यच्चेदमुच्यते– ब्रह्म ज्ञानानन्दात्मकम् अद्वितीयं..
७. परमते ब्रह्मणो ज्ञानत्वानन्दत्वाद्वितीयत्वनित्यत्वसाक्षित्वभङ्गः
न्यायामृतम्
यच्चेदमुच्यते– ब्रह्म ज्ञानानन्दात्मकम् अद्वितीयं नित्यं साक्षिरूपं च, न तु ज्ञानादि-गुणकमिति । तत्र परमते (१) ज्ञानत्वं किं जातिविशेषः, साक्षाद्व्यवहारजनकत्वं वा, जडविरोधित्वं वा, जडव्यावृत्तत्वं वा, अज्ञानविरोधित्वं वा, अर्थप्रकाशात्मकत्वं वा, पराङ्गीकृतं वा । नाद्यः, वृत्तिप्रतिबिम्बितज्ञानाभासेषु तत्सम्भवेऽप्यखण्डे स्वरूपज्ञाने तदयोगात् । न द्वितीयः । फलोपधानस्य सुषुप्त्यादावभावात् । शक्त्यादिरूप योग्यताया अपि मुक्तावभावात् । न तृतीयः । स्वरूपज्ञानस्य नित्यत्वेन तद्विरुद्धस्य जडस्य नित्यनिवृत्त्यापातात् । न चतुर्थः । ‘सत्यं ज्ञानम्’ इत्यत्र जडव्यावृत्तेरार्थिकत्वोक्त्य-योगात् । किञ्च जडत्वस्याज्ञातृत्वादि रूपत्वेऽसम्भवः । अज्ञानत्वरूपत्वे त्वन्योन्या-श्रयः । न पञ्चमः । अज्ञानस्य नित्यनिवृत्त्यापातात् । द्वितीयादिषु ज्ञानत्वस्य कारण-त्वादिवद् व्यवहाराद्यन्यतमोपाधिकत्वेन ब्रह्मणो ज्ञानस्वभावत्वायोगाच्च । न च षष्ठः । मोक्षे अन्यार्थोल्लेखाभावात् । स्वरूपोल्लेखे च स्वविषयत्वापातात् । न सप्तमः । पराङ्गीकृताया जातेर्व्यवहारहेतुत्वादेर्वा त्वन्मतेऽसम्भवात् । एवं च–
‘‘अर्थप्रकाशरूपत्वं ज्ञानत्वं ब्रह्मणः कथम् । अन्यार्थाभावतो मोक्षे स्वेन स्वस्याप्य-वेदनात्’’ ।।
(२) किञ्चेदम् आनन्दत्वं जातिविशेषो वा, अनुकूलतया वेदनीयत्वं वा, अनुकूल-वेदनरूपत्वं वा, अनुकूलत्वमात्रं वा, विज्ञानात्मकत्वमेव वा, दुःखविरोधिस्वरूपत्वं वा, दुःखाभावोपलक्षितस्वरूपत्वं वा, पराङ्गीकृतं वा । नाद्यः । अखण्डस्वरूपानन्दे तदयोगात् । न द्वितीयः । मोक्षे वेदितुरभावात् । आत्मनोऽवेद्यत्वाच्च । किञ्चानुकूल्यं किञ्चित्सापेक्षं, न चान्यं प्रति तद्युक्तमिति स्वं प्रत्येव वक्तव्यत्वेन सविशेषत्वापातः । अत एव न तृतीयः । अपि च वेदनस्वभावादधिकस्यानुकूल्यस्य स्वाभाविकत्वे सखण्डार्थत्वापातः । औपाधिकत्वे कदाचिदानन्दनिवृत्त्यापातः । न चतुर्थः, उक्तरीत्यानु-कूल्यासम्भवात् । एतेन निरुपाधिकेष्टत्वम् आनन्दत्वमिति निरस्तम् । न पञ्चमः । दुःखादिज्ञानस्याप्यानन्दत्वापातात् । विषयानुल्लेखिज्ञानं तथेति चेन्न । विरोधात् । ‘विज्ञानमानन्दं ब्रह्म’ इत्यादौ विज्ञानपदेनैव दुःखव्यावृत्ति सिद्धावानन्दपदवैयर्थ्याच्च । न षष्ठः । विरोधस्य निवर्तकत्वादिरूपत्वे दुःखस्य नित्यनिवृत्त्यापत्तेः । तादात्म्या-योग्यत्वरूपत्वे घटादेरप्यानन्दत्वापातात् । ‘विज्ञानमानन्दं ब्रह्म’ इत्यादौ दुःखव्यावृत्ते-रार्थिक त्वोक्त्ययोगाच्च । न सप्तमः । वैशेषिकमोक्षवत् त्वदुक्तस्य दुःखस्याभावे सत्यप्यानन्दाभावेनापुमर्थत्वस्य त्वन्मोक्षेऽप्यापातात् । नाष्टमः । पराङ्गीकृतस्य निरुपाध्यनुकूलतया वेदनीयत्वादेस्त्वन्मतेऽसम्भवात् । यदि चानन्दत्वादेर्दुर्निरूपत्वेऽपि तदधिकरणं ब्रह्माबाध्यम् आनन्दाद्यात्मकं च । तर्हि सत्यत्वादेर्दुर्निरूपत्वेऽपि तदधिकरणं जगदप्यबाध्यं सदात्मकं च स्यात् । एवं च–
‘निरुपाध्यनुकूलत्ववेदनीयं सुखं मतम् ।
निर्विशेषमवेद्यं च कथं ब्रह्मासुखात्मकम्’ ।।
(३) किञ्चेदम् अद्वितीयत्वं द्वितीयाभावविशिष्टत्वं वा, तदुपलक्षितत्वं वा । नाद्यः । द्वितीयाभावस्य प्रामाणिकत्वे तेनैव, अप्रामाणिकत्वे द्वितीयेनैव सद्वितीयत्वापातात् । न चाऽभावस्य प्रामाणिकत्वेऽपि प्राभाकरमत इवाऽधिकरणमात्रत्वाददोषः । ‘अनुप-लब्धिगम्योऽभावः’ इत्यादित्वन्मतभङ्गात् । अनृतव्यावृत्तेरपि ब्रह्ममात्रत्वेन भेदसत्यत्वा-पाताच्च । प्राभाकरमतेऽपि प्रतियोगिमदधिकरणव्यावृत्त्यर्थं कैवल्यादिविशेषितस्यैवाधि करणस्याभावत्वाच्च । न चेत्तन्मतेऽप्यनुपपत्तिरेव । अन्यथा गुणगुण्यभेदमते शौक्ल्यादेरिव शक्त्यादिभाव धर्माणामपि ब्रह्ममात्रत्वं स्यात् । न च भावरूपद्वितीयाभावविशिष्टत्वम् अद्वितीयत्वं । तथा चाभावस्य द्वितीयस्य प्रामाणिकत्वेऽप्यदोष इति वाच्यम् । दृश्यस्याप्यभावस्येव श्रुत्यादिसिद्धस्य धर्माधर्मादिरूपभावस्यापि मिथ्यात्वायोगा-दित्युक्तत्वात् । अत एव नान्त्यः । उपलक्षणस्याप्यभावस्याप्रामाणिकत्वे तत्प्रतियोगिनो द्वितीयस्य प्रामाणिकत्वावश्यम्भवात् । किञ्चाभावस्य प्रागभावादित्वे द्वितीयस्यानित्यत्व-मात्रं स्यान्न तु मिथ्यात्वम् । अत्यन्ताभावत्वे उपलक्षणत्वम् अयावद्द्रव्यभावित्वेन चेदत्यन्ताभावत्वहानिः । वेदान्ततात्पर्य विषयत्वादिकार्यानन्वयित्वेन चेदत्यन्ताभावा-सिद्धिः । किञ्चाप्रामाणिकेन द्वितीयाभावेनेव द्वितीयेनाप्युपलक्षित त्वसम्भवात् । तेन सद्वितीयं किं न स्यात् ? एवं च–
‘द्वैताभावस्तात्त्विकश्चेत्तेन स्यात्सिद्वितीयता ।
अतात्त्विकश्चेद् द्वैतेन सद्वितीयत्वमापतेत्’ ।।
