नन्वेतदयुक्तम् । अविद्यानिवृत्तिर्हि मोक्षः

चतुर्थः परिच्छेदः

१. अविद्यानिवृत्तिभङ्गः

न्यायामृतम्

नन्वेतदयुक्तम् । अविद्यानिवृत्तिर्हि मोक्षः । ज्ञानं चाविद्यां दीप इवान्धकारं प्रसादनिरपेक्षमेव निवर्तयति । स्यादेतत्– अविद्यानिवृत्तेरात्ममात्रत्वे न साध्यत्वम् । अनात्मत्वे तु सत्त्वेऽद्वैतहानिः । अनिर्वाच्यत्वेऽविद्यातत्कार्ययोरन्यतरत्वं स्यात् । न च वृत्तिविशिष्ट आत्माऽज्ञानहानिः । वृत्तिनिवृत्तौ मोक्षनिवृत्त्यापातादिति चेद्, वृत्त्युपलक्षितस्यात्मनोऽज्ञानहानित्वात् । उपलक्षणे निवृत्तेऽपि मुक्तेरनिवृत्तिः पाके निवृत्तेऽपि पाचकस्येव युक्ता । उक्तं हि–

निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः ।

 उपलक्षणहानेऽपि स्यान्मुक्तिः पाचकादिवत् । ।’इति ।

यद्वा आत्मान्यैव निवृत्तिः । तत्र चानिर्वाच्यत्वं सदसद्विलक्षणत्वं चेन्निवृत्ति-रनिर्वाच्यैव । अविद्याद्यन्यतरत्वे तु निवृत्तिमत्त्वं तन्त्रम् । न च निवृत्तेर्निवृत्तिर्युक्ता । अनिर्वाच्यत्वं ज्ञाननिवर्त्यत्वरूपं बाध्यत्वं चेत्, पञ्चमप्रकारः । उक्तं हि–

न सन्नासन्न सदसन्नानिर्वाच्यश्च तत्क्षयः ।

यक्षानुरूपो बलिरित्याचार्याः प्रत्यपीपदन् ।। इति ।

एवं च नाद्वैतहानिः । सतो द्वितीयस्याभावात् । नाप्यविद्याद्यन्यतरत्वापत्तिः । अनिर्वाच्यत्वाभावात् । अथवा भावाद्वैतमते आत्मान्या सत्यैव निवृत्तिरिति ।

उच्यते । न तावदात्मान्यत्वपक्षो युक्तः । आत्मा वृत्तिव्याप्योऽपि नेति मतेऽपसिद्धान्तात् । वृत्त्युपलक्षितस्य वृत्तेः पश्चादिव पूर्वमपि सत्त्वाच्च । पाकोपलक्षितोऽपि पाकात्पूर्वमस्त्येव । किन्तु तदज्ञानात्पाचक इत्यव्यवहारः । न चात्र मुक्त इति व्यवहारः साध्यः । किन्तु मुक्तिः । एवं च–

वृत्त्योपलक्षितचितः पश्चादिव पुरापि च ।

सद्भावान्मोहकालेऽपि मोहहानिः प्रसज्यते ।।

किञ्च पाककर्तृत्वं पाचकत्वमिति मते पश्चान्न पाचकः । तद्व्यवहारस्तु भ्रष्टाधि-कारे दण्डनायक इतिवद् भूतपूर्वगत्यैव । कर्तृत्वावच्छेदकावच्छिन्नत्वरूपं कर्तृत्वा-त्यन्ताभावानधिकरणत्वरूपं वा तद्योग्यत्वं पाकानवच्छिन्नाधिकरणताकपाकबोधित-व्यावृत्त्यधिकरणत्वरूपं पाकोपलक्षितत्वं वा पाचकत्वमिति मतेऽपि तदुभयं पश्चादप्यस्ति । न चेह मुक्तावात्मातिरिक्तं योग्यत्वाद्यस्ति । चिन्मात्रं तु प्रागपि । एवं च–

वृत्त्योपलक्षितस्यापि चिन्मात्रत्वे न साध्यता ।

पाकोपलक्षितस्येव त्वाधिक्ये सविशेषता ।।

किञ्च वृत्त्युपलक्षितात्मरूपस्याज्ञानध्वंसस्य प्रागेव सिद्धत्वेन श्रवणादिवैयर्थ्यम् । असिद्धत्वे नात्ममात्रत्वम् । आत्मनो नित्यसिद्धत्वात् । अभावापलापपक्षेऽपि कैवल्यादिविशिष्टस्यैवाधिकरणस्याभावत्वात् । अन्यथा तत्राप्युक्तदोषात् । आत्मान्यत्वे तु मुक्तावप्यविद्याभेदयोरनिवृत्तिः । एवं च–

प्रागेव सिद्धो मोक्षश्चेच्छ्रवणादिश्रमो वृथा ।

असिद्धौ नात्ममात्रत्वमन्यत्वे सद्वितीयता ।।

किञ्चेयं प्रक्रिया किमन्यत्रापि ? इहैव वा ? नाद्यः । बिम्बप्रतिबिम्बैक्याज्ञान-निवृत्तावपि ज्ञातं तदैक्यमित्यापत्त्या तदैक्यधीकाले सोपाधिकतद्भेदभ्रमोपादानाज्ञानानु-वृत्त्ययोगात् । नान्त्यः । नियामकाभावात् । विश्वमिथ्यात्वश्रुतेर्ज्ञानाद्विश्वनिवृत्ति-परत्वेन स्वतात्पर्यविषयनिवृत्तीतरमिथ्यात्वपरत्वोपपत्तेः । अपि च वृत्त्युपलक्षित आत्मा जीवन्मुक्तावप्यस्तीति तदापि मोक्षः स्यात् । न च सर्वकर्मनाशोपलक्षितत्वे सति वृत्त्युपलक्षित आत्मा मोक्षः, तदा चारब्धकर्मास्तीति वाच्यम् । विशेष्य-वैय्यर्थ्यात् । कर्मनाशोपलक्षितस्य कर्मकालेऽपि सत्त्वाच्च । अविद्यानाश इव कर्मनाशेऽप्यात्ममात्रत्वे तदन्यत्वे चोक्तदोषाच्च । एतेन वृत्तिनिवृत्युपलक्षित आत्मा मुक्तिः । स च वृत्तेः प्राङ्नास्तीति निरस्तम् । वृत्तिनिवृत्तेरात्मत्वादावुक्तदोषात् । जीवन्मुक्तस्य सुषुप्त्यादौ वृत्तिनिवृत्त्युपलक्षितस्य सत्त्वाच्च । एतेनैव चरमसाक्षात्कारेण निवृत्तेन तेन वोपलक्षित आत्मा मोक्षः । जीवन्मुक्तौ च न चरमः साक्षात्कारोऽस्तीति निरस्तम् । चरमसाक्षात्कारात्पश्चादिव पूर्वमपि तदुपलक्षितस्य सत्त्वात् । तन्निवृत्तेरात्मत्वादौ दोषोक्तेश्च । पूर्वस्माच्चरमज्ञाने आनन्दाभिव्यक्तिरूप विशेषाभावे चरमक्षणेन वा चरमश्वासेन वोपलक्षित आत्मा मुक्तिरित्यापाताच्च । एवं च–

निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः ।

इत्येतन्नैव घटते जीवन्मुक्तौ प्रसक्तितः ।।

किञ्च वेदान्तश्रवणादिसाध्येन पुरुषार्थेन भाव्यम् । न च त्वन्मते तद्युक्तम् । मुक्त्यनुस्यूतस्य सुखज्ञप्तिरूपम्यात्मनः पुरुषार्थत्वेऽप्यसाध्यत्वात् । चरमवृत्त्युपलक्षित-स्याप्यद्वैतभङ्गापत्त्या सिद्धात्ममात्रत्वात् । वृत्तेस्तु साध्यत्वेऽपि स्वतोऽपुरुषार्थत्वात् । तथा चात्मान्यो वृत्तिसाध्य आवरणनिवृत्तिरूप आनन्दप्रकाशः पुरुषार्थो वक्तव्य इति कथमात्मैव निवृत्तिः । एवं च–

यः पुमर्थः स साध्यो न आत्मानन्दचिदात्मकः ।

या च साध्या वृत्तिरिष्टा न तत्र पुरुषार्थता ।।

तस्मान्नाज्ञानहानिरात्मस्वरूपम् ।

अनिर्वाच्यत्वपक्षोऽप्ययुक्तः । अनिर्वाच्यस्याध्यस्तत्वेन मोक्षे तदध्यासोपादाना-ज्ञानानुवृत्त्यापत्तेः । अध्यस्तस्याप्यभावत्वेन निरुपादानत्वे सघटे घटाभावाध्यासस्य प्रपञ्चान्तर्गतस्य घटध्वंसस्य घटान्योन्याभावस्य च ज्ञानान्निवृत्तिर्न स्यात् । किञ्च निवृत्तेरबाध्यत्वे कथम् अबाध्यरूपसद्वैलक्षण्यम् ? बाध्यत्वे तु १तन्निवृत्तिः स्यात् । ज्ञानान्निवृत्तेरेव बाध्यत्वात् । प्रतिपन्नोपाधौ त्रैकालिकसत्त्वनिषेधस्यापि तद्व्याप्तत्वात् । निवृत्तेर्निवृत्तिरयुक्तेति चेन्न । अत एवानिष्टत्वेन तव तदापादनात् । न च निवृत्तेर्निवृत्तिरस्तु अज्ञानानुन्मज्जनं तु प्रागभावनिवृत्तिरूपघटनाशेऽपि प्रागभावस्येव युक्तमिति वाच्यम् । अप्रामाणिकानन्त निवृत्त्यापातात् । आत्मान्यस्याभावात् । तन्मात्रस्य चाहेतुत्वेन निवृत्तेर्निवृत्तिहेत्वभावाच्च ।

पञ्चमप्रकारत्वपक्षोऽप्ययुक्तः । चतुर्थप्रकारत्वस्येव निरस्तत्वेन तस्याष्टमरसतुल्य-त्वात् । बौद्धैरपि–

न सन्नासन्न सदसन्न चाप्यनुभयात्मकम् ।

चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः ।। (मा.का.१/९)

इत्युक्तत्वेन तत्वस्थितौ बौद्धमतानुसरणापाताच्च । बाध्यत्वाबाध्यत्वयोर्दोषोक्तेश्च । मिथ्यात्वम् अनिर्वाच्यत्वादिकमिति मते दृश्यत्वादेर्निवृत्तौ व्यभिचाराच्च । प्रातिभासिकव्यावहारिकान्यस्यास्य पारमार्थिकत्वेनाद्वैतहानेश्च । प्रतियोगिवैलक्षण्येऽपि सदसदात्मकत्वापत्त्या पञ्चमप्रकारत्वासिद्धेश्च । एवं च–

यक्षानुरूपवलिवत्प्रतियोगिविलक्षणः ।

मोहध्वंसो यदि तदा भवेत्सदसदात्मकः ।।

सत्त्वपक्षोऽप्ययुक्तः । अभावद्वैतस्य निरासात् । ध्वंसस्य प्रतियोगिसमसत्ता-कत्वेनाविद्याया अपि सत्त्वापत्तेश्च । एवं च–

प्रागेव सिद्धो मोक्षश्चेच्छ्रवणादिश्रमो वृथा ।

असिद्धौ नात्ममात्रत्वमन्यत्वे सद्वितीयता ।।

।। अविद्यानिवृत्तिभङ्गः ।। १ ।।

अद्वैतसिद्धि:

ननु मुक्तिस्तावदविद्यानिवृत्तिर्न सम्भवति । तथा हि– सा किमात्मरूपा ? तद्भिन्ना वा ? नाद्यः, असाध्यत्वापत्तेः । द्वितीयेऽपि किं सती ? मिथ्या वा ? आद्ये औतहानिः, द्वितीये अविद्या-तत्कार्यान्यतरत्वापत्तिरिति चेन्न । चरमवृत्त्युपलक्षितस्यात्मनोऽज्ञानहानिरूपत्वात् । तथा चोपलक्षणसाध्यतयैव मुक्तेरपि साध्यता । न चोपलक्षणनिवृत्त्या मुक्तेरपि निवृत्तेः, पाके निवृत्तेऽपि पाचकानिवृत्तिदर्शनात् । तदुक्तम्–

निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः ।

 उपलक्षणनाशेऽपि स्यान्मुक्तिः पाचकादिवत् ।। इति ।

न च वृत्त्युपलक्षितस्य पश्चादिव पूर्वमपि सत्त्वेन मोहकालेऽपि तद्धान्यापत्तिः । पूर्वमसिद्ध-स्योपलक्षणत्वायोगात् । न हि पाकसम्बन्धात् पूर्वं पाचको भवति तथा व्यवह्नियते वा । यत्तु पाककर्तृत्वमेव पाचकत्वम्, तदा अपचति तत्प्रयोगो भूतपूर्वन्यायेनौपचारिकः । यदि तु पाककर्तृतावच्छेदकावच्छिन्नत्वं तत्कर्तृत्वात्यन्ताभावानधिकरणत्वं वा, तद्द्वयमपि पश्चादस्ति । न चैवं मुक्तावात्मातिरिक्तं योग्यत्वादिकमस्ति, चिन्मात्रं तु प्रागप्यस्ति इत्यसाध्यतापत्तिः, काकोपलक्षितत्ववद् वृत्त्युपलक्षितत्वस्याधिकत्वे सविशेषतापत्तिः इति । तन्न । उपलक्ष्यस्वरूपस्यासाध्यत्वेऽपि उपलक्षणगतसाध्यत्वोपपत्तेः । घटाकाशे उत्पत्तिवत् । यद्वा अविद्यानिवृत्तिस्तद्विरोधिवृत्तिरेव यावत्कार्योत्पत्तिविरोधिकार्यमेव ध्वंस इत्यङ्गीकारात् । न च वृत्तौ नष्टायां विरोधिनः कार्यान्तरस्यानुदयात् तदापि ध्वंससत्त्वेन स न ध्वंस इति वाच्यम् । याव-द्विरोधिकार्योदयमेव तथात्वाद्, यावद्विभागं तस्य ध्वंसरूपत्वेऽपि विभागध्वंसस्याधिकरणरूपतावच्चरम वृत्तिपर्यन्तं विरोधिकार्यरूपत्वेऽपि ध्वंसस्य चरमवृत्तिध्वंसस्याधिकरणरूपतैव ।

