नापि श्रुतिः
३६. सामान्येन मिथ्यात्वे श्रुतिनिरासः
न्यायामृतम्
नापि श्रुतिः । श्रुत्या स्वस्वरूपस्वप्रामाण्यतद्धेतुयोग्यतादेर्मिथ्यात्वाबोधने प्रत्यक्षादिसिद्धतत्सत्यत्वोपजीवने ब्रह्मेतरसर्वमिथ्यात्वासिद्धेः । ‘सन्निपातलक्ष णो विधिरनिमित्तं तद्विघातस्य’ इति महाभाष्योक्तन्यायेन प्रत्यक्षादिसिद्ध घटादिमिथ्यात्वासिद्धेश्च । बोधने श्रुतिबोध्यार्थस्य तात्त्विकत्वासिद्धेः । शब्द बोध्यस्य शब्दतत्प्रामाण्ययोग्यतादिना समसत्ताकत्वनियमादित्युक्तत्वात् । सदर्थे स्वाप्नदेवतादिवाक्येऽपि योग्यताप्रामाण्ये अपि सती एव । शब्दस्वरूपम् अपि मम सत्यम्, तव तु न तच्छब्दत्वेन मानम्, आप्त्यपौरुषेयत्वयोरभावात्, किन्तु यादृच्छिकसंवादि वा उपश्रुतिवत्तादृशशब्दज्ञानं लिङ्गत्वेन प्रमाणं वा । न च तात्त्विकसर्वमिथ्यात्वपरश्रुतिबलादिह समसत्ताकत्वनियमभङ्गः ।‘स्वर्ग कामो यजेत’ इत्यादिविधेरुपजीव्याग्निविद्यावद्विषयकत्वेनेव द्वैतनिषेधस्यापि स्वोपजीव्य-योग्यतादीतरविषयकत्वेन सङ्कोचस्य वा सृष्ट्यादिश्रुतेरिव कल्पित विषयत्वस्य वोपपत्तौ श्रुतेस्तात्त्विकसर्वमिथ्यात्वपरत्वकल्पनेऽन्योन्याश्रयात् । तस्मात्–
शब्दार्थतद्योग्यतयोस्तुल्यत्वाद्योग्यता सती ।
न चेद्वेदोऽप्रमाणं स्याद् वृषलोद्वाहमन्त्रवत् ।।
एवं श्रुतिः स्वबोध्यं द्वितीयाभावमपि निषेधति चेत् स्वव्याघातः । न चेत्सर्व मिथ्यात्वासिद्धिरिति ।
अद्वैतसिद्धिः
एतदनुमानम् ‘एकमेवाद्वितीयम्’ इत्यादिश्रुतिरप्यनुगृह्णाति । ननु श्रुत्या स्वस्वरूपस्वप्रामाण्य स्वयोग्यतादेर्मिथ्यात्वाबोधनेन प्रत्यक्षादिसिद्धतत्सत्त्वोपजीवनेन च ब्रह्मेतरसकलमिथ्यात्वासिद्धिः । ‘सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य’ इति न्यायेन प्रत्यक्षादिसिद्धघटादिमिथ्यात्वासिद्धिश्च । योग्यतादिमिथ्यात्वबोधने च श्रुत्यर्थस्यातात्त्विकत्वापत्तिः । शब्दबोध्यस्य शब्दतत्प्रामाण्य योग्यतादिना समसत्ताकत्वनियमात् । न च सदर्थे स्वाप्नदेवतावाक्ये व्यभिचारः । आप्तत्वा पौरुषेयत्वायोगेन तस्य शब्दत्वेन प्रामाण्यायोगात्, किन्तूपश्रुतिवत्तादृशशब्दज्ञानं लिङ्गत्वेन प्रमाण मिति चेन्न निर्दोषशब्दत्वेन तस्य शब्दविधयैव प्रामाण्यसम्भवाद्, आप्तत्वापौरुषेयत्वयोर्दोषाभाव एवोपक्षयाद् व्याप्त्याद्युपस्थितिकल्पने गौरवाद्, वक्तुः कल्पितत्वेऽपि तद्गतदोषस्यार्थसंवादेन कल्पयितुमशक्यत्वाच्च । तथा च शब्दसमसत्ताकत्वस्य व्यभिचाराद् योग्यतादिसमसत्ताकत्वनियम सिद्धेरप्रयोजकत्वाच्च, परोक्षत्वानित्यत्वाद्युपाधिसम्भवाच्च श्रुत्या योग्यतादिसकलमिथ्यात्वबोधनेऽपि तदर्थस्य न मिथ्यात्वम्, मिथ्यात्वप्रयोजकरूपाभावात् ।
महाभाष्योक्तन्यायोदाहरणमपि न युक्तम्, विषयवैषम्यात् । तथा हि ‘शतानि सहस्राणि’ इत्यत्र सर्वनामस्थानसंज्ञकशिसन्निपातेन विहितो नुम् ‘ष्णान्ता षट्’ इति षट्संज्ञाद्वारा ‘षड्भ्यो लुक्’ इति शिस्वरूपसर्वनामस्थानस्य पञ्चेत्यादाविव लुङ्निमित्तं न भवति, तत्सन्निपातेनैव विहितत्वात् । तत्सद्भावनियमेनैव विहितत्वादित्यर्थः । अलुप्तस्यैव सर्वनामस्थानस्य नुमि्न-मित्तत्वात्, ‘न लुमताङ्गस्य’ इति लुमता लुप्तेऽङ्गकार्यनिषेधात् । तथा चालुप्तप्रत्ययत्वेन यत्र निमित्तता तत्र सन्निपातलक्षणन्यायावतारः । यत्र तु ‘प्रत्ययलोपे प्रत्ययलक्षणम्’ इति न्यायेन लुप्तेऽपि प्रत्यये कार्यं भवति तत्रालुप्तत्वविशेषणनैरपेक्ष्येण प्रत्ययत्वमात्रेणैव निमित्तत्वान्न सन्निपातलक्षणन्यायावतारः । प्रत्ययसद्भावस्य तत्रानुपजीव्यत्वात् । एवं स्थिते यद्यमिथ्याभूतत्वेन प्रत्यक्षादेर्निमित्तता स्यात् तदा प्रत्ययस्यालुप्तत्वेन निमित्ततायामिव भवेदेतन्न्यायावतारः । प्रत्यक्षादेस्तु स्वरूपेणैव निमित्तता स्वप्नाद्यर्थस्याप्यर्थक्रियाकारित्वदर्शनेन प्रागेवोपपादिता ।
अतो ‘यद् बाध्यते तात्त्विकत्वं तन्नोपजीव्यम्, यच्चोपजीव्यम् अर्थक्रियासामर्थ्यलक्षण व्यावहारिकप्रामाण्यं तच्च न बाध्यत इति किं केन सङ्गतम् ? तदुक्तं टीकाकृद्भिः– ‘उत्पादकाप्रति द्वन्द्वित्वात्’ इति । अत एव ज्योतिष्टोमादिविधेरुपजीव्याग्निविद्यावद्विषयत्वेनेव द्वैतनिषेधस्यापि स्वोपजीव्ययोग्यतादीतरविषयत्वेन सङ्कोचस्य वा सृष्ट्यादिश्रुतेरिव कल्पितविषयत्वस्य वोपपत्तौ न तात्त्विकसर्वमिथ्यात्वकल्पनं युक्तम्’ इत्यपास्तम् । दृष्टान्ते अग्निविद्यादेरिव दार्ष्टान्तिके योग्यतादेस्तात्त्विकस्यानुपजीव्यत्वात् । न हि योग्यता तात्त्विकयोग्यतात्वेन निमित्तं किन्तु योग्यतात्वेनैव । सकलद्वैताभावस्याधिकरणस्वरूपत्वेन तदधिकरणस्य च ब्रह्मणः ‘सत्यं ज्ञानम् अनन्तं ब्रह्म’, ‘तत्सत्यं स आत्मा’ इत्यादिश्रुत्या सत्यत्वप्रतिपादनात्, न सृष्ट्यादिश्रुतेरिव कल्पितविषयत्वोपपत्तिः । तस्माद्योग्यतादेर्मिथ्यात्वेऽपि वेदान्तबोध्यं सत्यमेवेति स्थितम् । यथा चाविद्यातत्कार्यस्य स्वरूपतो निषेधेऽपि तुच्छवैलक्षण्यं, पारमार्थिकत्वाकारेण निषेधे वा पारमार्थिकत्वधर्मशून्यस्यापि ब्रह्मणः स्वरूपेण सत्त्वं, तथोपपादितमधस्तात् ।
न्यायामृततरङ्गिणी
श्रुतिश्चात्र प्रमाणमिति सामान्येनोक्तां श्रुतिं मिथ्यात्वे निराकरोति– नापीति ।। तात्विके विश्वमिथ्यात्वे श्रुतिरपि मानं नेत्यर्थः । श्रुतिः स्वस्वरूपादिसत्यत्वम् उप जीवति न वा । आद्ये श्रुत्या विश्वमिथ्यात्वस्यैवासिद्धिः । दूरे तत्तात्विकत्वस्य इत्याह– श्रुत्येति ।। अत्र हेतुरुक्तः ‘स्वस्वरूपेत्यादि मिथ्यात्वाबोधने’ इत्यन्तेन । मिथ्यात्वाबोधने हेतुः प्रत्यक्षादीति । स्वरूपादेर्मिथ्यात्वबोधने तत्सत्यत्वोपजीवना नुपपत्तेरित्यर्थः । स्वरूपादीतरमिथ्यात्वमेव ममाभिमतमिति मन्यमानं प्रत्याह– सन्निपातेति ।। तच्छब्दश्रवणाद्यच्छब्दोऽध्याह्नियते । यत्सन्निपातेन यदुपजीवनेन लक्षणं स्वरूपं यस्य विधेः स विधिः तस्य स्वोपजीव्यस्य विघातं प्रति अनिमित्तं निमित्तं न भवति । तथा च श्रुत्युपजीव्यस्वरूपादिसत्यत्वग्राहकप्रत्यक्षजातीयतया घटादिप्रत्यक्षस्यापि श्रुत्युपजीव्यत्वमेवेति न तया प्रत्यक्षसिद्धघटादिमिथ्यात्वसिद्धिः ।
