तत्त्वमस्यादिवाक्यस्याऽखण्डार्थत्वानुमाने अप्ययुक्ते

३. तत्त्वमस्यादिवाक्यस्याखण्डार्थत्वानमानभङ्गः

न्यायामृतम्

तत्त्वमस्यादिवाक्यस्याऽखण्डार्थत्वानुमाने अप्ययुक्ते । उक्ताप्रसिद्धविशेषणत्व-बाधप्रतिरोधाप्रयोजकत्व-प्रतिकूलतर्कपराहत्यादिदोषात् । उक्तरीत्याऽन्त्यहेतोरसिद्धेश्च । उभयत्रापि दृष्टान्तस्य साध्यवैकल्याच्च । ननु सोऽयमित्यत्र किं तद्देशकालादिविशिष्टस्यै-तद्देशकालादिवैशिष्ट्यं बोध्यते? एतद्देशकालादिविशिष्टस्य तद्देशकालादिवैशिष्ट्यं वा ? विशिष्टद्वयैक्यं वा ? नाद्यः । एतत्कालादिविशिष्टस्य प्रत्यक्षत्वेनाऽनुपदेश्यत्वात् । तत्कालादेरपीदानीं सत्त्वापत्तेश्च । न द्वितीयः । एतत्कालादेस्तदा सत्त्वापातात् । न तृतीयः । विशेषण भेदे विशिष्टाभेदायोगात् । विशिष्टं हि यदि विशेषणविशेष्यसम्बन्धरूपं तदा विशेषणभेदेन, यदि तु पदार्थान्तरं तदापि विशेष्यभेदेनेव विशेषणभेदेनापि तद्भेद आवश्यकः । तस्मात्सोऽयमित्यादिवाक्यं लक्षणयाऽखण्डार्थमिति चेत् ।

उच्यते– अस्तु तावदनुभवकालसम्बन्ध एव तत्ता, तथापि बाल्ययौवनयोरिव श्यामरक्तरूपयोरिव च तदेतद्देशकालसम्बन्धरूपयोस्तत्तेदन्तयोः परस्परमनन्वयेऽपि एकविशेषणविशिष्टे इतरस्यावृत्तावपि एकविशेष्यवृत्तित्वं तावदस्ति । कालद्वयासम्बन्धि-पदार्थानां क्षणिकत्वापातात् । देशद्वयसम्बन्धस्यापि कालभेदेनानुभवात् । सोऽयमिति पदद्वयं च तत्तेदन्तयोरेकवृत्तित्वबोधने शक्तम् । समानाधिकरणत्वात् । भिन्नप्रवृत्ति-निमितानामेकस्मिन्नर्थे वृत्तिर्हि सामानाधिकरण्यम् । न च विशेष्यस्य तत्तेदन्तान्वय-परमपीदं वाक्यं विशिष्टस्य तदन्वयपरं नेत्येतावताऽखण्डार्थम् । नीलमुत्पलमित्यादे-रप्यखण्डार्थत्वापातात् । एवं च–

कालद्वयेन योगस्य क्रमेण स्थायिवस्तुनि ।

नैल्यरक्तत्ववत्सत्त्वात्तदुक्तौ का विरुद्धता ।।

विशेष्ये धर्मसंसर्गपरं चापि विशेषिते ।

तत्परं नेत्यखण्डार्थं स्याच्चेत्सर्वं तथा भवेत् ।।

एतेन विशेष्यस्य कालद्वयसम्बन्धेनैव क्षणिकत्वानापत्तेर्विशिष्टस्य तत्सम्बन्धो नाऽपेक्षित इति निरस्तम् । मयापि विशेष्य एव कालद्वयसम्बन्धस्योक्तेः । देवदत्त-स्वरूपमात्रं बुभुत्सितमिति तु निरसिष्यते । न च तत्ताया अतीतत्वमात्रेण तत्पदस्य लक्षणा । घटो नष्ट इत्यादाविवातीततत्तारूपस्वार्थात्यागात् । अन्यथा तत्तादेरतात्पर्य-विषयत्वे सोऽयमित्यनेन देवदत्तस्य कालद्वयसम्बन्धो न सिद्ध्येत् । तस्मादेकविशेषण-विशिष्टे विशेषणान्तरान्वयाबोधकमपीदं वाक्यं विशेष्यस्य क्रमिकधर्मद्वयान्वयपरत्वात्स-खण्डार्थमेव ।

किञ्च त्वदुपन्यस्ते पक्षत्रयेऽपि न दोषः । तत्तादेरतीतत्वेऽपि यदन्विततया ज्ञात एव तात्पर्यविषयी भूतेतरान्वयधीः, तत्त्वरूपस्य विशेषणत्वस्य सम्भवात् । न च विधेयान्वय्येव विशेषणम् । शब्दोऽनित्य इत्यादौ शब्दत्वादावव्याप्तेः । नापि विधेयान्वयकाले सदेव विशेषणम् । दण्डी भविष्यति, दण्डी नास्तीत्यादावव्याप्तेः । गृहनिष्ठे काकादावतिव्याप्तेश्च । नापि विधेयान्वयप्रतियोगितावच्छेदकं वा  स्वप्रत्याय्य-व्यावृत्त्यधिकरणतावच्छेदकं वा विशेषणम् । अवच्छेदकत्वस्यान्यूनानधिकदेशकालत्व-रूपत्वे तस्य ‘सास्नादिमान् गौः’ इत्यादिषु लक्ष्यतावच्छेदकरूपविशेषणेषु सत्त्वेऽपि गौः शुक्ला इत्यादावव्याप्तेः । न हि गोत्वं शुक्लान्वयप्रतियोगित्वेनाशुक्लव्यावृत्त्या वा अन्यूनानधिकदेशम् । अवच्छेदकत्वस्य यद्वत्तया ज्ञात एव यदन्वयधीस्तत्त्वरूपत्वे चेहाप्यवच्छेदकस्य सत्त्वात् । न हि काकोपस्थापितसंस्थानवत्तया ज्ञात एव देवदत्तीयत्वधीवददेवदत्तगृहव्यावृत्तिधीवच्च तत्तोपस्थापितधर्मान्तरवत्तया ज्ञात एवेदन्त्वधीः अनिदं व्यावृत्तिधीर्वा किन्तु तत्तावत्तया ज्ञात एव ।

न चात्रापि तत्तौपस्थापितदेवदत्तसंस्थानविशेषवत्तया ज्ञात एवेदंत्त्वादिधीः, तत्रेदन्तादिसम्बन्धस्य प्रत्यक्षत्वेनानुपदेश्यत्वात् । तस्मादतीतमपि यदन्विततया ज्ञात एवेत्याद्युक्तलक्षणयुक्तं चेद्विशेषणमेव । तदयुक्तं चेद्वर्तमानमप्यविशेषणमेव । अत एवाहुः– ‘सदसद्वा समानाधिकरणं विशेषणम्’ इति । तस्मात्पक्षत्रयेऽपि न दोषः । न चाद्ये वाक्यवैयर्थ्यम् । इदन्तावैशिष्ट्यस्य प्रत्यक्षत्वेऽपि तत्ताविशिष्टे तस्याप्रत्यक्षत्वात् । न चाद्यद्वितीय योर्बुभुत्सितस्याभेदस्य साक्षादलाभः । पुरोवर्तिनि तत्ताद्यवैशिष्ट्यभ्रम-निरासायायं स वा न वेत्यभिप्रायेण कोऽयमिति प्रश्ने सोऽयमित्युक्तेः । भेदभ्रमे निरसितव्येऽपि अभेदकोक्त्यापि साक्षाद् भेदभ्रमनिवृत्तेश्च । अभेदस्य बुभुत्सितत्वेऽपि वाक्यस्याभेदविशिष्टपरत्वेन सखण्डार्थत्वापत्तेश्च ।

ननु तृतीये विशिष्टैक्ये विशेषणैक्यं स्यात् । न च धूमवदग्निमतोरैक्येऽपि धूमाग्न्योर्भेदो दृष्ट इति वाच्यम् । तत्रापि विशेष्यस्यैवैक्यात् । न च तर्हि दृष्टान्ताभावाद्विशिष्टैक्येन विशेषणैक्यापादनायोगः । अग्निमतोऽग्निमतैक्येऽग्नेरग्निनैक्यदर्शनात् समुदायिरूपविशेषणभेदे समुदायैक्यस्य व्याहतत्वाच्चेति चेन्न । विशिष्टम् अपदार्थान्तरमिति मते विशेष्यस्ये-वैक्याधिकरणत्वेऽपि धर्मयोरप्युद्देश्यतावच्छेदकत्वेन विशेषणत्वात् तस्यैव च विशिष्टाभेद-शब्दार्थत्वात् । पदार्थान्तरम् इत्यावयोर्मते तु धूमाग्न्योर्भेदेऽपि धूमवानग्निमानित्यबाधित सामानाधिकरण्यधीबलेन विशिष्टयोरभेदस्यापि सत्त्वात् । अन्यथा इदं रूप्यमित्युक्ते पुरोवर्तिनि रूप्याभेदाप्रतीतेः । रूप्यार्थिनः पुरोवर्तिनि प्रवृत्तिश्च न स्यात् । तत्तेदन्तोप-लक्षितैक्यबोधनमिति त्वन्मतं चायुक्तं स्यात् । तत्तेदन्तोपलक्षितत्वरूपविशेषणभेदा-द्विशिष्टभेदात् । अस्तु वा तत्तेदन्तयोर्मध्ये एकस्योपलक्षणत्वं तथापीदन्ता विशिष्ट-स्योपलक्षणीभूत तत्कालसम्बन्धो वा तत्तोपलक्षिताभेदो वा तत्ताविशिष्टस्योपलक्षणी  भूतेदन्तासम्बन्धो वा इदन्तोपलक्षिताभेदो वा बोध्यताम् ।

न चैतावता वाक्यस्याखण्डार्थत्वम् । उपलक्षणस्य काकादेः स्वयं प्रकारत्वेन प्रकारान्तरोप स्थापकत्वेन वा निष्प्रकारकत्वरूपाखण्डार्थत्वविरोधित्वात् । एकस्योप-लक्षणत्वेऽप्यन्यस्य विशेषणत्वाच्च । नाप्युपलक्षणत्वमात्रेण तद्वाचिशब्दानां लाक्षणिक-त्वम् । वृत्तिविशेषरूपलक्षणाया व्यावर्तकविशेषरूपोप लक्षणस्य च भिन्नत्वात् । दृश्यते हि घटस्याभावः जटाभिस्तापस इत्यादावभावादिकं प्रति घटादेरुपलक्षणत्वेऽपि घटादि-शब्दस्यालाक्षणिकत्वम् । दृश्यते च दण्ड्यभिप्रायेण प्रयुक्तेः दण्डमानयेत्यत्र दण्डशब्दस्य दण्डिनि लाक्षणिकत्वेऽपि दण्डस्याऽनुपलक्षणत्वम् । वरं चोभयपदलक्षणात एकपद-लक्षणा । न चेदन्ताविशिष्टस्य तत्तया, तत्ताविशिष्टस्य चेदन्तया कदाप्यसम्बन्धान्न ते प्रति तयोरूपलक्षणतेति वाच्यम् । तयोस्ताभ्यां विशेष्यद्वारा सम्बन्धात् । परम्परा-सम्बन्धिनोऽप्युपलक्षणत्वात् । यद्वेदन्तोपलक्षितस्य तत्तावैशिष्ट्यं तत्ताविशिष्टाभेदो वा तत्तोपलक्षितस्येदन्तावैशिष्ट्यं वा इदन्ताविशिष्टाभेदो वा बोध्यताम् ।