(४) किञ्चेदं नित्यत्वं यद् ब्रह्मण एवाभिमतं सर्वकालसम्बन्धित्वं वा, काला-वच्छेदराहित्यं वा, ध्वंसाप्रतियोगित्वं वा, उभयावधिराहित्यं वा । नाद्यौ । अविद्यायां काले चाऽतिव्याप्तेः । सापि हि सर्वकालोपादानत्वात्तत्सम्बन्धिनी । इदानीमेव नान्यदेत्येवंरूपतदवच्छेदरहिता च । न तृतीयः । ध्वंसेऽतिव्याप्तेः । ननु ध्वंसोऽपि ध्वंसप्रतियोगी । प्रतियोग्यनुन्मज्जनं तु प्रागभावनिवृत्तिरूपस्य घटस्य निवृत्तावपि प्रागभावानुन्मज्जनवद् युक्तमिति चेन्न । एवं सति मोक्षेऽप्यात्मान्यस्य कस्यचिद् ध्वंसस्य वक्तव्यतया लाघवार्थम् आद्यध्वंसनित्यताया एव युक्तत्वात् । न च ध्वंसस्य नित्यत्वेऽपि भावेषु ब्रह्मैव नित्यमित्यस्याहानिरिति वाच्यम् । निष्प्रतियोगिकत्वेन भावस्य ध्वंसत्वादेर्नित्यत्वावश्यम्भवात् । न चतुर्थः । एवं परिभाषायामपि ब्रह्मण एव नित्यत्वमित्येतत्फलस्य मुक्तावन्याभावस्यासिद्धेः । एवं च–
‘काले कालापरिच्छिन्ने ध्वंसे चाध्वंसयोगिनि ।
नित्ये सति कथं नित्यं ब्रह्मैवेति मतं तव’ ।।
(५) कथं च दृग्रूपस्यात्मनः साक्षाद् द्रष्टृत्वरूपं साक्षित्वम् । ‘साक्षाद् द्रष्टरि संज्ञायाम्’ इति हि सूत्रम् । बुद्ध्युपाधिकस्यापि द्रष्टृत्वस्य सुषुप्त्यादावभावात् । बुद्धेः साक्ष्यधीनसिद्धिकप्रातीतिकाविद्याकार्यत्वेन चक्रकाश्रयत्वाच्च । किञ्च साक्षी किं जीवकोटिः, ब्रह्मकोटिर्वा, उभयानुगतं चिन्मात्रं वा । नाद्यः । जीवो बुद्ध्युपाधि-कोऽणुरिति पक्षे इदमंशावच्छिन्नचिद्वेद्यस्य शुक्तिरूप्यादेः साक्षिवेद्यत्वायोगाच्चक्रकाच्च । ‘अज्ञानोपाधिकः सर्वगतः’ इति पक्षेऽपि अज्ञानस्य साक्ष्यधीनसिद्धिकत्वेनाऽन्योन्या-श्रयात् । न द्वितीयः । तेन ब्रह्मण एव साक्षिवेद्यसुखदुःखादिधीः, न तु जीवस्येति वैपरीत्यापातात् । अन्यथाऽनवच्छिन्नानन्दधीरपि जीवस्य स्यात् । न च ब्रह्मचैतन्यं घटादिप्रकाशकमिति मतेऽज्ञानाभिभवद्वारा तस्य जीवचैतन्याभेदाभिव्यञ्जकान्तः करण-वृत्तिरिवेह तादृशी वृत्तिरस्ति । न तृतीयः । ईश्वरेणेव चिन्मात्रेणापि सांसारिकदुःखस्य तद्गतत्वेनाऽग्रहणेऽपि यद्भागो मुक्तस्तस्य चिन्मात्रस्य दुःखाद्युल्लेखरूपोपप्लवापातात् । सुप्तमैत्रं प्रति मैत्रीयाज्ञानादेर्मैत्रीयतयेव जाग्रच्चैत्रीयदुःखादेरपि चैत्रीयतया सुप्तमैत्रं प्रति प्रतीतिप्रसङ्गेन मैत्रस्यैतावन्तं कालं दुःखं नावेदिषमिति परामर्शायोगाच्च । नापि साक्षात्कर्त्तव्याकाराविद्यावृत्तिप्रतिफलितं चैतन्यं साक्षि, सुषुप्तौ चाज्ञानाद्याकाराविद्या वृत्तिर्नास्तीति वाच्यम्, दुःखादेः स्वानन्तरभाव्यविद्यावृत्तिप्रतिफलितचिद्वेद्यत्वे ज्ञातैक-सत्त्वायोगात् । अविद्यावित्तेरपि साक्ष्यधीनसिद्धकत्वेनान्योन्याश्रयाच्च विस्तृतं चैतदसतः साधकत्वभङ्गे ।
।। इति परमते ब्रह्मणो ज्ञानत्वानन्दत्वाद्वितीयत्वनित्यत्वसाक्षित्वभङ्गः ।। ७ ।।
अद्वैतसिद्धि:
वंशीविभूषितकरान्नवनीरदाभात् पीताम्बरादरुणबिम्बफलाधरोष्ठात् ।
पूर्णेन्दुसुन्दरमुखादरविन्दनेत्रात् कृष्णात्परं किमपि तत्त्वमहं न जाने ।।
१) ननु निर्विशेषं चेद् ब्रह्म, तर्हि ब्रह्मैवेकं ज्ञानात्मकम् आनन्दात्मकम् अद्वितीयं नित्यं साक्षि चेति नोप पद्यते । तथा हि– तत्र तावज्ज्ञानत्वं किं जातिविशेषो वा, साक्षाद्व्यवहारजनकत्वं वा, जडविरोधित्वं वा, जडान्यत्वं वा, अज्ञानविरोधित्वं वा, अर्थप्रकाशात्मकत्वं, वा पराङ्गीकृतं वा । नाद्यः । वृत्तिप्रतिबिम्बतज्ञानाभासेषु तत्सम्भवेऽप्यखण्डरूपब्रह्मज्ञाने तदयोगात् । न द्वितीयः । फलोपधानस्य सुषुप्त्यादावभावात् । शक्त्यादिरूपस्वरूपयोग्यताया अपि मुक्तावभावात् । न तृतीयः । स्वरूपज्ञानस्य नित्यत्वेन तद्विरुद्धस्य जडस्य नित्यनिवृत्त्यापातात् । न चतुर्थः । ‘सत्यं ज्ञानम्’ इत्यादावनृतव्यावृत्तेरार्थिकत्वोक्तिविरोधात् । न च पञ्चमः । अज्ञानस्य नित्यनिवृत्त्यापातात् । न षष्ठः । मोक्षेऽन्यार्थोल्लेखाभावात् । स्वरूपोल्लेखे च स्वविषयत्वापातात् । न सप्तमः । पराङ्गीकृतजातेर्व्यवहारहेतुत्वादेर्वा त्वन्मतेऽसम्भवादिति चेन्न । अर्थप्रकाशत्वमेव ज्ञानत्वम् । मुक्तावर्थाभावेऽपि तत्संसृष्टप्रकाशत्वस्य कदाचिदर्थ सम्बन्धेनाप्यनपायात् । अत एव–
‘अर्थप्रकाशरूपत्वं ज्ञानत्वं ब्रह्मणः कथम् ।
अन्यार्थाभावतो मोक्षे स्वेन स्वस्याप्यवेदनात्’ ।। इति निरस्तम् ।
२) यत्तु– आनन्दत्वं जातिविशेषो वा, अनुकूलतया वेदनीयत्वं वा, अनुकूलवेदनत्वं वा, अनुकूलत्वमात्रं वा, ज्ञानात्मकत्वमेव वा, दुःखविरोधित्वं वा, दुःखाभावोपलक्षितस्वरूपत्वं वा, पराङ्गीकृतं वा । नाद्यः । अखण्ड स्वरूपानन्दे तदभावात् । न द्वितीयः । मोक्षे वेदितुरभावाद्, आत्मनोऽवेद्यत्वाच्च । किञ्चानुकूल्यं किञ्चित्सापेक्षम्, न चान्यं प्रति तद्युक्तमिति स्वं प्रत्येव वक्तव्यत्वेन सविशेषत्वापातात् । अत एव न तृतीयः । किञ्च वेदनस्वभावादधिकस्यानुकूलस्य स्वाभाविकत्वे सखण्डत्वापातः । औपाधिकत्वे कदाचिदानन्दनिवृत्त्यापातः । न चतुर्थः । उक्तरीत्या आनु कूल्या-सम्भवात् । अत एव निरुपाधीष्टत्वम् आनन्दत्वमिति निरस्तम् । न पञ्चमः । दुःखादिज्ञान-स्याप्यानन्दत्वापातात् । विषयानुल्लेखिज्ञानं तथेति चेन्न । ज्ञानस्य सविषयत्वनियमाद्, ‘विज्ञानमानन्दं ब्रह्म’ इत्यादौ विज्ञानपदेनैव दुःखव्यावृत्ति सिद्धावानन्दपदवैयर्थ्यापाताच्च । न षष्ठः । विरोधस्य निवर्तकत्वादिरूपत्वे दुःखस्य नित्यनिवृत्त्यापत्तेः, तादात्म्यायोग्यत्व रूपत्वे घटादावप्यानन्दत्वापातात् । ‘विज्ञानमानन्दं ब्रह्म’ इत्यादौ दुःखव्यावृत्तेरार्थिकत्वोक्त्ययोगाच्च । न सप्तमः । वैशेषिकमोक्षवत् त्वदुक्तस्य दुःखस्याभावे सत्यप्यानन्दाभावेनापुमर्थत्वस्य त्वन्मोक्षेऽप्यापातात् । नाष्टमः । पराङ्गीकृतस्य निरुपाध्यनुकूलवेदनीयत्वादेस्त्वन्मतेऽसम्भवात् ।
