ननु तथापि न तावज्जीवेश्वरभेदे प्रत्यक्षं मानम्..
१७. भेदपञ्चके प्रत्यक्षम्
न्यायामृतम्
ननु तथापि न तावज्जीवेश्वरभेदे प्रत्यक्षं मानम्, ईश्वरस्याप्रत्यक्षत्वेन तद्धर्मिकस्य तत्प्रतियोगिकस्य वा भेदस्याप्रत्यक्षत्वात् । नाप्युमानम्– (१) जीवेश्वरौ भिन्नौ विरुद्ध-धर्माधिकरणत्वाद्, दहनतुहिनवदित्यत्र तात्त्विके भेदे साध्ये दृष्टान्तस्य साध्यवैकल्यात् । अतात्त्विके साध्ये सिद्धसाधनात् । दुःखादेरन्तःकरण धर्मत्वेनासिद्धेश्च । (२) ब्रह्म तत्त्वतो जीवाद्भिन्नम्, सर्वज्ञत्वाद्, व्यतिरेकेण जीववदित्यत्राप्रसिद्धविशेषणत्वात् । ब्रह्म धर्मिसत्तासमानसत्ताकभेदवदिति साध्यनिर्देशेऽप्यसाधारण्यात् । (३) नाप्यात्मत्वम्, नानाव्यक्ति निष्ठम्, जातित्वात्पृथिवीत्ववदित्यादिभिरात्मभेदमात्रसिद्धिः, आत्मैक्यवादिनं प्रत्यसिद्धेः । (४) दुःखं गुणत्वावान्तरजात्या स्वजातीयाश्रयभिन्नाश्रितं गुणत्वा-द्रूपवदित्यत्र शब्दे व्यभिचारात् । दुःखादीनाम् अन्तःकरणधर्मत्वेन सिद्धसाधनाच्च । (५) विमतानि शरीराणि स्वसङ्ख्यासंख्येयात्मवन्ति, शरीरत्वात्, सम्मतवदित्यत्र योगिशरीरे व्यभिचारात् ।
(६) आत्मा धर्मिसत्तासमानसत्ताकात्मप्रतियोगिकभेदवान्, द्रव्यत्वाद्, घटवत् । (७) आत्मा द्रव्यत्वव्याप्यजात्या नाना अश्रावणविशेषगुणाधिकरणत्वाद्, घटवदित्यत्र चात्मनो निर्गुणत्वेनासिद्धेः । उक्तसाध्य एव शरीरात्मसंयोगाधारत्वात् शरीरवदित्यत्रा-भाससाम्यात् । नापि द्वा सुपर्णे‘त्यादिश्रुतिः, अनुवादकत्वात् । व्यावहारिकभेद-परत्वाद्वा । एवं भेदान्तरेऽपि प्रमाणं निरसनीयमिति । उच्यते– प्रत्यक्षं तावत् जीवस्य ब्रह्मतो भेदे प्रमाणम्, घटः पटो नेतिवत् ‘नाहं सर्वज्ञः नाहं निर्दुःखः’ इत्यनुभवात् । न च ब्रह्मणोऽप्रत्यक्षत्वात्ततो भेदोऽप्यप्रत्यक्षः । यत्र हि यत्सत्त्वम् अनुपलब्धिविरोधि तत्र तदभावः प्रत्यक्षः, न तु प्रतियोगिप्रत्यक्षत्वम् अभावप्रत्यक्षत्वे तन्त्रम् । जलपरमाणौ पृथिवीत्वाभावस्य प्रत्यक्षत्वापातात् । ‘स्तम्भः पिशाचो न भवति, ‘घटः परमाणुर्न भवति’ इति प्रत्यक्षप्रतीतेश्च । प्रतीत्यनुसारेण च प्रयोजकं कल्प्यम् । अन्यथा जीवेश्वराभेदश्रुतेरप्रसक्तप्रतिषेधत्वं स्यात् । तद्भेदश्रुतेश्च त्वदुक्तं प्रत्यक्षप्राप्तानु-वादित्वं न स्यात् । ईश्वरस्य जीवाद्भेदे तु ‘तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप’ ‘उत्तमः पुरुषस्त्वन्यः’ इत्यादि तद्वचनानुमितमीश्वरप्रत्यक्षं प्रमाणम् ।