ननु यद्यपीदन्तया तत्तया वा उपलक्षितस्य विशेष्यस्य तत्तावैशिष्ट्यं वा इदन्तावैशिष्टं वा युक्तम् । विशेष्ये विशेषणान्तरान्वयात् । अभेदपक्षौ तु न युक्तौ अनुवृत्तव्यावृत्तयो-र्विशेष्यविशिष्टयोरभेदायोगादिति चेन्न, समवायस्थाने भेदाभेदावित्यावयोर्मतेऽनु-वृत्तव्यावृत्तयोरपि तयोः पर्वतोऽग्निमानिति धीबलाज्जाति व्यक्त्योरिव मृद्धटयोरिव चाभेदस्यापि सत्वात् । अन्यथा पर्वतोऽग्निमानिति लैङ्गिकी धीरपि निर्विकल्पिका स्यात् । केवलाभेदस्तु परिणामिनि देवदत्तपिण्डेऽपि नास्त्येव । यद्वा तत्तोपलक्षितस्य इदन्तोपलक्षितेन वा इदन्तोपलक्षितस्य तत्तोपलक्षितेन वा ऐक्यं बोध्यताम् । न चैतावताऽखण्डार्थत्वादिकमित्युक्तम् । तदेतदभिप्रेत्योक्तम्–‘अनित्यदेशकालसम्बन्धस्य सत्त्वान्न सोऽयं देवदत्त इत्याद्युपमा च’ इति टीकायां तु तद्देशकालसम्बन्धमात्रं न तत्ता, किन्तु तद्ध्वंसः । स चेदानीमस्ति । एवं च पक्षत्रयेऽपि न दोष इत्युक्तं तद्वस्तुस्थिति-प्रदर्शनार्थम् । तत्तेदन्तयोर्न केवलं बाल्ययौवनवत्सामानाधिकरण्यमात्रं किन्तु नीलत्वो-त्पलत्व वत्समानकालत्वमपीति प्रदर्शनार्थं च, न तु सखण्डार्थत्वार्थम् । उक्तरीत्या-न्यथापि तत्सिद्धेः । परेण तद्देशकालसम्बद्ध एतद्देशकालसम्बद्ध इत्यस्मिन्नुदाहृते टीकोक्त-प्रकाराप्रसराच्च ।

युक्तं चानुभवकालध्वंस एव तत्तेति । अन्यथा पूर्वकालविषयेऽनुभवेऽपि स्मृताविव तत्तोल्लेखः स्यात् । स्मृत्यनुभवयोः संस्कार जन्यत्वाजन्यत्वाभ्यां भेदेऽपि अनुभवकाले सतः कालस्य स्मृतिकाले वस्तुगत्यातीतत्वेऽपि च विषयकृत वैलक्षण्याभावात् । तत्तामात्रे च स्मृतेरननुभूतविषयत्वमिष्टमेव । न चातिप्रसङ्गः, अनुभवबलेनानुभूत कालध्वंसत्वस्य तन्त्रत्वात् । पूर्वकालसम्बन्धस्तत्तेति मतेऽपि ह्यननुभूतापि भूतता भातीति वक्तव्यम् । तत् तत्र तदा तथाऽऽसीदिति स्मृतौ अननुभूतस्य भूतत्वस्यो-ल्लेखात् । ननु पूर्वकालध्वंसविशिष्टो मध्येऽप्यस्ति इदन्ताविशिष्टस्तु मध्ये नेति कथं तयोरभेदः ? न चेदन्ता नैतत्कालसम्बन्धः, किन्तु तत्प्रागभावः तद्विशिष्टश्च मध्येऽ-प्यस्तीति वाच्यम् । पूर्वकालध्वंसविशिष्टस्येदानीं सत्त्वेऽपि एतत्कालप्रागभावविशिष्ट-स्येदानीमभावादिति चेन्न, अनुवृत्तव्यावृत्तयोरभेदस्य विशेष्यमात्रस्यैव ऐक्येऽपि तत्तादे-र्विशेषणत्वस्य च समर्थितत्वात् ।

अद्वैतसिद्धि:

एवं तत्त्वमस्यादिमहावाक्यपक्षकानुमानमपि निर्दोषम् । न च सोऽयं देवदत्त इत्ययं दृष्टान्तः साध्यविकलः । विशिष्टाभेदस्य बोधयितुमशक्यत्वात् । तथा हि– किमत्र तद्देशकालविशिष्ट एतद्देशकालवैशिष्ट्यं प्रतिपाद्यते ? एतद्देशकालविशिष्टे वा तद्देशकालवैशिष्ट्यम् ? तद्विशेषणयोरैक्यं वा ? तद्विशिष्टयोरैक्यं वा ? नाद्यः, तद्देशकाल वैशिष्ट्यस्याप्रत्यक्षत्वेनानुद्देश्यत्वात् । तत्कालादेरिदानीं सत्त्वापत्तेश्च । न द्वितीयः । एतत्कालादेरन्यदा सत्त्वापत्तेः । न तृतीयः । बाधात् । अत एव न चतुर्थोऽपि । विशेषणस्य भिन्नत्वेन विशेषणविशेष्यतत्सम्बन्धात्मकस्य विशिष्टस्य भिन्नत्वात् । अतिरिक्तत्वेऽपि विशेषणभेदेन विशेष्यभेदेन च तद्भेदनियमात् । तथा चोभयविशेषणपरित्यागेन विशेष्यमात्रमभिन्नं बोध्यत इति सिद्धमखण्डार्थत्वम् । तदुक्तम्–

अविरुद्धविशेषणद्वयप्रभवत्वेऽपि विशिष्टयोर्द्वयोः । घटते न यदैकता तदा नतरां तद्विपरीतरूपयोः ।।’

इति ।

यदा हि ‘दण्डी कुण्डली’ इत्यादौ दण्डकुण्डलादेरेकदेशकालावस्थितत्वेनाविरोधेऽपि न तद्विशिष्ट-योरैक्यम् । विशेषणयोरप्यै क्यापत्तेः । तदा कैव कथा सोऽयमित्यत्र तत्तेदन्तयोरेककाला-नवस्थाननियमेन । परस्परविरुद्धत्वात्तद्विशिष्टयोरैक्यस्य । लक्षणयैक्यबोधनं तूभयत्रापि समानम् । लाक्षणिकत्वेऽपि दण्डी कुण्डली इत्यादौ विशिष्टतात्पर्यान्नाखण्डार्थत्वव्यवहारः । सोऽयमित्यत्र तु ‘अयं स न वा ? अयं नैव सः’ इत्यादिसंशयविपर्ययज्ञानविषयीभूताभेदमात्रस्य बुभुत्सितत्वेन तत्रैव तात्पर्याद् अखण्डार्थत्वम् । न ह्यन्यस्मिन् बुभुत्सितेऽन्यत् प्रतिपादयितुमुचितमित्युक्तम् । प्रत्यभिज्ञा-प्रत्यक्ष स्याप्यभिज्ञाद्वयोपस्थितस्वरूपातिरिक्ताविषयत्वेऽपि उभयोपस्थितिद्वारकाभेदबोधनेन भ्रमनिवर्तकत्वम् । तत्समानार्थकं च वाक्यमेतदिति न विशिष्टपरम् । यथा चाभिज्ञाद्वयात् प्रत्यभिज्ञाया विषयवैलक्षण्याभावेऽपि द्वारविशेषनिबन्धनज्ञान गतवैलक्षण्यादेव फलभेदः । तथा स्मृतिरूपाया-स्तदिदम्पदार्थोपस्थितेरनुभवरूपस्य वाक्यार्थबोधस्य । एवं च ‘भिन्नप्रवृत्तिनिमित्तयोरेकार्थबोधपरत्वं सामानाधिकरण्यम्’ इति प्राचां वचोऽपि निष्प्रकारके सुतरामुपपद्यते ।

न्यायामृततरङ्गिणी

कोऽहमित्यात्मस्वरूपमात्रे बुभुत्सिते तत्त्वमसीत्यस्य प्रवृत्तेर्न पक्षे हेत्वसिद्धिरित्या-शङ्क्याह– उक्तरीत्येति ।। वाक्यमात्रस्य संसर्गपरत्वात् ‘सोऽयं देवदत्तः’ इत्यादेरपि तथात्वा-त्तत्र साध्यवैकल्यमित्याह– उभयत्रेति ।। ‘सोऽयं देवदत्तः’ इत्यादेरखण्डार्थत्वमाशङ्कते– नन्विति ।। तत्कालादेरपीति ।। तत्कालादेः सत्त्वं विना देवदत्तस्य तत्कालादिविशिष्टत्वं न सम्भवतीत्यर्थः । एतद्देशे तद्देशस्य सत्त्वापत्तिरादिशब्दार्थः ।। विशेषणभेदेनापीति ।। यदा ह्यविरुद्धदण्डकुण्डलादिविशेषणभेदेन विशिष्टभेद आवश्यकस्तदा तदेतद्देशकालरूपविरुद्ध-विशेषणभेदेन विशिष्टभेदः सुतरामावश्यक इत्यर्थः । तदुक्तं संक्षेपशारीरके–

अविरुद्धविशेषणद्वयप्रभवत्वेऽपि विशिष्टयोर्द्वयोः ।

 घटते न यदैकता तदा सुतरां तद्विपरीतरूपयोः’ इति ।

अस्तु तावदिति ।। अनुभवकालध्वंस एव तत्तेति वस्तुस्थितावपीत्यर्थः । नन्वेकस्मिन् कालद्वयस्य देशद्वयस्य च सम्बन्धस्य सत्त्वेऽपि ‘सोऽयम्’ इत्यादिवाक्यं पूर्वकालादिविशिष्ट-स्योत्तरकालादिवैशिष्ट्यं बोधयद्विरुद्धमेवेत्यत आह– सोयऽमितीति ।। नीलमुत्पल-मितीति ।। न च नीलमुत्पलमिति वाक्यस्य विशिष्टे तात्पर्यान्नाखण्डार्थत्वमिति वाच्यम् । ‘अयं स न वा, अयं स भवति’ इत्यादि सन्देहविपर्ययनिरासाय तत्कालसंसर्गस्य बुभुत्सित-त्वेनात्रापि विशिष्टे तात्पर्यात् । ननु तत्तासंशयादिनिरासाय प्रयुक्तं ‘सोऽयम्’ इत्यादिवाक्यं मा भूद्दृष्टान्तः । देवदत्तस्वरूपमात्रस्य बुभुत्सायां प्रयुक्तं सोऽयमिति वाक्यं दृष्टान्तो भविष्यतीत्यत आह– स्वरूपमात्रमिति ।। तत्ताया इति ।। अनुभवकालसम्बन्धस्येत्यर्थः ।। अतीतेति ।। ‘सोऽयम्’ इत्यनेनानुभवकालसम्बन्धलक्षणतत्तारूपस्वार्थस्य ‘सोऽयम्’ इति वाक्यप्रयोगकालेऽतीतस्याप्यत्यागादित्यर्थः ।। अन्यथेति ।। त्यागे सतीत्यर्थः ।। शब्द इति ।। विधेयेनानित्यत्वेन शब्दत्वस्यानन्वयात् ।। दण्डीति ।। विधेययोः प्रागभावप्रध्वंसयोः काले दण्डसम्बन्धस्यासत्त्वात् ।। गृहेति ।। विधेयस्य देवदत्तीयगृहत्वस्य काले विद्यमानस्य काकादेरित्यर्थः ।।

न हीति ।। काकादिषु काकाद्यन्विततया ज्ञात एव गृहे देवदत्तीयत्वादिबुद्ध्यहेतुत्वान्न तेषां विशेषणत्वम् ।। तत्रेति ।। तत्ताविशिष्ट इदन्त्वादिसम्बन्धस्याप्रत्यक्षत्वेनोद्देश्यत्वेऽपि तत्र तत्तोपस्थापितदेवदत्तसंस्थानविशेषवतीदन्त्वादि सम्बन्धस्य प्रत्यक्षत्वेनानुपदेश्यत्वमित्यर्थः ।। अतीतमपीति ।। विशेषणतायां वर्तमानत्वं न प्रयोजकमित्यर्थः । अत एवोक्तं गुणकिरणावल्याम्– ‘स्थिरं विशेषणं विशिष्टप्रतीतौ स्वात्मानमवेशयत्यपि न तु विशेषणतायां तदुपयोग इति । विशिष्टप्रतीतौ विशिष्टौ चितायां क्रियायामित्यर्थः ।। समानाधिकरण-मिति ।। ननु सामानाधिकरण्यं नैकविभक्तिनिर्देश्यत्वम् । विभक्तिनिर्देशस्य सर्वत्राभावात् । नाप्यैकाधिकरण्यम् । तद्धि न विशेष्येण । उत्पलनीलरूपयोरेकत्रावृत्तेः । नापि तद्धर्मेण प्रत्याय्यव्यावृत्त्या वा । उपलक्षणस्यापि तत्सत्त्वात् । न हि तापसे जटा न तिष्ठतीति । उच्यते । यदन्विततया ज्ञात एवेत्याद्युक्तलक्षणे तात्पर्यान्न दोषः ।। तत्ताविशिष्ट इति ।। तत्तान्विततया ज्ञाते ।। पुरोवर्तिनीति ।। पुरोवर्तिनीदन्तादिवैशिष्ट्यस्यैव बुभुत्सिततया साक्षादबुभुत्सितस्याभेदस्य साक्षादलाभेऽपि न दोष इति भावः ।

