तस्मादनिर्वाच्यख्यात्यसम्भवाद्..
७४. स्वाभिमतान्यथाख्यातिसमर्थनम्
न्यायामृतम्
तस्मादनिर्वाच्यख्यात्यसम्भवाद् उद्बुद्धरूप्यसंस्कारसचिवं दुष्टेन्द्रियं स्वसन्निकृष्टं शुक्तीदमंशमत्यन्तासद्रूप्यात्मना गृह्णातीत्यन्यथाख्यातिरेव युक्ता । रूप्यस्यासत्त्वे चासदेव रूप्यमभादिति प्रत्यक्षम्, विमतमसत् सत्त्वानधि-करणत्वान्नृशृृङ्गवत्, अप्रमा असद्विषयिका सत्त्वानधिकरणविषयकत्वात्, सन्मात्राविषयकत्वे सति सविषयकत्वाच्च असद्विषयकपरोक्षज्ञानवद् इत्या-द्यनुमानं च मानम् । न चैवमसत्ख्यात्यापत्तिः, मन्मते रूप्यस्या-सत्त्वेऽपीदमंशस्य सत्त्वेन बाह्यमत इवेदं रूप्यमिति ज्ञाने भातस्य सर्वस्याप्य-सत्त्वाभावात् । अन्यथा औतिमतेऽपि सदन्यप्रतीतेरसतश्च परोक्षप्रतीते-स्तार्किकमते शुक्तिः रूप्यं चेत्युभयतादात्म्यस्य वा संसर्गस्य वाऽसत एव प्रतीतेर्बाह्यमतापत्तिः ।
ननूभयं तादात्म्यं चेत्यतोऽधिकस्य तस्याभावात्तयोश्च सत्त्वान्नासतः ख्यातिरिति चेन्न, रूप्यतादात्म्यस्य रूप्यत्वसंसर्गस्य चेदमंशनिष्ठत्वेनाग्रहणे इदं रूप्यं चेतिज्ञानाकारापातेनेदं रूप्यत्वेन ज्ञातमित्यनुव्यवसायायोगात्, पुरोवर्तिनिष्ठाभेदाग्रहे प्रवृत्त्यनुपपत्तेश्च सन्मात्रविषयकत्वे अप्रमाण्यायोगाच्च । न च तथात्वेऽपि तदभाववति तत्प्रकारकत्वरूपमप्रामाण्यविरुद्धमिति वाच्यम्, तत्प्रकारकत्वस्यापि तद्वैशिष्ट्यविषयकत्वरूपत्वेनासत इदंरूपत्ववैशिष्ट्यस्य प्रतीतेर्दुर्वारत्वात् । न च तद्विशेषणज्ञानजन्यत्वं तत्प्रकारकत्वं तस्यापि तद्वैशिष्ट्यविषयकत्वव्याप्तत्वात्, तद्वैशिष्ट्यस्याभानेऽनुव्यवसायविरोधस्योक्त-त्वाच्च । ईश्वरज्ञानस्य निष्प्रकारकत्वेन निर्विकल्पकत्वापाताच्चेति ।
अद्वैतसिद्धि:
असत्ख्यातिभङ्गः- तस्मादनिर्वाच्यख्यातिरेव प्रमाणसम्भवात्, न त्वसदन्यथाख्यातिः, प्रमाणविरहात् । न चासद्भाने असदेव रजतमभादिति प्रत्यक्षं मानम्, अनन्तरोक्तबाधकेन सद्वैलक्षण्यविषयकत्वात् । न चेदं प्रत्यक्षमपि, त्वयापि हि असदात्मना सतः प्रत्यक्षत्व-मङ्गीक्रियते । न चात्र पूर्वकालीनभानविषये रजते असत्त्वमिति ज्ञानम् असदात्मना सद्विषयीकरोति ।
