किञ्च ‘सलिल एको द्रष्टाऽद्वैतो भवति’ इत्यत्र ..

३८. एकमेवाद्वितीयमिति श्रुत्यर्थविवरणम्

न्यायामृतम्

किञ्च ‘सलिल एको द्रष्टाऽद्वैतो भवति’ इत्यत्र सलिलादिपदेन ‘सदेव सोम्येदमग्र आसीत्’ इत्यत्र कालप्रापकेण पूर्वेणाग्रपदेन ‘तदैक्षत नामरूपे व्याकरोत्’ इतीक्षणनामरूपात्मकप्रपञ्चप्रापकेणोत्तरेण च द्वैतवाक्येन विरोधः । प्रामाण्यस्य स्वतस्त्वेनाद्वैतवाक्येनाद्वैतस्येव द्वैतवाक्येनैव द्वैतस्य(सत्यत्व) सिद्धेः । यदि चाविरोधाय द्वैतवाक्यस्य लक्षणादिनाऽद्वैतपरत्वं वाऽतात्त्विक विषयत्वेन व्यवस्था वा तद्विरोधेनाप्रामाण्ये वा, तदा विपरीतं किं न स्यात् ? अपच्छेद-न्यायादेर्निरासात् । तेन पूर्वस्य द्वैतवाक्यस्य बाधेऽपि परस्याबाधाच्च । पूर्वस्या-प्यनुपसञ्जातविरोधित्वादिना प्राबल्यस्योक्तत्वाच्च । न च सलिलसृष्टिकालेक्षण-नामरूपव्याकर्तृत्वादिकं मानान्तरप्राप्तं, येन तद्वाक्यम् अनुवादकं स्यात् । तस्माद्-द्वैतवाक्यमध्यस्थम् अद्वैतवाक्यमुपांशुयाजवाक्यमध्यस्थ विष्ण्वादिवाक्यवत् पूर्वोत्तरद्वैतवाक्यानुसारेण नेयम् ।

किं च त्वया–

यावत् किञ्चित् भवेदेतदिदंशब्दोदितं जगत् ।

इदं सर्वं पुरा सृष्टेरेकमेवाद्वितीयकम् ।।

सदेवासीदिति व्याख्यातत्वात्सदभेदेन सत्त्वमुक्त्वा पुनरद्वितीयपदेन तन्निषेधे व्याघातः । न हि सदेवासीदित्यस्यासदासीदित्यर्थः । सद्व्यतिरेकेण नासी-दित्यर्थोक्तौ तु सविशेषणे हीति न्यायेन सदात्मकत्वं स्यात् । किञ्च न तावदेकशब्देन मिथ्यात्वसिद्धिः, तस्य मानान्तराविरुद्धानेकार्थत्वात् ‘एके मुख्यान्यकेवलाः’ इत्यमरोक्तेः । ‘एको गोत्रे’ इत्यत्रैकशब्दोऽयमन्यप्रधाना सहायसङ्ख्याप्राथम्यसमानवाचीति कैयटोक्तेश्च ।

ष्णान्ता षट्’ इति सूत्रे महाभाष्ये ‘एकशब्दोऽयं बह्वर्थः, सङ्ख्यायाम् एको द्वौ बहव इति, अस्त्यसहायवाची ‘एकाग्नय एकहलानि’ इति । अस्त्यन्यार्थे ‘प्रजामेका रक्षन्त्यूर्जमेका’ इत्याद्युक्तेश्च । ‘एको बहूनां यो विदधाति कामान्’ इत्यादौ सङ्ख्यादौ प्रयोगाच्च । सम्भवन्ति च ब्रह्मणि जीवादितोऽन्यत्व- प्राधान्यप्राथम्यानि । सृष्ट्यादौ सहायानपेक्षत्वं कुसमयप्राप्तनिर्गुणत्वनिषेधा-यैकत्वसङ्ख्याविधिः । नानारूपेषु निर्दोषत्वेन समानत्वं च । मन्मते एकं रूपमेको भाव इत्यादावपि सङ्ख्यार्थ एव । अत एवोत्तरत्र जीवादिष्व-सम्भावितजगत्स्रष्टृत्वादिनाऽन्यत्वादिसमर्थनम् ।

किञ्च त्वयापि–

वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः ।

वृक्षान्तरात्सजातीयो विजातीयश्शिलादितः ।।

तथा सद्वस्तुनो भेदत्रयं प्राप्तं निवार्यते ।

ऐक्यावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमात् ।।

इति वदतैकशब्दस्य स्वगतभेदनिषेधकत्वेन व्याख्यातत्वान्न तेन मिथ्यात्व सिद्धिः ।

अद्वैतसिद्धिः

ननु यद्यपि ‘सलिल एको द्रष्टा अद्वैत’ इत्यत्र सलिलशब्दस्य तत्सादृश्यस्वच्छत्वमात्र परत्वात् तस्य च सर्वमलासंसर्गित्वस्वरूपस्याद्वैतेऽप्युपपत्तेः, ‘सदेव सोम्येदमग्र आसीत्’ इत्यत्र चाग्रपदस्य ‘तदैक्षत नामरूपे व्याकरोत्’ इत्यादेश्च कालेक्षणनामरूपात्मकप्रपञ्च प्रापकस्याविद्यकद्वैतविषयकत्वेन वास्तवाद्वैतविरोधित्वाभावः तथापि ‘सदेव सोम्येदमग्र आसीत्’ इत्यनेन इदंशब्दोदितस्य विश्वस्य सदभेदेन सत्त्वमुक्त्वा पुनरद्वितीयपदेन तन्निषेधे व्याघातः । न हि ‘सदासीत्’ इत्यस्यासदासीदित्यर्थ इति चेन्न, सद्व्यतिरेकेण नासीदि त्यर्थस्यैव निषेधार्थत्वात् । विवृतं चैतद् भाष्यकारादिभिरारम्भणाधिकरणे । न च सद्व्यति रेकेणासत्त्वोक्तौ सदात्मना सत्यत्वमागच्छतीति वाच्यम् । आगच्छतु नाम । को हि ब्रह्मा भिन्नस्यासत्त्वसाधनाय प्रवृत्तो यो बिभीयात् । अद्वैतवाक्यस्य च षड्विधतात्पर्यलिङ्गवत्तया बलवत्त्वेनाविद्यकद्वैतप्रतिपादकत्वं सृष्ट्यादिवाक्यानामिति श्रवणस्वरूपनिरूपणे वेदान्तकल्प लतिकायामभिहितमस्माभिः, इहाप्यभिधास्यते षड्विधतात्पर्यलिङ्गानि प्रदर्शयद्भिः ।

अत एकविज्ञानेन सर्वविज्ञानप्रतिज्ञयोपक्रमात् ‘ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि’ इत्युपसंहाराच्च अद्वैतस्यैव महाप्राकरणिकतया तदनुसारेण तद्वाक्यस्थपदानां व्याख्येयत्वावधारणात्, नानार्थपदानामर्थान्तरोपस्थापकत्वसम्भवेऽपि प्रकृतवाक्यार्थानन्वयि-तया तत्परित्यागेन प्रकृतवाक्यार्थानुकूलपदार्थोपस्थितिपरत्वमेवास्थेयम् ।

न्यायामृततरङ्गिणी

एको द्रष्टा एकमेवेति श्रुतेः सङ्कोचप्रयोजकं प्रत्यक्षविरोधमभिधाय पूर्वोत्तरविरोधं चाह– किं चेति ।। सलिलादीति ।। बृहदारण्यके षष्ठे प्रपाठके ‘सलिल एको द्रष्टाऽद्वैतो भवति एष ब्रह्म लोकः सम्राडिति हैनमनुशशास याज्ञवल्क्यः एषास्य परमा गतिरेषास्य परमा सम्पदेषोस्य परमो लोक एषोस्य परमानन्द एतस्यैवानन्द-स्यान्यानि भूतानि मात्रामुपजीवन्ति’ इत्यत्र सलिलादिपदेन विरोध इति सम्बन्धः ।। कालेति ।। छान्दोग्ये ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ इत्युपक्रम्य ‘तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत’ इति तेजोबन्नानां सृष्टिमुक्त्वा ‘सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकर-वाणीति तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं देवतेमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत्तासां त्रिवृतं त्रिवृतमेकैकामकरोत्’ इत्यादौ कालादिप्रापकैर्विरोध इत्यर्थः ।

