अनुकूलतर्कहीनाश्च मिथ्यात्वहेतवः
३३. दृग्दृश्यसम्बन्धानुपपत्तिभङ्गः
न्यायामृतम्
अनुकूलतर्कहीनाश्च मिथ्यात्वहेतवः । अत्र केचिन्मायिभिक्षवः–
अन्यच्चेत्संविदो नीलं न तद् भासेत संविदि ।
भासते चेत्कुतः सर्वो न भासेतैकसंविदि ।।
नियामकं न सम्बन्धं पश्यामो नीलतद्धियोः ।
इत्यादि वदद्भिरात्मख्यातिवादिभिरुक्तं ग्राह्यलक्षणाभावाख्यं तर्कं भिक्षित्वाऽऽहुः । दृश्यस्य सत्यत्वे न तावज्ज्ञानं तदसम्बद्धं प्रकाशकम्, अतिप्रसङ्गात् । नापि सम्बद्धम् । आत्मगुणस्य ज्ञानस्य ज्ञेयेन संयोगसमवाययोरयोगात् । अन्यस्य च सम्बन्धस्याभावात् । विषयविषयिभावस्य चाद्विष्ठत्वेनासम्बन्धत्वाद् दुर्निरूपत्वाच्च ।
तथा हि– विषयत्वं किं ज्ञानजन्यफलाधारत्वम् ? ज्ञानजन्यहानादिबुद्धिगोचरत्वं वा ? ज्ञानकर्मत्वं वा ? ज्ञानाकारार्पकत्वं वा? दृश्यमानत्वे सति तत्त्वं वा? ज्ञानजन्यव्यवहारयोग्यत्वं वा ? यत्सन्निकृष्टकरणेन यज्ज्ञानमुत्पद्यते, स तस्य विषय इति वा? यस्यां संविदि योऽर्थोऽवभासते स तस्या विषय इति वा ? सम्बन्धान्तर-मन्तरेण यो यज्ज्ञानावच्छेदकः स तस्य विषय इति वा ?
आद्येऽपि फलं न तावज्ज्ञातता, अनङ्गीकारात् । अतीतादावसम्भवाच्च । नापि हानादिः, गगनादौ तदयोगात् । कलधौतमलादेरपि तज्ज्ञानविषयत्वापाताच्च । नाप्यभिज्ञाभिलपने, तयोर्ज्ञेयानिष्ठत्वात् । न द्वितीयः । हानादिबुद्धीनां तदजन्यत्वात् । गोचरताया एवाद्याप्यनिरूपणाच्च । न तृतीयः । ईश्वरज्ञान-स्यातीतादिज्ञानस्य च कर्मकारकाजन्यत्वात् । न चतुर्थः, ज्ञानतदाकारयोरभेदेन सर्वेषां ज्ञानहेतूनां विषयत्वापातात् । न पञ्चमः । दृश्यमानताया एवाद्याप्य-निरूपणात् । न षष्ठः । योग्यतायां योग्यतान्तराभावात् । न सप्तमः । नित्येश्वरज्ञानस्य निर्विषयत्वापातात् ।
अष्टमेऽपि संविदीति न तावदधिकरणसप्तमी । ज्ञानस्य ज्ञेयं प्रत्यनधिकरण-त्वात् । नापि विषयसप्तमी । तस्यैव निरुच्यमानत्वात् । संविदो विषयत्वमर्थस्य विषयित्वमिति वैपरीत्यापाताच्च । नापि सति सप्तमी । भासमानताया एवाद्याप्य-निरूपणात् । न नवमः । य(म)त्समवेतं रूपज्ञानमित्यत्र रूपज्ञानात्मसमवायस्य सम्बन्धान्तरं विनैव रूपज्ञानावच्छेदकस्य तद्विषयत्वापातात् । तस्मात्सत्यत्वे दृश्यत्वानुपपत्तेर्दृग्दृश्ययोराध्यासिक एव सम्बन्ध इति ।
अद्वैतसिद्धिः
ननु मिथ्यात्वानुमानमप्रयोजकम्, सत्यत्वेऽपि दृश्यत्वोपपत्तेरिति चेन्न । दृग्दृश्य-सम्बन्धानुपपत्तेः । न हि ज्ञानं ज्ञेयासम्बद्धमेव प्रकाशकम्, अतिप्रसङ्गात् । नापि सम्बद्धम्, आत्मस्वरूपस्य तद्गुणस्य वा ज्ञानस्य ज्ञेयेन संयोगसमवाययोरभावात् । अन्यस्य चानाध्यासिकस्य सम्बन्धस्याभावात् । न च विषयविषयिभावः सः । तस्य विषयत्व-विषयित्वरूपस्य एकैकमात्रनिष्ठत्वेन द्विष्ठसम्बन्धात्मकत्वासम्भवाद्, दुर्निरूपत्वाच्च । तथा हि (१) विषयत्वं किं ज्ञानजन्यफलाधारत्वम्? किं वा (२) ज्ञानजन्यहानादिबुद्धिगोचरत्वम् ? उत (३) ज्ञानकर्मत्वम् ? (४) ज्ञानाकारार्पकत्वं वा ? (४) दृश्यमानत्वे सति तत्त्वं वा ? (६) ज्ञानजन्यव्यवहारयोग्यत्वं वा ? (७) यत्सन्निकृष्टकरणेन यज्ज्ञानमुत्पाद्यते तत्त्वं वा ? (८) यस्यां संविदि योऽर्थोऽवभासते स तस्या विषयः, तथा च संविदि भास-मानत्वमिति वा ? (९) सम्बन्धान्तरमन्तरा ज्ञानावच्छेदकत्वं वा ? आद्ये फलं न तावत् ज्ञातता, अनङ्गीकाराद्, अतीतादावभावाच्च । नापि हानादिः । गगनादौ तदभावात् । कलधौतमलादेरपि तज्ज्ञानविषयत्वप्रसङ्गाच्च । नाप्यभिज्ञाभिलपने, तयोर्ज्ञेयावृत्तित्वात् ।