न च ‘विमतमसत्, सत्त्वानधिकरणत्वात्, शशशृृङ्गवत् । विमता अप्रमा असद्विषयिणी, सत्त्वानधिकरणविषयकत्वात्, सन्मात्रविषयकत्वे सति सविषयकत्वात्, नृशृृङ्गमसदित्यादि-वाक्यजन्यपरोक्षवत्’ इति अनुमानं तत्र मानम् । पूर्वोक्तयुक्त्या तत्र बाधात् । प्रथमानुमाने शब्दैकसमधिगम्यत्वस्य द्वितीयतृतीययोः परोक्षत्वस्योपाधित्वाच्च । किञ्चासत्ख्यात्यङ्गीकारेण बौद्धमतप्रवेशापत्तिः । न च सदुपरागो विशेषः, तथाप्यसत्ख्यात्यापत्तेः तदवस्थत्वात् । न च तार्किकैरपि असतः संसर्गस्य भानाङ्गीकारेण तेषामप्येवमापाद्येतेति वाच्यम्, तथाङ्गीकारे तेषामपि तथैव । वस्तुतस्तु तेषामपि तत्संसर्गभान एव निर्भरता । शुक्ती रूप्यं तत्तादात्म्यं चेत्यतोऽन्यस्य रजतभ्रमे अविषयत्वात्, तेषां च सत्यत्वात् । न च तर्हि भ्रमत्वानुपपत्तिः, व्यधिकरणप्रकारकत्वेन तत्त्वात् । न च रजतप्रतियोगिकसंसर्गस्य शुक्त्यनिष्ठत्वादसत्संसर्ग-भानं विना व्यधिकरणप्रकारकत्वमेव न स्यादिति वाच्यम्, तत्किमायुष्मन्नसत्संसर्गः शुक्ति-निष्ठः, येन तद्विषयत्वं व्यधिकरणप्रकारकत्वाय अङ्गीकुरुषे ? तस्माद् भासमानवैशिष्ट्य-प्रतियोगित्वं न प्रकारत्वम्, किन्तु ज्ञानविषययोः, स्वरूपसम्बन्धविशेषः । स च स्वरूप-सम्बन्धः सन् वा संसर्गो भासतामसन्वा, उभयथापि समान एव । न च शशशृृङ्गमस-दित्यादिवाक्यैरसत्यपि परोक्षप्रतीतेस्त्वयाङ्गीकारेण तवाप्यसत्ख्यात्यापत्तिः, तत्र हि न प्रतीतिः, किन्तु विकल्पमात्रमित्युक्तत्वात् । तस्मान्नासत्ख्यातिः । इत्यसत्ख्यातिभङ्गः ।
अन्यथाख्यातिभङ्गः– नाप्यन्यत्र स्थितस्य रूप्यस्य भानादन्यथाख्यातिः, अत्यन्तासत इवान्यत्र सतोऽप्यपरोक्षप्रतीतिप्रयोजकसन्निकर्षानुपपत्तेस्तुल्यत्वात् । न च संस्कारस्मृति-दोषाणां प्रत्यासत्तित्वम्, रजतप्रत्यक्षमात्रे रजतसंयोगत्वेन कारणत्वावधारणात्, सन्निकर्षान्तरसत्त्वेऽपि तदभावे रजतप्रत्यक्षोत्पत्तेर्वक्तुमशक्यत्वात् । न च लौकिक-प्रमारूपप्रत्यक्ष एव तस्य कारणत्वम्, अस्य विभागस्य स्वशिष्यानेव प्रत्युचितत्वात्, गौरवकरत्वात्, निर्विकल्पकसाधारण्याभावाच्च । रजतेन्द्रियसन्निकर्षजस्य रजते रजतत्व-प्रकारकज्ञानस्य भ्रमत्वानुपपत्तेः । ‘इमे रङ्गरजते’ इति भ्रमे विद्यमानोऽपि रजतसन्निकर्षो जनको न भवति, अनुमिताविव क्वचिद्विद्यमानोऽपि विषयः । अथानुमितेर्विषयजन्यत्वे प्रत्यक्षत्वापत्तिः, अतीते अनागते च विषये अनुमितिर्न स्यादिति बाधकम्, रजतप्रत्यक्षस्य रजतसन्निकर्षजन्यत्वे प्रमात्वापत्तिः, असन्निकर्षे च तत्प्रत्यक्षं न स्यादिति बाधकं प्रकृतेऽपि तुल्यम् । यदि तु दोषमहिम्ना रजतसन्निकर्षस्य रङ्गज्ञानांशे जनकत्वम्, रङ्गसन्निकर्षस्य च रजतज्ञानांशे, तदा रजतज्ञानांशे तत्सन्निकर्षाजन्यत्वात् प्रमात्वाभाववत् प्रत्यक्षत्वाभावोऽपि स्यात् । तस्मात् ‘इमे’ इत्येवेन्द्रियजन्यम्, ‘रङ्गरजते’ इति तु स्मृतिरूपमविद्या-वृत्त्यात्मकमनिर्वचनीयत्वादित्यन्यत्र विस्तरः ।
