किं चोपजीव्यत्वात्प्राबल्यमक्षस्य श्रुतेः स्मृतित इव
२१. प्रत्यक्षस्य उपजीव्यत्वेन प्राबल्यम्
न्यायामृतम्
किं चोपजीव्यत्वात्प्राबल्यमक्षस्य श्रुतेः स्मृतित इव । तच्चाक्षेणानुमितिकारणस्य पक्षसाध्यहेतुव्याप्त्यादेः, शाब्दधीहेतोः शब्दस्वरूपस्य, तद्धर्मस्य योग्यतादेः, उपक्रमोपसंहारैकरूप्यादेः, अनुमितिशाब्दधीस्वरूपतत्प्रामाण्यादेश्च ग्राह्यत्वात् । यदा हि घटो व्यापकः सत्त्वादित्यत्राक्षं धर्मिमात्रग्राहित्वेन, शुचि नरशिरःकपालं प्राण्यङ्गत्वादित्यत्र शब्दः साध्यमात्रग्राहित्वेन, मनो विभु ज्ञानासमवाय्या धारत्वादित्यत्रानुमानं हेतुमात्रग्राहित्वेनाऽनुमानस्योपजीव्यम् । तदेह प्रत्यक्षं लिङ्गशब्दापेक्षितसर्वग्राहीति कथं नोपजीव्यम् ? चक्षुरादेः शब्दतज्जन्यज्ञान प्रामाण्याद्यग्राहित्वेऽपि तद्ग्राहिश्रोत्रसाक्ष्यादिसजातीयत्वात् रूपादिधर्म्यंशे साक्षादुप-जीव्यत्वाच्च प्राबल्यम् । दृष्टं च नरशिरःकपालाशुचित्वागमस्य तच्छुचित्वानुमानात् उपजीव्यशुचित्वग्राहिशब्दसाजात्यमात्रेण प्राबल्यम् । यद्यपीन्द्रियमनुमेयम्, तथापि तस्याज्ञातकरणत्वान्नानुमोपजीव्या । अक्षाप्रामाण्ये हि तत्सिद्धस्य व्याप्त्यादे-र्योग्यतादेश्च बाधेनानुमेयस्य शब्दार्थस्य च बाधः स्यात् । अनुमेयस्य व्याप्त्यादि-नाऽनुमितिप्रामाण्यादिना, शब्दार्थस्य च योग्यतादिना शाब्दधीप्रामाण्यादिना च तुल्ययोगक्षेमत्वात् । अन्यथा प्रातिभासिकव्याप्त्यादिमता बाष्पाध्यस्तधूमेन तात्त्विको व्यावहारिको वाऽग्निः, व्यावहारिकव्याप्त्यादिमता च धूमेन तात्त्विकोऽग्निः, व्यावहारिकेणाबाधेन विरुद्धधर्माधिकरणत्वेन च विश्वस्य जीवेशभेदस्य च तात्त्विकत्वं सिध्येत् । प्रातिभासिकयोग्यतादिमताऽनाप्तवाक्येन च तात्त्विको व्यावहारिको वाऽर्थः, व्यावहारिकयोग्यतादिमता च लौकिकवाक्येनाग्निहोत्रादि-वाक्येन च तात्त्विकोऽर्थः सिध्येत् । प्रतिबिम्बस्य मिथ्यात्वेऽपि बिम्बरहितावृत्तिरूपा व्याप्तिरस्त्येव । न च धूमस्य तात्त्विकाग्निना न व्याप्तिः, दृश्यत्वस्य तु तात्त्विक-मिथ्यात्वेन व्याप्तिरित्यस्ति । न ह्यद्यापि मिथ्यात्वप्रमाणं तत्त्वावेदकमन्यदतत्वा-वेदकमिति व्यवस्था सिद्धा । येन क्लृप्तनियमत्यागः । अकस्मात् त्यागे च दृश्यत्वस्य मिथ्यात्वनियमोऽपि त्याज्यः ।
अद्वैतसिद्धिः
ननु – उक्तन्यायैः प्रत्यक्षस्य जात्या प्राबल्याभावेऽपि उपजीव्यत्वेन प्राबल्यम् । उपजीव्यत्वं चानुमानागमापेक्षिताशेषार्थग्राहतकतया । सा च क्वचित् साक्षात् क्वचित्परम्परया । दृष्टं चापेक्षितैक-देशग्राहिणामप्युपजीव्यत्वम्, तद्विरुद्धग्रहणे तेन बाधश्च । यथा घटविभुत्वानुमाने पक्षग्राहिणा अक्ष्णा, नरशिरश्शुचित्वानुमाने साध्यग्राहकेणागमेन, मनोवैभवानुमाने ज्ञानासमवाय्याधारत्व-हेतुग्राहकेणानुमानेन । किमु वक्तव्यमपेक्षिताशेषग्राहिणा स्वविरुद्धग्राहकस्य बाधः? चक्षुरादेश्च शब्दतज्जन्यज्ञानप्रामाण्याद्यग्राहित्वेऽपि तद्ग्राहिश्रोत्रसाक्ष्यादिसजातीयत्वादुपजीव्यत्वम् । दृष्टं च नरशिरःकपालाशुचित्वबोधकागमस्य तच्छुचित्वानुमानोपजीव्यशुचित्वागमसजातीयत्वेन तदनुमानात् प्राबल्यम् । न चेन्द्रियमपि स्वज्ञानार्थमनुमानमुपजीवतीति सम एवोपजीव्योपजीवकभावः । अज्ञातकरणतया ज्ञानजननार्थमनुमानानपेक्षणात् । अनुमानागमादिना तु ज्ञानजननार्थमेव तदपेक्षणादिति विशेषाद् इति चेन्न । उपजीव्याविरोधात् । तथा हि – यत्स्वरूपमुपजीव्यते तन्न बाध्यते । बाध्यते च तात्त्विकत्वाकारः । स च नोपजीव्यते । कारणत्वे तस्याप्रवेशात् । तदुक्तम्–
‘पूर्वसम्बन्धनियमे हेतुत्वे तुल्य एव नौ ।
हेतुतत्वबहिर्भूतसत्त्वासत्त्वकथा वृथा ।।’ इति
किञ्चापेक्षितग्राहित्वमात्रेण चेदुपजीव्यता, तया च बाधकत्वम्, तदाऽपेक्षितप्रतियोगिग्राहकत्वेन ‘इदं रजतम्’ इति भ्रमस्य बाधोपजीव्यत्वात् कथं ‘नेदं रजतम्’ इति बाधबुद्धिस्तद्विरुद्धोदियात्?
न्यायामृततरङ्गिणी
श्रुतेः स्मृतित इति । प्रथमस्य तृतीयेऽभिहितम् । ‘‘धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यात्’’ । मन्वादिस्मृतीनां प्रामाण्यसिध्द्यर्थं श्रुतिमूलत्वसदसद्भावविचारणायां पूर्वपक्षः – न तावदमीषां प्रत्यक्षादिमूलत्वेन प्रामाण्यम् । तेषां धर्माधर्मयोरप्रवृत्तेः । नापि स्वातन्त्र्येण वेदवत् । पौरुषेयत्वात् । न चोदनामूलत्वेन । तदनुपलम्भात् । न हि तासां प्रत्यक्षेणोपलम्भ-सम्भवः । अनुच्चार्यमाणत्वात् । उच्चार्यमाणत्वे वा स्मृतिप्रणयनवैयर्थ्यम् । प्राक् पठिता अपि सम्प्रति पुरुषाशक्त्या उत्सन्ना इति चेत् किमेका काचिच्छाखा स्मार्तश्रुतिसङ्घातात्मिका पूर्वमासीत् सेदानीमुत्सन्नेति कल्प्यते, किं वा बहुशाखास्वितस्ततः श्रुतयः स्मृतिमूलभूताः पठिताः सम्प्रत्युत्सन्ना इति । तत्र सहस्रं सामशाखाः एकशतमध्वर्युशाखा एकविंशतिशाखा बह्वृचः इत्यादिशाखापरिमाणस्य परम्परया सर्वलोकस्मरणान्नातोऽधिका शाखा सम्भावयितुं शक्यते । नापि पठ्यमानानामत्यन्तावहिताध्येतृकाणां मध्ये कासाञ्चिच्चोदनानामुत्सादसम्भवः । नापि नित्यानुमेयाः । अन्धपरम्परापातात् ।
ननु स्मृतिलिङ्गवशेन निश्चेष्यन्ते चोदनाः, लिङ्गादिनेव श्रुतय इति चेत्, विषम उपन्यासः । लिङ्गादयो हि सर्वपुरुषप्रत्यक्षविषयाः श्रुतिमन्तरेणानुपपद्यमानाः युक्तं यत्तस्यानिश्चयमादधति । स्मृतिवाक्यरचनात् पौरुषेयी यदर्थविषयोपलभ्यते तद्विषयमेव रचयितुर्ज्ञानं कल्पयति । अष्टका-कर्तव्यताविषयं च स्मृतिवाक्यमिति । नूनमयमष्टकाकर्तव्यतां वेदेत्येतावत् प्रथमं कल्प्यते । न श्रुतिस्वरूपं नापि तज्ज्ञानम् । एवमर्थज्ञाने स्मृतिकारस्य कल्पिते पश्चाद् ज्ञानलिङ्गाज्ज्ञेय-भूतार्थानुमानम् । न श्रुतिकल्पनम् । अथोच्येत । न खलु परकीयेन ज्ञानेन झटित्येवार्थनिर्णयः । मूलानुसन्धानसापेक्षत्वात् । तत्र स्मृतिकारस्यार्थविषयज्ञानमनुसन्दधानः स्मृत्यन्तरमेव सम्भाव-येत् । तदपि च ज्ञानस्यैव लिङ्गं नार्थस्य । एवं च ततः पूर्वतरमपि स्मरणं ज्ञानस्यैव लिङ्गं नार्थस्येति न क्वचिदर्थनिश्चयो लैङ्गिको लभ्यत इति श्रुतिरेव कल्पयितव्या । यद्येवं श्रुतावपि तुल्यमेवैतत् स्मृतिकारस्य मूलतया श्रुतिज्ञानमेव प्रथमं कल्प्यते न श्रुतिसद्भावः । श्रुतिविषयेण तु ज्ञानेन ज्ञेयभूतश्रुतिनिर्णयः । परज्ञानेन च तद्विषयश्रुतिनिश्चयो मूलानुसन्धानसापेक्षः । मूलं च स्मृतिकारस्य स्मृत्यन्तरमेव । तदपि चार्थज्ञानद्वारेण श्रुतिज्ञानस्यैव लिङ्गं न श्रुतिसद्भावस्येति न क्वचित्कस्यचिदपि श्रुतिसद्भावनिश्चयो लैङ्गिको लभ्यते । तेन यदि परकीयज्ञानेन प्रागेवार्थ-निश्चयस्ततोऽर्थस्मरणं परम्परयार्थस्यैवानुमानान्न श्रुतिसिद्धिः । अथ स्मृत्यन्तरमेव मूलं स्यादन्धपरम्परया न स्वरूपनिश्चयः स्यात् । एवमुभयथापि न श्रुतिर्नित्यानुमेया सिध्यतीति न तन्मूलत्वेन प्रामाण्यं स्मृतीनाम् । तदाहुः–
‘‘नैतासां श्रुतिमूलत्वे प्रत्यक्षादि प्रवर्तते ।
अर्थापत्तिस्तु नास्त्यत्र भ्रान्त्यादेरपि सम्भवात् ।।
नोच्छिन्नश्रुतिमूलत्वं नित्यतोक्तिविरोधतः ।
पठितश्रुतिमूलत्वे स्मृतिप्रणयनं वृथा ।।
नित्यानुमेयतायां तु मूलत्वं नैव सम्भवेत् ।
स्मर्तॄणामपि नास्मद्वत्कल्पनं ह्युपपद्यते ।।’’ इति ।
सिद्धान्तस्तु ।
‘‘वैदिकार्थप्रयोक्तॄणामादरेण परिग्रहः ।
स्मार्तेषु वेदमूलत्वं विना नैवोपपद्यते ।।
मन्वादयश्च वेदेऽपि प्रवक्तृत्वेन कीर्तिताः ।
तेन तद्वाक्यसत्यत्वं वेदेनैवावधारितम् ।।’’