ननु भेदभ्रमनिरासायाऽभेदः साक्षाद्बुभुत्सित एवेत्यत आह– भेदभ्रम इति ।। अभेदको-क्त्यैव भेदभ्रमनिरासान्नाभेदोऽवश्यं बुभुत्सित इत्यर्थः ।। तस्यैव चेति ।। अपरान्वयधी-प्रयोजकज्ञानविषयभूतेतरान्वितरूपस्य विशिष्टस्य तादृशेन विशिष्टान्तरेणैक्य बोधनेऽपि न तद्विशेषणयोरैक्यापत्तिरित्यर्थः ।। अन्यथेति ।। विशेषणभेदस्य विशिष्टैक्यविरोधित्वे ।। रूप्याभेदेति ।। इदन्त्वरूप्यत्वादिविशेषणभेदादिदंरूप्ययोर्विशिष्टयोरभेदाप्रतीतिः । न चात्रापि लक्षणयाऽभेदमात्रं बोध्यत इति युक्तम् । पुरोवर्तिनि रजताभेदबोधं विना पुरोवर्तिनि प्रवृत्तिर्न स्यात् ।। नाप्युपलक्षणमात्रेणेति ।। यथा दण्डादिविशेषणवाचकपदस्य दण्डादिरूपस्वार्था-त्यागेनालाक्षणिकत्वं तथा तत्तादिरूपोपलक्षणवाचकस्यापि तत्पदस्य न लाक्षणिकत्वम् । स्वार्थात्यागादित्यर्थः । अर्थस्योपलक्षणत्वेपि शब्दस्य मुख्यत्वं दृष्टमित्याह– दृश्यते हीति ।। शब्दस्य लाक्षणिकत्वेऽप्यर्थस्य विशेषणत्वं दृष्टमित्याह– दृश्यते चेति ।।

उपलक्षणपरपदे लक्षणामभ्युपेत्याह– वरमिति ।। उभयपदलक्षणातः सकाशाद्योऽर्थ उपलक्षणं तत्परे एकस्मिन्नेव पदे लक्षणा श्रेष्ठेत्यर्थः । उपलक्षणस्य काकादेः स्वसंबन्धं यद्देवदत्तीयगृहत्वादिविशिष्टं देवदत्तगृहं तत्प्रत्युपलक्षणत्वं दृष्टम् । न चेह तत्तेदन्तयोरिदन्ता-तत्ताभ्यां विशिष्टेन सम्बन्धोऽस्ति । अतः कथमिदन्ताविशिष्टे तत्ताविशिष्टेदन्ता चोप लक्षणं स्यादित्याशङ्कां परिहरति– न चेदन्तेति ।। ते प्रतीति ।। इदन्ताविशिष्टस्वरूपं तत्ता-विशिष्टस्वरूपं च प्रतीत्यर्थः ।। तयोरिति ।। उक्तस्वरूपयोः । ताभ्यां तत्तेदन्ताभ्याम् । विशिष्टयोर्भेदेऽपीदन्ताविशिष्टे यद्विशेष्यं देवदत्तस्वरूपं तत्र तत्तासम्बन्धात्स्वविशेष्यसम्बद्धत्व-रूपइदन्ताविशिष्टस्य तत्तया सह सम्बन्धोऽस्त्येव । एवं तत्ताविशिष्टस्यापीदन्तया सम्बन्धोऽ-स्त्येवेत्यर्थः ।। परम्परेति ।। उपलक्ष्यसम्बन्धित्वमेवोपलक्षणस्यापेक्षितं, न तु साक्षात् । गौरवादित्यर्थः ।

यद्वेति ।। ‘‘अस्तु वा’’ इत्यादिना विशिष्टमुद्दिश्योपलक्षणसम्बन्धादि विधीयता-मित्युक्तम् । इदानीमुपलक्षितमुद्दिश्य विशेषणसम्बन्धो विधीयतामित्युच्यत इति भेदः ।। अभेदपक्षौ त्विति ।। इदन्तोपलक्षितस्य तत्ताविशिष्टाभेदस्तत्तोप लक्षितस्येदन्ताविशिष्टाभेद इति पक्षौ ।। अनुवृत्तेति ।। इदन्तोपलक्षितस्यानुगतस्य विशेष्यमात्रस्य तत्ताविशिष्टेन व्यावृत्तेनाभेदो न सम्भवति । एवं तत्तोपलक्षितस्यानुगतस्य विशेष्यमात्रस्येदन्ताविशिष्टेनापि । केवलविशेष्यस्य विशिष्टेनाभेदोऽप्यस्तीत्याह– समवायेति । ननु जातिव्यक्त्योरित्यादि-दृष्टान्तासङ्गतिः । अयुतसिद्धयोरभेदाभावादित्याशङ्का परिहारायोक्तं समवायस्थाने भेदाभेदौ इत्यादि ।। अन्यथेति ।। केवलस्य विशिष्टेनाभेदाभाने निर्विकल्पिकापर्वतस्याग्निमदभेदं न विषयीकुर्यादित्यर्थः ।

नन्विदन्तोपलक्षिततत्ताविशिष्टयोर्भिन्नयोरभेदबोधनं न युक्तमित्यत आह– केवलेति । भेदवत्यभेदबोधाद्बिभ्यत्त्वं तत्ताद्युपलक्षिते स्वरूपमात्रेऽभेदो बोध्यत इति कथं ब्रूयाः । देवदत्तपिण्डेऽपि भेदस्य सत्त्वादित्यर्थः ।। न चैतावतेति ।। तत्तोपलक्षितत्वादेरेव प्रकारत्वात् ।। उक्तमिति ।। तत्वोद्योत इति शेषः ।। अनित्येति ।। अनित्याभ्याम् इदानीम-विद्यमानाभ्यां देशकालाभ्यां स्वकाले यः सम्बन्धस्तद्देशकालोपलक्षितत्वादिरूपस्तस्य देवदत्ते सत्त्वात् ‘सोऽयं देवदत्तः’ इत्यादिवाक्यं तत्वमस्यादिवाक्यस्याखण्डार्थतायाम् उपमा दृष्टान्तो न भवतीत्यर्थः ।। तद्देशकालसम्बद्ध इति ।। मधुरासम्बन्धः काशीसम्बन्धेऽष्टमीसम्बन्धः पूर्णमासीसम्बन्ध इत्यादिवाक्ये परेणोदाहृत इत्यर्थः । एतेन तद्देशकालसम्बन्ध इत्यत्रापि तत्तेदन्तयोः प्रवेश इति निरस्तम् । तदेतत्पदयोर्देशविशेषार्थत्वात् ।। अन्यथेति ।। तद्देशकाल-सम्बन्धस्य तत्तात्वे ।। स्मृत्यनुभवयोरिति ।। तयोः कारणकृतस्य वैषम्यस्य सत्त्वेऽपि तद्विषये च सत्त्वासत्त्वरूपवैषम्यसत्त्वेऽपि स्मृत्यनुभवगतेऽर्थविषयीकारित्वांशे वैषम्याभावात् । न च संस्कारजन्यत्वेन तत्तोल्लेख इति वाच्यम् । लिङ्गकरणतापक्षे संस्कारलिङ्गकानुमितौ तत्तोल्लेखः स्यात् । तत्तास्मृतिरेव प्रत्यभिज्ञायां हेतुर्न संस्कार इति पक्षे तदभावाच्च ।। तत्तामात्रे चेति ।। अनुभूतकालध्वंसस्याननुभूतस्यापि भानात् ।

न्यायामृतकण्टकोद्धारः

पदार्थपरवाक्यस्याखण्डार्थत्वं प्रदूष्य महावाक्यस्याप्यखण्डार्थत्वं पूर्वोक्तदूषणेन दूषयति– तत्त्वमस्यादीति  ।। उक्तरीत्येति ।। स्वरूपमात्रस्य प्रागेव ज्ञातत्वेन प्रश्नाद्ययोगादित्युक्त-रीत्येत्यर्थः ।। उभयत्रेति ।। महावाक्यस्याखण्डार्थत्व साधकयुक्तिद्वयेऽपीत्यर्थः । अतो न पौनरुक्त्यमिति हृदयम् । ननु ‘सोऽयं देवदत्तः’ इत्यादेर्विशिष्टार्थत्वे बाधकसद्भावाद् अखण्डार्थत्वमेव स्वीकर्तव्यमिति कथं साध्यविकलतेति शङ्कते – नन्विति ।। नन्वेतत्कालवैशिष्ट्यादेः प्रत्यक्षत्वेऽपि न तत्कालावच्छेदेन प्रत्यक्षत्वम् । अतस्तद्बोधनं युक्तमेवेत्यत आह– तत्कालादेरपीति ।। ननु विशेषणभेदे विशिष्टाभेदो नेति नियमोऽप्रयोजक इत्याशङ्क्याह– विशिष्टं हीति ।। विशेषण-भेदेनापीति ।।

ननु विशेष्यस्य समवायिकारणत्वात् तद्भेदेऽस्तु विशिष्टभेदः । विशेषणसम्बन्धस्तु निमित्तम् । न च निमित्तभेदे कार्यभेदः । अतिप्रसङ्गादिति चेन्न । समवायिभेदेऽपि पटादिकार्याणां निमित्तविशेषवशादभेददर्शनात् । तदभेदेऽपि पाकजस्थले रूपरसादौ निमित्तविशेषाद् भेददर्शनादिति ।। अस्तु तावदिति ।। उक्तविकल्पदोषनिरासेन त्रेधाऽप्यखण्डार्थत्वं साधयिष्यामीति तावच्छब्दः ।

नन्वेकस्य कालद्वयसम्बन्धे तयोरेकविशेष्यवृत्तित्वं कालद्वयसम्बन्ध एकैकस्य नेत्यत आह– कालद्वयेति ।। पूर्वोत्तररूपकालद्वयेत्यर्थः । नन्वेकस्य देशद्वयसम्बन्धो विरुद्ध इत्यत आह– देशद्वयेति ।। नन्वस्य वाक्यस्य तत्तेदन्तयोरेकवृत्तित्वबोधकत्वे किं प्रमाणम् ? प्रत्यक्षस्य विप्रतिपन्नत्वादित्यत आह– सोऽयमिति ।। न च नीलमुत्पलमित्यादौ व्यभिचार इति वाच्यम् । तत्तेदन्ताशब्देन विशेषणद्वयस्य गृहीतत्वात् । न च तद्विशिष्टपरमिति व्यभिचार एवेति वाच्यम् । अधिकबोधनेऽप्येकवृत्तित्वबोधकत्वात् । ननु समानाधिकरणत्वं तदधिकरणाधिकरणत्वम् । तच्च प्रकृतेऽसिद्धमित्यत आह– भिन्नमिति ।। अत एवाप्रयोजकत्वमपि न । उक्तहेतोः साध्यं विनानुपपत्तेरिति भावः । ननूक्तयोर्विशेषणयोर्विरुद्धत्वात् कथमेकत्रावस्थानमिति शङ्कां परिहर-न्नेवोक्तमर्थं कारिकया सङ्गृह्णाति–  एवञ्चेति ।। एतेनेति परामृष्टमाह– मयेति ।।

ननु विशेषणयोरेकत्रावस्थानबोधकत्वे प्रश्नवैयधिकरण्यम् । देवदत्त स्वरूपमात्रस्यापृष्टत्वादित्यत आह– देवदत्तेति ।। ननु तत्ताया अतीतत्वात् तत्पदे लक्षणेत्यत आह– न चेति  ।। अन्यथेति ।। तत्पदस्य स्वार्थत्यगे । उपसंहरति– तस्मादिति ।। कथं पूर्वोक्तपक्षत्रयेऽपि न दोष इत्यत आह– किञ्चेति ।। ननु कथं न दोषः ।

