किञ्च तिष्ठतु भेदः । ऐक्यम् (१) किमात्मस्वरूपम् ? (२) उतान्यत् ?
२६. ऐक्यस्वरूपभङ्गः
न्यायामृतम्
किञ्च तिष्ठतु भेदः । ऐक्यम् (१) किमात्मस्वरूपम् ? (२) उतान्यत् ? नाद्यः, पर्यायत्वैकतर परिशेषाद्यापत्तेः । सापेक्षस्यैक्यस्य निरपेक्षात्मत्वायोगाच्च । स्वप्रकाश-स्यात्मनोऽविद्यादिसाक्षित्वेन सदा प्रकाशमानत्वेन शास्त्रवैयर्थ्याच्च । न च त्वन्मतेऽ-पर्यायत्वादिनिर्वाहको विशेषोऽस्ति । न च भेदभ्रमनिरासार्थं शास्त्रम् । अधिष्ठानाप्रकाशं विना भेदभ्रमस्यैवायोगात् । स्वरूपप्रकाशेन प्रकाशमानेऽप्यात्मन्यज्ञानविरोधि वृत्यभावाद्भ्रम इति त्वविद्याविषयभङ्गे निरस्तम् । अन्त्ये ऐक्यं सत्यम् ? मिथ्या वा ? आद्ये औतहानिः । अभावद्वैतम् अभावस्याधिकरणमात्रत्वं च प्रागेव निरस्तम् । भेदाभावोपलक्षित आत्मैक्यमित्यपि न युक्तम् । उपलक्षणीभूतभेदाभावस्य सत्त्वे औतहानिः । मिथ्यात्वे द्वितीयेऽन्तर्भावात् । न द्वितीयः । तत्त्वमसीत्यादेर-तत्त्वावेदकत्वापातात् । भेदस्य सत्यत्वापत्तेश्च ।
किञ्चान्यत्वपक्षे ऐक्यं १. किमेकत्वसङ्ख्या? २. तन्निष्ठसकलधर्माश्रयत्वं वा? ३. तन्निष्ठासाधारण धर्माश्रयत्वं वा? ४. भेदाभावो वा? ५. तदनिष्ठधर्मानधिकरणत्वं वा ? नाद्याः, निर्धर्मके ब्रह्मणि तत्त्वतः सङ्ख्याद्यभावात् । न चतुर्थः । भेदस्यैक्या-भावरूपत्वेनान्योन्याश्रयात् । न पञ्चमः । शून्यस्यापि ब्रह्मैक्यापातात् । विशेषनिषेधे शेषाभ्यनुज्ञानेन सधर्मकत्वापाताच्च । किञ्चाभेदेऽभेदत्वपारमार्थिकत्वा सद्वैलक्षण्यादीनि तत्त्वतः सन्ति चेत्तैरेव सद्वितीयत्वम् । न चेद् अभेदत्वादिहानिरिति दिक् । न चैक्यस्य दुर्वचत्वेऽप्यात्मस्वरूपमात्रम् अबाधितमिति वाच्यम् । तन्मात्रस्य सम्मतत्वेन त्वच्छास्त्राविषयत्वात् । भेद एव खण्ड्योऽस्माकं न त्वभेदः साध्य इति तु निरस्तम् । ऐक्यस्वरूपभङ्गः ।। २६ ।।
अद्वैतसिद्धि:
ननु– ऐक्यं १. आत्मस्वरूपम्? २. उतान्यत्? नाद्यः । एकतरपरिशेषाद्यापत्तेः । सापेक्षस्यैक्यस्य निरपेक्षात्मत्वायोगाच्च । नान्त्यः । सत्यत्वे औतहानेः । मिथ्यात्वे तत्त्वमसी-त्यादेरतत्त्वावेदकतापत्तेरिति चेन्न । आद्यमेवानवद्यम् । ज्ञानानन्दयोरात्मैक्येऽपि यथा नैकतरपरिशेषा-पत्त्यादिकं कल्पितानन्दत्वादिधर्मात् तथा प्रकृतेऽपि सम्भवाक् । ऐक्ये अभिज्ञेयत्वस्य प्रागुक्तेः । तस्यापि निरपेक्षतया निरपेक्षात्मस्वरूपत्वाविरोधात् । अज्ञानाद्यधिष्ठानतया भासमानात्मस्वरूपत्वेऽपि ऐक्यस्य तद्गोचरवृत्तिविशेषस्याज्ञाननिवर्तकस्य इदानीम् असत्त्वात्संसारोपपत्तेः । अन्त्ये पक्षे दोषास्त्वनुक्तोपालम्भा एव । अत एवातिरिक्तमैक्यं, नैकत्वसङ्क्या, न