ननु इयं प्रक्रिया किमन्यत्र ? इहैव वा ? नाद्यः । बिम्बप्रतिबिम्बैक्याज्ञाननिवृत्तिरपि ज्ञात-तदैक्यरूपेति तदैक्यधीकाले सोपाधिकतद्भेदभ्रमोपादानाज्ञानानुवृत्त्ययोगात् । नान्त्यः । नियामका-भावात् । न चेह निवृत्तेर्ज्ञाताधिष्ठानातिरेके विश्वमिथ्यात्वश्रुतिपर्यालोचनया निवृत्तेरपि निवृत्त्या-पत्तिर्नियामिका, तस्या ज्ञानाद्विश्वनिवृत्तिपरत्वेन स्वतात्पर्य विषयनिवृत्तीतरमिथ्यात्वपरत्वादिति चेन्न । न तावदाद्ये दोषः । सोपाधिकभ्रमे उपाधिविरहकालीनस्यैव तस्य तथात्वात् । नापि द्वितीयः । ‘नेति नेति’ इति श्रुतेः स्वारस्येनात्मातिरिक्तसर्वनिवृत्तावेव तात्पर्यात् । न च वृत्त्युप लक्षित आत्मा जीवन्मुक्तावप्यस्तीति तदापि मोक्षापत्तिः, मुक्तिमात्रापादनस्येष्टत्वात्, परममुक्तेश्चरम साक्षात्कारोपलक्षि तात्मस्वरूपत्वेन तदापादकाभावात् । न च चमरसाक्षात्कारनिवृत्तेरात्मत्वेऽसाध्यत्वापत्तिः, अविद्यानिवृत्तेरसाध्यत्वेऽ प्रवृत्त्यापत्तिवद् अत्र तदभावात् । न च जीवन्मुक्तिप्रयोजकवृत्त्यपेक्षया परममुक्तिप्रयोजकवृत्तौ आनन्दाभिव्यक्तिगतविशेषाभावे चरमक्षणेन चरमश्वासेन वा उपलक्षित आत्मा मुक्तिरिति किं न स्यादिति वाच्यम् । प्रारब्धकर्मप्रयुक्तविक्षेपाविक्षेपाभ्याम् अभिव्यक्तिविशेषस्याङ्गी-कारात् ।

एतेन वेदान्तश्रवणादिसाध्यः पुमर्थो वाच्यः, न च स त्वन्मते वक्तुं शक्यः, मुक्त्यनुस्यूत-सुखज्ञप्तिरूपस्यात्मनः पुरुषार्थत्वेऽप्यसाध्यत्वात् । वृत्तेः साध्यत्वेऽपि स्वतोऽपुमर्थत्वात् । तस्मादात्मव्यतिरिक्त एव वृत्तिसाध्य आवरणनिवृत्तिरूपः आनन्दप्रकाशः पुमर्थो वाच्यः । तथा च कथमात्मैव निवृत्तिरिति अपास्तम् । प्राप्तप्राप्तिरूपतया फलस्यानन्दप्रकाशस्य स्वरूपतोऽसाध्यत्वेऽपि तत्तिरोधायकाज्ञाननिवर्तकवृत्तेः साध्यत्वमात्रेण साध्यत्वोपपत्तेः । कण्ठगतचामीकरादौ तथा दर्शनात् । तस्मादज्ञानहानिरात्मस्वरूपं तदाकारा वृत्तिर्वेति सिद्धम् । ये तु पञ्चमप्रकारादिपक्षाः, ते तु मन्दबुद्धिव्युत्पादनार्था इति न तत्समर्थनमर्थयामः ।। इत्यद्वैतसिद्धौ अविद्यानिवृत्तिनिरूपणम् ।। १ ।।

न्यायामृततरङ्गिणी

श्रीयुतारण्यके दृष्टं पुष्टमाभीरगोकुले ।

शुकादिजुष्टं विधिनादिष्टं नौम्यक्षयं फलम् ।। १ ।।

श्रवणादिजनितसाक्षात्काराविष्कृतः ईश्वरप्रसादो मोक्षहेतुरित्येतदाक्षिपति– नन्वेतदिति ।। वृत्तिनिवृत्ताविति ।। एतच्चोपलक्षणम् । वृत्तेरज्ञानोपादानकत्वेन वृत्तिकालेऽज्ञानावश्यकतया प्रतियोगितद्ध्वंसयोरेककालत्वापात इत्यपि बोध्यम् ।। निवृत्तिरिति ।। ज्ञातत्वं वृत्तिः तयोपलक्षित आत्मा मोहनिवृत्तिः । वृत्तिनिवृत्तौ मोक्ष(ह)निवृत्तिं परिहरति– उपलक्षणेति ।। नन्वविद्यानिवृत्तेरात्मान्यत्वेऽनिर्वाच्यत्वं स्यादित्याशङ्क्य सदसद्विलक्षणत्वमनिर्वाच्यत्वमिति मते इष्टापत्तिरित्याह– तत्र चेति ।। नन्वविद्यानिवृत्तेरनिर्वाच्यत्वेऽविद्यातत्कार्यान्यतरत्वापत्त्या तस्याः ज्ञाननिवर्त्यत्वं स्यादित्यत आह– अविद्यादीति ।। अविद्यानिवृत्तौ निवृत्तिसामान्य-स्यैवाभावात्तद्विशेषापादानम् अयुक्तमित्याह– न च निवृत्तेरिति ।। प्रत्यपीपदन् प्रतिपादयामासुः । तस्मादात्मस्वरूपाऽविद्यानिवृत्तिस्तदतिरिक्ता वेति पक्षद्वयम् । द्वितीयेऽप्य-निर्वाच्या वा पञ्चमप्रकारा सत्या वेति पक्षत्रयमित्युपसंहरति– इतीति ।। यत्किञ्चिद्विषयक वृत्त्युपलक्षितात्मनः संसारकालेऽपि सत्त्वेनातिप्रसङ्गाच्छ्रवणादिजन्यात्मविषयकवृत्त्युपलक्षित आत्माऽज्ञाननिवृत्तिरिति वाच्यम् । तत्र चापसिद्धान्त इत्याह– आत्मेति ।। न चात्रेति ।। वृत्तेः पूर्वं मुक्त इति व्यवहाराभावेऽपि पूर्णानन्दप्रकाशरूपमुक्तिः स्यादेव । पाके निवृत्तेऽपि पाचकस्यानिवृत्तिरिति पराभिमते पाचकत्वं किं पाककृत्याश्रयत्वं पाककर्तृत्वयोग्यत्वं वा । आद्य आह– पाककर्तृत्वमिति ।। तथा च स न दृष्टान्त इत्यर्थः । द्वितीये यद्यपि दृष्टान्ते तत्सम्भवति तथापि दार्ष्टान्तिके तन्नास्तीत्याह– कर्तृत्वेत्यादि ।।

