नापि ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ इति श्रुतिस्तत्र मानम्

४०. यत्र त्वस्येति श्रुत्यर्थविवरणम्

न्यायामृतम्

नापि ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ इति श्रुतिस्तत्र मानम् । अत्र हि पूर्वत्र ‘‘स यथा सैन्धवखिल्य’’ इत्यादिना सैन्धवखिल्यस्य समुद्र इव विज्ञानघनजीवस्य ब्रह्मणि स्थितिर्मोक्ष इति स्वमतमुक्तम् । न ह्यत्रो-दकराशिस्समुद्रः, किन्तु तटाकादिवत्तदाश्रयः खातो वरुणो वा, पूर्वत्र ‘स यथा सर्वासामपां समुद्र एकायनम्’ इत्युक्तेः । न चाऽऽप एवाऽपामयनम् । न चेश्वरस्थानीयाभ्यां खातवरुणाभ्यां सैन्धवखिल्यस्याभेदः । नापि पूर्वमुक्त स्थानीयाभिरद्भिः । एतच्च जीवेशभेदवादे वक्ष्यते । उक्तं च ‘समुद्रजल स्थानीया मुक्ता बहवः एकस्वभावा वरुणवदपां खातवद्वा अन्ततोऽपारो भगवान्’ इति ।

एवं श्रुतिः स्वमतमुक्त्वा ‘अविनाशी वा ओ अयमात्माऽनुच्छित्तिधर्मा’ इति वाक्ये अविनाशीत्यनेनात्मनाशो मोक्ष इति बौद्धमतम्, ‘अनुच्छित्तिधर्मा’ इत्यनेनाशेषविशेषगुणोच्छेदो मोक्ष इति वैशेषिकमतं च निरस्याद्वितीय चिन्मात्रावशेषो मोक्ष इति मतेऽनिष्टं प्रसञ्जयितुं ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ इत्यादिना प्रसङ्गाङ्गव्यतिरेकव्याप्तिमुक्त्वा ‘यत्र त्वस्य’ इत्यादिना यत्र येषां मते त्वात्ममात्रावशेषः, तत् तर्हि केन कं पश्येत् न केनापि किञ्चित् । तथा चेष्टस्य रूपादेरीश्वरस्य स्वस्य चाज्ञानाद् अन्धादे-रिवातिदुःखं मोक्षे स्यादित्याहेत्यनिष्टप्रसङ्गोऽत्राभिप्रेतः ।

उक्तं हि महाभारते ‘मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत्’ इति । अन्यथा न विद्यते उच्छित्तिर्येषां ते अनुच्छित्तयः, अनुच्छित्तयो धर्मा यस्या-सावनुच्छित्तिधर्मेति धर्मानुच्छित्त्युक्तिविरोधः स्यात् । अनुच्छित्तिर्धर्मो यस्येति विग्रहे च अविनाशीत्यनेन पुनरुक्तिः । अनुच्छित्तिरित्येतावतैव पूर्णत्वेन धर्मशब्दवैयर्थ्यं च ।

यत्र हि द्वैतमिव’ इत्यत्र इवशब्दस्तु द्वैतस्य परमते मिथ्यात्वात् पररीत्या चापादनीयत्वादल्पत्वाद्वा पुराणे ‘दशरात्रैर्भुक्तमिव न सम्यक्स्वल्पभोजनात्’ इति । लोके च अल्पज्ञे अयं विद्वानिवेति प्रयोगाच्च । ‘इवोपमायां स्वल्पार्थे’ इत्यमरोक्तेः । ‘उपमार्थे तथाल्पत्वे इवशब्दः प्रयुज्यते’ इति वचनाच्च । अन्यथा वाक्यशेषे ‘सर्वं तं परादाद्योऽन्यत्रात्मनस्सर्वं वेद’ इति सर्वाधारत्वोक्तिः स यथा दुन्दुभेर्हन्यमानस्य न बाह्यान् शब्दानिति स यथार्द्रेन्धनाग्नेरभ्याहितस्य पृथग्धूमा इति च भिन्नानां समसत्ताकानां च दुन्दुभितच्छब्दाग्निधूमादीनां दृष्टान्ताना-मुक्तिश्चायुक्ता स्यात् । न हि दुन्दुभ्यादौ तच्छब्दादिरध्य स्तः किन्तु तदधीनः ।

अन्ये तु मोक्षे देहेन्द्रियादिहीनस्य केवलस्यात्मन एव भावात्सर्वविषय-ज्ञाननिषेधकमिदं वाक्यं न तु प्रपञ्चमिथ्यात्वपरमित्याहुः ।

न्यायामृततरङ्गिणी

यत्र त्वस्येति ।। ननु बृहदारण्यके चतुर्थे प्रपाठके काण्वानां यत्र वा अस्येति श्रुतिपाठस्य सत्त्वेऽपि यत्र त्वस्येति पाठो नास्ति । अविनाशी वा इत्यादिवाक्यं च नास्ति । सैन्धवखिल्यवाक्ये समुद्रपदं च नास्ति । माध्यन्दिनानां तु यत्र त्वस्येति वाक्यसत्त्वेऽपि तत्राविनाशीत्यादिवाक्यं समुद्रपदं च नास्ति । षष्ठे प्रपाठके काण्वानां माध्यन्दिनानां च यत्र त्वस्येति वाक्यपाठसत्त्वेऽपि तन्निकटेऽविनाशीत्यादिवाक्य सत्त्वेऽपि तत्पूर्वखण्डिकायां स यथा सैन्धवघनोऽनन्तरेति पाठो नास्ति समुद्रपदं च नास्ति । माध्यन्दिनानां तु यत्र वा अन्यदिव स्यादित्यादिपाठसत्त्वेन यत्र तत्र हि द्वैतमिवेत्यादिपाठश्च नास्ति तत्किमत्र वाक्यमुदाह्रियत इति । उच्यते । समानार्थक-सर्वमन्त्रोदाहरणम् । यत्र यावानंशो नास्ति तत्र तावानुपसंहरणीयः । वस्तुतः षाष्ठं वाक्यमुदाहरणम् । काण्वपाठे तत्राल्पस्यैवोपसंहरणीयत्वात् ।

ननु प्रव्रजिष्यता मैत्रेय्यै बहुधनं दित्सता याज्ञवल्क्येन धनेनामृतत्वमस्ति किमिति पृष्ठवतीं मैत्रेयीं प्रति पृथिवीपूर्णेनापि धनेनामृतत्वं नास्तीति प्रतिब्रुवता यदेव त्वं वेत्थ तदेव मे ब्रूहीति मैत्रेय्या प्रार्थ्यमानेन प्रश्नानुमोदनपूर्वकं व्याख्या-स्यामीति प्रतिज्ञाय ‘आत्मनि विज्ञात इदं सर्वं विदितम्’ इत्युक्तम् । तत्र ननु कथमन्यस्मिन् ब्रह्मणि विदितेऽन्यद्विदितं भवतीत्याशङ्कायां ‘ब्रह्म तं परादाद्, इत्यादि, ‘इदं सर्वं यदयमात्मा’ इत्यन्तेन सर्वस्य ब्रह्मात्मकत्वमुक्तम् । तच्च कथं जानीयामिति जिज्ञासायां स्थित्युत्पत्तिप्रलयेषु यद्व्यतिरेकेण यन्नोपलभ्यते तत्त-दात्मकमिति न्यायम् अभिसन्धाय चेतनाचेतनात्मकानेकविशेषात्मकप्रपञ्चस्य स्थितौ ब्रह्मव्यतिरेकेणानुपलम्भं निदर्शयितुं दुन्दुभिशङ्खवीणाख्यदृष्टान्तत्रयमुक्तम् । उत्पत्तौ निदर्शयितुं आर्द्रेन्धनाग्निधूमदृष्टान्तः । प्रलये तन्निदर्शयितुं समुद्रदृष्टान्त उक्तः ।