तत्तादेरतीतत्वेन विशेषणत्वस्यासम्भवेन तत्ताविशिष्टादौ तद्वैशिष्ट्यादेरसम्भवादित्यत आह– तत्तादेरपीति ।। न च नेदं विशेषणत्वलक्षणम् । दण्डी देवदत्तः इत्यादौ दण्डादेर्विशेषणत्वं न स्यात् । दण्डवत्तया पूर्वं देवदत्तज्ञानाभावात् । विशेषणज्ञानस्य कारणत्वानभ्युपगमादिति वाच्यम् । ज्ञात इत्यस्य ज्ञायमान इत्यर्थात् । तस्य च तत्रापि सत्त्वात् । अत एव प्रतियोगित्वादेरपि विशेषणत्वमुपपन्नमिति भावः । नन्वन्यान्यपि विशेषणत्वलक्षणानि सम्भाव्यन्ते । तत्कथमिदमेव विशेषणत्वमित्यतः परिशेषादित्याह– न चेत्यादिना ।। सदेव विशेष्य इति शेषः । अन्यथा विशेष्येऽतिव्याप्तेः । वक्ष्यमाणदूषणासङ्गतेश्च । न चैवमपि दण्ड्यस्तीत्यादौ प्रमेयत्वादेरपि विशेषणत्वापत्तिरिति वाच्यम् । सदेवेत्यस्य सत्त्वे सति प्रतीयमानमित्यर्थात् । एवञ्च रजत-मस्तीत्यादौ रजतत्वादेरविशेषणत्वप्रसङ्गः । तदर्थं च सत्त्वत्यागे प्रकृतेऽपि न कोऽपि दोषः ।

तथापि यथाश्रुते दोषमाह– दण्डीति ।। स्वप्रत्याय्येति ।। स्वेन प्रत्याय्या ज्ञाप्या या वृत्तिः तदधिकरण तावच्छेदकत्वमित्यर्थः । नचैवं प्रमेयत्वादेर्विशेषणत्वं न स्यात् । तज्ज्ञाप्य-व्यावृत्तेरसम्भवादिति वाच्यम् । आवयोर्मते अप्रामाणिकादपि व्यावृत्तिसम्भवेन प्रमेयत्वादेरपि तथाभावसम्भवात् । न हि प्रमेयत्वं केवलान्वयीत्यावयोर्मतम् । अवच्छेदकत्वं किमन्यूना-नतिरिक्तदेशवृत्तित्वं किं वा यदन्विततया ज्ञात एवेत्यादिकम्? आद्ये दोषमाह– अवच्छेदकत्व-स्येति ।। अभासमानस्यापि तत्समनियतस्य विशेषणत्वप्रसङ्ग इत्यपि द्रष्टव्यम् । द्वितीय आह– अवच्छेदकत्वस्येति ।। उपलक्षणमेतत् । गौरवञ्चेत्यपि द्रष्टव्यम् । प्रकृते सत्त्वमेवोपपादयति– न हीति ।। काकतुल्यतां परिहरति– न चात्रापीति ।। तत्रेति ।। संस्थानविशेषवतीत्यर्थः । न चैवमुत्तृणत्ववदिति देवदत्त गृहत्वं प्रत्यक्षसिद्धम् । येन तत्रोपदेशानर्थक्यमिति भावः । तस्मादतीतत्वं वर्तमानत्वं वा न प्रयोजकम् । किन्तु यदन्वितत्वमेवेत्युपसंहरति– तस्मादिति ।। समानाधिकरणं यदन्विततया ज्ञातमेवेत्येवंरूपमित्यर्थः । अप्रत्यक्षत्वात् । तथा च न वाक्यवैयर्थ्यमिति शेषः ।। अभेदस्येति ।।

न च लक्षणया स्वरूपमात्रपरत्वमिति नाखण्डार्थत्वभङ्ग इति वाच्यम् । प्रश्नोत्तरयो-र्वैयधिकरण्यापत्तेः ।। विशिष्टमिति ।। न च द्वयोरुद्देश्यतावच्छेदकत्वमयुक्तम् । विधेयाभाव-प्रसङ्गादिति वाच्यम् । ऐक्यस्य विधेयत्वसम्भवात् । न च तत्प्रत्यायकपदाभावात् कथं तद्विधेयमिति वाच्यम् ? विशेषणोत्तरविभक्त्यादेरेव तत्प्रत्यायकत्वसम्भवात् । अत एव विशेषणोत्तरविभक्तेरर्थसाधुत्वमिति गङ्गेशचरणाः । नन्वेवं विशेष्यमात्राभेदेऽपि न विशिष्टाभेद इत्यत आह– तस्यैव चेति ।। यत्र धर्मद्वयमुद्देश्यतावच्छेदकीकृत्यैवं विधीयते तत्रैव विशिष्टाभेद इति भावः ।। पदार्थान्तरमितीति ।। ननु विशेष्यभेद इव विशेषणभेदस्यैव बाधकत्वात् कथं विशिष्टयोरभेद इति चेन्न । विशेष्यभेद इव विशेषणभेदे ‘नायं सः’ इति भेदबुद्धेरभावेन प्रत्युत स एवायमिति अभेदबुद्धेरेव सत्त्वेन विशेषणभेदस्य विशिष्टभेदाप्रयोजकत्वात् । अत एवोक्तम् अबाधितेति ।। अन्यथेति ।। विशेषणभेदस्य विशिष्टभेदप्रयोजकत्वे इत्यर्थः । रूप्यार्थिप्रवृत्तौ तदभेदप्रतीतेः कारणत्वादित्यर्थः । न च न मया विशिष्टैक्यं बोध्यत इत्युच्यते किन्तु स्वरूपैक्यमेवेति वाच्यम् । तस्य पूर्वमेव सिद्धत्वात् । एवं तत्ताया अतीतत्वेऽपि पदान्विततयेति विशेषणलक्षणसद्भावात् सत्त्वस्य विशेषणत्वेऽतन्त्रत्वात् तत्ताया विशेषणत्वमेवेति पक्षत्रये न दोष इत्युक्तम् । इदानीमस्तु विशेषणत्वे सत्त्वं तन्त्रम् । तथाप्येक?सत्त्वाद्विशेषणत्वम् अपरस्योप-लक्षणत्वम् । न चैतावताऽखण्डार्थत्वमित्याह– अस्तु वेति ।।

नन्वेकस्योपलक्षणत्वेऽखण्डार्थत्वं स्यादित्यत आह– उपलक्षणस्येति ।। न ह्युपलक्षितार्थ-विषयत्वमात्रम् अखण्डार्थत्वम् । काकवद्देवदत्तगृहमित्यत्रापि तथात्वापत्तेः । किन्तु संसर्गागोचर-प्रमाजनकत्वपर्यवसन्ननिष्प्रकारकत्वमेव । न च तत्प्रकृतेऽस्तीति भावः । ननूपलक्षणत्वाभ्युपगमे लक्षणाप्रसङ्गात् कथं स्वप्रकारकबोधजनकत्वमित्यत आह– नापीति ।। ननु भिन्नत्वे उपलक्षण-वाचकस्य लाक्षणिकत्वाभावो वा लाक्षणिकस्योपलक्षणत्वाभावो वा स्यादित्यत इष्टापत्त्या परिहरति– दृश्यते हीति ।। अस्तु वोपलक्षणवाचकस्य लाक्षणिकत्वम् । न चैतावता साम्यम् । पदद्वय लक्षणायाः एकपदलक्षणाया ज्यायस्त्वादित्याह– वरञ्चेति ।। ननु कदाचित् सम्बद्धमेवोप-लक्षणम् । प्रकृते च तत्तेदन्तयोर्न विशिष्टसम्बन्ध इति कथं तयोरुपलक्षणत्वमित्याशङ्क्य निषेधति– न चेति ।। यद्वेति ।। न चेदम् ‘अस्तु वा’ इत्यादिना पुनरुक्तमरुपलक्षणात् काकसम्बन्धादेरेव प्रतिपादनादिति वाच्यम् । एकस्य विशेषणत्वम् अपरस्योपलक्षणत्वमित्यस्य साम्येऽपि पूर्वत्र विशेषणोपलक्षणयोः परम्परासम्बन्धोऽत्र तु साक्षादिति न पौनरुक्त्यम् । अत एवोक्तं विशेष्य-द्वारेति ।। न च तदसम्भवः । उद्देश्यविधेयभावादेरनेकविधस्य तस्य सम्भवात् ।। अनुवृत्तेति ।। विरुद्धधर्मवतोरैक्यायोगादिति भावः ।

समवायस्थान इति ।। अनुवृत्तत्वादिकं भेदेन निर्वाह्यम् । न चैवमेकत्र भेदाभेदौ विरुद्धाविति वाच्यम् । विशेषवत्त्वेन तच्छमनादिति ।। अन्यथेति ।। अनुवृत्तव्यावृत्तयोरैक्यासम्भवाङ्गीकारे इत्यर्थः । बाधकात् स्वरूपमात्रविषयत्वे निर्विकल्पकत्वम् । बाधानवतारदशायान्तु भ्रमत्वमेव स्यादिति बोध्यम् । ननु प्रकृते केवलाभेदाङ्गीकारात् कथमनुवृत्तत्वादिकं निर्वाह्यमित्यत आह– केवलेति ।। अस्तु वा पदद्वयमुपलक्षणपरम् । तथापि प्रकृते सखण्डार्थत्वमेवेत्याह– यद्वेति ।। नन्वेवं साध्यवैकल्यं सिद्धान्ते नोक्तम् । तथा च तद्विरोध इत्यत आह– तदेतदिति ।। ननु भवद्भिः विशेषणत्वैकोपलक्षणत्वोभयोपलक्षणत्वरूपपक्षत्रयेऽपि सखण्डार्थत्वमुक्तम् । तट्टीकाविरोधि । टीकायां प्रकारान्तरेण सखण्डार्थत्वासम्भवात् तच्छब्दस्यार्थान्तरं वर्णयित्वा सखण्डार्थत्वाभिधाना-दित्यत आह– टीकायां त्विति ।। अन्यथापीति ।। उक्तप्रकारत्रयेणेत्यर्थः । टीकोक्तप्रकारेणैव सखण्डार्थत्वं किमिति नोच्यते । किं प्रकारत्रयोपादानेनेत्यत आह– परेणेति ।।

ननु अनुभवकालसम्बन्धस्तत्ताशब्दार्थत्वेन वर्णितः । अनुभवध्वंसकालोऽपि । तत्र का तत्ता इति सन्दिह्यत इत्यत आह– युक्तञ्चेति ।। अन्यथेति ।। यद्यनुभवकालसम्बन्ध एव तत्तेत्यर्थः । ननु स्मृत्यनुभवयोर्भिन्नविषयत्वात् कथमनुभवे तत्तोल्लेख आपाद्यत इत्यत आह– स्मृत्यनुभव-योरिति ।। यद्यप्यनुभवे कालो वर्तमानत्वेन भासते स्मृतावतीतत्वेन । तथा च कथं विषयकृतवैलक्षण्याभावः । तथाप्यनुभवविषयैव स्मृतिरिति परमतावष्टम्भेनेदमुक्तमिति हृदयम् । ननु तद्देशकालसम्बन्धध्वंसस्तत्तेति पक्षे कथं स्मृतौ तत्ताभानम् ? ध्वंसस्याननुभूतत्वात् । अननुभूतभाने अनागतस्यापि भानप्रसङ्गादित्यत आह– तत्तामात्रे चेति ।। अनुभवबलेनेति ।। अनागतत्वस्याननुभवेन नियामकान्तरस्याकल्प्यत्वादिति । ननु पूर्वकालसम्बन्ध एव तत्तास्तु । तथा चाननुभूतभाने न नियामककल्पनागौरवमित्यत आह– पूर्वकालेति ।। टीकोक्तसखण्डार्थत्व-पक्षेषु अभेदपक्षेऽनुपपत्तिमाशङ्कते– न चेति ।। पूर्वोक्तमेव परिहारं स्मारयति– अनुवृत्तेति ।।