यदि चानन्दत्वादेर्दुर्निरूपत्वेऽपि तदधिकरणं ब्रह्माबाध्यम् आनन्दाद्यात्मकं च तर्हि सत्यत्वादे-र्दुर्निरूपत्वेऽपि तदधिकरणं जगदबाध्यं सदात्मकं च स्यादिति चेन्न । आनन्दत्वस्य निरुपाधिकेष्टत्व रूपत्वात् । न च दुःखाभावेऽतिव्याप्तिः । दुःखाभावस्यापि सुखशेषत्वात् । अभावस्य विरोधि-भावान्तरत्वाभ्युपगमात् । न च मुक्ताविच्छापाये आनन्दापायापत्तिः । इष्टत्वोपलक्षितस्य स्वरूपस्या-नपायात् । उपलक्ष्ये च तदवच्छेदक सत्त्वस्यातन्त्रत्वात् । न च निरुपाधिकेष्टत्वं स्वाभाविकमौपाधिकं वा । नान्त्यः । ब्रह्मण आनन्दरूपत्वापत्तेः । आद्ये ज्ञानातिरेकि, तदनतिरेकि वा । आद्ये सखण्डत्वापत्तिः । द्वितीये आनन्दपदवैयर्थ्यमिति वाच्यम् । ज्ञानानन्दयोरभेदेऽपि कल्पितजाति-भेदनिबन्धनप्रवृत्तिकतया पदद्वयप्रयोगस्य व्यावृत्तिभेदेन साफल्यात् । एतेन विषयानुल्लेखिज्ञानमेवानन्द इत्यपि युक्तम् । ज्ञाने विषयोल्लेखिनियमस्य प्रागेव निरासात् । एवं चानन्दत्वस्य सुनिरूपतया न तन्न्यायेन जगतश्च सदात्मकत्वापादनमिति । किञ्च जगति सदाद्यात्मकत्वे बाधकं दृश्यत्वादिकम्, न त्वानन्दे, तस्य दृगनतिरेकात् । एतेन ‘‘निरुपाध्यनुकूलत्ववेदनीयं सुखं मतम् । निर्विशेषमवेद्यं च कथं ब्रह्म सुखात्मकम्’’ ।। इति निरस्तम् । परमप्रेमास्पदत्वेन वेद्यत्वात्, सुखवेदनभेदाभावात्, वेदनाभावेनासुखत्वापादनानुपपत्तेः ।
(३) नन्वद्वितीयत्वं द्वितीयाभावविशिष्टत्वम्, तदुपलक्षितत्वं वा, उभयथापि विशेषणमुपलक्षणं वा । द्वितीयाभावः प्रामाणिकश्चेत्, तदा तेन सद्वितीयत्वापत्तिः । अप्रामाणिकश्चेत्, तदा द्वितीयेन सद्वितीयत्वापत्तिः । न चाभावे द्वितीयेऽपि न भावाद्वैतहानिः । अभाववद् दृश्यस्य धर्मादेरप्येवं प्रामाणिकत्वे बाधकाभावादिति चेन्न, प्राभाकररीत्या द्वितीयाभावस्याधिकरणानतिरिक्तत्वेन प्रामाणि-कत्वेऽपि तेन सद्वितीयत्वाभावात् । न चैवमनुपलब्धेः पार्थक्येन प्रमाणत्वोक्तिरयुक्ता । प्रमेयानति-रेकादिति वाच्यम् । अतिरिक्ताभाववादिमत एव तदुक्तेः । अतिरिक्ताभावानभ्युपगमेऽप्यभावत्व-प्रकारकज्ञाने तत्प्रामाण्योपपत्तेश्च । न चानृतव्यावृत्तेरपि ब्रह्ममात्रतया भेदसत्यत्वापत्तिः । इष्टापत्तेः अनृतनिरूपितत्वं परमनृतमिथ्यात्वान्मिथ्या । भेदो ब्रह्माभिन्नतया सत्य एवेति । न च प्राभाकरमते प्रतियोगिमदधिकरण व्यावृत्त्यर्थं कैवल्यादिविशेषोऽवश्यमधिकरणे वक्तव्यः । तथा च स एवाभावः । अन्यथा तेषामप्यनुपपत्तिरेवेति वाच्यम् । यस्मिन् कदापि न प्रतियोगिसम्बन्धस्तस्मिन् स्वरूपरूपोऽभेद एव कैवल्यम् । यस्मिंश्च कदाचित्सोऽपि तदा तस्मिन्प्रतियोगिमदधिकरणकालभिन्नकालावच्छिन्नम् अधिकरणमिति न कैवल्यस्याधिकरणातिरेकः, न वाऽनुपपत्तिरिति । न चैवं गुणगुण्यभेदवादिमते शौक्ल्यादेरिव शक्त्यादेरपि भावरूपधर्मस्य ब्रह्माभेदोऽस्त्विति वाच्यम् । शक्त्यादिना सहाभेदग्राहक-मानाभावात् । अस्तु वा द्वितीयाभावोपलक्षितस्वरूपत्वम् अद्वितीयत्वम् । तस्य च प्रामाणिकत्वेऽपि तत्प्रतियोगिनो द्वितीयस्य स्वप्नोपभुक्तनिगरणादाविव प्रामाणिकत्वानापत्तेः । एतेन– द्वितीयाभावस्य प्रागभावादित्वे द्वितीयस्यानित्यत्वमात्रं स्यान्न तु मिथ्यात्वम् । अत्यन्ताभावत्वे तूपलक्षणत्वानुपपत्तिः, सदातनत्वात्, श्रुतितात्पर्यविषयत्वादिकार्यानन्वयित्वेनोपलक्षणत्वेऽत्यन्ताभावासिद्धिः । एवं च–
‘‘द्वैताभावस्तात्त्विकश्चेत्तेन स्यात्सद्वितीयता । अतात्त्विकश्चेद् द्वैतेन सद्वितीयत्वमापतेत् ।’’
इति परास्तम् । स्वरूपातिरेकितया तत्प्रमाया अनुद्देश्यत्वात् । तद्वोधस्यावान्तरतात्पर्येण यथाकथञ्चित्सम्भवात् । तात्त्विकत्वे ब्रह्मानतिरेकात् । अतात्त्विकत्वे स्वप्ननिगरणन्यायस्योक्तत्वात् । उपपादितं चैतद्विस्तरेण प्रागिति शिवम्।
(४) ननु– ब्रह्मण एव यन्नित्यत्वमभिमतम्, तत् किं सर्वकालसम्बन्धत्वं वा, कालावच्छेदराहित्यं वा, ध्वंसाप्रतियोगित्वं वा, उभयावधिराहित्यं वा । नाद्यौ, अविद्यायां काले चातिव्याप्तेः । अविद्यायाः सर्वकालोपादानत्वेन तत्सम्बन्धनियमात्, इदानीमेव नान्यदेत्येवंरूपतदवच्छेदरहितत्वाच्च । न तृतीयः । ध्वंसेऽतिव्याप्तेः । न च ध्वंसोऽपि ध्वंसप्रतियोगी । प्रतियोग्यनुन्मज्जनं तु प्रागभावनिवृत्तिरूपस्य घटस्य निवृत्तावपि प्रागभावानुन्मज्जनवद्युक्तमिति वाच्यम् । एवं सति मोक्षेऽप्यात्मान्यस्य कस्यचिद् ध्वंसस्य वक्तव्यतया लाघवार्थमाद्यध्वंसनित्यताया एव युक्तत्वात् । न च ध्वंसस्य नित्यत्वेऽपि भावेषु ब्रह्मैव नित्यमिति वाच्यम् । निष्प्रतियोगिकत्वेन भावस्य ध्वंसत्वादेरपि नित्यत्वावश्यम्भावात् । न चतुर्थः । एवं परिभाषायामपि ब्रह्मण एव नित्यत्वमित्येतत्फलस्य मुक्तावन्याभावस्यासिद्धिरिति चेन्न । चतुर्थपक्षस्य क्षोदसहत्वात् । न च अन्त्यावधिरहितस्य ब्रह्मान्यस्य मुक्तावसत्त्वं न सिद्धमिति वाच्यम् । विशेषणान्तरस्यैव सिद्धेः । अत एव–