ब्रह्मविदां ब्रह्मविद्यानिमित्तकाविद्यानिरोधरूपोयमात्यन्तिकप्रलय इति सदृष्टान्तम् उपपादयितुं सैन्धवखिल्यखण्डिकोक्ता । यथा उदकस्यैव भौमतेजःसम्बन्धात् खिल्य भावः तदपगमे पुनरुदकभाव एव एवमात्मनो भूतसम्बन्धात्खिल्यभावस्थानीयः संसारः भूतविनाशे सति नश्यति । तदनन्तरं ममेदं धनमिदं क्षेत्रमित्यादिभ्रान्ति-र्नास्तीति न प्रेत्यसंज्ञास्तीत्यनेनाभिहिते विज्ञानघनस्य कथं संज्ञा नास्तीत्युच्यत इति शङ्कमानां मैत्रेयीं प्रति न मया ज्ञानसामान्याभाव उच्यते अपि तु रूपादिदर्शनाभाव उच्यते इत्युत्तरयितुं ‘यत्र हि द्वैतमिव भवति’ इत्यादिना संसारदशायां रूपादि द्वितीयवस्तुसद्भावेन तद्विषयकज्ञानमस्ति ब्रह्मभूयं प्राप्तस्य तु द्वितीय वस्त्वभावान्न तद्गोचरज्ञानमस्तीति प्रतिपादयितुं ‘यत्र वा अस्य सर्वमात्मैवाभूत्’ इत्यादि वाक्यम् उक्त्वा तत्समानस्थानतया षष्ठस्याप्येवमेव तात्पर्यं वर्णनीयम् । माध्यन्दिनानाम् अप्येवमेव । तस्माच्चतुर्थे काण्वपाठे ‘यत्र वा अस्य’ इति वा, षष्ठे ‘यत्र त्वस्य’ इति वा माध्यन्दिनपाठे षष्ठचतुर्थयोः ‘यत्र त्वस्य’ इति वाक्यं द्वितीय मात्रनिषेधे मानम् इत्याशङ्क्य श्रुत्यर्थमाह ।

अत्र हीति ।। षष्ठे प्रपाठक इत्यर्थः ।। पूर्वत्रेति ।। ‘यत्र त्वस्येति वाक्य-गर्भित यत्र हि द्वैतमिव’ इति खण्डिकातः पूर्वायां ‘स यथा सैन्धवघन’ इत्येतस्या-मित्यर्थः । इत्यादिना समानार्थायां कण्डिकायामिति शेषः । ‘स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न हास्योद्ग्रहणायैव स्यात् । यतो यतस्त्वाददीत लवणमेव एवं वा ओ इदं महद्भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्तीत्यरे ब्रवीमीति’ स होवाच याज्ञ-वल्क्य इत्येतत्खण्डिकास्थाने पठितायां ‘स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो वसथ त एवं वा ओ अयं बाह्यः प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्ये-वानुविनश्यति न प्रेत्य संज्ञास्तीत्यरे ब्रवीमि’’ इति स्थितिरुक्तेत्यर्थः ।। विज्ञान-घनस्येति ।। प्रज्ञानघनस्येत्यर्थः ।

ननु सैन्धवघनखण्डिकायां समुद्रपदं नास्ति तत्कथं समुद्र इत्यादि व्याख्यान-मिति । मैवम् । एवं मन्यते सैन्धवखिल्यखण्डिकाव्यवहितपूर्वखण्डिकायां स यथा सर्वासामपां समुद्र एकायनमित्युक्तत्वेन अब्विकारस्य सैन्धवखिल्यस्य समुद्रायनत्वा भिज्ञानात् अब्रूपसैन्धवघनाधारतयाभिधीयमानमुदकमपि समुद्र इति प्रत्यभिज्ञायते । तत्समानार्थतया सैन्धवघनखण्डिकायामपि तदुपसंहर्तव्यम् । तथा च श्रुत्यन्तरं ‘यथा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति नामरूपे विहाय तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यं इति ।

नन्वत्र श्रुतौ सर्वासामपां समुद्र एकायनमित्यत्रापि समुद्रशब्देन जलराशि-रेवोच्यते । जलराशिं प्राप्तानां नद्यादीनां च तेन सहाभेद एव च प्रत्यक्षसिद्ध-स्तत्कथमुच्यते ब्रह्मणि स्थितिरित्यत आह– न हीति ।। अत्र सैन्धवखिल्यवाक्ये । समुद्रपदसमानार्थोदकपदेन जलराशिर्नोच्यत इत्यर्थः । ननु चन्द्रोदयेन समुद्रो वर्धते, ‘समुद्रे स्नायात्’ इत्यादिषु समुद्रशब्दस्य जलराशौ प्रयोगदर्शनादत्रापि समुद्रपदेन जलराशिरेव ग्रहीतुं युक्त इत्यत आह– पूर्वत्रेति ।। नन्वपामयनत्वेन निर्दिष्टस्यापि समुद्रस्य कुतः खातादिरूपत्वमत आह– न चेति ।। ‘समुद्रो वर्धते’ इत्यादौ वृध्द्यादेः खातादावसम्भवात्समुद्रशब्दस्य जलराश्यर्थत्वमिति भावः । समुद्रशब्दस्य खाताद्यर्थे प्रकृतोपयोगमाह– न चेति ।। एवं श्रुतिरिति ।। सैन्धवघनखण्डिकया सम्पूर्णयेत्यर्थः ।।

अविनाशीति ।। सैन्धवघनखण्डिकाव्यवहितोत्तरखण्डिकायां स होवाच मैत्रेयि ‘अत्रैव मा भगवान्मोहान्तमापीपिपन्न वा अहमिमं विजानामि’ इति सहोवाच न वा ‘ओऽहं मोहं विजानाम्यविनाशी वा ओऽयमात्माऽनुच्छित्तिधर्मेत्यस्यां न प्रेत्य संज्ञाऽस्ति’ इति पूर्ववाक्येन भूतवियोगानन्तरं मुक्तौ ज्ञानं नास्तीति याज्ञवल्क्येनोक्ते किमात्मनाश एव मुक्तिः, येन मुक्तावात्मनाशाज्ज्ञानाभावः उताशेषविशेषगुणनाश एव अथवाऽद्वितीयचिन्मात्रावशेषो वा मुक्तिः । येन द्वितीयाभावाज्ज्ञानाभावः इत्युक्तम् । याज्ञवल्क्येनेत्यादि स्वव्यामोहमाविष्कुर्वन्तीं मैत्रेयीं प्रति याज्ञवल्क्येन मतत्रयमपि निरस्तमित्यर्थः ।

पुनरुक्तिरिति ।। अनिच् प्रत्ययानुपपत्तिश्च द्रष्टव्या । ‘धर्मादनिच् केवलात्’ इति केवलोपपदपूर्वात् केवलाच्च धर्मशब्दात्तदुक्तेः । ननूच्छित्तिधर्मा न भवतीति करणे नायं दोषः । न च पुनरुक्तिः । अविनाशीत्यनेन स्वरूपानाशस्यानुच्छित्ति-धर्मेत्यनेन विनाशानाधारत्वस्य चोक्तेरित्यत आह– अनुच्छित्तिरिति ।। बहुव्रीहे-स्तूभयथाप्याश्रयणीयत्वादिति भावः । ननु चिन्मात्रं यद्यद्वैतं स्यात्किमपि न जानीयात् । यत्र द्वैतमिव तत्रैव ज्ञानमिति व्यतिरेकव्याप्तौ व्याप्यविशेषणमिवेति व्यर्थं स्यादित्यत आह– यत्र हीति ।। यत्र द्वैतं तत्र ज्ञानमित्युक्ते परमतेऽप्रसिद्धिः । द्वैतस्य मिथ्यात्वेन सर्वत्र तदत्यन्ताभावस्यैव सत्त्वेन कस्यापि द्वैतानधिकरणत्वात् । इवेत्यस्योपादाने तु मिथ्याभूतं द्वैतं लभ्यते । तच्च स्वात्यन्ताभावाधिकरणेऽप्यस्तीति नाप्रसिद्धिः ।