न च विषयविषयिभावेन ते तत्र स्थ इति वाच्यम् । तस्यैव विचार्यमाणत्वात् । अत एव न द्वितीयोऽपि । न तृतीयः । ईश्वरज्ञानस्यातीतादिज्ञानस्य च कर्मकारकाजन्यत्वेन निर्विषयत्वप्रसङ्गात् । न चतुर्थः । ज्ञानतदाकारयोरभेदेन सर्वेषां ज्ञानहेतूनां विषयत्वापातात् । अनुमित्यादिविषये तदभावापाताच्च । न पञ्चमः । दृश्यमानत्वस्य विषयत्वघटितत्वेनात्मा-श्रयात् । न षष्ठः । योग्यतायां योग्यतान्तराभावात् । न च योग्यता योग्यतां विनैव योग्या, यथा दृश्यत्वं दृश्यत्वान्तरं विनैव दृश्यमिति वाच्यम् । अवच्छेदकरूपापरिचये योग्यताया एव ग्रहीतुमशक्यत्वात् । न च ज्ञानविषयत्वं तदवच्छेदकम्, आत्माश्रयात् । न सप्तमः । नित्येश्वरज्ञानस्य निर्विषयत्वप्रसङ्गात् । नाष्टमः, संविदीति न तावदधिकरणसप्तमी । ज्ञानस्य ज्ञेयानधिकरणत्वात् । नापि विषयसप्तमी, तस्यैव निरूप्यमाणत्वात् । संविदो विषयत्वं संवेद्यस्य च विषयित्वमिति वैपरीत्यापाताच्च । नापि सति सप्तमी । भासमानत्वस्य विषयता-घटितत्वेनाऽत्माश्रयात् । नापि नवमः । मत्समवेतं रूपज्ञानमित्यत्र रूपज्ञानसमवायस्य सम्बन्धान्तरं विनैव रूपज्ञानावच्छेदकस्य ‘इदं रूपम्’ इति ज्ञानेऽपि विषयत्वापातात् ।
न्यायामृततरङ्गिणी
दृग्दृश्यसम्बन्धानुपपत्तिरूपं पूर्वोक्तं तर्कं निराकर्तुमुत्थापयति ।। अनुकूलेति ।। मायिभिक्षव इति ।। अस्य आहुरित्यनेन सम्बन्धः ।। अन्यच्चेति ।। नीलसंविदोर्भेदे नीलसंविदि नीलस्य भानं न स्यात् । भिन्नस्यापि भाने नीलसंविदि नीलेतरस्य धवलादेरपि भानं स्यात् । ननु नीलसंविदि नीलस्य सम्बन्धोऽस्तीति नीलं भासते, धवलादेस्तु तत्र न सम्बन्ध इति न भानमित्यत आह ।। नियामकमिति ।। नीलस्य नीलबुद्धेश्च वक्ष्यमाणरीत्याऽन्यः सम्बन्धो न सम्भवति । येन नियमः स्यात् । तस्मात्संविदि नीलादेरारोपितत्वमेव सम्बन्ध इति सत्यत्वे नीलादेः दृक्दृश्यसम्बन्धानुपपत्तिरूपो बाधक-स्तर्कोऽस्ति विपक्षे इत्यर्थः । आत्मख्यातिवादिभिः विज्ञानवादिभिः ।। ग्राह्यलक्षणा-भावाख्यमिति ।। ग्राह्यांशस्य घटादेरलीकत्वमभिदधानाः विज्ञानवादिनो ग्राह्यलक्षणा-भावं युक्तिं तत्र वदन्ति । ग्राह्यस्य घटादेर्विषयस्य, लक्षणं विषयत्वं, तस्याभावः । तस्मा-द्विज्ञानात्मा अर्थः । अर्थस्य विज्ञानाद्भेदे तत्र विषयत्वं न स्यात् । लक्षणानिर्वचने
(कारण) सामर्थ्येनापि ज्ञानविज्ञानविषयत्वं न सम्भवतीत्यादि । एतच्च बौद्धधिक्कारे स्पष्टम् ।
ननु दृग्दृश्ययोः सम्बन्धाभावेऽपि असम्बद्धस्यैव तया प्रकाशनमस्त्वित्यत आह ।। दृश्यस्येति । दृक्दृश्ययोराध्यासिकसम्बन्धं वक्तुं सम्बन्धान्तरं निराकरोति ।। नापीति ।। आत्मेति ।। गुणत्वान्न ज्ञेयेन घटादिना सम्योगः, आत्मगुणत्वान्न समवायः सम्भव-तीत्यर्थः ।। ज्ञानजन्यहानादीति ।। यद्यप्येतत् करिष्यमाणप्रथमपक्षविकल्परीत्या प्रथमपक्षेऽन्तर्भवति तथापि बुद्धिगोचरत्वमित्यत्रात्माश्रयं वक्तुं पृथग्विकल्पितमिति ध्येयम् ।। ज्ञानकर्मत्वं वेति ।। कर्मत्वं च क्रियाजन्यफलाश्रयत्वातिरिक्तं करणव्यापार-विषयत्वादिकमत्राभिमतमतो न प्रथमविकल्पान्तर्गतिरिति बोध्यम् ।। कलधौतेति । रूप्यज्ञानाविषयस्य रूप्यमलादेः रूप्येण सहोपादीयमानत्वाद्रूप्यज्ञानविषयत्वं स्यादित्यर्थः।। तयोरिति ।। तथा चासम्भव इति भावः ।। हानादीति ।। कण्टकादिज्ञानं कण्टकादि-कमेव प्रकाशयति । ततः कण्टकान्तरेऽनिष्टसाधनत्वं जानतः पुरुषस्य पुरोवर्तिकण्टकेऽपि तदनुमानं भवति । अनिष्टसाधनत्वाच्च हेयताबुद्धिर्जायत इत्यङ्गीकारात् हानादिबुद्धीनां कण्टकादिप्रत्यक्षजन्यत्वासम्भव इत्यर्थः ।। विषयत्वेति ।। अनुमित्यादिविषयेऽव्याप्तिश्च बोध्या ।। दृश्यमानताया इति ।। दृश्यमानत्वस्य दृग्विषयत्वरूपत्वादित्यर्थः ।। योग्यतायामिति ।। न च योग्यता योग्यतान्तरं विनैव योग्या यथा दृश्यत्वं दृश्यत्वान्तरं विनैव दृश्यमिति वाच्यम् । अवच्छेदकरूपापरिचये योग्यताया एव ग्रहीतुमशक्यत्वात् । ननु यस्यां संविदीत्यत्र सप्तम्यर्थो न विवक्षित इत्यत आह ।। संविद इति ।। नापीति ।। यस्यां संविदि सत्यां योऽर्थोऽवभासते स विषयो भवतीत्यर्थे आत्माश्रय इत्यर्थः ।। मत्समवेतमिति ।। यथा रूपज्ञानमिष्टं ध्वस्तमित्यादौ इच्छादीनां रूपज्ञानावच्छेदकत्वं तथा मत्समवेतं रूपज्ञानमित्यत्र रूपज्ञानात्मसमवायस्य रूपज्ञानावच्छेदकत्वमस्तीत्यर्थः ।। तद्विषयत्वेति ।। इदं रूपमिति ज्ञाने विषयत्वापातादित्यर्थः ।।
न्यायामृतकण्टकोद्धारः
।। अत्र केचिदिति । अत्र केचिन्मायिभिक्षवः आत्मख्यातिवादिभिरुक्तं ग्राह्यविषया-भावलक्षणं तर्कं भिक्षित्वाऽऽहुरित्यन्वयः । कीदृशस्तर्क इत्यत उक्तम् । अन्यच्चेदिति । अस्यार्थः – नीलं नीलशब्दोपलक्षितो विषयः, संविदोऽन्यच्चेत् ज्ञानादन्यश्चेत्, तत् तर्हि, तन्नीलशब्दोपलक्षितो विषयः, संविदि, न भासेत न प्रकाशेत । सम्बन्धं विना अन्यस्मिन् अन्यप्रकाशे काश्मीरस्थेन दीपेन केरलदेशस्थोऽपि प्रकाशेतेति । यद्येवमपि भासेत तदैकस्मिन् सर्वमपि प्रकाशेत । नियामकसम्बन्धाभावादित्यतिप्रसङ्गात् नीलशब्दोपलक्षितविषयसंविदो-राध्यासिक एव नियामकसम्बन्धः स्वीकर्तव्यः । सम्बन्धान्तरानुपपत्तेरिति सम्बन्धान्तरानु-पपत्तिपूर्वकं तर्कं वक्तुमुपोद्धातमाह ।। दृश्यस्येति ।। अतिप्रसङ्गादिति । उक्तातिप्रसङ्गा-दित्यर्थः । आत्मगुणस्येति ।। अत्र गुणत्वात् ज्ञानस्य विषयेण संयोगो न सम्भवति । द्रव्ययोरेव संयोगात् । आत्मातिरिक्तविषयेण समवायो न सम्भवति । यो यस्य गुणस्तस्य तेन समवायात् । समवायस्य प्रकाशताप्रयोजकत्वे घटज्ञानमात्मप्रकाशकं स्यादित्यपि द्रष्टव्यम् ।। अन्यस्य चेति ।। संयोगसमवायादन्यस्येत्यर्थः । ननु विषयविषयिभावस्योक्तसम्बन्ध-द्वयातिरिक्तस्य सम्बन्धस्य सत्त्वादयुक्तमेतदित्यत आह ।। विषयेति ।। अद्विष्ठत्वेनेति ।। विषयत्वस्य विषयमात्रनिष्ठत्वात् विषयित्वस्य ज्ञानमात्रनिष्ठत्वात् तदुभयाश्रितत्वाभावादद्विष्ठ-त्वम् । सम्बन्धिद्वयाश्रितस्तदतिरिक्तः स्वयमेक एव चेत्यस्य तल्लक्षणत्वादिति भावः । ननूभय-सम्बन्धिनिरूप्यत्वं सम्बन्धसामान्यलक्षणमस्तु । न तूक्तविशेषणघटितम् । तस्य च सत्त्वादित्यत आह ।। दुर्निरूपत्वाच्चेति ।। विषयत्वस्येति शेषः ।। ज्ञानजन्येति ।। अत्र कर्तुरन्यत्वे सतीति विशेषणम् । तेन ज्ञानजन्येच्छाधारत्वेनात्मनि नातिव्याप्तिरिति द्रष्टव्यम् । यद्वा, ज्ञानत्वा-वच्छिन्नजन्यत्वं विवक्षितम् । इष्टसाधनज्ञानजन्येच्छायां ज्ञानत्वावच्छिन्नजन्यत्वाभावात् तामादाय नातिव्याप्तिरिति ।। ज्ञानजन्यहानादीति ।। अत्र ज्ञानजन्यहानाद्यन्यतरबुद्धिगोचरत्व-मित्यर्थः । तेनैकैकगोचरे त्रितयगोचरत्वाभावान्नासम्भव इति द्रष्टव्यम् ।। ज्ञानकर्मत्वं वेति ।। अत्र कर्मत्वं कर्मकारकतया जनकत्वम् । न तु तज्जन्यफलशालित्वम् । अतो न प्रथमाभेदः । कर्मत्वप्रवेशेन