजमानपरिक्रीततया यागकर्तॄणां तेषां दक्षिणाया एव फलत्वात् । अतो न व्यभिचार इत्यर्थः । कर्तृत्वस्य पलभाक्त्वेन सामानाधिकरण्यं शङ्कते ।। नन्विति ।। आरोपितमेवेति ।। आत्मेति विशेषणरहितमित्यर्थः । तथा च जीवे कर्तृत्वसद्भावेन मोक्षोऽपि तस्यैवेति भावः । बन्धमोक्षयोः सामानाधिकरण्याय पूर्वं शङ्कितम् । कृतिफलयोः सामानाधिकरण्यायेह पुनराशङ्केति भेदः ।। निरस्तत्वादिति ।। आरोपितकर्तृत्वस्य फलभाक्त्वान्वये तन्त्रत्वे तस्य स्थूलः करोमीति प्रतीत्या देहादावपि सत्वात्फलभाक्त्वान्वयप्रसङ्गः । आत्मारोपितकर्तृत्वस्य फलान्वयतन्त्रत्वे कर्तृत्वाध्यासे सिद्धे आरोपितस्यापि कर्तृत्वस्य फलान्वयप्रयोजकत्वसिद्धिः तत्सिद्धौ च कृतिफलयोः सामानाधिकरण्याव्यभिचारात्कर्तृत्वा ध्याससिद्धिरित्यन्योन्याश्रय इत्येवं निरस्तत्वादिति भावः । आरोपितकर्तृत्वस्य वाऽऽत्मारोपितकर्तृत्वस्य वाऽभावे न फलान्वय इति व्यतिरेकव्याप्तेः सम्भवति व्यभिचार इत्याह ।। सत्येति ।। फलभोक्तृत्वा-च्चेत्येव पाठः ।

नन्वात्मनि फलान्वये आरोपितकर्तृत्वं तन्त्रम् । बुद्धौ च फलभोक्तृत्वान्वये सत्यभूतं कर्तृत्वं तन्त्रमित्याशङ्क्याननुगमेन निराकरोति ।। न चेति ।। अन्यान्यत्वेन क्रोडीकार इति चेन्न । गौरवात् । अन्योन्याभावस्य धर्मिस्वरूपत्वेन पुनरननुगम एवेति । अत एवास्वर-सादाह ।। अपि चेति ।। बुध्द्यभावेऽपि संसारदशायां कर्तृत्वश्रुतेरित्यर्थमभिप्रेत्याह ।। तथेति ।। बुध्द्यभावेऽपि परममुक्तिदशायां पर्यटनादिकर्तृत्वश्रुतेरित्यप्यर्थमभिप्रेत्याह ।। तथेति ।। यद्यप्यत्र स तत्रेत्यादिकमेवोदाहर्तव्यं तथापि परममुक्तित्वज्ञापनार्थं परञ्ज्योति-रित्यादिपूर्व वाक्योदाहरणमिति ज्ञातव्यम् । ‘प्रत्यक्षैषा कर्तृता जीवसंस्था तथागमादनुमानाच्च सर्वम् । पूर्णं प्रमाणं तत् त्रयं चाविरोधेनैकत्रस्थम्’ इति महाभारततात्पर्यनिर्णयहठ-वादीयवचनं हृदि निधाय तदर्थमेव कारिकया सङ्गृह्णाति ।। अपि चेति ।। अनेन प्रत्यक्षै-षेति वाक्योक्तं प्रत्यक्षादिकं विवृतं भवति । श्लोकं व्याकुर्वन्नेव प्रत्यक्षादीनामप्रामाण्यं किं न स्यादित्याशङ्कां च निराकरोति ।। न चेति ।। प्रत्यक्षेणानुमानैः श्रुतिभिश्च सिद्धे आत्मनः कर्तृत्वादावित्यन्वयः । विमतः अहमर्थभिन्नत्वादिना विमतिविषयीभूतः । सम्मतवत् यजमानवत् । आदिशब्दोक्तलिङ्गं दर्शयति ।। अज्ञानमित्यादिना ।। आत्ममात्राश्रिता-ज्ञानसामानाधिकरण्यसिद्धौ आत्मन एव ज्ञातृत्वप्राप्त्या तत्प्रयुक्तं कर्तृत्वमपि तस्यैव सेत्स्यतीति भावः । सम्मतो निगडः । आदिशब्दोदितेश्वरकर्तृत्वप्रतिपादकं श्रुतिवाक्यं दर्शयति ।। आनन्देति ।। कर्ता विज्ञानात्मा यो वेदेति जीवकर्तृत्वश्रुतेरानन्द भुगित्या-दीश्वरकर्तृत्वं श्रुतेश्च प्रत्यक्षप्राप्तजीवेश्वरकर्तृत्वानुवादपरत्वान्न स्वार्थे तात्पर्यमिति बाधक-माशङ्क्य निराकरोति ।। न चेति ।। अहमर्थान्यात्मा जीवः । न हि अहं कर्तेति प्रत्यक्षप्रतीतिं विहाय तदन्यात्मकर्तृत्वं प्रत्यक्षप्राप्तं येन श्रुतिरनुवादः स्यात् । अहं कर्तेति प्रत्यक्षं च नात्मकर्तृतावगाहि त्वन्मतेऽस्याहमर्थभिन्नत्वादिति भावः ।