काले कालापरिच्छेन्ने ध्वंसे चाध्वंसयोगिनि ।
नित्ये सति कथं नित्यं ब्रह्मैवेति मतं तव ।।
इति निरस्तम् । कालस्याप्याविद्यकत्वेनान्त्यावधिमत्त्वाद्, ध्वंसस्याध्वंसप्रतियोगित्वेऽपि आद्यावधिमत्त्वाच्च । न च तावता सद्वितीयत्वम् । तात्त्विकस्य द्वितीयस्यैवमप्यभावात् । न चैवमतात्त्विकत्वे ध्वंसनिवृत्तिः । इष्टत्वात् । न च प्रतियोग्युन्मज्जनम् । तादृग्ध्वंसोपलक्षितस्वरूपस्यैव विरोधित्वात् प्रागभावस्य प्रतियोगिध्वंसादाविव ।
(५) ननु कथं दृग्ग्रूपस्य ब्रह्मणः साक्षाद् दृष्टृत्वरूपं साक्षित्वम् । ‘साक्षाद् द्रष्टरि सञ्ज्ञायाम्’ इत्यनुशासनादिति चेत्, अविद्यातत्कार्यान्यतरप्रतिफलितचैतन्यस्यैव साक्षित्वात् । तथा च दृग्रूपस्यापि उपाधिना द्रष्टृत्वम् । न चोपाधेरपि साक्ष्यधीनसिद्धिकप्रातीतिकाविद्याकार्यत्वेन चक्रकाद्यापत्तिः । उत्पत्तिज्ञप्तिप्रतिबन्धस्याभावादविद्यातदुपाधिक द्रष्टृत्वयोरुभयोरप्यनादित्वात् ।
ननु साक्षी जीवकोटिर्वा, ब्रह्मकोटिर्वा, उभयानुगतं चिन्मात्रं वा । नाद्यः । जीवो बुद्ध्युपाधि-कोऽणुरिति पक्षे इदमंशावच्छिन्नचिद्वेद्यस्य शुक्तिरूप्यस्य साक्षिवेद्यत्वायोगाच्चक्रकाद्यापातात् । अज्ञानोपाधिकः सर्वगत इति पक्षेऽप्यज्ञानस्यापि साक्ष्यधीनसिद्धिकत्वेनान्योन्याश्रयात् । न द्वितीयः । ब्रह्मण एव साक्षिवेद्यदुःखादिधीः, न जीवस्येति वैपरीत्यापातात् । अन्यथाऽनवच्छिन्नानन्दधीरपि जीवस्येति स्यात् । ब्रह्मचैतन्यं घटादिप्रकाशकमिति मतेऽज्ञानाभिभवद्वारा तस्य जीवचैतन्याभेदाभि-व्यञ्जकान्तःकरणवृत्तिवत्तादृशवृत्त्यभावाच्च । न तृतीयः । ईश्वरेणेव चिन्मात्रेणापि संसारिदुःखस्य तद्गतत्वेनाग्रहणेऽपि यद्भागो मुक्तस्तस्य चिन्मात्रस्य दुःखाद्युल्लेखरूपोपप्लवापायात् । सुप्तमैत्रं प्रति मैत्रीयाज्ञानादेर्मैत्रीयतयेव जाग्रच्चैत्रीयदुःखादेरपि चैत्रीयतया सुप्तमैत्रं प्रति प्रतीतिप्रसङ्गेण मैत्रेणैतावन्तं कालं दुःखं नावेदिषमिति परामर्शायोगादिति चेन्न । शुद्धब्रह्मातिरिक्तस्य बुद्ध्युपाधिकजीवातिरिक्तस्य साक्षिणोऽङ्गीकृतत्वेन तत्पक्षोक्तदोषाभावात् । तथा चाविद्यावृत्ति प्रतिफलितं चैतन्यं साक्षि, सुषुप्तावप्य-विद्यावृत्तिस्वीकारस्य प्रागुक्तेः । न चान्योन्याश्रयः, प्रागेव निरासात्, शुद्धस्य साक्षित्वाभावेन मुक्तोप-प्लवापाताभावात् ।
यस्तु सुप्तमैत्रे चैत्रः दुःखग्रहणापत्त्या एतावन्तं कालं दुःखं नावेदिषमिति परामर्शावरोध उक्तः तन्न, साक्षिणः सर्वजीवसाधारण्येऽपि तत्तज्जीवचैतन्याभेदेनाभिव्यक्तस्य तत्तद्दुःखादिभासकतया अतिप्रसङ्गाभावात् । यच्च सुखादेः स्वानन्तरभाव्यविद्यावृत्तिप्रतिफलितचिद्वेद्यत्वे ज्ञातैकसत्त्वायोग इति, तन्न । मानसत्ववादिमतेऽप्यस्य समानत्वात् । न हि तन्मते ज्ञातैकस्थितिकत्वातिरिक्तं ज्ञातैक-सत्त्वमस्ति । दुःखादिसमसमयोत्पन्नवृत्त्यापि ज्ञातैकसत्त्वोपपत्तेश्च । तस्माज्ज्ञानानन्दैकरूपम् अद्वितीयं नित्यं साक्षि च ब्रह्मेति सिद्धम् । इत्यद्वैतसिद्धौ ब्रह्मणो ज्ञानत्वानन्दत्वाद्वितीयत्वनित्यत्वसाक्षि-त्वोपपत्तिः ।। ७ ।।
न्यायामृततरङ्गिणी
अखण्डरूपे एकव्यक्तिके ।। नित्येति ।। अन्यथा विरोधायोगः ।। आर्थिकत्वेति ।। ज्ञानत्वजड व्यावृत्तत्वयेरेकत्वात् ।। द्वितीयादिष्विति ।। परमते घटज्ञानस्यापि ब्रह्मस्वरूप-ज्ञानत्वेन द्वितीयादिषु घटज्ञानेष्वज्ञान विरोधित्वरूपज्ञानत्वायोगाज्ज्ञानव्यवहारयोगित्वं ज्ञानत्वम् अस्वाभाविकं ब्रह्मणो जगत्कारणत्वादिवदित्यापद्येत । ननु कदाचिदर्थोल्लेखमात्रेण मोक्षेऽर्थाभावेऽप्यर्थप्रकाशत्वमुपपद्यते । मैवम् । कदाचिदावृतत्वमात्रेण मोक्षेऽप्यावृतत्वा-पातात् । अर्थोल्लेखस्य ज्ञानस्य भावत्वेन मोक्षे तदभावे ज्ञानस्वभावहानेश्च ।। अवेद्यत्वाच्चेति ।। तथा चात्मरूपे सुखे चासम्भवः ।। अन्यं प्रतीति ।। मोक्षेऽन्याभावात् ।। वेदनेति ।। वेदनप्रकारभूतस्यानुकूल्यस्य वेदनादधिकत्वे स्वाभाविकत्वे च सखण्डार्थत्वम् ।। औपाधिकत्व इति ।। उपाधिनिवृत्त्यौपाधिकनिवृत्तेरावश्यकत्वात् ।। एतेनेति ।। आनुकूल्यवन्निरुपाधि-केष्टत्वस्य स्वरूपादधिकस्य स्वाभाविकत्वे औपाधिकत्वे च दोषात् । दुःखाभावेऽतिव्याप्तेश्च ।
