‘यस्मात्परं नापरमस्ति’ इति श्रुतेरपि ..

४४. यस्मात् परं नेति श्रुत्यर्थविवरणम्

न्यायामृतम्

यस्मात्परं नापरमस्ति’ इति श्रुतेरपि यस्मात्परं न अपरं त्वस्ति तच्च किञ्चिदल्पमित्यर्थः । ‘पुरुषान्न परं किञ्चित्’, ‘पादोऽस्य विश्वा भूतानि’ इत्यादिश्रुतेः, ‘वासुदेवात्परं नास्ति’ इत्यादिस्मृतेश्च नञोऽनुषङ्गस्याकल्प्यत्वाच्च । ‘तेनेदं पूर्णं पुरुषेण सर्वं ततो तदुत्तरतरम्’ इति वाक्यशेषाच्च । विश्वस्यैवाभावे हि किं तेन पूर्णं कस्माच्च तदुत्तरतरं स्यात् । यस्मान्नाणीयो न ज्यायेऽस्ति’ इत्यत्र ‘अणोरणीयान् महतो महीयान्’ इत्यादिश्रुत्यन्तराद्वाक्यशेषाविरोधादुभयत्रापि नञः श्रवणाच्चोभयनिषेधः ।

न्यायामृततरङ्गिणी

ननु यस्मात्परं नास्ति अपरं च नास्तीत्यर्थकरणादपराभावोऽपि सिध्यतीत्यत आह– नञ इति ।। यथाश्रुतेनैवोपपत्तेरित्यर्थः । अस्तिक्रियायास्तुल्यन्यायप्राप्त त्वान्नानुषङ्ग इति भावः ।। तेनेदमिति ।। ‘वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्’ इत्यनेन ।। ततो यदिति ।। ततो यदुत्तरतरं तदुनात्येति कश्चनेत्यनेन । ननु यस्मान्नाणीय इति वाक्यशेषे निषेधद्वयश्रवणादत्रापि तदनुमीयत इत्यत आह– यस्मान्नाणीय इति ।।

न्यायामृतकण्टकोद्धारः

ननु तथापि यस्मात्परं नापरमस्तीत्यत्र द्वितीयाभावः प्रतीयते । परापरयोरुभयो र्निषेधादित्यत आह यस्मात्परमिति । नन्वत्र परमात्रस्यैव निषेधोऽपरस्य च सत्तेत्यर्थः कुतः ? नञोऽनुषङ्गेणोभयोरपि निषेधः किं न स्यादित्यतः श्रुतिस्मृतिभ्यां तथाऽवगमा-दित्याह पुरुषान्न परमिति । ननु परशब्दस्यान्यार्थत्वं किं न स्यादित्यत आह तेनेति । ननु तर्हि यस्मान्नाणीय इत्यत्रापि उभयनिषेधो न स्यादित्य आह यस्मान्नाणीय इति । अत्र च श्रुत्यन्तराभावात् तद्विरोधाभावात् वाक्यशेषाविरोधाद् उभयत्र नञोऽश्रवणाच्च नोभयनिषेध इति भावः ।

न्यायामृतप्रकाशः

यस्मादिति । यस्माद्ब्रह्मणः परमपरं च नेति नञोऽनुषङ्गेण व्याख्यानान्मिथ्यात्वप्रति पादकमिदं परमत इति ज्ञातव्यम् । तच्च परं अस्वतन्त्रमित्यर्थः । यस्मात्परं नेत्यत्र प्रमाणसंवादमाह– पुरुषादिति ।। अपरन्त्वस्तीत्यत्र तमाह– पादोऽस्येति ।। तदधीनत्वे सति तत्सादृश्येन विश्वभूतान्येकः पाद इत्यर्थः । अपरं नास्तीति व्याख्याने बाधकमाह–नञोऽनुषङ्गस्येति ।। नञनुवृत्तेरित्यर्थः । विरोधमेवोपपादयति– विश्वस्यैवेति ।। तद् ब्रह्म । ‘यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्न ज्यायो नाणीयोस्ति कश्चित्’ इत्यत्र यथाणुज्यायो रूपोभयपदार्थनिषेधः तद्वदेव पूर्ववाक्येप्युभयनिषेधः कार्यः । असति ज्ञापके वैरूप्या-योगादित्यतस्तत्रोभयनिषेधज्ञापकमाह– यस्मादिति ।। अणोरिति ।। भगवत एव श्रुत्यन्त-रेऽणुत्वमहत्त्वोक्तेरत्रोभयनिषेधः कार्य एव । न च तथाऽपराभावप्रतिपादकं श्रुत्यन्तरं नामा-स्तीति भावः ।। वाक्येति ।। अपरस्यापि निषेधे ‘तेनेद’मिति वाक्यशेषविरोधवदत्रोभय-निषेधे तदभावादित्यर्थः ।। नञःश्रवणाच्चेति ।। त्वन्मते ज्ञापकाभावेऽप्यनुषङ्गः कार्यः स च लज्जाकर इति भावः ।

न्यायकल्पलता

यस्मात्परं नेति ।। नन्वत्र यस्मात्परं नास्ति, अपरं च नास्तीत्यर्थकरणादपरा-भावोऽपि सिद्ध्यतीत्यत आह– नञ इति ।। यथा श्रुतेनैवोपपत्तेरित्यर्थः । अस्तिक्रिया-यास्तु न्याय प्राप्तत्वान्नानुषङ्ग इति भावः ।। तेनेदमिति ।। ‘वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्’ इत्यनेन ।। ततो यदिति ।। ‘ततो यदुत्तरतरं तदुनात्येति कश्चन’ इत्यनेन । ननु यस्मान्नाणीय इति वाक्ये निषेधद्वयश्रवणादत्रापि तदनु-मीयत इत्यत आह– यस्मा न्नाणीय इति ।।

।। इति यस्मात्परं नेति श्रुत्यर्थविवरणम् ।।