नन्वात्मचैतन्यस्य निर्धर्मकत्वान्न तस्य कर्तृत्वमित्याशङ्क्य निराकरोति ।। न चेति ।। निर्धर्मकत्वेति ।। ब्रह्मणि निर्धर्मकत्वरूपधर्मसद्भावे निर्धर्मकत्वोक्तिव्याघातः । तदभावे सधर्मकत्वस्यैव प्राप्त्या निर्धर्मकत्वोक्तिव्याघात इत्यर्थः । ज्ञानत्वादिधर्मवत् ज्ञानकर्तृत्वादि-धर्माङ्गीकारे बाधकाभावान्न निर्धर्मकत्वं ब्रह्मण इत्याह ।। ज्ञानत्ववदिति ।। बुध्द्य-विशिष्टस्येति ।। बुद्धिविशिष्टस्यैव बुद्धिज्ञातृत्वे आत्माश्रयापातादिति भावः ।। निष्क्रियत्व- मिति ।। कर्तृत्वाङ्गीकारे क्रियावेश प्राप्तेरिति भावः । निष्क्रियत्वं बाधकमित्यत्रात्मनो धात्वर्थक्रियाशून्यत्वमभिप्रेतं परिस्पन्दशून्यत्वं वा ? नाद्य इत्याह ।। क्रियाया इति ।।  अस्त्यादीति ।। अस्ति ब्रह्मेति चेद्वैदेत्यादिवाक्यादिति भावः ।। अप्रयोजकत्वादिति ।। ब्रह्मणः परिस्पन्दरूपक्रियाभावेऽपि ज्ञानादिरूपक्रियानिमित्तं ज्ञातृत्वादिकं किं न स्यात् ? ज्ञानादीनामपरिस्पन्दरूपत्वेन विरोधाभावादिति भावः ।। निर्विकारत्वमिति ।। कर्तृत्वाङ्गी-कारे विकारप्राप्तेरिति भावः । आत्मनो ज्ञानरूपगुणाश्रयत्वेन ज्ञातृत्वाङ्गीकारे द्रव्यान्तरत्वा-पत्तिरूपविकाराप्राप्तेः यथा ह्याकाशस्य संयोगाद्याश्रयत्वेऽपि न द्रव्यान्तरत्वापत्तिरूपो विकारः यथा वाऽऽत्मनस्त्वन्मतेऽज्ञानरूपबन्धतद्ध्वंसरूप मुक्त्याश्रयत्वेऽपि न द्रव्यान्तरत्वापत्ति-रूपं विकारित्वं तद्वदित्याह ।। आकाशस्येति ।। सुषुप्ताविति ।। मनसोऽभावे मनसोऽ-भावदशायां सुषुप्तावित्यन्वयः । तथा चात्मनः कर्तृत्वाङ्गीकारे तस्य सुषुप्तावपि सत्वेन तत्रापि कर्तृत्वापात इत्यत्रेष्टापत्तिरित्यर्थः । किञ्च मनसोऽभावे कर्तृत्वाद्यदर्शनं न मनसः कर्तृत्वं गमयति किन्तु निमित्तत्वमेव निमित्तकारणव्यतिरेकेणापि कार्यादर्शनसम्भवात् । न हि दण्डाभावे घटादर्शनं दण्डस्य कर्तृत्वं गमयतीति भावेनाह ।। देहादिवदिति ।। देहाभावे कर्तृत्वादर्शनाद्देहस्यापि कर्तृत्वापात इति भावः ।। श्रुतिरिति ।। ‘विज्ञानं यज्ञं तनुते कर्माणि’ इति श्रुतौ विज्ञानशब्दोक्तमनसः कर्तृत्वप्रतीतेरित्यर्थः ।