नन्वेवं स्वमतेऽनैकान्त्यम् । ज्ञाने सत्यपि मिथ्याद्वैताभावादित्यत आह–  पररीत्येति ।। युक्त इति शेषः ।। अल्पत्वाद्वेति ।। यथाकथञ्चिद्भेदसत्त्वम् अल्प शब्दार्थः । ननु दृष्टान्ताद्युपपत्तिभिरात्मविज्ञानेन सर्वविज्ञानमाघोषयन्ती सती चोप-निषत् न द्वितीयं सहते इति कथं तर्कपरा व्याख्यायत इत्यत आह– अन्यथेति ।। द्वितीयमात्रनिषेधपरत्व इत्यर्थः ।। वाक्यशेष इति ।। सर्वविज्ञानवाक्योत्तरवाक्य इत्यर्थः ।। सर्वमिति ।। परमात्मव्यतिरेकेणान्यत्रान्याश्रितं सर्वमिति यो वेद तं पुरुषं तदेव सर्वं परादात् द्येत् खण्डयेत् एवमेव ब्रह्म तं परादादित्यादिना ब्रह्म क्षत्रं लोकान्देवान् वेदान् भूतानि सर्वमित्येवमन्ते वाक्ये बोध्यम् । ब्राह्मणाद्यभिमानिनी देवता परमात्माश्रितां मामन्याश्रितां जानातीति हेतोः क्रुध्यतीत्यर्थः । अन्यथा ब्रह्म तं परादाद्यो ब्रह्म वेदेत्यादिनैव पूर्णत्वेनान्यत्रेति व्यर्थः । अन्याश्रितत्वनिन्दया तु ब्रह्माश्रितत्वे तात्पर्यमवसीयत इति भावः । नन्वात्मनि विज्ञात इदं सर्वं विज्ञात-मिति प्रतिज्ञायामात्मव्यतिरेकेण सर्वस्याभाव इत्येवंरूपहेतुं साधयितुं ब्रह्मोपादान-कत्वं सर्वस्याभिमतम् । तदुपपादनाय स्थित्यादिषु ब्रह्माश्रितत्वं वक्तुं दुन्दुभ्यादि-दृष्टान्ता उक्ता इति द्वितीयाभावे तात्पर्यमवगम्यत इत्यत आह– न हीति ।। स यथा दुन्दुभेर्हन्यमानस्य न बाह्यान् शब्दान् शक्नुयाद्ग्रहणाय ।। दुन्दुभेस्तु ग्रहणाय दुन्दुभ्याघातस्य वा शब्दो गृहीतः ।

अत्र परमते स इति दृष्टान्तः लोके यथा दण्डादिना ताड्यमानस्य भेर्यादेः दुन्दुभि शब्दसामान्यात् निष्कृष्टान् तारमन्द्रादिरूपान् बाह्यशब्दान् गृहीतुं न शक्तो भवति । दुन्दुभेस्तु ग्रहणेनाहननम् आघातः । आहननविशिष्टस्य दुन्दुभेर्ग्रहणे सति शब्द सामान्यविशिष्टदुन्दुभिग्रहणे सति तद्गताः विशेषा गृहीता भवन्ति । न तु त एव निर्भिद्य ग्रहीतुं शङ्क्यते । एवं शङ्खस्य ध्मायमानस्येत्यत्र वीणायै वाद्यमानायै इत्यत्र च बोध्यम् । इत्यादिरूपेणार्थकरणेऽपि यथा सामान्यं विना विशेषो नाव-तिष्ठते तथा ब्रह्मव्यतिरेकेण जगन्नास्तीत्येव प्रतीयते न तु ब्रह्मणि तदध्यस्तमिति । दृष्टान्तानानु-गुण्यात् । सामान्ये विशेषस्यानध्यासात् । भवद्रीत्योत्पत्तिविषये आर्द्रेन्धनाग्नि-धूमदृष्टान्तवाक्येऽपि लीलयानायासेन निश्वसितवज्जगत्सर्जनमित्येव प्रतीयते । न तु तत्राध्यासः । भवदभिमते प्रलयविषये अप्समुद्रदृष्टान्ते वाक्येऽपि स्पर्शत्वग्जिह्वा रसाद्यनेकोपन्यासात् त्वग्वेद्यत्वेन स्पर्शस्य त्वगधीनत्वमिवात्माधीनत्वमेवावगम्यत इत्यर्थः ।

व्यासाद्रिसृततर्काम्बुपूरैः पक्षयुगं युजि ।

न्यायामृततरङ्गिण्यां यत्र त्वस्यार्थवर्णनम् ।। इति यत्र त्वस्येति श्रुत्यर्थः ।

न्यायामृतकण्टकोद्धारः

ननु तथापि यत्र त्वस्येति श्रुतौ मिथ्यात्वं प्रतीयते । तथा हि यत्र यस्यामवस्थायां सर्वं क्रियाफलकारकात्मकं सर्वमात्मैवाभूत्, आत्मव्यतिरेकेण नाभूत् तत् तदा तस्या-मवस्थायां केन करणेन किं कर्मादिकं पश्येत् ? करणादेरभावेन किमपि न पश्यतीति । तथा च कथं मिथ्यात्वे श्रुतिप्रमाणाभाव इति शङ्कते नापीति । कुतो नेति चेत् पूर्वोत्तरविरोधात् । कस्तर्हि पूर्वोत्तराविरुद्धो वाक्यार्थ इत्यतस्तं दर्शयितुमाह अत्र हीति । नन्वत्र समुद्रशब्दस्योदकराशिवाचित्वात् तस्य च सैन्धवखिल्येत्यनेनाभेदात् कथमस्य जीवस्य ब्रह्मणि स्थितत्वे दृष्टान्तत्वमित्यत आह न हीति । समुद्रशब्देन खातादिग्रहणे युक्तिमाह पूर्वत्रेति । न च तत्रापां समुद्र एकायनमित्युक्तेः समुद्रशब्देन खातादिरस्तु स्वस्य स्वाश्रयत्वासम्भवात् । स यथा सैन्धवेत्यत्र समुद्रशब्देनोदकराशिग्रहणे किं बाधकम् ? तत्रेवात्र स्वाश्रयत्वानुक्तेरिति वाच्यम् । एकेन शब्देन पूर्वं बुद्धिस्थितस्यैव ग्रहणे लाघवात्, अनुपस्थितग्रहणे गौरवात् । यथा पदे जुहोतीत्यत्रैकहायन्याः पूर्वं प्रकृतत्वात् तत्पदमेव गृह्यते तद्वदेव ।

ननु समुद्रशब्देनोदकराशिमेव गृहीत्वा तस्य सैन्धवखिल्याभेद एवात्रोच्यत इत्यङ्गीकारे को दोषः ? ऐक्यश्रुत्यानुगुण्येनाप्रकृतग्रहणोपपत्तेरित्यत आह एतच्चेति । सर्वासामपां समुद्र एकायनमिति दृष्टान्तेन मुक्तजीवपरमात्मभेद उच्यत इत्यत्र सम्मतिमाह– उक्तञ्चेति । एवं पूर्ववाक्यार्थमुक्त्वा विवक्षितवाक्यार्थं दर्शयितुमाह एवमिति । अत्र श्रुतिरित्यस्या-हेत्यनेन सम्बन्धः । तथा च यत्र त्वस्येत्यत्र न वस्तुस्थितिकथनम् । अपि तु मायिमते ब्रह्ममात्रावस्थानं मुक्तिरिति पक्षे मोक्षे दुःखं स्यादित्यनिष्टप्रसङ्गोऽभिधीयते, न मिथ्यात्व-मित्यर्थः । उक्तार्थानङ्गीकारेऽनिष्टप्रसङ्गमाह अन्यथेति । धर्मशब्दवैयर्थ्यं चेति । एवं च शब्दाधिक्याद् अर्थाधिक्यमिति भावः ।