यद्वा धर्मिग्राहकत्वेन प्रत्यक्षप्रामाण्यमुपजीवन्ती श्रुतिः घटादिमिथ्यात्वबोधने न तद्विघातं न करोतीत्यर्थः । यथा शतानि सहस्राणीत्यादौ ‘नपुंसकस्य झलचः’ इत्यनेन सर्वनामस्थानसंज्ञकशिप्रत्ययनिमित्ते नुमागमे कृते ‘ष्णान्ता षडिति’ सूत्रे उपदेशग्रहणं कर्तव्यं शताष्टनार्थमिति वार्तिकाभावपक्षे नकारान्तत्वेन षट्संज्ञायां ‘षड्भ्यो लुक्’ इति शिप्रत्ययस्य लुकि प्राप्ते सन्निपातपरिभाषया शिप्रत्यययोगेन जायमानो नुम् षट्संज्ञाद्वारा शिप्रत्ययलोपनिमित्तं न भवति । तथा, मथितं पण्यमस्येत्यर्थे ‘तदस्य पण्यम्’ इति ठकि ठस्येकादेशे अजादित्वाद्भसंज्ञायां ‘यस्येति च’ इत्यकारलोपे तान्ता तत्परस्येकप्रत्ययस्य स्थानिवद्भावेन ‘इसुसुक्तान्तात् कः’ इति कादेशप्राप्तौ सन्निपातपरिभाषया कादेशो न भवति । माथितिकः । भवत्या अयमित्यर्थे भवतष्ठक्छसौ साविति ठक्ढसोश्चेति ठावस्थायामेव पुंवद्भावात्सन्निपात परिभाषाया अप्रवृत्तौ भावत्क इति भवति ।
द्वितीये त्वाह– बोधन इति ।। श्रुत्या मिथ्यात्वस्य बोधनेऽपीत्यर्थः ।। तात्विकत्वेति ।। तात्विकत्वप्रयोजकस्य स्वरूपसत्यत्वादेरभावादित्यर्थः । न च स्वरूपसत्यत्वादेः श्रुत्यर्थतात्विकत्वं प्रति प्रयोजकत्वे मानाभावः । मिथ्यात्व बोधकत्वेनाभिमता श्रुतिः स्वस्वरूपेण वा स्वप्रामाण्येन वा स्वयोग्यतया वा समान सत्ताकार्था प्रमाणशब्दत्वात् सम्मतवदित्यनुमानैस्तत्सिद्धेः । अत्र व्याप्तिग्राहकमाह ।। शब्दबोध्यस्येति ।। न चैतस्मिन्नियमे परोक्षत्वमनित्यत्वं वोपाधिः । घटादावा- काशादौ च साध्याव्याप्तेः । प्रामाण्यादिघटितसाध्यकोक्तानुमानयोः स्वाप्नवाक्ये व्यभिचारं परिहरति– सदर्थ इति ।। योग्यतेति ।। योग्यतायाः प्रामाण्यस्य चार्थ सत्त्वघटितत्वेन सदर्थकवाक्ये तयोरवश्यम्भावादित्यर्थः । शब्दस्वरूपघटितानु मानेऽपि न तत्र व्यभिचार इत्याह– शब्दस्वरूपमिति ।। मम मते तत्र साध्य-स्यापि सत्त्वादिति भावः । तव मतेऽपि न तत्र तस्य व्यभिचार इत्याह– तव त्विति ।। स्वाप्नवाक्ये स्वरूपेण मिथ्याभूते साध्याभावस्य सत्त्वेऽपि निरुक्त-हेतोस्तत्राभावादिति भावः । तुशब्दो व्यभिचारपरिहारं विशिनष्टि ।
ननु स्वाप्नवाक्ये वक्तुः कल्पितत्वेपि तद्गतदोषस्यार्थसंवादेन कल्पयितुमशक्यत्वा न्निर्दोषतया तत्प्रमाणं भवतीति निरुक्तहेतुरपि तत्रास्तीति व्यभिचार एवेत्यत आह– न तच्छब्दत्वेनेति ।। अयं भावः । शब्दासाधारणप्रामाण्यप्रयोजकवत्त्वमुक्तहेत्वर्थः । निर्दोषत्वं तु न शब्दासाधारणप्रामाण्यप्रयोजकम् । मानान्तरसाधारण्यात् । तथा चायमर्थः । तत् संवादिस्वाप्नवाक्यम् । शब्दत्वेन न प्रमाणम् । शब्द इति यत्प्रमाणं तथा न शब्दत्वावच्छेदेन यत्प्रामाण्यप्रयोजकं तदुपेतं न भवतीति । ननु शब्दासाधारणप्रामाण्यप्रयोजिकाया योग्यतायास्तत्र सत्त्वाद्व्यभिचार एवेत्यत आह– आप्तीति ।। योग्यतायाः विशेषणविशेष्यसम्बन्धरूपाया विशिष्टप्रमामात्रसाधारण त्वादाप्त्यादेरेव तथात्वम् । यद्यपि भ्रमाद्यभावरूपा आप्तिः स्वाप्नवाक्यवक्तर्यप्यस्ति तथापि शुकादिसाधारण्यान्न सा आप्तिः । किन्तु लाघवाद्वाक्यार्थप्रमा ।
अवधानं तत्वबुबोधयिषा । पटुकरणत्वादिकमेवाप्तिः । सा च न स्वाप्नवाक्य वक्तरि । अत एव न स्वाप्नवाक्ये निर्दोषत्वमपि । तत्प्रयोजकस्याप्त्यादेरभावात् । तथा च नोक्तव्यभिचार इति भावः । प्रामाण्यप्रयोजकशब्देन प्रामाण्यापवादका प्रामाण्यशङ्कानिरासकमभिधीयत इति प्रामाण्यस्य स्वतस्त्वहानिरिति । एवं सति स्वाप्नवाक्ये प्रमाणशब्दस्य व्यवहारं समर्थयते– किन्त्विति ।। शब्दत्वे सति संवादित्वात्तद्व्यवहार इत्यर्थः । तथा च तस्य शब्दत्वेप्यप्रमाणत्वान्नोक्तव्यभिचार इत्यर्थः ।। उपश्रुतिवदिति ।। यथा कश्चिदन्यार्थं शब्दं श्रुत्वापि ततः स्वाभिमत-मर्थमनुमिमीते तथा स्वाप्नवाक्यमपि लिङ्गतयैव बोधकमित्यर्थः ।। प्रमाणं वेति ।। लिङ्गीभूतस्य शब्दत्वाद्वा तद्व्यवहार इत्यर्थः । तथा तस्य प्रमाणत्वेऽप्यशब्दत्वान्न व्यभिचार इति भावः ।
उक्तानुमानेषु व्याप्त्यभावशङ्कां परिहरति– न चेति ।। उक्तनियमाङ्गीकारे श्रुत्यर्थस्य तात्विकत्वे श्रुतिस्वरूपादेरपि तथात्वापत्त्या सर्वमिथ्यात्वासिद्ध्या तत्पर श्रुतिविरोधः । अतात्विकत्वे श्रुतेः तात्विकसर्वमिथ्यात्वपरत्वव्याघात इति श्रुतेः सर्वमिथ्यात्वे तात्पर्यसंरक्षणार्थं उक्तनियम एव त्यज्यत इत्यर्थः । स्वर्गकाम इति । साग्निनिरग्निवैद्यावैद्यस्वर्गकाममात्रविषयस्यापि यजेतेति विधेः ‘आहवनीये जुहोति’ ‘यजमानोऽनुमन्त्रयते’ ‘यजमानस्य याज्या’ इत्यादिनाग्निविद्यावतोऽधिकारावगमात् तत्परत्वं यथा तथा द्वितीयनिषेधस्यापि स्वोपजीव्येतरविषयत्वम् । उपजीव्यस्य विधिनेव निषेधेनाप्यनुरोद्धव्यत्वादित्यर्थः ।। उपजीव्येति ।। यागस्याग्निविद्ये विना फलाजनकत्वात्तयोस्तत्रोपजीव्यत्वम् ।
षष्ठस्य प्रथमपादे स्थितं ‘चातुर्वर्ण्यमविशेषात्’ । अग्निहोत्रादिषु किं चतुर्णां वर्णानामधिकार उतापशूद्राणामिति संशये विधिवाक्येषु विशेषाश्रवणाच्चतुर्णामिति प्राप्ते अग्निहोत्रादीनामग्निविद्यापेक्षत्वात्तयोश्चाधानोपनयनाधीनत्वादाधानोपनयनयोश्च ‘वसन्ते ब्राह्मणोऽग्नीनादधीत’ ग्रीष्मे राजन्यः शरदि वैश्यः । वसन्ते ब्राह्मण-मुपनयीत ग्रीष्मे राजन्यं शरदि वैश्यम्’ इति त्रिष्वेव दर्शनात् । अन्यतो लब्ध-विद्यानां त्रैवर्णिकानाम् अधिकारिणां सत्त्वेन कर्मविधिभिर्निषादादिष्विव शूद्रेष्वपि तयोराक्षेपकल्पनायां प्रमाणाभावाच्छ्रूद्रव्यतिरिक्तानामेवाधिकार इति राद्धान्तः ।