ननु ‘कामः सङ्कल्पः’ इत्यादि श्रुतौ कामादीनां मनआद्यात्मकत्वं कथ्यते । मनआद्यात्मकत्वं च तत्कर्तृत्वमेवेति मनसः कर्तृत्वसिद्धिरिति चेत्तत्राह ।। काम इति ।। श्रुतेर्मनःकारणत्वपरत्वादित्यर्थः । श्रुत्या श्रुत्यन्तरसंवादेन । तथा च कामादीनां मन आद्य-भेदोक्तिः श्रुत्यन्तरानुसारेण मनसः कारणत्वपरैव, न कर्तृत्वपरेत्यर्थः ।। युक्तमिति ।। जीवमित्यर्थः । अनया केवलस्यात्मनो भोक्तृत्वाभावावगमान्मनोयुक्तस्यैव च तदवगमेना-वश्यकत्वान्मनस एव भोक्तृत्वमवगम्यत इति भावः ।। सहकारितेति ।। आत्मशब्दोदि-तदेहादिसाधारणमनस्सहकारेणात्मनो भोक्तृत्वमुच्यत एव । न तु मनसो भोक्तृत्वम् । तथात्वे देहेन्द्रिययोरपि भोक्तृत्वापत्तेरिति भावः । ननु ध्यायतीवेति श्रुतौ इव शब्दश्रवणात् अहङ्कार-विमूढः सन् स्वातन्त्र्येणाहं कर्तेति मन्यत इत्येवं जीवे स्वातन्त्र्येण कर्तृत्वनिवारकत्वा-दित्यर्थः ।

ननु वस्तुतोऽकर्ता जीव आत्मानं कर्तारं विमूढः सन्मन्यत इति कर्तृत्वमात्रनिवारकत्वं किं न स्यादित्यत आह ।। तत्रैवं सतीति ।। आत्मानं केवलं ईश्वरानियतं कर्तारं यः पश्यति न स पश्यतीति ईश्वरानियतकर्तृत्वं मन्यमानस्यैव निन्दनात् । सर्वथा कर्तृत्वनिषेधे तु केवलपदवैयर्थ्यादिति भावः । उदाहृतश्रुतिस्मृतीनाम स्मदुक्तार्थमनङ्गीकृत्य जीवकर्तृत्व-निषेधकत्वाङ्गीकारे बाधकमाह ।। अन्यथेति ।। उक्तेति ।। कर्ता विज्ञानात्मा यो वेदेदं जिघ्राणीत्याद्युदाहृतनिरवकाशश्रुतिविरोधादित्यर्थः ।। क्लेशसम्बन्धादिति ।। क्लेशनियतत्वा-दित्यर्थः । श्रुतिः ईश्वरादिकर्तृत्वप्रतिपादिका ।। दर्शेति ।। ‘दर्शपूर्णमासाभ्याम्’ इति श्रुतेरपि स्वार्थतात्पर्यं न स्यात् । तत्रापि यागादिकरणे बह्वायासेन क्लेशसद्भावादित्यर्थः । किञ्च न कर्तृत्वं क्लेशव्याप्तं किं तु लीलाया अकरणे श्वासादेश्चाकरण एव क्लेशदर्शनात् कर्तृत्वाभाव एव क्लेशव्याप्त इत्याह ।। लीलादेरिति ।। किञ्च कर्तृत्वस्य न क्लेशेन सम्बन्धः प्रत्युत फल-सम्बन्ध एव श्रूयते । अतः श्रुतेः स्वार्थे तात्पर्यमवश्यमङ्गीकार्यमिति उक्तश्रुत्यादिबलादात्मन एव कर्तृत्वसिद्धिर्नान्यस्येति भावेनाह ।। यदा वा इति ।। फलेति ।। स्वस्थतयाऽ-वस्थानरूपेत्यर्थः ।