ननु यत्र त्वस्येत्यस्य मिथ्यात्वपरत्वानङ्गीकारे यत्र हि द्वैतमिवेति पूर्ववाक्यविरोधः । तत्रेवशब्देन द्वैतमिथ्यात्वप्रतीतेः । यथा रजतमिवेत्युक्ते रजताभाव प्रतीतिस्तथा द्वैत-मिवेत्युक्तेऽपि द्वैताभावप्रतीतिरित्यत इवशब्दं व्याचष्टे यत्र हि द्वैतमिवेति । तथाचेव-शब्दस्य प्रमाणाविरुद्धपूर्वोत्तराविरुद्धस्वल्पाद्यर्थत्वे सम्भवति न तद्विरुद्धमिथ्यात्वपरत्वम् । इवशब्दस्य स्वल्पाद्यर्थत्व इव मिथ्यात्वाद्यर्थत्वेऽभिधानाभावादिति भावः । प्रतीतिस्तु तात्पर्यवशादुपपद्यते । न च प्रकृते तात्पर्यज्ञापकं किञ्चिदस्तीति भावः ।

अन्यथेति । यत्र हि द्वैतमिवेति वाक्यानुसारेण यत्र त्वस्येत्यस्य मिथ्यात्वपरत्व इत्यर्थः । अन्ये त्विति । श्रुतिस्मृतिभ्यां मोक्षे ज्ञानस्य प्रमितत्वात् तन्निषेधपरत्वेन व्याख्यानं प्रमाणविरुद्धम् । जन्यज्ञाननिषेधपरत्वेन व्याख्यानं तु नास्माकं विरोधि । उक्तरीत्या वाक्यार्थे सम्भवति क्लिष्टकल्पनानुपपत्तेश्चेति ।

न्यायामृतप्रकाशः

सैन्धवखिल्यः लवणखण्डः । तदाश्रयः उदकराश्याश्रयः । ननु समुद्रशब्दस्य खात वाचित्वमयुक्तं ‘‘समुद्रं शोषयिष्यामि पद्भ्यां यान्तु प्लवङ्गमाः’’ इति प्रयोगाज्जलराशिपर एव समुद्रशब्द इत्यतः पूर्ववाक्यविरोधमाह– पूर्वत्रेति ।। तथापि समुद्रशब्दस्य जलराशिवाचित्वे किमायातमित्यत आह– न चेति ।। न चेश्वरेति ।। तथा च सैन्धवखिल्यस्थानीयस्य मुच्यमानजीवस्यापि न खातवरुणस्थानीयेश्वराभेद इत्यर्थः ।। नापीति ।। खातादिरूपेश्वर स्थितजलराशिरूपपूर्वमुक्तैरपि नाभेद इत्यर्थः । तथा च सैन्धवखिल्यस्य खातादिना तत्रत्य जलराशिना च यथा नाभेदस्तथा जीवस्यापीश्वरेण पूर्वमुक्तैश्चेति भावः ।। उक्तं चेति ।। बृहदारण्यकभाष्य इत्यर्थः । अविनाशी वा इत्यादेरर्थो ‘ज्ञानरूपस्य विज्ञाननाशस्तन्नाश एव तु । इति शून्यमतोच्छित्त्या’ इत्याद्यनुव्याख्यानोक्तरीत्या द्रष्टव्यम् ।। अन्यथेति ।। एवं यत्र त्वस्येति वाक्यस्य परमतनिरासकत्वाभावे वस्तुस्थितिमात्रकथनपरत्वे चेत्यर्थः ।। धर्मेति ।। न हि चिन्मात्रावस्थानरूपे मोक्षे त्वन्मतेऽनुच्छिन्ना धर्माः सन्तीत्यर्थः ।। अनुच्छित्तिरिति ।। स्वरूपानाशस्तस्येति भावः ।

ननु तर्हि यत्र हीति वाक्येऽनुपपत्तिरेव । भवतां ‘यत्र हि द्वैतमिव’ इति श्रुतौ इवशब्द महिम्ना द्वैतस्यासत्त्वमवगम्यत इति चेत्तत्राह– यत्र हीति ।। पररीत्येति ।। ‘परसिद्धै-र्दूषणम्’ इत्युक्तत्वादिति भावः । तथा च यत्र मिथ्याभूतोऽपि भेदो भवति तत्र इतर इतरं पश्यतीत्यादि युज्यते । यत्र निवृत्ताविद्यावस्थायां सोऽपि नास्ति तदा केन कं पश्येदित्यादि रर्थो द्रष्टव्यः ।। अल्पत्वादिति ।। यत्र हीति वाक्ये इवशब्दोऽल्पत्वार्थः । अस्वतन्त्रो भेदो भवतीत्यर्थः । तदधीनः दुन्दुभ्याद्यधीनः । एवं दार्ष्टान्तिकेऽपीति भावः । केवलस्य अप्राकृतदेहेन्द्रियादिमतः ।। ज्ञानेति ।। वृत्तिरूपज्ञानेत्यर्थः ।।

न्यायकल्पलता

यत्र त्वस्येति ।। ननु बृहदारण्यके चतुर्थप्रपाठके काण्वानां ‘यत्र वा अस्य’ इति श्रुति पाठस्य सत्वेऽपि ‘यत्र त्वस्य’ इति पाठो नास्ति । अविनाशी वा इत्यादिवाक्यं च नास्ति । सैन्धवखिल्यवाक्ये समुद्रपदं च नास्ति । माध्यन्दिनानां तु ‘यत्र त्वस्य’ इति वाक्य सत्वेऽपि तत्र ‘अविनाशी’ इत्यादिवाक्यं समुद्रपदं च नास्ति । षष्ठे प्रपाठके काण्वानां माध्यन्दिनानां च ‘यत्र त्वस्य’ इति वाक्यपाठसत्वेऽपि तन्निकटे ‘अविनाशी’ इत्यादिवाक्यसत्वेऽपि तत्पूर्वकण्डिकायाम् ‘यथा सैन्धव घनोऽनन्तर’ इत्यादि पाठो नास्ति । समुद्रपदं च नास्ति । माध्यन्दिनानां तु षष्ठे ‘यत्र वा अन्यदिव स्यात्’ इत्यादिपाठसत्वेन ‘यत्र हि द्वैतमिव’ इत्यादिपाठश्च नास्ति । तत्किमत्र वाक्यमुदाह्रियत इति ।

उच्यते । समानार्थकं सर्वम् अत्रोदाहरणम् । यत्र यावानंशो नास्ति तत्र तावानुप संहरणीयः । वस्तुतः षाष्ठं वाक्यमुदाहरणम् । काण्वपाठे तत्राल्पस्यैवोपसंहरणीयत्वात् । ननु प्रव्रजिष्यता मैत्रेय्यै बहुधनं दित्सता याज्ञवल्क्येन धनेनामृतत्वं किमिति पृष्टवतीं मैत्रेयीं प्रति पृथिवीपूर्णेनापि वित्तेनामृतत्वं नास्तीति प्रतिब्रुवता ‘यदेव त्वं वेत्थ तदेव मे ब्रूहि’ इति मैत्रेय्या प्रार्थ्यमानेन प्रश्नानुमोदनपूर्वकं व्याख्यास्यामीति प्रतिज्ञाय ‘आत्मनि विज्ञात इदं सर्वं विदितम्’ इत्युक्तम् । तत्र ननु कथमन्यस्मिन्ब्रह्मणि विदितेऽन्यद्विदितं भवतीत्या-शङ्कायां ‘ब्रह्म तं परादात्’ इत्यादिना ‘इदं सर्वं यदयमात्मा’ इत्यन्तेन सर्वस्य ब्रह्मात्म-कत्वमुक्तम् । तच्च कथं ज्ञायता(जानीया)मिति जिज्ञासायां स्थित्युत्पत्तिप्रलयेषु यद्व्यतिरेकेण यन्नोपलभ्यते तत्तदात्मकम् इति न्यायमभिसन्धाय चेतनाचेतनात्मकानेक विशेषात्मक-प्रपञ्चस्य स्थितौ ब्रह्म व्यतिरेकेणानुपलम्भं निदर्शयितुं दुन्दुभिशङ्खवीणाख्यदृष्टान्तत्रयमुक्तम् ।