चिन्मात्रमिति ।। तथा च प्रागपि मुक्तिः स्यात् ।। न साध्यतेति ।। न चोपलक्षण-साध्यत्वेनैव तदुपलक्षितस्य साध्यत्वमिति वाच्यम् । परमपुरुषार्थे मोक्षे औपचारिक-पुरुषार्थत्वापातात् ।। इयं प्रक्रियेति ।। अज्ञाननिवृत्तिर्ज्ञानाधिष्ठान मात्ररूपेत्येवं रूपा प्रक्रिया ।। बिम्बेति ।। न च सोपाधिकभ्रमे उपाधिनिवृत्तिसहितं ज्ञातम् अधिष्ठानम् अज्ञान-निवृत्तिरिति वाच्यम् । नियामकाभावात् ।। नियामकेति ।। एतत्प्रक्रियां विनाऽनुपपत्त्य-भावादित्यर्थः । नन्वज्ञाननिवृत्तेरधिष्ठानातिरेके विश्वमिथ्यात्वश्रुतिपर्यालोचनया निवृत्तेरपि निवृत्त्यापत्तिरतस्तदेव नियामकमित्यत आह– विश्वमिथ्यात्वेति ।। विश्वमिथ्यात्वश्रुति-र्ह्यज्ञाननिवृत्तेरधिष्ठानरूपत्वं न साक्षाद्वक्ति । ज्ञानाद्विश्वनिवृत्तेरेव तदर्थत्वात् । किन्तूक्त-विधयाऽनुपपत्त्या । सा चान्यथाप्युपपन्ना । निषेधस्य विहितेतरनिषेधपरत्वादिति भावः ।। कर्मनाशोपलक्षितस्येति ।। उपलक्षणप्रागभाव कालेऽपि तदुपलक्षितस्वरूपमात्रस्य सत्त्वात् ।। पूर्वस्मादिति ।। ज्ञानात् ।। आनन्दाभिव्यक्तीति ।। वृत्ता वानन्दाभिव्यक्तिरूपविशेषसत्त्वे तस्या असाध्यत्वापातः ।। या च साध्येति ।। न चानन्दप्रकाशतिरोधायकाज्ञान निवर्तकत्वेन वृत्तिः पुरुषार्थ इति वाच्यम् । अज्ञाननिवृत्तेरात्ममात्रत्वादौ दोषस्योक्तत्वात् ।। अनिर्वाच्यस्याध्यस्तत्वेनेति ।। अध्यासस्याज्ञानोपादकत्वेनाज्ञाननिवृत्तिकालेऽप्यज्ञान-सत्त्वापत्तिः ।। अभावत्वेनेति ।। भावरूपस्याध्यस्तस्या ज्ञानोपादानत्वमित्यङ्गीकारे ।। निवृत्तिः स्यादिति ।। निवृत्तेरित्यनुषङ्गः । ननु ज्ञाननिवर्त्यत्वाभावेऽपि प्रतिपन्नोपाधा वित्यादिरूपं बाध्यत्वं निवृत्तौ भविष्यतीत्यत आह– प्रतिपन्नेति ।। तद्व्याप्तत्वात् ज्ञाननिवर्त्यत्वव्याप्तत्वात् ।। अभावद्वैतस्येति ।। भावापेक्षयाऽभावस्यात्यन्तगुरुत्वात् ।। प्रागेव सिद्ध इति ।। क्वचित्त्वयं श्लोकः ‘किं चेयं प्रक्रिया’ इत्यादिग्रन्थात्पूर्वमेव पठ्यते । अत्रैव तु युक्तः पाठः ।। अविद्यानिवृत्तिभङ्गः ।। १ ।।

न्यायामृतकण्टकोद्धारः

श्रीवेदव्यासाय नमः ।। वैराग्यादीनि मोक्षसाधनानि निरूप्येदानीं फलभूतमोक्षस्वरूपं स्वमते निरूपयितुं परोक्तमोक्षस्वरूपं तावत् खण्डयितुम् अनुवदति– नन्वेतदिति ।। यद्वा परिच्छेदान्ते साक्षात्कारेण परमात्मा प्रसन्नीकरणीयः इत्युक्तम् । तदसहमानः परः प्रत्यव-तिष्ठते– नन्वेतदिति ।। प्रसन्नीकरणीय इत्येतदित्यर्थः । कुतोऽयुक्तमित्यत आह– अविद्येति ।। हिशब्द उक्तमोक्षस्य प्रसिद्धत्वं द्योतयति । अस्तूक्तो मोक्षः । तथाऽप्यस्य प्रसादव्यतिरेकेणासम्भवात् कथं प्रसन्नीकरणीय इत्येतदयुक्तमित्यत्राह– ज्ञानं चेति ।। ज्ञानाज्ञानयोर्विरोधात् ज्ञान उत्पन्नेऽज्ञानं स्वयमेव नश्यतीति क्व प्रसादस्योपयोगः । अन्यथा शुक्तितत्वज्ञानेनाप्यज्ञाननिवृत्तौ प्रसादापेक्षा स्यादिति भावः ।