न्यायामृतप्रकाशः

उक्ताप्रसिद्धेति ।। प्रत्यक्षादिनापीदमित्थमिति सप्रकारकज्ञानस्यैवोत्पत्तेः संसर्गागोचरप्रमाजनकत्व-रूपाखण्डार्थत्वं कुत्राप्यप्रसिद्धमित्युक्तेत्यर्थः । कोऽहमित्यात्मस्वरूपमात्रे बुभुत्सिते सति तत्त्वमसीत्यस्य प्रवृत्तेर्न तन्मात्रप्रश्नोत्तरत्वस्यासिद्धिरित्यत आह– उक्तरीत्येति ।। स्वरूपमात्रस्य सिद्धत्वान्न स्वरूपमात्रे प्रश्न इत्याद्युक्तरीत्येत्यर्थः । वाक्यमात्रस्य संसर्ग परत्वात् ‘सोऽयं देवदत्तः’ इत्यादेरपि तथात्वात्तत्र साध्यवैकल्यमित्याह– उभयत्रापीति  ।। अकार्येत्याद्यनुमाने तन्मात्रप्रश्नोत्तरत्वानुमाने चेत्यर्थः । सोऽयं देवदत्त इत्यादेखण्डार्थत्वान्न साध्यवैकल्यमित्याशङ्कते– नन्विति ।। तत्कालादे-रपीति ।। तद्देशकालादिविशिष्टस्य एतद्देशकालादिवैशिष्ट्यबोधने तद्देशकालादेस्तावद्विशेषणत्वं प्रतीयते । विधेयान्वय्येव च विशेषणम् । तथा चैतद्देशकालादिवैशिष्ट्यस्य विधेयत्वेन तद्देशकालयोर्विधेयभूतै तद्देशकालान्वयाभावे विशेषणत्वायोगेन तदन्यथानुपपत्त्या विधेयान्वयित्वे वाच्ये तद्देशकालयोरपीदानीं सत्वापत्तिरित्यर्थः । एतद्देशे तद्देशस्य सत्वापत्तिरादिशब्दार्थः । एवमेव एतत्कालादेरित्यस्याप्युपपादनं द्रष्टव्यम् । तद्देशे एतद्देशसत्वा पत्तिरादिशब्दार्थः ।। विशेषणभेद इति ।। यदा ह्यविरुद्धदण्ड-कुण्डलादिविशेषणभेदेन विशिष्टभेद आवश्यकस्तदा तदेतद्देशकालरूपविरुद्धविशेषणभेदेन विशिष्टभेदः सुतरामावश्यक इत्यर्थः । तदुक्तं सङ्क्षेपशारीरके–

अविरुद्धविशेषणद्वयप्रभत्वेऽपि विशिष्टयोर्द्वयोः । घटते न यदैकता तदा सुतरां तद्विपरीत-रूपयोः’ ।। इति ।

विशिष्टं विशेषणविशेष्यतत्सम्बन्धात्मकम् अतिरिक्तं चेति पक्षद्वयेऽपि विशेषणभेदे विशिष्टभेद एवेत्याह– विशिष्टं हीत्यादिना ।। विशेषणभेदेनेति ।। विशेषणस्यैव विशिष्टत्वेन तद्भेद एव विशिष्टभेद इत्यर्थः । पदार्थान्तरं विशेषणाद्यतिरिक्तम् । अत्र तद्देशकालविशिष्टस्य एतद्देशकाल-वैशिष्ट्यमेतद्देशकालविशिष्टस्य तद्देशकालवैशिष्ट्यमित्येवमादिरूपेण न बोध्यते । येनोक्तदोषः । किं नाम तदेतद्देशकालसम्बन्धरूपयोस्तत्तेदन्तयोर्बाल्ययौवनयोरिव श्यामरक्तरूपयोरिव चैकविशेष्यमात्र वृत्तित्वमेव सोऽयमिति वाक्यार्थः । न च विशिष्टैक्यतात्पर्याभावेन विशेष्यैक्यमात्रपरत्वप्राप्त्याऽ-खण्डार्थपरत्वमेव प्राप्तमिति वाच्यम् । तथात्वे ‘नीलोत्पलम्’ इत्यादेरपि भिन्नप्रवृत्तिनिमित्तक-शब्दानामेकविशेष्यवृत्तित्वसद्भावेन खण्डार्थत्वापातात् । अतो न तत्कालादेरपीदानीं सत्वापत्तिरित्यादि-दोष इत्यभिनवसमाधानमाह– उच्यत इति ।।

अस्तु तावदिति ।। अनुभवकालध्वंस एव तत्तेति टीकाकारोक्तवस्तुस्थितौ सत्यामपीत्यर्थः । तर्हि तद्विशिष्टस्य एतद्देशकालवैशिष्ट्यबोधनेऽनुभवकालस्यापीदानीं सत्वापत्तिस्तथा वैपरीत्यमपीत्या-शङ्कायामाह– तथापीति ।। तत्तेदन्तयोर्विशे(ष्यान्ययो)षणयोरनन्वयेऽपि विधेयानन्वयेऽपि । इतरस्य विशेषणस्य । तदेतत्कालसम्बन्धरूपयोस्तत्तेद न्तयोरेकविशेष्यवृत्तित्वाभावे पूर्वोत्तरकालद्वयासम्बन्धप्राप्त्या देवदत्तादिपदार्थानां क्षणिकत्वापत्तेस्तदेतत्कालयोरेक विशेष्यवृत्तित्वं तावदङ्गीकार्यमित्याशयेनाह– कालद्वयेति ।। तदेतद्देशसम्बन्धयोरपि एकविशेष्यवृत्तित्वमङ्गीकार्यम् अनुभवसिद्धत्वादित्याह– देशद्वयेति ।। नन्वेकस्मिन्विशेष्ये वस्तुगत्या कालद्वयसम्बन्धस्य देशद्वयसम्बन्धस्य च सत्वेऽपि सोऽयमिति पदद्वयस्य न तद्बोधकत्वम् । सोऽयमिति पदद्वयस्य देशकालसम्बन्धस्य एकविशेष्य-वृत्तित्वबोधने शक्त्यभावः । अतः पूर्वकालादिविशिष्टस्य एतत्कालादिवैशिष्ट्यमेव तदर्थ इति तद्बोधयदिदं वाक्यं विरुद्धार्थमेवापन्नमित्यत आह– सोऽयमितीति ।।

समानाधिकरणत्वेन कथं तयोरेकविशेष्यवृत्तित्वलाभ इत्यत आह– भिन्नेति ।। अर्थे विशेष्ये । तत्तेदन्तान्वयपरं तदेतद्देशकालसम्बन्धमात्रबोधनपरम् ।। विशिष्टस्येति ।। तद्देशकालविशिष्टस्य एतद्देशकालवैशिष्ट्यान्वयपरं न भवतीत्यर्थः ।। इत्येतावतेति ।। विशेष्यमात्रवृत्तित्वबोधनादित्यर्थः । एकविशेष्यमात्रवृत्तित्वेनाखण्डार्थत्वाङ्गी कारेऽतिप्रसङ्गमाह– नीलमिति ।। नीलत्वोत्पलत्वरूपभिन्न-प्रवृत्तिनिमित्तकशब्दयोरेक विशेष्यमात्रवृत्तित्वसद्भावादित्यर्थः । सङ्गृह्णाति– एवं चेति ।। योगस्य सम्बन्धस्य । तद्रूपयोस्तत्तेदन्तयोरिति यावत् । तदुक्तौ सोऽयमितिपदद्वयेन एकस्मिन्विशेष्ये कालद्वय-सम्बन्धमात्रस्य शक्त्या बोधने । धर्मसंसर्गः कालद्वयसम्बन्धः । विशेषिते विशिष्टे । सर्वं नीलोत्पल-मित्यादिवाक्यम् । तथा अखण्डार्थम् ।। विशेष्यस्येति ।। केनचिदखण्डार्थत्वे युक्तिरुक्ता– ‘तद्देश-काल विशिष्टस्य एतद्देशकालवैशिष्ट्यं न बोध्यते । येन सखण्डार्थत्वं स्यात् । न च तद्देशकाल-विशिष्टस्यैतद्देश कालवैशिष्ट्याबोधनेन कालद्वयासम्बन्धित्वादस्य क्षणिकत्वापात इति वाच्यम् । सोऽयमित्यादेर्विशेष्यस्वरूपमात्रबोधकत्वाङ्गीकारेण विशेष्य स्वरूपमात्रस्य च कालद्वयसम्बन्धित्वेनोक्त-दोषाभावात् । तथा च विशेष्यमात्रबोधकत्वेनाखण्डार्थत्वम्’ इति ।

एतेनेत्युक्तमेव विशदयति– मयापीति ।। त्वदुक्तरीत्यैवेति शेषः । न चैतावताऽखण्डार्थत्वापत्तिः । विशेष्ये कालद्वयसम्बन्धमात्रपरत्वेऽपि विशिष्टे तत्परत्वाभावादिति वाच्यम् । नीलोत्पलमित्यादेरपि अखण्डार्थ त्वापातादित्युक्त त्वादिति भावः । ननु सोऽयमिति एकस्मिन्विशेष्ये कालद्वयसम्बन्धबोधन-मप्ययुक्तमेव । देवदत्तस्वरूपमात्रस्य बुभुत्सितत्वेन तस्यैव वक्तव्यत्वात् । अन्यथा प्रश्नोत्तरयोर्वैयधि-करण्यं स्यादित्यत आह– देवदत्तेति ।। यदुक्तं सोऽयमिति पदद्वयं तत्तेदन्तयोरेकविशेष्यवृत्तित्वबोधने शक्तमिति, तदयुक्तम् । अनुभवकालसम्बन्धरूपतत्ताया अतीतत्वात् । तत्तावाचिनः स इति पदस्य अनुभवकालसम्बन्धे लक्षणैव प्राप्ता न शक्तिरित्याशंक्य निराकरोति– न चेति ।। घट इति ।। नष्टो घट इत्यत्रापि घटस्यातीतत्वेन घटपदस्यापि तत्र लक्षणा स्यादिति भावः ।। स्वार्थात्यागादिति ।। सोऽयमित्यनेनानुभवकाल सम्बन्धलक्षणतत्तारूपस्वार्थस्य सोयमिति वाक्यप्रयोगकालेऽतीत स्याप्य-त्यागात् । विशेष्यमात्रे तत्तत्सम्बन्धस्य सद्भावादित्यर्थः । अन्यथेत्यस्यैव विवरणं तत्तादेरतात्पर्य-विषयत्व इति ।। अतीततत्तारूपस्वार्थे तात्पर्याभावे सोऽयमिति वाक्यप्रयोगकाले त्यागे सतीत्यर्थः । न सिद्ध्येत् ततश्च कालद्वयासम्बन्धिदेवदत्तस्वरूपस्य क्षणिकत्वापात इत्यर्थः । एवं तदेतद्देशकालसम्बन्धरूपतत्तेदन्तयोरेकविशेष्यमात्रवृत्तित्वेऽखण्डार्थत्वं नास्तीत्युपसंहरति– तस्मादिति ।। विशेष्यस्य विशेष्यस्वरूपमात्रस्य ।। क्रमिकेति ।। बाल्ययौवनवत् क्रमिकतदेतद्देशकालसम्बन्धद्वय-सद्भावेऽपि तात्पर्यसद्भावात्सखण्डार्थत्वमेवेत्यर्थः ।

समाधानान्तरमुत्प्रेक्षयति– किञ्चेति ।। त्वदुपन्यस्त इति ।। ‘ननु सोऽयमित्यत्र’ इत्यादिना त्वदुपन्यस्त इत्यर्थः । ननु कथं न दोषः । तद्देशकालविशिष्टे एतद्देशकालवैशिष्ट्यबोधने तद्देशकालयो-र्विधेयान्वयित्वरूपविशेषणत्वे वक्तव्ये तद्देशकालयोरिदानीं सत्वापात इत्याशङ्क्य तयोरिदानीमभावेऽपि विशेषणत्वमुपपद्यत इत्याशयेन स्वमते विशेषणत्वं निर्वक्ति– तत्तादेरिति ।। ननु यथा ‘दण्डी देवदत्तः’ इत्यत्र दण्डान्विततया ज्ञात एव दण्डिनि तात्पर्यविषयीभूतस्य देवदत्तत्वस्यादण्डिव्यावृत्तेर्वा बोधो भवतीति दण्डो विशेषणम् । एवं काकान्विततया ज्ञाते गेहे देवदत्तीयत्वान्वयधीर्भवतीति उपलक्षणस्यापि काकस्य विशेषणत्वापत्तिरत उक्तम् यदन्विततया ज्ञात एवेति ।। तत्र काकान्विततया ज्ञात एव नेतरान्वयधीः किन्तु काकस्य गतत्वेन तदुपस्थाप्योत्तृणत्वादिविशिष्ट इति नातिव्याप्तिरिति भावः । एवं च प्रकृते तद्देशकालयोरतीतत्वेऽपि तदन्विततया ज्ञात एव एतद्देशकालान्वयधीर्भवतीति युक्तं तयोरिदानीमभावेऽपि विशेषणत्वमिति ध्येयम् ।