ननु बृहदारण्यके सलिलादिपदैर्न विरोधः । तत्र हि सलिलपदं न सप्तम्यन्तं जल वाचकम् किन्तु प्रथमान्तं स्वच्छगुणपरम् । तदुक्तं बृहदारण्यकभाष्ये– ‘सलिल वत्स्वच्छीभूतः । सलिल एव सलिलः’ इति । मैवम् । षलगतौ अस्माद्धातोरौणादिके इलच्प्रत्यये नपुंसकलिङ्गस्य सलिलशब्दस्य जल एव युक्तत्वेन लक्षणादिनोक्तार्थ- त्वानुपपत्तेः । ‘कं स्विद्गर्भं प्रथमं दध्र आपः तमिद्गर्भं प्रथमं दध्र आपः’ इति स्पष्टार्थ श्रुतौ, बृहदारण्यके च ‘आप एवेदमग्र आसुस्ता आपः सत्यमसृजन्त’ इत्यादिनाऽपां सृष्टेः पूर्वं सत्त्वस्य सत्यजगत्सर्जकत्वस्य चोक्तेः । श्रुत्यन्तरे च ‘नासदासीन्नो सदासीत्’ इति सृष्टितः पूर्वं सर्वं निषिध्यापि ‘अप्रकेतं सलिलं सर्वमा इदम्’ इति सलिलस्य सत्त्वोक्तेश्च । आः आसीत् । तिप्यनस्तेरिति पर्युदासाद्दकाराभावः । एतच्च यद्यपि माधवीयभाष्ये सलिलमिति लुप्तोपमा । सलिलमिव । यथा क्षीरेणा- विभागापन्नं नीरं दुर्विज्ञानं तथा तमसाऽविभागापन्नं जगन्न शक्यविज्ञानमिति व्याख्यातं तथापि तथा व्याख्याने सलिलशब्दे लक्षणापत्तिः उक्तवक्ष्यमाणसलिल-प्रापकानेकश्रुतिविरोधश्च । अतो यथाश्रुतमेवारम्भणाद्यधिकरणटीकोक्तप्रकारेण व्याख्यातव्यम् ।

आपो वा इदमग्र आसन् सलिलमेव स प्रजापतिरेकः पुष्करपर्णे समभवत् तस्यान्तर्मनसि कामः समवर्तत इदं सृजेयमिति’ । तस्मात्पुरुषो मनसाऽभिगच्छति तद्वाचा वदति तत्कर्मणा करोति तदेषाभ्युक्ता । कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् । सतो बन्धुमसति निरविन्दन् हृदि प्रतीष्या कवयो मनीषा’ इति । अयं मन्त्रो माधवीयभाष्ये व्याख्यातः । अग्रे अस्य विकारजातस्य सृष्टेः प्रागवस्थायां परमेश्वरस्य मनसि कामः समवर्तत परमेश्वरस्य सिसृक्षाऽजायत इत्यर्थः । मनसः रेतःसारभूतं प्राणिभिर्मनसा क्रियमाणम् । प्रथमं पूर्वकल्पोपार्जितं कर्म यत्तदप्यासीत् । एवं स्वेच्छयाऽनादिकर्मादिवशात्सतः सत्यभूतस्य प्रपञ्चस्य । बन्धु बन्धकं निर्मातारं सर्वेश्वरम् । कवयोऽतिक्रान्तदर्शिनः अतीतानागत-वर्तमानाभिज्ञाः योगिनः । मनीषा मनीषया बुध्द्या । सुपां सुलुगिति तृतीयायाः लुक् । प्रतीष्य विचार्य । ‘अन्येषामपि दृश्यते’ इति संहितायां दीर्घः । असति दीनरूपे । हृदि हृदये । निरविन्दन् अजानन् इत्यर्थः’ इति । अनेन प्रपञ्चस्य मिथ्यात्वमपि निरस्तं भवति । टीकाकारैस्तु सतो मुख्यवायोः बन्धुं मित्रमिति व्याख्यातम् ।

आपोह यद्वृहतीर्विश्वमायन् गर्भं दधाना जनयन्तीरग्निम् ।

ततो देवानां समवर्ततासुरे कः कस्मै देवाय हविषा विधेम ।। इति ।

अस्यार्थो माधवीये– बृहतीः बृहत्यः । ‘जसि वा च्छन्दसि’ इति पूर्व-सवर्णदीर्घः । बृहन्महतोरुपसङ्ख्यानमिति ङीप उदात्तत्वम् । अग्न्युपलक्षितं सर्वं वियदादिप्रपञ्चजातं जनयन्तीः जनयन्त्यः । तदर्थं गर्भं हिरण्मयाण्डस्य गर्भभूतं प्रजापतिम् । दधानाः आपोह आप एव । विश्वमायन् जगदापूरयन् । यद् यस्मात्तस्माद्धेतोर्देवानां देवादीनां सर्वेषां प्राणिनाम् । असुः प्राणभूतः । एकः मुख्यः प्रजापतिः समवर्तत समजायत । एवं भूताय कस्मै प्रजापतिजनयित्रे । क्रियाग्रहणं कर्तव्यमिति कर्मणः सम्प्रदानत्वम् । हविषा प्राजापत्यस्य पशोर्वपारूपेण एककपालपुरोडाशरूपेण हविषा । विधेम परिचरेम । अत्रेन्द्रो वै वृत्रं हत्वा सर्वाविजितीत्यादि तृतीयपञ्चिकाद्ब्राह्मणं कशब्दव्याख्यानरूपं ज्ञेयम् । अग्रिम-मन्त्रोप्येतत्समानार्थोऽवगन्तव्यः ।।

सृष्टिकालेति ।। छान्दोग्ये अग्र इति सृष्टिकालः ईक्षणं नामरूपव्याकरणं चेत्यर्थः ।। द्वैतवाक्येति ।। सलिलादिलक्षणदोषमभिधाय पुरोडाशयोरन्तराले अजामित्वकरं किञ्चित्कर्म विधित्सितमिति जामित्वाजामित्वयोरेकवाक्यत्वाव-सायात्तन्मध्यपतितानि विष्ण्वादिवाक्यानि उपांशुयाजवाक्यविहितकर्मस्तुति-पराणीत्यवसीयते । इत्थमयं महाभाग उपांशुयाजः यत्र विष्ण्वादयो देवता विकल्पे-नेज्यन्ते तस्माज्जामित्वाजामित्वोपक्रमोपसंहारयोरन्तरालयुक्तोपांशुयाजवाक्य-विषयत्वात्तत्रैव पञ्चमलकारकल्पनया यागविधिः । न च रूपालाभः । ध्रौवाज्यस्य साधारणस्य सत्त्वात् । याज्यानुवाक्याकाण्डगताग्नेयाग्नीषोमीययाज्यानुवाक्यायुगल-मध्याम्नानरूपक्रमप्रमाणावगततदङ्गभाववैष्णवप्राजापत्याग्नीषोमीययाज्यानुवाक्या-युगलत्रयरूपमन्त्रवर्णप्रापितविकल्पितविष्ण्वादिदेवतासत्त्वाच्च । प्रत्युत विष्ण्वादि-वाक्य एव देवताऽलाभः । तत्प्रतिपादकस्य तद्धितादेरभावात् । तदुक्तं वार्तिके ।

तद्धितेन चतुर्थ्या वा मन्त्रवर्णेन वा पुनः ।

देवतासन्निधिस्तत्र दुर्बलं तु परात्परम् ।। इति ।

तस्माद्विष्ण्वादिवाक्यानामविधायकत्वादुपांशुयाजवाक्यं नानुवादः । तदुक्तं वार्तिके–

प्रकृतानामसद्भावाद्गम्यते नानुवादिता ।

यागो विष्ण्वादिसंयुक्तैर्न हि वाक्यैर्विधीयते ।। इति ।

मध्यस्थेति ।। यद्यपि राणकोदाहृते वाक्ये मध्ये विष्ण्वादयो न पठ्यन्ते तथापि भाष्यकारीयोदाहृतवाक्यमध्ये विष्ण्वादयः पठ्यन्त इति न कोऽपि दोषः ।। कैय्यटोक्ते-रिति ।। एको गोत्र इत्यत्र पदमञ्जर्यामप्युक्तं एकशब्दोऽयमन्यप्रधानासहायसङ्ख्या प्रथमसमानसाधारणवाची । अन्यार्थे तावत् एकान्याभ्यां समर्थाभ्याम् । प्रजामेका रक्षत्यूर्जमेका । एकां न बन्धुरपरां मनुजां निरासुः । एकः पुरुषो धनुष्मानिति प्राधान्यार्थे । आद्यन्तवदेकस्मिन् । एकहलादौ पूरयितव्ये । अत एकहल्मध्येनादेशादेरित्यादावसहायार्थे । एको द्वौ बहव इति सङ्ख्यार्थे । एके अल्पप्राणा इति प्रथमार्थे । तेनैकदिगिति समानार्थे । देवदत्तयज्ञदत्तावेकधनाविति साधारणार्थ इति ।।

महाभाष्य इति ।। ष्णान्ता षडिति सूत्रे अष्टानामित्यत्र अष्टन आविभक्ताविति आत्वे कृते नकारान्तत्वाभावात् षट्संज्ञा न प्राप्नोति । ततश्च षट्चतुर्भ्यश्चेति नुडपि न प्राप्नोतीति चोदयित्वा षट्संज्ञायामुपदेशवचनं शताद्यष्टनार्थमिति समाधाय समाधानान्तरमुक्तम् । अथवा आकारोऽप्यत्र निर्दिश्यते षकारान्ता नकारान्ता आकारान्ता च सङ्ख्या षट् संज्ञा भवतीति । ननु यद्याकारान्ता सङ्ख्या षट्संज्ञा तर्हीहापि प्राप्नोति एकास्ता इत्याबन्तस्यैकशब्दस्य बहुवचने जसि आकारान्तत्वेन षट्संज्ञायां षड्भ्यो लुगिति लुक् प्राप्नोतीत्यादिपुनश्चोदयित्वा नैष दोषः एकशब्दोऽयं बह्वर्थः अस्त्येव सङ्क्यापदं तद्यथा एको द्वौ बहव इत्यादिना बह्वर्थत्वमभिधाय तयान्यार्थे वर्ततेऽस्यैष प्रयोग इति समाधानावसरे एकशब्दः सङ्ख्याद्यर्थ उपपादितो महाभाष्ये इत्यर्थः ।। अस्तिसङ्ख्यार्थ इति ।। अयं चास्त्येव सङ्ख्यापदमिति भाष्यवाक्यस्यार्थानुवाद इति बोध्यम् ।