यत्तु दुःखाभावोऽपि सुखविशेष एवाभावस्य विरोधिभावान्तररूपत्वादिति । तन्न । परस्पराभावरूपयोः सुखदुःखयोर्विरहस्यैकत्र पाषाणादावसत्त्वापत्तेः, अपसिद्धान्ताच्च । मुक्ताविच्छाभावेनानन्दाभावापत्तेश्च । न चेष्टत्वोपलक्षितस्वरूपं मोक्षेऽप्यस्तीति वाच्यम् । तथा सति तदुपलक्षितत्वस्य तदाप्यापातात् ।। विरोधादिति ।। ज्ञानस्य विषयोल्लेखि-स्वभावत्वात् ।। विज्ञानमिति ।। विज्ञानस्यानन्दत्वे विज्ञानपदस्यार्थभूतेन विज्ञाने-नानन्दकार्यदुःख व्यावृत्तिसिद्ध्याऽऽनन्दपदस्य वैयर्थ्यं विज्ञानपदार्थाधिकार्थत्वाभावः । तथा च विज्ञानानन्दयोरेकतरपरिशेषापत्त्या मोक्ष आनन्दप्रकाशो न स्यादिति भावः । यस्तु कल्पितजातिभेदनिबन्धनप्रवृत्तिकपदद्वयस्य व्यावृत्तिभेदेन साफल्यमाह, तदबोधात् । न ह्यत्र पदयोर्वैफल्यमापाद्यते । किन्त्वानन्दस्याप्रकाशः ।। आर्थिकत्वेति ।। आनन्दपदेनैव दुःख-व्यावृत्तेरभिधानात् ।। उक्तस्येति ।। दुःखाभावोपलक्षितस्वरूपस्य दुःखाभावानन्दयोर्द्वयोरुभय मतेऽप्यभावादित्यर्थः ।। अनुपलब्धीति ।। अधिकरणस्वरूपस्याभावस्य यथायथमिन्द्रियादि-भिरेव बोधनसम्भवात् ।। सत्यत्वेति ।। सत्यब्रह्मरूपत्वात् ।। प्राभाकरेति ।।
यत्र कदाऽपि न प्रतियोगिसम्बन्धस्तत्र तत्स्वरूपत्वमेव कैवल्यमन्यत्र तु प्रतियोगि-मदधिकरणकालभिन्न कालावच्छिन्नत्वादिकं कैवल्यं विशेषणं वाच्यम् ।। अन्यथेति ।। कैवल्याद्यविशेषितस्याधि करणमात्रस्याभावत्वेऽपि प्राभाकरमतेऽनुपपत्त्यभावे ।। गुणगुणीति ।। यथा प्राभाकरमतं प्रविश्य द्वितीयाभावस्य ब्रह्ममात्रत्वमुक्त्वा ब्रह्मणः सद्वितीयत्वं परिहृतं तथाऽधिकरणाभिन्नशौक्ल्याद्यङ्गीकर्तृमतं प्रविश्य शक्त्यादिधर्मान्ब्रह्म स्वरूपानङ्गीकृत्य द्वैतपरिहारः सुकर इति किं शक्त्यादीनां मिथ्यात्ववर्णनेन ।। प्रामाणिकत्व इति ।। ननु स्वप्नोपभुक्त-निगरणादेरिव न प्रामाणिकत्वमत उक्तं तत्प्रतियोगिन इति । तद्विरहरूपस्येत्यर्थः ।। अत्यन्ताभावासिद्धिरिति ।। यत्त्वत्यन्ताभावप्रमाया अनुद्देश्यत्वेऽप्यवान्तरतात्पर्येण तत्सिद्धि-रिति, तन्न । सार्वज्ञादिष्ववान्तरतात्पर्याभावम् अत्यन्ताभावे च तद्भावमभिदधानमवधानवन्तं प्रत्यवक्तव्यत्वात् ।। अप्रामाणिकेनेति ।। द्वितीयाभावद्वितीययोर प्रामाणिकत्वे ब्रह्मप्रत्युपलक्षणत्वे चाविशेषाद्द्वितीयाभावेनाद्वितीयेन सद्धितीयं कथं न स्यात् ।। सापीति ।।
येन कालेनाविद्यमानं सम्बध्यत इत्युच्यते तत्कालस्वरूपमेवोपादानाभावान्न सिद्ध्येत् ।। इदानीमेवेति ।। अन्यदेत्यस्य कालवाचित्वादुपादेयं कालमङ्गीकृत्य तदुपादानाविद्या-नङ्गीकारे व्याघातः ।। अनुन्मज्जनं त्विति ।। घटवद्धटनिवृत्तेरपि प्रागभावविरोधित्वाद्यथा घटप्रागभावानुन्मज्जनं तथा घटध्वंसवद्धटध्वंसस्य ध्वंसो घटविरोधीति न घटोन्मज्जनम् ।। एवं सतीति ।। घटप्रागभावानुन्मज्जनार्थं घटध्वंसस्य स्थायित्वं यथा मयाङ्गीक्रियते तथा घटध्वंस-वत् ध्वंसादीनामनुन्मज्जनाय कश्चिद् ध्वंसः स्थायीति चरमं गत्वा स्वीकार्यम् । तद्वरं प्रथमत एव ध्वंसे स्थायित्वं स्वीकर्तुम् ।। निष्प्रतियोगिकत्वेनेति ।। ध्वंसस्य नित्यस्याङ्गीकारे निष्प्रतियोगिकत्वेन भावरूपाणि ध्वंसत्वादीन्यप्यङ्गीकरणीयानि । आदिपदेन ध्वंसाधिकरणे ध्वंसाधिकरणत्वादीनि ।। एवमिति ।। ब्रह्मण एवोभयावधिराहित्यस्यान्यदीयतथात्वं प्रति विरोधित्वेऽपि मुक्तौ च तथाभूतान्यसत्यं प्रत्यविरोधित्वात् ।
ननु दृगेव साक्षिशब्देनाभिधीयतामत आह– साक्षादिति ।। द्रष्टर्येव साक्षिशब्दस्यानु-शासनात् । ननु स्वरूपेण दृश्येऽप्यन्योपाधिकं द्रष्टृत्वमत आह– बुद्ध्युपाधिकस्येति ।। तथा च सुषुप्तिसाक्षिण्यव्याप्तिरित्यर्थः ।। बुद्धेरिति ।। साक्षिस्वरूपलाभे तदधीनप्रतीति-मात्रशरीराविद्यासिद्ध्यैत्तत्सिद्धौ च तत्कार्या बुद्धिस्तत्सिद्धौ च तदुपाधिकस्य द्रष्टृत्वस्य साक्षि-स्वरूपलाभ इति चक्रकाश्रयः । एतेनाविद्यातदुपाधिकद्रष्टृत्वयोरनादित्वादुत्पाद्य प्रतिबन्धकत्वान्न चक्रकादिदोष इति निरस्तम् । परस्परस्वरूपे परस्परापेक्षणात् । न हि द्रव्यत्वगुणवत्त्वयोः स्वरूपेऽन्योन्यापेक्षा ।। जीव इति ।। जीवकोटेः साक्षिणः सकाशादिदमंशावच्छिन्नचैतन्यस्य ब्रह्मस्वरूपस्येदमंश प्रकाशकस्य भेदादित्यर्थः । जीवः परिच्छिन्न इति पक्षे ब्रह्मचैतन्यस्य घटादिप्रकाशकत्वात् ।। तेनेति ।। ब्रह्मकोटिना साक्षिणा । ननु ब्रह्मणो दुःखादिधीरेव जीवस्य तद्धीरत आह– अन्यथेति ।। ब्रह्मधिय एव जीवधीत्वे । ननु ब्रह्मचैतन्यस्य घटादि-प्रकाशकत्वेऽपि जीवोपाधिभूतान्तःकरणीयवृत्त्या जीवस्य घटप्रकाशकब्रह्मचैतन्याभेदाभिव्यक्तौ जीवस्य घटप्रकाशः तथा ब्रह्मकोटिनः साक्षिणो दुःखाद्यनुभवेऽपि तेन जीवस्याभेदाभिव्यक्तौ जीवस्यापि दुःखादिधीर्युज्यत इत्याशङ्क्याह– न चेति ।। साक्षिजीवयोरेकोपाध्यवच्छिन्नत्वा-भावादित्यर्थः ।। ईश्वरेणेवेति ।। चिन्मात्ररूपः साक्षीश्वरवत्स्वाश्रितत्वेन दुःखमगृह्णन्नपि परकीयदुःखोल्लेखित्वाद्दुःखोपप्लुत एवातस्तद्भावापत्तिरूपा मुक्तिरप्यपुरुषार्थः स्यात् ।
सुप्तेति ।। चैत्रं प्रति चैत्रदुःखादेश्चैत्रीयतया ग्राहकस्य चिन्मात्ररूपसाक्षिणो मैत्रं प्रत्यनुपगतत्वात् ।। साक्षात्कर्तव्येति ।। चिन्मात्रस्य साक्षीतरस्य मुक्तत्वान्न तत्र संसारोप-प्लवः । सुप्तमैत्रे चाविद्यावृत्तिश्चैत्रदुःखाकारा नास्तीति न तं प्रति चैत्रदुःखग्रह इत्यर्थः । यत्तु साक्षिणः सर्वजीवसाधारणत्वेऽपि तत्तज्जीवचैतन्याभेदेनाभिव्यक्तस्य तत्तद्दुःखादिभासकतया नातिप्रसङ्ग इति, तन्न । आवरणाभिभवद्वाराऽभेदाभिव्यञ्जिकाया अन्तःकरणवृत्तेः सुखादाव-भावात् । अविद्यावृत्तेरावरणानिवर्तकत्वात् ।। दुःखादेरिति ।। दुःखे हि सति तदाकारावृत्तिः स्यात् । अतो दुःखाद्यनन्तरभाविनी सा । ननु वृत्त्यर्थौ समसमय एवोत्पद्येते इत्यत आह– अविद्यावृत्तेरिति ।। अविद्यावृत्तौ सत्यां तत्प्रतिफलित चैतन्यरूपसाक्षिसिद्धिः । तत्सिद्धौ साक्षिरूपप्रतीतिमात्रशरीराविद्यावृत्तिसिद्धिरित्यन्योन्याश्रयः ।