विधेयेति ।। तथा च न तद्देशकालयोर्विशेषणत्वमिति भावः ।। अव्याप्तेरिति ।। शब्दत्वे शब्दविधेय भूतानित्यत्वान्वयाभावादिति भावः ।। विधेयेति ।। तथा च शब्दत्वे नाव्याप्तिः । विधेयान्वयकाले सत्वात् । प्रकृते तु विधेयैतद्देशकालान्वयकाले तद्देशकालयोरभावान्न विशेषणत्वमिति भावः ।। दण्डीति ।। विधेययोः प्रागभावध्वंसयोः काले दण्डसम्बन्धस्यासत्वादिति भावः ।। गृहेति ।। विधेयस्य देवदत्तीयगृहत्वस्य काले विद्यमाने काकादावित्यर्थः  ।। विधेयेति ।। अवच्छेदकत्वं नाम अन्यूनानधिकदेशकालवृत्तित्वम् । दण्डी देवदत्त इत्यत्र विधेयो यो दण्डिनि देवदत्तत्वान्वयः तत्प्रति-योगिता दण्डिनि तिष्ठति तदवच्छेदको दण्ड इति भवति दण्डो विशेषणम् । तथा स्वप्रत्याय्या या व्यावृत्तिः अदण्डिव्यावृत्तिस्तदधिकरणता दण्डिन्यस्ति तदवच्छेदकत्वं दण्डस्यास्ति तथा गृहनिष्ठेऽपि काके विधेयं यद्देवदत्तीयगृहत्वं तदन्वयप्रतियोगित्वं देवदत्तगृहेऽस्ति तदवच्छेदकत्वं तथा स्वप्रत्याय्या या व्यावृत्तिरदेवदत्तगृह व्यावृत्तिस्तदधिकरणतावच्छेदकत्वं चास्तीति विशेषणत्वमेवाभिप्रेतम् ।

एवं च तद्देशकालयोस्तु देवदत्ते विधेयभूतैतद्देशकालान्वयप्रतियोगिता, स्वप्रत्याय्यव्यावृत्त्यधिकरणता चास्ति तदवच्छेदकत्वं नास्ति प्रतियोगित्वव्यावृत्त्योरिदानीमपि सत्वेन तद्देशकालयोश्चेदानीमभावेन तन्न्यूनकालवृत्तित्वादिति ध्येयम् । तद्देशकालयोरप्यवच्छेदकत्वमस्तीत्याशयेनाह– अवच्छेदकत्व-स्येति ।। कालत्वमिति बहुव्रीहिः ।। लक्ष्यतेति ।। सास्नादिमत्पिण्डनिष्ठलक्ष्यतावच्छेदकेष्वित्यर्थः । विशेषणेषु गोत्वादिषु । विधेयभूतगोत्वान्वयप्रतियोगिता यत्रास्ति सास्नादिमत्पिण्डे तदन्यूनानधिक-देशकालवृत्तित्वाद्गोत्वस्य । तथा स्वप्रत्याय्या याऽगोव्यावृत्तिस्तदधिकरणताऽन्यूनानधिकदेशकाल-वृत्तित्वाच्चेत्यर्थः ।। गौः शुक्लेति ।। अत्र शुक्लत्वलक्षणस्य गोत्वं न लक्ष्यतावच्छेदकं शुक्लत्वस्य बकादावतिव्याप्तत्वात् । अतोऽत्र गोत्वं न लक्ष्यतावच्छेदकरूपमित्यर्थः । अव्याप्तिमेवोपपादयति– न हीति ।। विधेयभूतशुक्लान्वयप्रतियोगिताऽशुक्लव्यावृत्तिर्वा यत्र देशे कृष्णायां गवि नास्ति तत्रापि गोत्वस्य विद्यमानत्वेनाधिकदेशवृत्तितयाऽन्यूनानधिकदेशवृत्तित्वरूपावच्छेदकत्वाभावात् ।। इहापीति ।। तद्देशकालान्विततया ज्ञात एवैतद्देशकालान्वयधीर्भवत्येवेत्येतादृशावच्छेदकत्वगर्भं विधेयान्वयप्रतियोगिता-वच्छेदकत्वादिरूपमपि विशेषणत्वमस्तीत्याशयः ।

नन्वेतादृशावच्छेदकत्वमपि प्रकृते नास्ति । तथा हि– यथा काकान्विततया ज्ञात एव गृहे न देवदत्तीयत्वादिधीः किन्तु काकोपस्थापितसंस्थानविशेषवत्तया ज्ञात एव, अतो न काकोऽवच्छेदकः, एवं प्रकृतेऽपि तद्देशकालसम्बन्धरूप तत्तोपस्थापित एव देवदत्ते नैतद्देशकालान्वयधीः । किं नाम तत्तोपस्थापितधर्मान्तरवत्तया ज्ञात एव । अतो न तत्ताया अवच्छेदकत्वमित्यत आह– न हीति ।। स्वप्रत्याय्येति द्वितीयलक्षणाभिप्रायेण ओवदत्तगृहव्यावृत्तिधीवच्च इत्युक्तम् एवमुतरत्रापि ।। किन्त्विति ।। प्रकृते तादृशधर्मान्तराभावादिति भावः । ‘संस्थानविशेषः’ आकारविशेषः ।। तत्रेति ।। तत्ताविशिष्टे इदन्तासम्बन्धस्य प्रत्यक्षसिद्धत्वाभावेनोपदेश्यत्वेऽपि तत्तोपस्थापितदेवदत्तसंस्थानविशेषवति इदन्त्वादिसम्बन्धस्य प्रत्यक्षत्वेनानुपदेश्यत्वादित्यर्थः ।। तस्मादिति ।। विधेयान्वयित्वस्य विधेया-न्वयकाले सत्वस्य च विशेषणत्वाप्रयोजकत्वादित्यर्थः । वर्तमानं गृहनिष्ठं काकादिकम् ।। सदिति ।। वर्तमानम् अवर्तमानं वा भवतु यदि समानाधिकरणम् । यदन्विततया ज्ञात एवेत्याद्युक्तलक्षणवच्चेति यावत् । तर्हि तद्विशेषणमेवेति तदर्थः ।। पक्षत्रयेऽपीति ।। तत्तान्विततया ज्ञात एवेदन्तान्वयो बोध्यते । इदन्तान्विततया ज्ञात एव तत्तान्वयो बोध्यते । उभयान्विततया ज्ञात एवाभेदान्वयधीरिति तद्देशकालयोरिदानीं सत्वापत्तिरित्यादिदोषो नेत्यर्थः ।

आद्य इति ।। तत्ताविशिष्टे इदन्तावैशिष्ट्यबोधनपक्षे इदन्तावैशिष्ट्यस्य प्रत्यक्षसिद्धत्वेनानुपदेश्य-त्वात्सोऽयमिति वाक्यं व्यर्थमित्यर्थः । तत्ताविशिष्टे तत्तान्विततया ज्ञाते ।। साक्षादिति ।। तत्तेदन्ता-विशिष्टयोरभेदबोधनरूपतृतीयपक्षे यथा साक्षादभेदो लभ्यते । नैवमाद्यद्वितीयपक्षयोः । तत्ताविशिष्टे इदन्तावैशिष्ट्यस्य इदन्ताविशिष्टे तत्तावैशिष्ट्यस्य बोधने त्वभेदोऽर्थादेव लभ्यते न साक्षादित्यर्थः । किमभेदस्य साक्षाद्बोधनेन । यदि परस्य भेदभ्रमनिरासायेदं वाक्यं स्यात् तर्ह्येव स साक्षाद्बोध्यः स्यात् । न चैवम् । किंनाम, पुरोवृत्तिनि एतद्देशकालविशिष्टस्तद्देशकालविशिष्टो न वेत्यभिप्रायेण कोऽयमिति पृष्टे सोऽयमिति वचनेन तत्ताद्यवैशिष्ट्यभ्रमो निवर्तत एवेति भावेनाह– पुरोवर्तिनीति ।। अयं स वा न वेति ।। ‘अयम्’ एतद्देशकालविशिष्टः । ‘स वा न वा’ तद्देशकालविशिष्टो न वेत्यर्थः । सोऽयमित्यत्र अयं स इत्युद्देश्यविधेयभावः । यदा तु सः अयं न वेत्यभिप्रायेण प्रश्नस्तदापी-दन्ताद्यवैशिष्ट्यभ्रमनिरासाय सोऽयमिति यथास्थित एव उद्देश्यविधेयभाव इति द्रष्टव्यम् ।

अस्तु वा साक्षाद्भेदभ्रमनिरासायैवेदं वाक्यं तर्हि प्रथमद्वितीयपक्षयोरभेदकधर्मस्यैवोक्त्या साक्षाद-भेदानुक्तेः कथं तद्भ्रमनिवृत्तिरित्यत आह– भेदभ्रम इति ।। अभेदकेति ।। तद्देशकालविशिष्टस्यै-तद्देशकालवैशिष्ट्यरूपाभेदव्याप्यधर्मेत्यर्थः । किञ्च ‘अभेदस्य बुभुत्सितत्वस्य साक्षादलाभः’ इति वदताऽभेदस्य बुभुत्सितत्वं यद्यङ्गीक्रियते तर्ह्युत्तरत्र सोऽयम् इत्यत्राभेदविशिष्टतयैव बोधनं कार्यम् । अन्यथा तद्बुभुत्साऽनिवृत्तेः । एवं चाभेदरूपसंसर्गपरत्वात्सखण्डार्थत्वमेवेत्याह– अभेदस्येति ।। तृतीय इति ।। विशिष्टद्वयमनूद्याभेदमात्रबोधनपक्षे  ।। विशेषणेति ।। तद्देशकालरूपविशेषणेत्यर्थः । अस्य तर्कस्य व्यभिचारमाशङ्क्य निराकरोति– न चेति ।। आपादकस्यैवाभावान्न व्यभिचार इत्याह– तत्रापीति  ।। तथा च तत्र वै(वि)शिष्टैक्यमेव नास्तीत्यर्थः ।। दृष्टान्ताभावादि(ने)ति ।। यदि विशिष्टैक्यं स्यात्तर्हि विशेषणैक्यं स्यादित्यापादनायोगः ।

धूमवदग्निमतोर्विशेष्यैक्यमात्रेण विशिष्टैक्याभावेन विशिष्टैक्योपेतस्थलस्यैवाभावादित्या शङ्क्य निराकरोति– न चेति ।। दृष्टान्तोऽस्तीत्याह– अग्निमत इति ।। विशिष्टैक्ये विशेषणैक्यं स्यादित्येवापाद्यते न तु विशिष्टद्वयैक्ये विशेषणद्वयैक्यं स्यादिति । तत्रायं दृष्टान्तः । अग्निमतोऽग्निमतैक्यं तावदस्ति । स्वस्य स्वेनैक्यसद्भावात् विशेषणस्याप्येकत्वेन विशेषणैक्यमप्यस्त्येव । प्रकृते तु विशिष्टद्वयमस्तीति तस्यैक्ये विशेषणद्वयस्याप्यैक्यापत्तिरिति भावः । किञ्च न विशिष्टैक्यबोधनं युक्तम् । विशिष्टं हि विशेषणादिसमुदायात्मकम् । समुदायश्च समुदाय्यनतिरिक्तः । एवं च समुदायि रूपविशेषणयोस्तत्तेदन्तयोर्भिन्नत्वेन तदवच्छिन्नसमुदायरूपविशिष्टस्यापि भेद एव । अतस्तदैक्यापादनं व्याहतमित्याह– समुदायीति ।। विवक्षितत्वादिति ।। यथा गामानयेत्यत्र गोत्वस्यानयनानन्वयेऽपि गोत्वं तद्व्यक्तौ न परि त्यज्यते तदप्युद्देश्यतावच्छेदकत्वेन विवक्षितमेव । एवं विशिष्टस्य विशेष्याद्यनतिरिक्तत्वेन विशेष्यरूपविशिष्टैक्येऽपि न तद्विशेषणयोरैक्या न्वयः गोत्वस्यानयनेनेव । परन्तु तत्तेदन्तारूपविशेषणे न त्यज्येते । उद्देश्यतावच्छेदकत्वेन विव क्षितत्वादित्यर्थः । तर्हि विशिष्टाभेदो न प्राप्त इति चेत्तत्राह– तस्यैवेति ।। उद्देश्यतावच्छेदकीभूततत्तादियुक्तविशेष्याभेद एव विशिष्टाभेदशब्दार्थः । न चैतावतोद्देश्यतावच्छेदकस्याप्यैक्यान्वयः । तथा च विशेषणैक्यापादनं न युक्तमिति भावः ।