।। इति कतृत्वाध्यासभङ्गविवरणम् ।।

न्यायकल्पलता

नन्वहमर्थस्यात्मत्वे तस्मिन्नकर्तरि कर्तृत्वं न प्रतीयेत, कर्त्रन्तरस्याभावेन तदुपाधिक-कर्तृत्वस्याप्यभावात् । अतः कर्तृत्वादिमदन्तःकरणस्य चिदात्मतयाध्यास इति चिद-चित्सम्वलनसिद्धिरित्यादिमतं दूषयितुमुत्थापयति ।। यच्चोच्यत इति ।। आत्मनि कर्तृत्वा-ध्यासो निरुपाधिक उत सोपाधिकः ? आद्ये सोपाधिकत्वोक्तिविरोधः । द्वितीये कुसुम-स्फटिकयो रक्तत्वद्वयप्रतीतिवत् मनश्चितोः कर्तृत्वद्वयप्रतीतिः स्यादिति समाधत्ते ।। तत्रेति ।। सङ्गृहीतमर्थं विशदयति भवितव्यं हीति ।। नन्वध्यस्यमानरक्तत्वा तिरिक्तरक्त-त्वाश्रयस्य कुसुमस्य भिन्नस्य सत्त्वात् रक्तत्वद्वयप्रतीतिः इह त्वध्यस्यमानकर्तृत्वातिरिक्त-कर्तृत्वाश्रयस्यान्तःकरणान्तरस्याभावेन न कर्तृत्वद्वयप्रतीतिरिति शङ्कते ।। ननु मन इति ।। सोपाधिके भ्रमे हि जपाकुसुमादिरुपाधिर्न स्फटिकाद्यात्मनाध्यस्यते । किं तु तत्र तद्गत-धर्मसदृशं धर्मान्तरम् । निरुपाधिके तु भीषणत्वादियुक्तं सर्पादिकं रज्ज्वात्मनारोप्यते । न तु सर्पगतभीषणत्वातिरिक्तं भीषणत्वम् । अत्र तु कर्तृत्वादिमदन्तःकरणमेव चिदात्मनाध्य-स्यते । न तु कर्तृत्वान्तरमिति सर्पाध्याससदृशोऽयं निरुपाधिक एव स्यादिति परिहरति ।। अधिष्ठानेति ।। कर्तृत्वान्तरस्येति ।। न चात्राप्यात्मनि कर्तृत्वान्तरमध्यस्यत इति युक्तम् । तथात्वे कर्तृत्वद्वयस्यापि विविच्य प्रतीत्यापातात् । न चात्मान्तःकरणयोरैक्या-ध्यासान्न तथा प्रतीतिरिति वाच्यम् । कर्तृत्वादिमदन्तःकरणस्य चिदात्मनाऽध्यासेनैव चिदात्मनि कर्तृत्वप्रतीतिसम्भवेन कर्तृत्वान्तरारोपकल्पनायुक्तेः ।

ननु रज्जुसर्पादावध्यस्यमानभीषणत्वादिविशिष्टसर्पापेक्षयाधिकसत्ताकसर्पान्तरस्य सम्भवेन नायमुपाधिरतो निरुपाधिकत्वम् । अत्र त्वध्यस्यमानान्तःकरणापेक्षया कर्तृत्वादिधर्मविशिष्ट-मन्यदधिकसत्ताकं नास्त्येवेत्यन्तःकरणमत्रोपाधिरिति मैवम्् । कर्तृत्वान्तरारोपाभावे सोपाधि-कत्वानुपपत्तेः । तदारोपे तु कर्तृत्वद्वयप्रतीतेर्दुर्वारत्वादि त्युक्तत्वात् । ननु चिन्मनसो-र्भेदाग्रहान्न कर्तृत्वद्वयप्रतीतिरित्यत आह ।। मन इति ।। न च तादात्म्यारोपविरोधि-भेदग्रहस्य प्रतिबन्धकत्वम् । अयं तु न तथेति वाच्यम् । सोपाधिके तादात्म्यारोपस्या-दर्शनेनास्यापि तद्विरोधित्वापातात् । अन्यथान्योन्याश्रयात् ।

ननु चिन्मनसोरभेदग्रहस्य प्रतिबन्धकत्वान्न तद्द्वयप्रतीतिरित्यत आह ।। इदंसर्पयो-रिति ।। ननु मनसश्चिदात्मनाध्यासेऽपि सोपाधिकारोप एवायं, तत्प्रयोजकस्यात्र सत्त्वा-दित्याशङ्क्य निराकरोति ।। अध्यस्यमानेति ।। उपाधेस्तद्धर्मस्य चेत्यनुषङ्गः ।। द्वितीय इति ।। आत्मनि कर्तृत्वस्य व्यावहारिकत्वे बुद्धौ तत्पारमार्थिकं, बुद्धौ तस्य व्यावहारिकत्वे आत्मनि तत्प्रातिभासिकं स्यादित्यर्थः । यत्तु यदन्वयव्यतिरेकानुविधायितया यत्प्रतीयते तदपेक्षयाधिकसत्ताकतद्धर्माश्रयान्तराभाव एव सोपाधिकत्वे तन्त्रमिति, तन्न । स्फटिके रक्तारोपेऽसम्भवात् ।। उभयत्रेति ।। न चेष्टापत्तिः । उपाधेः पृथगदर्शनेन तत्र सोपाधिकत्वाव्यवहारात् ।। बुद्धिगतमिति ।। केवलबुद्धिगतं कर्तृत्वं चित्सम्वलनरूपेऽहमर्थे आरोप्यते तद्गतं वा शुद्धात्मनीत्यर्थः । द्वितीयेऽहमर्थचैतन्ययोः कर्तृत्वे प्रतीयेयातामिति दोषे सत्येव दोषान्तरमाह ।। द्वितीय इति ।।