उत्पत्तौ निदर्शयितुमार्द्रेन्धवाग्निधूमदृष्टान्तः । प्रलये तं निदर्शयितुमप्समुद्र दृष्टान्तोऽभि-हितः । ब्रह्मविदां ब्रह्मविद्यानिमित्तकाविद्यानिरोधरूपोऽयमात्यन्तिकप्रलय इति सदृष्टान्तमुप-पादयितुं सैन्धवखिल्यखण्डिकोक्ता । यथोदकस्यैव भौमतेजःसम्बन्धात् खिल्यभावस्तदपगमे पुनरुदकभाव एव । एवमात्मनो भूतसम्बन्धात्खिल्यभावस्थानोऽयं संसारो भूतविनाशे सति नश्यति । तदनन्तरं ममैवेदं धनं इदं क्षेत्रमित्यादिभ्रान्तिर्नास्तीति न प्रेत्य संज्ञाऽ-स्तीत्यनेनाभिहिते विज्ञानघनस्य कथं सञ्ज्ञा नास्तीत्युच्यत इति शङ्कमानां मैत्रेयीं प्रति, न मया ज्ञानसामान्याभाव उच्यतेऽपि तु रूपादिविषय(दर्शन)दर्शनाभाव इत्युत्तरयितुं ‘यत्र हि द्वैतमिव भवति’ इत्यादिना संसारदशायां रूपादिद्वितीयवस्तुसद्भावेन तद्विषयकज्ञानमस्ति । ब्रह्मभूयं प्राप्तस्य तु द्वितीयवस्त्वभावान्न तद्गोचरज्ञानमस्तीति प्रतिपादयितुं ‘यत्र वा अस्य स(पू)र्वमात्मैवाभूत्’ इत्यादि वाक्यमुक्तं तत्समानस्थानतया षष्ठस्थस्याप्येवमेव तात्पर्यं वर्णनीयम् । माध्यन्दिनानामप्येवमेव ।

तस्माच्चतुर्थे काण्वपाठे ‘यत्र वा अस्य’ इति वा षष्ठे ‘यत्र त्वस्य’ इति वा माध्यन्दिनपाठे षष्ठचतुर्थयोः ‘यत्र त्वस्य’ इति वा वाक्यं द्वितीयमात्रनिषेधे मानमित्याशङ्क्य श्रुत्यर्थमाह– अत्र हीति ।। षष्ठे पाठक इत्यर्थः ।। पूर्वत्रेति ।। ‘यत्र त्वस्य’ इति वाक्यगर्भित ‘यत्र हि द्वैतमिव’ इति खण्डिकातः प्रपूर्वायां ‘स यथा सैन्धवघनः’ इत्ये-तस्यामित्यर्थः । इत्यादिना समानार्थायां खण्डिकायामिति शेषः । ‘स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न हास्योद्ग्रहणायैव स्याद्यतो यतस्त्वाददीत लवणमेवैवं वा अर इदं महद्भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य सञ्ज्ञाऽस्तीत्यरे ब्रवीमि’ इति । ‘स होवाच याज्ञवल्क्य’ इत्येतत्खण्डिकास्थाने पठितायां ‘स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा ओऽयं (आत्माऽनन्तरोऽबाह्यः) कृत्स्नः प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्तीत्यरे ब्रवीमि’ इति होवाच याज्ञवल्क्यः इत्येतत्कण्डिकायां सैन्धवखिल्य पदस्थानीयसैन्धवघनपदनर्दिष्टस्य जीवस्य ब्रह्मणि स्थितिरुक्तेत्यर्थः ।। विज्ञानघनस्येति ।। प्रज्ञानघनस्येत्यर्थः ।

ननु सैन्धवघनखण्डिकायां समुद्रपदं नास्ति तत्कथं समुद्र इत्यादि व्याख्यानमिति चेत् । एवं मन्यते । सैन्धवखिल्यखण्डिकाव्यवहितपूर्वकण्डिकायां ‘स यथा सर्वासामपां समुद्र एकायनम्’ इत्युक्तत्वेनाब्विकारस्य सैन्धवाखिल्यस्य समुद्रायतनत्वाभिज्ञानात् । अब्रूपसैन्धव घनाधारतयाऽभिधीयमानमुदकमपि समुद्र इति प्रत्यभिज्ञायते । तत्समानार्थतया च सैन्धवघन कण्डिकायामपि तदुपसंहर्तव्यमिति । तथा च श्रुत्यन्तरम् । ‘यथा नद्यः स्यन्दमाना समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति नामरूपे विहाय तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्’ इति । नन्वत्र श्रुतौ ‘सर्वासामपां समुद्र एकायनम्’ इत्यत्रापि समुद्र-शब्देन जलराशिरेवोच्यते । जलराशिं प्राप्तानां च नद्यादीनां तेन सहाभेद एव प्रत्यक्ष-सिद्धस्तत्कथमुच्यते ब्रह्मणि स्थितिरित्यत आह– न हीति ।। अत्र सैन्धवखिल्य वाक्ये । समुद्रसमानार्थोदकपदेन जलराशिर्नोच्यत इत्यर्थः ।

ननु चन्द्रोदयेन समुद्रो वर्धते । ‘समुद्रे स्नायात्’ इत्यादिषु समुद्रशब्दस्य जलराशौ प्रयोग दर्शनादत्रापि समुद्रपदेन जलराशिरेव युक्तो गृहीतुमित्यत आह– पूर्वत्रेति ।। नन्वपा-मयनत्वेन निर्दिष्टस्यापि समुद्रस्य कुतः खातादिरूपत्वमित्यत आह– न चेति ।। ‘समुद्रो वर्धते’ इत्यादौ वृद्ध्यादेः खातादावसम्भवात्समुद्रशब्दस्य जलराश्यर्थत्वमिति भावः । समुद्र-शब्दस्य खाताद्यर्थत्वे प्रकृतोपयोगमाह– न चेश्वरेति ।। अद्भिरिति ।। अभेद इत्यनुवर्तते । ननु भेदादर्शनात्कथं नाभेद इत्यत आह– एतच्चेति ।। उक्तमर्थं सम्मतयति– उक्तं चेति ।। एवं श्रुतिरिति ।। सैन्धवघनखण्डिखया सम्पूर्णयेत्यर्थः ।। अवि-नाशीति ।। सैन्धवघनकण्डिकाऽव्यवहितोत्तरखण्डिकायाम् । ‘सा होवाच मैत्रेय्यत्रैव मा भगवान्मोहान्त मापीपिपन्न वा अहमिमं विजानामीति । स होवाच । न वा ओऽहं मोहं विजानाम्यविनाशी वा ओऽयमात्मानुच्छित्तिधर्मा’ इत्यस्याम् । ‘न प्रेत्य संज्ञाऽस्ति’ इति पूर्ववाक्येन भूतवियोगानन्तरं मुक्तौ ज्ञानं नास्तीति याज्ञवल्क्येनोक्ते किमात्मनाश एव मुक्तिर्येन मुक्तावात्मनाशात् ज्ञानाभाव उताशेषविशेषगुणनिवृत्तिरेव । अथवाऽद्वितीय-चिन्मात्रावशेष एव मुक्तिर्येन द्वितीयाभावात् ज्ञानाभाव इत्युक्तं याज्ञवल्क्येनेत्यादि-स्वव्यामोहमाविष्कुर्वतीं मैत्रेयीं प्रति याज्ञवल्क्येन मतत्रयमपि निरस्तमित्यर्थः ।

