किञ्च त्वन्मते पदद्वये लक्षणा, ततो वरं मद्रीत्यैकस्मिंस्तत्पदे त्वंपदे वाऽमुख्य-वृत्तिः
२८. तत्त्वमस्यादिवाक्यार्थः
न्यायामृतम्
किञ्च त्वन्मते पदद्वये लक्षणा, ततो वरं मद्रीत्यैकस्मिंस्तत्पदे त्वंपदे वाऽमुख्य-वृत्तिः । १तथा हि– तत्साहचर्यात्तदितिव्यपदेशः । ‘वसन्तादिभ्यष्ठक्’ इत्यत्र ‘साहचर्यात्ताच्छब्द्यं भविष्यति वसन्तसहचरितम् अध्ययनं वसन्ते’ इति महा-भाष्योक्तेः । प्रसिद्धं च जीवस्य ब्रह्मसहचरितत्वं ‘द्वा सुपर्णा’ इत्यादौ । यद्वा तदाश्रितत्वात्तदितिव्यपदेशः । ‘समर्थः पदविधिः’ इत्यत्र समर्थपदाश्रितत्वात्पद-विधिरुपचारेण समर्थ इति पदेनोच्यत इति महाभाष्योक्तेः । ‘सर्वाः प्रजाः सदायतना’ इति वाक्यशेषाच्च । अथवा ‘ब्राह्मणोऽस्य मुखमासीदि‘त्यादिवत् ततो जातत्वात्तदि-तिव्यपदेशः । ‘इग्यणः सम्प्रसारणम्’ इत्यत्र यथा काकाज्जातः काकः श्येनाज्जातः श्येनः । एवं सम्प्रासारणाज्जातो वर्णः सम्प्रसारणमिति महाभाष्योक्तेः । ‘सन्मूलाः सोम्येमाः सर्वाः प्रजाः’ इति वाक्यशेषाच्च ।
ब्राह्मणो मुखमित्येव मुखाज्जातत्वहेतुतः ।
यथाऽवदत् श्रुतिस्तद्वज्जीवो ब्रह्मेतिवाग्भवेत् ।। इति स्मृतेश्च ।
अथवा ‘धान्यमसि धिनुहि’ इत्यत्र तण्डुले धान्यशब्दवत् तदधीनत्वात्तदिति व्यपदेशः । ‘प्राणबन्धनं हि सोम्य मनः’ इति वाक्यशेषे जीवस्येशाधीनत्वोक्तेः । ‘यदधीना यस्य सत्ता तत्तदित्येव भण्यते’ इति २भारतोक्तेश्च । अथवा अतिदेशोऽयं तद्वत्त्वमसीत्यर्थः । ‘बहुगण’ इत्यादिसूत्रे बहुगणवतुडतयः सङ्ख्यावद्भवन्ति अन्तरेणापि वतिम् अतिदेशो गम्यते अब्रह्मदत्तं ब्रह्मदत्त इत्याह । तेन वयं मन्यामहे ब्रह्मदत्तवदयं भवति’ इति महाभाष्योक्तेः । ‘सारूप्यात्’ इति जैमिनिसूत्रे ‘आदित्यो यूपः’ इत्यादिकं सादृश्यादित्युक्तत्वाच्च । ‘तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत्’ इति ब्रह्मसूत्रे ब्रह्मगुणयोगाज्जीवे तदिति व्यपदेश इत्युक्तत्वाच्च ।
भिन्नाज्जीवात् परो भिन्नस्तथापि ज्ञानरूपतः ।
प्रोच्यन्ते ब्रह्मरूपेण वेदवादेषु सर्वशः ।। इति स्मृतेश्च ।
अन्यथा तत्त्वमसीति वाक्यम् अबोधकं स्यात् । यथोक्तं महाभाष्ये ‘यो गामश्व इति ब्रूयात् न जातुचित्सम्प्रत्ययः स्यात्’ इति । यद्वा शाखासदेशे चन्द्रे शाखा-शब्दवत् जीवान्तर्यामितया जीवसदेशे ब्रह्मणि त्वमिति व्यपदेशः । ‘य आत्मनि तिष्ठन्’ इत्यादि श्रुतेः । यद्वा ‘ब्राह्मणो वै सर्वा देवताः’ इत्यादिवत् जीवाश्रयत्वाद् ब्रह्मणि त्वमिति व्यपदेशः । यद्वा ब्रह्मणः सर्वकर्तृत्वाद् ‘यजमानः प्रस्तरः’ इत्यादिवत्तत्सिद्ध्या त्वमिति व्यपदेशः । एवञ्च–
तदधीनत्वताद्देश्यतात्स्थ्यताद्धर्म्यपूर्वकैः ।
निमत्तैस्तत्त्वमस्यादिसामानाधिकरण्यगीः ।।
न चैवं मुख्यार्थत्यागदोषः । अन्तर्यामिणि ‘त्वम्’ इत्यादेर्मुख्यताया वक्ष्य-माणत्वात् । त्वद्रीत्या पदद्वयलक्षणातः मद्रीत्या एकपदलक्षणाया ज्यायस्त्वाच्च । किञ्च जहदजहल्लक्षणायां वाच्यान्तर्गतत्वेन प्राग्धीस्थस्याप्यनन्तरम् अनुपपत्तिदर्शनेन त्यक्तस्य पुनः स्वीकारः । जहल्लक्षणायां तु अधीस्थस्याप्यत्यक्तस्यैव स्वीकारः । त्यक्तस्वीकारादपि वरम् अधीस्थस्वीकारः । एवञ्च–
एकस्यामुख्यवृत्त्यैव तत्त्वमित्यस्य सम्भवे ।
भेदेनैवैक्यपरताऽनेकलक्षणया कुतः ।।
न च सदेवेत्यादिवाक्ये लक्षणया प्रकृते शुद्धे प्रकृत वाचिनस्तत्पदस्याऽभिधैवेति वाच्यम् । शुद्धस्यावाच्यत्वात् । तदित्येकपदलक्षणानिरासाय ‘तदैक्षत तत्तेजोऽसृजत’ इत्याद्यनेकपदलक्षणायोगाच्च ।
यद्वा ‘सुपां सुलुक्’ इत्यादि सूत्रात् तृतीयाविभक्त्यादेर्लुक् प्रथमैकवचनादेशो वा । ततश्च तेन ‘त्वं तिष्ठसि’ इति वा ‘ततस्त्वं जातः’ इति वा, ‘तस्य त्वम्’ इति वा, ‘तस्मिंस्त्वम्’ इति वाऽर्थः । ‘अनेन जीवेनात्मनाऽनुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति,’ ‘सन्मूलाः सोम्येमाः सर्वाः प्रजाः’ ‘ऐतदात्म्यमिदं सर्वम्’ इत्यादिवाक्यशेषात् । मीमांसकैः ‘उत यत्सुन्वन्ति सामिधेनीस्तदन्वाहुः’ इत्यत्र यत्र सुन्वन्ति तत्र हविर्धाने स्थित्वा सामिधेनीरनुब्रूयादिति सप्तम्यर्थे प्रथमास्वीकाराच्च । न्याय्यं च निरवकाशप्रधानभूतानेक प्रातिपदिकस्वारस्याय सङ्ख्यार्थत्वेन सावकाशा-प्रधानैकविभक्त्यस्वारस्यम् । ‘प्रोद्गातॄणाम्’ इत्यत्र तु विभक्त्यन्तरे प्रथमैकवचनस्येव षष्ठीबहुवचनस्यान्यत्राविधानात् बहुवचनानुसारेण प्रातिपदिकस्य प्रस्तोत्रादिच्छन्दोगेषु लक्षणाऽऽश्रिता । दृष्टं च ‘प्रयाजशेषेण हवींष्यभिघारयति’ इत्यत्र प्रयाजशेष-प्रातिपदिकस्वारस्याय प्रयाजाशेषं हविःषु प्रक्षिपतीति विभक्त्यस्वारस्यम् । एवं च–
आवकाशोज्झितानेकमुख्यनामानुसारतः ।
युक्तोऽतादृग्विभक्तेर्हि बाधः प्रयाजशेषवत् ।।
यद्वा ‘तस्य त्वम्’ इत्यर्थे ‘तत्त्वम्’ इति समस्तं पदम् । यद्वा ‘ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि’ इत्यत्र तदित्यनेन नात्मा परामृश्यते, किंत्वै-तदात्म्यं, नपुंसकलिङ्गत्वात् । ऐतदात्म्यमित्यस्य चैष चासावात्मा च एतदात्मा तस्येदं ऐतदात्म्यम् । एतदीयं वस्तु त्वमसीत्यर्थः । परमते हि एतत् सद् आत्मा यस्य तदैतदात्म्यमिति व्याख्यातत्वाद् भावप्रत्ययो व्यर्थः । ततो वरम् अर्थान्तराश्रयणम् । विचित्रा हि तद्धितगतिरिति वचनात् ।
स स्रष्टा चैव संहर्ता नियन्ता रक्षिता हरिः ।
तेन व्याप्तमिदं सर्वमेतदात्म्यमतो विदुः ।। इति स्मृतेश्च ।
अद्वैतसिद्धि:
ननु– एवं पदद्वयेऽपि लक्षणा स्यात् । तथा च मन्मतमाश्रित्य एकपदलक्षणैवाश्रयणीया । तथा हि– ‘द्वा सुपर्णा सयुजा’ इत्यादौ जीवस्य ब्रह्मसाहचर्योक्तेस्तत्साहचर्यात् ‘तत्’ इति व्यपदेशः, ‘वसन्तादिभ्यष्ठक्’ इत्यत्र वसन्तसहचरितेऽध्ययने वसन्तपदप्रयोगस्य महाभाष्ये उक्तत्वात् । ‘सन्मूलाः प्रजाः सदायतनाः ’इत्यादिवाक्यशेषात् । प्रसिद्धतदाश्रितत्वाद्वा ‘तत्’ इति व्यपदेशः । ‘समर्थः पदविधिः’ इति सूत्रे समर्थपदाश्रितत्वेन पदविधिः समर्थपदप्रयोगस्य महाभाष्योक्तेः । ‘सन्मूलाः सोम्येमाः प्रजाः सर्वाः’ इति वाक्यशेषात् । प्रसिद्धतज्जत्वाद्वा तत्पदप्रयोगः । ‘ब्राह्मणोऽस्य मुखमासीत्’ इत्यादिवत् । ‘इग्यणः सम्प्रसारणम्’ इत्यत्र सम्प्रसारणाज्जातो वर्णः सम्प्रसारणमिति भाष्योक्तेः । ‘प्राणबन्धनं हि सोम्य मनः’ इति वाक्यशेषेण जीवस्येशाधीनत्वोक्त्या तदधीनत्वाद्वा तच्छब्दप्रयोगः ।‘धान्यमसि धिनुहि’ इत्यत्र मन्त्रे तण्डुले धान्यपदप्रयोगवत् । तत्सादृश्याद्वा तत्पदप्रयोगः । ‘सारूप्यात्’ इति जैमिनिसूत्रे ‘आदित्यो यूपः’ इत्यादिकं सादृश्यादित्युक्तत्वात् । ‘तदगुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत्’ इत्यत्र ब्रह्मसूत्रे ब्रह्मगुणयोगाज्जीवे तद्व्यपदेश इत्युक्तेः । महाभाष्ये च ‘बहुगण’ इत्यादिसूत्रे वतिं विनैव सङ्ख्यावदिति वत्यर्थो गम्यते । अब्रह्मदत्तं ब्रह्मदत्तेत्याह तेन वयं मन्यामहे ब्रह्मदत्तवदयं भवति’ इत्युक्तेश्चेति– चेन्न । अभेदे तात्पर्येऽवधृते तन्निर्वाहकलक्षणाबाहुल्यस्यादोष-त्वात् । न हि लक्षणैक्यानुरोधेन तात्पर्यपरित्यागः । तदुक्तं न्यायचिन्तामणौ– ‘तात्पर्यात्तु वृत्तिः, न तु वृत्तेस्तात्पर्यम्’ इति । जहदजहल्लक्षणया मुख्यपरत्वे सम्भवति तत्सहचरिताद्यर्थपरत्वकल्पन-स्यानुचितत्वाच्च । यथा अभेदपरत्वे न बोधकत्वानुपपत्तिः, तथोक्तं प्राक् । ‘द्वा सुपर्णा सयुजा’ इत्यादिना न जीवस्य ब्रह्मणा सहचरितत्वोक्तिः, किन्त्वन्तःकरणेनेति न तेन सहचरितत्वप्रसिद्धिरपि । न वा ‘सन्मूलाः प्रजाः’ इत्यादिना जीवस्य तदाश्रितत्वप्रसिद्धिः । प्रजाशब्दस्य प्रजायमानवाचकत्वेन जीवस्य नित्यस्याप्रतिपादनात् । अत एव न तज्जन्यत्वेनापि तच्छब्दप्रयोगः ।
ब्राह्मणो मुखमित्येव मुखाज्जातत्वहेतुतः ।
यथावदुच्यते तद्वज्जीवो ब्रह्मेति वाग्भवेत् ।।
इति स्मृतिरप्यस्मृतिरेव, श्रुतिविरोधात् । यत्तु ‘तद्गुणसारत्वात्’ इत्यादिना जीवे ब्रह्मगुणयोग उक्त इत्युक्तम्, तन्न । बुद्धिगुणसूक्ष्मत्वयोगात् जीवे ब्रह्मणीव सूक्ष्मत्वमित्येवं परत्वात्सूत्रस्य । एतेन– शाखासदेशे चन्द्रे शाखेतिवत् जीवान्तर्यामितया जीवसदेशे ब्रह्मणि त्वमिति प्रयोगः, आत्मनि तिष्ठन्निति श्रुतेः, ‘ब्राह्मणो वै सर्वा देवताः’ इत्यादिवत् । जीवाश्रयत्वाद्वा ब्रह्मणः सर्वकर्तृत्वेन ‘यजमानः प्रस्तरः’ इत्यादिवत् तत्सिद्ध्या वा ब्रह्मणि त्वमिति व्यपदेश इति निरस्तम् ।
ननु– जहदजहल्लक्षणायां वाच्यान्तर्गतत्वेन प्राग्धीस्थस्य बाधकात् त्यक्तस्य पुनः स्वीकारः । जहल्लक्षणायाम् अधीस्थस्यात्यक्तस्यैव स्वीकारः । त्यक्तस्वीकाराद्वरम् अधीस्थस्य स्वीकार इति– चेन्न, अनुपपत्त्या विशेषणत्यागेऽपि विशेष्यांशात्यागात् । एतेन– तच्छब्दात् परतृतीयादिविभक्तेः ‘सुपां सुलुक्’ इत्यादिना प्रथमैकवचनादेशो वा लुग्वा । तथा च तेन ‘त्वं तिष्ठसि’ इति वा, ‘ततः सञ्जातः’ इति वा, ‘तस्य त्वम्’ इति वा, ‘तस्मिन् त्वम्’ इति वाऽर्थः । ‘अनेन जीवे-नात्मनाऽनुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति, ‘सन्मूलाः सोम्येमाः सर्वाः प्रजाः’ ‘ऐतदात्म्यमिदं सर्वम्’ इत्यादिवाक्यशेषात् । तथा च मीमांसका ‘उत यत्सुन्वन्ति सामिधेनीस्तदन्वाहुः’ इत्यत्र यत्तच्छब्दयोः सप्तम्यर्थे प्रथमां स्वीकृत्य ‘यत्र सुन्वन्ति तत्र हविर्धाने स्थित्वा सामिधेनीरनुब्रूयात्’ इति व्याख्याञ्चक्रुः । न्याय्यं च निरवकाशप्रधानभूतानेकप्रातिपदिकस्वारस्याय सङ्ख्यार्थत्वेन सावकाश-प्रधानैकविभक्त्यस्वारस्यमिति निरस्तम् । ‘प्रोद्गातॄणाम्’ इत्यत्र विभक्तिस्वारस्याय प्रातिपदिकस्या-न्यथानयनवदत्रापि प्रातिपदिकस्यैवान्यथानयनाच्च । न च– षष्ठीबहुवचनस्य प्रथमैकवचनवदन्यत्रा-विधानेन तस्यान्यथानयनम् असम्भवीति बहुवचनानुसारेण प्रातिपदिकस्य प्रस्तोत्रादिछन्दोगेषु लक्षणाऽऽश्रितेति वाच्यम् । ‘सक्तून् जुहोति’ इत्यत्रेवान्यत्र नयनस्य सम्भावितत्वात् ।
किञ्च न तावत् प्रातिपादकस्य निरवकाशत्वम् । विभक्तेः सङ्ख्यामिव विशेष्यांशे सावकाशत्वात् । नापि प्राधान्यं, प्रधानार्थवाचकप्रत्ययस्यैव प्राधान्यात् । तदुक्तं ‘प्रकृतिप्रत्ययौ सहार्थं बूतः तयोः प्रत्ययः प्राधान्येन’ इति । नापि प्रातिपदिकानेकत्वं स्वारस्ये तन्त्रम् । ‘गभीरायां नद्याम्’ इत्यादौ अनेकत्वेऽप्यस्वारस्यदर्शनात् । तात्पर्यबलात्तत्र तथेति चेत्, समं प्रकृतेऽपि । यत्तु ‘प्रयाजशेषेण हवींष्यभिघारयति’ इत्यत्र प्रयाजशेषं हविःषु प्रक्षिपतीति तृतीयाविभक्त्यस्वारस्यं, ‘सक्तून् जुहोति’ इत्यादावपि द्वितीयाविभक्त्यस्वारस्यं, तदगत्या, ‘प्रयाजशेषेण’ इत्यादौ उपयुक्तसंस्कारव्यतिरेकेण प्रकारान्तरस्यासम्भवात्, सक्तूनित्यादौ भूतभाव्युपयोगाभावेन संस्कार्यत्वाभावात् । एतेन– ‘तस्य त्वं तत्त्वमिति समस्तं पदम्’ इति निरस्तम् । असमासेनैव षष्ठ्यर्थलक्षणादिरहितेनोपपत्तौ षष्ठीसमासस्यान्याय्यत्वात् । अन्यथा स्थपत्यधिकरणविरोधापत्तेः । ननु– ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसीत्यत्र तत्पदेन नात्मा परामृश्यते, किन्तु ऐतदात्म्यम्, नपुंसकत्वाद्, ऐतदात्म्य-मित्यस्य एष चासावात्मा च एतदात्मा तस्येदमैतदात्म्यम् । एवं च एतदीयं वस्तु त्वमसीत्यर्थः, न त्वभेदः, एतदात्मा यस्य तदैतदात्म्यमित्यर्थे भावप्रत्ययवैयर्थ्यापत्तेः । ततो वरम् अर्थान्तराश्रयणम्; विचित्रा हि तद्धितगतिरिति वचनात् ।
स स्रष्टा चैव संहर्ता नियन्ता रक्षिता हरिः ।
तेन व्याप्तमिदं सर्वमैतदात्म्यमतो विदुः ।।