तज्जन्यफलाश्रयत्वप्राप्तावपि प्रकृते तादृशकर्मकारकतया जनकत्वरूपत्वेन विवक्षणान्न प्रथमाभेदः । अत एवैतत्पक्षनिराकरणावसरे कर्मकारकाजन्यत्वादिति वक्ष्यतीति भावः ।। यत्सन्निकृष्टेति ।। न चेन्द्रियसन्निकृष्टविषयेण जन्यज्ञाने इन्द्रियादेरपि विषयत्वं स्यादिति वाच्यम् । ज्ञाने विषयस्य करणत्वाभावात् । विषयाभावेऽपि अनुमानादिना ज्ञानजननात् । न च विषयाभावेऽनुमानादेः करणस्य तत्सन्निकर्षानुपपत्तिरिति वाच्यम् । सन्निकर्षमात्रे सम्बन्धिद्वयानपेक्षणात् । अत एव प्रतियोग्यनुयोग्यादिः सन्निकर्ष इति सर्व एव सम्प्रदायविदः आहुरिति भावः ।। अनङ्गीकारात् ।। मायावादितत्त्ववादिभ्यामिति शेषः । तथा च तद्धटितत्वे उभयासिद्धिरिति भावः ।
ननु भट्टमतानुसारिणा मायावादिना ज्ञातताऽङ्गीक्रियत एवेत्यत आह ।। अतीता-दाविति ।। ननु कार्यकारणयोरभेदात् कार्याकारस्य नाशेऽपि कारणाकारस्य विद्यमानत्वात् तदाश्रिता ज्ञातता भविष्यतीति चेन्न । न हि कारणाकारज्ञानेन कार्याकारो ज्ञात इति व्यवहारः किन्तु कार्याकारज्ञानेन । तथा च यदाकारज्ञानानन्तरं ज्ञातता प्रतीयते तदाकारनिष्ठा ज्ञातता वक्तव्या । कार्याकारस्य च नष्टत्वेन तदाश्रिता ज्ञातता वक्तुं न शक्यत इति भावः ।। कलधौतमलादेरिति ।। यद्यपि कलधौतमलादौ हानबुद्धिर्न कलधौतमलज्ञानसाध्या । तद्धान-बुद्धेस्तदनिष्टसाधनतानुमितिसाध्यत्वात् । तद्बुद्धौ च कलधौतमलस्य पक्षत्वेन विषयत्वादिष्टा-पादनम् । तथापि कलधौतमलस्य पक्षत्वे विशेषणीभूतकलधौतस्यापि पक्षत्वात् तज्ज्ञानस्यापि परम्परया कलधौतमलहानादिबुद्धिजनकत्वात् तद्विषयत्वापादनमिति नेष्टापत्तिरिति भावः ।। तयोरिति ।। न चाभिज्ञाभिपलपनयोरपि विषयविषयिभावेन ज्ञेयनिष्ठत्वादिदमयुक्तमिति वाच्यम् । विषयत्वस्यैव निर्वक्तव्यत्वेनात्माश्रयात् । न च विषयत्वस्य प्रवेशो न तत्त्वेन, किन्त्वाधारत्वेनैवेति नात्माश्रय इति (वाच्यम्) । आधारत्वस्य प्रकृते विषयत्व एव पर्यवसाने-नात्माश्रयापरिहारादिति भावः ।। न द्वितीय इति ।। हानादिबुद्धीना(मनि)मिष्टसाधनतादि-ज्ञानसाध्यत्वादिति भावः ।। गोचरताया इति ।। तथा चात्माश्रय इति भावः ।। ईश्वरस्येति ।। कर्मत्वस्य कर्मकारकतया जनकत्वस्य विवक्षितत्वादिति भावः ।। योग्यताया-मिति ।। व्यवहारादियोग्योऽयमिति ज्ञाने विषयभूतायां योग्यतायां सैव योग्यता उत योग्यतान्तरम् । आद्ये आत्माश्रयात् । सैव स्वनिर्वाहिका अभिधेयत्वे अभिधेयत्ववदिति चेत् योग्यतावच्छेदकापरिचयेन योग्यत्वस्यैव ज्ञातुमशक्यत्वात् । द्वितीयेऽनवस्थापत्तेरिति भावः ।। नित्येति ।। अनादीत्यपि बोध्यम् । न च जन्यज्ञानविषयत्वस्यैवेदं लक्षणमिति नातिव्याप्तिरिति वाच्यम् । सामान्येन विषयत्वमात्रजिज्ञासायां विशेषलक्षणाभिधानस्यार्थान्तरग्रस्तत्वात् ।
।। संविद इति ।। न च संविदो विषयत्वेऽर्थस्य कथं विषयित्वम् । न ह्यर्थं प्रति विषयत्वं ज्ञानस्य विवक्षितमिति वाच्यम् । ज्ञानस्य विषयत्वं न तावत् स्वं प्रति । एकस्य विषयत्व-विषयित्वयोर्विरोधात् । नाप्यन्यं प्रति । तस्मिन्नर्थभाननियमाभावात् । अतः परिशेषादर्थं प्रत्येव विषयत्वमित्यर्थस्य विषयित्वमित्यभिप्रायेण दूषणाभिधानमिति भावः ।। भासमानताया इति ।। तथा चात्माश्रय इत्यर्थः । न च भासमानत्वं व्यवह्रियमाणत्वं विवक्षितमिति नोक्तदोष इति वाच्यम् । व्यवह्रियमाणत्वस्यापि व्यवहारविषयत्वरूपत्वेनात्माश्रयात् । न च तद्योग्यत्वं