नन्वत्र यो भाति अन्तःकरणाविद्याविशिष्टस्याहमर्थस्य निर्दुःखाद्भेदः, स ममापीष्टः, यस्तु नेष्टः शुद्धचैतन्यस्य निर्दुःखाद्भेदः, सोऽत्र न भातीति चेन्न, योऽहम् अस्वाप्सं तस्य ममाज्ञानं संसारश्च सोऽहं निर्दुःखो नेति सुषुप्तिकालीनान्तःकरणानवच्छिन्नाभेदेन च प्रत्यभिज्ञायमाने शुद्धे प्रतीतेः संसाराधारस्य तदनाधाराद्भेद एव ह्यावयोर्विवादः, न तु चैतन्यस्य चैतन्यान्तरात् । साधितं चाहमर्थस्य शुद्धात्मत्वम् । यद्यपि घटाद्यपि निर्दुःखं तथापि निर्दुःखमात्राद्भेदधीरियं ब्रह्मणोऽपि भेदविषयैव । न चाद्वैतमते जीवदुःखेन ब्रह्मापि दुःखीति न निर्दुःखं ब्रह्मेति वाच्यम्, बहुजीववादे ब्रह्मभाव-रूपमुक्तेरपुमर्थत्वापातात् । एकजीववादेऽप्यौपाधिकश्यामत्वादेर्बिम्बमहाकाशयोरिव दुःखित्वादेर्ब्रह्मण्यसत्त्वात् । विस्तृतं चैतदविद्याश्रयभङ्गे । साधितं च प्रत्यक्षप्रामाण्यावसरे बाह्यप्रत्यक्षस्य बलवत्प्रत्यक्षेतरेण न बाधः, साक्षिप्रत्यक्षस्य तु न केनापि बाध इति । तस्माज्जीवेशभेदः प्रत्यक्षः । एवं शब्दाद् अनुमानादिना वा चैत्रात्मादिकं ज्ञातवता मैत्रेण (१) नाहं चैत्रः, (२) घटो न ब्रह्म, (३) घटो न पटः, (४) नाहं घटः, (५) नाहं ब्रह्म– इत्यनुभवात् पञ्चापि भेदाः प्रत्यक्षाः । इति भेदपञ्चके प्रत्यक्षम्
।। १७ ।।
अद्वैतसिद्धि:
एवं प्रत्यक्षतः प्राप्तभेदस्यैव निवारणात् । असाक्षात्कृतजीवेशभेदादौ का कथा तव ।।
तथा हि– ईश्वरस्याप्रत्यक्षत्वेन तद्धर्मिकस्य तत्प्रतियोगिकस्य वा भेदस्य ग्रहीतुम् अशक्यत्वात् । ननु– ईशधर्मिकभेदस्य जीवाप्रत्यक्षत्वेऽपि स्वधर्मिकभेदः तथापि तत्प्रत्यक्षः, ‘नाहं सर्वज्ञो नाहं निर्दुःखः’इत्याद्यनुभवात् । न च– योग्यप्रतियोगिकत्वम् अभावयोग्यत्वे प्रयोजकमिति वाच्यम् । ‘स्तम्भः पिशाचो न’ इत्यादिप्रत्यक्षरूपफलबलेन संसर्गाभावे तथात्वेऽपि अन्योन्याभावे अधिकरण-योग्यताया एव तन्त्रत्वात् । वस्तुतस्तु– संसर्गाभावेऽपि न तन्मात्रं योग्यता । जलपरमाणौ योग्य-पृथिवीत्वाभावग्रहप्रसङ्गात् । किन्तु यत्र यत्सत्त्वम् अनुपलब्धिविरोधि, तत्र तस्याभावो योग्य इति अधिकरणनियतैव सर्वाभावसाधारणी योग्यता । सा च प्रकृतेऽप्यस्त्येव । अन्यथा अभेदश्रुतेरप्रसक्त प्रतिषेधकतापत्तेः । भेदश्रुतेश्च त्वदुक्तप्रत्यक्षसिद्धभेदानुवादित्वं न स्यात् । ईशधर्मिकजीवभेदेऽपि ‘तान्यहं वेद सर्वारुषस्त्वन्यः’ इत्यादितद्वचनानुमितप्रत्यक्षसिद्धत्वमेवेति चेन्न, उक्तानुभवस्यान्तःकरणा-द्यवच्छिन्नचैतन्यस्य