वा तन्निष्ठाशेषधर्मवत्त्वम्, न वा तन्निष्ठासाधारणधर्मवत्त्वम् । निर्धर्मके ब्रह्मणि तेषाम् अभावात् । नापि भेदविरहः । भेदस्यैक्य-विरहरूपत्वेनान्योन्याश्रयात् । नापि तदवृत्तिधर्मानधिकरणत्वम् । शून्यस्यापि ब्रह्मैक्यापातादिति निरस्तम्, तदवृत्तिधर्मानाधारत्वोपलक्षित स्वरूपस्याभेदत्वात् । शून्यस्य निस्स्वरूपत्वान्न शून्यस्यैक्यरूपता । न च– तदवृत्तिधर्मनिषेधेन तद्वृत्तिधर्मविधानप्रसङ्गः । विशेषनिषेधस्य शेषाभ्यनु-ज्ञाफलकत्वादिति वाच्यम् । शेषविधायकत्वस्य सर्वत्रासम्प्रतिपत्तेः । अन्यथा वायौ न नीलरूप-मित्यस्यापि गौरं प्रति विधायकत्वापातात् ।
ननु– अभेदे अभेदत्वपारमार्थिकत्वासद्वैलक्षण्यादीनि तत्त्वतः सन्ति वा न वा ? आद्ये सद्वितीयत्वापत्तिः, द्वितीये अभेदत्वादिहानिरिति चेन्न । तत्त्वतः स्वरूपभूतैरेव तैरभेदरूपताया औतस्य चाहान्युपपत्तेः । न च– एवम् अभेदस्याबाधितात्मस्वरूपपर्यवसाने तस्य चात्मस्वरूपस्य परैरपि सम्मतत्वेन त्वच्छास्त्राविषयत्वमिति वाच्यम्, जीवावृत्तिधर्मानधिकरणत्वोपलक्षितात्मस्वरूपस्य परैरनङ्गीकारात् । तदेवमुक्ते जीवब्रह्माभेदे ‘तत्त्वमसि’ ‘स वा अयमात्मा ब्रह्म’ इत्यादिश्रुतिर्मानम् । इत्यद्वैतसिद्धौ ऐक्यरूपोपपत्तिः ।। २६ ।।
न्यायामृततरङ्गिणी
।। पर्यायत्वेति ।। ननु ज्ञानानन्दयोरात्मैक्येऽपि यथा पर्यायत्वादिकं न कल्पितानन्दत्वादिधर्मात् तथाऽऽत्मैक्ययोरपीति चेन्मैवम् । कल्पितेनैकतरपरिशेषा-भावसम्पादकेन वास्तवैकतरपरिशेषानिवृत्तेः ।। स्वरूपेति ।। प्रकाशमानेऽज्ञानायोगादित्यादिना निरस्तमित्यर्थः । शून्यस्येति । ननु तदवृत्तिधर्मानधिकरणत्वस्वरूपमैक्यं शून्यं तु निःस्वरूपम् । अतो न तस्यैक्यत्वम् । मैवम् । स्वरूपत्वादिधर्महीनस्यैक्यस्य सस्वरूपत्व-वच्छून्यस्यापि सस्वरूपत्वसौलभ्यात् ।। विशेषेति ।। ननु विशेषनिषेधेऽपि न शेषाभ्यनुज्ञा । ‘वायौ न नीलं रूपम्’ इत्यस्य गौरं प्रत्यनभ्यनुज्ञातत्वात् । मैवम् । विशेषनिषेधशेषा-भ्यनुज्ञान्यप्रकारासम्भवे तस्य तथात्वनियमात् । वाय्वादौ तु नीरूपत्वरूपतृतीयप्रकारस्यापि सम्भवात् । आकाशादिवत् । प्रकृते तु तदवृत्तिधर्मानधिकरणत्वतद्वृत्तिर्माधिकरणत्वाभ्याम् अन्यस्य प्रकारस्यादर्शनेन तदसम्भवात् । ब्रह्मैव तथेत्युक्ते त्वन्योन्याश्रयात् ।। तन्मात्रस्येति ।। आत्मस्वरूपमात्रस्येत्यर्थः ।। ननु जीवावृत्तिधर्मानधिकरणत्वोपलक्षितात्मस्वरूपं परैर्नाङ्गीकृतम् । अतस्तदेव मच्छास्त्रविषयः । मैवम् । उक्तोपलक्षितत्वस्यात्मनि विशेषणत्वे उपलक्षणत्वे च तस्य सखण्डत्वापातात् । ताभ्यां रहितस्यात्मस्वरूपमात्रस्य त्वच्छास्त्रा-विषयत्वात् ।। भेद एवेति ।। अभेदः खण्ड्योऽस्मकं न तु भेदः साध्य इत्यस्यापि सुवचत्वात् ।। ऐक्यस्वरूपभङ्गः ।। २६ ।।