इति स्मृतेश्चेति– चेन्न, तस्येदमित्यर्थे ष्यञोऽविधानात् प्रयोगादर्शनाच्च । स्वार्थे च सौख्यमित्यादिप्रयोगदर्शनात् । तथा च एतत् सद् आत्मा यस्य सर्वस्य तदेतदात्मा तस्य भाव ऐतदात्म्यं, सामानाधिकरण्यं च स्वार्थिकत्वाद्वा, भावभवित्रोरभेदोपचाराद्वा, ‘यो वै भूमा तत्सुखम्’ इतिवत् । यत्तु स्मृतावेतद्व्यापकत्वेन ऐतदात्म्योक्तिः, सा न युक्ता, एकविज्ञानेन सर्वविज्ञान-प्रतिज्ञाविरोधात् ।
न्यायामृततरङ्गिणी
।। एकस्मिन्निति ।। दशमस्य चतुर्थपादे चिन्तितम् । ‘अग्निष्टोमे उपावर्तध्वम्’ इत्यनेन मन्त्रेण दर्भाभ्यां च स्तोत्रोपाकरणमस्ति । वाजपेये श्रूयते ‘रथघोषेण माहेन्द्रस्य स्तोत्र-मुपाकरोति । तदिह किं रथो दर्भयोर्निवर्तको घोषो मन्त्रस्य उत रथस्य घोष उभयोर्निवर्तक इति संशये षष्ठीतत्पुरुषे पूर्वपदस्य लक्षणापत्त्या द्वन्द्व एवाश्रयणीयः । एवं च द्रव्यत्व-सामान्याद्रथोदर्भयोर्निवर्तकः शब्दत्वसामान्यात् घोषो मन्त्रस्य । एवञ्च नावश्यं रथस्यैव घोष आदर्तव्यः । घोषस्याविशेषणाद्येन केनचिद्धोषेण कार्यसिद्धेरिति पूर्वपक्षे यद्यपीतरेतरयोगद्वन्द्वे पदद्वयमपि श्रुतिवृत्तं भवति तथापि रथघोषाभ्यामिति द्विवचनं प्राप्नोतीति । समाहारार्थे तु द्वे अपि पदे लक्षणार्थे स्याताम् । तत्र पूर्वपदमात्रे लक्षणामङ्गीकृत्य षष्ठीसमासाश्रयणम् । तस्माद्रथस्य घोष उपाकरणस्य साधनम् । स च प्राकृतसाधनं मन्त्रदर्भौ निवर्तयतीति । उपाकरणं नाम स्तोत्रपाठायोद्गातुः प्रेरणम् ।। तत्साहचर्यादिति ।। ‘वसन्तादिभ्यष्ठक्’ इत्यत्र भाष्ये ‘तदधीते तद्वेद’ इत्यधिकाराद् ‘वसन्तमधीते’ इत्यर्थासम्भवाद्वसन्तशब्देन वसन्तसहचरित उच्यते । यत्र वसन्तो वर्ण्यते यो वा वसन्ते यो वा वसन्तेऽध्येयः स ग्रन्थो यः स ग्रन्थो वसन्तसाहचर्यात्ताच्छब्द्यं लभत इत्युक्तम् ।।
तदाश्रितत्वादिति ।। ‘समर्थः पदविधिः’ इत्यत्र समर्थाधिकारस्य विधेयसामानाधि-करण्यान्निर्देशानर्थक्यमिति वार्तिकम् । अस्यार्थः कैयटे विधिशब्दः कर्मसाधन उपात्तः तस्य सम्बन्धी समासादिरर्थो वाच्यः । तत्समानाधिकरणं च समर्थपदमुपात्तम् । तत्रासमर्थानां समासस्यानिवर्तितत्वात्समर्थवचनेन न किञ्चित्कृत्यम् । तथा हि । समर्थानां यः समासः स समर्थ एव यो ह्यसमर्थानां, भार्या राज्ञः, पुरुषो देवदत्तस्येत्यादौ सोपि नियमाभावान्निवृत्त एव । तस्यासमर्थस्याप्यनेन समर्थग्रहणेन न किञ्चित्क्रियते । निवृत्तत्वात् । तदनेन पूर्वपक्षयित्वा सिद्धान्तितम् । समर्थपदाश्रयत्वात्पदविधिरुपचारेण समर्थपदेनोच्यते । एवं च क्रुद्धस्य राज्ञः पुरुष इत्यादौ समासो व्यावर्तितो भवति समर्थवचनेनेति ।। इग्यण इति ।। ‘इग्यणः सम्प्रसारणम्’ इति सूत्रेण यणः स्थाने य इग्वर्णः स सम्प्रसारणसञ्ज्ञश्चेत् ष्यङः सम्प्रसारणमित्यादौ दोषः । न हि अङो यणस्थाने इक्सिद्धोऽस्ति यः अङः सम्प्रसारण-मित्यनेन विधीयेतेत्यादिना वर्णसञ्ज्ञापक्षं दूषयित्वा यणः स्थाने इग्भवनरूपो यो वाक्यार्थः स सम्प्रसारणसञ्ज्ञ इति द्वितीयं पक्षमुद्भाव्य तमपि वाक्यार्थस्यासत्त्वभूतस्य स्थानित्वाभावात् सम्प्रसारणस्येत्यादौ दोष इति सूचयित्वा नैष दोषः यथा काकाज्जातः काकः श्येनाज्जातः श्येन एवं सम्प्रसारणाज्जातं सम्प्रसारणं तथा च वाक्यार्थस्यासत्वरूपस्य स्थानित्वाद्यभावेऽपि सम्प्रसारणसञ्ज्ञकार्थाज्जातो य इकारादिवर्णः सोऽपि सम्प्रसारणसञ्ज्ञक इति तस्य स्थानित्वा-द्युपपत्तिरित्युक्तं महाभाष्ये । ननु काकत्वाभिसम्बन्धात्काकः तत्कथमुच्यते काकाज्जातः काक इत्याशङ्क्य यदानुपजातजात्यभिव्यञ्जक संस्थानविशेषः काको भवति निर्ज्ञातञ्च तस्य काकाज्जन्म भवति तदैतदुक्तम् एवमिहापि सम्प्रसारणाज्जातत्वाद्वर्णोऽपि ताच्छब्द्यं लभत इत्युक्तं कैयटे ।।
धान्यमसीति ।। दर्शपूर्णमासयोः प्रेषणार्थं दृषदि निक्षिप्तानां तण्डुलानाम् अनुमन्त्रणार्थं ‘धान्यमसि धिनुहि देवान् धिनुहि यज्ञम्’ इत्यादिमन्त्रः पठ्यते । अस्ति च शाक्यानामयनं नाम सत्रम् । तत्र तरसमांसमयाः सवनीयपुरोडाशा विहिताः । तत्र मांसमयपुरोडाशेऽस्मि-न्मन्त्रेऽतिदेशे न प्राप्ते संशयः किमत्र धान्यपदस्थाने तरसमित्यूहनीयं न वेति । तत्र प्रकृतौ तण्डुलावस्थायां प्रयुज्यमानेऽस्मिन्मन्त्रे धान्यशब्दस्य सतुषवचनस्य समवेतार्थत्वाभावाद् असमवेतार्थस्य ‘देवस्य त्वा सवितुः’ इत्यादिमन्त्रे सवित्रादिपदवदनूह्यत्वान्नैवमूहितव्यमिति प्राप्ते धान्यशब्दस्य द्रव्यप्रकाशनरूपदृष्टार्थकल्पनौचित्यात्तस्य च सतुषवाचिनो लक्षणया तत्प्रकृतिकतण्डुलप्रकाशकत्व सम्भवात्समवेतार्थतया तदूहितव्यमिति सिद्धान्तितं नवमस्य प्रथमपादे ।
धान्याधीनत्वतो धान्यशब्दस्तण्डुलगो यथा ।
एवं जीवे तदितिगीरीशाधीनतया भवेत् ।।
नन्वभेदे तात्पर्येऽवधृते तन्निर्वाहाय लक्षणाबाहुल्यं न दोषः । मैवम् । तात्पर्यस्यैवेदानीं विचार्यमाणत्वात्तदवधारणस्यासिद्धेः । अत एव ‘अन्यथा तत्वमसीत्यादिवाक्यम् अबोधकं स्यात्’ इत्यादिना तात्पर्याभावमेवाविष्करोति ।। अतिदेशोऽयमिति ।। ‘बहुगणवतुडति सङ्ख्या’ इत्यत्र बहुगणादीनां सङ्ख्यासञ्ज्ञा वाच्या चेदेकद्वित्रीत्यादिकायाः सङ्ख्यायाः ‘सङ्ख्यापूर्वो द्विगुः’ इत्यादिषु सङ्ख्याप्रदेशेषु ग्रहणं न स्यात् । ‘कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः’ इति न्यायेन कृत्रिमसङ्ख्यासञ्ज्ञानां बहुगणादीनामेव स्यादिति पूर्वपक्षयित्वा नेदं सञ्ज्ञाकरणं किन्त्वतिदेशोऽयम् । बहुगणवतुडतयः सङ्ख्यावद्भवन्तीति परिहृते ननु तर्हि सूत्रे वतिनिर्देशः कर्तव्यः न त्वन्तरेण वतिम् अतिदेशो गम्यत इति पुनराशङ्क्यान्तरेणापि वतिमतिदेशो गम्यते तद्यथा अब्रह्मदत्तमित्यादिना परिहृतम् । ननु जहदजहल्लक्षणायां विशेषणांशत्यागेऽपि विशेष्यांशात्यागान्मुख्यार्थपरत्वे सम्भवति न तत्सहचरिताद्यर्थक जहल्लक्षणा युक्ता । तस्यां मुख्यार्थस्य सर्वथा त्यागादित्याशङ्क्य निराकरोति– न चैवं मुख्यार्थत्यागेति ।। तद् ब्रह्म त्वमन्तर्यामीत्यर्थे मुख्यार्थत्यागाभावादित्याह– अन्तर्यामिणीति ।। तव मते न कोऽपि तत्त्वमसीत्यस्य मुख्यार्थोऽस्तीति भावः । ननु तथापि लक्षणापक्षेऽन्तरङ्गत्वाद् अजहल्लक्षणैवास्तु न तु जहल्लक्षणा बहिरङ्गत्वादत आह– त्वद्रीत्येति ।। नन्वेकत्वेऽपि बुद्धिस्थमुख्यार्थसंस्पर्शेत्यत आह– किञ्चेति ।। प्रकृते शुद्ध इति ।। शुद्धस्य कथमप्यप्रकृतत्वे तत्पदलक्षणापि तत्र न स्यादित्यर्थः ।। शुद्धस्येति ।। न हि वाचकमपि गोपदं गोपदावाच्यस्यापि वाचकं स्यादिति । तथा च पदद्वयेऽपि लक्षणैवेत्यर्थः ।।