।। परमते ब्रह्मणो ज्ञानत्वानन्दत्वाद्वितीयत्वनित्यत्वसाक्षित्वभङ्गः ।। ७ ।।
न्यायामृतकण्टकोद्धारः
ननु तथापि ब्रह्मणो नानन्तगुणपूर्णत्वं वक्तुं शक्यम् । ज्ञानादीनां तत्स्वरूपत्वेन तद्गुणवत्त्वाभावात् । न चात्रप्युक्तम् अहिकुण्डलवदिति वाच्यम् । तथात्वे उपचारोपपत्तेः । वस्तुतो गुणित्वाभावापत्तेश्च । न चात्राप्युक्तम् ‘आत्मनि चैवं विचित्राश्च हि’ इति । शक्तेरपि तदभिन्नत्वात् । न च विशेषबलेन शक्तिमत्त्वाद्युपपत्तिरिति वाच्यम् । विशेषस्यापि तदभिन्नत्वात् । न च तस्य स्वनिर्वाहकत्वम् । तदनङ्गीकारादित्यतस्तदनङ्गीकारे परमते जात्यसम्भव इत्यर्थः । न चाभासाखण्डसाधारणमेव ज्ञानत्वमेवमस्त्विति वाच्यम् । तथात्वे तस्य शुद्धलक्षणत्वा-भावापत्तेस्तेन जडव्यावृत्तिसिद्धेश्च । द्वितीये जनकत्वं विवक्षितं स्वरूपयोग्यत्वरूपं वा । आद्य आह– फलेति ।। द्वितीय आह– शक्तीति ।। शक्त्यादिधर्महीनस्वरूपमात्रस्य मुक्तित्वादिति भावः । न च तदा ज्ञानत्वमेव नेति वाच्यम् । तथात्वे तस्य स्वरूपलक्षणत्वाभावापत्तेः ।। स्वरूपेति ।।
न च वृत्त्युपहितस्यैव तद्विरोधित्वमतो नोक्तदोष इति वाच्यम् । मुक्तौ वृत्त्यभावेन जडात्मकतापत्तेः । न च वृत्त्युपलक्षितस्य तद्विरोधित्वमिति वाच्यम् । पूर्वमपि जडविरोधित्वापत्तेः ।। सत्यमिति ।। ज्ञानपदेनैव ज्ञानत्वाभिधायिना जडान्यत्वस्योक्तत्वादिति भावः ।। असम्भव इति ।। बुद्धेरेव ज्ञातृत्वेन वस्तुतो ब्रह्मणोऽज्ञातृत्वेन तदन्यत्वमसम्भवीत्यर्थः ।। अज्ञानत्वेति ।। अनादिभावरूपत्वे सति ज्ञाननिवर्त्यत्वस्यैवाज्ञानलक्षणत्वेनान्योन्याश्रय इत्यर्थः । न च भ्रमोपादानत्वमेवाज्ञानत्वमतः कथमन्योन्याश्रय इति वाच्यम् । तस्य धर्म्यज्ञानादावव्यापक-त्वेनालक्षणत्वादिति भावः । देहलीप्रदीपन्यायेन प्रथमपक्षातिरिक्तसर्वपक्षेषु साधारणं दूषणमाह– द्वितीयादिष्विति ।। सोपाधिकत्वेऽपि ज्ञानत्वस्य स्वभावत्वे कारणत्वस्यापि तदापत्तेरिति भावः ।। स्वरूपेति ।। स्वविषयत्वं च कर्तृकर्मविरोधात् परैर्नाङ्गीकृतमिति भावः । उक्तमर्थं कारिकया सङ्गृह्णाति ।। एवञ्चेति ।। एवं ज्ञानत्वासम्भवमभिधायानन्दत्वमपि न सम्भवतीति वक्तुं विकल्पेन दूषयति– किञ्चेति ।।
मोक्ष इति ।। वेदनीयत्वं हि वेदनकर्मत्वम् । न च कर्तुरभावे कर्मत्वं सम्भवतीति भावः ।। अवेद्यत्वादिति ।। अकर्मत्वादित्यर्थः ।। औपाधिकत्वेति ।। औपाधिकस्य त्वन्मते निवृत्ति-नियमादिति भावः ।। एतेनेति ।। आनुकूल्यासम्भवेनेष्टत्वासम्भवादेवेत्यर्थः । न हीच्छादि-विषयत्वमिष्टत्वं मुक्तौ सम्भवति । मुक्तौ इच्छानङ्गीकारादिति भावः ।। विरोधादिति ।। विषयोल्लेखितस्य ज्ञानत्वादिति भावः ।। विज्ञानमिति ।। आनन्दपदेनैव दुःखतादात्म्यायोग्यत्व-रूपदुःखव्यावृत्तेरुक्तत्वादित्यर्थः । नन्वानन्दत्वादेर्दुर्निरूपत्वेऽपि तदधिकरणं ब्रह्माबोध्यं श्रुतिबलादङ्गीक्रियते चेत् को दोष इत्यत आह– यदि चेति ।। जगतः(तो) सत्यत्वादौ श्रुत्यादेरुक्तत्वादिति भावः । उक्तमर्थं कारिकारूढं करोति– एवञ्चेति ।। अनुपलब्धिगम्य इति ।। ब्रह्मण उपनिषदेकसमधिगम्यत्वादिति भावः । उपलक्षणमेतत् । सोपाधिनिरुपाधिकयोरैक्या-सम्भवात् । अन्यथा सार्वज्ञादेरपि स्वरूपत्वापत्तिरित्यपि दूषणं द्रष्टव्यमिति ।। अनृतेति ।। अभावत्वाविशेषादिति भावः ।। प्राभाकरमतेऽपीति ।। तथा चाभावस्य ब्रह्मस्वरूपत्वे ब्रह्मणः सविशेषत्वापत्तिः । अन्यथा प्रतियोगिमत्यपि प्रसङ्गादिति भावः ।
न चेदिति ।। कैवल्यादिविशेषितस्याधि करणस्याभावत्वमिति शेषः ।। अन्यथेति ।। अभावस्य ब्रह्म स्वरूपत्वे इत्यर्थः ।। न चेति ।। तथा चाभावस्य द्वितीयस्य सत्त्वेऽपि न दोष इति भावः ।। दृश्यस्येति ।। उपलक्षणमेतत् । साधारणाद्वितीयशब्दस्य भावरूपद्वितीयाभाव विषयत्वेन सङ्कोचेऽभावरूपद्वितीयाभावरूपत्वेनापि सङ्कोचः किं न स्यात् । स्वविरोधप्रमाण-विरोधातिप्रसङ्गानां तुल्यत्वादित्यपि द्रष्टव्यम् ।। उपलक्षणस्यापीति ।। सति धर्मिणि विरुद्धयोरेकस्याप्रामाणिकत्वे परस्य प्रामाणिकत्वमिति व्याप्तेरिति भावः ।। नन्विति ।। न हि प्रागभावादिप्रतियोगित्वं मिथ्यात्वम् । घटाद्यंशे सिद्धसाधनप्रसङ्गादिति भावः ।। अत्यन्तेति ।। त्रैकालिकाभावस्यैवात्यन्ता भावत्वादिति भावः ।। अत्यन्ताभावासिद्धिरिति ।। न च प्रत्यक्षादिना तत्सिद्धिरिति वाच्यम् । तेन द्वितीयस्यै वावगाहनेन तदभावस्यानवगाहनात् । नापि श्रुत्या । त्वया तत्र तात्पर्यानभ्युपगमात् । अभ्युपगमे वोपलक्षणत्वायोगादिति भावः । उक्तमर्थं कारिकारूढं करोति ।। एवञ्चेति ।।