अनिष्टं प्रसञ्जयितुमिति ।। यदि येषां मते अस्य मुक्तस्य सर्वक्रियाकारकजातं आत्मै वाभूत् । यद्रजतं सा शुक्तिरेवेतिवद्बाधासामानाधिकरण्येनात्मनि व्यतिरेकेण सर्वस्यासत्वं यद्यात्ममात्रावशेष इति फलितम् । यद्यपवृक्तः सविशेषचिद्रूपो न स्यात्तर्हि स्वानन्दानुभविता न स्याद् घटवत् । यदाऽयमानन्दानुभविता तदा द्वैतवान् यथा मुक्तेः पूर्वमिति व्यतिरेक व्याप्तिः । परमते द्वैतस्यालीकत्वादिवशब्दः । स्वमतेन तु जीवसम्बन्धिद्वैतपरिकरस्य पारतन्त्र्यादिवशब्द इति विशेषः । अथवा य आनन्दानुभविता स सविशेषचिद्रूपः । यदाऽनपवृक्तः सुखी सुप्त असुप्तौ वा चैत्र इति व्यतिरेकव्याप्तिः । तत्वविन्मतेन तु ‘परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ ‘एतमानन्दमयमात्मानमुपसङ्क्रम्य’ इत्यादि श्रुत्यनुगृहीताभ्याम् । ‘उत्तराच्चेदाविर्भूतस्वरूपस्तु’ ‘सम्पद्याविहाय स्वेन शब्दात्’ इति सूत्राभ्यामुक्तोऽपवृक्त इति व्यतिरेकव्याप्तिरिति । श्रौतं तर्कम् इतिहासेनोपबृंहयति– उक्तं हीति ।। विषयानुल्लेखिनो ज्ञानत्वाभावादिति भावेनोक्तं परेऽज्ञान इति । विपक्षे बाधकमाह ।। अन्यथेति । पुनरुक्तिरिति । अनिच्प्रत्ययानुपपत्तिश्च द्रष्टव्या । ‘धर्मादनिच्केवलात्’ इति पाणिनिसूत्रे केवलोपपदपूर्वात्केवलाच्च धर्मशब्दात्तदुक्तेः ।

ननु उच्छित्तिधर्मा न भवतीति बहुव्रीहिगर्भनञ्तत्पुरुषकरणे नायं दोषः । नापि पुनरुक्तिः । अविनाशीत्यनेन स्वरूपानाशस्य अनुच्छित्तिधर्मेत्यनेन विनाशानाधारत्वस्य चोक्तेरित्यत आह– अनुच्छित्तिरिति ।। बहुव्रीहेस्तूभयथाऽप्याश्रयणीयत्वादिति भावः । ननु चिन्मात्रं यद्यद्वैतं स्यात्तर्हि किमपि न जानीयात् । यत्र द्वैतमिव तत्रैव ज्ञानमिति व्यतिरेक-व्याप्तौ व्याप्यविशेषणम् ‘इव’ इति व्यर्थमित्यत आह– यत्र हीति ।। यत्र द्वैतं तत्र ज्ञान-मित्युक्ते परमतेऽप्रसिद्धिः । द्वैतस्य मिथ्यात्वेन सर्वत्र तदत्यन्ताभावस्यैव सत्वेन कस्यापि द्वैताधिकरणत्वाभावात् । ‘इव’ इत्यस्योपादाने तु परमते मिथ्याभूतं द्वैतं लभ्यते । तच्च स्वात्यन्ताभावाधिकरणेऽप्यस्तीति नाप्रसिद्धिः ।

नन्वेवं स्वमतेऽनेकान्तः । ज्ञाने सत्यपि मिथ्याद्वैताभावादित्यत आह– पररीत्या चेति ।। युक्त इति शेषः । चशब्दः शङ्कानिराससमुच्चयार्थः ।। अल्पत्वाद्वेति । धर्मिप्रतियोगि ज्ञानाधीनज्ञानत्वेन सापेक्षत्वात्परतन्त्रविश्ववृत्तिद्वैतस्य पारतन्त्र्याद्वा द्वैतस्याल्पत्वमित्यर्थः । ननु दृष्टान्ताद्युपपत्तिभिरात्मविज्ञानेन सर्वविज्ञानमाघोषयन्तीयमुपनिषन्न द्वितीयं सहत इति कथं तर्कपरा व्याख्यायत इत्यत आह– अन्यथेति ।। द्वितीयमात्रनिषेधपरत्व इत्यर्थः । वाक्यशेषे सर्वविज्ञानवाक्योत्तरवाक्ये ।। सर्वमिति ।। परमात्मव्यतिरेकेणान्यत्रान्याश्रितं सर्वम् इति यो वेद तं पुरुषम् तदेव सर्वं परादाद् द्येत् खण्डयेत् ।

एवमेव ‘ब्रह्म तं परादात्’ इत्यादिना । ब्रह्म क्षत्रं लोकान् । देवान् भूतानि सर्वं इत्येवमन्तं वाक्यं बोध्यम् । ब्राह्मणाद्यभिमनिनी देवता परमात्माश्रितां मामन्याश्रितां जाना-तीति हेतोः क्रुद्ध्यतीत्यर्थः । अन्यथा ‘ब्रह्म तं परादाद्यो ब्रह्म वेद’ इत्यादिनैव पूर्ण त्वेनान्यत्रेति व्यर्थम् । अन्याश्रितत्वनिन्दया तु ब्रह्माश्रितत्वे तात्पर्यमवसीयत इति भावः । नन्वात्मनि विज्ञात इदं सर्वं विदितमिति प्रत्यभिज्ञायामात्मव्यतिरेकेण सर्वस्यासत्वमित्येवंरूपं हेतुं साधयितुं ब्रह्मोपादानकत्वं सर्वस्याभिमतं यत्तदुपपादानाय स्थित्यादिषु ब्रह्माश्रितत्वं वक्तुं दुन्दुभ्यादिदृष्टान्ता उक्ता इति द्वितीयाभावे तात्पर्यमवगम्यते इति कथं तदुक्तिरयुक्तेत्यत आह– न हीति ।। १‘स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दान् शक्नुयाद्ग्रहणाय दुन्दुभे-स्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः’ । अत्र परमते ‘स यथा’ इति दृष्टान्तः । लोके यथा दण्डादिना ताड्यमानस्य भेर्यादेर्दुन्दुभिशब्दसामान्यान् निष्कृष्टान् तारमन्दादि-रूपान् बाह्याञ्छब्दान् गृहीतुं न शक्तो भवति । दुन्दुर्भेस्तु ग्रहणेन । आहननमाघातः । आहननविशिष्टस्य वा दुन्दुभेर्ग्रहणे सति शब्दसामान्यविशिष्टदुन्दुभिग्रहणे सति तद्रता विशेषा गृहीता भवन्ति । न तु त एव निर्भिद्य गृहीतुं शक्यन्ते ।

एवं ‘शङ्खस्य ध्मायमानस्य’ इत्यत्र ‘वीणायै वाद्यमानायै’ इत्यत्र च बोध्यम् । इत्यादि रूपेणार्थकरणेऽपि यथा सामान्यं विना विशेषो नावतिष्ठते तथा ब्रह्मव्यतिरेकेण जगन्नास्ती-त्येव प्रतीयते । न तु ब्रह्मणि तदध्यस्तमिति । दृष्टान्तानानुगुण्यात् । सामान्ये विशेष-स्यानध्यासात् । भवद्रीत्याऽप्युपपत्तिविषये आर्द्रेन्धनाग्निधूमदृष्टान्तवाक्ये लीलयाऽनायासेन निःश्वसितवज्जगत्सर्जनमित्येव प्रतीयते न तु तत्राध्यासः । भवदभिमते प्रलयविषये अप्स-मुद्रदृष्टान्तवाक्येऽपि स्पर्शत्वग्जिह्वारसाद्यनेकोपन्यासात् त्वग्वेद्यत्वेन स्पर्शस्य त्वगधीनत्व-मिवात्माधीनत्वमेवावगम्यत इत्यर्थः । मतान्तरेण समादधाति ।। अन्ये त्विति ।।