अस्त्यसहायेति ।। न चात्रोपचारादिनाऽसहायाद्यर्थत्वमिति वाच्यम् । असहायैरित्यर्थः इत्यादिना महाभाष्ये एकशब्दस्यार्थकथनादिति भावः ।। अस्त्यन्यार्थ इति ।। अन्यार्थे अस्ति वर्तत इत्यर्थः ।। एको बहूनामिति ।। अत्र सङ्ख्यार्थकबहुशब्दप्रतिद्वन्द्वी एकशब्द एकत्वसङ्ख्यार्थ इत्यर्थः । आदिपदेन ‘एकश्चरन्नुपशाकेभिरिन्द्र एको वृत्राणि तोशसे एकश्चित्सन्नभिभूतिः’ इत्यादौ माधवीयभाष्यानुसारेण । वधीर्हि दस्युमिति हिशब्दलब्धाबाधितप्रसिध्या ‘सत्रा त्वं पुरुष्टुत’ इति सत्राशब्देन एकश्चित्सन्निति सच्छब्देन सत्यभूतासहायार्थत्वम् । तथा ‘‘आपो भूयिष्ठा इत्येकोऽब्रवीदग्निर्भूयिष्ठ इत्यन्योऽब्रवीद् वर्धयन्ती बहुभ्य एकोऽब्रवीत् ऋता वदन्तश्चमसा अपिंशत । बभ्रुरेको विषुणः सूनरो युवांज्यंक्ते हिरण्मयम् । योनिमेक आससाद द्योतन’’ इत्यादावन्यार्थत्वं च दर्शितम् ।

कैयटोक्तानेकशब्दार्थान् ब्रह्मणि योजयति– सम्भवन्ति चेति ।। ननु सङ्ख्या-रहितगुणादावेकशब्दप्रयोगान्न तस्य तदर्थत्वमत आह– मन्मत इति ।। अत एवेति ।। एकशब्दस्यान्याद्यर्थत्वादित्यर्थः । द्वितीयाभावाद्यर्थत्वे हि तद्विरोधिद्वितीयं जगन्नोच्येतेति भावः ।। जगदिति ।। तेजःप्रभृतीत्यर्थः ।। स्वगत इति ।। पत्रादि सहितस्य वृक्षत्वेऽपि वृक्षस्य मूलमित्यादिभेदव्यपदेशाद्भेदः सम्भवतीत्यर्थः ।। सजातीय इति ।। भेद इत्यनुषङ्गः ।। प्रतिषेधैरिति ।। बोधितैरिति शेषः ।। त्रिभिरिति ।।

न्यायामृतकण्टकोद्धारः

एवं प्रमाणान्तरविरोधादद्वैते तात्पर्यं नेत्युक्तम् । इदानीं पूर्वोत्तरविरोधादपि नाद्वैते तात्पर्यमित्याह किञ्चेति । ननु द्वैतवाक्यस्य प्रामाण्याभावात् कथं तेन विरोध इत्यत आह प्रामाण्यस्येति । प्रामाण्यस्य च स्वतस्त्वानङ्गीकारेऽद्वैतवाक्यस्यापि तन्न सिध्येत् । ग्राहकाभावात् । नन्वद्वैतवाक्यविरोधात् द्वैतवाक्यस्य विषयान्तरमप्रामाण्यं वा कल्प्यमित्यत आह यदि चेति । ननु कथं वैपरीत्यम् ? अद्वैतवाक्यस्य ‘एकविज्ञाने सर्वविज्ञानम्’ इति प्रतिज्ञयोपक्रमात्, ‘ऐतदात्म्यमिदं सर्वम्’ इत्युपसंहारादद्वैतस्य महाप्रकरणितया प्राबल्यात् तदनुसारेणेतरस्य व्याख्येयत्वात् । तथा च न वैपरीत्यमिति चेद् भवेदेतद् यद्युपक्रमोऽद्वैतपरः स्यात् उपसंहारो वा । तदेव न युज्यते । प्रमाणान्तर-विरोधेन स्वपदविरोधेन चोपक्रमोपसंहारयोरद्वैतपरत्वस्यैवायोगात् । उपक्रमादेः प्राधान्या-द्यर्थतया व्याख्यास्यमानत्वाच्च । अन्यथा ‘असद्वा इदमग्र आसीत्’ इत्याद्युपक्रमादेर-सत्परत्वेनासतः प्राकरणिकत्वात् तदनुसारेण सदेवेत्यादिवाक्ययोजना स्यादिति बौद्धराद्धान्तप्रवेशः । नन्वपच्छेदन्यायेनोत्तरेण पूर्वबाधः स्यादित्यत आह– अपच्छेद-न्यायादेरिति । ननु सलिलादिकस्य प्रमाणान्तरप्राप्तत्वादनुवादकत्वेन तद् वाक्यम-प्रमाणमित्यत आह न चेति । तर्हि कोऽर्थोऽद्वैतश्रुतेरित्यत आह तस्मादिति । पूर्वोत्तरप्रमाणान्तराविरोधेनार्थः कर्तव्य इत्यर्थः ।

उपांशुयाजवाक्यमध्यस्थविष्ण्वादिवाक्यवदिति । द्वितीयाध्याये द्वितीयपादे चतुर्थाधिकरणे चिन्तितम् । ‘पौर्णमासीवदुपांशुयाजः स्यात्’ । दर्शपूर्णमासयोः श्रूयते । ‘जामिवा एतद् यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशौ । उपांशुयाजमन्तरा यजति । विष्णुरुपांशु यष्टव्योऽजामित्वाय । प्रजापतिरुपांशु यष्टव्योऽजामित्वाय । अग्नीषोमावुपांशु यष्टव्यावजामित्वाय’ इति । तथाऽऽग्नेयाग्नीषोमीयपुरोडाशयाज्यानुवाक्यायुगलमध्ये वैष्णव प्राजापत्याग्नीषोमीययाज्यानुवाक्यायुगलान्याम्नातानि शाखाभेदेन । तत्र सन्देहः । विष्ण्वादिवाक्येषु त्रिषु यागविधयः । उपांशुयाजवाक्यं तु तत्समुदायानुवादः उतोपांशुयाज वाक्ये यागविधिः, विष्ण्वादिवाक्यत्रयं तदर्थवादः इति । पूर्वपक्षस्तु विष्ण्वादिवाक्य एव विधिः स्वीकर्तव्यः । विध्यर्थकतव्यप्रत्ययस्य श्रवणात् । न च रूपालाभान्न विध्यर्थतेति वाच्यम् । साधारणध्रौवाज्यस्य सत्वेन द्रव्यसत्वात् । विष्ण्वादिश्रवणेन देवता सत्वाच्च । द्रव्यदेवतात्मकरूपलाभसम्भवात् ।

ननु वैश्वानरवाक्ये यदष्टाकपालो भवतीत्यादिवाक्यानां द्वादशकपालवाक्यैक-वाक्यतावत् जामितादोषोपक्रमतन्निर्हरणान्तैकवाक्यतैव विष्ण्वादिवाक्यस्य स्वीकर्तव्येति चेन्न । दृष्टान्तदार्ष्टान्तिकयोः वैषम्यात् । तथा हि ‘यदष्टाकपालो भवति’ इत्यत्र विधिपुरुषव्यापारयोरश्रवणात् यच्छब्दोपबन्धाद् वर्तमानापदेशेनार्थवादस्वरूपत्वाद् द्वादश-कपालं निर्वपेदिति द्वादशकपालवाक्ये विधियुक्तभावनाश्रवणात् तदुपक्रमोपसंहारवर्तिना-मष्टत्वादीनां तदेक वाक्यत्वं न बाधितव्यम् । इह तु सत्यपि जामित्वाजामित्वोप-क्रमोपसंहारमध्यावर्तित्वे यच्छब्दाभावात् विधियुक्तपुरुषव्यापारश्रवणात् अजामित्वायेति प्रत्येकमुक्त्वा जामितादोष परिहारप्रशंसावगमात् वाक्यभेदमङ्गीकृत्य विधित्वमेव स्वी-कर्तव्यम् । न चोपांशुयाजवाक्यमेव विधायकमस्त्विति वाच्यम् । तत्र यजतीति वर्तमानापदेशेन विधित्वासम्भवात् ध्रौवद्रव्यलाभेऽपि देवतायाः सर्वथाऽलाभात् । तस्माद् विष्ण्वादिवाक्यमेव विधायकम् । उपांशुयाजवाक्यं च समुदायानुवाद इति कथमुक्तं विष्ण्वादिवाक्यवत् अद्वैतवाक्यं पूर्वोत्तरानुसारेण नेयमिति ।