अद्वितीयत्वं दूषयित्वा नित्यत्वमपि दूषयितुं पृच्छति– किञ्चेति ।। इदानीमेवेति ।। न च सर्वमुक्तौ अविद्या नेति वाच्यम् । तदापि कालस्य वक्तव्यतया तदुपादानाविद्याया आवश्यकत्वात् । न च तदा कालोऽपि नेति वाच्यम् । तदा इत्यनेन कालं स्वीकृत्य पुनस्तन्निषेधे व्याघातात् ।। एवं सतीति ।। अप्रामाणिकानन्तध्वंसस्वीकारात् । प्रामाणिकमाद्यध्वंसस्यैव नित्यत्वं स्वीकर्तव्यमित्यर्थः ।। निष्प्रतियोगित्वेनेति ।। अभावनित्यत्वं स्वीकुर्वता अवश्यम् अभावत्वध्वंसत्वादिकं नित्यमिति स्वीकर्तव्यम् । अन्यथा ध्वंसनित्यत्वस्य व्याहतत्वात् । तथा च भावेषु ब्रह्मैव नित्यमित्यस्यापि नियमस्य भङ्ग एवेति भावः ।। एवमिति ।। उभयावधि-विधुराणां कालादीनां विद्यमानत्वादिति भावः । उक्तमर्थं कारिकारूढं करोति ।। एवञ्चेति ।।
एवं साक्षित्वमपि दुर्निरूपमित्याह– कथञ्चेति ।। एकस्यैव कर्तृत्वक्रियात्वयोर्विरोधाल्लोके क्रियाश्रयस्यैव कर्तृत्वदर्शनादिति भावः । ननु साक्षिशब्दोऽपि क्रियामात्रवाचीत्यत आह– साक्षादिति ।। ननु स्वतो दृग्रूपत्वेऽपि बुद्ध्युपाधिकद्रष्ट्रत्वमङ्गीक्रियत एवेत्यत आह– बुद्ध्युपाधिकस्यापीति ।। न च द्रष्ट्रत्वमेव नेति वाच्यम् । अज्ञानादिद्रष्ट्रत्वस्यावश्यकत्वात् । अन्यथा एतावन्तं कालमिदमहं नाज्ञासिषमिति परामर्शो न स्यात् । न च तदज्ञानोपाधिकमेव द्रष्ट्रत्वमिति वाच्यम् । अज्ञानस्य साक्ष्यधीनसिद्धिकत्वेनान्योन्याश्रयात् । अत एवाह– बुद्धेरिति ।। साक्षिणो जीवकोटित्वेऽपि जीवः किं बुद्ध्युपाधिकोऽणुरज्ञानोपाधिकः सर्वगतो वा ? नाद्य इत्याह– जीवोऽपीति ।। चक्रकाच्चेति ।। जीवरूपसाक्षिसिद्धौ अज्ञानसिद्धिः । तत्सिद्धौ तत्कार्यबुद्धि-सिद्धिः । तत्सिद्धौ तदुपाधिकजीवरूप साक्षिसिद्धिरिति चक्रकमित्यर्थः । द्वितीय आह– अज्ञानेति ।। ननु ब्रह्मणः साक्षित्वेऽपि जीवस्य तत्प्रतिबिम्बत्वात् तत्र दुःखादिधीरित्यत आह– अन्यथेति ।। ननु जीवस्य साक्षिभूतब्रह्माभेदेनाभिव्यक्ततत्तद्धीरित्याशङ्क्य निराकरोति– न चेति ।। इह तस्या एवाभावादित्यर्थः ।। ईश्वरेणेवेति ।। निरुपपदचिद्भावस्यैव मुक्तित्वाङ्गीकारादिति भावः ।। सुप्तमैत्रं प्रतीति ।। चिन्मात्रेण यथा ज्ञानं विषयीक्रियते तथा चैत्रीयदुःखादिकमपि विषयीक्रियत एव । तथा चाज्ञानादिपरामर्शवच्चैत्रीयदुःखादिविषयेऽपि परामर्शः स्यादिति भावः ।। नापीति ।। चैत्रीयदुःखाद्याकारा च नाविद्यावृत्तिरिति न दुःखादिधीरित्यर्थः ।। दुःखादेरिति ।। तस्य च ज्ञातैकसत्त्वं सर्वसिद्धम् । त्वयापि दुःखादेः प्रातिभासिकत्वाङ्गीकारादिति भावः ।। अविद्यावृत्ते-रिति ।। वृत्तेरपि वृत्त्यन्तरस्वीकारेऽनवस्थेति भावः ।
।। इति परमते ब्रह्मणो ज्ञानत्वा-नन्दत्वा-द्वितीयत्व-नित्यत्व-साक्षित्व-भङ्गः ।। ७ ।।
न्यायकल्पलता
अखण्डरूपे निर्विशेषैकव्यक्तिके ।। नित्येति ।। अन्यथा विरोधायोगः ।। आर्थिकत्वेति ।। ज्ञानत्वजड व्यावृत्तत्वयेरेकत्वात् ।। द्वितीयादिष्विति ।। परमते घटज्ञानस्यापि ब्रह्मस्वरूपज्ञानत्वेन द्वितीयादिषु घटज्ञानेष्वज्ञान विरोधित्वरूपज्ञानत्वायोगाज्ज्ञानव्यवहारयोगित्वं ज्ञानत्वम् अस्वाभाविकं ब्रह्मणो जगत्कारणत्वादिवदित्यापाद्यतेत्यर्थः । यत्तु कदाचिदर्थोल्लेखमात्रेण मोक्षेऽर्थाभावेऽप्यर्थप्रकाश-त्वम् उपपद्यते इति । तन्न । कदाचिदावृतत्वमात्रेण मोक्षेऽप्यावृतत्वापातात् । अर्थोल्लेखस्य ज्ञानस्य भावत्वेन मोक्षे तदभावे ज्ञानस्वभावहानेश्चेति भावः ।। अवेद्यत्वाच्चेति ।। तथा चात्मरूपे सुखेऽ-सम्भवः ।। अन्यं प्रतीति ।। मोक्षेऽन्याभावात् ।। वेदनेति ।। वेदनप्रकारभूतस्यानुकूल्यस्य वेदना-दधिकत्वे स्वाभाविकत्वे च सखण्डार्थ(त्व)म् ।। औपाधिकत्व इति ।। उपाधिनिवृत्त्यौपाधिक-निवृत्तेरावश्यकत्वात् ।। एतेनेति ।। आनुकूल्यवन्निरुपाधिकेष्टत्वस्य स्वरूपादधिकस्य स्वाभाविकत्वे औपाधिकत्वे च दोषात् । दुःखाभावेऽतिव्याप्तेश्च ।
यत्तु दुःखाभावोऽपि सुखविशेष एव । अभावस्य विरोधिभावान्तररूपत्वादिति । तन्न । परस्परा-भावरूपयोः सुखदुःखयोर्विरहस्यैकत्र पाषाणादावसत्त्वापत्तेः, अपसिद्धान्ताच्च । मुक्ताविच्छाभावेनानन्दा-भावापाताच्च । न चेष्टत्वोपलक्षितस्वरूपं मोक्षेऽप्यस्तीति वाच्यम् । तथा सति तदुपलक्षितत्वस्य तदाप्यापत्तेश्च ।। विरोधादिति ।। ज्ञानस्य विषयोल्लेखिस्वभावत्वात् ।। विज्ञानमिति ।। विज्ञान-स्यानन्दत्वे विज्ञानपदस्यार्थभूतेन विज्ञानेनानन्दकार्यदुःख व्यावृत्तिसिद्ध्याऽऽनन्दपदस्य वैयर्थ्यं, विज्ञानपदार्थाधिकार्थत्वाभावः । तथा च विज्ञानानन्दयोरेकतरपरिशेषापत्त्या मोक्ष आनन्दप्रकाशो न स्यादिति भावः । यत्तु कल्पितजातिभेदनिबन्धनप्रवृत्तिकपदद्वयस्य व्यावृत्तिभेदेन साफल्यमिति, तदबोधजल्पितम् । न ह्यत्र पदयोर्वैफल्यमापाद्यते । किन्त्वानन्दस्याप्रकाशः ।। आर्थिकत्वेति ।। आनन्दपदेनैव दुःखव्यावृत्तेरभिधानात् ।। उक्तस्येति ।। दुःखाभावोपलक्षितस्वरूपस्य । दुःखा-भावानन्दयोर्द्वयोरुभयमतेऽप्यभावादित्यर्थः ।। अनुपलब्धीति ।। अधिकरणस्वरूपस्याभावस्य यथा-यथमिन्द्रियादिभिरेव बोधनसम्भवात् ।। सत्यत्वेति ।। सत्यब्रह्मरूपत्वात् ।। प्राभाकरमतेऽपीति ।।