तदित्येकपदेति ।। ‘तत्त्वमसि’ इत्यत्र मुख्यार्थत्वाय तत्पदस्य प्रकृतचिन्मात्रपरत्वे ‘तदैक्षत तत्तेजोऽसृजत’ इत्यादावपि तत्पदस्य चिन्मात्रपरतायामीक्षतिसृजती अमुख्यार्थौ स्याताम् । चिन्मात्रे लक्षणाद्ययोगादित्यर्थः ।। प्रथमैकवचनेति ।। ‘सुपां सुलुक्’ इति सूत्रे ‘यत्सुन्वन्ति तत्सामिधेनीरन्वाहुः यस्मिन् तस्मिन्निति प्राप्ते’ इत्यादिना सप्तम्येकवचनस्य प्रथमैकवचनादेश इति काशिकायामुक्तत्वात्तद्वदत्रापि प्रथमैकवचनादेश इत्यर्थः ।। मीमांसकै-रिति ।। हविर्धानाख्यगृहमध्ये दक्षिणोत्तरप्रदेशयोः सोमाख्यहविर्धारणार्थं हविर्धानसञ्ज्ञके द्वे शकटे स्थाप्येते । तयोर्मध्ये दक्षिणहविर्धाने सोमाभिषवः क्रियते । तत्र सामिधेन्यनुवचनं विधातुं उत यत्सुन्वन्तीत्यादिवाक्यम् । तत्र यत्तत्पदयोः सप्तम्यर्थकत्वं मीमांसकैरुक्त-मित्यर्थः ।। हविर्धान इति ।। हविर्धानसमीपे स्थित्वेत्यर्थः । अत एव तृतीयस्य सप्तमे उक्तं ‘हविर्धानस्य हविर्धारणाद्यर्थत्वान्न प्रयोजनान्तरापेक्षा । प्रकृतितस्त्वाहवनीयप्रत्यग्देशः सामिधेन्यङ्गत्वेन प्राप्तः । स च दक्षिणस्योत्तरस्य वा हविर्धानस्य समीपे भवतीति तन्नियममात्रं लाघवाद् विधेयम् । हविर्धानस्य त्वन्त्यन्ताप्राप्तम् अनपेक्षितं च न युक्तं विधातुम् । तस्मात् सोमाभिषवहविर्धाने समीपदेशे स्थित्वा सामिधेनीरनुब्रूयात्’ इति ।। न्याय्यञ्चेति ।। अग्नीषोमीयपशुसम्बन्धिनः पाशस्य मन्त्रे अदितिः पाशान्प्रमुमोक्तेतानिति बहुवचनस्य कर्मकारकार्थतया सावकाशस्यैकत्वसङ्ख्योपेतपाशाख्यप्रकृतिस्वारस्यायास्वारस्यमुक्तं मीमांसकै-र्यथा । तथा तत् त्वम् आद्यनेकप्रातिपादिकानां सर्वज्ञत्वादिकर्तृत्वादिविशिष्टरूपस्वार्था-त्यागलक्षणस्वारस्याय तत्पदगतप्रथमायाः तृतीयाद्यर्थकत्वरूपम् अस्वारस्यं वक्तुं न्याय्य-मित्यर्थः ।
ननु प्रैतुहोतुश्चमसः प्रब्रह्मणः प्रयजमानस्य प्रोद्गातॄणामिति चमसाऽध्वर्यून्प्रत्यध्वर्योः प्रैषः श्रूयते । सदः सञ्ज्ञकगृहमध्ये होत्रादयः सोमस्य भक्षयितारः सन्ति । तेषां मध्ये होतारं प्रति होतृचमसः प्रैतु प्रगच्छतु ब्रह्मणश्चमसोऽपि प्रैत्वित्याद्यर्थः । साम्नो या द्वितीया भक्तिरुद्गानाख्या सैकेनैवोद्गातृसञ्ज्ञकेनर्त्विजा क्रियते । गानमात्रं तु प्रस्तोतृप्रतिहर्तृ सञ्ज्ञकाभ्यामपि क्रियते । एवं स्थिते प्रोद्गातॄणामित्यत्र बहुवचनस्वारस्यायोद्गान-कर्त्रैकपुरुष-वाचकस्योद्गातृशब्दस्य गानकर्तृत्वेन रूपेणाजहल्लक्षणयोद्गातृप्रस्तोतृप्रतिहर्तृपरत्वं कल्प्यते । उद्गात्रादीनां त्रयाणामेकस्तोत्रसम्बन्धात्सदसि सन्निधानभक्षवेलायां च व्यापृतत्वात् त्रयाणामपि भक्षोऽस्तीत्युक्तं तृतीयस्य पञ्चमे । तस्माद्विभक्त्यस्वारस्यम् अन्याय्यमित्यत आह– प्रोद्गातॄणामिति ।। विभक्त्यन्तर इति ।। एतच्चोपलक्षणम् । गानकारिषु त्रिष्वपि कथञ्चि-दवयवयोगेन वर्तमानं प्रातिपदिकं बहुवचनं च द्वयमपि श्रुत्यर्थं भवतीत्यपि बोध्यम् ।। छन्दोगेष्विति ।। अपसुब्रह्मण्येष्वित्यर्थः । सुब्रह्मण्याख्यस्य ऋत्विजः सदसि स्थितत्वा-भावात्सदसि स्थितान्प्रति भक्षणार्थं चमसानां नीयमानत्वान्न सुब्रह्मण्यस्य भक्षोऽस्तीति वार्तिककारो मन्यते ।। दृष्टञ्चेति ।। दर्शपूर्णमासयोः श्रुतं ‘प्रयाजशेषेण हवींष्यभिघारयति’ इति प्रयाजशेषाज्येन पुरोडाशादिहविषामभिघारणं किं हविषां संस्कार उत प्रयाजशेषस्य प्रतिपत्तिरिति संशये द्वितीयया हविषां संस्कार्यत्वेन प्राधान्यावगमात्तत्संस्कारः न तु शेषस्य प्रतिपत्तिः । तृतीयानिर्दिष्टस्य गुणत्वेन प्रतिपाद्यत्वायोगादिति प्राप्ते प्रतिपत्तिरेव युक्ता शेषशब्दस्य श्रवणात् । उपयुक्तशेषस्य हि द्रव्यस्य क्वचित् क्षारणरूपा प्रतिपत्तिरपेक्षिता न तु हविःसंस्कारः । अतः प्रयाजशेषं हविष्षु क्षारयेदिति वाक्यार्थकल्पनया प्रयाजशेषस्य प्रतिपत्तिरेव ग्राह्येति चतुर्थस्य प्रथमपादे निर्णीतम् । यथा वा ‘सक्तून् जुहोति’ इत्यत्र होमेन सक्तूनां संस्कार्यत्वासम्भवाद्विभक्तिविपरिणामेन सक्तुभिर्जुहोतीति वाक्यार्थमाश्रित्य प्रातिपदिकस्वारस्यमुक्तं न तु प्रातिपदिके लक्षणाश्रिता तथाऽत्रापि ।
न्यायामृतकण्टकोद्धारः
किञ्चेति ।। न चैक्ये तात्पर्येऽवधृते लक्षणाबाहुल्यं न बाधकम् । तात्पर्याद्धि वृत्तिः, न तु वृत्तेस्तात्पर्यमित्यभियुक्तवचनादिति वाच्यम् । प्रमाणाभावेनैक्ये तात्पर्यावधारणायोगात् । न चोपक्रमादिनैव तदवधारणम् । उपक्रमादीनामैक्यपरत्वाभावेनैक्ये तात्पर्यनिर्णायकत्वा-सम्भवात् । प्रमाणविरुद्धार्थे उपक्रमादीनामनवकाशात् । न च जहदजहल्लक्षणायां मुख्यार्थात्यागात् एकपदलक्षणातः सा वरेति वाच्यम् । एकपदलक्षणायां मुख्यसहचरितादे-र्लक्षितत्वेन मुख्यार्थत्यागाभावात् । विशिष्टवाचकस्य पदस्य विशेष्यमात्रं न मुख्यार्थ इति त्वत्पक्षे सर्वथा मुख्यार्थत्यागाच्च । द्वा सुपर्णेति ।। न चात्रान्तःकरणसहचरितत्वमेवोक्तं, न जीवसहचरितत्वं, पैङ्गिब्राह्मणेन तथा व्याख्यानादिति वाच्यम् । एतत् श्रुत्युदाहरण एव दत्तोत्तरत्वात् । सर्वा इति ।। न च प्रजाशब्दस्य जायमानपरत्वेन न जीवपरत्वं, तस्य नित्यत्वादिति वाच्यम् । योगरूढिभ्यां जीवपरत्वस्य सर्वसम्मतत्वात् । शरीरयोगेन जायमानत्वाच्च । अन्यथा ज्ञान एवेत्यनुपपन्नं स्यात् । अत एवाथवेत्याद्युपपन्नम् ।। अथवेति ।।