सिद्धान्तस्तु ‘जामिवा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशौ’ इति पुरोडाशनैरन्तर्ये जामितादोषाभिधानात् उपक्रम एवैतदवगतं नूनमन्तराले किञ्चिद् विधित्सितम् । तथा मध्ये करणादेवाजामित्वगुणेन प्रशंसिषितमिति । किं तद्विधेयम् । अन्तरालसंयुक्तं विधेय मिति । एवं च विष्ण्वादिवाक्ये न विधिः । तत्रान्तरालसंयोगाभावात् । अन्तरालेऽ-विहितानां च नाजामित्वेन प्रशंसाऽवकल्पते । पुरोडाशनैरन्तर्याज्जामिता स्यात् । अतोऽ-न्यत्र क्वचिद् विष्ण्वादयो यष्टव्या इत्यसङ्गतम् । किञ्च विष्ण्वादिवाक्ये विधित्वाङ्गीकारे जामितादोषोपक्रमाजामित्वोपसंहारैकरूप्यप्रतीतैकवाक्यत्वभङ्गः स्यात् । तस्मादुपांशु याजवाक्य एव विधिः । अन्तरालसंयोगश्रवणात् । न च यजतीति वर्तमानापदेशान्न विधित्वमिति वाच्यम् । पञ्चमलकारताकल्पनात् । न च रूपालाभः । ध्रौवाज्यसद्भावात् । याज्यानुवाक्यकाण्डे आग्नेयाग्नीषोमीययाज्यानुवाक्ययुगलद्वयमध्याम्नानलक्षणक्रमप्रमाण-प्रमापिताङ्गभाववैष्णवप्राजापत्याग्नीषोमीययाज्यानुवाक्यायुगलत्रयरूपमन्त्रवर्णप्रापित-वैकल्पिक विष्ण्वादिदेवतासद्भावाच्च रूपलाभसम्भवात् । तस्मादुपांशुयाजवाक्यमेव विधिः । विष्ण्वादिवाक्यं तूपक्रमोपसंहारानुसारेण तदर्थवाद इति । एवमेवाद्वैतवाक्यमप्युपक्रमोप-संहारानुसारेण नेयमिति भावः ।

न केवलम् अद्वितीयपदस्य द्वितीयमात्रनिषेधपरत्वे प्रत्यक्षविरोधः पूर्वोत्तरविरोधश्च । किन्तु स्वकृत सदेवेत्येतद्व्याख्यानविरोधश्चेत्याह किञ्चेति । न हीति । अपदार्थत्वात् अवाक्यार्थत्वात् । न ह्यात्मैवासीदित्यस्यानात्मासीदित्यर्थः इति भावः । सविशेषणे हीति न्यायेनेति । सविशेषणे विधिनिषेधौ विशेषणमुपसङ्क्रामतः सति विशेष्ये बाधे । यथा स्वर्गी ध्वस्त इत्यत्र विशिष्टध्वंसासम्भवे विशेषणीभूतस्वर्मात्रपरत्वं, तथेहापि विशिष्टा-सत्वासम्भवे विशेषणीभूतसद्व्यतिरेकासत्वे सदात्मकत्वमेव पर्यवस्यतीत्यर्थः । नन्वेकशब्द-स्यानेकार्थत्वमेव कुत इत्यत आह एक इति । ष्णान्ता षडिति सूत्र इति । अत्र सूत्रे महाभाष्ये एकशब्दानेकार्थोक्तौ का प्रसक्तिरिति चेदित्थम् ष्णान्ता षडिति सूत्रे उपदेशग्रहणं कर्तव्यम् । अन्यथाऽष्टानामित्यत्राष्टन आ विभक्तावित्यनेनात्वे कृते नान्तत्वाभावेन षट्संज्ञाभावे षट्चतुर्भ्यश्चेति नुट् न प्राप्नोति । उपदेशग्रहणे भविष्यतीत्येवं वार्तिककारेणोक्ते प्रत्याख्यातं भाष्यकारेण । ष्णान्ता षडित्यत्राकारः प्रश्लिष्यते । एवं च षान्ता नान्ता आन्ता सङ्ख्या षट्संज्ञा स्यादित्यर्थः स्यात् । तथा चात्वे कृतेऽप्यान्तत्वात् षट्संज्ञा भविष्यतीति । नन्वेवमेकास्त इत्यत्रापि स्यादित्याक्षिप्ते एकशब्द-स्यानेकार्थत्वादन्यार्थ त्वोपपत्तेरिति वक्तुमेकशब्दस्यानेकार्थत्वोक्तिप्रसक्तिरिति भावः ।

ननु वेदे सङ्ख्यादावेकशब्दस्य प्रयोगादर्शनात् कथमेतदित्यत आह एक इति । ननु भवत्वेकशब्दोऽनेकार्थस्तथापि तस्य प्रकृतेऽसम्भवात् मिथ्यात्वपरत्वमेव स्वीकर्तव्यमित्यत आह सम्भवन्ति चेति । जीवादितोऽन्यत्वेऽनुमानागमविरोधः परिहृतः, परिह्रियते चेति भावः । एकशब्दस्यान्याद्यर्थत्वे युक्तिमप्याह अत एवेति । एकशब्दस्य मिथ्यात्वपरत्वेन व्याख्याने स्वकृतव्याख्यानविरोध इत्याह किञ्चेति ।

न्यायामृतप्रकाशः

पूर्वं मानान्तराविरुद्धः पूर्वोत्तराविरुद्धश्चार्थो वर्णनीय इत्युक्तम् । तत्रैकमेवेति श्रुते-र्मानान्तरेण प्रत्यक्षेण विरोधमुक्त्वा पूर्वोत्तरविरोधं चाह– किं चेति ।। बृहदारण्यक वाक्य-मिदम् । औतो भवतीत्यत्र द्वितीयमात्रनिषेधे सलिलादिपदेन विरोध इति सम्बन्धः । सदेवेति छान्दोग्यवाक्यम् । पूर्वेण एकमेवेत्यतः पूर्ववाक्येन । ननु द्वैतस्य सत्यत्वं न सिद्ध्यतीति चेत्तत्राह– प्रामाण्यस्येति ।। लक्षणादिनेति ।। विरुद्धधर्मप्रतिपादकवाक्यस्य भागत्यागलक्षणयाऽद्वैतपरत्वम् ।। अतात्विकेति ।। अतात्विकभेदेत्यर्थः । तद्विरोधेन अद्वैतवाक्यविरोधेन ।। विपरीतमिति ।। अद्वैतवाक्यस्य द्वैतवाक्यविरोधेनाप्रामाण्यादिक मित्यर्थः । ननु निषेध्यभेदप्रापकतया पूर्वस्य भेदप्रत्यक्षादेः परेण तन्निषेधकेनाद्वैतवाक्येनाप च्छेदन्यायेन बाधोऽस्त्विति चेत्तत्राह– अपच्छेदेति ।। अत्र चाद्वैतागमस्य पूर्वं भेदप्रापकं वाक्यमुपजीव्यम् । न ह्यपच्छेदे पूर्वमुपजीव्यमिति निरस्तमित्यर्थः ।

अपच्छेदन्यायमङ्गीकृत्याप्याह– तेनेति ।। परेणाभेदागमेनेत्यर्थः । अस्माभिरद्वैत वाक्यस्य पूर्वोत्तरद्वैतवाक्यविरोध उक्तोऽस्ति तत्रापच्छेदन्यायेन परेणाद्वैतवाक्येन पूर्वस्य सदेवेत्यादेर्द्वैतवाक्यस्य बाधेऽपि परस्योत्तरत्र तदैक्षतेत्यादेर्न बाध इत्यर्थः । पूर्वस्यापि द्वैतागमस्य न परेण बाध इत्याह– पूर्वस्यापीति ।। नन्वनुवादकत्वान्न द्वैतागमानां सलिलेत्यादिपूर्वोत्तरवाक्यानां स्वार्थे तात्पर्यमित्यत आह– न चेति ।। मध्यस्थं सन्दष्टम् ।

उपांशुयाजेति ।। द्वितीयाध्याये द्वितीयपादे चिन्तितं ‘पौर्णमासीवदुपांशुयागः स्यात्’ इत्यत्र दर्शपौर्णमासयोराम्नायते ‘जामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशौ उपांशु याजमन्तरा यजति । विष्णुरुपांशु यष्टव्योऽजामित्वाय प्रजापतिरुपांशु यष्टव्योऽजामित्वाय अग्नीषोमावुपांशु यष्टव्यावजामित्वाय’ इति । तत्र संशयः । विष्ण्वादिवाक्येषु त्रिषु याग विधयः उपांशुयागवाक्यं तु तत्समुदायानुवादः उतोपांशुयागवाक्ये यागाविधिः विष्ण्वादि वाक्यत्रयं तदर्थवाद इति । तत्र विष्ण्वादिवाक्येषु तव्यप्रत्ययश्रवणात् ‘यद्धु्रवायामाज्यम्’ इति ध्रुवाज्यरूपद्रव्यसत्त्वात् विष्ण्वादिरूपदेवताश्रवणेन द्रव्यदेवतात्मकरूपलाभाच्च तेष्वेव विधयो न तूपांशुयागवाक्ये वर्तमानापदेशात् । ‘ध्रौवं साधारणद्रव्यम्’ इति साधारणध्रौवाज्य रूपद्रव्यलाभेऽपि देवताया अलाभाच्चेति तद्यागत्रयसमुदायानुवाद इति पूर्वपक्षः ।