यद्वै किञ्चिन्मनुरवदत्तद्भेषजमिति वेदेनैव मानवस्य ग्रन्थस्य प्रमाणत्वाभिधानादेवं- विधशिष्टपरिग्रहदार्ढ्यात्प्रामाण्यमेव वेदमूलत्वेन स्मृतीनाम् । कथमनुच्चारितानां मूलत्वोपपत्ति-रिति चेन्न । उच्चार्यन्त एव हि स्मृतिमूलभूताः श्रुतयः । सम्प्रत्यभिप्रकीर्णाः । कश्चित्क्वचि-त्कस्याञ्चिच्छाखायां विप्रकीर्णत्वाच्छाखान्तराध्यायिभिः शाखान्तरगतानामनुपलम्भात्तादर्थ्ये-नार्थवत्तन्निबाधनम् । उपलम्भेऽपि वा मन्दधीभिरनुपसंहरणीयानामुपसंहारफलं स्मृतिप्रणयनमिति न वैयर्थ्यम् । धर्मस्य शब्दमूलत्वात् वेदमूलत्वात् । अशब्दमवेदमूलम् । अनपेक्षं धर्म-प्रमायामनपेक्षणीयं स्यादिति सूत्रार्थः । एवं स्मृतेः सकाशादुपजीव्यत्वेन यथा श्रुतेः प्राबल्यं तथा द्वैतश्रुति ग्राहिप्रत्यक्षस्याप्यद्वैतश्रुत्यपेक्षया प्राबल्यमित्यर्थः ।
प्रत्यक्षस्योपजीव्यत्वमुपपादयति । तच्चेति । अक्षेण ग्राह्यत्वादित्यन्वयः । यदा हीति । दृष्टं चापेक्षितैकदेशग्राहिणामप्युपजीव्यत्वम् । तद्विरुद्धग्रहणे तेन बाधश्च । यथा घटविभुत्वानुमाने पक्षग्राहिणाऽक्षेण । नरशिरःकपालशुचित्वानुमाने साध्यग्राहकेणाऽगमेन । मनोवैभवानुमाने ज्ञानासमवाय्याधारत्वहेतुग्राहकेणानुमानेन । किमु वक्तव्यमपेक्षिताशेषग्राहिणा स्वविरुद्ध-ग्राहकस्य बाध इत्यर्थः ।।
ननु यथाऽनुमानस्य व्याप्त्याद्यंशे प्रत्यक्षापेक्षा तथा प्रत्यक्षस्यापि स्वरूपसिद्धिं प्रत्यनुमाना-पेक्षा तुल्येत्याशङ्क्य निराकरोति । यद्यपीति । इन्द्रियस्याज्ञातकरणतया ज्ञानजननाद्यनपेक्षा । अनुमानादीनां तु ज्ञानजननार्थमेव तदपेक्षणादिति विशेष इत्यर्थः । अक्षाप्रामाण्ये हीति । व्याप्त्यादेरित्यत्रातद्गुणसंविज्ञानबहुव्रीहिणाऽबाधितत्वमुक्तम् । साध्याभावप्रमाविरहरूपाबाधित-त्वस्य बाधे अनुमेयस्य बाधनियमात् । योग्यतायाश्चेतरपदार्थसंसर्गेऽपरपदार्थनिष्ठात्यन्ताभाव प्रतियोगित्वाभावरूपायाः बाधे शब्दार्थबाधस्यावश्यकत्वमित्यर्थः । तत्र हेतुमाह । अनुमेय-स्येति । व्याप्त्यादिनेत्यत्राप्यबाधितार्थकत्वमेवोक्तम् । अन्यथेति । अनुमेयस्याबाधितार्थ-कत्वादिना तुल्ययोगक्षेमत्वाभावे ।। प्रातिभासिकव्याप्त्यादिमतेति ।। प्रातिभासिकबाधि-तत्ववतेत्यर्थः । व्यावहारिकव्याप्त्यादिमतेति ।। व्यावहारिकबाधितत्ववतेत्यर्थः । व्यावहारिकव्याप्त्यादिमतेत्यत्रातद्गुणसंविज्ञानबहुव्रीहिणाऽबाधितार्थकत्वमनुमानेऽभिहितम् । संप्रति घटादिगोचरप्रत्यक्षे व्यावहारिकेणाबाधेन विश्वस्य तात्विकत्वं सिद्ध्येदित्युच्यत इति भेदः । ननु प्रतिबिम्बस्य मिथ्यात्वपक्षे प्रतिबिम्बेऽबाधितार्थकत्वस्यासिद्ध्या कथमबाधितार्थकत्व-स्यानुमेयतुल्ययोगक्षेमत्वमित्यत आह । प्रतिबिम्बस्य मिथ्यात्वेऽपीति । तन्मिथ्यात्व-पक्षेऽपीत्यर्थः । तथा च प्रतिबिम्बेऽपि व्यतिरेकव्याप्तिसत्त्वादबाधितार्थकत्वमस्त्येवेत्यबाधितत्व-तुल्ययोगक्षेमत्वमनुमेयस्यास्त्येवेति भावः ।
ननु यादृशं साध्यस्य सत्त्वमादाय हेतोरबाधितत्वं सम्भवति तादृशमेव साध्यस्य सत्त्वं हेतुना सिध्यति । धूमादेस्तु व्यावहारिकसाध्यसत्त्वमादायाबाधितत्वमुपपन्नमिति धूमादिगतेना-बाधितविषयत्वेन व्यावहारिक एव वह्निः सिध्यति । दृश्यत्वस्याबाधितविषयत्वं तु तात्विक-साध्यसत्त्वगर्भम् । अतो व्यावहारिकेणापि दृश्यत्वगतेनाबाधितविषयत्वेन तात्विक-मिथ्यात्वसिद्धिः । धूमादिना तु व्यावहारिकवह्निसिद्धिरित्यत आह । न च धूमस्येति । व्याप्तिशब्देनाबाधितविषयत्वम् । धूमे विद्यमानमबाधितत्वं व्यावहारिकसाध्यसत्त्वेनाप्युपपन्नम् । दृश्यत्वे विद्यमानमबाधितविषयत्वं तु तात्विकमिथ्यात्वं विनाऽनुपपन्नम् । अतस्तात्विकं मिथ्यात्वं साधयति । तथा चानुमेयस्याबाधितविषयत्वेन तुल्ययोगक्षेमत्वानङ्गीकारेऽपि धूमादे-र्व्यावहारिकवन्ह्यनुमितिरेव, दृश्यत्वादेस्तु तात्विकमिथ्यात्वानुमितिरेवेति व्यवस्थासिध्द्यभाव इत्यर्थः । ननु दृश्यत्वादेस्तात्विकार्थसाधनस्वभावादेव तथाविधार्थसिद्धिः । धूमादेस्तु तात्विकार्थसाधनस्वभावो नास्तीति यवबीजात्कलमाङ्कुरस्येव न धूमादेस्तात्विकार्थसिद्धिरित्यत आह । न चाद्यापीति । क्लृप्तनियमत्याग इति । अनुमेयस्याबाधितविषयत्वादिना समानयोगक्षेमत्वादिति नियमस्य त्याग इत्यर्थः । कारणं विनापि क्लृप्तनियमत्यागे बाधकमाह । अकस्मादिति । तथा दृश्यत्वहेतुना मिथ्यात्वसिद्धिरपि न स्यादिति भावः ।
अत्र वदन्ति – ‘एतावता हि व्याप्त्यादिसमानसत्ताकमनुमेयं सिध्यत्वित्यापत्तेः फलितोऽर्थः । स चास्माकमिष्ट एव । न हि ब्रह्मभिन्नं किञ्चिदप्यत्यन्ताबाध्यमस्ति । न चानुमेयादेर्व्याप्त्यादिना समसत्ताकत्वनियमोऽप्यस्ति । व्यभिचारिणापि लिङ्गेन साध्यवति पक्षेऽनुमितिप्रमादर्शनात् । ध्वनिधर्मह्रस्वत्वदीर्घत्वादिविशिष्टत्वेन मिथ्याभूतैरपि नित्यैर्विभुभि-र्वर्णैः सत्या शाब्दप्रमितिः क्रियत इति मीमांसकैरपि स्वीकारात् । गन्धप्रागभावावच्छिन्ने घटे तात्विकव्याप्त्यादिमतापि पृथिवीत्वेनातात्विकगन्धानुमितिदर्शनात् । प्रतिबिम्बेन बिम्बानुमिति-दर्शनात् । न च तत्रापि बिम्बरहितावृत्तित्वरूपा व्याप्तिस्तात्विक्येवेति वाच्यम् । एवं सत्यवृत्तिगगनादेरपि व्याप्यतापत्तेः । न च तत्र बिम्बपूर्वकत्वमेवानुमीयते । बिम्बव्यतिरेक-प्रयुक्तव्यतिरेकप्रतियोगित्वरूपेण प्रातिभासिकेन हेतुनेति वाच्यम् । प्रयुक्तत्वं न तज्जन्य-जनकत्वादिरूपम् । व्यतिरेकयोः परस्परं तदभावात् । किन्तु व्याप्यव्यापकभावः । तथा च बिम्बव्यतिरेकव्यापकव्यतिरेकप्रतियोगित्वं हेतुः । स चाकाशादौ व्यभिचार्येव । तस्मात्तत्र प्रतिबिम्बेनैव बिम्बानुमानम् । अनुमेयस्य लिङ्गव्याप्त्यादिसमानसत्ताकत्वनियमस्यापास्तत्वात् । एतेन शब्देऽपि योग्यतासमानसत्ताकेन शब्दार्थेन भवितव्यम् । योग्यतावाक्यार्थयोः समान-सत्ताकत्वनियमादिति कथं वेदान्तवाक्यार्थो योग्यताबाधेऽप्यबाधितः स्यादिति परास्तम् । वेदान्तवाक्ये अखण्डार्थरूपवाक्यार्थाबाधरूपायाः योग्यताया अप्यबाधाच्चेति ।
अत्रोच्यते । यत्तावदुक्तमनुमेयस्य व्याप्त्यादिना समानसत्ताकत्वमिष्टमिति तन्न । दृश्यत्वेन मिथ्यात्वानुमितेरेवातात्विकविषयत्वापातेनानिष्टत्वात् । यच्चोक्तमनुमेयस्य व्याप्त्यादिना समान-सत्ताकत्वनियमोऽसिद्ध इत्यादि । तदयुक्तम् । व्याप्तिशब्देनाबाधितविषयत्वस्योक्तत्वात् । तस्य चानुमेयसमसत्ताकत्वनियमात् । साध्यवति साध्यज्ञानजनके व्यभिचारिणि लिङ्गेऽप्यबाधित-विषयत्वस्य सत्त्वात् । रूपप्रागभावकाले रूपज्ञानजनके पृथिवीत्वे व्याप्तिपक्षधर्मतयोः सत्त्वेऽप्य-बाधितत्वस्याभावेन साध्यज्ञानस्य भ्रमत्वात् । अत एवाबाधितत्वं प्रमानुमितौ गुण इति नैयायिकाः । यच्चोक्तं वर्णेष्वविद्यमानेन दैर्ध्यादिना सत्या शाब्दप्रमितिः क्रियते इति । तन्न । दैर्घ्यस्याहेतुत्वात् । तज्ज्ञानस्यैव हेतुत्वात् । तस्य च वाक्यार्थसमसत्ताकत्वात् । तार्किकमते दैर्घ्यस्यापि सत्त्वाच्च । यच्चोक्तं प्रतिबिम्बे यदि बिम्बरहितावृत्तित्वरूपा व्याप्तिस्तर्ह्याकाशस्यापि बिम्बरहितावृत्तित्वेन बिम्बव्याप्त्यापत्तिरिति । तन्न । इष्टापत्तेः । पक्षधर्मताविरहादाकाशादेः परं नानुमितिहेतुत्वम् । यच्चोक्तमखण्डवाक्यार्थबाधरूपा योग्यता वेदान्तवाक्येष्वप्यस्तीति तन्न । वाक्यार्थस्य क्रियाकारकभावसंसर्गरूपस्याभेदसंसर्गरूपस्य वाऽखण्डत्वविरोधात् । तस्मात्साधूक्त- मनुमेयस्य व्याप्त्यादिना तुल्ययोगक्षेमत्वमिति ।
न्यायामृतकण्टकोद्धारः