नवमेऽध्याये प्रथमपादे ‘गुणशब्दस्तथेति चेत्’ इत्यस्य द्वितीयवर्णके चिन्तितम् । दर्शपूर्णमासयोः श्रूयते ‘धान्यमसि धिनुहि देवान्’ इति मन्त्रः । अस्ति च शाक्यानामयनं, तत्र संस्थितेऽहीने गृहपतिर्मृगयां याति । स यान् यान् मृगान् हन्ति तेषां तरसमयाः सवनीयपुरोडाशाः कर्तव्या इति मांसमयाः पुरोडाशाः विहिताः । तत्रायं मन्त्रोऽतिदेशतः प्राप्तः । तत्र सन्देहः– धान्यमिति स्थाने तरसमित्यूहनीयं न वेति । पूर्वपक्षस्तु नोहितव्य इति । प्रकृतौ तण्डुलावस्थायामयं मन्त्रः प्रयुज्यते । स च न समवेतार्थः । तस्य सतुषद्रव्यवचनत्वात् । तण्डुलावस्थायां च सतुषत्वाभावात् । न च भूतपूर्वगत्या सतुषत्वात् समवेतार्थत्वम्, अस्तीति वर्तमानप्रयोगात् । तस्मान्नोहितव्य इति । सिद्धान्तस्तु– धान्य-शब्दस्य दृष्टार्थत्वसम्भवेऽदृष्टार्थत्वकल्पनायोगात् सतुषद्रव्यवाचकस्यापि मन्त्रस्य लक्षणया तण्डुलपरत्वमास्थेयम् । अदृष्टकल्पनापेक्षया लक्षणायाः श्रेष्ठत्वात् । तथा च प्रकृतौ दृष्टार्थत्वात् तदनुरोधेन तरसमित्यूहितव्यमिति ।
द्वितीयाध्याये भेदलक्षणे प्रथमपादे तृतीयाधिकरणे चिन्तितम् । तानि द्वेधा गुणप्रधान-भूतानि । दर्शपूर्णमासयोः श्रूयते– ‘व्रीहीनवहन्ति, तण्डुलान् पिनष्टी’ ति । तत्र सन्देहः किमवघातादिभ्योऽपूर्वमस्ति न वेति । पूर्वपक्षस्तु अवधातादिभ्योऽपूर्वमस्तीति । कुतः ? अवधातादिकम् अपूर्वजनकं, विहितधात्वर्थत्वात्, यज्यादिधात्वर्थवत् इत्यनुमानात् । विपक्षे विधिवैयर्थ्यम् । दृष्टार्थतायाः प्रत्यक्षसिद्धत्वादिति । सिद्धान्तस्तु– अवघातादिभ्यो नापूर्वमिति । दृष्टे सम्भवत्यदृष्टकल्पनाया अन्याय्यत्वात् । न च यज्यादिभ्योऽप्यपूर्वं न स्यादिति वाच्यम् । तत्र क्रियायाः प्राधान्येन ततो दृष्टाभावेनापूर्वकल्पनात् । इह तु व्रीहीनिति द्वितीयया व्रीहीणां प्राधान्यं गम्यते । ततो द्रव्य एवातिशयं जनयति, नापूर्वम् । न च विधिवैयर्थ्यम् । नखभेदनादिनापि तुषविमोकसम्भवेनावधातेनैव तुषविमोकः सम्पादनीय इति नियमस्या-पूर्वसाधनत्वेन विधेः सार्थक्यादिति ।। प्राणेति ।। अत्र मनःशब्देन जीवः । प्राणः परमात्मेति ज्ञातव्यम् । यथा चैतत् तथोपपादयिष्यते । सारूप्यमितीति । इदम् अधिकरणं तत्सिद्धि-पेटिकाविवरणे विवृतम् । तद्गुणेति । न च बुद्धिगुणसूक्ष्मत्ववज्जीवेऽपि ब्रह्मणीव सूक्ष्मत्व-मित्येवं परं सूत्रमिति वाच्यम् । तच्छब्दस्य प्रकृतब्रह्मपरत्वे सम्भवति अप्रकृतबुद्धि-परत्वायोगात् । ‘उत्क्रान्तिगत्यागतीनाम्’ इत्याद्युक्तन्यायेन जीवस्याणुत्वेनान्योपाधिक सूक्ष्मत्वायोगाच्च । त्वत्पक्षे सारशब्दवैयर्थ्याच्च । अन्यथेति । प्रमाणबाधितत्वेनायोग्यता-निश्चयादिति भावः । यथा चैतत् तथाऽखण्डतावादे व्युत्पादितम् ।
एवं ‘तत्’ पदलक्षणया वाक्यार्थमुपपाद्य ‘त्वं’ पदलक्षणयाप्युपपादयति– यद्वेति । यजमान इति । इदमपि तत्सिद्धिपेटिकायां विवृतम् । ताद्देश्येति । ताद्देश्यं तद्देशसमान-देशत्वम् । तदधीनत्वेन तात्स्थ्यं तदधीनत्वतात्स्थ्यम् । ताद्धर्म्यं च तद्धर्मसमानधर्मत्वम् । अत्र ताद्धर्म्यपूर्वकैरित्यनेन तत्पदलक्षणा सङ्गृहीता । शिष्टेन त्वंपदलक्षणेति विवेकः । अन्तर्यामिणीति । ‘अहं ब्रह्मास्मि’ इति वाक्यार्थकथनावसर इति शेषः । ननु मन्मते पदद्वयलक्षणायामपि जहदजहल्लक्षणात्वान्मुख्यार्थात्यागः । त्वन्मत एकपदलक्षणायामपि मुख्यार्थत्यागः । अतो मन्मतमेव समीचीनं, मुख्यार्थात्यागादित्यत आह– किञ्चेति । उपलक्षणमेतत् । जहदजहल्लक्षणायां विशेष्यमात्रस्य मुख्यार्थत्वाभावेन मुख्यार्थात्याग इत्यस्यार्थशून्यत्वात् । अन्यथा लक्षणैव नेत्येव वक्तव्यमित्यपि द्रष्टव्यम् । न चेति । तथा च मन्मतेऽप्येकपदलक्षणैवेति भावः । शुद्धेति । वचनवृत्तिविषयतावच्छेदकाभावात् । तस्यात्मत्वादिपुरस्कारेण प्रवृत्तेः । अन्यथा सर्वशब्दवाच्यत्वं स्यात् । तदित्येकपदेति । शुद्धस्य निस्सङ्गस्य सर्जनादिक्रियावेशस्य त्वयाऽनङ्गीकारात् तत्पदेन विशिष्टं लक्षणीयमिति भावः । एतावतैकपदलक्षणया वाक्यार्थ उक्तः । इदानीं सापि नेत्याह– यद्वेति । उक्तेष्वर्थेषु प्रमाणमाह ।
ननु प्रथमायाः सप्तम्यर्थत्वं क्वापि नोपलब्धमित्यत आह– उत यदिति । तृतीयाध्याये सप्तमपादे चिन्तितम् । ‘सामिधेनीस्तदन्वाहुर्हविर्धानयोर्वचनात् सामिधेनीनाम्’ ज्योतिष्टोमे श्रूयते ‘उत यत् सुन्वन्ति सामिधेनीस्तदन्वाहुः’ इति । दक्षिणेऽस्मिन् हविर्धानेऽभिषवः तत्र स्थितः सामिधेनीर्ब्रूयादित्यर्थः । तत्र संशयः किं हविर्धानं सामिधेन्यङ्गम् उत तल्लक्षितो देश इति । हविर्धानस्य हविर्धारणार्थत्वेन प्रयोजनानन्तरापेक्षाभावात् लक्षणापरिहारात् हविर्धान-मेवाङ्गमिति । सिद्धान्तस्तु तल्लक्षितो देश इति । हविर्धानस्य हविर्धारणार्थत्वेन प्रयोजनान्तरा-पेक्षाभावात् । प्रकृतितश्चाहवनीय प्रत्यग्देशः सामिधेन्यङ्गत्वेन प्राप्तः । स च दक्षिणस्योत्तरस्य वा हविर्धानस्य समीपे भवति । तत्र नियममात्रं लाघवाद् विधेयं दक्षिणस्यैव हविर्धानस्य समीपदेश इति । तथा च हविर्धानस्य ह्यङ्गत्वमत्यन्ताप्राप्तमनपेक्षितं विधातुमयुक्तमिति देशलक्षणा । तथा च सप्तम्यर्थस्यापेक्षितत्वात् । यत्तदिति प्रथमा सप्तम्यर्थ इत्यर्थः । ननु प्रकृतिप्रत्यययोः तुल्यत्वेन प्रत्ययास्वारस्यं किमित्यङ्गीक्रियते ? प्रकृत्यस्वारस्यमेव किमिति नाद्रियत इत्यत आह– न्याय्यं चेति । प्रत्ययस्याप्रधानत्वं प्रकृत्युपसर्जनस्वार्थाभि-धायकत्वेन । नन्वेवं प्रोद्गातृणामित्यत्रापि विभक्त्यनुरोधेन प्रातिपदिकलक्षणा न स्यात्, तस्या अप्राधान्यादित्यत आह– प्रोद्गातॄणामित्यत्रेति ।