ननु स्वर्गकामवाक्यस्याग्निविद्यादिकमिव द्वैतनिषेधवाक्यस्य तात्विकयोग्यतादिकं नोपजीव्यम् । न हि योग्यता तात्विकयोग्यतात्वेन निमित्तम् किन्तु योग्यतात्वे-नेति । मैवम् । स्वर्गकामवाक्यस्यास्वार्थसमसत्तकाग्निविद्यापेक्षावद्द्वैतनिषेधवाक्य-स्यापि तादृशयोग्यतापेक्षानियमात् । तात्विकार्थप्रतिपादने तात्विकयोग्यतादेरेव निमित्तत्वाच्च ।। योग्यतादीति ।। योग्यतादीतरद्वितीयं नास्तीत्यर्थपरत्वमित्यर्थः ।। सृष्ट्यादीति ।। सृष्टिवाक्यस्य तव मते यथा कल्पितसृष्टिविषयत्वं तथा द्वैतनिषेधवाक्यस्यापि कल्पितद्वैतनिषेधविषयत्वमस्त्वित्यर्थः ।
ननु सकलद्वैताभावस्याधिकरणस्वरूपत्वेन तदधिकरणस्य ब्रह्मणः ‘सत्यं ज्ञानम् अनन्तं ब्रह्म’ ‘तत्सत्यं स आत्मा’ इत्यादिश्रुत्या सत्यत्वप्रतिपादनात् न सृष्ट्यादि श्रुतेरिवास्याः कल्पितविषयत्वोपपत्तिरिति चेत् । मैवम् । विचित्रप्रपञ्चासाधारण कारणविचित्रशक्तिरूपस्य द्वैतस्य ‘परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी’ इत्यादि श्रुतिसिद्धात्मरूपस्य तात्विकत्वेन द्वैतनिषेधश्रुतेस्तात्विकविषयत्वस्याप्यनुपपत्तेः । द्वैतनिषेधस्यात्मरूपत्वासिद्धेश्च । न च तस्य तत्वावेदकश्रुतिबोध्यत्वेनात्मरूपत्वम् ।
अन्योन्याश्रयात् । द्वैतनिषेधस्य तात्विकात्मरूपत्वेन तात्विकत्वे सिद्धे तच्छ्रुतेस्तत्वावेदकत्वसिद्धिः । तत्सिद्धौ च तद्बोध्यद्वैतनिषेधस्य तात्विकात्मरूपत्व सिद्धिरिति । द्वैतनिषेधश्रुतेः तात्विकार्थपरत्वस्य विचार्यमाणत्वात् । शक्तेस्तु ब्रह्म स्वरूपत्वं ‘स्वाभाविकी’ इत्यादिश्रुत्यैव सिद्धमिति ।। अन्योन्येति ।। शब्द स्वरूपादेस्तदर्थस्य च समसत्ताकत्वनियमत्यागे सति बाधकाभावे सिद्धे श्रुत्यर्थस्य तात्विकत्वसिद्धिः । तत्सिद्धौ च तद्बलादुक्तनियमत्याग इत्यर्थः । सङ्गृह्णाति–तस्मादिति ।। तद्योग्यतयोरिति ।। स च योग्यता च तद्योग्यते । शब्दार्थस्य शब्दयोग्यतयोश्चेत्यर्थः । तुल्यत्वात् । सत्तयेति शेषः । योग्यतेत्युपलक्षणम् । शब्दस्वरूपमपि ग्राह्यम् । न चेच्छब्दयोग्यते सत्यावित्यनुषङ्गः ।। वृषलेति ।। वृषलोद्वाहमन्त्रस्वरूपं तद्योग्यतादिकं चासदेवातः स न मानमित्यर्थः ।। एवमिति ।। यथा स्वस्वरूपादेर्मिथ्यात्वबोधनाबोधनपक्षयोर्मिथ्यात्वश्रुत्यनुपपत्तिस्तथेत्यर्थः ।। स्वेति ।। अहमिदानीं मौनीतिवत्स्वबोध्यस्य स्वेनैव निषेधादित्यर्थः ।। सर्वेति ।। द्वितीयाभावस्यानात्मनोऽनिषेधादित्यर्थः ।।
न्यायामृतकण्टकोद्धारः
नन्वनुमानं मास्तु मिथ्यात्वे प्रमाणं श्रुतिस्तु भविष्यति । तस्या अपौरुषेयत्वेनानुमानवदन्यनिरपेक्षत्वादित्यत आह– नापीति । प्रत्यक्षादीति । न च न प्रत्यक्षसिद्धयोग्यतादिसत्वोपजीवनं श्रुतेः । तदभावेऽपि योग्यतादिज्ञानमात्रेण तदु-पपत्तेरिति वाच्यम् । योग्यतादिसत्वस्य शाब्दबोधार्थमनपेक्षणेऽपि शब्दबोध्यतात्विकत्वार्थं तदपेक्ष-णात् । किञ्च शब्देन घटादिपदार्थान् धर्मीकृत्य तेषां मिथ्यात्वं बोधनीयम् । धर्मिसिद्धिश्च प्रत्यक्षादिनैव वाच्या । प्रत्यक्षादिभिश्च ते पदार्थाः सत्वेनैव सिद्धा इति तदुपजीवनेन प्रवृत्तया श्रुत्या न घटादिसत्वबाधः । न च धर्मिसत्वं नोपजीव्यम् । तथात्वे धर्म-धर्मिसंसर्गस्य बाधितत्वेन वाक्यस्याप्रामाण्यापत्तेः । धर्मितावच्छेदकत्वेन तदुपजीवन-स्यावश्यकत्वाच्च । न च घटत्वादिकमेव धर्मितावच्छेदकमिति वाच्यम् । घटत्वादेरपि सद्विशेषत्वात् । अन्यथा तस्यालीकत्वेनावच्छेदकत्वानुपपत्तेः । प्रातिस्विकरूपस्य दुर्ज्ञानत्वेन सत्वस्यैव धर्मितावच्छेदकत्वाच्च ।
एवञ्चोपजीव्यविघातने महाभाष्योक्तन्यायविरोध इत्याह– सन्निपातेति । अत्र योग्यतादिमात्रसत्वसाधनार्थमयं न्यायो न भवति । तथात्वे घटादीति न ब्रूयादिति द्रष्टव्यम् । न्यायस्य चायमर्थः । सन्निपातः सन्नियोगः स लक्षणं निमित्तं यस्य विधेः सः, तद्विघातस्य अनिमित्तम् । सन्निपातिविघाते न कारणमित्यर्थः । यथा ‘शतानि’ इत्यत्र सर्वनामस्थानयोगेन जातो नुम् ‘षड्भ्यो लुक्’ इति लुकं प्रति न निमित्तम् । अत एव महाभाष्ये ‘ष्णान्ता षट्’ इत्यत्र उपदेशग्रहणं प्रत्याख्यातवान् । तथा योग्यतादिसत्वोप- जीवनेन जातस्य शाब्दबोधस्य न योग्यतादिसत्वबाधकत्वमिति ।
ननु दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यम् । दृष्टान्ते हि यत्रालुप्तप्रत्ययत्वेन निमित्तता तत्रैव न्यायावतारः । अन्यथा पञ्चेत्यत्र नान्तसङ्क्यायाः षट्त्वेन लुकं प्रति निमित्तत्वेन लुको नकारविघातित्वं न स्यात् । प्रकृते च नामिथ्याभूतयोग्यतात्वेन प्रयोजकत्वम् । किन्तु योग्यतात्वेन । अन्यथा स्वाप्नादेरर्थक्रियाकारित्वं न स्यादिति चेन्न । अत्राप्यमिथ्याभूत योग्यतात्वेनैव प्रयोजकता वक्तव्या । अन्यथा मिथ्याभूतयोग्यतावत्त्वेन बौद्धागमस्यापि तात्विकार्थबोधकत्वं स्यात् । न च स्वापि्नकार्थस्य साधकत्वादमिथ्यात्वमप्रयोजकमिति वाच्यम् । तस्यापि सत्वात् । यथा चैतत् तथाऽसतः साधकत्वभङ्गे साधितम् । शब्दबोध्यस्येति । न च शब्दस्य बोध्यसमानसत्ताकत्वमसिद्धम् । स्वापि्नके संवादिनि शब्दे व्यभिचारात् । योग्यतादेश्च न बोध्यार्थसमानसत्ताकत्वनियमोऽप्रयोजकत्वात् । परोक्षत्वानित्यार्थत्वस्योपाधित्वाच्चेति वाच्यम् । स्वापि्नकशब्दे न तावन्मन्मते व्यभिचारः । तस्य सत्यत्वात् । त्वन्मते तु न तत्र शब्दत्वेन प्रमाणता, अपि तु लिङ्गत्वेन । विवक्षितं च यत् शब्दत्वेन प्रमाणं तद् बोध्यार्थसमानसत्ताकमिति । अतो न व्यभिचारः ।