स्यादेतत् प्रसादनैरपेक्ष्यवर्णनं यदि त्वदुक्तं मोक्षस्वरूपमुपपद्येत तदेव तु न युक्तमिति शङ्कते– स्यादेतदिति ।। अविद्यानिवृत्तेर्मोक्षत्वं वर्णयता तस्याः किमात्मस्वरूपत्वमङ्गीक्रियत उत ततोऽतिरिक्तत्वम् । नाद्य इत्याह– अविद्येति ।। नन्वस्या आत्मस्वरूपत्वेऽपि कुतो न साध्यत्वम् । न चात्मस्वरूपस्यानादिनित्यत्वेन तदभिन्नाया अस्या अपि तथात्वाद-साध्यत्वमिति वाच्यम् । अनादेरपि दुःखप्रागभावस्य प्रायश्चित्तसाध्यत्ववत् प्रकृतेऽपि तत्सम्भवात् । न च जन्यत्वरूपं साध्यत्वं दुःखप्रागभावेऽपि न सम्भवतीति वाच्यम् । तदसम्भवेऽपि यस्मिन् सति अग्रिमक्षणे यत्सत्वं यद्व्यतिरेकेण चासत्वमित्येवंरूपयोगक्षेम-साधारणस्य साध्यत्वस्य दुःखप्रागभाव इव प्रकृतेऽपि सम्भवात् । न च यद्व्यतिरेकेऽसतः सत्वमित्यस्य दुःखप्रागभावेऽप्यसम्भव इति वाच्यम् । गौरवेण ‘असतः’ इत्यस्य तत्राप्रवेशात् । तथा चासाध्यत्वापादनमयुक्तमिति चेत् । मैवम् । अविद्यानिवृत्तेरात्मस्वरूपेण सह किं सविशेषाभदो उत निर्विशेषाभेदः । नाद्यः । निर्विशेषत्वाङ्गीकारविरोधात् । न द्वितीयः । निर्विशेषात्ममात्राविद्यानिवृत्तौ यस्मिन् तत्वज्ञाने सत्यग्रिमक्षणे निर्विशेषात्मसत्त्वं तत्वज्ञानव्यतिरेकेण च निर्विशेषात्मासत्वमिति हि साध्यत्वं वक्तव्यम् । न चैतदुपपद्यते । अपसिद्धान्तप्रसङ्गात् । सद्रूपत्वप्रतिपादकश्रुत्यादिविरोधाच्चेति युक्तम् असाध्यत्वापादनम् ।

द्वितीयं निराचष्टे– अनात्मत्व इति ।। वृत्तिनिवृत्ताविति ।। विशेषणनिवृत्तौ विशिष्टनिवृत्तेः ‘स्वर्गो ध्वस्तः’ इत्यादौ दृष्टत्वादिति भावः । विशेषणनिवृत्तौ विशिष्ट-निवृत्तिवदुपलक्षणनिवृत्तावुपलक्षितस्यापि निवृत्तिः स्यादिति पूर्वोक्तदोषः स्यादेवेत्यत आह– उपलक्षण इति ।। उक्तेऽर्थे सिद्धान्तसम्मतिमाह– उक्तं हीति ।। तथा सति सत्वा-निर्वाच्यत्वपक्षोक्तदोषापात इत्यत आह– तत्र चेति ।। ननु निवृत्तेः सदसद्वैलक्षण्येऽ-विद्याद्यन्यतरत्वं स्यात् । तत्र सदसद्वैलक्षण्यस्य प्रयोजकत्वादित्यत आह– अविद्याद्यन्यतरत्व इति ।। आत्मातिरिक्ताविद्यानिवृत्यङ्गीकारेऽद्वैतहानिरित्यत्राह– एवञ्चेति ।। ननु ‘एकमेवा-द्वितीयं’ इति श्रुत्या सामान्यतो द्वितीयनिषेधात् सद्द्वितीयनिषेधपरत्वेन संकोचो न युक्त इत्यत आह– अथवेति ।

सिद्धान्तयति– उच्यत इति ।। आत्मत्वपक्ष इति ।। वृत्त्युपलक्षित आत्मा अज्ञान-हानिरिति पक्ष इत्यर्थः । ननु यन्मते आत्मा वृत्तिव्याप्यस्तन्मतानुसारेणैवैतन्मोक्षस्वरूपं निरूप्यत इति नापसिद्धान्त इत्यत आह – वृत्त्युपलक्षितस्येति ।। तथा च पूर्वमपि मुक्तत्वं स्यादिति भावः । तर्हि पाकोपलक्षितस्यापि पाकात् पूर्वं सत्वं स्यादित्यत आह– पाकेति ।। प्रकृतेऽपि व्यवहार एव साध्य इत्यत आह– न चात्रेति ।। न च ‘विमुक्तश्च विमुच्यते’ इति श्रुत्या मुक्तत्वस्य पूर्वमपि सत्त्वाद् व्यवहारमात्रमेव साध्यमिति वाच्यम् । व्यवहारमात्रस्य ‘मुक्तोऽयं’ इत्यादिलौकिकवाक्यादेव सम्भवेन वेदान्तश्रवणाद्यायासवैय्यर्थ्यापातात् । ननु पाकोपलक्षितस्य पाचकस्य पाकात् पूर्वमपि सत्ववर्णनमयुक्तम् । पाककर्तृत्वं हि पाचकत्वम् । न च पाकपूर्वकाले तदस्ति । तथा च वृत्त्युपलक्षितस्यापि पूर्वं सत्वमयुक्तमेवेत्यत आह– किञ्चेति । तथा च तद्वदेव वृत्त्यनन्तरमपि मुक्तत्वं न स्यादिति भावः । ननु पाचकत्वं न पाककर्तृत्वम् । किन्तु पाकयोग्यत्वं वा पाकोपलक्षितत्वं वा । तच्च पश्चादस्तीति पश्चात् पाचकत्वमिव पश्चान्मुक्तत्वमपि युज्यत इत्यत आह– कर्तृत्वेति ।। पाकेनेति ।। पाकेनानवच्छिन्ना अधिकरणता यस्य एवंभूतो यः पाकः तेन बोधिता या व्यावृत्तिः तदधिकरणत्वमित्यर्थः । पश्चादपीत्यपिशब्दात् पूर्वमप्यस्तीत्यर्थः । आत्मातिरिक्तस्य तस्याभावेऽपि चिन्मात्रत्वमेव योग्यत्वं प्रकृतेऽस्तीत्यत आह– चिन्मात्रं त्विति ।। तथा च प्रागपि मुक्तत्वं स्यादिति भावः । उक्तमर्थं कारिकारूढं करोति– एवं चेति ।। वृत्त्योप-लक्षितचैतन्यमेवाज्ञानहानिरूपा मुक्तिरिति वदता उपलक्ष्यतावच्छेदकं किञ्चिद् वक्तव्यम् । तद्धि किं चिन्मात्रत्वम् ? उत धर्मविशेषः ? आद्य आह–  चिन्मात्रत्व इति ।। द्वितीयं दूषयति– आधिक्य इति ।।