सिद्धान्तस्तु– ‘जामिता वा एतत्’ इत्याद्युपक्रमे पुरोडाशद्वयनैरन्तर्यप्रयुक्तजामितादोष सङ्कीर्तनेन तन्निर्हरणाय तदन्तराले पुरोडाशद्रव्यककर्मभिन्नं किञ्चित्कर्म विधित्सितमिति प्रथम मेवावगमात् जामितादोषोपसंहाराच्च तदुभयसन्दष्टं विष्ण्वादिवाक्यं उपांशुयाजवाक्यविहित यागस्तावकतयाऽर्थवादः । न चोपांशुयाजवाक्ये विधिप्रत्ययो न श्रूयत इति वाच्यम् । लकार व्यत्ययाङ्गीकारात् । विष्ण्वादिवाक्यस्थतव्यप्रत्ययैतद्वाक्यस्थलटोर्वा विनिमयाङ्गी-कारात् । द्रव्यं तु ध्रौवाज्यं मान्त्रवर्णिको विष्ण्वादिरेव देवतेति न रूपालाभः । यथोक्तम् । ‘ध्रौवं साधारणं द्रव्यं देवता मान्त्रवर्णिकी’ इति ।

इदंशब्देति ।। इदमस्येति व्याख्यानान्तरमस्य न सम्मतमित्याशयः । इदं एकमेव सदेव सच्छब्दोदितब्रह्मात्मकमेवासीदित्यर्थः । सदभेदेन सच्छब्दोदितब्रह्मात्मकत्वेन । तन्निषेधे द्वितीयस्य सत्त्वनिषेधे । ननु न व्याघातः । अद्वितीयपदेन द्वितीयस्य सत्त्वनिषेधेऽपि तदनुसारेण सदेवासीदित्यस्यापीदं सर्वमसदासीदित्यर्थो वर्ण्यत इति मन्दाशङ्कां परिहरति ।। न हीति ।। सविशेषणे हीति ।। जगति नासीदित्युक्तासत्त्वस्य बाधितत्वात्सद्व्यतिरिक्तत्व- मुपसङ्क्रामतीत्यर्थः ।। सदात्मकत्वमिति ।। सदात्मकतया आसीदित्यर्थः । किञ्च ‘एकमेवाद्वितीयम्’ इत्यत्र मिथ्यात्वबोधकशब्दः क इति विचारयति– किं चेति ।। प्रजामिति ।। एका देवता प्रजां रक्षति एका अन्या ऊर्जमन्नं रक्षतीत्यर्थः । एकः एकत्व सङ्ख्याविशिष्टो भगवान् । अत्र सङ्ख्यार्थकबहुशब्दप्रतिद्वन्द्वी एकशब्दः सङ्ख्यार्थक एवेति इति भावः । एवमुपपादितान् एकशब्दार्थान् अन्यत्वादीन् प्रकृते भगवति योजयति– सम्भवन्ति चेति ।। एकत्वसङ्ख्येति ।। एकत्वसङ्ख्यारूपगुणविधिरित्यर्थः ।

ननु सङ्ख्यादिरहिते गुणादावप्येकशब्दप्रयोगान्न तदर्थकत्वमित्यत आह– मन्मत इति ।। गुणादिषट्कस्य निर्गुणत्वप्रक्रियामनङ्गीकर्तुरित्यर्थः ।। अत एवेति ।। एकशब्दस्या- न्यत्वाद्यर्थत्वादेवेत्यर्थः । द्वितीयाभावाद्यर्थत्वे तु विरोधिद्वितीयं नोच्येतेत्यर्थः ।। जगदिति ।। तेजः प्रभृतीत्यर्थः ।। ऐक्येति ।। ऐक्यादिबोधकैस्त्रिभिरेकादिपदैः ।

न्यायकल्पलता

यावद्विशेषानालिङ्गितसामान्याभावात्सामान्यतः श्रुतयोऽन्यपरा इत्युक्तं विविनक्ति– किञ्चेति । ‘एको द्रष्टा’ । ‘एकमेव’ इति श्रुतेः सङ्कोचप्रयोजकं प्रत्यक्षविरोधं चाह–  सलिलादीति । बृहदारण्यके षष्ठे प्रपाठके ‘सलिल एको द्रष्टाऽद्वैतो भवत्येष ब्रह्म लोकः सम्राडिति ह्यैनमनुशशास याज्ञवल्क्य एषाऽस्य परमा गतिरेषाऽस्य परमा सम्पदेषोऽस्य परमो लोक एषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ इत्यत्र सलिलादिपदेन ‘विरोधः’ इति सम्बन्धः ।। कालेति । छान्दोग्ये ‘सदेव सोम्येदमग्र आसीद् एकमेवाद्वितीयम्’ इत्युपक्रम्य ‘तदैक्षत बहुस्यां प्रजायेयेति तत्तेजोऽसृजत’ इति तेजोऽ-बन्नानां सृष्टिमुक्त्वा ‘सेयं देवतैक्षत हन्ताऽहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं देवतेमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरोत्’ इत्यादौ कालादिप्रापकैर्विरोध इत्यर्थः । इदमिति षष्ठ्यर्थे प्रथमा । ‘व्यत्ययो बहुलम्’ इति सूत्रात् । अस्य यथायथं प्रत्यक्षादि प्रमाणप्रमितस्य सृज्यवर्गस्य, सृष्टेः पूर्वं सत् स्वतन्त्रं ब्रह्मैव सदा पारमभवत् ।

सत्वं स्वातन्त्र्यमुद्दिष्टं तच्च कृष्णे न चापरे ।

उपचारात्तदन्येषामसत्वं विद्धि भारत ।। इति महाभारतोक्तेः ।

ननु बृहदारण्यके सलिलादिपदैर्न विरोधः । तत्र हि सलिलपदं न सप्तम्यन्तं जल-वाचकम् । किन्तु प्रथमान्तं स्वच्छगुणपरम् । सलिलशब्दस्य तत्सादृश्यस्वच्छत्वमात्र परत्वात् । तस्य च सर्वमलासंसर्गित्वरूपस्याद्वैतेऽप्युपपत्तेः । उक्तं च बृहदारण्यकभाष्ये– ‘सलिलवत्स्वच्छीभूतः सलिल इव सलिलः’ इति । मैवम् । ‘षल गतौ’ इत्यस्मा-द्धातोरौणादिके इलच्प्रत्यये नपुंसकलिङ्गस्य सलिलशब्दस्य जलवाचितैव युक्तेति लक्षणा-दिनोक्तार्थत्वानुपपत्तेः । ‘किंस्विद्गर्भं प्रथमं दध्र आपः तमिद्गर्भं प्रथमं दध्र आपः’ इति स्पष्टार्थकश्रुतौ, बृहदारण्यके च– ‘आप एवेदमग्र आसुस्ता आपः सत्यमसृजन्त’ इत्यादिनाऽपां सृष्टेः पूर्वं सत्वस्य सत्व जगत्सर्जकत्वस्य चोक्तेः ।

ऋग्वेदेऽपि– ‘नासादासीन्नोसदासीत्तदानीम्’ इति सृष्टिपूर्वं लयकाले मूर्तामूर्तात्मकं सर्वं निषिध्यापि ‘अप्रकेतं सलिलं सर्वमा इदम्’ इति सलिलस्य सत्वोक्तेश्च । आः आसीत् । ‘तिप्यनस्तेः’ इति पर्युदासाद्दकाराभावः । यद्यपि माधवीयभाष्ये सलिलमिति लुप्तोपमा सलिलमिव । यथा क्षीरेणाविभागापन्नं नीरं दुर्विज्ञानं, तमसाऽविभागापन्नं जगन्न शक्य-विज्ञानमिति व्याख्यातं तथापि तथा व्याख्याने सलिलपदे लक्षणापत्तिः । उक्तवक्ष्यमाण-सलिलप्रापकानेकश्रुतिविरोधश्च । अतो यथाश्रुतमेवारम्भणाधिकरणे टीकोक्तप्रकारेण व्याख्यातव्यम् । ‘आपो वा इदमग्र आसन् स प्रजापतिरेकः पुष्करपर्णे समभवत् । तस्यान्तर्मनसि कामः समवर्तत । इदं सृजेयमिति । तस्मात्पुरुषो मनसाभि(धि)गच्छति । तद्वाचा वदति । तत्कर्मणा करोति । तदेषाभ्युक्ता कामस्तदग्रे समवर्तताधि । मनसो रेतः प्रथमं यदासीत् । सतो बन्धुमसति निरविन्दन् हृदि प्रतीष्य कवयो मनीषा’ इति ।

अयं मन्त्रो माधवीयभाष्ये व्याख्यातः । अग्रेऽस्य विकारजातस्य सृष्टेः प्रागवस्थायाम् । तस्य परमेश्वरस्य मनसि कामः समवर्तत परमेश्वरस्य सिसृक्षा समजायतेत्यर्थः । मनसो रेतः सारम् । प्राणिभिर्मनसा क्रियमाणं प्रथमं पूर्वपूर्वकल्पोपार्जितं कर्म यत्तदप्यासीत् । एवं स्वेच्छया अनादिकर्मादिवशात् । सतः सत्यभूतस्य प्रपञ्चस्य बन्धुं बन्धकं निर्मातारं सर्वेश्वरम् । कवयः (अति)क्रान्तदर्शिनः अतीतानागतवर्तमानाभिज्ञा योगिनः । मनीषा मनीषया, बुद्ध्या । ‘सुपां सुलुक्’ इति तृतीयाया लुक् । प्रतीष्य विचार्य । अन्येषामपि दृश्यत इति संहितायां दीर्घः ।