तृतीयाध्याये पञ्चमपादे चिन्तितम्– ‘उद्गातृचमसमेकस्य श्रुतिसंयोगात्’ । सोमे श्रूयते ‘प्रैतु होतुश्चमसः प्रब्रह्मणः प्रोद्गातॄणां प्रयजमानस्य’ इति । अयमध्वर्योः प्रैषः, यत्र सदसि भक्षयितारः स्थितास्तत्र भक्षणीयानां चमसानां नयनार्थम् । तत्रोद्गातृतचमससमाख्यया उद्गातुः भक्ष इति स्थितम् । तत्र सन्देहः– किमुद्गातैव तं भक्षयेदुत सदसि स्थितौ एकस्तोत्रसम्बन्धिनौ प्रस्तोतृप्रतिहर्तारावपीति । पूर्वपक्षस्तु उद्गातैक एव भक्षयेत् । उद्गातृशब्दश्रवणात् । न च बहुवचनानुपपत्तिः । तस्य प्रधानप्रातिपदिकार्थानुसारेण ‘अदतिः पाशान्’ इत्यादाविव कथञ्चिन्नेयत्वादिति । सिद्धान्तस्तु– त्रयोऽपि भक्षयेयुः । उद्गातृशब्दस्याजहल्लक्षणया प्रस्तोतृ-प्रतिहर्तृपरत्वेन बहुवचनस्यार्थवत्वे सम्भवति अन्याय्यत्वस्यायुक्तत्वात् । तस्मात् त्रयोऽपि भक्षयेयुरिति । ननु मीमांसायां प्रातिपदिकानुसारेण विभक्तेरस्वारस्यं क्व दृष्टमिति तत्राह– दृष्टं चेति । चतुर्थाध्याये प्रथमपादे चिन्तितम् ‘अभिधारणे विप्रकर्षादनुयाजवत् पात्रभेदः स्यात्’ इति । दर्शपूर्णमासयोः श्रूयते ‘प्रयाजशेषेण हवींष्यभिधारयति’ इति । तत्र सन्देहः– अभिधारणं किं हविषां संस्कारः किं वा प्रयाजशेषस्य प्रतिपत्तिरिति । पूर्वपक्षस्तु हविषां संस्कार इति । हवींषीति द्वितीयया हविषां प्राधान्यावगमात् । न तु प्रतिपत्तिः । तृतीयानिर्दिष्टस्य गुणत्वेन प्रतिपाद्यत्वायोगादिति । सिद्धान्तस्तु । प्रतिपत्तिरेव, अपेक्षित-त्वात् । न तु संस्कारः, अनपेक्षितत्वात् । शेषशब्दश्रवणात् उपयुक्तस्य क्वचित् क्षारणरूपा प्रतिपत्तिरेवापेक्षिता । न च तृतीयानिर्दिष्टस्य कथं प्रतिपाद्यत्वमिति वाच्यम् । द्वितीयार्थे तृतीयाव्याख्यानात् । न च तृतीयानुसारेण प्रातिपदिकस्य द्रव्यान्तरलक्षकत्वमस्त्विति वाच्यम् । अप्रधानानुसारेण प्रधानस्य लक्षणाया अयुक्तत्वात् । तस्मात् प्रतिपत्तिरिति । प्रयाजशेषं हविष्षु क्षारयेदिति वाक्यं योजनीयमिति ।
ननु प्रातिपदिकस्य किं प्रधानत्वम् ? निरवकाशत्वं किं वाऽनेकत्वम् ? नाद्यः । बहुवचनस्य सङ्ख्यायामिव प्रातिपदिकस्य विशेष्यांशे सावकाशत्वात् । न द्वितीयः । गभीरायां नद्यां घोष इत्यत्रेवानेकेषामपि लक्षणासम्भवादिति चेन्न । विभक्तेः सङ्ख्याया इव विशेष्यमात्रस्य प्रातिपदिकमुख्यार्थत्वाभावेन तत्र सावकाशत्ववर्णनस्यायुक्तत्वात् । गभीरायामित्यादौ च तात्पर्यात् तथाऽवगमात् । न च प्रकृतेऽप्यैक्यतात्पर्यात् तथाऽस्त्विति वाच्यम् । तत्तात्पर्यस्य सन्दिग्धत्वादित्युक्तत्वात् । अत एव सङ्ग्रहेणाह– एवं चेति । असमस्तपदपक्षमुपेत्य वाक्यार्थमभिधाय समस्तपदपक्षमुपेत्यापि तमाह– यद्वेति । न च षष्ठीलक्षणारहितेना-समस्तपक्षेणैवोपपत्तौ लक्षणाश्रयणेन समस्तपक्षो न युक्त इति वाच्यम् । असमस्तपक्षे पदद्वयलक्षणाया उक्तत्वात् । सम्बन्धस्यान्वयप्रकारतया लुप्तस्मृतषष्ठ्या वा, शक्त्यैव वा बोधो-पपत्तौ लक्षणाया अन्याय्यत्वात् । न च स्थपत्यधिकरणविरोधः । तस्य परमताभिप्रायेण प्रवृत्तत्वात् । सति सामानाधिकरण्ये वैयधिकरण्यम् अन्याय्यमित्येवम्परत्वाद्वा । एवं सन्निहितात्मपरामर्शम् अभ्युपेत्य वाक्यार्थ उक्तः । इदानीं किञ्चिद् व्यवहितैतदात्म्य-परामर्शाङ्गीकारे न काप्यनुपपत्तिः । नाप्येकपदलक्षणा । नपुंसकलिङ्गं चोपपन्नमिति भावेन यद्वेति । नन्वैतदात्म्यपरामर्शाङ्गीकारेऽपि ब्रह्मणि जीवैक्यमेव स्यात् । ते तत्प्रतिपादनात् इत्यत आह– ऐतदात्म्यमित्यस्य चेति । ननु परकीय एवार्थः किं न स्यादित्यत आह– परमते हीति । नन्वर्थान्तरे प्रमाणाभावात् कथं तदाश्रयणमित्यत आह– विचित्रा हीति । न चेदमर्थेऽञनभिधानात् सौख्यमित्यादौ तदभिधानात् नेदमर्थेऽप्यञिति वाच्यम् । अज्ञानां तत्रैव प्रयोगेण निर्देशोपपत्तेः । यथा देवतावाचिनां मृदादिशब्दानां भूतएवाज्ञानां प्रयोगेण तद्वाचित्वव्यपदेशः । न च मनुष्यादिशब्दप्रवृत्तिनिमित्तमनुष्यत्वादिजातेर्जीवेऽभावात् कथं तत्र शक्तिरिति वाच्यम् । तादृशशरीरसम्बन्धित्वस्यैव प्रवृत्तिनिमित्ततया तस्य जीवे सत्वात् । अत एव ब्राह्मणत्वादिकं जीवनिष्ठमित्युक्तम् । अखण्डजातिश्चावयोरसम्मतैवेति । तथा च पदद्वयं मुख्यार्थमेवेति नान्यतरलक्षणोभयलक्षणा वा युक्तेति ।
न्यायामृतप्रकाशः
जीवाश्रयत्वादिति ।। जीवं प्रत्याश्रयो जीवाश्रयः । तत्त्वादिति तत्पुरुषः । जीव आश्रयो यस्येति व्याख्याने उत्तरग्रन्थेन पौनरुक्त्यं स्यादिति ध्येयम् ।। तत्सिद्ध्येति ।। ब्रह्मणः सर्वकर्त्तृत्वेन जीवकार्यस्य तेन सिध्द्या तत्कार्यकर्त्तृत्वादित्यर्थः ।। त्यक्तस्य पुनरिति ।। समुदायस्य समुदाय्य-नन्यत्वादिति भावः ।। सङ्ख्यार्थत्वेनेति ।। एकत्वादिसङ्ख्याया एव प्रथमादिविभक्त्यर्थत्वादिति भावः ।। एकविभक्त्यस्वारस्यमिति ।। तन्मते तत् त्वमिति एकविभक्त्यन्तसामानाधिकरण्येनैवैक्यं बोध्यते । ‘असि’ इति सामानाधिकरण्यलब्धाभेदानुवादकमित्यङ्गीकारात् । तत्र तदित्येकविभक्तेरेव स्वारस्यमस्तु । प्रातिपदिकापेक्षया विभक्तेरप्रधानत्वादिति भावः । ननु यदि प्रातिपदिकस्वारस्याय विभक्त्यस्वारस्यम् अङ्गीक्रियते तर्हि ‘प्रोद्गातॄणाम्’ इत्यत्रोद्गातुरेकत्वाद्बहुवचनानुपपत्तिमाशङ्क्य षष्ठीबहुवचनरूपविभक्ति स्वारस्यम् अङ्गीकृत्य तदर्थम् उद्गातृप्रातिपदिकस्य प्रस्तोत्रादिषु सामगानकर्तृषु लक्षणाऽङ्गीकृता । सा न स्यादित्यत आह– प्रोद्गृतृणामित्यत्रेति ।। अस्माभिः ‘तत्’ इत्यत्र प्रथमाविभक्तेः तृतीयाद्यर्थकत्वेन प्रथमाविभक्त्यस्वारस्यं प्रथमैकवचनस्य ‘सुपाम्’ इति विभक्त्यन्तरे विधानादाश्रितम् । न हि तद्वत् षष्ठीबहुवचनस्यैकवचनादिरूपे विभक्त्यन्तरे विधानमस्ति । येन प्रातिपदिकस्वारस्याय विभक्त्यस्वारस्यमुच्यते । अतस्तत्र विभक्तिस्वारस्यमङ्गीकृत्य प्रातिपदिका-स्वारस्यमङ्गीकृतमित्यर्थः । छन्दोगेषु अपसुब्रह्मण्येषु ।। विभक्त्यस्वारस्यमिति ।। तृतीयाया द्वितीयात्वेन विपरिणतत्वाङ्गीकारादिति भावः । मुख्यनामानुसारतः मुख्यप्रातिपदिकानुसारतः । ननु कथं तदीयत्वरूपार्थान्तराश्रयणं युक्तम् ‘ऐतदात्म्यम्’ इत्ययं ष्यञ्प्रत्ययान्तः । ष्यञ्च स्वार्थे भावे वा विहितो न तदीयत्वरूपार्थ इत्यत आह– विचित्रा हीति ।।
न्यायकल्पलता
।। एकस्मिन्निति ।। दशमस्य चतुर्थपादे चिन्तितम् । ‘अग्निष्टोमे उपावर्तध्वम्’ इत्यनेन मन्त्रेण दर्भाभ्यां च स्तोत्रोपाकरणमस्ति । वाजपेये श्रूयते ‘रथघोषेण माहेन्द्रस्य स्तोत्रमुपाकरोति । तदिह किं रथो दर्भयोर्निवर्तको घोषो मन्त्रस्य उत रथस्य घोष उभयोर्निवर्तक इति संशये षष्ठीतत्पुरुषे पूर्वपदस्य लक्षणापत्त्या द्वन्द्व एवाश्रयणीयः । एवं च द्रव्यत्वसामान्याद्रथो दर्भयोर्निवर्तकः । शब्दत्व-सामान्याद् घोषो मन्त्रस्य । एवञ्च नावश्यं रथस्यैव घोष आदर्तव्यः । घोषस्याविशेषणाद्येन केन-चिद्धोषेण कार्यसिद्धेरिति पूर्वपक्षे यद्यपीतरेतरयोगद्वन्द्वे पदद्वयमपि श्रुतिवृत्तं भवति तथापि रथघोषाभ्यामिति द्विवचनं प्राप्नोति । समाहारार्थे तु द्वे अपि पदे लक्षणार्थे स्याताम् । तत्र पूर्वपदमात्रे लक्षणामङ्गीकृत्य षष्ठीसमासाश्रयणम् । तस्माद्रथघोष उपाकरणस्य साधनम् । स च प्राकृतसाधनं मन्त्रदर्भौ निवर्तयतीति । उपाकरणं नाम स्तोत्रपाठायोद्गातुः प्रेरणम् ।। धान्यमसीति ।। नवमे प्रथमपादे ‘गणिशब्दस्तथेति चेत्‘ इत्यधिकरणस्य द्वितीयवर्णके चिन्तितम् – दर्शपूर्णमासयोः प्रेषणार्थं दृषदि निक्षिप्तानां तण्डुलानाम् अनुमन्त्रणार्थं ‘धान्यमसि धिनुहि देवान् धिनुहि यज्ञम्’ इत्यादिमन्त्राः पठ्यन्ते । अस्ति च शाक्यानामयनं नाम सत्रम् । तत्र तरसमांसमयाः सवनीयपुरोडाशा विहिताः । तत्र मांसमयपुरोडाशेऽस्मिन्मन्त्रेऽतिदेशे न प्राप्ते संशयः किमत्र धान्यपदस्थाने तरसमित्यूहनीयं न वेति । तत्र प्रकृतौ तण्डुलावस्थायां प्रयुज्यमानेऽस्मिन्मन्त्रे धान्यशब्दस्य सतुषवचनस्य समवेतार्थत्वा-भावाद् असमवेतार्थस्य ‘देवस्य त्वा सवितुः’ इत्यादिमन्त्रे सवित्रादिपदवदनूह्यत्वान्नैवमूहितव्यमिति प्राप्ते धान्यशब्दस्य द्रव्यप्रकाशनरूपदृष्टार्थकल्पनौचित्यात्तस्य च सतुषवाचिनो लक्षणया तत्प्रकृतिक-तण्डुलप्रकाशकत्व सम्भवात्समवेतार्थतया तदूहितव्यमिति सिद्धान्तितम् । सङ्ग्रहश्च–
धान्याधीनत्वतो धान्यशब्दस्तण्डुलगो यथा ।
एवं जीवे तदितिगीरीशाधीनतया भवेत् ।।
नन्वभेदे तात्पर्येऽवधृते तन्निर्वाहाय लक्षणाबाहुल्यं न दोषः इति । मैवम् । तात्पर्यस्यैवेदानीं विचार्यमाणत्वात्तदवधारणस्यासिद्धेः । तदुक्तं न्यायचिन्तामणौ– ‘तात्पर्याद्धि वृत्तिर्न तु वृत्तेस्तात्पर्यम् इत्यस्मदनुकूलं न तु परस्य । अत एव ‘अन्यथा तत्वमसीत्यादिवाक्यम् अबोधकं स्यात्’ इत्यादिना तात्पर्याभावमेवाविष्करोति ।। तत्साहचर्यादिति ।। ‘वसन्तादिभ्यष्ठक्’ इत्यत्र भाष्ये ‘तदधीते तद्वेद’ इत्यधिकाराद् ‘वसन्तमधीते’ इत्यर्थासम्भवाद्वसन्तशब्देन वसन्तसहचरित उच्यते । यत्र वसन्तो वर्ण्यते यो वा वसन्ते यो वा वसन्तेऽध्येयः स ग्रन्थो यः स ग्रन्थो वसन्तसाहचर्यात्ताच्छब्द्यं लभत इत्युक्तम् ।। तदाश्रितत्वादिति ।। ‘समर्थः पदविधिः’ इत्यत्र । समर्थाधिकारस्य विधेयसामानाधि-करण्यान्निर्देशानर्थक्यमिति वार्तिकम् । अस्यार्थः कैयटे विधिशब्दः कर्मसाधन उपात्तः । तस्य सम्बन्धी समासादिरर्थो वाच्यः । तत्समानाधिकरणं च समर्थपदमुपात्तम् । तत्रासमर्थानां समासस्यानिवर्तितत्वा-त्समर्थवचनेन न किञ्चित्कृत्यम् । तथा हि । समर्थानां यः समासः स समर्थ एव । यो हि ‘अ समर्थानां भार्या, ‘राज्ञः पुरुषो देवदत्तस्य’ इत्यादौ सोऽपि नियमाभावान्निवृत्त एव । तस्यासमर्थ-स्याप्यनेन समर्थग्रहणेन न किञ्चित्क्रियते । निवृत्तत्वात् । तदनेन पूर्वपक्षयित्वा सिद्धान्तितम् । समर्थपदाश्रयत्वात्पदविधिरुपचारेण समर्थपदेनोच्यते । एवं च क्रुद्धस्य राज्ञः पुरुष इत्यादौ समासो व्यावर्तितो भवति समर्थवचनेनेति ।।
इग्यण इति ।। ‘इग्यणः सम्प्रसारणम्’ इति सूत्रेण यणः स्थाने य इग्वर्णः स सम्प्रसारणसञ्ज्ञश्चेत् ‘ष्यङः सम्प्रसारणम्’ इत्यादौ दोषः । न हि ष्यङो यणः स्थाने इक् सिद्धोऽस्ति । यः ‘ष्यङः सम्प्रसारणम्’ इत्यनेन विधीयेतेत्यादिना वर्णसञ्ज्ञापक्षं दूषयित्वा यणः स्थाने इग्भवनरूपो यो वाक्यार्थः स सम्प्रसारणसञ्ज्ञ इति द्वितीयं पक्षमुद्भाव्य तमपि वाक्यार्थस्यासत्त्वभूतस्य स्थानिवत्वाद्यभावात् सम्प्रसारणस्येत्यादौ दोष इति दूषयित्वा (सूचयित्वा) नैष दोषः यथा काकाज्जातः काकः श्येनाज्जातः श्येनः एवं सम्प्रसारणाज्जातं सम्प्रसारणम् । तथा च वाक्यार्थस्यासत्वरूपस्य स्थानित्वाद्यभावेऽपि सम्प्रसारणसञ्ज्ञकाद्वाक्यार्थाज्जातो य इकारादिवर्णः सोऽपि सम्प्रसारणसञ्ज्ञक इति तस्य स्थानिवत्वा-द्युपपत्तिरित्युक्तं महाभाष्ये । ननु काकत्वाभिसम्बन्धात्काकः तत्कथमुच्यते काकाज्जातः काक इत्याशङ्क्य यदाऽनुपजातजात्यभिव्यञ्जक संस्थानविशेषः काको भवति निर्ज्ञातञ्च तस्य काकाज्जन्म भवति तदेतदुक्तम् एवमिहापि सम्प्रसारणाज्जातत्वाद्वर्णोऽपि ताच्छब्द्यं लभत इत्युक्तं कैयटे ।।