न्यायामृततरङ्गिणी
असदेव रूप्यमभादितीति ।। न चासदात्मना सदभादिति बाधस्याकारः स्यादिति वाच्यम् । एकदेशबाधेनैव विशिष्टबाधसम्भवात् ।। विमतमित्यादि ।। न चाद्यानुमाने शब्दैकसमधिगम्यत्वं द्वितीयतृतीययोश्च परोक्षत्वमुपाधिरिति वाच्यम् । प्रथमोपाधौ शाब्दज्ञानानुव्यवसायविषये नृशृृङ्गादौ द्वितीये तथाविधानुव्यवसायादौ साध्याव्याप्तेः । उपाधिमति ब्रह्मणि तज्ज्ञाने वा साध्याभावादप्रयोजकत्वं च ।। इदमंशनिष्ठत्वेनाग्रह इति ।। रूप्यतादात्म्ये रूप्यत्वसंसर्गे चेदमंशनिष्ठत्वमसदेवेत्यर्थः ।। इष्टाभेदेति ।। पुरोवर्तिनीष्ठाभेदस्यासत्त्वात् । भेदाग्रहस्य त्वप्रयोजकत्वात् ।। सन्मात्रेति ।। न च व्यधिकरणप्रकारकत्वेनाप्रामाण्यमिति वाच्यम् । व्यधिकरणप्रकारकत्वं हि तदुल्लेखित्वं वा तस्य ज्ञानेन स्वरूपसम्बन्धो वा । उभयमपि व्यधिकरणं प्रकारं व्यधिकरणत्वेनोल्लिखति ज्ञानेऽप्यस्ति । तस्मात्तथाविधप्रकारस्य पुरोवर्तिनिष्ठत्वेन ग्रहणमेव व्यधिकरणप्रकारक-त्वम् । तच्चासदेवेत्यसद्विषयसत्तानिश्चयत्वेनैवाप्रामाण्यमिति वयमालोचयामः ।। तस्या-पीति ।। तद्वैशिष्ट्यविषयकत्वावच्छेदेनैव विशेषणज्ञानस्य जनकत्वादित्यर्थः ।। उक्त-त्वादिति ।। इदं च रूप्यं च जानामीति तदाकारापत्तेरुक्तत्वात् ।। निष्प्रकारकत्वेनेति ।। विशेषणज्ञानजन्यत्वाभावान्निष्प्रकारकत्वापातेनेत्यर्थः । स्वाभिमतान्यथाख्यातिसमर्थनम् ।।
न्यायामृतकण्टकोद्धारः
नन्वेवमनिर्वचनीयख्यात्यनभ्युपगमेऽख्यातिपक्षस्वीकारेऽनुभवविरोधः । ननु च वार्तिकाभिमतान्यथाख्यातिस्वीकारेऽपसिद्धान्त इत्यतोऽन्यथैवान्यथाख्याति स्वरूपमभि-हितम् ।। शुक्तीदमंशमिति ।। असदिति स्वरूपकथनम् । असत्त्वस्य बाधैकवेद्यत्वेनऽ-न्यथाख्यात्यवेद्यत्वात् । ननु रूप्यस्यासत्त्वे प्रमाणाभावात् कथं तदसत्त्वमित्यत आह ।। रूप्यस्यासत्त्व इति ।। असदेवेति ।। न चानन्तरोक्तबाधकेनोक्तप्रत्यक्षं सद्वैलक्षण्य-मात्रविषयकमिति वाच्यम् । बाधकस्य परिहृतत्वात् । भ्रान्तेरपि असद्वैलक्षण्यविषयकत्व-सम्भवेन भ्रान्तित्वानुपपत्तेश्च । न चेदं पूर्वविरुद्धम् । असद्रूप्यात्मना सतो भानमन्यथा-ख्यातिरित्युक्तम् । तथात्र सतः स्फुरणमस्तीति वाच्यम् । अत्रासदेव रूप्यमभादिति वा इदमसद्रूप्यात्मनाभातीति वा प्रत्यक्षस्यानेनोपलक्षणान्नोक्तदोषः ।। विमतमिति ।। न च हेतुसाध्ययोरविशेष इति