नन्वहमर्थश्चिदचित्सम्वलनरूपत्वात् द्व्यंशः । तत्राचिदंशे बुद्धौ कर्तृत्वसत्त्वेऽपि तद्विशिष्टाया बुद्धेश्चित्यैक्याध्यासं विनाऽहं कर्तेति प्रतीत्ययोगेन तदध्यास आवश्यक इति चेन्न । अस्मिन्पक्षे बुद्धिगतकर्तृत्वस्यात्मन्यध्यस्तत्वाङ्गीकारेणोक्तपक्षद्वयबहिर्भावात् । तच्च कर्तृत्वद्वयप्रतीत्यापत्त्या निरस्तम् । करणत्वस्यौपचारिकत्वं निरस्यति ।। प्रसिद्धीति ।। न चान्यत्र कर्तुरुपलब्धिं प्रति करणत्वाविरोध इति युक्तम् । उपलब्धुरात्मनोऽन्तर्बहिः करणत्वेनैव मनश्चक्षुरादीनां प्रसिद्धेः ।। अपि चेति ।।

ननु कर्ता शास्त्रार्थवत्त्वादित्यधिकरणे बुद्धेरेव कर्तृत्वम् । भोक्तृत्वं तु चैतन्यस्येति पूर्वपक्षे तयोः सामानाधिकरण्यनियमेन चैतन्यस्य भोक्तृत्ववत् कर्तृत्वमप्यङ्गीकार्यमित्युक्तम् । न तु बुद्धेरकर्तृत्वमात्मनो वा स्वाभाविककर्तृत्वमिति । यथा च तक्षोभयथेत्युत्तराधिकरणे पूर्वाधिकरणोक्तस्यात्मकर्तृत्वस्य स्वाभाविकत्वं पूर्वपक्षय्य औपाधिकत्वस्य स्थापितत्वादिति मैवम् । कर्तृत्वभोक्तृत्वयोः सामानाधिकरण्यनियमेन व्यावहारिकयोस्तयोः आत्मन्येव युक्त-त्वात् । अन्यथा बुद्धेरपि भोक्तृत्वापत्तिः । ननु कर्तृभोक्तृत्वनियमोऽसिद्ध इति युक्तम् । बाधकाभावे तस्य तन्नियम इति वक्ष्यमाणत्वात् । ननु बुद्ध्यात्मनोरविवेकनिबन्धनं जीवनिष्ठं कर्तृत्वमिति तत्र सिद्धान्तितमतो न तद्विरोध इत्यत आह ।। बुद्धीति ।। फलभाक्त-येति ।। कर्तुः फलभोक्तृत्वं नत्वकर्तुरित्यर्थः । नन्वज्ञानरूपानर्थस्यात्मगत त्वान्मोक्ष-सामानाधिकरण्यमित्यत आह ।। अज्ञानमपीति ।। दुःखादेरेवानर्थत्वात्तस्य च कर्तृत्वाधीन- भोक्तृत्वनियन्त्रितत्वान्न बन्धमोक्षयोः सामानाधिकरण्यमित्यर्थः ।। एतदिति ।। कल्पितोऽ-नर्थोऽस्तीत्यस्येत्यर्थः । एतेनारोपितत्वपुरस्कारेणानर्थत्वाभावान्नान्योन्याश्रय इति निरस्तम् ।

ननु मोक्षस्यापि कल्पितस्यैव पुरुषार्थत्वमिति मन्दाशङ्कां वार्तिकसम्मत्या परिहरति ।। तदुक्तमिति ।। आरोपितस्य कर्तृत्वादेरनर्थत्वे देहेऽपि तत्स्यादित्याह ।। स्थूल इति ।। आत्मस्थमिति ।। तथा च देहस्थभोक्तृत्वं नानर्थ इति भावः ।। अनर्थकोटित्वेति ।। देहादिगतस्य कर्तृत्वादेरनर्थत्वं वारयितुमात्मनो विशेषणतयोपादानादित्यर्थः । उपलक्षणत्वे तु देहादिगतस्याप्यनर्थत्वापत्तिरिति बोध्यम् । यत्तूक्तमात्मसम्बन्धित्वेनैवानर्थस्य हेयत्वादात्म-नोऽपि हेयत्वं सर्वमतेऽपि स्यादिति तत्त्वतिमन्दम् । अनर्थस्य स्वत एव हेयस्य निवृत्ति-रात्मसम्बन्धितया सुखवदिष्यते । इह त्वारोपितकर्तृत्वादेर्देहात्मनोर्वृत्तेः देहगतं तद्व्या-वर्तयितुमात्मविशेषणमिति तस्यानर्थकोटौ निवेशः स्यादेव । शुद्धात्मनि कदापि कर्तृत्वाद्य-प्रतीतेर्न तत्र तद्भ्रम इत्यत आह ।। भ्रमेति ।। न च शुद्धस्य भोक्तृत्वाद्यनर्थानाश्रय-त्वेऽप्युपहितस्य शुद्धात्स्वाभाविकभेदाभावेन बन्धमोक्षसामानाधिकरण्योपपत्तिरिति युक्तम् । उपहितानुपहितयोर्भेदात् । अन्यथा दृश्यत्वस्योपहितवृत्तित्वेन शुद्धवृत्तितापत्तेः ।। शास्त्र-फलमिति ।। तृतीयेऽभिहितं शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्तस्मात्स्वयं प्रयोगे स्यात् । शास्त्रफलं कर्मप्रयोक्तरि यजमाने तस्मात्स्वयमेव यजमानः परिक्रयद्वारा चाङ्गप्रधानेषु कर्ता स्यादिति जैमिनिसूत्रार्थः ।