।। प्राबल्यमिति ।। अनुमानागमादित इति शेषः ।। श्रुतेरिति ।। यथा श्रुतेः स्मृत्युपजीव्यत्वात् स्मृतितः प्राबल्यं तथेत्यर्थः ।। तच्चेति ।। उपजीव्यत्वमित्यर्थः । व्याप्त्या-देरनुमितिस्वरूपतत्प्रामाण्यादेश्च ग्राह्यत्वात् उपजीव्यत्वमनुमानं प्रति; ऐकरूप्यादेः शब्दस्वरूप-तत्प्रामाण्यादेश्च ग्राह्यत्वादुपजीव्यत्वं शब्दं प्रतीति विवेकः । ग्राह्यत्वं च साक्षात्परम्परा-साधारण्येनेति भावः । कारणस्य प्रयोजकस्येत्यर्थः । हेतोः प्रयोजकस्येत्यर्थः । प्रयोजकत्वं च जनकज्ञानविषयत्वं न तु जनकजनकत्वम् । ज्ञानमात्रे विषयस्य जनकत्वाभावादिति । ननु येन विना यस्योत्पत्तिर्न तत्तस्योपजीव्यम् । न हि प्रामाण्यग्रहं विना अनुमित्यनुत्पत्तिः । तथा च कथं प्रामाण्यग्राहकत्वेनोपजीव्यत्वमिति चेत् न । येन विना यस्योत्पत्तिकार्ये न भवतस्तदुप-जीव्यमिति विवक्षितत्वात् । प्रकृते प्रामाण्यग्रहं विना निष्कम्पप्रवृत्तिरूपकार्याभावादिति भावः । पक्षाद्यन्यतममात्रग्राहकत्वेनोपजीव्यत्वं यदा तदाऽनुमानोपयोगि सर्वग्राहकत्वादुपजीव्यत्वमिति किमु वक्तव्यमिति कैमुत्येनाह ।। यदेति ।। अक्षमिति ।। परिच्छिन्नो घट इत्येवं रूपमित्यर्थः ।। शब्द इति ।। अग्निः शुचिव्रततम इत्यादिरूप इत्यर्थः ।। अनुमानमिति ।। मनः अणुत्वे सति ज्ञानासमवाय्यधिकरणं सुखाद्युपलब्धिकरणत्वाद् व्यतिरेकेण चक्षुरादिव-दित्यर्थः । कथं नोपजीव्यमिति ।।
ननु यत्स्वरूपमुपजीव्यते तन्न बाध्यते । बाध्यते च तात्त्विकाकारः । स च नोपजीव्यते । कारणत्वे तस्याप्रवेशात् । तदुक्तं–
पूर्वसम्बन्धनियमे हेतुत्वे तुल्य एव नौ ।
हेतुतत्त्वबहिर्भूतसत्त्वासत्त्वकथा वृथा ।। इति ।
तथा च कथमुपजीव्यविरोध इति चेदुच्यते । स्वरूपस्याबाध्यत्वे स्वरूपस्यैव तात्विकत्व-प्रसङ्गात् । अबाध्यत्वातिरिक्तस्य तात्विकत्वस्याभावात् । किञ्च तात्त्विकाकारस्य बाध्यत्वे स्वरूपस्यापि बाध एव । तात्त्विकाकारातिरिक्तस्वरूपाकाराभावात् । न च व्यावहारिकः तात्त्विकाकारव्यतिरिक्ताकारोऽस्तीति वाच्यम् । अस्य मिथ्यात्वसिद्ध्युत्तरकालीनत्वेना-न्योन्याश्रयस्योक्तत्वात् । किञ्चोदाहृतेषु उपजीव्यविरुद्धेषु घटादिस्वरूपमेवोपजीव्यं, न तु अव्यापकत्वादीति । तत्राप्युपजीव्याविरोधेनाप्रामाण्यं न स्यात् । तथा च घटादेर्व्यापकत्वादि तात्त्विकं स्यात् । किञ्चैवं दहनशैत्यानुमानस्यापि उष्णस्वरूपमेवोपजीव्यं, न तु तस्य तात्त्विकाकार इति तत्राप्युपजीव्याविरोधेनाप्रामाण्याभावे कालातीतकथैव लुप्येत । यच्चोक्तं सत्त्वस्य कारणत्वेऽप्रवेशादिति । तन्न । पूर्ववृत्तित्वस्य कारणत्वे प्रवेशेन सत्त्वप्रवेश-स्यावश्यकत्वात् ।
नन्वपेक्षितग्राहकत्वेन उपजीव्यतया बाधकत्वे इदं रजतमिति भ्रमस्यापि प्रतियोगिग्राहकतया नेदं रजतमिति ज्ञानं प्रत्युपजीव्यत्वात् तद्विरुद्धं नेदं रजतमिति बाधकज्ञानं कथमुत्पद्येत । न च निषेध्यार्पकतया प्रतियोगिज्ञानत्वेन तस्योपजीव्यत्वेऽपि तत्प्रामाण्यं नोपजीव्यम् । न हि प्रतियोगिप्रमात्वेनाभावज्ञानजनकता । गौरवात् । प्रतियोगिभ्रमादप्यभावज्ञानदर्शनाच्च । किन्तु प्रतियोगिज्ञानत्वेनैव लाघवात् । ततस्तद्विरुद्धं ज्ञानमुदियादेवेति वाच्यम् । प्रकृतेऽपि पक्षज्ञान-त्वादिना कारणता न तु तत्प्रमात्वादिनाऽपीति तत्प्रामाण्यस्यानुपजीव्यत्वात् (न) प्रत्यक्षबाध इति चेन्मैवम् । दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यात् । तथा हि – दृष्टान्ते प्रतियोगिज्ञानप्रामाण्येन बाधकज्ञानस्याप्रामाण्यादर्शनात् । नेदं रजतमिति ज्ञानं प्रति प्रतियोगिज्ञानत्वेनैव कारणता । दार्ष्टान्तिके च पक्षज्ञानाप्रामाण्ये पक्षस्यासत्त्वापत्त्या पक्षसाध्यसंसर्गस्य बाधनियमेन प्रमारूपानु-मितौ पक्षप्रमात्वेन कारणत्वस्यावश्यकत्वात् तत्प्रामाण्यस्याप्युपजीव्यतया तद्विरुद्धानुमितिः न स्यादेव । न च पक्षासत्त्वेऽपि प्रत्यक्षसाध्यसंसर्गस्य सत्त्वमस्त्विति वाच्यम् । सम्बन्धिनोऽसत्त्वे सम्बन्धस्यासत्त्वनियमात् । न हि पर्वतो नास्ति, पर्वते वह्निरस्तीति सम्भवति । तथा च पक्ष-सत्त्वस्यापि अनुमेयार्थाबाधार्थं अपेक्षया नियमेन पक्षसत्त्वग्राहि प्रत्यक्षविरुद्धमनुमानं प्रत्यक्ष-स्योपजीव्यत्वेन प्रबलत्वादुपजीव्यबाधितमेव । अन्यथा आश्रयासिद्धेरदोषत्वापत्तेः । न च वन्ध्यासुतो न वक्ताऽसत्त्वादित्यादौ धर्म्यसत्त्वेऽप्यनुमेयाबाधवत् प्रकृते किं न स्यादिति वाच्यम् । आश्रयासिद्धेर्दूषणत्ववादिभिरेवं वक्तुमशक्यत्वात् । न च तददूषणत्ववादिमते प्रकृतानुमानं स्यादिति वाच्यम् । तन्मतेऽपि प्रमारूपानुमितौ पक्षप्रमैव कारणम् । तत्रासत्पक्षक-प्रमानुमितौ असत्त्वप्रकारकपक्षप्रमा कारणम् । तदितरपक्षकप्रमानुमितौ सत्त्वप्रकारकप्रमा कारणम् । प्रकृते तदुभयाभावात् तन्मतेऽपि न प्रमानुमितिरित्यत्र तात्पर्यादित्यलं विस्तरेणेति ।
शब्दस्वरूपप्रामाण्यादिग्राहिश्रोत्रसाक्षिणोरुपजीव्यत्वेऽपि अतथाविधचक्षुरादेः घटादिसत्त्व-ग्राहिणो नोपजीव्यत्वप्राप्तिरित्याशङ्कानिरासाय चक्षुरादेः शब्दं प्रत्युपजीव्यत्वमुपपादयति ।। चक्षुरादेरिति ।। उपजीव्यजातीयत्वेन प्राबल्यं क्व दृष्टमित्यत आह – दृष्टं चेति ।। ननु चक्षुरादिग्राहित्वेनानुमानस्याप्युपजीव्यत्वेन प्रबलत्वात् प्रत्यक्षबाधकत्वं स्यादित्यत आह ।। यद्यपीति ।। अज्ञातचक्षुरादेरपि प्रत्यक्षज्ञानोदयादिति भावः । अस्त्वेवमुपजीव्यत्वं ततः किमित्यत आह ।। अक्षाप्रामाण्येति ।। न चैतावता व्याप्त्यादिसमसत्ताकमनुमेयं सिद्ध्य-त्वित्यापादितम् । तच्च नास्माकमनिष्टम् । अस्माभिर्ब्रह्मभिन्नं किञ्चिदत्यन्ताबाध्य-मस्तीत्यनङ्गीकारादिति वाच्यम् । अत्र ह्यनुमेयोऽर्थो मिथ्यात्वम् । तस्य बाध्यत्वे मिथ्याभूत-बाध्यत्वेन जगत्सत्यं स्यात् । बाध्यमिथ्यात्वस्य प्रतिवाद्यङ्गीकृतत्वेन सिद्धसाधनाच्च । यदत्र परवचनं तत्सामान्यतो मिथ्यात्वभङ्ग एव परिष्कृतम् । तत्रैवानुसन्धेयम् । तस्मादनुमेयबाध्यत्वं परस्यानिष्टमेवेति ।
नन्वयमनुमेयादेर्व्याप्त्यादिसमसत्ताकत्वनियमो नास्ति । व्यभिचारिणाऽपि लिङ्गेन साध्यवति पक्षे अनुमितिप्रमादर्शनात् । ध्वनिधर्मह्रस्वत्वदीर्घत्वादिविशिष्टत्वेन मिथ्याभूतैरपि नित्यैर्विभुभि-र्वर्णैः सत्या शाब्दप्रमितिः क्रियत इति मीमांसकैरभ्युपगतत्वात् । प्रतिबिम्बेन वाऽसत्येन व्याप्त्यादिरहितेन बिम्बानुमितिदर्शनाच्च । गन्धप्रागभावावच्छिन्ने घटे तात्त्विकव्याप्त्यादिमता पृथिवीत्वेनातात्त्विकगन्धानुमितिदर्शनाच्च । तथा च व्याप्त्यादितात्त्विकत्वस्यानुमेयादि-तात्त्विकत्वं प्रति अन्वयव्यतिरेकाभ्यां व्यभिचारादनुमेयादेः व्याप्त्यादिसमानयोगक्षेमता-नियमोऽसिद्ध एवेति चेन्मैवम् । एवं वदताऽनुमितिप्रामाण्यप्रयोजकत्वेन किञ्चित् स्वीकृतं न वा ? नेति पक्षे किञ्चिज्ज्ञानं प्रमारूपमुत्पद्यते किञ्चिदप्रमारूपमिति प्रामाण्याप्रामण्ये आकस्मिके स्यातामिति सर्वत्र तत्प्रसङ्गे प्रमाप्रमारूपज्ञानद्वयव्यवस्था न स्यात् । अथ दोषजन्यत्वं बाधितत्वमप्रामाण्यप्रयोजकम् । तदभावे प्रामाण्यमिति नोक्तातिप्रसङ्ग इत्याद्योऽस्त्विति चेत् तर्हि बाधकाभावसमानयोगक्षेमता अनुमेयार्थस्य स्वीकृतेति बाधाभावग्राहकाप्रामाण्ये बाधाभावबाध-नियमेनानुमेयार्थबाधप्रसङ्गः इत्यापादनान्न दोषः । न चैवं व्याप्त्यादिसमसत्ताकत्वमनुमेयार्थस्येति गतमिति वाच्यम् । व्याप्त्यादीत्यत्र अतद्गुणसंविज्ञानबहुव्रीहिणा बोध्यवत्पक्षबाधाभावयो-र्ग्रहणात् । अक्ष•)प्रामाण्ये तयोरप्यक्षेणैव सिद्ध्या तद्बाधेनानुमेयार्थबाधनियमात् । न हि बोध्यवत्पक्षबाधे बाधाभावबाधे वा अनुमेयार्थाबाधो दृष्टः । वस्तुतस्तु अनुमेयार्थमात्राबाधे व्याप्त्याद्यबोधो न प्रयोजकः । किन्तु यादृच्छिकसंवादातिरिक्तस्थले पक्षतावच्छेदकाविरोध्यनु-मेयार्थाबाधे । न चैवं सति व्यभिचारशङ्काऽस्ति । प्रकृतमिथ्यात्वानुमितिः यादृच्छिकसंवादि-व्यतिरिक्ता, प्रकृतमनुमेयं मिथ्यात्वं च पक्षतावच्छेदकाविरोधीति परेणाभ्युपगतत्वात् । तथा चात्र व्याप्त्यादिबाधे अनुमेयार्थबाधः स्यादेवेति ।