वाच्यम् । अन्योन्याभावात्यन्ताभावविषयत्वेन भेदात् । असत्पदवाच्यत्वस्य सिषाधयिषितत्वे दोषाभावाच्चेति । न च प्रथमानुमाने शब्दैक-गम्यत्वमुपाधिरिति वाच्यम् । असतोऽपि प्रत्यक्षत्वस्योपपादितत्वेन साध्याव्यापकत्वात् । असति शब्दवत् करणान्तरस्यापि सम्भवाच्च । न च द्वितीयतृतीयानुमानयोः परोक्षत्वमुपाधिरिति वाच्यम् । पूर्वाक्तयुक्त्यैव साध्याव्यापकत्वात् । अप्रयोजकत्वे-नानुपाधित्वाच्च ।। मन्मत इति ।। सदुपरागेणासद्भानं सर्वैरप्यङ्गीकरणीयम् । अन्यथा भ्रमानुपपत्तेरन्यत्रोपपादितत्वादिति भावः ।। अन्यथेति ।। यदि यथाकथञ्चिदसद्भान-मात्रेणासत्ख्यातिस्तदाऽतिप्रसङ्ग इति भावः । न च सदन्यप्रतीतावप्यसतोऽ-प्रतीतेर्नासत्ख्यातिरिति वाच्यम् । सदन्यत्वातिरिक्तासत्त्वस्य निर्वक्तुमशक्यत्वादिति पूर्वमेवोक्तत्वात् । न च मया परोक्षस्थले विकल्पमात्रमङ्गीक्रियतेऽतो नासत्ख्यातिरिति वाच्यम् । विकल्पस्य ज्ञानातिरिक्तस्य वक्तुमशक्यत्वस्य प्रागेवोपपादितत्वात् । तार्किक-मतेऽसत्ख्यातिं परिहर्तुं शङ्कते ।। नन्विति ।। अत्र वक्तव्यम् । रूप्यतादात्म्यं वा रजतत्वसंसर्गो वा शुक्तिनिष्ठत्वेन गृह्यते न वा ? आद्ये तस्यासत्त्वेन नासत्ख्याति-परिहारः । न च तस्यात्र असत्त्वेऽपि देशान्तरे सत्त्वान्नासत्ख्यातिरिति वाच्यम् । अत्र भातस्य देशान्तरे सत्त्वे प्रमाणाभावादित्यन्यत्रोपपादितत्वात् । द्वितीय आह रूप्य-तादात्म्यस्येति ।। रूप्यत्वेनेति ।। प्रकारत्वस्य तृतीयार्थत्वात् तस्य च संसर्ग-घटितत्वादिति भावः ।। तस्यापीति ।। तद्विशेषणत्वस्य भासमानतद्वैशिष्ट्यप्रतियोगित्व-रूपत्वादिति भावः ।। ईश्वरज्ञानस्येति ।। न च तत्र भासमानवैशिष्ट्यप्रतियोगित्वमेव प्रकारत्वमिति न निर्विकल्पकत्वापत्तिरिति वाच्यम् । तथात्वे तस्यैव सार्वत्रिकत्वेन प्रकारत्वे सम्भवति अस्याव्यापकस्यानुपादेयत्वादिति भावः । तस्माद्दोषमहिम्ना शुक्तीदमंशं रूप्यात्मनाऽवगाहत इत्यन्यथाख्यातिरिति वाच्यम् । न च रजतप्रत्यक्षे रजतसंयोगत्वेन कारणत्वात् तदभावे कथं तत्प्रत्यक्षमिति वाच्यम् । लाघवात् सन्निकर्षत्वेनैव कारणत्वात् । संयोगत्वस्य जातित्वेऽप्यसामान्यरूपत्वात् । सन्निकर्षस्य च यस्य कस्यचित् सम्भवात् दोषवशादसन्निकृष्टस्यापि प्रत्यक्षे भानेऽतिप्रसङ्गाभावाच्च । प्रमायां तथा कारणत्वाच्च । न च गौरवम् । भ्रमस्य प्रकारान्तरेणोपपादयितुमशक्यत्वे गौरवस्य प्रामाणिकत्वात् । न च सन्निकर्षजन्यत्वे प्रमात्वापत्तिरिति