संहितायां यत्र दैर्घ्यं पदे यत्र न विद्यते ।

उक्तार्थस्य महाधिक्यमृषिभिस्तत्र कीर्तितम् ।। इति वचनात् ।

असति दीनरूपे । हृदि हृदये । निरविन्दन् व्यजानन्नित्यर्थः, इति । अनेन प्रपञ्चस्य मिथ्यात्वमिति निरस्तं भवति । टीकाकारैस्तु सतो मुख्यवायोः बन्धुं मित्रमिति व्याख्या-तम् । ‘सदिति प्राणः’ इति श्रुतेः । ‘आपोह यद्बृहतीर्विश्वमायन् गर्भं दधाना जनयन्ती-रग्निम् । ततो देवानां समवर्ततासुरे कः कस्मै देवाय हविषा विधेम’ इति । अस्यार्थो माधवीये बृहतीः बृहत्यः । ‘जसि वा च्छन्दसि’ इति पूर्वसवर्णदीर्घः । ‘बृहन्महतोरुप-सङ्ख्यानम्’ इति ङीप उदात्तत्वम् । अग्निम् अग्न्युपलक्षितं सर्वं वियदादिप्रपञ्चजातं जनयन्तीः जनयन्त्यः । तदर्थं गर्भं हिरण्मयाण्डस्य गर्भभूतं प्रजापतिं दधानाः । आपोह आप एव विश्वमायन् सर्वं जगदापूरयन् । यत् यस्मात्तस्माद्धेतोः देवानां देवादीनां सर्वेषाञ्जीवानाम् असुः प्राणभूतः एकः मुख्यः प्रजापतिः समवर्तत समजायत । एवम्भूताय कस्मै विशिष्याशक्यनिर्वचनतत्तद्गुण गणगरिम्णे । प्रजापतिजनयित्रे । क्रियाग्रहणं कर्तव्य-मिति कर्मणः सम्प्रदानत्वम् । हविषा प्राजापत्यस्य पशोर्वपारूपेण एककपालपुरुरोडाश-रूपेण हविषा विधेम परिचरेम । अत्र इन्द्रो वै वृत्रं हत्वा सर्वाविजि(त्ये)तीत्यादि तृतीय-पञ्चिकाब्राह्मणं कशब्द व्याख्यानरूपं ज्ञेयम् । अग्रिममन्त्रोऽप्येतत्समर्थनार्थोऽवगन्तव्यः ।

नन्वेतदनुवादकमित्याशङ्क्य निषेधति– न चेति ।। सृष्टिकालेति । छान्दोग्ये ‘अग्र’ इति सृष्टिकालः । ईक्षणं नामरूपव्याकरणञ्चेत्यर्थः । द्वैतवाक्येति । सलिलादिसत्ताबोधक द्वैतवाक्यानुसारेण वक्ष्यमाणार्थपरतया द्वैतवाक्यं नेयमित्यर्थः ।। उपांशुयाजेति । द्वितीयाध्याये द्वितीयपादे विचारितम् ‘पौर्णमासीवदुपांशुयाजः स्यात्’ इति । दर्शपूर्णमासयोः श्रूयते ‘जामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशौ उपांशुयाजमन्तरा यजति विष्णुरुपांशु यष्टव्योऽजामित्वाय प्रजापतिरुपांशु यष्टव्योऽजामित्वाय अग्नीषोमावुपांशु यष्टव्यावजामित्वाय’ इति ।

तत्र संशयः । किं विष्ण्वादिवाक्यानि विधायकानि । ‘उपांशुयाजमन्तरा यजति’ इत्येतत्तु विसंवादिवाक्यत्रयविहितयागत्रयस्यानुवादः उतोपांशुवाक्यं यागविधिः, विष्ण्वादि वाक्यत्रयन्तु तदर्थवाद इति । तत्र पूर्वपक्षः । विष्ण्वादिवाक्यत्रये तव्यप्रत्ययदर्शनाद् ध्रौवाज्यसत्वेन विष्ण्वादिदेवताश्रवणेन च द्रव्यदेवतात्मकरूपलाभाच्च तेष्वेव विधयः । न तूपांशुयाजवाक्ये । वर्तमानापदेशात्सर्वयज्ञसाधारणध्रौवाज्यरूपद्रव्यलाभेऽपि देवताया अला-भाच्चेति तद्यागत्रयसमुदायानुवादः । तदुक्तं वार्तिके–

यागान्विष्ण्वादिसंयुक्तैर्विहितान् रूपवत्तया ।

अरूपमन्तरा वाक्यसङ्गत्यैवावलम्बते ।। इति ।

सिद्धान्तस्तु– कर्मविधायकमेव उपांशुयाजं यजतीति न समुदायानुवादः । विष्ण्वादि वाक्यानामविधायकत्वेनानुवाद्ययागानामप्रकृतत्वात् । तथा हि । ‘जामि वा एतत्’ इत्युपक्रमे दोषसङ्कीर्तनं कस्यचिद्विधीयमानस्याकां(ङ्क्षाक्षिप्त) क्षिततदपनयनद्वारेण स्तुत्यर्थमिति गम्यते । अजामिता च पुरोडाशयोरन्तराले कस्मिंश्चिद्विधीयमाने भवतीति यदन्तरालसंयोगेन विधास्यते तस्य जामित्वं प्रशंसेत्यवधारणादुपांशुयाजमन्तरा यजतीत्यस्य स्तुत्यर्हताऽवसीयते ।

एवञ्च यथा ‘वैश्चानरं द्वादशकपालं निर्वपेत्पुत्रे जाते’ इत्युपक्रान्तायाः वैश्वानरेष्टेः ‘यस्मिञ्जात एतामिष्टिं निर्वपति’ इत्युपसंहारेणैकवाक्यत्वावगमात्तन्मध्यपतिताः ‘यदष्टाकपालो भवति यन्नवकपालो भवतीत्याद्या न पृथग्विधित्वं प्रतिपद्यन्ते तथाऽत्रापि पुरोडाशयोर्नैरन्त-र्यानुष्ठानस्यालस्यापादकतया तत्र सोदर्यवाचिना जामिशब्देन(लक्षणया)सादृश्य लक्षणया सादृश्य लक्षणदोषमभिधाय पुरोडाशयोरन्तरालेऽजामित्वकरं पुरोडाशद्रव्यकभिन्नं किञ्चित्कर्म विधित्सितमिति जामित्वाजामित्वयोरेकवाक्यत्वावसायात्तन्मध्यपतितानि विष्ण्वादिवाक्यानि उपांशुयाजवाक्यविहितकर्मस्तुतिपराणीत्यवसीयते ।

इत्थमयं महाभाग उपांशुयाजः यत्र विकल्पेन विष्ण्वादिदेवता इज्यन्त (इति) तस्माज्जामित्त्वाजामित्वोपक्रमोपसंहारयोरन्तरालयुक्तोपांशुयाजवाक्यविषयत्वात्तत्रैव पञ्चमलकार कल्पनया यागविधिः । यजतीति लेटोऽडाटावित्यड् व्यत्ययेन साधु । न च रूपालाभः । धौवाज्यस्य साधारणस्य सत्वात् । याज्यानुवाक्याकाण्डगताग्नेयाग्नीषोमीयपशुयाज्यानुवाक्या युगलमध्याम्नानरूपप्रमाणावगत तदङ्गभाववैष्णवप्राजापत्याग्नीषोमीययाज्यानुवाक्यायुगलत्रयरूप मन्त्रवर्णप्रापितविकल्पितविष्ण्वादिदेवतासत्वाच्च । प्रत्युत विष्ण्वादिवाक्य एव देवतालाभः । तत्प्रतिपादकस्य तद्धितादेरभावात् ।

तदुक्तं वार्तिकम् ।

तद्धितेन चतुर्थ्या वा मन्त्रवर्णेन वा पुनः ।

देवतासन्निधिस्तत्र दुर्बलं तु परात्परम् ।। इति ।

तस्माद्विष्ण्वादिवाक्यानामविधायकत्वादुपांशुयाजवाक्यं नानुवादः । एवञ्च विष्ण्वादि वाक्यत्रयं मन्त्रवर्णप्राप्तविष्ण्वादिदेवतानुवादेन तद्दैवत्यतयोपांशुयाजस्तावकमिति । उक्तं हि वार्तिकम् ।

प्रकृतानामसद्भावाद्गम्यते नानुवादिता ।

यागो विष्ण्वादिसंयुक्तैर्न हि वाक्यैर्विधीयते ।। इति ।

मध्यस्थेति । यद्यपि राणकोदाहृते ‘जामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशौ उपांशुयाजमन्तरा यजत्यजामित्वायाथो मिथुनत्वाय’ इति तैत्तिरीयशाखागते उपांशुयाजवाक्ये मध्ये विष्ण्वादयो न पठ्यन्ते तथापि भाष्यकारशबरस्वामिरीत्याऽत्रोदाहृते वाक्ये विष्ण्वादयो मध्ये पठ्यन्ते इति तथोक्तमिति बोध्यम् । सद्व्यतिरेकेणेति । न च सद्ब्रह्मात्मना प्रपञ्चस्य सत्यत्वं नानिष्टमिति वाच्यम् । विरुद्धनानाकारस्य वियदादिप्रपञ्चस्याखण्डैकरसब्रह्माभेदस्यैवा नुपपन्नत्वात् । परिशेषेण ‘एकमेव’ इत्यादिवाक्यस्य मिथ्यात्वपरत्वं निषेधति– किञ्च न तावदिति ।। कैय्यटोक्तेश्चेति ।। ‘एको गोत्रे’ इत्यत्र पदमञ्जर्यामप्युक्तम् । ‘एक शब्दोऽयमन्यप्रधानासहायसङ्ख्याप्रथमसमानसाधारणवाची । अन्यार्थे तावत् ‘एकान्याभ्यां समर्थाभ्यां’ ‘प्रजामेका रक्षत्यूर्जमेका । एकान् बन्धुरपरान्निरासुः । एकः पुरुषो धनुष्मानिति