नाप्यप्रयोजकत्वम् । यथाकथञ्चिद् योग्यतादेः प्रयोजकत्वेऽतिप्रसङ्गस्योक्तत्वात् । परोक्षत्वं च नोपाधिः । ब्रह्मण औपनिषदत्वेन परोक्षत्वात् । तत्प्रतिपादकश्रुतेरपि परोक्षत्वेन साधनव्यापकत्वात् । यथा च शब्दस्य नापरोक्षज्ञानजनकत्वं तथा वक्ष्यामः । अनित्यत्वं चाप्रयोजकत्वेन न साध्यव्यापकम् । उक्तानुकूलतर्केण प्रकृतनियमेऽवधारिते साध्यव्याप्यहेत्वव्यापकत्वेन निश्चितसाध्याव्यापकं चेति उक्तं निरवद्यम् । न च योग्यतादेर्मिथ्यात्वेऽपि न शब्दार्थमिथ्यात्वं, मिथ्यात्वप्रयोजकाभावादिति वाच्यम् । योग्यतादिमिथ्यात्वव्यतिरेकेण शाब्दार्थमिथ्यात्वप्रयोजकाभावात् । न च दृश्यत्वमेव तत्प्रयोजकम् । तस्य सत्यत्वेऽप्युपपत्त्या तदप्रयोजकत्वात् ।
स्वर्गकामो यजेतेत्यादिविधेरिति । षष्ठे प्रथमपादे सप्तमाधिकरणे चिन्तितम् । ‘चातुर्वर्ण्यमविशेषात्’ । अत्र सर्वाणि वैदिकान्यग्निहोत्रादिकर्माण्युदाहरणम् । तेषु चतुर्णा-मपि वर्णानामधिकारः उतापशूद्राणां त्रयाणामिति चिन्ता । तदर्थमिदं विचार्यते किं कामश्रुतिप्रयुक्तं विद्यार्जनमुत स्वाध्यायविधिसिद्धविद्योपजीविन्यः कामश्रुतय इति । द्वेधा चात्र पूर्वपक्षः । एकस्तावत् स्वाध्यायाध्ययनं क्रत्वङ्गं क्रतुविधिभिरेव प्रयाजादिवत् प्रयुज्यते । तर्हि किं प्रयाजादिवददृष्टद्वारोपयुज्यत इति चेन्न । दृष्टद्वारे सम्भवत्यदृष्टकल्पनाया अयुक्तत्वात् । दृष्टं च द्वारं क्रत्वनुष्ठानोपयोगिनी विद्यैवेति । क्रतवश्चाविशेषेण चातुर्वर्ण्यम् अधिकुर्वाणाः चतुर्णामध्ययनं प्रयुञ्जते ।
तत्र त्रयाणां ‘वसन्ते ब्राह्मणमुपनयीत’ ‘ग्रीष्मे राजन्यम्’ ‘शरदि वैश्यम्’ इति वाक्यैरुपनयनसंस्कारोऽध्ययनाङ्गत्वेन विहितः । चतुर्थस्तु विध्यभावादनुपनीत एव विद्यां लब्ध्वाऽधिक्रियत इति । अयं तु क्रत्वङ्गमध्ययनमिति पक्षे । द्वितीयस्तु । न क्रत्व-ङ्गमध्ययनम् । श्रुत्याद्यभावात् । अक्षरग्रहणादिदृष्टकार्यपरम्परया वाक्यार्थज्ञानं यावद् गतं तत्रैव विधिनाऽध्ययनं विनियुज्यते । न च तस्याफलत्वान्न तत्र विनियोग इति वाच्यम् । ज्ञानस्यानुष्ठानद्वारा स्वयमेव फलत्वोपपत्तेः । यथाऽऽधानं न क्रत्वर्थं, किन्तु अग्न्यर्थं, तथा प्रकृतेऽपि । न हि साक्षात् फल एव विनियोग(ज्य) इत्यस्ति नियमः । तथात्वे क्रत्वङ्गतापि न स्यात् ।
एवं चाध्ययनं न क्रत्वङ्गम् । किन्त्वाधानमिवाग्न्यर्थं ज्ञानाङ्गम् । अतस्तेनापि क्रतूनाम् अवैगुण्यादनधीत एव शूद्रः उपद्रष्टृवचनादनुतिष्ठन्नधिक्रियते । क्रतवो ह्यविशेषेण चतुरोऽप्यधिकुर्वाणाः त्रयाणामध्ययनसिद्धविद्यत्वाद् विद्यार्जनं न प्रयुञ्जते । शूद्रस्य त्वन्यतः सिद्धविद्यत्वाभावात् तदर्जनमपि प्रयुञ्जते । अतो यद्यपि स्वाध्यायविधिर-निर्दिष्टकर्तृकत्वात् कर्तारम् अपेक्षमाणः, प्रकृतोपनयनसंस्कृताः किमर्थं वयमाचार्यसमीप-मानीता इत्येवं प्रयोजनम् अपेक्षमाणान् ब्राह्मणादीनेव कर्तृत्वेन स्वीकुर्वंस्तेषामेवाध्ययनं विधत्ते, न शूद्रस्य । तथाप्यविहितेनैवाध्ययनेनोपायान्तरेण वा विद्यां लब्ध्वाऽधिक्रियेतेति ।।
अत्रोच्यते ।। क्रतुविधिवैयर्थ्यपरिहाराय हि शूद्रस्याधिकारः कल्प्यः । क्रतुविधयो हि विद्यां विनाऽनुपपद्यमाना विद्यार्जनमाक्षिपन्ति । तत्र यदि सिद्धविद्यावन्तो न स्युः तदाऽन्यस्य यथाकथञ्चिद् विद्या कल्प्या । यदा तु स्वाध्यायविधिविहिताध्ययनो-पात्तविद्यान् द्विजन्मनो लभन्ते तदा तैरेवाधिकारिभिर्लब्धात्मानोऽनुपपत्तिक्षयान्न चतुर्थस्य विद्यामाक्षिपन्ति । यदपि चैवं विहितोपायसिद्धज्ञानवत एव विधयोऽधिकुर्वन्ति तदेव विहितोपायाप्तमग्निवत् क्रत्वङ्गं भवति । एवं च विहिताध्ययनरहितस्य स्वच्छन्देन विद्यामर्जयतः शूद्रस्य न कर्मण्यधिकार इति । एवमेव कर्मणामग्निसापेक्षत्वादग्नीनां चाधान- साध्यत्वात्, आधानस्य च ‘वसन्ते ब्राह्मणोऽग्नीनादधीत । ग्रीष्मे राजन्यः । शरदि वैश्यः’ इति वर्णत्रयसाध्यत्वात्, आधानरहितस्य शूद्रस्याग्नेरभावान्न कर्मण्यधिकारः । एवं च यथा कर्मविधायकवाक्येषु अग्निविद्यावद्विषयकत्वेन सङ्कोचस्तथा प्रकृतेऽपि उपजीव्य-विरोधेन योग्यताद्यतिरिक्तविषयत्वेन सङ्कोचो युक्त इत्यर्थः ।
न च प्रकृते योग्यतायास्तात्विकत्वमग्निविद्यावन्नोपजीव्यम् । तदभावेऽपि योग्यता-त्वेनैवोपयोगादिति वाच्यम् । योग्यतादेर्यथाकथञ्चिदुपयोगेऽतिप्रसङ्गस्योक्तत्वेन तत्तात्वि-कत्वस्यावश्यकत्वात् । न च ‘सत्यं ज्ञानमनन्तम्’ इत्यादिश्रुत्या ब्रह्मणः सत्वप्रतिपादनाद् द्वैताभावस्य च तदात्मकत्वान्न मिथ्यात्वश्रुतेः कल्पितविषयत्वमिति वाच्यम् । द्वैताभावस्य सोपाधिकत्वेन निरुपाधिकब्रह्मस्वरूपत्वानुपपत्तेः । द्वैताभावस्य सत्वे योग्यतादेस्तदा-वश्यकम् । न ह्यबोधितार्थकत्वं बाधितं, शब्दबोध्योऽर्थश्चाबाधित इति सम्भवति । व्याघातात् । तस्माद् योग्यतादिमिथ्यात्वे शब्दबोध्योऽर्थोऽपि मिथ्यैवेति सूक्तम् । उक्तमर्थं कारिकारूढं करोति तस्मादिति । उक्तन्यायमन्यत्रातिदिशति– एवमिति । द्वितीयाभावो ब्रह्मेति तु निरस्तम् ।
न्यायामृतप्रकाशः