ननु शास्त्रफलं प्रयोक्तरीति न नियमः जातेष्टिपितृयज्ञादौ व्यभिचारात् । न च पूतपुत्र-कत्वं स्वर्गभागिपितृत्वादिकं वा कर्तृगतमेव फलमिति युक्तम् । तस्य फलत्वेनाश्रवणात् । न च तादृक्पुत्रकत्वं फलेन सम्बन्धः, न तु फलमिति वाच्यम् । एवं हि संयुक्तसमवायादिना पित्रन्यस्यापि तत्फलं स्यादशास्त्रीयत्वाविशेषादिति शङ्कां परिहरति ।। जातेष्टावपीति ।।  पित्रर्थेति ।। न च तस्य फलत्वेनाश्रवणम् । यस्मिन् जात एतामिष्टिं निर्वपति पूत एव स तेजस्व्यन्नादो भवतीति पुत्रगतपूतत्वस्य फलत्वेन श्रुतस्य पित्रोद्देशात्तस्योद्देश्यत्वमु पपादयितुं पित्रर्थेत्युक्तम् । यथा ग्रामपश्वादेः स्वासमवायिनोऽपि स्वस्य सुखसाधनतयो-द्देश्यत्वेन स्वसमवेतफलत्वं तथा पुत्रसमवेतपूतत्वस्यापि स्ववृत्तिफलत्वम् । अन्तःकरणस्य तु नात्मगतो मोक्ष उद्देश्य इत्याह ।। न चेहेति ।। एतेन अहमर्थस्यात्मनात्मरूपत्वेन आत्मन्यपि फले उद्देशगतत्वानपाय इति निरस्तम् । नन्वारोपानारोपसाधारणं कर्तृत्वमेव फलभोक्तृत्वे प्रयोजकम् । तच्चात्मन्यस्त्येव । न च शरीरेऽप्यारोपितकर्तृत्वेन फलभाक्ता-पत्तिः । फलपर्यन्तमसत्त्वेन फलभाक्त्वासम्भवात् । मैवम् । तस्य फलभाक्त्वान्यथानुपपत्त्यैव सूक्ष्मरूपेणावस्थितस्य पुनरुपचयो वा अदृष्टद्वारा फलपर्यन्तसत्त्वं वा कल्पनीयम् ।