श्रीमद्व्यासयतीन्द्रार्यसत्कल्पतरुसंश्रिति ।

न्यायकल्पलतायां तु यत्र त्वित्यस्य वर्णनम् ।।

न्यायामृतसौगन्ध्यम्

नापि ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ इति श्रुतिस्तत्र मानम् ।  अत्र हि पूर्वत्र ‘स यथा सैन्धवखिल्य’ इत्यादिना सैन्धवाखिल्यस्य समुद्र इव विज्ञानघनस्य जीवस्य ब्रह्मणि स्थितिर्मोक्ष इति स्वमतमुक्तम् । न ह्युदकराशिस्समुद्रः किन्तु तटाकादिवत्तदाश्रयः खातो वरुणो वा, पूर्वत्र ‘स यथा सर्वासामपां समुद्र एकायनम्’ इत्युक्तेः । न चाऽऽप एवापामयनम् । न चेश्वरस्थानीयाभ्यां खातवरुणाभ्यां सैन्धवखिल्यस्याभेदः । नापि पूर्वमुक्तस्थानीयाभिरद्भिः । एतच्च जीवेशभेदवादे वक्ष्यते । उक्तं च ‘समुद्रजलस्थानीया मुक्ता बहवः एकस्वभावाः वरुणवदपां खातवद्वा अ(अनन्तो)न्ततोऽपारो भगवान्’ इति । एवं श्रुतिः स्वमतमुक्त्वा ‘अविनाशी वा ओ अयमात्माऽनुच्छित्तिधर्मा’ इति वाक्ये ‘अविनाशी’ इत्यनेन आत्मनाशो मोक्ष इति बौद्धमतम्, ‘अनुच्छित्तिधर्मा’ इत्यनेन विशेषगुणोच्छेदो मोक्ष इति वैशेषिकमतं च निरस्य अद्वितीयचिन्मात्रावशेषो मोक्ष इति मतेऽनिष्टं प्रसञ्जयितुं ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ इत्यादिना प्रसङ्गाङ्गव्यतिरेकव्याप्तिमुक्त्वा ‘यत्र त्वस्य’ इत्यादिना यत्र येषां मते, आत्ममात्रावशेषः तत्तर्हि केन कं पश्येत् न केनापि किञ्चित् । तथा चेष्टस्य रूपादेरीश्वरस्य स्वस्य चाज्ञानादन्धादेरिवातिदुःखं मोक्षे स्यात् इत्यनिष्टप्रसङ्गो ह्यत्राभिप्रेतः । उक्तं हि भारते ‘मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत्’ इति । अन्यथा न विद्यते उच्छित्तिर्येषां ते अनुच्छित्तयः, अनुच्छित्तयो धर्मा यस्यासावनु च्छित्तिधर्मा इति धर्मानुच्छित्युक्तिविरोधात् । अनुच्छित्तिधर्मो  यस्येति विग्रहे चाविनाशी  इत्येनेन पुनरुक्तिः । अनुच्छित्तिरित्येतावतैव पूर्णत्वेन धर्मशब्दवैय्यर्थाच्च ।

यत्र हि द्वैतमिव’ इत्यत्र इवशब्दस्तु द्वैतस्य परमते मिथ्यात्वात्पररीत्या चापादनीय-त्वादल्पत्वाद्वा पुराणे ‘दशरात्रैर्भुक्तमिव न सम्यक् स्वल्पभोजनात्’ इति । लोके च अल्पज्ञे ‘अयम् विद्वानिव’ इति प्रयोगाच्च । ‘इवोपमायां स्वल्पत्वे’ इत्यमरोक्तेः । ‘उपमार्थे तथाऽल्पत्वे इवशब्दः प्रयुज्यते’ इति वचनाच्च । अन्यथा वाक्यशेषे ‘सर्वं तं परादाद्योऽ-न्यत्राऽऽत्मनः सर्वं वेद’ इति सर्वाधारत्वोक्तिः, ‘स यथा दुन्दुभेर्हन्यमानस्य न बाह्यन् शब्दान्’ इति, ‘स यथाऽऽर्द्रेन्धनाग्नेरभ्यहितस्य  पृथग्धूमा’ इति च भिन्नानां सम सत्ताकानां च दुन्दुभितच्छब्दाग्निधूमादीनां दृष्टान्तानामुक्तिश्चायुक्ता स्यात् । न हि दुन्दुभ्यादौ तच्छब्दादिरध्यस्तः किन्तु तदधीनः । अन्ये तु मोक्षे देहेन्द्रियादिहीनस्य केवलस्यात्मन एव भावात्सर्वविषयज्ञाननिषेधकमिदं वाक्यं न तु प्रपञ्चमिथ्यात्वपरमित्याहुः ।

यत्तु नापीत्याद्ययुक्तम् । यत्र तत्वदर्शनकाले सर्वाभेदोपलक्षित आत्मैवाभूत् आत्मा यन्नाभूत् इत्यर्थः । अथवा बाधायां सामानाधिकरण्यं सर्वाभावोपलक्षित आत्माभूदित्यर्थः सर्वपदस्यात्मान्यसर्वपरत्वेनासङ्कोचलाभार्थमेवकारः । अवान्तरतात्पर्येण मिथ्यात्वपर्यवसा-यित्वम् । ‘यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानतः’ इत्यदावपि तथेति । तन्न । तदतिरिक्तस्य कालादेर्विद्यमानत्वेन सर्वाभेदोक्तेर्भेदोभावोक्तेश्च प्रलापत्वात् । तत्वदर्शनकाले जीवन्मुक्तानां देहेन्द्रियादिसत्वेनात्मान्यन्नास्तीत्युक्तेरुन्मत्तप्रलापत्वात् । अत एव बाधायाम्  इत्याद्यप्ययुक्तम् । जीवन्मुक्तानां आत्मातिरिक्तदेहेन्द्रियप्रपञ्चदर्शनसद्भावात् । महावाक्य तात्पर्यविरुद्धस्यावान्तरतात्पर्यत्वासम्भवात् ।

यत्तु अत्र हीत्याद्ययुक्तम् । यथा सैन्धवेति वाक्ये ब्रह्मैक्यं मोक्ष इत्येवोक्तं यथा सर्वा-सामपाम् इत्यादिप्राकृतलयदृष्टान्तपरवाक्ये समुद्रपदस्य जलसामान्यपरत्वेन सैन्धव वाक्येऽपि तथात्वे सैन्धवखिल्य उदके प्रास्त’ इत्येव पाठः । समुद्रपदं नास्त्येव । न च पूर्वं मुक्तानां ब्रह्मणि स्थितौ सर्वासामपाम् इत्यादीनां दृष्टान्तस्योक्तत्वात् । इदानीं मुक्तस्य ब्रह्मणि स्थितौ दृष्टान्तपरे सैन्धववाक्ये ज्ञानप्रयुक्तलयदृष्टान्तोक्त्या तयोरेकार्थकत्वानावश्यकत्वात् । ‘यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं यन्ति नामरूपे विहाय तथा विद्वान्नाम रूपाद्विमुक्तः परात्परं पुरुषमुपैति’ इत्यादिश्रुतौ नदीदृष्टान्तोक्तेः । सैन्धवदृष्टान्ते प्रकृत वाक्यसमानार्थकत्वा-सम्भवात् । तत्र समुद्रपदसमानार्थकपदमित्यस्य वक्तुमशक्यत्वात् । ‘ब्रह्म वेद ब्रह्मैव भवति’ इत्यादिश्रुतिभिर्ब्रह्मैक्यस्य मोक्षत्वोक्तेर्यत्र हीत्यादिना न प्रेत्य संज्ञाऽस्तीत्यत्रोक्तेर्विशेष-ज्ञानाभावे हेतुकथनेनाद्वैतवादः स्फुटः । त्वदुक्तार्थे च द्वैतमिवेति शब्द वैय्यर्थ्यम् ।