श्रुतिश्चात्र प्रमाणमिति सामान्येनोक्तां मिथ्यात्वश्रुतिं निराकरोति– नापि श्रुतिरिति ।। तात्विके विश्वमिथ्यात्वे श्रुतिरपि मानं नेत्यर्थः । ‘‘नेह नाने’’ति श्रुतिः, श्रोत्रप्रत्यक्षादि सिद्धस्वरूपस्वप्रामाण्यतद्धेतुयोग्यतादेर्मिथ्यात्वमबोधयित्वा प्रत्युत स्वस्वरूपादिसत्यत्वमुप जीव्य सर्वमिथ्यात्वं बोधयति उत स्वस्वरूपस्वप्रामाण्यतद्धेतुयोग्यतादेर्मिथ्यात्वं बोधयित्वा सर्वमिथ्यात्वं बोधयति । नाद्य इत्याह– श्रुत्येति ।। तत्सत्यत्वेति ।। स्वस्वरूपादि सत्यत्वेत्यर्थः ।। सर्वेति ।। स्वस्वरूपादेर्मिथ्यात्वाबोधनादित्यर्थः । किञ्च सर्वमिथ्यात्वं बोधयन्त्या श्रुत्या ‘सन्घटः’ इत्यादिप्रत्यक्षसिद्धं घटादिकं धर्मीकृत्य तत्र मिथ्यात्वं बोधनीयम् । तन्न सम्भवति । तदुपजीवनेन प्रवृत्तायाः श्रुतेस्तद्बाधनासामर्थ्यात् । अतः प्रत्यक्षादिसिद्धघटादिमिथ्यात्वासिद्धिः ।
तदुपजीवनेन प्रवृत्तस्यापि तद्बाधकत्वं किं न स्यादित्यत आह– सन्निपातेति ।। यत्सन्निपातेन यदुपजीवनेन लक्षणं स्वरूपं यस्य विधेः स विधिस्तस्य स्वोपजीव्यस्य विघातस्यानिमित्तमित्यर्थः । यदुपजीवनेन यत्प्रवर्तते स तस्य बाधको नेति यावत् । तथा हि ‘शतानि सहस्राणि’ इत्यत्र शतशब्दाज् जसि ‘‘जश्शसोः शिः’’ इति सूत्रेण जस-श्शीत्यादेशे ‘‘शि सर्वनामस्थानम्’’ इति शेः सर्वनामस्थानसंज्ञायां ‘‘लशक्वतद्धिते’’ इति शकारलोपे शत इति जाते ‘‘नपुंसकस्य झलचः’’ इति सूत्रेण सर्वनामस्थानसंज्ञिकशिप्रत्यये परे नुमागमे शतन् इ इति जाते ‘‘सर्वनामस्थाने चाऽसम्बुद्धौ’’ इत्युपधादीर्घे शतान् इ ‘‘शतानि’’ इति भवति ।
तदिदमयुक्तं ‘ष्णान्ता षट्’ षान्ता नान्ता च सङ्ख्या षट्संज्ञा स्यादिति नान्तसङ्ख्या- वाचिशतन्शब्दस्य षट्संज्ञायां ‘‘षड्भ्यो लुक्’’ षट्संज्ञकेभ्यः परयोर्जश्शसोर्लुक् स्यादिति शिप्रत्ययलोपे तन्निमित्तकदीर्घस्याप्यभावे शतन् सहस्रन् इत्येव स्यान्न तु शतानीत्यादीति शङ्कायां अयं न्यायः प्रवृत्तः । नात्र शिप्रत्ययलोपः । सर्वनामस्थानभूतशिप्रत्यये परे नुमाग-मस्य विहितत्वाच्छिप्रत्ययसन्नियोगेन प्राप्तो नुम्, ‘‘ष्णान्ता षट्’’ इति षट्संज्ञाद्वारा प्राप्तस्य शिप्रत्ययलोपस्य न निमित्तम् । एवं च शिप्रत्ययलोपाभावेन तत्प्रयुक्तोपधादीर्घे सति शतानीत्यादि भवतीत्युदाहरणं द्रष्टव्यम् ।
न द्वितीय इत्याह– बोधन इति ।। श्रुतिबोध्यार्थस्य सर्वमिथ्यात्वस्य । कुत इत्यत आह– शब्दबोध्यस्येति ।। अर्थस्येत्यर्थः ।। शब्देति ।। शब्दस्वरूपेत्यर्थः ।। नियमा-दिति ।। अनेन ‘विश्वमिथ्यात्वबोधकत्वेनाभिमता श्रुतिः स्वस्वरूपप्रामाण्ययोग्यतादिसम-सत्ताकस्वबोध्यार्थयुक्ता, प्रमाणशब्दत्वात्, सम्मतवत्’ इत्यनुमानमुक्तं भवति । नन्वेवं चेत् तवैवं भविष्यतीति स्वाप्नदेवतावाक्यं किञ्चिदस्ति । तद्वाक्यस्वरूपं मिथ्यात्वान्नास्त्येव । तन्निष्ठे योग्यताप्रामाण्ये अप्यसती एव । बोध्यार्थश्च सन् अर्थक्रियाकारित्वानुभवात् । एवं च तत्र प्रमाणशब्दत्वमस्ति । स्वस्वरूपयोग्यतादिसमसत्ताकबोध्यार्थयुक्तत्वाभावाद्व्यभिचार इत्यत आह– सदर्थ इति ।। स्वस्वरूपसत्त्वस्य परासम्मतत्वाद्योग्यताप्रामाण्ये अपीत्युक्तम् । वाक्यस्य सदर्थ(क)त्वाङ्गीकारे योग्यताप्रामाण्ययोरपि सत्त्वं प्राप्तमेव । परस्परान्वयाबाध रूपयोग्यतायाः प्रामाण्यस्य चार्थसत्ताघटितत्वात् । अतो न व्यभिचार इति भावः ।
ननु योग्यताप्रामाण्ययोस्सत्यत्वेन तत्समसत्ताकबोध्यार्थयुक्तत्वेऽपि स्वाप्नवाक्यस्वरूप-स्यैवाभावेन तत्समसत्ताकबोध्यार्थयुक्तत्वं नास्तीति पुनर्व्यभिचार इत्यत आह– शब्द-स्वरूपमिति ।। तथा च मम मते साध्यस्यापि सत्त्वान्न व्यभिचार इति भावः । ननु मद्रीत्या तावद्व्यभिचारः स्यादेवेत्यतः पूर्वं त्वया तत्र त्वद्रीत्या व्यभिचारे चोदिते तत्र साध्योपपादनं कृतम् । वस्तुतस्तु तत्र त्वन्मते हेतोरेवाभावान्न व्यभिचार इत्याह– तव त्विति ।। ‘प्रमाणशब्दत्वात्’ इत्यस्य शब्दत्वेन प्रमाणत्वादित्यर्थः । त्वन्मते तु स्वाप्नं देवतावाक्यं शब्दत्वेन न प्रमाणं, सत्यपि शब्दत्वे प्रामाण्याभावात् । तथा हि । लौकिके पौरुषेयवाक्ये प्रामाण्यप्रयोजकत्वेन क्लृप्ताया आप्तेः स्वाप्नदेवतावाक्येऽभावात्, तथा वेदवाक्ये प्रामाण्यप्रयोजकत्वेन क्लृप्तस्यापौरुषेयत्वस्याप्यभावात् । अतो हेतोरेवाभावान्न व्यभिचार इति भावः । तर्हि सदर्थकत्वं कथमिति पृच्छति– किन्त्विति ।। उत्तरमाह– यादृच्छिकेति ।। भ्रान्तप्रतारकवाक्यवद्यादृच्छिकसंवादि । ततश्च ‘यज्जातीयानन्तरं नियमेन कार्योत्पत्तिस्तदत्र साधनं विवक्षितम्’ इति वचनादेतादृशकरणत्वगर्भप्रमाकरणत्वरूपं प्रामाण्यं तत्र नास्तीति न व्यभिचार इत्यर्थः ।
अस्तु वा प्रामाण्यं तथापि तत् शब्दत्वेन न प्रमाणं किन्तु लिङ्गत्वेनैवेत्यतोऽपि न व्यभिचार इत्याह– तादृशेति ।। अभिमतार्थसाधकस्वाप्नदेवतावाक्यजन्यज्ञानमित्यर्थः । तत्र दृष्टान्त उपश्रुतिवदिति । अपभ्रष्टवाक्यवदित्यर्थः । यथा शकुनार्थं कस्मिंश्चिद्गृहे तण्डुलान् स्थापयित्वा निलीनस्सन्नवस्थितस्तद्गृहस्थैः स्वगृहकृत्याद्यर्थं शब्दे प्रयुक्ते सति तं श्रुत्वा ततः स्वाभिमतार्थम् अनुमिमीते । तत्र यथा तद्वाक्यं न शब्दत्वेन स्वाभिमतार्थे प्रमाणं किन्तु लिङ्गतयैव तथा स्वाप्नदेवतावाक्यमपि लिङ्गत्वेनैव प्रमाणमित्यर्थः । तथा च तस्य प्रमाण-त्वेऽप्यशब्दत्वान्न व्यभिचार इति भावः । ननु श्रुत्या योग्यतादीनां मिथ्यात्वबोधने शब्द-बोध्यस्य सर्वमिथ्यात्वरूपार्थस्य तात्विकत्वासिद्धिरित्ययुक्तम् । उक्तनियमस्यान्यत्र ‘गामानय’ इत्यादिवाक्ये सत्त्वेऽपि प्रकृतेऽभावाद् योग्यतादेः श्रुतिबोध्यतात्विकमिथ्यात्वसम सत्ताकत्वे सत्यत्वप्राप्त्या तात्विकसर्वमिथ्यात्वश्रुतिविरोधादित्याशङ्क्य निषेधति– न चेति ।।