न्यायामृतकण्टकोद्धारः
ननु सुनिरूपैक्यपरित्यागेन दुर्निरूपभेदाङ्गीकरणम् अयुक्तमित्यतः ऐक्यस्यात्यन्त-दुर्निरूपत्वादैक्याङ्गीकरणम् अयुक्तमित्याह– किञ्चेति । सापेक्षस्येति । न चैक्यं निरपेक्षमेवेति वाच्यम् । ससम्बन्धिकतया प्रतीयमानस्य तत्त्वे भेदस्यापि तत्त्वापत्तेः । ननु यथा गुणगुणि-नोरैक्येऽपि न पर्यायत्वादि तथा मन्मतेऽपि स्यादित्यत आह– न चेति । मम विशेषेण सर्वस्योपपत्तिः । न च त्वया विशेषोऽङ्गीकर्तुं शक्यते । निर्विशेषत्वाङ्गीकारात् । न च ज्ञानानन्दयोः कल्पितधर्मभेदमादायान्यतरपरिशेषाभाववत् प्रकृतेऽपि कल्पितभेदमादाय परिशेषत्वादिपरिहारो भविष्यतीति वाच्यम् । तत्र विशेषेणैव सत्येनापर्यायत्वाद्यङ्गीकारेण दृष्टान्तासम्मतेः । अन्यथा घटकरीरादावपि कल्पितभेदमादाय परिहारापत्तौ पर्यायत्वादि क्वापि न स्यात् । ननु स्वरूपप्रकाशस्य भ्रमाविरोधित्वाद् विरोधिभूतायाश्च वृत्तेरभावात् भ्रमोपपत्तिरित्यत आह– स्वरूपेति । प्रकाशस्य भ्रमाद्यविरोधित्वे प्रकाशत्वमेव न स्यादित्यादिनेत्यर्थः । स्वरूपप्रकाशः अप्रकाशस्याविरोधीति च व्याहतम् । यथा चैवं सविस्तरमुपपादितम् । तथा च संसारो न स्यात् । अन्त्य इति । न चैते अनुक्तोपालम्भा इति वाच्यम् । विकल्पपूर्वं दूषणे अस्यानवकाशात् । अन्यथा सर्वत्राप्येवं वक्तुं शक्यत्वेन तव विकल्पपूर्वं दूषणं न स्यादिति स्वव्याहतिः । प्रागेवेति । मिथ्यात्वसामान्यभङ्ग इति भावः । भेदाभावेति । तथा च भेदाभावस्यासिद्धतया तदुपलक्ष्यैक्यस्याप्यसिद्धतया न विषयत्वोपपत्तिरिति भावः । तथापि प्राप्ताप्राप्तविवेकेन भेदाभावस्यैव विषयतया तत्रैव विकल्प्य दूषणमाह– उपलक्षणीभूतेति । उपलक्षणमेतत् । उपलक्ष्यतावच्छेदकाभावान्नोप लक्ष्यत्वम् । न चैक्यत्वं जीवब्रह्मैक्यत्वं वोपलक्ष्यतावच्छेदकमिति वाच्यम् । आद्यस्यातिप्रसङ्गित्वात् । द्वितीयस्यात्ममात्र स्वरूपस्य पूर्वमेव ज्ञातत्वेनोपलक्ष्यतावच्छेदकत्वानुपपत्तेरित्यादि द्रष्टव्यम् ।
भेदस्येति । न च विरुद्धयोरन्यतरनिषेधेऽन्यतरविधिरित्यसिद्धम् । वायौ नीलरूप-निषेधेऽपि गौररूपविधेरभावादिति वाच्यम् । परस्परात्यन्ताभावरूपयोर्द्वयोर्मध्ये एकतर-निषेधस्यापरविधिनान्तरीयकत्वनियमात् । नीलगौररूपयोः परस्परात्यन्ताभावरूपत्वाभावात् । भेदाभेदयोस्तथात्वात् । धर्मिसत्व एवायं नियम इत्यादिकं मिथ्यात्वसामान्य भङ्ग एव वर्णितमित्यलम् । शून्यस्यापीति । न च शून्यस्य निःस्वरूपत्वान्न तदैक्यस्वरूपतेति वाच्यम् । सकल धर्मशून्यत्वे स्वरूपत्वधर्माभावेन ब्रह्मणोऽपि सस्वरूपत्वानुपपत्तेः । तैरेवेति । न चाभेदत्वादीनामैक्यस्वरूपत्वेन ऐक्यस्य चात्मस्वरूपत्वेन न सद्वितीयता-पादकतेति वाच्यम् । अभेदत्वादीनाम् अभेदरूपत्वे तच्छब्दानां पर्यायत्वाद्यापत्तेः । विशेषा-नङ्गीकारात् । सोपाधिकनिरुपाधिकयोरैक्यानुपपत्तेश्च । निरस्तमिति । भेदसामान्य-खण्डनोद्धार इति शेषः । इति ऐक्यस्वरूपभङ्गः ।। २६ ।।