यदुक्तं मिथ्याभूतैरेव वर्णैः शाब्दप्रमा क्रियत इति । तन्न । तत्र वर्णानां मिथ्यात्वा-भावात् । न च ह्रस्वत्वादिविशिष्टत्वेन वर्णानां मिथ्यात्वमिति वाच्यम् । बाधकाभावेन ह्रस्वत्वादीनां वर्णधर्मत्वोपपत्तेः । तेन रूपेण मिथ्यात्वेऽपि न तेषां शाब्दप्रमाहेतुत्वम् । शब्द-ज्ञानस्यैव अन्वयव्यतिरेकाभ्यां शाब्दप्रमाहेतुत्वात् । यदप्युक्तम् असत्येनैव प्रतिबिम्बेन बिम्बानु-मानमिति तन्न । प्रतिबिम्बसत्यतायास्तत्र व्याप्तिसत्त्वस्य चोपपादयिष्यमाणत्वात् । बिम्ब-प्रतिबिम्बैक्यं वदता प्रतिबिम्बासत्यत्वस्यावक्तव्यत्वाच्च । एतेनैव शाब्दार्थाबाधे योग्यताद्यबाधस्य तन्त्रत्वात् अक्षाप्रामाण्ये तत्सिद्धयोग्यतादेश्च बाधनियमेन शाब्दार्थस्य बाधः स्यादित्यतिप्रसङ्गः समाहितो वेदितव्यः । न हि योग्यताबाधे शब्दार्थाबाधः क्वचिद् दृष्टः । न वा प्रत्यक्षाप्रामाण्ये तत्सिद्धयोग्यताद्यबाधः सम्भवति । न च प्रत्यक्षाप्रामाण्येऽपि वेदान्तवाक्ये अखण्डार्थरूप-वाक्यार्थाबाधरूपयोग्यताबाधो नास्त्येवेति वाच्यम् । अखण्डार्थत्वस्याग्रे निराकरिष्यमाणत्वेना-खण्डार्थरूपवाक्यार्थाबाधरूपयोग्यताया बाधितत्वात् । न च वेदान्ततज्ज्ञानप्रामाण्यमिथ्यात्वेऽपि तात्त्विकाद्वैतसिद्धिर्युक्ता । शब्दतज्ज्ञानतात्विकत्वस्य विषयतात्त्विकत्वे प्रयोजकत्वाभावात् । इदं रजतमिति अनाप्तवाक्यस्य तज्जन्यभ्रमस्य च त्वन्मते तात्त्विकत्वेऽपि तद्विषयस्यातात्त्विक-त्वादिति वाच्यम् । न हि शब्दतज्ज्ञानातात्त्विकत्वे विषयातात्त्विकत्वमापादितम् । किन्तु शब्दतज्ज्ञानप्रामाण्याबाधस्य विषयाबाधे प्रयोजकत्वात् । प्रकृते तद्बाधे विषयबाधः स्यादिति । तथा चानाप्तवाक्यभ्रमयोः स्वरूपसत्यत्वेऽपि अबाधितार्थकत्वरूपाबाधाभावाद्युज्यते विषयबाध इति प्रकृते वेदान्ततज्ज्ञानप्रामाण्यस्य मिथ्यात्वे विषयमिथ्यात्वापादनं युक्तमिति ।
।। अन्यथेति ।। यदि प्रातिभासिकादिव्याप्त्यादिमता हेतुना अबाधितानुमेया(र्थ)-सिद्धिस्तथा प्रातिभासिकयोग्यतादिमता शब्देन तात्त्विकार्थसिद्धिस्तदेत्यर्थः । उक्तनियमस्य कथञ्चित् व्यभिचारमाशङ्क्य निषेधति – प्रतिबिम्बस्येति ।। मिथ्यात्वेऽपीति प्रौढिवादः । प्रतिबिम्बसत्यताया अन्यत्रोपपादितत्वात् । अत्र व्याप्त्युपपादनमपि वस्तुगतिमनुरुध्य । तद-भावेऽपि बाधाभावेन अनुमेयार्थाबाधसिद्धेरित्यर्थः । नन्वेवं सत्यवृत्तिगगनादेरपि व्याप्यता-पत्तिः । न च तत्र बिम्बपूर्वकत्वमेवानुमीयते । बिम्बव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वरूपेणा-प्रातिभासिकहेतुनेति वाच्यम् । प्रयुक्तत्वं हि न तज्जन्यत्वादिरूपम् । व्यतिरेकयोः परस्परं तदभावात् । किन्तु व्याप्यव्यापकभावः । तथा च बिम्बव्यतिरेकव्यापकव्यतिरेकप्रतियोगित्वं हेतुः । स चाकाशादौ व्यभिचार्येव । तथा च प्रतिबिम्बेनैव बिम्बानुमानम् । अनुमेयस्य लिङ्ग-व्याप्त्यादिना समसत्ताकत्वनियमस्यापास्तत्वादिति चेन्मैवम् । अविनाभाव इत्यस्य यद्देशकाल-सम्बद्धस्य यस्य यद्देशकालसम्बन्धेन येन विना अनुपपत्तिस्तत्तद्व्याप्यमिति विवक्षितार्थस्य गगनादावभावेन तद्व्याप्यतापादनस्यायुक्ततात् । अत्रेदानीमाकाशमिति प्रतीत्या गगनादेर-वृत्तित्वाभावाच्च । अनुमेयस्य लिङ्गव्याप्त्यादिना समसत्ताकत्वनियमस्योपपादितत्वेन उक्तानु-मानासम्भवाच्चेति ।
न्यायामृतप्रकाशः
श्रुतेः स्मृतित इति । स्मृतीनां श्रुतिमूलकत्वेनोपजीव्यत्वाद्यथा श्रुतेः स्मृतितः प्राबल्यं तथा द्वैतग्राहिप्रत्यक्षस्याप्यद्वैतश्रुत्यपेक्षया प्राबल्यमित्यर्थः । तदुपपादयति ।। तच्चेति ।। तच्चोपजीव्यत्वेन प्राबल्यम् । अक्षेणाचाक्षुषप्रत्यक्षेण । ग्राह्यत्वाद्धेतोरित्यन्वयः ।। अनुमितिकारणस्येति ।। स्वरूप-सतः पक्षादेरनुमितिकारणत्वाभावात्कथमेतत् । न च पक्षशब्देन तज्ज्ञानग्रहणम् । तथात्वेऽक्षेण पक्षस्य ग्राह्यत्वादित्युक्त्ययोगात् । उच्यते । अनुमितिकारणस्येत्येतत् प्रयोजकस्येति व्याख्येयम् । पक्षादीनां च ज्ञानद्वारा प्रयोजकत्वं त्वस्तीति ध्येयम् ।। शब्दस्वरूपस्येति ।। तस्य ज्ञानकरण-त्वादिति भावः । उपक्रमोपसंहारयोर्यदैकरूप्यं तदादेः ।। धर्मिमात्रग्राहित्वेनेति ।। एतदनुमान-बाधकं यदक्षं तस्य व्यापकत्वविरोधिपरिच्छिन्नपरिमाणग्राहकस्य पक्षीभूतघटग्राहकत्वेनैवोपजीव्यत्वम् । यदिच सत्त्वरूपहेतुग्राहकत्वेनाप्युपजीव्यत्वं ब्रूयास्तर्हि सिद्धान्तेऽतिरिक्तसत्ताया अभावात्तस्या अपि पक्षकोटावेव निवेश इत्यवधेयम् । प्राण्यङ्गत्वादित्यनन्तरं शङ्खवदिति शेषः ।। साध्यमात्रग्राहित्वे-नेति ।। दृष्टान्ते साध्यग्राहकागमजातीयत्वमात्रेणेति व्याख्येयम् ।
अयमभिप्रायः । नरशिरःकपालं शुचि प्राण्यङ्गत्वाच्छङ्खवदिति नरशिरःकपालशुचित्वानुमानस्य बाधकतयाऽभिप्रेतो यो ‘‘नारं स्पृष्ट्वाऽस्थिसस्नायु सवासा जलमाविशे’’दित्यशुचित्वागमस्तस्य दृष्टान्ते शङ्खे शुचित्वग्राहको यः
‘‘त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया ।
शङ्खे तिष्ठन्ति विप्रेन्द्र तस्माच्छङ्खं प्रपूजयेत्’’
इत्याद्यागमस्तज्जातीयत्वमात्रेण प्राबल्यमिति सम्प्रदायः ।। ज्ञानासमवायीति ।। ज्ञानासमवायि-कारणात्ममनस्संयोगाधारत्वादात्मवदित्यर्थः ।। हेतुमात्रेति ।। ‘‘युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्ग’’-मित्युक्तत्वेन यत्संयोगवशाज्ज्ञाने क्रमः प्रक्रमते तदेकं क्रमिकज्ञानासमवायिकारणसंयोगाधारभूतं किञ्चिद्द्रव्यमणुभूतमङ्गीकार्यम् । तथा च मनोविभुत्वानुमानस्य बाधकीभूतं यत् ‘‘सुखादिप्रतीतिः क्रमिकसंयोगवत्करणसाध्या क्रियात्वाच्छिदिक्रियावत्’’ इत्येवमाद्यनुमानं तत् हेतुमात्रग्राहकत्वे-नोपजीव्यमित्यर्थः । यद्यपीदं पक्षीभूतमनोग्राहकमपीति न हेतुमात्रग्राहकं तथापि ज्ञानासमवाय्या-धारत्वेनैव मनोग्राहकम् । न मनस्त्वेन केवलं मनःस्वरूपमात्रग्राहकमिति सम्प्रदायः ।। सर्वेति ।। व्याप्त्याद्यशेषेत्यर्थः । ननु युष्माभिः सन्घट इत्यादिचाक्षुषप्रत्यक्षविरोधोऽभिहितस्तस्य दृश्यत्वादि-लिङ्गापेक्षितग्राहित्वेनोपजीव्यत्वेऽपि ‘‘नेह नाने’’त्यादिशब्दस्वरूपादिग्राहकत्वाभावाच्छब्दापेक्षित-सर्वग्राहित्वेन कथमुपजीव्यत्वं येन प्राबल्यं स्यादित्यत आह ।। चक्षुरादेरिति ।। सन्घट इत्यादिसत्त्वग्राहिण इत्यर्थः ।। तद्ग्राहीति ।। शब्दस्वरूपग्राहि श्रोत्रं, तज्जन्यज्ञानप्रामाण्यादिग्राही साक्षीति ध्येयम् । रूपादीनामपि पक्षत्वात् रूपादिरूपधर्म्यंश इति वा रूपादिमद्धटादि-प्रपञ्चरूपधर्म्यंश इति वाऽर्थः ।