ननु धर्मविशेषस्यैवोपलक्ष्यतावच्छेदकत्वाङ्गीकारान्नासाध्यत्वापत्तिः । न च सविशेषत्व-प्रसङ्गः । मिथ्याभूतसविशेषत्वाङ्गीकारे बाधकाभावादित्यत आह– किञ्चेति ।। वैय्यर्थ्यं साध्याभावादिति भावः । कुत इत्यतो विरुद्धधर्माधिकरणत्वादित्याह– आत्मन इति ।। न चाभावोऽधिकरणात्मैव नातिरिक्त इत्यङ्गीकुर्वतां गुरूणां मते यद्यभावोऽधिकरणमात्रं तर्हि घटवत्यपि भूतले अधिकरणमात्रस्य सत्त्वादभावप्रतीत्यापत्तिः । अधिकरणमात्रत्वे प्रतियोगि-सापेक्षज्ञानत्वं च न स्यात् । अधिकरणस्य तदभावादित्यादिदोषाप्रसक्तिवत् प्रकृते तथाऽ-स्त्वित्यत आह– अभावापलापेति ।। कैवल्यं च धर्मान्तरं भूतलस्येति भावः ।। अन्यथेति ।। अभावस्याधिकरणमात्रत्व इत्यर्थः ।। आत्मान्यत्व इति ।। अज्ञाननिवृत्ति-रात्मातिरिक्ताऽवस्था चेत् तर्ह्यात्माज्ञाननिवृत्त्योर्भेदस्य मुक्तौ सत्वापत्तिः । अज्ञानध्वंसस्य प्रतियोगिना सह भिन्नसत्ताकत्वे विरोधाभावापत्त्या विरोधाय तुल्यसत्ताकत्वमवश्यं वक्तव्यम् । तथा चाज्ञानध्वंसस्य पारमर्थिकत्वादज्ञानस्यापि पारमार्थिकत्वेन मुक्तौ सत्त्वं स्यादित्यर्थः । उक्तमर्थं सङ्गृह्णाति– एवं चेति ।।

दूषणान्तरमाह– किञ्चेयं प्रक्रियेति । अज्ञाननिवृत्तिर्ज्ञानाज्ञानविषयमात्रमिति प्रक्रियेत्यर्थः । ननु नियामाकाभावोऽसिद्धः । विश्वमिथ्यात्वश्रुतेरेव नियामकत्वादित्यत आह– विश्वमिथ्यात्वश्रुतेरिति ।। स्वतात्पर्यविषयनिवृत्तेरपि मिथ्यात्वप्रतिपादने विषया-भावेनाप्रामाण्यं श्रुतेः स्यादिति भावः । ननु वेदान्तानां लक्षणया अखण्डब्रह्ममात्र-परत्वाङ्गीकारेण निवृत्तौ तात्पर्यानङ्गीकारादित्यत आह– अपि चेति ।। विशेष्येति ।। वृत्त्युपलक्षित इति विशेष्यस्येत्यर्थः । किञ्च चरमसाक्षात्कारफले पूर्वज्ञानापेक्षया विशेषोऽस्ति वा ? न वा ? आद्ये निर्विशेषत्वाङ्गीकारविरोधः । द्वितीयं दूषयति ।। पूर्वस्मादिति ।।

किञ्च नाज्ञानहानेर्मोक्षत्वम् । पुरुषार्थत्वासम्भवादित्याह– किञ्चेति ।। तद्युक्तमिति ।। पुरुषार्थभवनं युक्तमित्यर्थः । ननु चरमवृत्युपलक्षितस्य साध्यत्वं युज्यत इत्यत आह– चरमेति ।।

नन्वज्ञाननिवृत्तेरभावत्वादभावस्य च निरुपादानत्वादज्ञानानुवृत्त्यापादनमयुक्तमित्यत आह– अध्यस्तस्येति ।। अज्ञानोपादानत्वाभावादिति भावः । ननु न ज्ञाननिवृत्तिर्बाधः । किन्तु प्रतिपन्नोपाधौ त्रैकालिकसत्वप्रतिषेध इति न निवृत्त्यापादनं युक्तमित्यत आह– प्रतिपन्नोपाधाविति ।। नन्विदमयुक्तम् । ज्ञाननिवर्त्यत्वप्रतिपन्नोपाधौ त्रैकालिकसत्त्व-निषेधयोर्व्याप्यव्यापकभावो हि किं यत्र ज्ञाननिवर्त्यत्वं तत्र प्रतिपन्नोपाधौ त्रैकालिकसत्वनिषेध इति ? उत यत्र प्रतिपन्नोपाधौ त्रैकालिकसत्वनिषेधस्तत्र ज्ञाननिवर्त्यत्वमिति ? नाद्यः । अज्ञानभ्रमादौ व्यभिचारात् । तयोश्च सत्त्वेन प्रमितत्वात् । न द्वितीयः । तुच्छे व्यभिचारात् इति चेन्मैवम् । न हि ज्ञाननिवर्त्यत्वं नाम ज्ञानेन नाशोऽत्राभिमतः । किन्तु ज्ञानबोधि-तत्रैकालिकाभावप्रतियोगित्वम् । एवं ज्ञाननिवर्त्यत्वस्य व्याप्यत्वेऽपि नाज्ञान भ्रमादौ व्यभिचारः । ज्ञानेन तदभावस्याबोधनात् । किञ्चोभयोरपि सत्वनिषेध एव पर्यवसानादेकत्वेन निवृत्त्यापादनं युक्तम् । न चाभेदे च व्याप्यव्यापकभावः । अभेदेऽपि व्याप्यव्यापकभाव-स्यावश्यकत्वात् । अन्यथा ‘शब्दोऽनित्यः कृतकत्वात्’ इत्यत्र कृतकत्वस्याप्युपाधिता-पत्तेरयुक्तमापादनम् ।। निवृत्तेर्निवृत्तिरिति ।। अन्यथा प्रतियोग्युन्मज्जनं स्यादिति भावः । अज्ञाननिवृत्तेर्निवृत्तिरज्ञानरूपा वा ? अतिरिक्ता वा ? नाद्यः । तथा सति प्रतियोगिभूताज्ञानो-न्मज्जनापत्तेः । न च प्रागभावनिवृत्तिरूपपटनाशेऽपि प्रागभावानुन्मज्जनवत् प्रकृतेऽपि तथाऽस्त्विति वाच्यम् । प्रागभावनिवृत्तिनिवृत्तेः प्रागभावरूपत्वाभावेन वैषम्यात् । द्वितीयं दूषयति– अप्रामाणिकेति ।। कारणाभावादपि निवृत्तेर्निवृत्तिर्न सम्भवतीत्याह– आत्मेति ।। तत्त्वस्थिताविति ।। मोक्षस्वरूपविषय इत्यर्थः ।। प्रतियोगिन इति ।। अन्यथा समसत्ताकत्वाभावेन विरोधी न स्यादिति भावः । इति अविद्यानिवृत्तिभङ्गः ।। १ ।।