वाच्यम् । संस्कारादिरूपसन्निकर्षजन्यत्वेऽपि व्यधिकरणप्रकारकत्वेन भ्रमत्वसम्भवात् । अत एव इमे रङ्गरजते इति ज्ञानस्य प्रमात्वापत्तिरिति परास्तम् । तस्यापि व्यधिकरणप्रकारकत्वेन भ्रमत्वात् । तस्य च बाधैकवेद्यत्वात् । न चैवं तार्किकाभिमतान्यथाख्यातिस्वीकारेऽपसिद्धान्त इति वाच्यम् । अभ्युच्चयवादत्वेनापसिद्धान्तत्वाभावात् । सन्निकर्षाभावप्रयुक्ततदभावमात्रस्य खण्डितत्वात् । प्रतीतस्य रजतस्यान्यत्र सत्त्वानङ्गीकारेण तदभावाच्चेत्यलं पल्लवेन ।
न्यायामृतप्रकाशः
रूप्यस्यासत्त्वे च प्रत्यक्षमनुमानं च मानमित्यन्वयः ।। सन्मात्रेति ।। सविषय-कत्वमात्रम् । ‘अयं घटः’ इत्यादि प्रमायां व्यभिचारीत्यतः सदसद्विषयकत्वे सतीत्युक्तम् । तथात्वेऽप्रमायामपि इदमंशरूपसदर्थविषयकत्वेन विशेषणासिद्धिवारणाय मात्रपदम् । सन्मात्र-विषयकत्वात् न स्वरूपासिद्धिः । निर्विषयके घटादौ व्यभिचारवारणाय विशेष्यभाग इति ज्ञातव्यम् । एवम् अप्रमाया असद्विषयकत्वे ।। असदिति ।। तथा च बौद्धतापत्तिरिति भावः ।। सर्वस्यापीति ।। अधिष्ठानादेः सर्वस्यापीत्यर्थः ।। अन्यथेति ।। अस्मा-स्वसत्ख्यात्यापादन इत्यर्थः ।। सदन्यप्रतीतेरिति ।। सद्विलक्षणस्य रूप्यस्य प्रतीत्यङ्गी-कारादसत्ख्यात्यापत्तिः । सद्वैलक्षण्यस्यैवासत्वरूपत्वात् । तृतीयकोटेश्च दूषितत्वात् । अतस्त्वन्मतेऽपि मन्मते इव बौद्धमतापत्तिरिति भावः ।। परोक्षेति ।। तथा चासतः ख्यातिरङ्गीकृतेति बौद्धमतापत्तिरित्यन्वयः । तादात्म्यसंसर्गोभयारोपाभिप्रायानुसारेणाह ।। शुक्तिरूप्येत्यादि ।। तार्किकः शङ्कते ।। नन्विति ।। अधिष्ठानमारोप्य चेत्युभयम् । इह रूप्यम् इत्यत्रेदं पदार्थः । रूप्यं तादात्म्यं चेति त्रितयातिरिक्तं न प्रतीयते । तत् त्रयं चान्यत्र सदेवेति भावः । तस्य भ्रमप्रतीतपदार्थस्य ।। रूप्येति ।। इदं रूप्यमित्यत्रेद-मंशानुयोगित्वेन रूप्यप्रतियोगित्वेन च तादात्म्याभाने एकज्ञानत्वायोगेन इदं रूप्यं चेति ज्ञानद्वयापत्तिः । न चेष्टापत्तिः । तथात्वे इदं जानामि रूप्यं च जानामीति अनुव्यवसाया-पातेन इदं रूप्यत्वेन जानामीति ज्ञानैकत्वावगाह्यनुव्यवसायायोग इत्यर्थः ।। पुरोव-वर्तीति ।। इदमंशानुयोगिकरूप्यप्रतियोगिकतादात्म्याभाने इदं रूप्यमिति ज्ञानात् प्रवृत्तिरेव न स्यात् । पुरोवर्तिनि इदं पदार्थे दृष्टं यत् रजतं तदभेदग्रहस्यैव प्रवर्तकत्वेन तदभावात् । न च भेदाग्रहस्यैव प्रवर्तकत्वमिति वाच्यम् । नञ्द्वयगर्भत्वेन गौरवात् अभेदग्रहस्यैव प्रवर्तकत्वमिति तादात्म्यमत्यन्तासदेव च प्रतीयत इति भावः ।