तदनवच्छिन्नचैतन्यप्रतियोगिकभेदावगाहितया शुद्धचैतन्यधर्मिकनिर्दुःखादिप्रतियोगिक-भेदानवगाहित्वात् । श्रुतिरप्यवच्छिन्नभेदानुवादिनी । भेदनिषेधश्रुतिस्तु अनुमानादिप्रसक्तभेदनिषेधपरा । न च ‘योऽहमस्वाप्सं तस्य ममाज्ञानसंसारादि, सोऽहं निर्दुःखो न’ इति सुषुप्तिकालीनान्तःकरणा-वच्छिन्नाभेदेनाज्ञानाद्याश्रयाभेदेन च प्रत्यभिज्ञायमाने शुद्धे भेदप्रतीतिः, संसाराधारस्य तदनाधाराद् भेद एव ह्यावयोर्विवादः, न तु चैतन्यस्य चैतन्यादिति वाच्यम्, एतावता अज्ञानावच्छिन्न एव भेदग्रहो न तु शुद्धे । न हि सुषुप्तिकाले अन्तःकरणानवच्छिन्नत्ववद् अज्ञानानवच्छिन्नत्वमप्यस्ति । यत्तु चैतन्यस्य चैतन्याद् भेदो नास्तीति, तदस्माकमनुकूलम् । चैतन्ये स्वाभाविकस्याभेदस्यैवास्मद्रहस्यत्वाद् भवत्प्रतिकूलं च । न हि भवतां चैत्रमैत्रादिचैतन्यानामैक्यमिति मतम् । अहमर्थस्य यथा न शुद्धात्मत्वं तथोक्तं प्राक् । साक्षिप्रत्यक्षस्याध्यस्तादिसाधारणतया तत्सिद्धत्वमात्रेण भेदे अबाधितत्वम् असम्भावितमेव । एतेन– जीवानां परस्परं भेदे प्रत्यक्षं प्रमाणमिति निरस्तम् । ‘नाहं चैत्रः’ इत्यादेर-वच्छिन्नभेदविषयत्वात् । ‘घटो न ब्रह्म, घटो न पटः, नाहं घटः’ इत्यादिप्रत्यक्षस्य कल्पितभेदविषय-त्वेन तात्त्विकभेदासिद्धेः । तस्माद् भेदपञ्चके न प्रत्यक्षं प्रमाणम् ।। इत्यद्वैतसिद्धौ भेदपञ्चके प्रत्यक्षभङ्गः ।
नाप्यनुमानम् । (१) जीवेश्वरौ, भिन्नौ, विरुद्धधर्माधिकरणत्वाद्, दहनतुहिनवदित्यत्र दुःखादे-रन्तःकरणादिधर्मत्वेन स्वरूपासिद्धेः, एकत्रैव निर्दुःखत्वदुःखवत्त्वयोरवच्छेदकभेदेन दृष्टतया धर्मिभेदासाधकत्वाद्, भेदमात्रे सिद्धसाधनात्, तात्त्विकभेदे साद्यवैकल्यात् (२) ब्रह्म, तत्त्वतो जीवाद् भिन्नम्, सर्वज्ञत्वात्, व्यतिरेकेण जीववदित्यत्राप्रसिद्धविशेषणत्वात् ब्रह्म, धर्मिसत्तासमानसत्ताकभेदवदिति साध्यकरणे असाधारण्यात्, (३) आत्मत्वं, नानाव्यक्तिनिष्ठम्, जातित्वात्, पृथिवीत्ववदित्यत्रात्मैक्य-वादिनं प्रत्यसिद्धेः, कल्पितव्यक्तिनिष्ठत्वेन सिद्धसाधनाच्च (४) दुःखं, गुणत्वावान्तरजात्या सजातीय-श्रयात् भिन्नाश्रितम्, गुणत्वाद्रूपवदित्यत्र शब्दे व्यभिचारात्, दुःखादीनामन्तःकरणधर्मत्वेन सिद्धसाधनाच्च (५) विमतानि शरीराणि, स्वसङ्ख्यासङ्ख्येयात्मवन्ति, शरीररत्वात्, संमतवदित्यत्र योगिशरीरे व्यभिचारात् । (६) आत्मा, धर्मिसत्तासमानसत्ताकात्मप्रतियोगिकभेदवान्, द्रव्यत्वाद्, घटवत्, (७) आत्मा, द्रव्यत्वव्याप्यजात्या नाना, अश्रावणविशेषगुणाधिकरणत्वाद्, घटवदित्यत्र चात्मनो निर्गुण-त्वेनासिद्धेः चैत्रश्चैत्रप्रतियोगिकोक्तभेदवान्, उक्तहेतोरुक्तदृष्टान्तवदित्याभाससाम्याच्च ।। १७ ।।