तत् । तदवच्छेदकापरिचयेन तस्य दुर्ज्ञानत्वादिति भावः ।। मत्समवेतमिति ।। इत्यत्रेत्यस्य अवच्छेदकस्येत्यनेनान्वयः । तथा चायमर्थः – रूपज्ञानात्मसमवायस्य घटो रूपवानिति ज्ञान-विषयत्वं स्यात् । तस्य रूपज्ञानं प्रति सम्बन्धान्तरं विनैवावच्छेदकत्वात् । कथं तस्या-वच्छेदकत्वमित्यत उक्तं मत्समवेतमिति ।। अत्र हि मत्समवेतमित्यनेनान्यसमवेतरूप-ज्ञानाद्रूपज्ञानं व्यावर्त्यते । अवच्छेदकत्वस्यैव व्यावर्तकत्वात् । तथा चैवंविधविषयत्वलक्षणे रूपज्ञानात्मसमवायेऽतिव्याप्तिरिति । उपसंहरति ।। तस्मादिति ।।
न्यायामृतप्रकाशः
दृग्दृश्ययोस्सम्बन्धानुपपत्तिरूपतर्कं निराकर्तुमुत्थापयति ।। अनुकूलेति ।। मायिभिक्षव इत्यस्याऽऽहुरित्यनेन सम्बन्धः । विज्ञानवादिमते ज्ञानज्ञेययोरधिष्ठानाध्यस्तभावेनाऽभेदात् ज्ञानातिरिक्तज्ञेयप्रपञ्चः परमार्थसन्नास्त्येव । यद्यस्तीति कश्चिद्ब्रूयात्तदा तं प्रति कथयति विज्ञानवादी ।। अन्यच्चेदिति ।। संविदः=प्रतीतेः सकाशात्, नीलरूपादि अन्यच्चेदिति सच्चेदित्यपि ग्राह्यम् । तथा च संविन्नीलयोर्भेदे नीलं संविदि न भासेत संविदि नीलस्य भानं न स्यात् । ननु भिन्नस्यापि भानमस्तु को दोष इत्यत आह ।। भासते चेदिति ।। भिन्नमपि भासते चेद्विज्ञानतत्वस्यैकत्वा त्तस्मिन्भासमाने सति नीलेतरस्य धवलपीतादेरपि भानं स्यात् । ननु नीलसंविदि नीलस्य सम्बन्धोऽस्तीति नीलं भासते धवलादेस्तु न तत्र सम्बन्ध इति न भान-मित्यत आह ।। नियामकमिति ।। नीलस्य नीलबुद्धेश्च वक्ष्यमाणरीत्याऽन्यः सम्बन्धो न सम्भवति येन विषयनियमः स्यात् । तस्मात्संविदि नीलादेरारोपितत्वमेव सम्बन्ध इति सत्यत्वे नीलादेर्विज्ञानसम्बन्धानुपपत्तिरूपो विपक्षे बाधकतर्कोऽस्तीत्यर्थः ।। आत्मेति ।। आत्मा विज्ञानस्वरूपमेव नैल्याद्यात्मना ख्यायत इति वदद्भिर्विज्ञानवादिभिरित्यर्थः ।। ग्राह्येति ।। ग्राह्यस्य नीलादेस्सर्वथाऽलीकत्वमभिदधानाः विज्ञानवादिनो ग्राह्यलक्षणाभावं तद्रूपां युक्तिं वदन्ति नीलतद्धियोः संयोगादेः सम्बन्धस्याभावाद्विषयविषयिभाव एव वक्तव्यः । अर्थस्य च विज्ञानाद्भेदे ग्राह्यस्य विषयस्य यल्लक्षणं विषयत्वं तस्याभावः । विषयत्वं निर्वक्तुमशक्यमिति यावत् । तथा चार्थस्य विषयत्वं न स्यादिति विषयस्याऽऽरोपितत्वमेव सम्बन्ध इत्याशयः ।। भिक्षित्वेति ।। इमं तर्कं तैर्भिक्षारूपेण गृहीत्वेति यावत् । अत एव पूर्वं मायिभिक्षव इति भिक्षास्वभावस्तेषामुक्तः । तथा च विज्ञानवाद्युक्तयुक्तिछर्दिमात्रमित्यत्र तात्पर्यम् ।
ननु दृग्दृश्ययोः सम्बन्धाभावेऽपि असम्बद्धस्यैव प्रकाशनमस्त्वित्यत आह ।। दृश्यस्येति ।। अतिप्रसङ्गादिति ।। घटज्ञानं पटादेः, नीलज्ञानं धवलादेरपि प्रकाशकं स्यादित्यर्थः । दृग्दृश्य-योराध्यासिकं सम्बन्धं वक्तुं सम्बन्धान्तरं निराकरोति ।। नापीति ।। आत्मेति ।। गुणत्वान्न ज्ञेयेन घटादिना संयोगः । आत्मगुणत्वान्न समवायः सम्भवतीत्यर्थः ।। अन्यस्येति ।। संयोगसमवायातिरिक्तद्विष्ठसम्बन्धाभावादित्यर्थः ।। असम्बन्धत्वादिति ।। सम्बन्धो हि सम्बन्धिभ्यां भिन्नस्तावाश्रितश्चैकश्चेति तल्लक्षणाभावादिति भावः ।। दुर्निरूपत्वाच्चेति ।। विषयत्वस्येति शेषः । अनेन ग्राह्यलक्षणाभावरूपस्तर्क एव विवृत इति ज्ञातव्यम् ।। ज्ञानाकारेति ।। ज्ञाने स्वाकारार्पकत्वमित्यर्थः । ज्ञेयस्य घटादेर्यः पृथुबुध्नोदराकारः स एव ज्ञाने भासत इति तत्सिद्धान्तः । आकाराकारिणोरभेदेन