पदार्थान्तरं विशेषणाद्यतिरिक्तम् ।। सामानाधिकरण्येति ।। धूमवत्त्वाग्निमत्त्वरूपभिन्न-प्रवृत्ति-निमित्तकयोर्धूमवद ग्निमच्छब्दयोरेकस्मिन्विशेष्ये वृत्तिरूपसामानाधिकरण्येत्यर्थः । तथा चावयोर्मते व्यभिचारापादनमयुक्तमिति भावः ।

विशेषणभेदस्य विशिष्टैक्यविरोधित्वे इदं रूप्यमित्यत्रापि इदन्त्वरूप्यत्वविशेषणभेदसद्भावेन इदन्त्वरूप्यत्वाधारयो रभेदाप्रतीत्याऽभेदग्रहरूपकारणाभावेन रूप्यार्थिनः पुरोवर्तिनि प्रवृत्तिरेव न स्यादित्याह– अन्यथेति ।। कुत इत्यत आह– तत्तेति ।। तथा च तत्तोपलक्षितत्वेदन्तोप-लक्षितत्वरूपविशेषणभेदात्तद्विशिष्टयोरैक्यायोगेन तत्तेदन्तोपलक्षितयो रभेदो बोध्यत इति त्वन्मतमयुक्तं स्यादित्यर्थः । एवं सति पक्षत्रयेऽपि न दोष इति भावः ।

एवं प्रकारद्वयेन समाधानमुक्त्वा रामानुजीयरीत्यापि समाधानमाह– अस्तु वेत्यादिना ।। एता-वतेति ।। तत्कालसम्बन्धादेरुपलक्षणमात्रत्वेन विशेष्येऽबोधनादिति भावः । उपलक्षणस्यैव प्रकारत्वेन तद्बोधकतया वाक्यस्य निष्प्रकारकत्वरूपाखण्डार्थत्वाभाव इत्याह– उपलक्षणस्येति ।। ‘प्रकारान्तरं’ संस्थानविशेषरूपम् ।। अन्यस्येति ।। इदन्ताविशिष्टस्योपलक्षणीभूततत्कालसम्बन्धादिबोधनेनेदन्त्वस्यैव प्रकारस्य सत्वादित्यर्थः । ननु तत्तादेरुपलक्षणत्वे तद्वाचिनस्तत्तादिपदस्य लाक्षणिकत्वं स्यात् । तयोरैक्यात् । तथा च जघन्यवृत्त्या वाक्यार्थवर्णनम् अयुक्तमित्यत आह– वृत्तीति ।। पदवृत्ति-विशेषेत्यर्थः । तथा च लक्षणायाः पदधर्मत्वादुपलक्षणत्वस्य चार्थगतत्वान्न तयोरैक्यमिति भावः । अर्थस्योपलक्षणत्वेऽपि शब्दस्य मुख्यत्वदर्शनाच्च न तयोरैक्यमित्याह– दृश्यते हीति ।। अभावः प्रागभावादिः । भिन्नविभक्त्यन्तपदवाच्यत्वाज्जटानामुपलक्षणत्वमिति ध्येयम् । अलाक्षणिकत्वम्  स्वार्थवाचकत्वमेवास्तीत्यर्थः । शब्दस्य लाक्षणिकत्वेऽप्यर्थस्य विशेषणत्वदर्शनाच्च न तयोरैक्यमित्याह– दृश्यते चेति ।। अनुपलक्षणत्वमिति ।। दण्डे विशेषणताया एव सर्वैरङ्गीकारादिति भावः ।

उपलक्षणत्वलक्षणयोरैक्यमङ्गीकृत्य उपलक्षणपरपदे लक्षणामङ्गीकृत्याप्याह– वरं चेति ।। त्वया तत्तेदन्ताशब्दयोरुभयोरपि लाक्षणिकत्वम् अङ्गीकृतम् । अतस्तल्लज्जाकरम् । मया तु इदन्ताविशिष्टस्य तत्तोपलक्षिताभेदाङ्गीकरेण एकस्य पदस्य मुख्यत्वमङ्गीकृत्यापरस्यैकस्यैव पदस्य लाक्षणिकत्वाङ्गी-कारादिदमेव वरमित्यर्थः । किञ्चोपलक्षणस्य काकादेः कदाचित्स्वसम्बद्धगृहं प्रत्युपलक्षकत्वं दृष्टम् । इदन्ताविशिष्टे तत्ता उपलक्षणं चेत् कदाचिद्वा इदन्ताविशिष्टे तत्तासम्बन्धेन भाव्यम् । तत्ताविशिष्टे इदन्ता उपलक्षणं चेत्तत्ताविशिष्टे कदाचिद्वा इदन्तासम्बन्धेन भाव्यं, न च तदस्तीत्यतो न तयोर्मध्य एकस्योपलक्षणत्वपक्षो युक्त इत्याशङ्क्य निराकरोति– न चेति ।। ते प्रतीति ।। इदन्ताविशिष्टस्वरूपं तत्ताविशिष्टस्वरूपं च प्रतीत्यर्थः । तयोः इदन्ताविशिष्टतत्ताविशिष्टस्वरूपयोः । ताभ्यां तत्तेदन्ताभ्याम् ।। विशेष्यद्वारेति ।। विशिष्टयोर्भेदेऽपि इदन्ताविशिष्टे यद्विशेष्यं देवदत्तस्वरूपं तत्र तत्तासम्बन्धात् स्वविशेष्यसम्बद्धत्वरूपम् इदन्ताविशिष्टस्य तत्तया सह सम्बन्धोऽस्त्येव । एवं तत्ताविशिष्टस्याप्युक्त-रीत्या विशेष्यद्वारकपरम्परासम्बन्धोऽस्त्येवेत्यर्थः ।

नन्वेवं तत्ताविशिष्टेदन्ताविशिष्टयोस्तत्तेदन्ताभ्यामुक्तरीत्या परम्परासम्बन्धेऽपि साक्षात् सम्बन्ध-स्यैवोपलक्षणत्वे तन्त्रत्वेन तस्यात्राभावात्कथमुपलक्षणत्वमित्यत आह– परम्परेति ।। उपलक्ष्य-सम्बन्धित्वमेवोपलक्षणस्यापेक्षितं न तु साक्षात् । गौरवादित्यर्थः । अस्तु वेत्यादिना विशिष्टमुद्दिश्योप-लक्षणसम्बन्धादिर्विधीयतामित्युक्तम् । इदानीं तूप लक्षितमुद्दिश्य विशेषसम्बन्धो विधीयताम् । अतोऽपि न दोष इत्याह– यद्वेति ।। एतत्पक्षोपरि शङ्कते– नन्विति ।। विशेष्य इति ।। इदन्तोपलक्षित-तत्तारूपविशेषणान्तरन्वयात् तत्तोपलक्षिते वा इदन्तारूपविशेषणान्तरान्वयादित्यर्थः ।। अभेदपक्षौ त्विति ।। इदन्तोपलक्षितस्य तत्ताविशिष्टाभेदः, तत्तोपलक्षितस्य इदन्ताविशिष्टाभेदः इत्यभेदपक्ष-वित्यर्थः । कुतो न युक्तावित्यत आह– अनुवृत्तेति ।। अनुगतेत्यर्थः । इदन्तोपलक्षितस्यानुगतस्य विशेष्यमात्रस्य तत्ता विशिष्टेन व्यावृत्तेनाभेदो न सम्भवति । एवं तत्तोपलक्षितस्य विशेष्यस्यानुगतस्य व्यावृत्तेनेदन्ताविशिष्टेनाभेदो न सम्भवतीत्यर्थः । अनुवृत्तव्यावृत्तयोरभेदायोगादित्ययुक्तम् । व्यावृत्ताग्नि-मत्वसत्वासत्वदशायां व्यावृत्तव्यक्तिसदसद्भावदशायां व्यावृत्तघटसदसद्भावदशायामप्यनुगतानां पर्वत-जातिमृदां तैरभेददर्शनाद्व्यभिचार इत्यत आह– अनुवृत्तेति ।।

ननु अग्निमद्व्यक्तिघटैः पर्वतादीनां नाभेदः । मयाऽयुतसिद्धमङ्गीकृत्य समवायाङ्गीकारेणाभेदाभावात् ‘अग्निमान्’ इत्यत्राग्निसंयोगवानित्यर्थः । एवं च जातिव्यक्त्योरिव मृद्धटयोरिव च पर्वताग्निसंयोगयोरपि समवाय एव सम्बन्धः । एवं च न व्यभिचार इत्यत उक्तं समवायेति ।। यत्र त्वया समवायोऽङ्गी-क्रियते तत्र मया भेदाभेदाङ्गीकारादित्यर्थः ।। अन्यथेति ।। विशेष्यस्य विशिष्टेनाभेदानङ्गीकारे पर्वतोऽग्निमानित्यत्र पर्वतेऽग्निसंसर्गः सिद्ध्यतीति सर्वसम्मतम् । तन्न स्यात् । विशेष्यस्य पर्वतस्य विशिष्टादग्निमतः सकाशाद्भेदाङ्गीकारे लैङ्गिकी धीः अनुमितिः निर्विकल्पिका पर्वतस्याग्निसंसर्गा-विषयिणी स्यादित्यर्थः । अत्र प्रसिद्धं संसर्गाविषयकत्वप्रयुक्तं निष्प्रकारकत्वरूपनिर्विकल्पकत्वं नापाद्यम् । किं नाम संसर्गाविषयकत्वमात्रमेव । अन्यथा पर्वतोऽग्निमानित्यत्र पर्वतत्वाधारः पर्वतोऽग्नि-मानिति हि प्रतीयते । तथा चात्र संसर्गाविषयकत्वेऽपि पर्वतत्वरूपप्रकारस्यैव प्रतीत्योक्तनिर्विकल्प-कत्वापादनायोगादिति मन्तव्यम् ।

नन्विदन्तोपलक्षिततत्ताविशिष्टयोर्भिन्नत्वात्तयोरभेदबोधनं न युक्तमित्यत आह– केवलेति ।। भेदवति अभेदबोधनाद्बिभ्यता तत्ताद्युपलक्षिते विशेष्ये देवदत्ते अभेदो बोध्यत इति कथमङ्गीकर्तुं शक्यम् । देवदत्तपिण्डेऽपि भेदसद्भावादित्यर्थः । तदुपपादनयोक्तं परिणामिनीति ।। प्रतिक्षणं विकारवतीत्यर्थः । तत्र भेदसद्भावेऽप्यभेदबोधनं युक्तम् । मया भेदाभेदाङ्गीकारेण केवलभेदानङ्गी-कारादिति यदि ब्रूयात् तर्हि प्रकृतेऽपीदं समानम् । इदन्तोपलक्षिततत्ता विशिष्टयोरपि भेदाभेदाङ्गीकारेण केवलभेदानङ्गीकारादिति भावः । पूर्वम् एकस्य विशेषणत्वम् अपरस्योपलक्षणत्वम् इत्यभिप्रेत्योपपादनं कृतम् । इदानीं तूभयोरप्युपलक्षणत्वमभिप्रेतमित्याह– यद्वेति ।। ननु तत्तेदन्तयोरुभयोरप्युपलक्षण त्वाङ्गीकारे विशेष्यमात्राभेदबोधनप्राप्त्याऽखण्डार्थत्वापत्तिरित्यत आह– न चेति ।। इत्युक्तमिति ।। तत्तोपलक्षितत्वादेरेव प्रकारत्वादिति भावः । स्वोत्प्रेक्षितमर्थं मूलारूढं करोति– तदेतदिति ।। उक्तमिति ।। तत्वोद्योते भगवत्पादैरित्यर्थः  ।। अनित्येति ।। ‘अनित्याभ्याम्’ इदानीम् अविद्य-मानाभ्यां देशकालाभ्यां स्वकाले यः सम्बन्धः तद्देशकालोपलक्षितत्वादि रूपः, तस्य देवदत्ते सत्वात् ‘सोऽयं देवदत्तः’ इत्यादिवाक्यं तत्वमस्यादिवाक्यस्याखण्डार्थतायाम् उपमा दृष्टान्तो न भवति’ इत्यर्थो द्रष्टव्यः ।