ननु साक्षादनुपजीव्यस्य उपजीव्यसजातीयत्वमात्रेण प्राबल्यमदृष्टचरमित्यत आह ।। दृष्टं चेति ।। अशुचित्वागमस्य ‘‘नारं स्पृष्ट्वे’’त्यादेरित्यर्थः ।। तदिति ।। नरशिरःकपालेत्यर्थः ।। उपजीव्य-शुचित्वेति ।। दृष्टान्तीभूते शङ्खे शुचित्वग्राहितयोपजीव्यभूत ‘‘त्रैलोक्ये यानी’’त्यादिशब्देत्यर्थः । नन्वथापि अनुमानं प्रति प्रत्यक्षं यथोपजीव्यं तथा प्रत्यक्षं प्रत्यनुमानमप्युपजीव्यम् । ज्ञातेन हि चक्षुरादिना घटादिसत्त्वं गृह्यत इति वक्तव्यम् । तत्स्वरूपज्ञानं च रूपादिज्ञानजन्यम् । तथा चानुमानस्य यथा व्याप्त्याद्यंशे प्रत्यक्षापेक्षा तथा प्रत्यक्षस्यापि स्वस्वरूपसिद्धिं प्रत्यनुमानापेक्षा तुल्येत्याशङ्क्य निराकरोति ।। यद्यपीति ।। तथापीति ।। इन्द्रियस्याज्ञातकरणत्वाज्ज्ञानजननार्थं न स्वस्वरूपज्ञानापेक्षा । अनुमानादीनां तु ज्ञानजननार्थमेव प्रत्यक्षापेक्षेति विशेषसद्भावान्नानुमा प्रत्यक्षं प्रत्युपजीव्येत्यर्थः । नन्वनुमानविरुद्धत्वात्प्रत्यक्षस्यैवाप्रामाण्यं किं न स्यादित्यत आह ।। अक्षेति ।। तदिति ।। चक्षुस्साक्ष्यादीत्यर्थः । अनुमाननिष्ठव्याप्त्यादेः शब्दनिष्ठयोग्यतादेरिति विवेकः । व्याप्त्यादे-र्बाधेऽनुमेयस्य, योग्यतादेर्बाधे शब्दार्थस्य च कुतो बाध इत्यतस्तदुपपादयति ।। अनुमेयस्ये-त्यादिना ।। तुल्येति ।। समसत्ताकत्वादित्यर्थः । नन्विदमयुक्तम् । अनुमेयस्य व्याप्त्यादिसम-सत्ताकत्वनियमाभावात् । धूलीपटले धूमभ्रमादिनाऽनुमितिर्जायते । तत्र दैवाद्वह्निरप्यस्ति । तथा च तत्रानुमेयस्य व्यावहारिकत्वेन व्याप्त्यादेः प्रातिभासिकतयाऽनुमेयस्य व्याप्त्यादिना समसत्ताकत्वाभावा-द्व्यभिचार इति चेत् । अत्र वदन्ति । अत्र व्याप्त्यादीत्यादिपदेन चित्रगुमानयेत्यादिवदतद्गुण-संविज्ञानबहुव्रीहिणा पञ्चरूपमध्येऽबाधितत्वाख्यं रूपं ग्राह्यम् । तथा चानुमेयस्याबाधितत्वरूपेण समसत्ताकत्वनियमोऽभिप्रेतः । एवं चाक्षाप्रामाण्ये तद्गृहीतस्य साध्याभावाप्रमारूपाबाधितत्वस्यापि बाधेनानुमेयस्यापि बाधो नियत एवेति ।
गुरुचरणास्तु यादृच्छिकस्थलेऽनुमेयस्य स्वतःसिद्धत्वेन व्याप्त्यादिबलसिद्धसिद्धिकत्वाभावात् । तथात्वे वह्निरहितस्थलेऽपि कदाचिद्धूलीपटले धूमभ्रमेणापि वह्निसिद्ध्यापत्तेः । ततो व्याप्त्यादि-बलसिद्धसिद्धकं यदनुमेयं तद्व्याप्त्यादिसमसत्ताकं यथा धूमानुमाने वह्निरिति व्याप्तेरत्राभिप्रेतत्वात् । अस्याश्च व्यभिचाराभावाद्व्याप्त्यादीत्येतद्यथास्थितमेवेत्युपदिशन्ति । अत एवोक्तं सुधायां ‘‘यादृच्छिकस्थले व्याप्त्यादिबलसिद्धसिद्धिकत्वाभावादनुमेयस्य’’ इति ।। अन्यथेति ।। अनुमेयस्य व्याप्त्यादिसमसत्ताकत्वाभाव इत्यर्थः । वह्निः हृदे व्यावहारिकव्याप्त्यादिमतेत्येतत् व्यावहारिका-बाधितत्ववतेति व्याख्येयमित्याहुः । व्यावहारिकेणाबाधेन विश्वस्य तात्विकत्वं व्यावहारिकेण विरुद्धधर्माधिकरणत्वेन जीवेशभेदस्य च तात्विकत्वं सिध्येदित्यन्वयः । शब्दार्थस्य योग्यतादिना समसत्ताकत्वाभावेऽतिप्रसङ्गमाह ।। प्रातिभासिकेति ।।
नन्वयं प्रदेशो बिम्बवान् प्रतिबिम्बवत्त्वादिति प्रतिबिम्बेन बिम्बानुमानं क्रियते तत्र बिम्बस्य सत्यत्वात् प्रतिबिम्बस्य प्रातिभासिकतया मिथ्यात्वेन तत्र सामानाधिकरण्यगर्भव्याप्तेरेवाभावात्कथं सत्यभूतबिम्बरूपानुमेयस्य व्याप्त्यादिसमसत्ताकत्वमित्यत आह ।। प्रतिबिम्बस्येति ।। प्रतिबिम्बस्य मिथ्यात्वेन साध्यसामानाधिकरण्यरूपव्याप्त्यभावेऽपि बिम्बरहितस्थलेऽवृत्तित्वं वा बिम्बराहित्येना-वृत्तित्वं वा व्याप्तिरस्त्येव । तथा च प्रतिबिम्बस्य सत्यत्ववादिमतेऽपि बिम्बरहितस्थलेऽवृत्तित्व-मस्त्येव । प्रतिबिम्बस्य मिथ्यात्ववादिमतेऽपि प्रतिबिम्बस्य सत्यत्वाभावादेव प्रतिबिम्बरहितावृत्तित्व-मस्त्येव । अविनाभावरूपव्याप्तिरस्त्येवेत्यर्थः । ननु धूमाद्यनुमानस्यातत्वावेदकत्वेन तन्निष्ठ-व्याप्त्यादेरपि व्यावहारिकत्वेनाग्नेरपि व्यावहारिकतया तात्विकत्वाभावेनानुमेयस्य व्याप्त्यादि-समसत्ताकत्वमस्ति । दृश्यत्वानुमानस्य तु तत्वावेदकतया व्याप्त्यादिसमसत्ताकत्वाभावेऽपि न दोष इत्यप्रयोजकतायामाह ।। न चेति ।। कुतो न चेत्यत आह ।। न हीति ।। कारणं विनापि क्लृप्तनियमत्यागे बाधकमाह ।। अकस्मादिति ।। एवमनुमेयस्य व्याप्त्यादिसमसत्ताकत्वमुप-पाद्यानुमितिप्रामाण्यादिनापि समसत्ताकत्वमुपपादयितुमुत्तरो ग्रन्थः ।
न्यायकल्पलता
प्रकारान्तरेणापि प्रत्यक्षस्य प्राबल्यमुपपादयति । किञ्च उपजीव्यत्वादिति । करणप्राधान्याभिप्रायेण सर्वेन्द्रियसङ्ग्रहार्थमक्षस्येत्युक्तम् । ‘‘अदुष्टमिन्द्रियं त्वक्षम्’’ इति ब्रह्मतर्कोक्तेः । श्रुतेः स्मृतित इवेति । प्रमाणलक्षणे प्रथमाध्याये तृतीयपादे चिन्तितम् । धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यात् । मन्वादि-स्मृतीनां प्रामाण्यसिध्यर्थं श्रुतिमूलत्वसदसद्भावविचारणायां पूर्वपक्षः । न तावदमूषां प्रत्यक्षादिमूलत्वेन प्रामाण्यम् । तेषां धर्माधर्मयोरप्रवृत्तेः । नापि स्वातन्त्र्येण वेदवत्् । पौरुषेयत्वात् । न चोदनामूलत्वेन । तदनुपलम्भात् । नहि तासां प्रत्यक्षेणोपलम्भसम्भवः । अनुच्चार्यमाणत्वात् । उच्चार्यमाणत्वे वा स्मृति-प्रणयनवैय्यर्थ्यम् । प्राक् पठिता अपि सम्प्रति पुरुषाशक्त्योत्सन्ना इति चेत् । किमेका काचिच्छाखा स्मार्तश्रुतिसङ्घातात्मिका पूर्वमासीत्सेदानीमुत्सन्नेति कल्प्यते । किं वा बहुषु शाखास्स्वितस्ततः श्रुतयः स्मृतिमूलभूताः पठिताः सम्प्रत्युत्सन्ना इति । तत्र सहस्रं सामशाखाः एकशतमध्वर्युशाखा इत्यादि-शाखापरिमाणस्य परम्परया सर्वलोकस्मरणान्नातोऽधिकशाखाः सम्भावयितुं शक्यन्ते । नापि पठ्यमानानामत्यन्ताव्यवहिताध्येतृकाणां मध्ये कासांचिच्चोदनानामुत्सादसम्भवः। नापि नित्यानुमेयाः। अन्धपरम्पराभावात् । ननु स्मृतिलिङ्गवशेन निश्चेष्यन्ते चोदनाः लिङ्गादिनेव श्रुतय इति चेत्, विषम उपन्यासः । लिङ्गादयो हि सर्वपुरुषप्रत्यक्षविषयाः श्रुतिमन्तरेणानुपपद्यमानाः युक्तं यत्तस्यानिश्चय-मादधति । स्मृतिवाक्यरचना तु पौरुषेयी यदर्थविषतयोपलभ्यते तद्विषयमेव रचयितुर्ज्ञानं कल्पयति । अष्टकाकर्तव्यताविषयं च स्मृतिवाक्यमिति नूनमयमष्टकाकर्तव्यतां वेदेत्येतावत्प्रथमं कल्प्यते । न श्रुतिस्वरूपं नापि तज्ज्ञानं एवमर्थज्ञाने स्मृतिकारस्य कल्पिते पश्चाज्ज्ञानलिङ्गाज्ज्ञेयभूतार्थानुमानम् । न श्रुतिकल्पनम्् । अथोच्यते । न खलु परकीयेन ज्ञानेन झटित्येवार्थनिर्णयः । मूलानुसन्धानसापेक्षत्वात् । तत्र स्मृतिकारस्यार्थविषयज्ञानमनुसन्दधानः स्मृत्यन्तरमेव सम्भावयेत् । तदपि च ज्ञानस्यैव लिङ्गं नार्थस्य । एवं च ततः पूर्वमपि स्मरणं ज्ञानस्यैव लिङ्गं नार्थस्येति न क्वचिदर्थनिश्चयो लैङ्गिको लभ्यत इति श्रुतिरेव कल्पयितव्या । यद्येवम् । श्रुतावपितु तुल्यमेवैतत्, स्मृतिकारस्य मूलतया श्रुतिज्ञानमेव प्रथमं कल्प्यते न श्रुतिसद्भावः । श्रुतिविषयेण तु ज्ञानेन ज्ञेयभूतश्रुतिनिर्णयः । परज्ञानेन च तद्विषय-श्रुतिनिश्चयो मूलानुसन्धानसापेक्षः। मूलं च स्मृतिकारस्य स्मृत्यन्तरमेव । तदपि चार्थज्ञानद्वारेण श्रुतिज्ञानस्यैव लिङ्गं न श्रुतिसद्भावस्येति न क्वचित्कस्यचिदपि श्रुतिसद्भावनिश्चयो लैङ्गिको लभ्यते । तेन यदि परकीयज्ञानेन प्रागेवार्थनिश्चयः । ततोर्थस्मरणं परम्परयाऽर्थस्यैवानुमानान्न श्रुतिसिद्धिः । अथ स्मृत्यन्तरमेव मूलं स्यादन्धपरम्परया न स्वरूपनिश्चयः स्यात् । एवमुभयथापि न श्रुतिर्नित्यानुमेया सिध्यतीति न तन्मूलत्वेन प्रामाण्यं स्मृतीनाम् । पूर्वपक्षसङ्ग्राहका एते श्लोकाः–
नैतासां श्रुतिमूलत्वे प्रत्यक्षादि प्रवर्तते ।
अर्थापत्तिस्तु नास्त्यत्र भ्रान्त्यादेरपि सम्भवात् ।
नोच्छिन्नश्रुतिमूलत्वं नित्यतोक्तिविरोधतः ।
पठितश्रुतिमूलत्वे स्मृतिप्रणयनं वृथा ।
नित्यनुमेयतायां तु मूलत्वं नैव सम्भवेत् ।
स्मर्तॄणामपि नास्मद्वत्कल्पनं ह्युपपद्यते । इति ।
सिद्धान्तस्तु, तत्सङ्ग्राहकावेतौ श्लोकौ भवतः ।
वैदिकार्थप्रयोक्तॄणामादरेण परिग्रहः ।
स्मार्तेषु वेदमूलत्वं विना नैवोपपद्यते ।
मन्वादयश्च वेदेऽपि प्रवक्तृत्वेन कीर्तिताः ।
तेन तद्वाक्यसत्यत्वं वेदेनैवावधारितम् ।।