प्रधानार्थे । ‘आद्यन्तवदेकस्मिन्’ । एकहलादौ पूरयितव्येऽन्यतरस्याम् । अत एक हल्मध्येनादेशादेर्लिटीत्यादाविवासहायार्थे । एको द्वौ बहव इति सङ्ख्यार्थे । एकेऽल्पप्राणा इति प्रथमार्थे । तेनैका दिगिति समानार्थे । देवदत्तयज्ञदत्ता विवैकधनाविति साधारणार्थे’ इति ।

महाभाष्य इति । ‘ष्णान्ता षट्’ इति सूत्रे अष्टानाम् इत्यत्र अष्टन आ विभक्तौ’ इत्यात्वे कृते नकारान्तत्वाभावात् षट्संज्ञा न प्राप्नोति । ततश्च ‘षट्चतुर्भ्यश्च’ इति नुडपि न प्राप्नोतीति चोदयित्वा, षट्संज्ञायाम्, उपदेशवचनं शताद्यष्टनार्थमिति समाधाय समाधाना-न्तरमुक्तम् । ‘अथवा आकारोऽप्यत्र निर्दिश्यते । षकारान्ता नकारान्ता आकारान्ता च सङ्ख्या षट्संज्ञा भवति’ इति । ननु यद्याकारान्ता सङ्ख्या षट्संज्ञा भवति इहापि तर्हि प्राप्नोति । एकास्ता इति आबन्तस्यैकशब्दस्य बहुवचने जसि आकारान्तत्वेन षट्संज्ञायां ‘षड्भ्यो लुक्’ इति जसो लुक् प्राप्नोति । इत्यादि पुनश्चोदयित्वा । ‘नैष दोषः । एकशब्दोऽयं बह्वर्थः । अस्त्येव सङ्ख्यापदम् । तद्यथा । एको द्वौ बहवः’ इत्यादिना बह्वर्थत्वमभिधाय ‘तद्योऽन्यार्थे वर्तते तस्यैष प्रयोगः’ इत्यादिना समाधानाभिधानावसरे एकशब्दः सङ्ख्याद्यर्थ उपपादितो महाभाष्य इत्यर्थः ।

अस्ति सङ्ख्यार्थ इति । ‘अस्त्येव सङ्ख्यापदम्’ इति भाष्यवाक्यस्यार्थानुवादोऽयं इति बोध्यम् ।। अस्त्यसहायेति । न चोपचारादिनाऽत्रासहायार्थत्वमिति वाच्यम् ।। ‘असहायेत्यर्थः’ इत्यादिना महाभाष्ये एकशब्दस्यार्थकथनादिति भावः । अस्त्यन्यार्थे (वर्तते) इति । अन्यार्थेऽस्तीति । वर्तत इत्यर्थः । ऊर्जम् बलप्रदमन्नम् ।। एको बहूनामिति ।। अत्र सङ्ख्यार्थकबहुशब्दप्रतिद्वन्द्वी एकशब्द एकत्वसङ्ख्यार्थ इत्यर्थः । ‘एको बहूनामासि मन्य वीतिः’ । ‘त्वमेकोऽसि बहूननुप्रविष्टः’ । ‘भर्ता सन् भ्रियमाणो बिभर्ति’ । ‘एको देवो बहुधा निविष्टः’ इत्यादेरादिशब्देन ग्रहणम् । सङ्ख्यादौ इत्यादिपदेन ‘एकश्चरन्नुप शाकेभिरिन्द्र । ‘एको वृत्राणि तोशसे । एकश्चित्सन्नभिभूतीः’ इत्यादौ माधवीयभाष्यानुसारेण । ‘वधीर्हि दस्युम्’ इति हिशब्दलब्धाबाधितप्रसिद्ध्या ‘सत्रा त्वं पुरुष्टुत’ इति सत्राशब्देन ‘एकश्चित्सन्इति सच्छब्देन सत्यभूतासहायार्थत्वम् । तथा ‘आपो भूयिष्ठा’ इत्येकोऽब्रवी-

दग्निर्भूयिष्ठः’ इत्यन्योऽब्रवीत्’’ इत्यादावन्यार्थत्वं च दर्शितम् । कैय्यटोक्तानेकशब्दार्थान् ब्रह्मणि योजयति– सम्भवन्ति चेति । सम्भवव्यभिचाराभ्यां हि विशेषणविशेष्यभाव इत्यर्थः ।

ननु सङ्ख्यादिरहितेऽपि गुणादावेकशब्दप्रयोगान्न तस्य तदर्थत्वमत आह– मन्मत इति । तत्वविदो वेदान्तिनो मत इत्यर्थः ।। अत एवेति । एकशब्दस्यान्याद्यर्थत्वादित्यर्थः । द्वितीयात्यन्ताभावार्थत्वे हि तद्विरोधि द्वितीयं तेजः प्रभृतिजगन्नोच्येतेति भावः ।। स्वगत इति । पत्रादिसहितस्य वृक्षत्वेऽपि वृक्षस्य पत्रं, मूलम् इत्यादिभेदव्यपदेशाद्भेदप्राप्तिस्सम्भव तीत्यर्थः ।। सजातीय इति । भेद इत्यनुषङ्गः ।। प्रतिषेधैरिति । बोधितैरिति शेषः ।। त्रिभिरिति ।। पदैरिति शेषः ।। क्रमादिति । स्वगतभेदो नानात्वरूपज्ञानानन्दादिधर्म भेदः जीवेश्वरादिचेतनभेदः सजातीयभेदः द्रव्यत्वादिना सजातीयपृथिव्यादिभेद इति वा कश्चित् । जडभेदो विजातीयभेदः । यत्तु केनचित्प्रलपितम्– ‘अद्वितीयपदेनैव भेदत्रय निषेधः । एकावधारणपदे तु सङ्कोचशङ्कापरिहाराय’ इति । तदसारम् । द्वितीयाभावनिषेधे व्याघातात् । भावद्वितीयनिषेधे तु अखण्डार्थत्वहानेः ।

न्यायामृतसौगन्ध्यम्

बृहदारण्यके ‘सलिल एको द्रष्टाऽद्वैतो भवत्येष ब्रह्मलोकः सम्राडिति हैनमनुशशास याज्ञवल्क्य एषाऽस्य परमा गतिरेषाऽस्य परमा सम्पद् एषोऽस्य परमो लोक एषोऽस्य आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ इत्यत्र सलिलादिप्रपञ्चप्रापक सलिलादिपदविरोधेन नाद्वैतपरम् । छान्दोग्ये ‘‘सदेव सोम्येदमग्र आसीत्, ‘एकमेवा-द्वितीयम्’ इत्युपक्रम्य,‘तदैक्षत बहुस्यां प्रजायेयेति’ ‘तेजोऽसृजत’ इति तेजोबन्नानां सृष्टि-रुक्ता । ‘सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ इति ‘तस्मात्त्रिवृतमेकैकामकरोत्’ इत्यादौ कालादिप्रापकैर्विरोधान्नाद्वैतपरत्वम् ।

ननु सलिलादिपदैर्न विरोधः । तत्र हि सलिलपदं न सप्तम्यन्तं जलपरं किन्तु प्रथमान्तं स्वच्छगुणपरम् । तदुक्तम् बृहदारण्यकभाष्ये ‘सलिलवत्स्वच्छीभूतः । सलिल इव सलिलः’ इति चेन्मैवम् । षल गतौ अस्माद्धातोरौणादिके इलच्प्रत्यये नपुंसकलिङ्गसलिलशब्दस्य जल एव युक्तत्वेन लक्षणादिना उक्तार्थकत्वानुपपत्तेः । ‘किंस्विद्गर्भं प्रथमं दध्र आपस्तमिद्गर्भं प्रथमं दध्र आपः’ इति स्पष्टार्थकश्रुतौ बृहदारण्यके च ‘आप एवेदमग्र आसुस्ता आपः सत्यम् असृजन्त’ इत्यादिनाऽपां सृष्टेः पूर्वं सत्वस्य सत्यजगत्सर्जकत्वस्य चोक्तेः । श्रुत्यन्तरे च ‘नासादासीन्नोऽसदासीत्’ इति सृष्टितः पूर्वं सर्वं निषिध्यापि ‘अप्रकेतं सलिलं सर्वमा इदम्’ इति सलिलस्य सत्वोक्तेश्च ।