ननु न कर्तुः फलवत्त्वनियमः । किं तु फलभाजः कर्तृत्वनियमः । अजनितफल-कर्मकर्तरि व्यभिचारादिति चेन्न । अपवादाभावे सति कर्तुः फलवत्त्वनियमात् । अन्यथा बहुयजमानकाग्निष्टोमादौ कस्यचित्फलाभावशङ्कया कदाप्यनेकेषां प्रवृत्तिर्न स्यात् । अत एव न व्यभिचारोऽपि । ननु यागकर्तृणामृत्विजां स्वर्गफलाभावाद्व्यभिचार इत्यत आह ।। आर्त्वि-ज्यादेरपीति ।। आर्त्विज्यस्य न स्वर्गः फलं परिक्रमेण तेषां यागकर्तृत्वात् । किं तु दक्षिणेत्यर्थः ।। नन्विति ।। बन्धमोक्षसामानाधिकरण्याय पूर्वशङ्कितं कृतिफलयोः सामानाधिकरण्यायेहोच्यत इति भेदः ।। निरस्तत्वादिति ।। आद्ये देहादेरपि फलभाक्त्व-प्रसङ्गः । द्वितीये कर्तृत्वाध्यासे सिद्धे आरोपितस्यापि कर्तृत्वस्य फलान्वयप्रयोजकत्वं, तस्मिंश्च सति कृतिफलयोः सामानाधिकरण्याव्यभिचारात्कर्तृत्वाध्याससिद्धिरित्यन्योन्याश्रय प्रसङ्ग इत्यर्थः । उभयत्र दोषान्तरमाह ।। सत्येति ।। धर्मिसमसत्ताकेत्यर्थः । उभय-मिति ।। क्वचित्प्रमितं क्वचिद्भ्रमितमित्यर्थः । कर्तृत्वं मुख्यत आत्मवृत्ति, मुख्यतोऽ-न्यावृत्तित्वे सति वृत्तिमत्वात्, सम्मतवदित्यभिसंहितानुमाने विशेषणासिद्धिं उद्धरति ।। अपि चेत्यादिना ।। श्रूयते हीति ।। नैवेह किञ्चनाग्र आसीदित्यारभ्य तन्मनोकुरुतात्मन्वी स्यामित्यत्र कृतिकर्मत्वम् । तथा प्राणन्तःप्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृृण्वन्तः श्रोत्रेण विद्वांसो मनसैवमजीविष्मेति श्रुतौ करणत्वम् । तथा मन उदक्रामदित्यत्र तथा मनो होच्चक्रामतत्संवत्सरं प्रोष्यागत्योवाच कथमशकत माम् ऋते जीवितुमिति ते होचुर्यथा मुग्धा अविद्वांसो मनसा प्राणन्तः प्राणेन वदन्तो वाचेत्यादौ मनस उत्क्रमणेऽप्यात्मनः कर्तृत्वम् । आत्मनः कर्तृत्वसाधकं विशिष्य निरूपयन् बाधकमप्याह ।। न चाहङ्करोमीत्यादि ।। न चेत्यस्य बाधकमस्तीत्यनेन अन्वयः ।। मोक्षेति ।। फलान्वयित्वं प्रत्यनारोपितकृतेरेव प्रयोजकतया नारोपितकृतिमादाय सिद्धसाधनादिति ।। फलेति ।। न च जातेष्टिफलान्वयिनि पुत्रे व्यभिचारः । तत्फलस्य पुत्रपूतत्वादेः पुत्रासमवेतत्वात् ।। ज्ञानेति ।। स्वसमसत्ताक-ज्ञानसमानाधिकरणमित्यर्थः । तेनारोपितज्ञानसामानाधिकरण्यमादाय न सिद्धसाधनादि । न चानादिभावभिन्नत्वमुपाधिः । सत्तादौ साध्याव्याप्तेः ।। मोक्षेति ।। स्वसमसत्ताकमोक्ष-समानाधिकरण इत्यर्थः । तेनारोपितानारोपितसाधारणसम्बन्धेन मोक्षसामानाधिकरण्यसाधने इष्टापत्तिरनारोपितसम्बन्धेन तत्साधने साध्याप्रसिद्धित्यपास्तम्म्् ।। कर्तेति ।। प्रश्नोपनिषदि बोद्धा कर्ता विज्ञानात्मा पुरुष इति । छान्दोग्ये अथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम् । मण्डूकोपनिषदि ‘विश्वो हि स्थूलभुङ् नित्यं तैजसः प्रविविक्तभुक् । आनन्दभुक्तथा प्राज्ञस्त्रिधा भोगं निबोधत’ इत्यादिभिः ।। अहमर्थेति ।। अहं करोमीति प्रत्यक्षस्याह-मर्थान्यात्मनि कर्तृत्वबोधकत्वे तदेव तत्र प्रमाणम् । श्रुतिस्तु तद्दार्ढ्यार्था । तदबोधकत्वे तु श्रुतेर्नानुवादकत्वम् । ईश्वरकर्तृत्वस्य प्रत्यक्षेण सर्वथाऽप्राप्तेरित्यर्थः ।। स हीति ।। बृहदारण्यके ‘न तत्र रथा न रथयोगा इत्यारभ्य स हि सर्वस्य कर्ता’ इति पाठः । तत्रैव यस्यानुवित्त इति मन्त्रे स विश्वकृत्स हि सर्वस्य कर्तेति पाठः । व्याघातादिति ।।  न च निर्धर्मकत्वं धर्माभावरूपं ब्रह्मस्वरूपमेव न तु धर्म इत्यतो न व्याहतिरिति वाच्यम् । कर्तृत्वेऽपि तुल्यत्वात् ।। सत्यस्येति ।। तात्विकस्य व्यावहारिकस्य वेत्यर्थः । एतेनारोपितकर्तृत्वस्यात्मन्यपि सम्भवादिष्टापादनमिदमिति निरस्तम् ।। आत्मन्यपीति ।। अस्ति ब्रह्मेति श्रुतेः । न च सद्रूपं ब्रह्म न तु तत्र सत्ताधर्मोऽस्तीति युक्तम् । कर्तृत्व-शून्यस्यापि कर्तृरूपत्वाविरोधात् । अस्ति ब्रह्मेति सत्ताश्रयत्वस्यैव श्रुतत्वाच्च ।। सुप्त इति ।। ऐतरेयके तं भूतिरिति देवा उपासाञ्चक्रिरे । ते बभूवुस्तस्माद्धास्ये तर्हीत्यादिना । देवाः परमात्मानं भूरित्युपासांचक्रुः । ज्ञानानन्दाद्यनन्तानवद्यकल्याणगुणपरिपूर्णो भूतिः । हेति प्रमाणप्रसिद्धिमाह । तस्मात्  एतर्हि इदानीमपि सुप्तस्थः मुख्यप्राणः भूर्भूरित्येव प्रश्वसिति । पूरि पूर्णः परिपूर्ण इति श्वासं करोतीति श्रुत्यर्थः । सुखज्ञानादिगुणदं पूर्णसर्वगुणैः प्रभुम् । उपासते तं वाय्वाद्याः देवाः तस्माच्च तेऽखिलाः । बभूवुः सुखसज्ज्ञानपूर्वैः सर्वैर्गुणैर्युताः । देवानामपि सर्वेषां प्रधानोऽद्यापि मारुतिः । स्थित्वा सुप्तेषु विष्णुं तं भूर्भूरित्येव शंसतीति स्मृतेः । भू बहाविति धातोः बहुविपुलःपूर्ण इत्येकार्थत्वात् । सुप्तान् करोति सुप्तयति । सुप्तयतीति सुप्तो मुख्यवायुरित्यर्थः । तत्प्रेरितजीवनयोनिप्रयत्नाज्जीवेऽपि श्वसतीत्यभिप्रेत्योक्तं तदाप्युश्वासादिकर्तृत्वदर्शनादिति । तथा च सामान्यतः क्रियाऽभावोऽसिद्धो विशेषतस्तु तदभावोऽन्यथासिद्ध इत्याह ।। देहादिवदिति ।। मनोव्यतिरेकेण क्रियादर्शनं तस्या-स्तन्निमित्तकत्वं गमयति न तु तत्कर्तृकत्वमित्यर्थः ।