यद्वै किञ्चिन्मनुरवदत्तद्भेषजमिति वेदेनैव मानवस्य ग्नन्थस्य प्रमाणत्वाभिधानादेवंविधशिष्ट-परिग्रहदार्ढ्यात्प्रामाण्यमेव वेदमूलत्वेन स्मृतीनाम् । कथमनुच्चारितानां मूलत्वोपपत्तिरिति चेत् । न । उच्चार्यन्त एव श्रुतिभूताः स्मृतयः । सम्प्रत्यपि प्रकीर्णाः काश्चित्क्वचित्कस्यांचिच्छाखायां विप्रकीर्णत्वा-च्छाखान्तराध्यायिभिः शाखान्तरणामनुपलम्भात् तादर्थ्येनार्थवत्तन्निबन्धनम् । उपलम्भेऽपि वा मन्दधी-भिरनुपसंहरणीयानामुपसंहारफलं वा स्मृतिप्रणयनमिति न वैय्यर्थ्यम् । जैमिनिसूत्रार्थस्तु । धर्मस्य शब्द-मूलत्वात् वेदमूलत्वात् । अशब्दमवेदमूलम् । अनपेक्षं धर्मप्रमायामनपेक्षणीयम् स्यात्् इति । एवं स्मृत्युपजीव्यत्वेन तत्सकाशाद्यथा श्रुतेः प्राबल्यं तथा अद्वैतश्रुतिग्राहिप्रत्यक्षस्याप्यद्वैतश्रुत्यपेक्षया प्राबल्यमित्यर्थः ।
प्रत्यक्षस्योपजीव्यत्वमुपपादयति । तच्चेति । अक्षेण ग्राह्यत्वादित्यन्वयः । तथाचानुमानोपजीव्यत्वात् शब्दोपजीव्यत्वाच्च स्वेतरसकलप्रमाणोपजीव्यत्वं प्रत्यक्षस्य । तच्चानुमानागमापेक्षिताशेषार्थग्राहकतया साक्षात्क्वचित्परम्परया क्वचित् इत्यर्थः । यद्यपि लिङ्गपक्षव्याप्त्यादिज्ञानानुमितिरूपत्वनियमेऽनवस्था-प्रसङ्गेन प्रत्यक्षरूपत्वमङ्गीकरणीयमेव । अतीन्द्रियसाध्यकादिस्थलेऽपि परम्परया प्रत्यक्षापेक्षितत्वमिति यथा तथा शब्दाद्युपनीतप्रत्यक्षे अदृष्टद्वारा जन्यप्रत्यक्षमात्रे वा शब्दप्रतीतेरनुमितेरप्युपजीव्यत्वमस्तीति शब्दादेरप्यक्षं प्रत्युपजीव्यत्वमस्ति तथा च प्रमाणविभाजकोपाध्यवच्छेदेनोपजीव्यत्वमिह विवक्षितम् । अस्ति च शब्दत्वावच्छिन्नं च प्रति प्रत्यक्षस्य प्रत्यक्षत्वेनैवोपजीव्यत्वं न तु प्रत्यक्षत्वावच्छिन्ने तयोरुपजीव्यत्वमस्ति । स्वरूपानन्दावगाह्यस्मदादिसाक्षिप्रत्यक्षे परमात्मप्रत्यक्षे च नित्यानुभवत्वेन तदभावादिति । यदाहीति । दृष्टं चैतदपेक्षितैकदेशग्राहिणामप्युपजीव्यत्वं तद्विरुद्धग्रहणे तेन बाधश्च । यथा घटविभुत्वानुमाने पक्षग्राहिणाऽक्षेण । नरशिरःशुचित्वानुमाने साध्यग्राहकेणागमेन । मनोवैभवानुमाने ज्ञानासमवाय्याधारत्वहेतुग्राहकेणानुमानेन । तदा किमु वक्तव्यमपेक्षिताशेषग्राहिणा स्वविरुद्धग्राहकस्य बाध इत्यर्थः । आत्मा स्वसमवेतकार्य्यासमवायिकारणमूर्तसंयोगाधारः विभुत्वात् । आकाशवत् । आत्मवन्मनसो वैभवे ज्ञानादेः सततोत्पादो विभागाभावेन संयोगस्यानित्यत्वादिति । विपक्षबाधसूचनाय मूर्तपदमिति हेतुग्राहकमनुमानं बोध्यम् । चक्षुरादेरिति । प्राबल्यम् । तथा च ज्ञानतद्विपरीतग्राहि-शब्दादेस्तेन बाध इत्यर्थः । सजातीयत्वेन प्राबल्ये निदर्शनमाह । दृष्टं चेति । नरशिरःकपालाशुचित्व-बोधकागमस्य तच्छुचित्वानुमानोपजीव्यशुचित्वानुगमसजातीयत्वेन तदनुमानात् प्राबल्यं प्रमितमित्यर्थः ।
ननु यथानुमानं व्याप्त्याद्यंशे प्रत्यक्षमपेक्षते तथेन्द्रियमपि स्वज्ञानार्थमनुमानमुपजीवतीति सम एवोपजीव्योपजीवकभाव इत्याशङ्क्य निराकरोति । यद्यपीति । इन्द्रियस्याज्ञातकरणतया ज्ञानजननार्थ-मनुमानाद्यनपेक्षा । अनुमानादीनां ज्ञानजननार्थमेव तदपेक्षणादिति विशेष इत्यर्थः । अक्षाप्रमाण्येहीति । व्याप्त्यादेरित्यादिपदेनाबाधितत्वं गृह्यते । अनुमेयस्य व्याप्तिसत्तयाऽपि समानसत्ताकत्वात् । एवं चातद्गुणसंविज्ञानो बहुव्रीहिर्नाश्रयणीयः । साध्याभावप्रमाविरहरूपाबाधितत्वस्य बाधेऽनुमेयस्य बाधनियमस्तथा व्याप्यसत्वेऽपि नानुमेयसत्वम् । योग्यतायाश्चैकपदार्थसंसर्गे अपरपदार्थनिष्ठात्यन्ताभाव-प्रतियोगित्वाभावरूपायाः बाधे शब्दार्थबाधस्यावश्यकत्वमित्यर्थः। तत्र हेतुमाह । अनुमेयस्येति । व्याप्त्यादिनेत्यादिपदेनाबाधितत्वं गृह्यते । न च यादृच्छिकसंवादिलिङ्गविभ्रमवाक्याभासजन्यज्ञानविषयस्य न व्याप्त्यादिसमानसत्ताकत्वमिति देश्यम् । धूमत्वेन धूमे वह्निनिरूपितव्याप्तेः सत्वात् । लिङ्ग-परामर्शविषये बाष्पाध्यस्तधूमे व्याप्तिर्नास्तीति चेत् । धूमत्वेन बाष्पविषयधूमविभ्रमस्य यथार्थानुमिति-साधनत्वाभावेन बाष्पाध्यस्तधूमे व्याप्तेरनपेक्षितत्वात् । बाष्पविषयधूमभ्रमस्य न प्रमानुमितिसाधनत्वं सुवचम् । तज्जातीयस्य सर्वत्र यथार्थज्ञानजनकत्वाभावात् । यज्जातीयानन्तरं नियमेन कार्योत्पत्तिस्तस्यैव साधनत्वेन तान्त्रिकैर्विवक्षितत्वात् । तथा सत्यकारणिका कार्योत्पत्तिरापन्नेति चेत् । न । व्याप्तिज्ञानस्य करणस्य सत्वात् ।
यद्धि यज्जनयित्वैव यज्जनयति तत्र तस्यावान्तरव्यापारत्वमिति व्यापारलक्षणाभावेऽपि लिङ्ग-विभ्रमस्य लोकावगतव्यापारत्वसम्भवात् । तदुक्तम् ।
क्रियायाः परिनिष्पत्तिर्यद् व्यापारादनन्तरम् ।
विवक्ष्यते यदा तत्र कारणत्वं तदा स्मृतम् ।। इति ।
एवं यादृच्छिकसंवादादिवाक्याभासज्ञानविषयस्यापि योग्यतादिना समसत्ताकत्वं बोध्यम्् । अन्यथेति । अनुमेयस्य व्याप्त्यादिना तुल्ययोगक्षेमत्वाभावे । प्रातिभासिकव्याप्त्यादिमतेति । आदिपदेन प्रातिभासिकबाधितत्वं गृह्यते । व्यावहारिकव्याप्त्यादिमतेति । व्यावहारिकाबाधितत्ववतेत्यादिपदार्थः । व्यावहारिकेणाबाधेनेति । पूर्वमनुमाने व्यावहारिकव्याप्त्यादिमतेत्यत्रादिपदेनाबाधितत्वमुक्तं संप्रति घटादिगोचरप्रत्यक्षे व्यावहारिकेणाबाधेन विश्वस्य तात्विकत्वं सिध्येदित्युच्यत इति भेदः । विरुद्धधर्माधि-करणत्वेनैत्यत्रापि व्यावहारिकेणेत्येतदनुषञ्जनीयम् । शब्दार्थस्य योग्यतादिना समसत्ताकत्वानङ्गीकारेऽपि अतिप्रसङ्गमाह । प्रातिभासिकयोग्यतादिमताऽनाप्तवाक्येन चेति । अन्यथेत्यनुवर्तते ।
ननु प्रतिबिम्बस्य मिथ्यात्वपक्षे प्रतिबिम्बे व्याप्त्यबाधितत्वयोरसत्वेनानुमेयतुल्ययोगक्षेमत्वं व्याप्त्यादे-र्नास्तीत्यत आह । प्रतिबिम्बस्य मिथ्यात्वेऽपीति । तन्मिथ्यात्वपक्षेऽपीत्यर्थः। अपिशब्दो गर्हार्थः । प्रतिबिम्बस्य सूर्यकादेर्मिथ्यात्वे ब्रह्मप्रतिबिम्बानां जीवानामपि मिथ्यात्वापातादिति तन्मिथ्यात्वं गर्हितमित्यर्थः । बिम्बरहितावृत्तिरूपा बिम्बसन्निहितोपाध्यवृत्तित्वरूपेत्यर्थः । यथाश्रुते असम्भवात् । प्रतिबिम्बस्य सूर्यकादेः सूर्यादिबिम्बनाश्रयजलाद्युपाधिवृत्तित्वात् । एवं च प्रतिबिम्बो बिम्बाधीनः तत्सन्निधिविरहप्रयुक्तविरहप्रतियोगित्वात् । सम्मतवत् । उपरि सविता जलसूर्यकत्वादिति वा आदर्शे तत्प्रतिबिम्बवत्वादिति वा प्रतिबिम्बेन बिम्बानुमाने नान्वयव्यतिरेकव्याप्त्यसत्वादबाधितार्थकत्वस्यापि सत्वादनुमेयस्य तत्समानसत्ताकत्वमस्त्येवेति भावः । व्याप्तौ सत्यां वैय्यधिकरण्यस्यादोषत्वादिति बोध्यम् ।
ननु धूमस्य यादृशेन वह्निना यादृशी व्याप्तिस्तादृशव्याप्तिमता धूमेन पक्षे तादृशो वह्निः सिध्यति । यादृशं च साध्यस्य सत्वमादाय धूमवत्वहेतोरबाधितविषयत्वं सम्भवति तादृशमेव साध्यस्य सत्वं हेतुना सिद्ध्यति । धूमादेस्तु व्यावहारिकव्याप्त्यादिमत्वेन व्यावहारिकोग्निः सिध्यति । दृश्यत्वस्य तु तात्विक-मिथ्यात्वेन व्याप्तिः । अबाधितविषयकत्वं च तात्विकसत्वगर्भम् । अतो दृश्यत्वगतेन व्याप्त्यादिमत्वेन तात्विकमिथ्यात्वसिद्धिः । धूमादिना तु व्यावहारिकसाध्यसिद्धिरित्यत आह । न च धूमस्येति । व्याप्तिरित्यबाधितविषयत्वस्याप्युपलक्षणम् । धूमे विद्यमानं व्याप्त्यादिमत्वं व्यावहारिकसाध्यसत्वे-नाप्युपन्नम् । दृश्यत्वे विद्यमानं व्याप्त्यादिमत्वं तु तात्विकमिथ्यात्वं विनाऽनुपपन्नमतस्तात्विकमिथ्यात्वं साधयतीति वक्तुमशक्यम् । शुक्तिरूप्यादिमिथ्यात्वस्यापि व्यावहारिकत्वेन दृश्यत्वस्य तात्विकमिथ्यात्वेन व्याप्त्यभावात् । दृश्यत्वगतस्याबाधितविषयकत्वादेरपि तात्विकस्य दुर्वचत्वात् । तथाचानुमेयस्य व्याप्त्यादिमत्वेन तुल्ययोगक्षेमत्वानङ्गीकारेऽपि धूमादेर्व्यावहारिकसाध्यानुमितिरेव । दृश्यत्वादेस्तु त्वात्विकमिथ्यात्वानुमितिरेवेति व्यवस्थासिध्यभाव इत्यर्थः । ननु दृश्यत्वादेस्तात्विकार्थसाधनस्वभाव-त्वादेव तथाविधार्थसिद्धिः धूमादेस्तात्विकार्थसाधनस्वभावो नास्तीति यवबीजात्कलमाङ्कुरस्यैव न धूमादेस्तात्विकार्थसिद्धिरित्यत आह । नचाद्यापीति । अस्या व्यवस्थायाः प्रपञ्चसिध्युत्तरकालीनत्वेना-न्योन्याश्रयादिति भावः । येन क्लृप्तेति । अनुमेयस्य व्याप्त्यादिना तुल्ययोगक्षेमत्वादिनियमो येन तत्वावेदकत्वावेदकप्रमाणविभागेन व्यवस्थितेन त्याज्यः स्यात् स एवासिद्धः तत्सिध्यर्थकपरोपन्यस्तानु-मानादेरुक्तदूषणकलापजङ्घालिकत्वात् न क्लृप्तनियमत्याग इत्यर्थः । कारणं विनापि क्लृप्तनियमत्यागे बाधकमाह । अकस्मादिति । तथा च दृश्यत्वस्य मिथ्यात्वनियमत्यागे दृश्यत्वहेतुना मिथ्यात्वसिद्धिरपि न स्यादिति भावः ।