यत्तु ‘सुष्टिवाक्ये सलिलान्वयसम्भवेऽपि पदार्थशोधकरणे जलरूप मुख्यार्थस्यान्वया सम्भवाद् द्रष्टृपदेन ब्रह्मोक्तम् । तत्र सप्तम्यन्तसलिलपदस्य कल्पनाया जलाधेयत्वकल्पनस्या- युक्तत्वं क्लीबत्यागस्तु छान्दसत्वात्सलिलपदस्य सादृश्यरूपसम्बन्धार्थकार्शाद्यच्प्रत्ययान्तस्य पुंस्त्वसम्भवश्च । ‘सर्वप्रातिपदिकेभ्यः क्विप्’ इति क्वीबन्तसलिलशब्दात्पचाद्यच्प्रत्ययेन पुंस्त्व सम्भवः’ इति । तत्तुच्छम् । जलप्रापकवाक्यानि त्वाचार्यैरेव हि प्रदर्शितानि । पदार्थशोध- कादिरूपत्वदीयकुसृष्टिप्रापकमानाभावात् । सम्भवति गत्यन्तरे छान्दसत्वकल्पनस्यातिदोष त्वाच्च । अर्शाद्यच्प्रत्ययकल्पनस्यापि कष्टत्वात् । सर्वेत्याद्ययुक्तम् । लक्षणप्रतिपदोक्तन्यायेन इलच्प्रत्ययान्तस्यैव झटित्युपस्थितत्वात् । किञ्च तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्वरूप सादृश्यद्रष्टृत्वादेश्च त्वदभिमते ब्रह्मण्यभावेन त्वद्व्याख्यातवाक्यस्यापि त्वत्साधकत्वाभावात् ।

यत्तु सदेवेत्यस्य सद्व्यतिरेकेण नासीदित्यर्थ इति । तन्न । अग्रकालासत्वस्याग्रकालीन निषेधप्रतियोगित्वस्य वा (सदन्यसामान्ये बोधनेऽपि)व्याघातेन मिथ्यात्वासिद्धेः । व्याकृत प्रपञ्चस्य स्वकाले स्वसमानाधिकरणनिषेधप्रतियोगित्वासिद्धेः । ‘तम आसीत्तमसा गू•हं प्रकेतं’ इत्यादिविरोधः अग्रकालस्यापि ।

यत्तूक्तासत्वप्रतियोगित्वयोर्न प्रकृते धीः । किन्तु इदमभिन्नम् अग्रे यदासीत्  तत्सदेव । एकमेवाद्वितीयम् इत्येवमुद्देश्यविधेयभावस्य विवक्षितत्वात्, अग्रे (विद्यमानमनूद्य) सदनु-वादेनाखण्डसदद्वितीयविधानेनाग्रे सत्वेनानूद्यमानस्याखण्डसदद्वितीयस्यैव धीः । तथा चावान्तरतात्पर्येण द्वितीयादिपदैः सदन्यसामान्यनिषेधो न व्याहन्येत । निषेधेऽद्वितीयपदेन बोध्यमानेऽग्रकालानन्वयाद् यदग्रे इदमभिन्नमासीदित्येव कालान्वय आसीदिदमिति पदानि व्यर्थानि । अव्याकृतावस्थैवाग्रशब्देन कालोऽभिधीयते इति कालान्तरस्य तदानीमभावेऽपि न क्षतिः । यदि च इदमिति सामानाधिकरण्यबाधायां अग्र आसीदिति च न विवक्षितमिति न कालसंसर्गधीः । तथा चाखण्डनादेव सदेवेत्यादिरर्थ इत्याश्रीयते तदा नाग्रादिपदप्रयुक्ता शङ्केति । तदसत् ।

सदेवेत्येवकारेण तन्निष्ठासत्वव्यावर्तनेऽपि सदन्तराव्यावृत्यातदनिष्ठत्वान्न स्वयं घटः सन्नेवेत्यादौ सतां पटादीनां तत्सत्वस्य वा व्यावृत्तिः प्रतीयते । ?एकमेवेत्यादेस्तद्वेदं? तर्ह्यव्याकृतमासीत्तम आसीत्तमसा गू•हमग्रे प्रकेतं इत्यादिविरोधेन त्वदभिमतार्थकत्वासम्भ वात् । इदंपदेन ब्रह्मोक्तौ तदभिन्नस्य सत्वैकत्वाद्वितीयत्वादेरस्माभिरप्यङ्गीकारात् । न हि ब्रह्माभिन्नस्यानेकत्वादिकं सदन्यनिषेधस्यापि केनाप्यभ्युपपत्तेः । अग्रकालसम्बन्धिनि अखण्ड सदद्वितीयत्वादि विधातुमशक्यत्वात् । न हि तदेव सदिति वाच्यम्(वाक्यं), येन तदतिरिक्तस्य कालादेः सत्वं न सिद्ध्यति । तादात्म्येन विधेयस्योद्देश्यसमकालत्वनियमेना-द्वितीयादग्रकाल सम्बन्धः । तथा  चावान्तरतात्पर्येण द्वितीयादिपदैः सिद्धसदन्याभावादौ अग्नकालान्वयेन घट्टकुटीवृत्तान्तात् । क्रियान्तराध्याहारगौरवेण मानाभावेन सदद्वितीयादेः ‘आसीत्’ इत्यत्रैवान्वयाच्च । अन्यथा अग्र आसीदित्यनयोर्वैय्यर्थ्यापत्तेः । अत एव सदन्यनिषेधेऽद्वितीय पदेन बोध्यमानेऽग्रकालानन्वयाद् यदग्रे इदमभिन्नमासीदित्येव कालान्वय इत्यपि निरस्तम् । उद्देश्यभिन्न उद्देश्यसमकालिकाद्वितीयसमनियतत्वेन तत्रान्यकालान्वये मानाभावात् । वर्तमानदशायां रक्ते, पूर्वं च श्यामे घटादौ यः पूर्वं एतद्द्वयभिन्न आसीत्स श्याम इति व्यवहारात् । यदा यदा सद्रूपं तदा तदा अद्वितीयाभाव इति व्याप्तिरपि अहं मूक इत्यादिवत्स्वव्याहता ।

अव्याकृतेत्याद्ययुक्तम् । नामादिव्याकृताव्याकृताद्यवस्थानामेव कालत्वायत्तत्वात् तदानी-मभावेऽपीत्याद्युक्तेः प्रलापत्वात् । अत एव यदि चेत्याद्यप्यशुद्धम् । बाधायाः सामानाधि-करण्यं हि नामकरणमात्रं नानादिपदाध्याहारदुष्टत्वात् । एतेनाद्वैतवाक्यस्य च षड्विध-तात्पर्यलिङ्गवत्तया प्राकरणिकत्वेनान्वयबलत्वेन द्वैतवाक्यस्याविद्यकद्वैतप्रतिपादकस्य ‘फलव-त्सन्निधौ अफलं तदङ्गं स्यात्’ इति न्यायेनाद्वैतवाक्यानुसारित्वमिति निरस्तम् । मानान्तर-विरोधेन लिङ्गानाम् औते तात्पर्यज्ञापकत्वासम्भवात् । अद्वैतस्य फलत्वाभावेनाद्वैत वाक्यस्य प्राकरणित्वासिद्धेश्च । जगत्कर्तृत्वाद्यनन्तगुणज्ञापनद्वारा द्वैतवाक्यानां मोक्षे  पर्यवसनात् ।

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।

 ज्ञातुं द्रष्टुं च तत्वेन प्रवेष्टुं च परन्तप’ ।। इति सगुणज्ञानस्यैव मोक्षहेतुत्वस्मरणात् ।

किञ्च न तावदेकशब्देन मिथ्यात्वसिद्धिः । तस्य मानान्तराविरुद्धानेकार्थत्वात् । ‘एके मुख्यान्यकेवलाः’ इत्यमरोक्तेः । एको गोत्र इत्यत्र एकशब्दोऽयम् ‘अन्यप्रधानासहायसङ्ख्या प्राथम्यसमानवाची’ इति कैय्यटोक्तेश्च । एको गोत्र इत्यत्र पदमञ्जर्यामप्युक्तम् । ‘एक-शब्दोऽयम् अन्यप्रधानासहायसङ्ख्याप्रथमसमानसाधारणवाची । अन्यार्थे तावत् एकान्याभ्यां समर्थाभ्यां, ‘प्रजामेका रक्षत्यूर्जमेका, ‘एकः पुरुषो धनुष्मान्’ इति प्रधानार्थः, ‘आद्यन्त-वदेकस्मिन्’ एकहलादौ पूरयितव्ये एकहल्मध्येऽनादेशादेरित्यादौ असहायार्थः, एको द्वौ इत्यादौ सङ्ख्यार्थे, एकेऽल्पप्राणा इति प्रथमार्थे, ‘तेनैकदिक्’ इति समानार्थे, ‘देवदत्त यज्ञदत्तावेकधनौ’ इति साधारणार्थे इति ।

ष्णान्ता षडिति, महाभाष्ये– ‘एकशब्दोऽयं बह्वर्थः । अस्ति सङ्ख्यार्थः । एको द्वौ बहवः इति । अस्त्यसहायवाची एकाग्नयः, एकहलानीति । अस्त्यन्यार्थे वर्तते ‘प्रजामेका रक्षत्यूर्जमेका’ इत्याद्युक्तेश्च । ‘एको बहूनां यो विदधाति कामान्’ इत्यादौ सङ्ख्यादौ प्रयोगाच्च । सम्भवन्ति च ब्रह्मणि जीवादितोऽन्यत्वप्राधान्यप्राथम्यानि । सृष्ट्यादौ सहाया-नपेक्षत्वं कुसमयप्राप्तनिर्गुणत्वनिषेधायैकत्वसङ्ख्याविधिः । नानारूपेषु निर्दोषत्वेन समानत्वं च । मन्मते ‘एकं रूपं, एको भावः’ इत्यादावपि सङ्ख्यार्थ एव । अत एवोत्तरत्र जीवा-दिष्वसम्भावितजगत्सृष्टृत्वादिनाऽन्यत्वादिसमर्थनम् ।

Load More