मन्मते तु अविनाशीत्यपौनरुक्त्यम् । अविक्रियार्थकत्वेन भाष्योक्तत्वात् । उच्छित्तिः अत्यन्तोच्छेदो धर्मः प्रतियोगितयाऽस्ति तदन्यस्यानुच्छित्तिधर्मशब्देन बोधनात् । यथा सन्निवेशे धर्मपदसामर्थ्यात् । अथवा न विद्यते उच्छित्तिर्विशेषगुणोच्छेदरूपो धर्मो यत्रेति विग्रहः । तथा च न प्रेत्यसंज्ञाऽस्तीत्यस्यात्मनाशे विशेषगुणोच्छेदे च मोक्षे तात्पर्यमिति मुह्यन्ती मैत्रेयीं प्रति, अविनाशीत्यनेनाद्यस्यानुच्छित्तिधर्मेत्यस्य मोक्षत्वं निरस्तम् । तत्र धर्मग्रहणं, उच्छेदधर्मकत्वम् आत्मनो न सम्भवति, निर्धर्मकत्वात्तस्येति ज्ञापनाय । तथा च ‘तान्येवानुविनश्यति’ इत्यनेनोक्तायां तत्वज्ञानप्रयुक्तसर्वद्वैतनिवृत्तौ न प्रेत्यसंज्ञेत्यनेन रूपादि विशेषविज्ञानाभावे चोक्ते सामान्यविज्ञानमात्ररूपस्य मोक्षत्वं लब्धम् । तस्य च पुरुषार्थत्वं न सम्भवति । लोके रूपादिज्ञानजन्यसुखस्यैव पुरुषार्थत्वदर्शनात् इत्याशङ्कायां ‘यत्र हि’ इत्यादिना द्वैते सति लौकिकं क्षुब्दसुखमेव रूपादिज्ञानजन्यं, तच्च सर्वं भयं द्वितीयाद्वै भयं, उदरमन्तरं कुरुतेऽथ तस्य भयम्’ इत्यादि आत्ममात्रस्य मोक्षत्वं, परमानन्दत्वात् । तस्य च नावृतत्वं, स्वप्रकाशत्वात् । नित्यत्वाच्च ज्ञानस्वरूपयोरुत्पत्तौै साधनापेक्षेति तत्केने-त्यादिनोक्तं द्वितीयाभावादेव, तदा तस्य सुखस्य निर्भयत्वं सर्वमित्यादिकं तु नात्मनः सर्वाधारत्व परं किन्तु भेददृष्टिनिन्दापरं, ‘नान्यः प्रतिबली तवार्जुन भविष्यति । अन्यत्र भीष्मात्’ इत्यादौ अहिंसन्नन्यतीर्थेभ्य इति श्रुतौ चान्यत्रेत्यस्याव्ययस्य प्रथमान्तत्वादि-दर्शनात् । दुन्दुभिरित्यादिकं तु यथा दुन्दुभेरग्रहणे सति तदीयशब्दसामान्यतदीयशब्दविशेषा-ग्रहणं, ताड्यमानस्य दुन्दुभेर्ग्रहणे सति ग्रहणात्तस्मिंस्तेषाम् अध्यस्तत्वात् । तथा सद्रूप-स्याग्रहणकाले न द्वैतग्रहणमिति ध्वस्तम् । यथाऽऽर्दे्रन्धनविशिष्टाभ्युपादानको धूमस्तादृशाग्निं विना न तिष्ठति तथा सद्रूपब्रह्मणि नाद्वैतं न तिष्ठतीति तत्तदुपादानकार्देन्धनस्योपादान-कत्वमित्यर्थकम् ।

अनुच्छित्तीत्याद्ययुक्तम् । अनुच्छित्तिशब्दस्य पदान्तरायुक्तत्वेन केवलत्वानपायात् । त्रिपदबहुव्रीहिव्यावृत्तये एव केवलग्रहणात् । अन्यथा निवृत्तिधर्मेत्यादेरसाधुत्वापातात् इति । तन्न । उदके निक्षिप्तसैन्धवखिल्यस्यौत्पत्तिकजलसाम्यताप्राप्तस्याभिन्नत्वेन प्रत्यक्षेण स्पष्टं गृहीतुं अशक्ये आत्यन्तिकैक्याभावाद् वृद्ध्याद्यनापत्तेः । यथेत्याद्ययुक्तम् । समुद्रपदस्य जल परत्वेऽपि त्वदिष्टसिद्धेरभावात् । न हि माषराशौ प्रक्षिप्तमुष्टिमात्रसदृश माषाणा-मन्त्यन्तैक्यम् । जले निक्षिप्तलवणस्य क्षारन्यूनाधिक्यादिना रसनया स्पष्टभेदग्रहात् । यथा नद्य इति तु तेऽनिष्टम् । ब्राह्मणादिनामादि विहाय पुरुषं परात्मानमुपैतीत्यर्थात् । ब्रह्मेत्यादि त्विष्टमेव । अतः बृहद्गुणको भवतीत्यर्थात् । यथा कीटो भृङ्गपरिभावनया भृङ्गो भवति तथा तद्वद् भवति न त्वैक्यम् । ‘निरञ्जनः परमं साम्यमुपैति’ इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः’ इति मोक्षे भेदस्यैव श्रवणात् ।

यत्रेत्याद्ययुक्तम् । विशेषेण ब्राह्मणादिसंज्ञाभावेऽपि अद्वैतचर्चाभावात् । न हि वीथी जत्वस्याङ्गायांयति तस्य विशिष्यसंज्ञाभावेऽपि व्यक्त्यैक्यं, उक्तयुक्तेः । त्वदुक्तेत्याद्ययुक्तम् । यत्राल्पन्वयि द्वैतं भवति तत्र इतरदितरं पश्येत् यत्र तु तदपि न तत्र केन कं पश्येत् इति तर्केऽपि योगात् । रूपादीत्याद्ययुक्तम् । तस्य मोक्षत्वे मानाभावात् । सुखाप्तिदुःखादि निवृत्त्यन्यतरस्यैव लोके पुरुषार्थत्वदर्शनात् । मन्मत इत्याद्ययुक्तम् । विनापदस्य विकारि आधुनिकी लक्षणापत्तेः । न हि विकृते नष्ट इति क्वापि व्यवहारः । उच्छित्तेर्नाशस्य क्वापि नष्टधर्मत्वव्यवहाराभावात् धर्मपदवैय्यर्थ्याच्च । अन्यथा वैय्यर्थ्यस्य क्वापि दोषतानापत्तेः । न विद्यते धर्मविशेषोच्छेदो यत्रेत्येतावत्तल्लाभे धर्मपदवैय्यथ्यात् । विशेषगुणोच्छेदरूपधर्माभावेऽपि ज्ञानानन्दादिधर्मवत्वे बाधकाभावेन धर्मपदस्य निर्धर्मकतानुपपादकत्वात् ।

तथा चेत्याद्ययुक्तम् । ‘विज्ञानघन एवैतेभ्यः भूतेभ्यः समुत्थाय तान्येवानुविश्यति’ इत्यादौ हि भूतविनाशात्पश्चाद् विज्ञानघनस्य जीवस्य नाशोऽदर्शनं प्राकृतप्रलय एवोक्तेः । ज्ञानेन निवृत्तेस्तु क्वाप्यनुक्तेः । द्वितीयेत्याद्ययुक्तम् । ‘तस्मादेकाकी न रमते’ इत्यादौ एत-दर्थस्य वक्ष्यमाणत्वात् । उदरम् इत्यादावीश्वरीयभेदज्ञानस्यैव निन्दनादिति वक्ष्यते । अत एवेत्याद्ययुक्तम् । आत्मैवाभूदित्यर्थात् । उक्तं हि भगवता–

१‘आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।

  सुखं वा यदि वा दुःखं स योगी परमो मतः ।। इति ।

सर्वमित्याद्ययुक्तम् । अन्यस्मिन्नित्यर्थेऽन्यत्रेति पदनिष्पत्तेः भवदादियोगे ह्यन्यत्रापि भवति । ततो भवानित्यादौ त्वदुक्तप्रयोगस्तु च्छान्दसः । प्रकृते सम्भवति ऋजुमार्गे तत्कल्पने मानाभावात् । दुन्दुभिरित्याद्ययुक्तम् । तत्राध्यस्तत्वेन ज्ञानेन बाधापत्तेः । अधिष्ठानस्याधिकसत्ताकत्वस्यासकृदुक्तत्वाच्च । न हि तेषां प्रातिभासिकत्वम् । यथेत्याद्यप्य शुद्धम् । आर्द्रेन्धनविशिष्टाग्नेस्तदुपादानत्वेन मानाभावात् । धूमावयवानामेव हि तत्वम् । अन्यथाऽग्निं विहाय धूमस्यावस्थानं (न) स्यात् । न ह्युपादानं विहायोपादेयस्थितिर्युक्ता । दृष्ट्वा अनुच्छित्तीत्यादि त्वयुक्तम् बाधात् । तथा हि । नोच्छित्तिर्धर्मो यस्येति विग्रहे सधर्मक -त्वापत्तेः । न विद्यते धर्मो यस्येति विग्रहे प्रत्ययानुपपत्तेरुक्तत्वात् ।

।। इति यत्र त्वस्येति श्रुत्यर्थविवरणम् ।।