अत्र विवर्तवादिनो वदन्ति । एतावता हि व्याप्त्यादिसमानसत्ताकमनुमेयं सिध्यत्वित्यापत्तेः फलितोऽर्थः । स चास्माकमिष्ट एव नहि ब्रह्मभिन्नं किञ्चिदप्यत्यन्ताबाध्यमस्ति । नचायमनुमेयादे-र्व्याप्त्यादिना समसत्ताकत्वनियमोऽप्यस्ति । व्यभिचारिणापि लिङ्गेन साध्यवति पक्षेऽनुमितिप्रमादर्शनात् । ध्वनिधर्महृस्वत्वदीर्घत्वादिविशिष्टत्वेन मिथ्याभूतैरपि नित्यैर्विभुभिर्वर्णैः सत्या शाब्दप्रतीतिः क्रियत इति मीमांसकैरपि स्वीकारात् । गन्धप्रागभावावच्छिन्ने घटे तात्विकव्याप्त्यादिमताऽपि पृथिवीत्वेनातात्विक-गन्धानुमितिदर्शनात् । प्रतिबिम्बेन बिम्बानुमिति दर्शनात् । न च तत्रापि बिम्बरहितावृत्तित्वरूपा व्याप्तिस्तात्विक्येवेति वाच्यम् । एवं सत्यवृत्तिगगनादेरपि व्याप्यतापत्तेः। न च बिम्बपूर्वकत्वमेवानुमीयते । बिम्बव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वरूपेण प्रातिभासिकेन हेतुनेति व्याच्यम् । प्रयुक्तत्वं हि न तज्जन्यजनकत्वादिरूपम् । व्यतिरेकयोः परस्परं तदभावात् । किन्तु व्याप्यव्यापकभावः । तथा च बिम्बव्यतिरेकव्यापकव्यतिरेकप्रतियोगित्वं हेतुः । स चाकाशादौ व्यभिचार्येव । तस्मात् तत्र प्रतिबिम्बेनैव बिम्बानुमानम् । अनुमेयस्य लिङ्गव्यप्त्यादिसमानसत्ताकत्वनियमस्यापास्तत्वात् । एतेन शब्देऽपि योग्यतासमानसत्ताकेन शब्दार्थेन भवितव्यम् । योग्यतावाक्यार्थयोः समसत्ताकत्वनियमादिति कथं वेदान्तवाक्यार्थो योग्यताबाधेऽप्यबाधितं स्यादिति परास्तम् । वेदान्तवाक्ये अखण्डार्थरूपवाक्यार्था-बाधरूपाया योग्यताया अप्यबाधाच्चेति ।
अत्रोच्यते । यत्तावदुक्तमनुमेयस्य व्याप्त्यादिना समसत्ताकत्वमिष्टमिति । तदसत् । मिथ्यात्व-निरूपितदृश्यत्वगतव्याप्त्यादेर्ब्रह्मभिन्नत्वेनातात्विकतया तत्समानसत्ताकानुमेयमिथ्यात्वानुमितेरतात्विक-विषयत्वापातेनानिष्टत्वात् । नचैतत्सपरिकरमनुमेयं मिथ्यात्वं ब्रह्मस्वरूपम् । तस्याखण्डत्वेनाङ्गीकारात् ।
यदप्युक्तम् । अनुमेयस्य व्याप्त्यादिना समानसत्ताकत्वनियमो नास्तीत्यादि । तदयुक्तम् । अनुमेय-पदेन नियमेन यथार्थलिङ्गपरामर्शजन्यानुमितिविषयस्य विवक्षितत्वात्, मिथ्यात्वे प्रमाणत्वेनोपन्यस्तस्य दृश्यत्वादेर्यादृच्छिकसंवादिलिङ्गविभ्रमादिव्यभिचारिलिङ्गव्यावृत्तेः परेणाप्यवश्याभ्युपगमनीयत्वात् । सर्वप्रमानुमितिविषयस्य हेतुगताबाधितार्थकत्वादिना तुल्ययोगक्षेमत्वाच्च । साध्यवति साध्यज्ञानजनके व्यभिचारिणि लिङ्गेऽप्यबाधितार्थकत्वस्य सत्वात् । तत्वविन्मते विवर्तमते मीमांसकमते च गुणगुणिनोः सहैवोत्पादाङ्गीकारेण गन्धप्रागभावावच्छिन्नघटस्याभावेन तत्र पृथिवीत्वेन गन्धानुमितेरेवायोगात् । तार्किकमते रूपप्रागभावकाले रूपानुमितिजनके पृथिवीत्वे व्याप्तिपक्षधर्मतयोः सत्वेऽप्यबाधितत्वस्या-भावेन साध्यानुमितेर्भ्रमत्वात् । अत एव बाधितत्वं प्रमानुमितौ गुण इति नैय्यायिकाः । नहि दोष-वशादन्यथात्वे वस्तुत्वहानिः । तथात्वे वेत्रबीजस्यापि वेत्राङ्कुरजनकत्वं न स्यात् । दावदग्धवेत्रबीजस्य कदलीकाण्डजनकत्वात् । यच्चोक्तं वर्णेष्वविद्यमानेन दैर्घ्यादिना सत्या शाब्दप्रमितिः क्रियत इति । तदप्यसत् । दैर्घ्यादेरहेतुत्वात् । तज्ज्ञानस्यैव शाब्दधीहेतुत्वात् । तस्य च वाक्यार्थसमसत्ताकत्वात् । मन्मते तार्किकादिमते च दैर्घ्यादेरपि सत्वाच्च ।
यदप्युक्तम् । प्रतिबिम्बे यदि बिम्बरहिताव्यावृत्तित्वरूपा व्याप्तित्सर्ह्याकाशादेरपि बिम्बरहितावृत्ति-त्वेन बिम्बव्याप्त्यापत्तिरिति । तन्न । स्वपरासम्मतेः । सदा सर्वत्र देशकालावित्यबाधितप्रतीतेर्गगनादे-र्बिम्बासन्निहितघटादिवृत्तित्वेन मुखादेर्बिम्बाव्याप्यत्वात् । त्वन्मते चाविद्याधिष्ठानात्माध्यस्तत्वेना-वृत्तित्वाभावात् । तार्किकमतेनेष्टापत्तेश्च । पक्षधर्मताविरहादाकाशादेः परं नानुमितिहेतुत्वम् । पक्षधर्मता-समानाधिकरणव्याप्तेरेवानुमितिहेतुत्वात् । यद्यपि तद्विरहव्यापकविरहप्रतियोगित्वस्य न्यायमतेनावृत्ति-गगनादौ व्यभिचारस्तथापि प्रतिबिम्बो बिम्बाधीनः तद्विरहज्ञाप्यविरहप्रतियोगित्वात् यथा तन्तुविरह-ज्ञाप्यविरहप्रतियोगी पटस्तन्त्वधीन इति वा प्रतिमुखं मुखाधाीनं प्रतिबिम्बत्वात् सूर्यकादिवदिति वा विवक्षितत्वान्न कश्चिद्दोष इति बोध्यम् । यच्चोक्तमखण्डार्थबाधरूपा योग्यता वेदान्तवाक्येऽप्यस्तीति । तन्न । क्रियाकारकरूपस्य संसृष्टपदार्थस्य क्रियाकारकभावरूपस्य वा पदार्थसंसर्गस्याभेदरूपसंसर्गस्य वा वाक्यार्थस्याखण्डत्वविरोधित्वात् । त्वदभिमतवाक्यार्थाबाधरूपयोग्यताया ब्रह्मभिन्नत्वे तात्विकत्वानु-पपत्तेः । अभिन्नत्वे ब्रह्माखण्डत्वव्याकोपात् । बाधाभावगर्भिताया योग्यतानिर्विशेषब्रह्मभिन्नत्वस्य दुर्वचत्वाच्च । तस्मात् साधूक्तमनुमेयस्य व्याप्त्यादिना समानसत्ताकत्वमिति ।
न्यायामृतसौगन्ध्यम्
किञ्चोपजीव्यत्वेनापि प्रत्यक्षस्य प्राबल्यम् । उपजीव्यत्वं चानुमानगमापेक्षिताशेषार्थग्राहकतया । सा च क्वचित्साक्षात्क्वचित्परम्परया । दृष्टं चापेक्षितैकदेशग्राहिणामप्युजीव्यत्वम् । तद्विरुद्धग्रहणे तेन बाधश्च । यथा घटविभुत्वानुमने पक्षग्राहिणा अक्ष्णा नरशिरःशुचित्वानुमाने साध्यग्राहकेणागमेन (गोपुच्छभजदन्तादिप्राण्यङ्गं स्पर्शतः शुचिरित्यागमेन) मनोवैभवानुमाने ज्ञानासमवाय्याधारत्वहेतु-ग्राहकेणानुमानेन (मनः ज्ञानासमवायिकारणसंयोगाश्रयं इन्द्रियत्वात् इतरेन्द्रियवदित्ेयनुमानेन) किमु वक्तव्यमपेक्षिताशेषग्राहिणा विरुद्धग्राहकस्य बाधः । (शुचित्वागमविरोध्यागमः ‘‘नारं स्पृष्ट्वाऽस्थि सस्नायु सचैलो जलमाविशेदिति’’ ।) (मनो वैभवानुमानविरोध्यनुमानं, मनो न विभु ज्ञानयौगपद्या-
भावात् । यन्नैवं तन्नैवमिति) चक्षुरादेश्च शब्दतज्जन्यज्ञानप्रामाण्याद्यग्राहित्वेऽपि तद्ग्राहिश्रोत्र(साक्ष्यादि)- सजातीयत्वादुपजीव्यत्वम् । दृष्टं च नरशिरःकपालाशुचित्वबोधकागमस्य तच्छुचित्वानुमानोपजीव्य-शुचित्वागमसजातीयत्वेन तदनुमानात्प्राबल्यम् ।
न्यायामृतमाधुरी