ननूक्तानुमाने द्वितीयहेतोर्विशेषणासिद्धिः । भ्रमे प्रतीयमानं सर्वं सदेवेति मयाऽङ्गीकारात् । अतः सन्मात्रविषयकत्वमेवेति चेत् तत्राह ।। सन्मात्रेति ।। असदर्थविषयकत्वस्यैवा-प्रामाण्यप्रयोजकत्वात् तस्य चानङ्गीकारादिति भावः ।। तथात्वेऽपीति ।। सन्मात्रविषय-कत्वेऽपि ।। तदभाववतीति ।। विशेष्यताव्यधिकरणप्रकारकत्वं ह्यप्रामाण्यम् । विशेष्यता-व्यधिकरणभूतो रजतत्वादिः प्रकारश्चान्यत्र सन्नेवात्र दोषवशात् भासते । परं तु पुरोवृत्तिनि नास्ति । तावतैवाप्रामाण्यं, न तावता तस्यासत्वमिति भावः ।। तदिति ।। विषयशब्दः प्रतियोगिकत्वार्थः । अन्यथाऽनुयोगितया विशिष्टाविषयत्वं तत्प्रकारकत्वमित्यर्थः । तत्प्रकारकत्वं ज्ञाने च तद्वैशिष्ट्यविषयकत्वम् । तथा चास्तु तस्य रजतत्वस्यान्यत्र सत्वम् । तत्तावदत्र प्रकारतया भासत इत्यङ्गीकृतम् । तत्र प्रकारत्वं नाम भासमान-वैशिष्ट्यप्रतियोगित्वम् । एवं चेदं पदार्थे यद् रूप्यवैशिष्ट्यं समवायरूपं तद्भासत इत्यङ्गी-कार्यम् । अन्यथा रजतत्वस्य निरुक्तप्रकारत्वायोगात् । अतोऽसतो वैशिष्ट्यस्य तन्मतेऽपि भानसिद्धेर्न सन्मात्रविषयकत्वमिति न विशेषणासिद्धिरिति भावः ।
ननु ज्ञानस्य तत्प्रकारकत्वं नाम न भासमानवैशिष्ट्यप्रतियोगित्वं, किं नाम? विशेषणज्ञानजन्यत्वमेव । अतो नासतो वैशिष्ट्यस्य भानसिद्धिरिति चेत् तत्राह न चेति ।। तदविशेषणज्ञानजन्यत्वतद्वैशिष्ट्यविषयकत्वमेव निर्विकल्पकव्यावृत्तं वाच्यम् । तथा च तद्वैशिष्ट्यविषयकत्वावच्छेदेनैव विशेषणज्ञानस्य जनकत्वेन विशेषणज्ञानजन्यतायाः तद्वैशिष्ट्य- विषयकज्ञानत्वव्याप्तत्वात् विशेषणज्ञानजन्यत्वाङ्गीकारे वैशिष्ट्यविषयकत्वं प्राप्तमेवेति असतो वैशिष्ट्यस्य प्रतीतिसिद्धिरित्यर्थः ।। अनुव्यवसायेति ।। रूप्यत्वसंसर्गरूपवैशिष्ट्याभाने इदं रूप्यं चेति ज्ञानाकारापत्त्या इदं जानामि रूप्यं च जानामीत्यनुव्यवसायाकारापत्तेः इदं रूप्यत्वेन जानामीति ऐक्यावगाह्यनुव्यवसायविरोधस्योक्तत्वादित्यर्थः । तेन व्यवसाये वैशिष्ट्यविषयकत्वावगाहनादिति भावः । अङ्गीकृत्येदमुदितम् । वस्तुतस्तु तद्विशेषण-ज्ञानजन्यत्वं तत्प्रकारकत्वं न भवति ईश्वरज्ञानस्य नित्यत्वेन विशेषणज्ञानजन्यत्वाभावात् निष्प्रकारकत्वापत्तेः । ततश्च निर्विकल्पकत्वं स्यात् । तस्मात् वैशिष्ट्यविषयकत्वमेव तत्प्रकारकत्वं वाच्यम् । तथा चासतोऽपि वैशिष्ट्यस्य भानप्राप्त्या सन्मात्राविषयकत्वेन विशेषणासिद्ध्यभावात् अप्रमाया असद्विषयकत्वसिद्धिः । तथा च रूप्यस्यात्यन्तासत्वेन नाज्ञानोपादानकत्वं वा तत्त्वज्ञाननाश्यत्वं वेति भावेनाह ।। ईश्वरेति ।। निष्प्रकार-कत्वेनेति ।। निष्प्रकारकत्वापत्तेरित्यर्थः । नित्यत्वेन विशेषणज्ञानजन्यत्वाभावादिति भावः ।