ननु ‘विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च’ इति श्रुतौ विज्ञानपदोदितबुद्धे-र्यज्ञादिकर्तृत्वश्रवणमेवात्मनः कर्तृत्वबाधकमित्याशङ्क्य निराकरोति ।। नापीति ।। नात्र विज्ञानशब्दाद्बुद्धिः किं तु ब्रह्मेत्यर्थः । मनसेति तृतीयया मनसः करणत्वस्य, सङ्कल्पयति व्याहरतीत्यात्मनः कर्तृत्वस्य चावगमादित्यर्थः । एतच्चोपलक्षणम् । अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृृणोति कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्धीर्भीरित्येतत्सर्वं मन एव तस्मादपि पृष्टत उपसृष्टो मनसा विजानातीत्यत्रैव श्रुतौ तृतीयानिर्देशान्मनसः करणत्वं कर्तृलकारनिर्देशादात्मनः कर्तृत्वं चावगम्यत इत्यपि बोध्यम् । ‘आत्मेन्द्रियमनोयुक्तम्’ इति श्रुतौ मनोयुक्तस्यैव भोक्तृत्वं न केवलस्येति शङ्कां वारयति ।। आत्मेति ।। ‘आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रह मेव तु । इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ इति काठकश्रुतौ देहादिसाधारणमनःसहकारेणात्मनो भोक्तृत्वमुच्यते । अन्यथा देहादेरपि भोक्तृत्वापत्तेरित्यर्थः । इन्द्रियमनोयुक्तमात्मानं भोक्तेत्याहुरित्यर्थः । सुपां सुलुगित्यादिना सूत्रेण द्वितीयैकवचनस्य सुरादेशः ।। ध्यायती-वेति ।। ज्योतिर्ब्राह्मणे कतम आत्मेति योऽयं विज्ञानमयः पुरुषः प्राणेषु हृद्यन्तर्ज्योतिः समानः सन्नुभौ लोकावनुसञ्चरति ध्यायतीवेत्यादिश्रुतावित्यर्थः । श्रुत्यर्थस्तु ज्योतिर्दर्शना-दित्यधिकरणे द्रष्टव्यः ।। अहंकारेति ।। तामसाहंकारेत्यर्थः ।। अकृतेति ।। अशिक्षितेत्यर्थः ।

।। इति कर्तृत्वाध्यरासभङ्गः ।।