प्रत्यक्षस्य जात्या बलीयस्त्वं समर्थ्य सम्प्रति तस्योपजीव्यतयाऽपि तत्सिषाधयिषुः प्रतिजानीते- किञ्चेति ।। श्रुतेः स्मृतित इवेति । प्रमाणलक्षणे स्मृतीनां स्वातन्त्र्येण न धर्मे प्रामाण्यम् । पौरुषेयत्वेन दोषशङ्काकलङ्कितत्वात् । न प्रत्यक्षमूलकत्वेन, स्मृतिवैय्यर्थ्यात् । नोच्छिन्नशाखा-मूलकत्वेन । शाखेयत्तायाः परम्परया सर्वजनीनत्वेन तदुच्छेदासम्भवात् । नित्यानुमेयवेदमूलत्वे चोद्यपरम्परादोषात् । तस्माद्भूतमूलत्वेनाप्रामाण्यमिति चेदित्याशङ्क्य, स्यात्स्मृतीनां प्रमाणत्वं मूलवेदानुमानतः । शिष्टकृतत्वात् तत्परिग्रहाच्च वेदानुमापकत्वेन प्रामाण्यं स्यात् । विप्रकीर्णशाखा-मूलकत्वानुमानाच्च नान्धपरम्परा सर्वशाखाध्ययनाभावात्कथञ्चित्तद्दर्शनेऽपि सर्वोपसंहारासामर्थ्यात्, तदुपसंहारफलं स्मृतिप्रणयनम् । अतः स्मृतीनां वेदमूलकत्वेनैव प्रामाण्यमिति सिद्धान्तितम् । तच्चेति ।। सर्वनामोपजीव्यत्वपरामर्शकम् । ग्राह्यत्वादित्यनेनान्वेति । यदा हीति ।। आद्ये प्रकृतौपयिकैकदेशपक्षमात्रग्राह(ग्रहजन)कतया द्वितीये तादृशसाध्यमात्रग्राहकतया तृतीये तादृशहेतु-मात्रप्रत्यापकतयोपजीव्येनाक्षादिना तत्स्थलीयसाध्यव्यतिरेकपरिच्छेदकतया बाधनस्य दर्शनेन प्रकृतौपयिकनिखिलग्रहजनकतयोपजीव्यभूतेन प्रकृतसाध्यव्यतिरेकमवगाहमानेन प्रत्यक्षेण प्रकृतानुमान बाधनस्य कैमुत्यन्यायसिद्धत्वादित्यर्थः । तुल्यदिशाऽनुमानस्यापीन्द्रियस्वरूपगोचरानुमितिरूपसिद्धिं प्रति हेतुतया प्रत्यक्षनिरूपितोपजीव्यतामाशङ्कते । यद्यपीति ।। समाधत्ते तथापीत्यादि ।। अनुमानस्य स्वफले जननीये प्रत्यक्षस्यानुसरणवन्न प्रत्यक्षेण तस्मिन् जनयितव्ये अनुमानानुसरणं तदधीन-स्वाधिगमानपेक्षणादिति भावः । अक्षस्योपजीव्यतां द्रढयति । अक्षेत्यादि । तत्सिद्धस्य तदवधृतस्य । व्याप्त्यादेरिति । चित्रगुरित्यादिवदतद्गुणसंविज्ञाननिर्देशोऽयम्, अबाधितत्वस्येत्यर्थः । यथाश्रुतस्य बाधानुत्पादकत्वात् । योग्यतादेः एकपदार्थसंसर्गे अपरपदार्थनिष्ठत्वस्य । अनुमेयस्य साध्यस्य । शब्दार्थस्य एकपदार्थानुयोगिकापरपदार्थप्रतियोगिकसंसर्गस्य । आपत्तावापादकमाह ।। अनुमेयस्येति । तुल्ययोगक्षेमत्वादित्यनेनान्वेति । व्याप्त्यादिना अबाधितत्वेन । तृतीयान्तचतुष्टयोपस्थापितनिरूपकत्वं तुल्यपदार्थतावच्छेदकेऽन्वेति । षष्ठीद्वयोपस्थापिताधेयत्वं हेतुविभक्तिप्रकृत्यर्थे । तथा च प्रत्यक्षा-प्रामाण्येऽनुमानादिप्रामाण्यमेव दुर्लभं तत्प्रामाण्ये तु तत्प्रामाण्यं सुलभमिति तत्तस्योपजीव्यमेवेति भावः । अन्यथा अनुमेयादेः अबाधितार्थकत्वादिना तुल्ययोगक्षेमत्वानुपगमे । द्विरुचरितेन च सिध्येदित्यनेनान्वेति । प्रातिभासिकव्याप्त्यादिमता । अथाद्वैतवादी प्रतिबिम्बेन यदा बिम्बमनुमिमीते तदा तन्मतेऽनुमापकस्य मिथ्यात्वोपगमेनानुमेयस्याबाधिततुल्ययोगक्षेमता दुरूपपादेत्यत आह ।। प्रतिबिम्बस्येति । इत्थं च प्रकृतहेतौ प्रकृतसाध्यनिरूपितव्यतिरेकव्याप्तिसद्भावेनाबाधितार्थकत्वं सूपपादमिति तेनानुमेयस्य तुल्ययोगक्षेमता सङ्गच्छते इत्याशयः । क्लृप्तनियमेति । अनुमेयस्या-बाधितविषयत्वादिना समानयोगक्षेमत्वादिनियमस्य त्याग इत्यर्थः ।
अत्राद्वैतसिद्धिकारः । एतावता हि व्याप्त्यादिसमानसत्ताकमनुमेयं सिध्यत्वित्यापत्तेः फलितोऽर्थः । स चास्माकमिष्ट एव । न हि ब्रह्मभिन्नं किञ्चिदत्यन्ताबाध्यमस्ति । न चायमनुमेयादेर्व्याप्त्यादिना समानसत्ताकत्वनियमोऽप्यस्ति । व्यभिचारिणाऽपि लिङ्गेन साध्यवति पक्षेऽनुमितिप्रमादर्शनात् । ध्वनिधर्महृस्वत्वदीर्घत्वादविशिष्टत्वेन मिथ्याभूतैरपि नित्यविभुभिर्वर्णैः सत्या शाब्दप्रमितिः क्रियत इति मीमांसकैरभ्युपगमात् । गन्धप्रागभावावच्छिन्ने घटे तात्विकव्याप्त्यादिमताऽपि पृथिवीत्वेना-तात्विकगन्धानुमिति दर्शनात् । प्रतिबिम्बेन च बिम्बानुमितिदर्शनात् । न च तत्रापि बिम्बरहिता-वृत्तित्वरूपा व्याप्तिस्तात्विक्येवेति वाच्यम् । तथा सत्यवृत्तिगगनादेरपि व्याप्यतापत्तेः । न च तत्र बिम्बपूर्वकत्वमेवानुमीयते । बिम्बव्यतिरेक प्रयुक्तव्यतिरेकप्रतियोगित्वरूपेणाप्रातिभासिकेन हेतुनेति वाच्यम् । प्रयुक्तत्वं न तज्जनकत्वतज्जन्यत्वादिरूपम् । व्यतिरेकयोः परस्परं तदभावात् । किन्तु व्याप्यव्यापकभावः । तथा च बिम्बव्यतिरेकव्यापकव्यतिरेकप्रतियोगित्वं हेतुः । स चाकाशे व्यभिचार्येव । तस्मात् तत्र प्रतिबिम्बेन बिम्बानुमानम् । अनुमेयस्य लिङ्गव्याप्त्यादिसमसत्ताकत्व-नियमस्यापास्तत्वात् । एतेन शब्देऽपि योग्यतासमानसत्ताकेन शब्दार्थेन भवितव्यं, योग्यतावाक्यार्थयोः समानसत्ताकत्वनियमादिति कथं वेदान्तवाक्यार्थो योग्यताबाधेऽप्यबाधितः स्यादिति परास्तम् । वेदान्तवाक्येऽखण्डार्थरूपा(पवाक्यार्थाबाधरूपा)याः योग्यताया अबाधितत्वाच्च ।
अत्र ब्रह्मानन्दः, व्याप्यतापत्तेरिति प्रतीकव्याख्यावसरे, न चेयमापत्तिरिष्टैव पक्षधर्मताधी-विलम्बादेवानुमितिविलम्बसम्भवादिति वाच्यमिति तरङ्गिणीकृतां मतमाशङ्क्य गगनादौ जगद्व्याप्यत्व-व्यवहारस्यानुभवविरुद्धत्वात् । किञ्च व्याप्यविशेष्यकपरामर्शस्याप्यनुमितिहेतुत्वाद्वह्निव्याप्यगगनं पर्वतीयमिति ज्ञानात्पर्वते वह्न्यनुमितिः स्यात् । गगनेऽवृत्तित्वज्ञानस्य गगनप्रकारकधीप्रतिबन्धकत्वेन तत्काले तदनुत्पादेऽपि तद्विशेष्यकपरामर्शोत्पादे बाधकाभावात् । किञ्च गगनादेरित्यादिपदेन तत्तज्जलीयरूपादेरपि व्याप्यतापत्तिरुक्ता । केनचित् सम्बन्धेन तस्यापि साध्याभाववद्वृत्तित्वस्याभावात् हेतुतावच्छेदकसम्बन्धेन वृत्तित्व-निवेशे सत्तावान् द्रव्यत्वादित्यादावव्याप्तेरिति दिगिति स्वपाण्डितीं प्रादर्शयत् ।
तत्राद्यस्तावत् स्थूलदृश्वा । मिथ्यात्वं यदि बाध्यं स्याज्जगत्सत्यत्वमापतेदित्यनेन जग-त्सत्यत्वापादकस्य मिथ्यात्वमिथ्यात्वस्यानिष्टतायाः प्रागेव ग्रन्थकृता समर्थिततया स चास्मकमिष्ट एवेत्यस्य क्षीब कृतविन्यासत्वात् । व्याप्त्यादीत्यस्याबाधितविषयत्वार्थकतया व्याख्याततया तस्य चानुमेयसमानसत्ताकताध्रौव्यात् । वस्तुतोऽनैङ्कान्तिकलिङ्गज्ञाननिबन्धनसाध्यवत्पक्षविधेयकानुमिति प्रामाण्यनिर्वाहकाबाधितविषयत्वस्य तत्राक्षततया तन्निर्वाहात् । गन्धप्रागभावावच्छिन्ने घटे पृथिवीत्वेन गन्धसाधने प्रकृतपक्षतावच्छेदकीभूतगन्धप्रागभावावच्छेदेन घटे गन्धबाधेनाबाधितविषयत्वस्याभावेन तन्निबन्धनस्यापि दुःस्थत्वात् । अत एवाबाधितत्वं प्रमानुमितौ गुण इति न्यायनयीयोक्तिरपि सङ्गच्छते । दैर्ध्यादिज्ञानस्यैव शाब्दधीहेुतत्वोपगमेन तस्य चान्वयधीविषयसमानसत्ताकताऽक्षतैव । न्यायतत्वे दैर्ध्यादेर्वर्णधर्मत्वोपगमेनापि न क्षतिः । एकपदार्थानुयोगिकापरपदार्थप्रतियोगिकसंसर्गस्य संसृष्टस्य वा वाक्यार्थतायाः स्थिततया तथात्वस्याखण्डताप्रतिकूलत्वात् ।
द्वितीयस्यापि पाण्डिती बालिशमनोरञ्जिनी । व्याप्तिसिद्धान्तलक्षणे दीधितिकृतैव ‘एवं संयोगेन गगनादेरपि द्रव्यत्वव्याप्यत्ववृत्तिनियामकसंयोगमात्रस्याभावप्रतियोगितावच्छेदकसम्बन्धरूपत्वे साध्यता वच्छेदकसम्बन्धेन प्रतियोग्यसम्बन्धत्वाभिधाने वा पृथिवीत्वादिव्यापकत्वमपि । तदभावतोऽपि पृथिव्यादेः संयोगेन तत्सम्बन्धित्वात् । सिद्धिरपि तस्य तथैव । न तु वृत्तिनियामकसम्बन्धेन । तेन सम्बन्धित्वादव्यापकत्वाच्च । व्यक्तीभविष्यति चैतदुपरिष्टादित्यभिहितत्वात् । विरुद्धत्वा-दित्यन्तस्यासङ्गतत्वात् ।
तरङ्गिणीकारैस्तु साध्याभाववदवृत्तित्वमात्रशरीराया व्याप्तेर्नित्यद्रव्याणामवृत्तित्वमते गगनादौ दुरपह्नवत्वेऽपि प्रकृतहेतुतावच्छेदकीभूतवृत्तिनियामकसंयोगसम्बन्धेन प्रकृतपक्षधर्मताज्ञानविरहादेव तल्लिङ्गकानुमितिर्वारिता । व्याप्यविशेष्यकपक्षप्रकारकपरामर्शे गगनधर्मिकावृत्तित्वप्रकारकज्ञानस्य ग्राह्याभावानवगाहिनो विरोधित्वेऽपि प्रकृतहेतुतावच्छेदकीभूतवृत्तिनियामकसंयोग-संसर्गावच्छिन्ना-धेयतासम्बन्धावच्छिन्नपक्षनिष्ठप्रतियोगिताकाभावप्रकारकगगनधर्मिकग्रहस्येव गगनं पर्वत इत्याकारक-स्याकरनिर्णीततत्प्रतिबन्धकताकस्याक्षततया तादृशपरामर्शोत्पत्त्ययोगेन तेन तादृशानुमित्यापादनस्य प्रज्ञाचक्षुष्कधानापितत्वात् । जलीयरूपादौ निर्धूमनिरूपितसंयोगसम्बन्धावच्छिन्नवृत्तित्वाभावरूप-व्याप्तेरनपायत्वेऽपि तेन सम्बन्धेनोक्तदिशा पक्षधर्मताविरहादेव तल्लिङ्गकानुमितेः सुनिरासत्वात् । प्रकृतहेतुतावच्छेदकसम्बन्धसामान्ये प्रकृतसाध्याभावाधिकरणानुयोगिकत्वयद्रूपविशिष्टप्रतियोगिकत्वो-भयाभावस्तद्रूपवत्वस्य व्याप्तिसिद्धान्तलक्षणे दीधितिकारप्रदर्शितदिशा विवक्षिततया सत्तावान् द्रव्यत्वादित्यादावव्याप्तेः स्वस्तनन्धयं प्रत्येव वक्तव्यत्वादिति समासः ।