एवं चेति ।। तथा च तद्देशकालध्वंसविशिष्टे एतद्देशकालवैशिष्ट्यं बोध्यते तद्देशकालध्वंसरूप-तत्ताया इदानीं सत्वेन विधेयान्वयित्वरूपविशेषणत्वस्यैव सत्वेनोक्तदोषाभावात् । तथा एतद्देशकाल-विशिष्टस्तद्देशकालध्वंसविशिष्टः तद्देशकालध्वंसविशिष्ट एतद्देशकालविशिष्टश्चाभिन्न इत्येवं पक्षत्रयाङ्गी-कारोऽपि न दोष इत्यर्थः ।। वस्तुस्थितीति ।। वस्तुगत्या तद्देशकालध्वंस एव तत्तेति स्वमते वस्तुस्थितिप्रदर्शनार्थमेवोक्तं न तु ‘सोऽयम्’ इति वाक्यस्य सखण्डार्थत्वायेत्यर्थः ।। सामानाधि-करण्यमात्रमिति ।। दैशिकं सामानाधिकरण्यमित्यर्थः ।। समानकालिकत्वमिति ।। इदन्ताया-स्तद्देशकालध्वंसस्य च कालिकमपि सामानाधिकरण्यमिति प्रदर्शनार्थं चेत्यर्थः । तर्हि सोऽयमिति वाक्यस्य कथं सखण्डार्थत्वमुपपादनीयमित्यत आह– उक्तरीत्येति ।। अस्मदुक्तपक्षत्रयेणेत्यर्थः ।। तद्देशेति ।। मधुरासम्बन्धः काशीसम्बन्धः अष्टमीसम्बन्धः पौर्णमासीसम्बन्धः इत्यादिपरोदाहृतवाक्यम् । एतेन तद्देशकालसम्बन्धः एतद्देशकालसम्बन्ध इत्यत्रापि तत्तेदन्तयोः प्रवेशात्कथं टीकोक्तप्रकारा-प्रसरोक्तिरिति शङ्कानवकाशः । अत्रत्ययोस्तदेतत्पदयोर्देशकालविशेषार्थत्वादिति ध्येयम् ।

अयमर्थः– परेण तत्वमस्यादिवाक्यस्याखण्डार्थत्वे सोऽयमित्येवं तत्तेदन्ते विहाय मधुरासम्बन्धः इत्याद्युदाहृतम् । तत्र मधुरादेशसम्बन्धे काशीसम्बन्धबोधने मधुराया अपि काशीसम्बन्धापत्तिः । एवं वैपरीत्येनापि द्रष्टव्यम् । एवम् अष्टमीकालसम्बन्धस्य पौर्णमासीकालसम्बन्धबोधने अष्टमीकालस्यापि पौर्णमासीकालसम्बन्धापत्तिः । अतो लक्षणया विशेष्यैक्यमात्रपरत्वमेवेति परेणोदाहृतमस्ति । तत्रास्मदुक्तप्रकारः सम्भवति । मधुराष्टमीरूपदेशकालोपलक्षिते काशीपौर्णमासीरूपदेशकालसम्बन्धेन उपलक्षणादिरूपप्रकारयुक्तत्वेन सखण्डार्थत्वमुपपद्यते । अत्र च तत्तादेरनुप्रवेशाभावेन तद्देशकालध्वंस-मादायोपपादनाप्रसारादिति ध्येयम् । अस्त्वेवं तत्वोद्योतटीका वस्तुस्थितिकथनपरेति । तत्र तत्ता नाम किं भवदुक्तरीत्या अनुभवकालसम्बन्ध उत अनुभवकालध्वंस इति चिन्तायां टीकोक्तमेव तत्ता-स्वरूपं साध्वित्याह– युक्तं चेति ।। अन्यथेति ।। अनुभवकालसम्बन्धस्यैव तत्तात्व इत्यर्थः ।। पूर्वकालेति ।। पूर्वकालस्य वस्तु विषयेऽनुभवेऽपीत्यर्थः ।। स्यादिति ।। अनुभवकालसम्बन्ध-रूपतत्तायाः सत्वादित्यर्थः ।

ननु स्मृतेः संस्कारजन्यत्वात्तत्तोल्लेखित्वम् । अनुभवस्य तदजन्यत्वात्तत्तानुल्लेखित्वमिति कारण-कृतवैषम्यस्यापि सत्वादित्यत आह– स्मृत्यनुभवयोरिति ।। सतः विद्यमानस्य ।। विषयकृतेति ।। अर्थविषयीकरणकृत वैषम्याभावादित्यर्थः । यद्यपि स्मृत्यनुभवयोः कारणकृतवैषम्यमस्ति तथाप्यनुभवकाले विद्यमानकालस्य स्मृतिकाले वस्तुगत्याऽतीतत्वेऽपि तत्रातीतत्वं स्मृतौ त्वन्मते न भासते । अतीतत्वस्य तत्ताशब्दार्थत्वाभावात् प्रत्युत सन् घट इति स्मृतौ त्वन्मतेऽनुभवकालसम्बन्ध एव प्रतीयते । स चानुभवेऽप्यस्तीति स्मृत्यनुभवयोरर्थविषयीकारित्वांशे वैषम्याभावेन स्मृताविवानुभवेऽपि तत्तोल्लेखः स्यादेवेति भावः । नन्वनुभवकालध्वंसस्तत्तेति मते यद्यपि न स्मृताविवानुभवेऽपि तत्तोल्लेखस्तथापि स्मृतौ तत्ताभानं न सम्भवति । अननुभूतत्वात् । तन्मते चानुभवकालसम्बन्धस्यैव तत्तात्वात्तस्य च वस्तुगत्याऽतीतत्वस्याभानाद् अनुभवविषयीकृतपूर्वकालसम्बन्धरूपतत्ताविषयकत्वं स्मृतेर्युक्तमित्यत आह– तत्तामात्रे चेति ।। अतिप्रसङ्ग इति ।। घटस्मृतौ न तावत्तत्तैव विषयः, अपि तु पटोऽपि विषयः स्यात् । अननुभूतत्वाविशेषाद् इत्यतिप्रसङ्ग इत्यर्थः ।

अनुभवेति ।। अननुभूतोऽप्यनुभवकालध्वंस एव प्रतीयते नान्यः । कुतः । अनुभवकाल-ध्वंसत्वादेव । न च घटकालेऽपि प्रतीयतामिति वाच्यम् । स्मृतिविषयकानुभवरूपाऽनुव्यवसायेन स्मृतावनुभूतकालध्वंसस्याननुभूतस्यापि विषयीकरणेनाननुभूतैतावन्मात्रविषयकत्वस्येष्टत्वादिति भावः ।। पूर्वकालेति ।। अनुभवकालेत्यर्थः । कुतो वक्तव्यमित्यत आह– तत्रेति ।। उल्लेखादिति ।। तथा चैतन्मते भूतत्वविषयकत्वमिव अनुभवकालध्वंसस्तत्तेति मतेऽपि स्मृतेरननुभूतविषयकत्वमिष्ट-मेवेत्यर्थः ।। पूर्वकालेति ।। पूर्वघटिकाध्वंसविशिष्टो देवदत्तो मध्ये या द्वितीयघटिका तस्यामस्ति । तृतीयघटिकाख्यैतत्कालसम्बन्धरूपेदन्ताविशिष्टस्तु मध्ये नास्तीति कथं तयोरभेद इत्यर्थः । तयोः तत्तेदन्ताविशिष्टयोः । तत्प्रागभावः एतत्कालसम्बन्धप्रागभावः । इदानीं सत्वेऽपि तृतीयघटिकायां सत्वेऽपीत्यर्थः  ।। एतत्कालेति ।। तृतीयघटिकाप्रागभावविशिष्टस्य तृतीयघटिकायाम् अभावादित्यर्थः । 

अनुवृत्तेति ।। पूर्वकालध्वंसविशिष्टस्यानुवृत्तत्वेऽपि इदन्ताविशिष्टस्य व्यावृत्तस्य मध्येऽभावेऽपि व्यावृत्तानु वृत्तयोरैक्यं मृद्धट इत्यादावस्त्येव । अथवा पूर्वकालध्वंसविशिष्टेदन्ताविशिष्टयोर्नैक्यं, किंनाम विशेष्यमात्रैक्यमेव । तच्च मध्येऽप्यस्ति । न च विशेषणयोः त्यागाद् अखण्डार्थत्वमिति वाच्यम् । विशेष्यमात्रैक्येऽपि उद्देश्यतावच्छेदकत्वेन तत्तादेर्विशेषणत्वस्य समर्थितत्वादित्यर्थः । ‘न चायमिति प्रागभावः’ इति टीकाकारैरुक्तत्वेन पूर्वकालध्वंसविशिष्टस्येदानीं सत्वेऽप्येतत्कालप्रागभावविशिष्टस्येदानीम् अभावात्कथमिति वाच्यम् । यथा हि– प्रध्वंसो हि तथोच्यत इति तत्ताया अनुभवकालध्वंसरूपत्वम् अङ्गीकृत्य उक्तपक्षत्रयेऽपि दोषाभावोपपादनम् एवम् अयमिति प्रागभाव इत्येवमिदन्त्वस्यापि एतत्कालसम्बन्धप्रागभावरूपत्वम् अङ्गीकृत्यापि पक्षत्रये दोषाभावादित्याशयात् । इदन्ताया एतद्देशकालप्रागभावरूपत्व विवक्षायां तत्ताया ध्वंसरूपत्वं न विवक्षितं किंनाम अनुभवकाल-सम्बन्धरूपत्वमेव । एवं तत्ताया ध्वंसरूपत्वविवक्षायाम् इदन्त्वम् एतत्कालप्रागभावरूपत्वेन न विवक्षितम् । तथा च तत्ताया ध्वंसरूपत्वम् अङ्गीकृत्य पूर्वकालध्वंसविशिष्टस्य इदानीं सत्वाभिप्राये इदन्त्वं नामैतत्कालसम्बन्धरूपत्वेन विवक्षितमिति न दोष इति ध्येयम् ।

न्यायकल्पलता

(एतावत्पर्यन्तं कल्पलता लुप्ता) तद्देशकालसम्बन्धस्य तत्तात्वे बाधकमाह– अन्यथेति ।। तद्देशकालसम्बन्धस्य तत्तात्वे ।। स्मृत्यनुभवयोरिति ।। तयोः कारणकृतस्य वैषम्यस्य सत्त्वेऽपि तद्विषये च सत्त्वासत्त्वरूपवैषम्यसत्त्वेऽपि स्मृत्यनुभवगतेऽर्थविषयीकारित्वांशे वैषम्याभावादित्यर्थः । न च संस्कारजन्यत्वेन तत्तोल्लेख इति वाच्यम् । लिङ्गकरणतापक्षे संस्कारलिङ्गकानुमितौ तत्तोल्लेखापातात् । तत्तास्मृतिरेव प्रत्यभिज्ञायां हेतुर्न संस्कार इति मते तदभावाच्च ।। तत्तामात्रे चेति ।। अनुभवकालसम्बन्धध्वंसस्याननुभूतस्यापि भानादित्यर्थः । ‘अतीतानागतौ कालौ’ इत्यनु-व्याख्यानोक्तेः ।

Load More