ज्ञानार्पकत्वमेवोक्तं स्यात् । तच्चेन्द्रियादिषु ज्ञानहेतुष्वतिव्याप्तमत उक्तम् ।। दृश्यमानत्वे सतीति ।। एतज्ज्ञानेन दृश्यमानत्वे सतीत्यर्थः ।। इन्द्रियादेः स्वकर्मकज्ञानेन दृश्यमानत्वेऽपि स्वजन्यैतज्ज्ञानेन दृश्यमानत्वाभावान्नाति व्याप्ति-रिति भावः ।। सम्बन्धान्तरमिति ।। यो यज्ज्ञानावच्छेदकः स तस्य विषय इत्येवोक्ते ज्ञातर्यतिव्याप्तिः । ज्ञानावच्छेदको हि ज्ञेयः ज्ञाता च भवति । यज्ञदत्तीयं ज्ञानं, घटीयं ज्ञान-मिति व्यवहारात् । अतो ज्ञातर्यतिव्याप्तिवारणाय सम्बन्धान्तरमन्तरेणेत्युक्तम् । स तु ज्ञाता विषयविषयिभावातिरिक्तद्विष्ठसमवायरूपसम्बन्धान्तरेणैव ज्ञानावच्छेदको न तमन्तरेणेति तद्व्यवच्छेद इति भावः ।। अतीतादाविति ।। असति धर्मिणि धर्माजननादिति भावः ।। गगनादाविति ।। तज्ज्ञानानन्तरं व्याप्तत्वेन तत्र हानादेरभावादव्याप्तिरिति भावः ।। कल-धौतेति ।। रूप्यज्ञानादिविषयस्य रूप्यमलादेः रूप्येण सहोपादीयमानत्वाद्रूप्यज्ञानविषयत्वं स्यादित्यर्थः । अभिज्ञेति ।। प्रत्यभिज्ञेत्यर्थः । तस्या अपि ज्ञानजन्यत्वादिति द्रष्टव्यम् ।। प्रत्यभिज्ञाव्यवहारयोर्ज्ञातृनिष्ठत्वेन ज्ञेये तदाश्रयत्वाभावादसम्भव इत्यर्थः ।। हानादीति ।। कण्टकादिज्ञानं कण्टकादिस्वरूपमेव प्रकाशयति । ततः कण्टकान्तरेऽनिष्टसाधनत्वं जानतः पुरुषस्य तद्दृष्टान्तेन पुरोवृत्तिकण्टकेऽपि तदनुमानं भवति । तदनन्तरं हेयबुद्धिर्भवति इत्यस्ति क्रमः । ततश्च हानादिबुद्धीनाम् अनिष्टसाधनानुमितिजन्यत्वेन कण्टकादिप्रत्यक्षाजन्यत्वाद-सम्भव इत्यर्थः । न तृतीयः । ईश्वरज्ञानविषये घटेऽतीतादिज्ञानविषये च घटे ज्ञानकर्मत्वं नास्तीत्यव्याप्तिः । कुत इत्यत आह ।। ईश्वरेति ।। क्रियां कुर्वद्धि कारकम् । कर्म च कारक-विशेषः । एवञ्चेश्वरज्ञानस्य नित्यस्य कर्मजन्यत्वाभावेन विषयस्यैवाभावे अतीतादिज्ञानस्य च तदजन्यत्वात्तद्विषये ज्ञानकर्मत्वाभावेनाव्याप्तिरित्यर्थः ।। ज्ञानहेतूनामिति ।। ज्ञानतदाकारयोर-भेदेन ज्ञानस्वरूपार्पकत्वमेवोक्तं भवति । तच्च ज्ञानजनकेन्द्रियादिष्वतिव्याप्तमित्यर्थः ।। न पञ्चम इति ।। एतज्ज्ञानेन दृश्यमानत्वे सति तत्त्वमिति विवक्षायां नेन्द्रियादावतिव्याप्तिः । तेषामे-तज्ज्ञानेन दृश्यमानत्वाभावादिति पञ्चमो नेत्यर्थः ।। दृश्यमानताया इति ।। दृश्यमानत्वस्य दृग्विषयत्वरूपत्वादित्यर्थः ।। योग्यतायामिति ।। ततश्च स्वज्ञानविषयीभूतायां योग्यतायाम-व्याप्तिरिति भावः ।। संविदो विषयत्वमिति ।। सप्तम्या विषयार्थत्वाद्यस्यां संविदि विषय-भूतायामित्यर्थप्राप्त्या संविदो विषयत्वमापन्नमित्यर्थः ।। सति सप्तमीति ।। यस्यां संविदि सत्यां योऽर्थोऽवभासते विषयो भवतीत्यर्थप्राप्त्या आत्माश्रयादित्यर्थः ।। यत्समवेतमिति ।। रूपज्ञानं यन्निरूपितसमवायवदित्यर्थः ।। विनैवेति ।। रूपज्ञानात्मसमवाययोः संयोगसमवाययोर-भावादित्यर्थः । तथा च तस्य वस्तुगत्या रूपज्ञानादिकं प्रत्यवच्छेदकत्वेन इदं रूपमिति जाय-मानस्य केवलरूपज्ञानस्यापि विषयः स्यादित्यतिव्याप्तिरिति भावः । तस्मात् विषयत्वस्य दुर्निरूपत्वादित्यर्थः ।। दृश्यत्वानुपपत्तेरिति ।। दृग्विषयत्वानुपपत्तेरित्यर्थः ।
न्यायकल्पलता