न्यायामृतप्रकाशः

समस्तवेदसंवेद्यं व्यासं सर्वगुणार्णवम् ।

विवृणोमि प्रणम्याहं परिच्छेदं चतुर्थकम् ।। १ ।।

ईश्वरप्रसादो मोक्षहेतुरित्येतदाक्षिपति– नन्विति ।। वृत्तिनिवृत्तौ मोक्षनिवृत्तिं परिहरति– उपलक्षण इति ।। निवृत्तिरिति ।। ज्ञानं वृत्तिः, तया उपलक्षित आत्मा मोहहानिः । नन्वविद्यानिवृत्तेरात्मा-न्यत्वेऽनिर्वाच्यत्वं स्यादित्याशङ्क्य सदसद्विलक्षणत्वम् अनिर्वाच्यत्वमिति मते इष्टापत्तिरित्याह– तत्र चेति ।। नन्वविद्यानिवृत्तेरनिर्वाच्य त्वेऽविद्यातत्कार्यान्यतरत्वापत्त्या तस्याज्ञाननिवर्त्यत्वं स्यादित्यत आह– अविद्यादीति ।। अविद्यानिवृत्तौ सामान्यस्यैवा भावात्तद्विशेषापादनमयुक्तमित्यत आह– न च निवृत्तेरिति ।। प्रत्यपीदन् प्रतिपादयामासुः । तस्मादात्मस्वरूपा अविद्यानिवृत्ति-स्तदतिरिक्तावेति पक्षद्वयं द्वितीयेऽप्यनिर्वाच्या वा पञ्चमप्रकारा वा सत्या वेति पक्षत्रयमित्युपसंहरति– इतीति ।। यत्किञ्चिद्वृत्त्युपलक्षितात्मनः संसारकालेऽपि सत्त्वेनातिप्रसङ्गात् श्रवणादिजन्यात्मविषयक-वृत्त्युपलक्षित आत्माऽज्ञाननिवृत्तिरिति वाच्यम् । तत्र चापसिद्धान्त इत्याह– आत्मेति ।। न चात्रेति ।। वृत्तेः पूर्वं मुक्त इति व्यवहाराभावेऽपि पूर्णानन्दप्रकाशरूपमुक्तिः स्यादेव । पाके निवृत्तेऽपि पाचकस्यानिवृत्तेरिति भावः । पराभिमतपाचकत्वं किं पाकजनककृत्याश्रयत्वं वा पाककर्तृत्वयोग्यत्वं वा । आद्ये आह – पाककर्तृत्वमिति ।। तथा च स न दृष्टान्त इत्यर्थः । द्वितीये यद्यपि दृष्टान्ते तत्सम्भवति तथापि दार्ष्टान्तिके तन्नास्तीत्याह– कर्तृत्वेत्यादि ।। चिन्मात्रमिति ।। तथा च प्रागपि मुक्तिः स्यादित्यर्थः ।

इयं प्रक्रियेति ।। अज्ञाननिवृत्तिर्ज्ञानाधिष्ठानरूपेत्येवंरूपा प्रक्रियेत्यर्थः ।। नियामकेति ।। एतत्प्रक्रीयां विनाऽनुपपत्त्यभावादित्यर्थः । नन्वज्ञाननिवृत्तेरधिष्ठानातिरिक्तत्वे विश्वमिथ्यात्वश्रुति-पर्यालोचनया निवृत्तेरपि निवृत्त्यापत्तिरतस्तदेव नियामकमित्यत आह– विश्वमिथ्यात्वेति ।। विश्वमिथ्यात्वश्रुतिर्हि अज्ञाननिवृत्तेरधिष्ठानरूपत्वं न साक्षाद्वक्ति । ज्ञानाद्विश्वनिवृत्तेरेव तदर्थत्वात् । किन्तूक्तविधयानुपपत्त्या । सा चान्यथाप्युपपन्ना । निषेधस्य विहितेतरनिषेधपरत्वादिति भावः ।। कर्मनाशोपलक्षितस्येति ।। उपलक्षणप्रागभावकालेपि तदुपलक्षितस्वरूपमात्रस्य सत्त्वादित्यर्थः ।। पूर्वस्मादिति ।। ज्ञानादित्यर्थः ।। आनन्दाभिव्यक्तीति ।। वृत्तावानन्दाभिव्यक्तिरूपविशेषसत्त्वे तस्या असाध्यत्वापात इत्यर्थः ।। अनिर्वाच्यस्याध्यस्तत्वेनेति ।। अध्यस्तस्याज्ञानोपादानकत्वेना-ज्ञाननिवृत्ति कालेऽप्यज्ञानसत्त्वापत्तिरित्यर्थः ।। अभावत्वेनेति ।। भावरूपस्याध्यस्तस्याज्ञानो-पादानकत्वमित्यङ्गीकारे निवृत्तिः स्यादिति भावः । निवृत्तेरित्यनुषङ्गः । ननु ज्ञाननिवर्त्यत्वाभावेऽपि प्रतिपन्नोपाधावित्यादिरूपं बाध्यत्वं निवृत्तौ भविष्यतीत्यत आह– प्रतिपन्नेति ।। तद्व्याप्तत्वात् ज्ञाननिवर्त्यत्वव्याप्तत्वात् । अभावात् मुक्ताविति शेषः । न द्वितीय इत्याह– तन्मात्रस्येति ।। तत्वस्थितौ तत्वव्यवस्थापने इत्यर्थः ।। व्यभिचाराच्चेति ।। तत्वस्थितौ पञ्चमप्रकारत्वपक्षे सदसद्वैलक्षण्यरूपानिर्वाच्यत्वरूपमिथ्यात्वाभावादित्यर्थः ।। प्रतियोगिन इति ।। प्रतियोगितद्ध्वंसयोः समानसत्ताकत्वे हि विरोधः । अन्यथा विरोध एव न स्यादिति भावः ।। अभावद्वैतस्येति ।। भावापेक्षयाऽभावस्यात्यन्तगुरुत्वादिति भावः । प्रागेव सिद्ध इत्ययं श्लोकः क्वचित्पुस्तके किञ्चेयं प्रक्रियेत्यादिग्रन्थात्पूर्वं पठ्यते । अत्रैव तु युक्तः पाठः । तस्मादविद्यानिवृत्तेरात्ममात्रत्वमिति मतं १, आत्मान्यत्वेऽपि सदसद्वैलक्षण्य रूपानिर्वाच्यत्वमिति मतं २, ज्ञाननिवर्त्यत्वरूपं बाध्यत्वमनिर्वाच्यत्वमिति मते पञ्चमप्रकारत्वमतं ३, आत्मान्यत्वपक्षेऽपि भावाद्वैतमते सत्त्वं चेति मतमिति ४, मतचतुष्टयमप्ययुक्तमिति द्रष्टव्यम् ।। इत्यविद्यानिवृत्तिभङ्गविवरणम् ।। १ ।।