न्यायकल्पलता
स्वाभिमतान्यथाख्यातिं समर्थयते ।। तस्मादिति ।। उक्तयुक्तिजातात् ।। असदेव रूप्यमभादितीति ।। न चासदात्मना सदभादिति बाधस्याकारः स्यादिति युक्तम् । एकदेशबाधेनैव विशिष्टबाधसम्भवात् ।। विमतमित्यादि ।। न चाद्यानुमाने शब्दैक-समधिगम्यत्वं द्वितीयतृतीययोश्च परोक्षत्वमुपाधिरिति वाच्यम् । प्रथमोपाधौ शाब्दज्ञानानु-व्यवसायविषये नृशृृङ्गादौ द्वितीये तथाविधानुव्यवसायादौ साध्याव्याप्तेः । उपाधिमति ब्रह्मणि तज्ज्ञाने वा साध्याभावादप्रयोजकत्वं च । शङ्कते ।। नन्विति ।। उभयम् ।। अधिष्ठाने इदमंशं रजतं चेति द्वयमित्यर्थः ।। इदमंशनिष्ठत्वेनाग्रहणे इति ।। रूप्यतादात्म्ये रूप्यत्वसंसर्गे च यदिदमंशनिष्ठत्वमसदेवेत्यर्थः ।। इष्टाभेदेति ।। पुरोवर्तिनीष्टाभेदस्या-सत्त्वात् । भेदाग्रहमात्रस्य त्वप्रवर्तकत्वात् ।। सन्मात्रेति ।।
ननु सन्मात्रविषयत्वेऽपि विशष्यनिष्ठात्यन्ताभावप्रतियोगिधर्मप्रकारकत्वेन अप्रामाण्य-मप्रतिहतम् इत्याशङ्क्य निराचष्टे ।। न चेति ।। तदिति ।। विशेष्यवृत्तितयाभासमान-वैशिष्ट्यप्रतियोगिधर्मप्रकारकत्वस्येत्यर्थः । व्यधिकरणप्रकारकत्वं हि तदुल्लेखित्वं वा तस्य ज्ञानेन स्वरूपसम्बन्धो वा । उभयमपि व्यधिकरणं प्रकारं व्यधिकरणत्वेनोल्लिखति । ज्ञानेऽप्यस्ति । तस्मात्तथाविधप्रकारस्य पुरोवर्तिनिष्ठत्वेन ग्रहणमेव व्यधिकरणप्रकारकत्वम् । स च प्रकारो सन्नेवेत्यसद्विषयस्यानिश्चयत्वेनैवाप्रामाण्यमिति भावः । यद्वा प्रकारकत्वं ज्ञानविषययोः स्वरूपसम्बन्धविशेषः । स च प्रमायां सन्न प्रमायामसन्निति बोध्यम् ।। तस्यापीति ।। अपिशब्दोऽभ्युपगमवादाभिप्रायः । तद्वैशिष्ट्यविषयकत्वावच्छेदेनैव विशेषण-ज्ञानस्य जनकत्वादित्यर्थः ।। उक्तत्वादिति ।। इदं च रूप्यं च जानामीति तदाकारा-पत्तेरुक्तत्वादित्यर्थः ।। निष्प्रकारकत्वेनेति ।। विशेषणज्ञानजन्यत्वा भावान्निष्प्रकार-कत्वापातेनेत्यर्थः । न चासत्ख्यात्यङ्गीकारेण बौद्धमतप्रवेशापत्तिरिति वाच्यम् । सदुपरक्ता-सत्ख्यात्यङ्गीकारेण निरालम्बनख्यात्यनङ्गीकारात् । अन्यथा बाधानुपपत्तेरिति भावः । स्वाभिमतान्यथाख्यातिसमर्थनम् ।।
।। इति स्वाभिमतान्यथाख्यातिसमर्थनम् ।।