न्यायामृतप्रकाशः
विशेषनिषेध इति ।। तदनिष्ठधर्मानधिकरणत्वोक्तौ तन्निष्ठधर्माधिकरणत्वस्यैव प्राप्तिः । विशेष-निषेधः शेषविध्यनुमापक इति न्यायात् । अतः सधर्मकत्वमेव प्राप्तमित्यर्थः । अभेदत्वादीति ।। अभेदेऽभेदत्वाभावेऽभेदत्वहानिः सोऽभेद एव न स्यादित्यर्थः । तथा तत्र पारमार्थिकत्वाद्य-भावेऽपारमार्थिकोऽसंश्च स्यादित्यर्थः ।। तन्मात्रस्येति ।। आत्मस्वरूपमात्रस्य भ्रमाधिष्ठानत्वा-विद्यासाक्षित्वादिना सिद्धेस्त्वत्सम्मतत्वेन त्वदीयशास्त्रविषयत्वादप्राप्ते शास्त्रम् अर्थवदिति स्वन्यायादिति भावः ।। निरस्तमिति ।। अभेद एव खण्ड्योऽस्माकं न तु भेदः साध्य इत्यपि वक्तुं शक्यत्वादिति निरस्तमित्यर्थः ।। ऐक्यस्वरूपभङ्गविवरणम् ।। २६ ।।
न्यायकल्पलता
।। पर्यायत्वेति ।। ननु ज्ञानानन्दयोरात्मैक्येपि यथा नैकतरपरिशेषादिकं, कल्पितानन्दादि-धर्मत्वात् । तथाऽऽत्मैक्ययोरपीति चेन्न । कल्पितेनैकतरपरिशेषाभावसम्पादकेन वास्तवैकतरपरिशेषा-परिहारात् ।। स्वरूपेति ।। ‘प्रकाशमानेऽज्ञानायोगात्’ इत्यादिना निरस्तमित्यर्थः । शून्यस्यापीति । ननु तदवृत्तिधर्मानधिकरणत्वोपलक्षित स्वरूपमैक्यं, शून्यं तु निःस्वरूपम् । अतो न तस्यैक्यतेति । मैवम् । स्वरूपत्वादिधर्महीनस्यैक्यस्य सस्वरूपत्ववच्छून्यस्यापि सस्वरूपत्वसौलभ्यात् ।। विशेषेति ।। ननु विशेषनिषेधेऽपि न शेषाभ्यनुज्ञा । ‘वायौ न नीलं रूपम्’ इत्यस्य गौरं प्रत्यनभ्यनुज्ञातत्वात् । मैवम् । विशेषनिषेधशेषाभ्यनुज्ञान्यप्रकारासम्भवे तस्य तथात्वनियमात् । वाय्वादौ तु नीरूपत्वरूपतृतीयप्रकारस्यापि सम्भवात् । आकाशादिवत् । प्रकृते तु तदवृत्तिधर्मा-नाधारत्वतद्वृत्तिर्माधारत्वाभ्याम् अन्यस्य प्रकारस्यादर्शनेन तदसम्भवात् । ब्रह्मैव तथेत्युक्ते त्वन्योन्या-श्रयात् ।। तन्मात्रस्येति ।। आत्मस्वरूपमात्रस्येत्यर्थः ।। ननु जीवावृत्तिधर्मानधिकरणत्वोप-लक्षितात्मस्वरूपं परैर्नाङ्गीकृतम् अतस्तदेव मच्छास्त्रविषयः । मैवम् । उक्तोपलक्षितत्वस्यात्मनि विशेषणत्वे उपलक्षणत्वे च तस्य सखण्डत्वापातात् । ताभ्यां रहितस्यात्मस्वरूपमात्रस्य त्वच्छास्त्रा-विषयत्वात् ।। भेद एवेति ।। अभेदः खण्ड्योऽस्मकं न तु भेदः साध्य इत्यस्यापि सुवचत्वात् ।।
।। इति ऐक्यस्वरूपभङ्गः ।। २६ ।।