न्यायकल्पलता

श्रुत्यादिप्रचयोद्भूतप्रसादान्मोक्षदायकम् ।

नौमि श्रीरमणं देवं भक्ताभीष्टार्थदायकम् ।। १ ।।

श्रवणादिजनितसाक्षात्काराविष्कृतपरमात्मप्रसादो मोक्षसाधनमित्येतदाक्षिपति– नन्वेतदिति ।। वृत्तिनिवृत्ताविति ।। एतच्चोपलक्षणम् । वृत्तेरज्ञानोपादानकत्वेन वृत्तिकालेऽज्ञानावश्यकतया प्रतियोगितद्ध्वंसयोरेक कालत्वापात इत्यपि ज्ञेयम् । वृत्तिनिवृत्तौ मोक्ष(ह)निवृत्तिं परिहरति– उपलक्षण इति ।। निवृत्तिरिति ।। ज्ञातत्वं वृत्तिः तयोपलक्षित आत्मा मोहनिवृत्तिः । नन्वविद्यानिवृत्तेरात्मा-न्यत्वेऽनिर्वाच्यत्वं स्यादित्याशङ्क्य सदसद्विलक्षणत्वम् अनिर्वाच्यत्वमिति मते इष्टापत्तिरित्याह– तत्र चेति ।। नन्वविद्यानिवृत्तेरनिर्वाच्यत्वेऽविद्या तत्कार्यान्यतरत्वापत्त्या तस्याः ज्ञाननिवर्त्यत्वं स्यादित्यत आह– अविद्यादीति ।। अविद्यानिवृत्तौ निवृत्तिसामान्यस्यैवाभावात्तद्विशेषापादानम् अयुक्तमित्याह–  न च निवृत्तेरिति ।। प्रत्यपीपदन् प्रतिपादयामासुः । तस्मादात्मस्वरूपाऽविद्या-निवृत्तिस्तदतिरिक्ता वेति पक्षद्वयम् । द्वितीयेऽप्यनिर्वाच्या वा पञ्चमप्रकारा सत्या वेति पक्षत्रयमित्युप-संहरति– इतीति ।। समाधत्ते– उच्यते इति ।। यत्किञ्चिद्विषयकवृत्त्युपलक्षितात्मनः संसारदशायामपि सत्त्वेनातिप्रसङ्गाच्छ्रवणादिजन्यात्मविषयकवृत्त्युपलक्षित आत्माऽज्ञाननिवृत्तिरिति वक्तव्यम् । तत्र चापसिद्धान्त इत्याह– आत्मेति ।। न चात्रेति ।। वृत्तेः पूर्वं मुक्त इति व्यवहाराभावेऽपि पूर्णानन्द-प्रकाशरूपमुक्तिः स्यादेव । पाके निवृत्तेऽपि पाचकस्यानिवृत्तिरिति पराभिमते पाचकत्वं किं पाकजनक-कृत्याश्रयत्वं वा पाककर्तृत्वयोग्यत्वं वा । आद्य आह– पाककर्तृत्वमिति ।। तथा च स न दृष्टान्त इत्यर्थः । द्वितीये यद्यपि दृष्टान्ते तत्सम्भवति तथापि दार्ष्टान्तिके तन्नास्तीत्याह– कर्तृत्वा-वच्छेदकेत्यादि ।।

चिन्मात्रं त्विति ।। एवं च प्रागपि मुक्तिः स्यात् ।। न साध्यतेति ।। न चोपलक्षणसाध्यत्वेनैव तदुपलक्षितस्य साध्यत्वमिति देश्यम् । परमपुरुषार्थे मोक्षे औपचारिकपुरुषार्थत्वापातात् । न चात्रेष्टापत्तिः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता’ इति श्रुतेरिति साम्प्रतम् । बन्धस्यास्वाभावि-कत्वेनोपपत्तेः ।। विगतप्रयोजनत्ं ध्वंसत्वानुपपत्तिश्चेत्यर्थः । वैयात्यात्प्राभाकरमताश्रयिणं प्रत्याह– अभावापलापपक्षेऽपीति ।। ‘भावान्तरमभावो हि कयाचित्तु व्यपेक्षया’ इति प्राभाकरोक्तेः । सङ्गृह्णाति– प्रागेवेति ।। दोषान्तरमभ्युच्चिनोति– किञ्चेयमिति ।।  अज्ञाननिवृत्तिर्ज्ञानाधिष्ठानमात्र-रूपेत्येवंरूपा प्रक्रिया ।। बिम्बेति ।। यत्तु सोपाधिकभ्रमे उपाधिनिवृत्तिसहितं ज्ञातम् अधिष्ठानम् अज्ञाननिवृत्तिरिति, तन्न । नियामकाभावात् । उपाधिनिवृत्तौ त्वन्मतेऽधिष्ठानप्रकाशानुपपत्तेश्च । नियामकेति ।। एतत्प्रक्रियामन्तरेणानुपपत्त्यभावादित्यर्थः । नन्वज्ञाननिवृत्तेरधिष्ठानातिरेके विश्व-मिथ्यात्वश्रुतिपर्यालोचनया निवृत्तेरपि निवृत्त्यापत्तिरतस्तदेव नियामकमित्यत आह– विश्वमिथ्या-त्वेति ।। विश्वमिथ्यात्वश्रुतिर्ह्यज्ञाननिवृत्तेरधिष्ठानरूपत्वं न साक्षाद्वक्ति । ज्ञानाद्विश्वनिवृत्तेरेव तदर्थत्वात् । किन्तूक्तविधयाऽनुपपत्त्या । सा चान्यथाप्युपपन्ना । निषेधस्य विहितेतरनिषेधपरत्वादिति भावः ।। कर्मनाशोपलक्षितस्येति ।। उपलक्षणप्रागभाव कालेऽपि तदुपलक्षितस्वरूपमात्रस्य सत्त्वात् ।। पूर्वस्मादिति ।। ज्ञानात् ।। आनन्दाभिव्यक्तीति ।। वृत्तावानन्दाभि व्यक्तिरूपविशेषसत्त्वे तस्या असाध्यत्वापातः ।। या च साध्येति ।। न चानन्दप्रकाशतिरोधायकाज्ञाननिवर्तकत्वेन वृत्तिः पुरुषार्थ इति युक्तम् । अज्ञाननिवृत्तेरात्ममात्रत्वादौ दोषस्योक्तत्वात् ।। अनिर्वाच्यस्याध्यस्तत्वेनेति ।। अध्यासस्याज्ञानोपादकत्वेनाज्ञाननिवृत्तिकालेऽप्यज्ञानसत्त्वापत्तिरित्यर्थः ।। अभावत्वेनेति ।। भावरूपस्याध्यस्तस्या ज्ञानोपादानकत्वमित्यङ्गीकारे । सघटे भूतले ।। निवृत्तिः स्यादिति ।। निवृत्तेरित्यनुषङ्गः । ननु ज्ञान निवर्त्यत्वाभावेऽपि प्रतिपन्नोपाधावित्यादिरूपं बाध्यत्वं निवृत्तौ भविष्यतीत्यत आह– प्रतिपन्नेति ।। तद्व्याप्तत्वात् ज्ञाननिवर्त्यत्व व्याप्तत्वात् ।। अभावद्वैत-स्येति ।। भावापेक्षयाऽभावस्यात्यन्तगुरुत्वात् ।। प्रागेव सिद्ध इति ।। अयं श्लोकः ‘किञ्चेयं प्रक्रिया’ इत्यादिग्रन्थात्पूर्वमेव पठ्यते । अत्रैव युक्तः पाठः इत्याहुः ।।

।। इति अविद्यानिवृत्तिभङ्गः ।। १ ।।