।। अतिदेशोऽयमिति ।। ‘बहुगणवतुडति सङ्ख्या’ इत्यत्र बहुगणादीनां सङ्ख्यासञ्ज्ञा चेत् ‘एक–द्वि–त्रि’ इत्यादिकायाः सङ्ख्यायाः ‘सङ्ख्यापूर्वो द्विगुः’ इत्यादिषु सङ्ख्याप्रदेशेषु ग्रहणं न स्यात् । ‘कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः’ इति न्यायेन कृत्रिमसङ्ख्यासञ्ज्ञानां बहुगणादीनामेव स्यादिति पूर्वपक्षयित्वा नेदं सञ्ज्ञाकरणं किन्त्वतिदेशोऽयम् । बहुगणवतुडतयः सङ्ख्यावद्भवन्तीति परिहृते, ननु तर्हि सूत्रे वतिनिर्देशः कर्तव्यः न त्वन्तरेण वतिम् अतिदेशो गम्यत इति पुनराशङ्क्यान्तरेणापि वतिमतिदेशो गम्यते तद्यथा अब्रह्मदत्तमित्यादिना परिहृतम् । ननु जहदजहल्लक्षणायां विशेषणांश-त्यागेऽपि विशेष्यांशात्यागान्मुख्यार्थपरत्वे सम्भवति न तत्सहचरिताद्यर्थकजहल्लक्षणा युक्ता । तस्यां मुख्यार्थस्य सर्वथा त्यागादित्याशङ्क्य निराकरोति– न चैवं मुख्यार्थत्यागेति ।। तद् ब्रह्म त्वम् तवान्तर्यामीत्यर्थे मुख्यार्थत्यागाभावादित्याह– अन्तर्यामिणीति ।। तव मते न कोऽपि तत्त्वमसीत्यस्य मुख्यार्थोऽस्तीति भावः ।
ननु तथापि लक्षणापक्षेऽन्तरङ्गत्वाद् अजहल्लक्षणैवास्तु न तु जहल्लक्षणा बहिरङ्गत्वादत आह– त्वद्रीत्येति ।। नन्वेकत्वेऽपि बुद्धिस्थमुख्यार्थसंस्पर्शित्वादजहल्लक्षणैव युक्तेत्यतो युक्त्यन्तरमन्वाचिनोति– किञ्चेति ।। प्रकृते शुद्ध इति ।। शुद्धस्य कथमप्यप्रकृतत्वे तत्पदलक्षणापि तत्र न स्यादित्यर्थः ।। शुद्धस्येति ।। न हि वाचकमपि गोपदं गोपदावाच्यस्यापि वाचकं स्यादिति । तथा च पदद्वयेऽपि लक्षणैवेत्यर्थः ।। तदित्येकपदेति ।। ‘तत्त्वमसि’ इत्यत्र मुख्यार्थत्वाय तत्पदस्य प्रकृतचिन्मात्रपरत्वे ‘तदैक्षत तत्तेजोऽसृजत’ इत्यादावपि तत्पदस्य चिन्मात्रपरतायामीक्षतिसृजती अमुख्यार्थौ स्याताम् । चिन्मात्रे ईक्षितृत्वाद्ययोगादित्यर्थः ।। प्रथमैकवचनेति ।। ‘सुपां सुलुक्’ इति सूत्रे ‘यत्सुन्वन्ति तत्सामिधेनीरन्वाहुर्यस्मिंस्तस्मिन्निति प्राप्ते’ इत्यादिना सप्तम्येकवचनस्य प्रथमैकवचनादेश इति काशिकायामुक्तत्वात्तद्वदत्रापि प्रथमैकवचनादेश इत्यर्थः ।। मीमांसकैरिति ।। हविर्धानाख्यगृहमध्ये दक्षिणोत्तरप्रदेशयोः सोमाख्यहविर्धारणार्थं हविर्धानसञ्ज्ञके द्वे शकटे स्थाप्येते । तयोर्मध्ये दक्षिणहविर्धाने सोमाभिषवः क्रियते । तत्र सामिधेन्यनुवचनं विधातुं उत यत्सुन्वन्तीत्यादिवाक्यम् । तत्र यत्तत्पदयोः सप्तम्यर्थकत्वं मीमांसकैरुक्तमित्यर्थः ।।
हविर्धान इति ।। हविर्धानसमीपे स्थित्वेत्यर्थः । अत एव तृतीयस्य सप्तमे उक्तं ‘हविर्धानस्य हविर्धारणाद्यर्थत्वान्न प्रयोजनान्तरापेक्षा । प्रकृतितस्त्वाहवनीयप्रत्यग्देशः सामिधेन्यङ्गत्वेन प्राप्तः । स च दक्षिणस्योत्तरस्य वा हविर्धानस्य समीपे भवतीति तन्नियममात्रं लाघवाद् विधेयम् । हविर्धानस्य त्वन्त्यन्ताप्राप्तम् अनपेक्षितं च न युक्तं विधातुम् । तस्मात् सोमाभिषवहविर्धानसमीपदेशे स्थित्वा सामिधेनीरनुब्रूयात्’ इति ।। न्याय्यञ्चेति ।। अग्नीषोमीयपशुसम्बन्धिनः पाशस्य मन्त्रे ‘अदितिः पाशान्प्रमुमोक्तेतान्’ इति बहुवचनस्य कर्मकारकार्थतया सावकाशस्यैकत्वसङ्ख्योपेतपाशाख्यप्रकृति स्वारस्यायास्वारस्यमुक्तं मीमांसकैर्यथा । तथा तत् त्वम् आद्यनेकप्रातिपादिकानां सर्वज्ञत्वादिकर्तृत्वादि-विशिष्टरूप स्वार्थात्यागलक्षणस्वारस्याय तत्पदगतप्रथमायाः तृतीयाद्यर्थकत्वरूपम् अस्वारस्यं वक्तुं न्याय्यमित्यर्थः । ननु प्रैतु होतुश्चमसः प्रब्रह्मणः प्रयजमानस्य प्रोद्गातॄणामिति चमसाऽध्वर्यून्प्रत्यध्वर्योः प्रैषः श्रूयते । सदः सञ्ज्ञकगृहमध्ये होत्रादयः सोमस्य भक्षयितारः सन्ति । तेषां मध्ये होतारं प्रति होतृचमसः प्रैतु प्रगच्छतु ब्रह्मणश्चमसोऽपि प्रैत्वित्याद्यर्थः । साम्नो या द्वितीया भक्तिरुद्गानाख्या सैकेनैवोद्गातृसञ्ज्ञकेनर्त्विजा क्रियते । गानमात्रं तु प्रस्तोतृप्रतिहर्तृसञ्ज्ञकाभ्यामपि क्रियते । एवं स्थिते प्रोद्गातॄणामित्यत्र बहुवचनस्वारस्यायोद्गानकर्त्रैकपुरुषवाचकस्योद्गातृशब्दस्य गानकर्तृत्वेन रूपेणाजहल्लक्षणयोद्गातृप्रस्तोतृप्रतिहर्तृपरत्वं कल्प्यते । उद्गात्रादीनां त्रयाणामेकस्तोत्रसम्बन्धात्सदसि सन्निधानाद् भक्षवेलायां च व्यापृतत्वात् त्रयाणामपि भक्षोऽस्तीत्युक्तं तृतीयस्य पञ्चमे । तस्मा-द्विभक्त्यस्वारस्यम् अन्याय्यमित्यत आह– प्रोद्गातॄणामिति ।।
विभक्त्यन्तर इति ।। एतच्चोपलक्षणम् । गानकारिषु त्रिष्वपि कथञ्चिदवयवयोगेन वर्तमानं प्रातिपदिकं बहुवचनं च द्वयमपि श्रुत्यर्थं भवतीत्यपि बोध्यम् ।। छन्दोगेष्विति ।। अपसुब्रह्मण्ये-ष्वित्यर्थः । सुब्रह्मण्याख्यस्य ऋत्विजः सदसि स्थितत्वाभावात्सदसि स्थितान्प्रति भक्षणार्थं चमसानां नीयमानत्वान्न सुब्रह्मण्यस्य भक्षोऽस्तीति वार्तिककारो मन्यते ।। दृष्टञ्चेति ।। दर्शपूर्णमासयोः श्रुतं ‘प्रयाजशेषेण हवींष्यभिघारयति’ इति प्रयाजशेषाज्येन पुरोडाशादिह विषामभिघारणं किं हविषां संस्कार उत प्रयाजशेषस्य प्रतिपत्तिरिति संशये द्वितीयया हविषां संस्कार्यत्वेन प्राधान्यावगमात् तत्संस्कारः न तु शेषस्य प्रतिपत्तिः । तृतीयानिर्दिष्टस्य गुणत्वेन प्रतिपाद्यत्वायोगादिति प्राप्ते प्रतिपत्तिरेव युक्ता शेषशब्दस्य श्रवणात् । उपयुक्तशेषस्य हि द्रव्यस्य क्वचित् क्षारणरूपा प्रतिपत्तिरपेक्षिता न तु हविःसंस्कारः । अतः प्रयाजशेषं हविष्षु क्षारयेदिति वाक्यार्थकल्पनया प्रयाजशेषस्य प्रतिपत्तिरेव ग्राह्येति चतुर्थस्य प्रथमे निर्णीतम् । यथा वा ‘सक्तून् जुहोति’ इत्यत्र होमेन सक्तूनां संस्कार्यत्वा-सम्भवाद्विभक्तिविपरिणामेन सक्तुभिर्जुहोतीति वाक्यार्थमाश्रित्य प्रातिपदिकस्वारस्यमुक्तं न तु प्रातिपदिके लक्षणाऽऽश्रिता तथाऽत्रापि ।