स्वर्गेति ।। यथा ‘‘स्वर्गकामो यजेत’’ इत्यत्र सर्वेषां त्रिवर्णेतरेषामपि न यजनेऽधि कारोऽस्ति । किन्त्वग्निश्च विद्या चाऽग्निविद्ये येषां स्तस्तेषामेव यागेऽधिकारः, अग्निविद्ययो श्चोपजीवत्वादग्निविद्ययोश्च त्रिवर्णेतरेषामभावान्न यागेऽधिकार इत्येवं स्वर्गकाम इति सामान्यतः श्रुतस्यापि अग्निविद्यावद्विषयकत्वेन सङ्कोचः क्रियते तद्वदित्यर्थः । षष्ठे प्रथमपादे विचारितम् । ‘‘चातुर्वर्ण्यमविशेषात्’’ इत्यत्र अग्निहोत्रादिषु किं चतुर्वणानामधिकार उताप-शूद्राणामिति संशये विधिवाक्येषु विशेषाश्रवणाच्चतुर्वर्णानामिति पूर्वः पक्षः, अग्निहोत्रादि-कर्मणामग्निविद्यासापेक्षत्वादग्निविद्ययोश्चाधानोपनयनपूर्वकाध्ययनसाध्यत्वात्तयोश्च ‘‘वसन्ते ब्राह्मणमुपनयीत ग्रीष्मे राजन्यं शरदि वैश्यम्’’ इति त्रिष्वेव दर्शनाच्छूद्रेष्वपि तत्कल्पने मानाभावादपशूद्राणामेवाधिकार इति सिद्धान्तः ।
योग्यतादीति ।। योग्यताद्यपेक्षया इतरद् द्वितीयं नास्तीत्यर्थपरत्वमित्यर्थः ।। सृष्ट्या- दीति ।। सृष्टिवाक्यस्य यथा तव मते कल्पितसृष्टिविषयत्वं तथा द्वैतनिषेधवाक्यस्यापि कल्पितो यो द्वैतनिषेधस्तद्विषयत्वमस्तु । तथा च सति श्रुतिबोध्यार्थस्य योग्यतादिसमान सत्ताकत्वसिद्धिरित्यर्थः ।। अन्योन्याश्रयादिति ।। शब्दस्वरूपादेस्तदर्थस्य च समसत्ताक त्वनियमत्यागे सति बाधकाभावे सिद्धे श्रुत्यर्थस्य सर्वमिथ्यात्वस्य तात्विकत्वसिद्धिस्तत्सिद्धौ च तद्बलादुक्तनियमत्याग इत्यन्योन्याश्रयादित्यर्थः । सङ्गृह्णाति– तस्मादिति ।। तुल्यत्वात् तुल्यसत्ताकत्वात्, शब्दस्वरूपं च ग्राह्यम् । न चेत् शब्दार्थतद्योग्यतयोः शब्दस्वरूपस्य च सत्यत्वाभावे ।। वृषलोद्वाहेति ।। वृषलोद्वाहे विहितमन्त्रस्वरूपं तद्योग्यतादिकं चाऽसदेव । अतस्तन्न मानमित्यर्थः ।। एवमिति ।। यथा स्वरूपयोग्यतादेर्मिथ्यात्वबोधनाबोधन- पक्षयोर्मिथ्यात्वश्रुत्यनुपपत्तिस्तथेत्यर्थः ।। स्वव्याघात इति ।। द्वितीय मात्रनिषेधकत्वाङ्गी- काराद् द्वितीयाभावमपि निषेधति चेत्तर्हि स्वेतरद्वितीयाभावनिषेधरूपस्य द्वितीयस्यैव प्राप्त-त्वात्स्वव्याघात इत्यर्थः ।। सर्वेति ।। ब्रह्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वं न सिद्ध्यति । ब्रह्मव्यतिरिक्तस्य द्वितीयस्याभावरूपद्वितीयस्य निषेधाऽबोधनादित्यर्थः ।
न्यायकल्पलता
‘श्रुतिश्चात्र प्रमाणम्’ इति सामान्येनोक्तां श्रुतिं मिथ्यात्वे प्रत्याख्याति– नापीति । तात्विकविश्वमिथ्यात्वे श्रुतिरपि मानं नेत्यर्थः । श्रुतिः प्रत्यक्षादिसिद्धस्वस्वरूपादिसत्यत्व मुपजीवति उत न । आद्ये श्रुत्या विश्वमिथ्यात्वस्यैवासिद्धिः । दूरे तत्तात्विकत्वस्येत्याह– श्रुत्येति । अत्र हेतुरुक्तः स्वस्वरूप इत्यादि मिथ्यात्वाबोधने इत्यन्तेन । कुतः श्रुत्या मिथ्यात्वं बोधयितुमशक्यमित्यत उक्तं प्रत्यक्षादीति ।। स्वरूपादेर्मिथ्यात्वबोधने तत्सत्यत्व बोधनानुपपत्तेरित्यर्थः । स्वरूपादीतरमिथ्यात्वमेव मदभिमतमिति मन्यमानं प्रत्याह– सन्निपातेति । तच्छब्दश्रवणाद्यच्छब्दोऽध्याहार्यः । यत्सन्निपातेन यदुपजीवनेन लक्षणं स्वरूपं यस्य विधेः स विधिः, तस्य स्वोपजीव्यस्य विघातं प्रति अनिमित्तं निमित्तं न भवति । तथा च श्रुत्युपजीव्यस्वस्वरूपादिसत्यत्वग्राहकप्रत्यक्षजातीयतया घटादि-प्रत्यक्षस्यापि श्रुत्युपजीव्यत्वमेवेति न तया प्रत्यक्षसिद्धघटादिमिथ्यात्वसिद्धिः ।
अथवा धर्मिग्राहकत्वेन प्रत्यक्षप्रामाण्यमुपजीवन्ती श्रुतिर्घटादिमिथ्यात्वबोधनेन तद्विघातं न करोतीत्यर्थः । यथा शतानि सहस्राणीत्यादौ ‘नपुंसकस्य झलचः’ इत्यनेन सर्वनामस्थान संज्ञकशिप्रत्ययनिमित्ते नुमागमे कृते ‘ष्णान्ता षट्’ इति सूत्रेण उपदेशग्रहणं कर्तव्यं शता-द्यष्टनार्थमिति वार्तिकाभावपक्षे नकारान्तत्वेन षट्संज्ञायां ‘षड्भ्यो लुक्’ इति शिप्रत्ययस्य लुकि प्राप्ते सन्निपातपरिभाषया शिप्रत्यययोगेन जायमानो नुम् षट्संज्ञाद्वारा शिप्रत्यय-लोपनिमित्तं न भवति ।
अथवा ‘ष्णौ षट्’ इत्येव तदन्तविधिना सिद्धेऽन्तग्रहणमौपदेशिकप्रतिपत्त्यर्थम् । तेन शतानि सहस्राणीति सिद्ध्यति । ष्णान्ता उपदेशकाले यौ ष्णौ षकारनकारौ तदन्ता सङ्ख्येत्यर्थः । यद्वा मथितं पण्यमस्येत्यर्थे ‘तदस्य पण्यम्’ इति ठकि प्रत्यये कृते ठस्येकादेशेऽजादित्वाद्भसंज्ञायां ‘यस्येति च’ इत्यकारलोपे तान्तात्परस्येकप्रत्ययस्य स्थानि-वद्भावेन ‘इसु सुक्तान्तात्कः’ इति कादेशप्राप्तौ सन्निपातपरिभाषया कादेशो न भवति । माथितिकः । परिभाषाया अनित्यत्वं च प्रमाणबलादुन्नेयम् । यथा भवत्या अय(आश्रय) मित्यर्थे ‘भवतष्ठक्च्छसौ’ इति ठकि, ‘ठक्छसोश्च’ इति ठावस्थायामेव पुंवद्भावात्सन्निपात परिभाषाया अप्रवृतौ भावत्कः इति सिद्ध्यति । न चात्र तादृशं बाधकं प्रमाणमस्ति ।
ननु यद्यमिथ्याभूतत्वेन प्रत्यक्षादेर्निमित्तता स्यात्तदा प्रत्ययस्यालुप्तत्वेन निमित्ततायामिव भवेदेतन्न्यायावतारः । प्रत्यक्षादेस्तु स्वरूपेणैव निमित्ततेति चेत् । न । स्वतः प्रामाण्यवादिना बादरायणीयेनैवं वक्तुमन्न्याय्यत्वात् । विषयाबाधागर्भितत्वे प्रामाण्य-ग्रहणायोगात् । अर्थक्रियाकारित्वेन स्वाप्नार्थस्यापि सत्य(त्वाच्चेति)ता चेति ।। द्वितीयं प्रत्याह– बोधन इति । श्रुत्या मिथ्यात्वस्य बोधनेऽपीत्यर्थः । अर्थतात्विकत्वप्रयोजकस्य स्वस्वरूपसत्यत्वादेरभावादित्याशयेनोक्तं तात्विकत्वेति । न च स्वस्वरूपसत्यत्वादेः श्रुत्य•)र्थतात्विकत्वं प्रति प्रयोजकत्वे मानाभाव इति देश्यम् । मिथ्यत्वबोधकत्वेनाभिमता श्रुतिः स्वस्वरूपेण वा स्वप्रामाण्येन वा स्वयोग्यतया वा समानार्थसत्ताकार्थाप्रमाण-शब्दत्वात्सम्मतवदित्यनुमानैस्तत्सिद्धेः ।