यत्र कदाऽपि न प्रतियोगिसम्बन्धस्तत्र तत्स्वरूपत्वमेव कैवल्यम् अन्यत्र तु प्रतियोगि-मदधिकरणकालभिन्न कालावच्छिन्नत्वादिकं कैवल्यं विशेषणं वाच्यम् ।। अन्यथेति ।। कैवल्याद्य-विशेषितस्याधिकरणमात्रस्याभावत्वेऽपि प्राभाकरमतेऽनुपपत्त्यभावे ।। गुणगुणीति ।। यथा प्राभाकरमतं प्रविश्य द्वितीयाभावस्य ब्रह्ममात्रत्वमङ्गीकृत्य ब्रह्मणः सद्वितीयत्वं परिहृतं तथाऽधिकरणाभिन्न-शौक्ल्याद्यङ्गीकर्तृमतं प्रविश्य शक्त्यादिधर्मान्ब्रह्मस्वरूपानङ्गीकृत्य द्वैतपरिहारः सुकर इति किं शक्त्यादीनां मिथ्यात्ववर्णनेनेत्यर्थः । न च शक्त्यादिना सहाभेदग्राहकमानाभाव इति देश्यम् । ‘पराऽस्य शक्तिर्विविधैव श्रूयते’ इत्यादिश्रुत्युक्तशक्त्यादीनां ‘नेह नानास्ति किञ्चन’ इति श्रुत्या भेदनिषेधात् ।। प्रामाणिकत्व इति ।। ननु स्वप्नोपभुक्तनिगरणादेरिव न प्रामाणिकत्वमत उक्तं तत्प्रतियोगिन इति । तद्विरहरूपस्येत्यर्थः ।। अत्यन्ताभावासिद्धिरिति ।। यत्त्वत्यन्ताभावप्रमाया अनुद्देश्य-त्वेऽप्यवान्तरतात्पर्येण तत्सिद्धिरिति, तन्न । सार्वज्ञादिष्ववान्तरतात्पर्याभावम् अत्यन्ताभावे च तद्भावमभिदधानमवधानवन्तं प्रत्यवक्तव्यत्वात् ।। अप्रामाणिकेनेति ।। द्वितीयाभावद्वितीययोर-प्रामाणिकत्वे ब्रह्म प्रत्युपलक्षणत्वे चाविशेषाद्द्वितीयाभावेनाद्वितीयेन स(ह)द्धितीयं कथं न स्यादित्यर्थः ।। सापीति ।।
येन कालेना(विद्या)विद्यमानं सम्बध्यत इत्युच्यते तत्कालस्वरूपमेवोपादानाभावान्न सिद्ध्येत् ।। इदानीमेवेति ।। अन्यदेत्यस्य कालवाचित्वादुपादेयं कालमङ्गीकृत्य तदुपादानाविद्यानङ्गीकारे व्याघातः ।। अनुन्मज्जनं त्विति ।। घटवद्धटनिवृत्तेरपि प्रागभावविरोधित्वाद्यथा घटप्रागभावानुन्मज्जनं तथा घटध्वंसवद्धटध्वंसस्य ध्वंसोऽपि घटविरोधीति न घटोन्मज्जनम् ।। एवं सतीति ।। घट-प्रागभावानुन्मज्जनार्थं घटध्वंसस्य यथा स्थायित्वं मयाऽङ्गीक्रियते तथा घटध्वंसवत् ध्वंसा-दीनामनुन्मज्जनाय कश्चिद् ध्वंसः स्थायीति चरमं गत्वा स्वीकार्यम् । तद्वरं प्रथमत एव ध्वंसे स्थायित्वं स्वीकर्तुमित्यर्थः ।। निष्प्रतियोगिकत्वेनेति ।। ध्वंसस्य नित्यस्याङ्गीकारे निष्प्रतियोगिकत्वेन भाव-रूपाणि ध्वंसत्वादीन्यप्यङ्गीकरणीयानि । आदिपदेन ध्वंसाधिकरणे ध्वंसाधिकरणत्वादीनि ।। एवमिति ।। ब्रह्मण एवोभयावधिराहित्यस्यान्यदीयतथात्वं प्रति विरोधित्वेऽपि मुक्तावतथाभूतान्यसत्वं प्रत्यविरोधित्वात् ।
ननु दृगेव साक्षिशब्देनाभिधीयताम् अतः पाणिनीसूत्रम् पठति– साक्षादिति ।। द्रष्टर्येव साक्षिशब्दस्यानुशासनात् । ननु स्वरूपेण दृशोऽप्यन्योपाधिकं द्रष्टृत्वमत आह– बुद्ध्युपाधिक-स्यापीति ।। तथा च सुषुप्तिसाक्षिण्यव्याप्तिरित्यर्थः ।। बुद्धेरिति ।। साक्षिस्वरूपलाभे तदधीनप्रतीति-मात्रशरीराऽविद्या सिध्येत्तत्सिद्धौ च तत्कार्या बुद्धिस्तत्सिद्धौ च तदुपाधिकस्य द्रष्टृत्वस्य साक्षि-स्वरूपलाभ इति चक्रकाश्रयः । एतेनाविद्यातदुपाधिकद्रष्टृत्वयोरनादित्वादुत्पाद्यप्रतिबन्धकत्वान्न चक्रकादिदोष इति निरस्तम् । परस्परस्वरूपे परस्परापेक्षणात् । न हि द्रव्यत्वगुणवत्त्वयोः स्वरूपेऽ-न्योन्यापेक्षाऽस्ति ।। जीव इति ।। जीवकोटेः साक्षिणः सकाशादिदमंशावच्छिन्नस्य चैतन्यस्य ब्रह्मस्वरूपस्येदमंशप्रकाशकस्य भेदाभावादित्यर्थः । जीवः परिच्छिन्न इति मतेे ब्रह्मचैतन्यस्य घटादि-प्रकाशकत्वात् ।। तेनेति ।। ब्रह्मकोटिना साक्षिणा । ननु ब्रह्मणो दुःखादिधीरेव जीवस्य तद्धीरत आह– अन्यथेति ।। ब्रह्मधिय एव जीवधीत्वे । ननु ब्रह्मचैतन्यस्य घटादिप्रकाशकत्वेऽपि जीवोपाधि-भूतान्तःकरणीयवृत्त्या जीवस्य घटप्रकाशकब्रह्मचैतन्याभेदाभिव्यक्तौ जीवस्य घटप्रकाशकतया ब्रह्मकोटिसाक्षिणो दुःखाद्यनुभवेऽपि तेन जीवस्याभेदाभिव्यक्तौ जीवस्यापि दुःखादिधीर्युज्यत इत्याशङ्क्य निराकरोति– न चेति ।। साक्षिजीवयोरेकोपाध्यवच्छिन्नत्वाभावादित्यर्थः ।। ईश्वरेणेवेति ।। चिन्मात्ररूपः साक्षी ईश्वरवत्स्वाश्रितत्वेन दुःखम् अगृह्णन्नपि परकीयदुःखोल्लेखित्वाद्दुःखोपप्लुत एवातस्तद्भावापत्तिरूपा मुक्तिरप्यपुरुषार्थः स्यात् ।
सुप्तेति ।। चैत्रं प्रति चैत्रदुःखादेश्चैत्रीयतया ग्राहकस्य चिन्मात्ररूपसाक्षिणो मैत्रं प्रत्यप्यननु-गतत्वात् ।। साक्षात्कर्तव्येति ।। चिन्मात्रस्य साक्षीतरस्य मुक्तत्वान्न तत्र संसारोपप्लवः । सुप्तमैत्रे चाविद्यावृत्तिश्चैत्रदुःखाकारा नास्तीति न तं प्रति चैत्रदुःखग्रह इत्यत आह– नापीति ।। दुःखा-देरिति ।। दुःखे हि सति तदाकारा वृत्तिः स्यात् । अतो दुःखाद्यनन्तरभाविनी सा इत्युक्तम् । ननु वृत्त्यर्थौ समकालमेवोत्पद्येते इत्यत आह– अविद्यावृत्तेरिति ।। अविद्यावृत्तौ सत्यां तत्प्रति-फलितचैतन्यरूपसाक्षिसिद्धिः । तत्सिद्धौ साक्षिरूपप्रतीतिमात्रशरीराविद्यावृत्तिसिद्धिरित्यन्योन्याश्रयः । यत्तु साक्षिणः सर्वजीवसाधारणत्वेऽपि तत्तज्जीवचैतन्याभेदेनाभिव्यक्तस्य तत्तद्दुःखादिभासकतया नातिप्रसङ्ग इति, तन्न । आवरणाभिभवद्वाराऽभेदाभिव्यञ्जिकाया अन्तःकरणवृत्तेः सुखादावभावात् । अविद्यावृत्तेरावरणानिवर्तकत्वात् ।
।। परमते ब्रह्मणो ज्ञानत्वानन्दत्वाद्वितीयत्वनित्यत्वसाक्षित्वभङ्गः ।। ७ ।।