दृग्दृश्यत्वसम्बन्धानुपपत्तिरूपं परोक्तं तर्कं निराचिकीर्षुरुत्थापयति । अनुकूलेति । मायिभिक्षव इति । अस्य आहुरित्यनेनान्वयः । अन्यच्चेदिति । संविन्नीलयोर्भेदे नीलसंविदि नीलस्य भानं न स्यात् । भिन्नस्यापि भाने नीलसंविदि नीलेतरस्य धवलपीतादेरपि भानं स्यात् । ननु नीलसंविदि नीलस्य सम्बन्धोऽस्तीति नीलं भासते । धवलादेस्तु तत्र न सम्बन्ध इति न भानमित्यत उक्तम् । नियामकमिति । नीलस्य नीलबुद्धेश्च वक्ष्यमाणरीत्याऽन्यः सम्बन्धो न सम्भवति । येन विषयनियमः स्यात् । तस्मात्संविदि नीलादेरारोपितत्वमेव सम्बन्ध
इति सत्यत्वे नीलादेर्दृश्यत्वसम्बन्धानुपपत्तिरूपो विपक्षे बाधकस्तर्कोऽस्तीत्यर्थः । आत्मख्याति- वादिभिः विज्ञानवादिभिः । ग्राह्यलक्षणभावाख्यमिति । ग्राह्यांशस्य घटादेः सर्वथा अलीकत्व-मभिदधाना विज्ञानवादिनो ग्राह्यलक्षणाभावं युक्तिं तत्र वदन्ति । ग्राह्यस्य घटादेः विषयस्य लक्षणं विषयत्वं तस्याभावः । तस्माद्विज्ञानात्माऽर्थः । अर्थस्य विज्ञानादन्यत्वे तत्र विषयत्वं न स्यात् । लक्षणानिर्वचने कारणसामर्थ्येनापि ज्ञानविषयत्वं न सम्भवति । नापि स्वतः । अमूर्तस्य विप्रकृष्ट-गमनाद्यनुपपत्तेरित्यादि । एतच्च बौद्धधिक्कारे स्पष्टम् । ननु दृग्दृश्ययोः सम्बन्धाभावेऽपि असम्बद्ध-स्यैव दृशा प्रकाशनमस्त्वित्यत आह– दृश्यस्येति । दृग्दृश्ययोराध्यासिकं सम्बन्धमवधारयितुं सम्बन्धान्तरं निराकरोति– नापीति । आत्मेति । गुणत्वात् न ज्ञेयेन घटादिना संयोगः । आत्मगुणत्वान्न समवायः । सम्भवतीत्यर्थः । अन्यस्यचेति । अनाध्यासिकस्येत्यर्थः। न च विषयविषयिभावः सम्बन्ध इत्याह– विषयेति । तस्य विषयत्वविषयित्वरूपस्यैकमात्रनिष्ठत्वेन द्विष्ठ-सम्बन्धात्मकत्वासम्भवादित्यर्थः । अनिर्वचनीयत्वं वक्तुं नवधा विकल्पयति । विषयत्वं किमिति । ज्ञानजन्यहानादीति । यद्यप्येतद्वक्ष्यमाणप्रथमपक्षीयविकल्परीत्या प्रथमपक्षेऽन्तर्भवति । तथापि बुद्धिगोचरत्वमित्यत्रात्माश्रयतां वक्तुं पृथग्विकल्पितमिति ज्ञेयम् । ज्ञानकर्मत्वं वेति । कर्मत्वं क्रियाजन्यफलाश्रयत्वातिरिक्तं करणव्यापारविषयत्वादिकमत्राभिमतमतो न प्रथमविकल्पान्तर्गति-रिति बोध्यम् । कलधौतेति । रजतज्ञानाविषयस्य रूप्यमलादेः रूप्येण सहोपादीयमानत्वाद्रज-तज्ञानविषयत्वं स्यादित्यर्थः । तयोरिति । तथा चासम्भव इति भावः । न च विषयविषयिभावेन ते तत्र स्त इति देश्यम् । तस्यैव विचार्यमाणत्वात् ।
हानादीति । क्षीरादिज्ञानं क्षीरादिकमेव प्रकाशयति । ततः क्षीरान्तरे इष्टसाधनत्वं जानतः पुरुषस्य पुरोवर्तिक्षीरेऽपीष्टसाधनत्वानुमानम् । इष्टसाधनत्वाच्च तत्रोपादेयताबुद्धिर्भवति । एवं कण्टकादिज्ञानं कण्टकादिकमेव गृह्णाति ततः कण्टकान्तरे अनिष्टसाधनत्वमनुभूतवतः पुरुषस्य कण्टकत्वेन पुरोवर्तिकण्टकेऽप्यनिष्टसाधनत्वमनुमिमानस्य तेन हेयताबुद्धिर्जायते । तथा चोपादानबुद्धेरिष्टसाधनताज्ञानजन्यत्वेन हानबुद्धेरनिष्टसाधनाताज्ञानसाध्यत्वेन हानादिबुद्धीनां कण्टकादिगोचरप्रत्यक्षाजन्यत्वादसम्भव इत्यर्थः । विषयत्वेति । अनुमित्यादिविषये अव्याप्तिश्च बोध्या । दृश्यमानताया इति । दृग्विषयत्वरूपत्वात्तस्या इत्यर्थः । योग्यतायामिति । न च योग्यता योग्यतान्तरं विनैव योग्या यथा दृश्यत्वं दृश्यत्वान्तरं विनैव दृश्यमिति वाच्यम् । अवच्छेदकरूपापरिचये योग्यताया एव गृहीतुमशक्यत्वात् । नच ज्ञानविषयत्वं तदवच्छेदकम् । आत्माश्रयात् । ननु यस्यां संविदीत्यत्र औपश्लेषिकाधिकरणकरूपः सप्तम्यर्थो न विवक्षितः । किन्तु विषयरूप इत्यत आह । नापीति । यस्य च भावेन भावलक्षणमिति सूत्रविहिता भावगम्यभावार्था सप्तमीत्याशंक्य निराकरोति । नापि सति सप्तमीति । सति भावार्थे या सप्तमीत्यर्थः । यस्यां संविदि सत्यां योऽर्थो भासते विषयो भवतीत्यर्थे आत्माश्रय इति भावः । मत्समवेतमिति । यथा रूपज्ञानमिष्टं ध्वस्तमित्यादाविच्छादीनां रूपज्ञानावच्छेदकत्वं तथा मत्समवेतं रूपज्ञानमित्यत्र रूपज्ञानात्मसमवायस्य रूपज्ञानावच्छेदकत्वमस्तीति इदं रूपं इति ज्ञाने विषयत्वापातादित्यर्थः ।