अत्र व्याप्तिग्राहकमाह– शब्दबोध्यस्येति । न चैतस्मिन्नियमे परोक्षत्वमनित्यत्वं चोपाधिः । घटादावाकाशादौ च साध्याव्याप्तेः । प्रामाण्यादिघटितसाधकोक्तानुमानयोः स्वाप्नवाक्ये व्यभिचारं परिहरति– सदर्थ इति । योग्यतायाः प्रामाण्यस्य चार्थाबाधघटितत्वेन सदर्थकवाक्ये तयोरवश्यम्भाव इति भावेनोक्तं योग्यतेति । शब्दस्वरूपघटितानुमानेऽपि न तत्र व्यभिचार इत्याह– शब्दस्वरूपमपीति । तत्त्वविन्मते तत्र साध्यस्यापि सत्वादिति भावः । विवर्तनयेऽपि न तस्य तत्र व्यभिचार इत्याह– तव त्विति । स्वप्नवाक्ये स्वरूपेण मिथ्याभूते साध्याभावस्य सत्वेऽपि निरुक्तहेतोस्तत्राभावादिति भावः । तुशब्दो व्यभिचार- परिहारं विशिनष्टि । ननु स्वाप्नवाक्ये वक्तुः कल्पितत्वेऽपि तद्गतदोषस्यार्थसंवादेन कल्पयितुमशक्यत्वान्निर्दोषतया तत्प्रमाणं भवतीति निरुक्तहेतुरपि तत्रास्तीति व्यभिचार एवेत्यत उक्तं न तच्छब्दत्वेनेति ।
अयं भावः । शब्दासाधारणप्रामाण्यप्रयोजकत्वमुक्तहेत्वर्थः । निर्दोषत्वं तु न शब्दा- साधारणप्रामाण्यप्रयोजकम् । मानान्तरसाधारण्यात् । तथा चायमर्थः । तत् संवादिस्वाप्न वाक्यं, शब्दत्वेन न प्रमाणम् । शब्द इति यत्प्रमाणं तथा न, शब्दत्वावच्छेदेन यत्प्रामाण्य प्रयोजकं तदुपेतं न भवतीति । ननु शब्दासाधारणप्रामाण्यप्रयोजिकाया योग्यतायास्तत्र सत्वाद्व्यभिचार एवेत्यत आह– आप्तीति । योग्यताया विशेषणविशेष्यसम्बन्धरूपाया विशिष्टप्रमामात्रसाधारणत्वादाप्त्यादेरेव तथात्वम् । यद्यपि भ्रमाद्यभावरूपा आप्तिः स्वाप्नवाक्यवक्तर्य्यप्यस्ति तथापि शुकादिसाधारण्यान्न साऽऽप्तिः । किन्तु लाघवात्, विवक्षितार्थतत्त्वज्ञानं, (वाक्यार्थप्रमा) अ(न)वधानं, तत्वबुबोधयिषा, पटुकरणत्वादिक-मेवाप्तिः । सा च न स्वाप्नवाक्यवक्तरि । अत एव न स्वाप्नवाक्ये निर्दोषत्वमपि । तत्प्रयोजकस्याप्त्यादेरभावात् । तथा च नोक्तव्यभिचार इति भावः । प्रामाण्यप्रयोजकशब्देन प्रामाण्यापवादकाप्रामाण्यशङ्कानिरासकमभिमतमिति न प्रामाण्यस्य स्वतस्त्वहानिरिति ध्येयम् ।
एवं सति स्वाप्नवाक्ये प्रमाणशब्दव्यवहारं समर्थयते– किन्त्विति । शब्दत्वे सति संवादित्वात्तद्व्यवहार इत्यर्थः । तथा च तस्य शब्दत्वेऽप्यप्रमाणत्वान्नोक्तव्यभिचार इति भावः ।। उपश्रुतिवदिति । यथा कश्चिदन्यार्थशब्दं श्रुत्वापि ततः स्वाभिमतमर्थमनुमिमीते तथा स्वप्नवाक्यमपि लिङ्गतयैव बोधकमित्यर्थः ।। प्रमाणं वेति । लिङ्गीभूतस्य शब्दत्वाद्वा तद्व्यवहार इत्यर्थः । तथा च तस्य प्रमाणत्वेऽपि अशब्दत्वान्न व्यभिचार इति भावः । उक्तानुमानेषु व्याप्त्यभावशङ्कां परिहरति– न चेति । उक्तनियमाङ्गीकारे श्रुत्यर्थस्य तात्वि-कत्वे श्रुतिस्वरूपादेरपि तथात्वापत्त्या ब्रह्मेतरसर्वमिथ्यात्वासिद्ध्या तत्परश्रुतिविरोधः । अतात्विकत्वे श्रुतेस्तात्विकसर्वमिथ्यात्वपरत्वव्याघात इति श्रुतेः सर्वमिथ्यात्वे तात्पर्य-संरक्षणार्थ उक्तनियम एव त्यज्यत इति शङ्कार्थः ।। स्वर्गकाम इति । साग्निनिरग्नि-वैद्यावैद्यस्वर्गकाममात्रविषयस्यापि यजेतेति विधेः,‘आहवनीये जुहोति, यजमानोऽनुमन्त्रयते, यजमानस्य याज्या’ इत्यादिना यथाऽग्निविद्यावतोऽधिकारावगमात्तत्परत्वं तथा द्वितीयनिषेध-स्यापि स्वोपजीव्येतरविषयत्वम् । उपजीव्यस्य विधिनेव निषेधेनाप्यनुरोद्धव्यत्वादित्यर्थः ।
उपजीव्येति । यागस्याग्निविद्ये विना फलाजनकत्वात्तयोस्तत्रोपजीव्यत्वम् । षष्ठस्य प्रथमपादे विचारितम् । ‘चातुर्वर्ण्यमविशेषात्’ । अग्निहोत्रादिषु किं चतुर्णां वर्णानामधिकारः उतापशूद्राणामिति संशये विधिवाक्येषु विशेषाश्रवणाच्चतुर्वर्णानामिति पूर्वपक्षे प्राप्तेऽग्निहोत्रादि- कर्मणामग्निविद्यापेक्षत्वात् । अग्निविद्ययोश्चाधानोपनयनपूर्वकाध्ययनाधीनत्वात् । आधानोप- नयनयोश्च ‘वसन्ते ब्राह्मणोऽग्नीनादधीत ग्रीष्मे राजन्यः शरदि वैश्यः । वसन्ते ब्राह्मणमुप नयीत ग्रीष्मे राजन्यं शरदि वैश्यम्’ इति त्रिष्वेव दर्शनात् । अन्यतो लब्धाग्निविद्यानां त्रैवर्णिकानामधिकारिणां सत्वेन कर्मविधिभिर्निषादादिष्विव शूद्रेष्वपि तयोराक्षेपकल्पनायां प्रमाणाभावाच्छूद्रव्यतिरिक्तानामेवाधिकार इति सिद्धान्तः ।
ननु स्वर्गकामवाक्यस्याग्निविद्यादिकमिव द्वैतनिषेधवाक्यस्य तात्त्विकयोग्यतादिकं नोप जीव्यम् । न हि योग्यता तात्विकयोग्यतात्वेन निमित्तम् । किन्तु योग्यतात्वेनैवेति चेत् । मैवम् । स्वर्गकामवाक्यस्य स्वार्थसत्तासमसत्ताकाविद्यापेक्षावत् द्वैतनिषेधवाक्यस्यापि तादृश योग्यतापेक्षानियमात् । तात्विकार्थप्रतिपादने तात्विकयोग्यतादेरेव निमित्तत्वाच्च ।। योग्य-तादीति योग्यतादेरितरद् द्वितीयं नास्तीत्यर्थपरत्वमित्यर्थः ।। सृष्ट्यादीति । सृष्टिवाक्यस्य तव मते यथा कल्पितसृष्टिविषयत्वं तथा द्वैतनिषेधवाक्यस्यापि कल्पितद्वैतनिषेधविषयत्व-मस्त्वित्यर्थः ।
ननु सकलद्वैताभावस्याधिकरणस्वरूपत्वेन तदधिकरणस्य च ब्रह्मणः ‘सत्यं ज्ञानमनन्तं ब्रह्म, ‘तत्सत्यं स आत्मा’ इत्यादिश्रुत्या सत्यत्वप्रतिपादनान्न सृष्ट्यादिश्रुतेरिवास्याः कल्पितविषयत्वोपपत्तिरिति चेत्, मैवम् । विचित्रप्रपञ्चासाधारणकारणविचित्रशक्तिरूपस्य द्वैतस्य ‘पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी’ इत्यादिश्रुतिसिद्धात्मरूपस्य तात्विक-त्वेन द्वैतनिषेधश्रुतेस्तात्विकविषयत्वस्याप्यनुपपत्तेः । द्वैतनिषेधस्यात्मरूपत्वासिद्धेश्च । न च तस्य तत्वावेदकश्रुतिबोध्यत्वेनात्मरूपत्वम् । अन्योन्याश्रयात् । द्वैतनिषेधस्य तात्विका-त्मरूपत्वेन तात्विकत्वे सिद्धे तत्प्रतिपादकश्रुतेस्तत्वावेदकत्वसिद्धिः । तत्सिद्धौ च तत्प्रतिपाद्यद्वैतनिषेधस्य तात्विकात्मरूपत्वसिद्धिरिति । द्वैतनिषेधश्रुतेस्तात्विकार्थपरत्वस्य विचार्यमाणत्वात् । शक्तेस्तु ब्रह्मस्वरूपत्वं ‘परास्य शक्तिः’ इत्यादिश्रुत्यैव सिद्धम् । ‘स्वाभाविकी’ इति श्रवणात् ।। अन्योन्येति । शब्दस्वरूपादेस्तदर्थस्य च समसत्ताकत्व- नियमत्यागे सति बाधकाभावे सिद्धे श्रुत्यर्थस्य तात्विकत्वसिद्धिः । तत्सिद्धौ च तद्बलादुक्त- नियमत्याग इत्यर्थः ।