न्यायामृतसौगन्ध्यम्
अनुकूलतर्कहीनाश्च दृश्यत्वादयः । न च दृक्दृश्यसम्बन्धान्यथानुपपत्या विश्वमिथ्यात्व-सिद्धिः । दृश्यस्य सत्यत्वे न तावज्ज्ञानं तदसम्बद्धं प्रकाशकं, अतिप्रसङ्गात् । नापि सम्बद्धम् । ज्ञानस्य विषयेण संयोगसमवायाद्यसम्भवात् । नापि विषयविषयिभावः, दुर्निरूप-त्वादिति आध्यासिक एव सम्बन्धः स्वीकार्यः । स च तयोर्न सम्भवतीत्यन्यतरस्य मिथ्यात्वम् । ज्ञानस्य तदसम्भवेन ज्ञेयस्यैव तदिति वाच्यम् । सर्वस्यापि दृश्यस्य ब्रह्मात्मक दृगध्यस्तत्वेऽपि कस्यचित्कदाचित् कञ्चित्प्रति प्रकाशाय त्वयापि तत्तत्सन्निकृष्टेन्द्रियजन्य-तत्तदाकारवृत्तिद्वारक एवानावृतदृक्सम्बन्धः स्वीकृतः । तथा च सत्यत्वेऽपि तत्तद्द्वारक एव सम्बन्धोऽस्तु किमाध्यासिकसम्बन्धदुर्व्यसनेन । न हि भवति विज्ञानवादिनामिव तत्तज्ज्ञाने तत्तदध्यासस्वीकारः । शुद्धदृशः स्वतो भेदाभावात् । उपाधिविशिष्टाया भेदेऽपि घटादिवत् तस्य मिथ्यात्वेनाधिष्ठानत्वायोगात् ।
न्यायामृतमाधुरी
पूर्वाभिहितदृग्दृश्यसम्बन्धानुपपत्तिरूपतर्कं प्रत्याचिख्यासुः प्रसञ्जयति । अनुकूलेति । अन्यदित्यादि । नीलरूपं संवित्प्रतियोगिकभेदविशेषितमित्युपगमे तादृशसंविदि नीलरूपा-वगाहिता न स्यात् । तुल्यदिशा नीलगोचरप्रतीतौ पीतादिभानापत्तिवारणाय स्वस्मिन् स्वभिन्नं न प्रतीयत इति नियमस्यावश्याश्रवणीयत्वात् । नीलप्रतीतौ नीलभाननियामकस्य संसर्गविशेषस्य सत्वेन तत्र तद्भानं सङ्गच्छते । पीतादौ तु तदभावेन तदापादनायोग इति तु न शङ्कनीयम् । संविदयोगिकनीलप्रतियोगिकसंसर्गस्यापि दुर्निरूपत्वात् । अतस्तादात्म्येन तादृशप्रतीतौ नीलादेरनध्यस्तत्वमेव तत्र तद्भानबीजतया स्थेयम् । तच्च तस्य विपर्यस्ततायां च सङ्गच्छत इति दृग्दृश्यसम्बन्धानुपपत्तिरूपो विपक्षे बाधकस्तर्कोऽवतरतीत्याशयः । आत्मख्यातिवादिभिः विज्ञानवादिभिः । ग्राह्येत्यादि । ग्राह्यांशस्य घटादेरलीकतामुप-गच्छन्तो विज्ञानवादिनो ग्राह्यलक्षणाभावं तत्र युक्तिमभिदधति । ग्राह्यस्य ग्रहणयोग्यस्य घटादेर्लक्षणं विषयत्वं तदभावस्तस्माद्विज्ञानादित्यर्थः । अर्थस्य विज्ञानाद्भेदे तत्र विषयत्वं न स्यात् । लक्षणानिर्वचने कारणसामर्थ्येनापि ज्ञानविषयत्वं न सम्भवतीत्यादि स्फुटञ्चैतद्बौद्ध-धिक्कारे । अतिप्रसङ्गात् असन्निकृष्टपदार्थविषयकप्रसङ्गात् । पारिशेष्येणाध्यासिकसम्बन्धं सिषाधयिषुः प्रसक्तान्प्रतिषेधति । नापीत्यादिना चेत्यन्तेन । यद्यपि विषयत्वगोचरनवकल्पो घटकादिप्रकल्प एव । तृतीयस्यान्तर्भावेन न तस्याद्यतुल्यकक्ष्यापन्नता, तथापि आत्माश्रय-स्याधिकस्याभिधित्सया तथाभावचिन्तनमित्यवसेयम् । प्रकृते तृतीयस्य क्रियाजन्यफल-शालित्वातिरिक्तस्य पारिभाषिककरणव्यापारविषयत्वरूपस्याभिप्रेततया तथात्वं ध्येयम् । कलधौतेति । मलस्य रजतज्ञानाविषयत्वेऽपि तेन सहोपादानादिति हृदयम् । हानादीति । भुजङ्गप्रत्यक्षोत्तरम् । अयं भुजङ्गः अनिष्टसाधनं भुजङ्गत्वाद्भुजङ्गान्तरवदित्यनिष्टसाधनत्वानु-मित्या हानबुद्धेर्जननादिति भावः ।