उपसंहरन् सङ्गृह्णाति– तस्मादिति ।। तद्योग्यतयोरिति ।। स च योग्यता च तद्योग्यतम् । द्वन्द्वैकवद्भावः । शब्दार्थस्य, शब्दस्य तद्योग्यतायाश्चेत्यर्थः । तुल्यत्वात् सत्तयेति शेषः । योग्यतेत्युपलक्षणम् । शब्दस्वरूपमपि ग्राह्यम् । न चेत् शब्दयोग्यते सत्यावित्यनुषङ्गः ।। वृषलेति । वृषलोद्वाहमन्त्रस्वरूपं तद्योग्यतादिकं चासदेव । अतः स न मानमित्यर्थः ।। एवमिति । यथा स्वस्वरूपादेर्मिथ्यात्वबोधनाबोधनपक्षयोर्मिथ्यात्व श्रुत्यनुपपत्तिस्तथेत्यर्थः ।। स्वेति ।। ‘अहम् इदानीं मौनी’ इतिवत् स्वबोध्यस्य स्वेनैव निषेधादित्यर्थः ।। सर्वेति ।। द्वितीयाभावस्यानात्मनो निषेधाभावादित्यर्थः ।।
न्यायामृतसौगन्ध्यम्
किञ्च श्रुत्या स्वस्वरूप-स्वप्रामाण्य-स्वयोग्यतादेर्मिथ्यात्वाबोधनेन प्रत्यक्षादिसिद्ध तत्सत्वोपजीवनेन च ब्रह्मेतरसकलमिथ्यात्वासिद्धिः । ‘सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य’ इति न्यायात्प्रत्यक्षादिसिद्धघटादिमिथ्यात्वासिद्धिश्च । न्यायस्त्वेवम् । ‘शतानि सहस्राणि’ इत्यत्र सर्वनामस्थानसंज्ञक‘शि’सन्निपातेन विहितो नुम् ‘ष्णान्ता षट्’ इति षट्संज्ञाद्वारा ‘षड्भ्यो लुक्’ इति शिस्वरूपसर्वनामस्थानस्य पञ्चेत्यादाविव लुङ्निमित्तं न भवति । तत्सन्निपातेनैव विहितत्वात् ।
योग्यतादिमिथ्यात्वबोधने च श्रुत्यर्थस्यातात्विकत्वापत्तिः । शब्दबोध्यस्य शब्द-तत्प्रामाण्ययोग्यतादिना समसत्ताकत्वनियमात् । न च सदर्थे स्वाप्नदेवतावाक्ये व्यभिचारः । आप्तत्वापौरुषेयत्वायोगेन तस्य शब्दत्वे न (न) तत्प्रामाण्यायोगात् । किन्तूप श्रुतिवत्ता-दृशशब्दज्ञानं लिङ्गत्वेन प्रमाणम् । अन्यथा शब्दं श्रुत्वा स्वाभिमतोऽर्थो येनानुमीयते स शब्दः उभयश्रुतिः । ननु निर्दोषशब्दत्वेन तस्य शब्दविधयैव प्रामाण्यसम्भवः । आप्तत्वा- पौरुषेयत्वयोर्दोषाभावयोरुपक्षयः । वक्तुः कल्पितत्वेऽपि तस्यार्थसंवादेन दोषः कल्पितुं न शक्य इति चेन्न । दोषाभावेन प्रत्यक्षादिप्रमाणसाधारणेन शब्दप्रामाण्यासाधारणप्रयोजकस्याप्त त्वादेरुपक्षयासम्भवात् । आप्तत्वाद्यभावस्यैव दोषत्वाच्च । कल्पितवक्तृकवाक्यार्थसंवादस्यानु- मानिकत्वेनाप्युपपत्तेः ।
न चोक्तसमसत्ताकत्वे मानाभावः । ‘मिथ्यात्वबोधकत्वेनाभिमता श्रुतिः स्वस्वरूपेण वा स्वप्रामाण्येन वा स्वयोग्यतया वा समानसत्ताकार्था, प्रमाणशब्दत्वात् सम्मतवत्’ इत्यनु-मानेन तत्सिद्धेः । न चैतस्मिन्नियमे परोक्षत्वम् अनित्यत्वं चोपाधिः । ध्वन्यादावाकाशादौ च साध्याव्याप्तेः । यत्तु साक्षिस्वरूपान्यरूपं परोक्षत्वमिति न घटादावव्यापकत्वम् । उक्तोपाधिर्यदि साध्यव्यापको न स्यात्तदा साक्षिणः स्वबोधयोग्यतादिसमसत्ताकत्वं स्यात् । तथा च तस्य बाध्यत्वं निःसाक्षिकं स्यादिति तर्केण व्यापकतानिश्चयावबोधान्नीयते पक्षे-तरत्वतुल्यत्वमप्युपाधिः । आत्मगुरुत्वान्यतरत्वावच्छिन्नसाध्यव्यापकं यथाश्रुतं चा-परोक्षत्वमिति । तन्न । साक्षिपदेन सगुणोक्तौ तत्रैव साध्याव्यापकत्वात् । शुद्धचिदुक्तौ तस्यावाच्यत्वेनोपाधेः प्रमाणशब्दवाच्यत्वरूपसाधनव्यापकत्वात्, तस्यावाच्यत्वं तु कल्पित-चिद्भेदस्य चित्त्यपि सत्वेन साधनव्यापकत्वात्पक्षेतरत्वातुल्यत्वात् । उक्तेत्याद्ययुक्तम् । अबाध्यत्वेन स्वबोधायोग्यतादेः समसत्ताकत्वेनेष्टापत्तेः । न हि योग्यतादेर्बाध्यत्वं निर्णीतम् । येन तत्समसत्ताकत्वम् अनिष्टमापादयेत् ।
आत्मेत्याद्ययुक्तम् । आत्मपदेन सगुणोक्तौ हि साध्यव्यापकता । निर्विशेषोक्तौ तु तस्यावाच्यत्वेन साधनव्यापकत्वात् । यद्धर्मावच्छिन्नसाध्यव्यापकत्वतद्धर्मावच्छिन्नसाधना व्यापकत्व अन्यतरत्ववति परोक्षत्वाव्यभिचारित्वासिद्धेः । तस्यापि वाच्यत्वेऽप्रयोज-कत्वात् । ननु महाभाष्योक्तन्यायोदाहरणं च विषयम् । अलुप्तस्यैव सर्वनामस्थानस्य नुम् निमित्तत्वात् । ‘न लुमताङ्गस्य’ इति लुमता लुप्तेऽङ्गकार्यनिषेधात् । तथा चालुप्तप्रत्ययत्वेन यत्र निमित्तता तत्र सन्निपातलक्षणन्यायावतारः । यत्र तु ‘प्रत्ययलोपे प्रत्ययलक्षणम्’ इति न्यायेन लुप्तेऽपि प्रत्यये कार्यं भवति तत्रालुप्तत्वविशेषणनैरपेक्ष्येण प्रत्ययत्वमात्रेणैव निमित्त- त्वान्न सन्निपातलक्षणन्यायावतारः । प्रत्ययसद्भावस्य तत्रानुपजीव्यत्वात् । एवं स्थिते यद्यमिथ्याभूतत्वेन प्रत्यक्षादेर्निमित्तता स्यात्तदा प्रत्ययस्यालुप्तत्वेन निमित्ततायामिव भवेदेत-न्न्यायावतारः । प्रत्यक्षादेरुक्तस्वरूपेणैव निमित्ततेति चेन्न । स्वरूपेणैव कालत्रयनिषिद्धस्य स्वरूपस्याप्यसम्भवात् ।
किञ्च ज्योतिष्टोमादिविधेरुपजीव्याग्निविद्यावद्विषयत्वेनेव द्वैतनिषेधस्यापि स्वोपजीव्य योग्यतादीतरविषयत्वेनैव सङ्कोचस्य वा सृष्ट्यादिश्रुतेरिव कल्पितविषयत्वस्य वोपपत्तौ न तात्विकसर्वमिथ्यात्वपरत्वकल्पनं युक्तम् । ननु योग्यतादिकं तात्विकत्वेन न निमित्तं किन्तु योग्यतात्वेनैव । योग्यतामिथ्यात्वेऽपि न शब्दार्थस्य मिथ्यात्वम् । सकलद्वैताभावस्य चाधिकरणस्वरूपत्वेन तदधिकरणस्य च ब्रह्मणः ‘सत्यं ज्ञानमनन्तं ब्रह्म, ‘तत्सत्यं स आत्मा’ इत्यादिश्रुत्या सत्यत्वोपपत्तेश्च । यत्तु अग्निना स्वोपजीव्यतृणादिनाशकत्ववत् औतागमस्य स्वोपजीव्यप्रत्यक्षादिबाधकत्वोपपत्तिरिति तन्न । उपजीव्यतृणादिनाशसामग्री मध्ये निविष्टेनाग्निना तृणादेर्नाशेऽपि अतथाभूतेनाद्वैतागमेन स्वोपजीव्याक्षादेर्नाशासम्भवात् ।