न्यायामृततरङ्गिणी
।। असाधारण्यादिति ।। धर्मिसमसत्त्वभेदस्य घटादौ सत्त्वेऽपि तत्र सार्वज्ञरूप-हेतोरभावात् ।। आभाससाम्यादिति ।। शरीरात्मसंयोगाधारत्वेन हेतुनाऽऽत्मन्यनित्यत्वादेरपि सुसाधत्वात् ।। यत्र हीति ।। एतद्व्याख्या ख्यातिबाधान्यथानुपपत्तिभङ्गे ।। यस्य ममाज्ञानमिति ।। नन्वेतावताप्यज्ञानावच्छिन्न एव भेदग्रहो न तु शुद्धे । न हि सुप्तिकाले अन्तःकरणानवच्छिन्नत्ववदज्ञानानवच्छिन्नत्वमप्यस्तीत्यत आह– अज्ञानाद्याश्रयाभेदेन चेति ।। यादृशं चैतन्यमज्ञानाश्रयस्त्वयोच्यते तस्य निर्दुःखाद् भेदप्रतीतेः । न ह्यज्ञाना-वच्छिन्नमज्ञानाश्रयः । नन्वज्ञानाश्रयशुद्धान्निर्दुःखस्य शुद्धस्य कथञ्चिद् भेदः सिध्यति न तु जीवादत आह– संसाराधारस्येति ।। मम मते जीवस्यैव संसाराधारत्वाज्जीव एव निर्दुःखेश्वरभेदः पर्यवस्यति । तव तु जीवगतशुद्धांशस्य शोधितत्वंपदार्थरूपनिर्दुःखेन भेदः इति जीवब्रह्मभेदसिद्धिः । शोधिततत्वंपदार्थयोर्भेदपर्यवसानात् ।। चैतन्यान्तरादिति ।। चैतन्यसामान्यादित्यर्थः । चैतन्ये चैतन्यविशेषभेदसत्त्वेऽपि तत्र तत्सामान्यभेदस्य मयाप्यनङ्गीकारात् । एतेन चैतन्यस्य चैतन्याद्भेदो नास्तीत्येतदस्मदनुकूलं भवत्प्रतिकूलं च । न हि भवतां चैत्रमैत्रादिचैतन्यानामैक्यमिति मतमिति निरस्तम् ।। भेदपञ्चके प्रत्यक्षम्
।। १७ ।।
न्यायामृतकण्टकोद्धारः
नन्वेवं बाधकपरिहारेऽपि जीवेश्वरभेदासिद्धिः । साधकप्रमाणाभावात् । न हि बाधकाभाव-मात्रेण वस्तुसिद्धिः । तथा च नृशृङ्गादिसिद्धिरपि स्यात् । न च जीवेशभेदे प्रत्यक्षादिसद्भाव इति शङ्कते– ईश्वरस्येति । भेदस्योभयधर्मत्वे धर्मिप्रत्यक्षरूपकारणाभावात्, भेदप्रतियोगित्वस्य परमात्मनिष्ठत्वे प्रतियोगिप्रत्यक्षरूपकारणाभावाद् भेदस्याप्रत्यक्षत्वमिति भावः ।। जीवेश्वराविति ।। अत्र जीवेश्वरशब्दाभ्यां संसाराधिकरणचैतन्ये विवक्षिते । अतो नार्थान्तरतेति द्रष्टव्यम् ।। विरुद्धेति ।। सर्वथेति द्रष्टव्यम् ।। अतात्विक इति ।। नन्वेवम् अनुमानदूषणेऽनुमानमात्रोच्छेदः । पर्वतो वह्निमानित्यत्रापि तात्विकादिविकल्पैर्दूषणसम्भवात् । स्वकृतमिथ्यात्वाद्यनुमानेऽपि अस्य सम्भवेन स्वव्याघाताच्चेति चेन्न । अस्य दूषणस्य सिद्धान्ते वक्तव्यत्वात् । पूर्वपक्षिणा च वितण्डारीत्योक्त-त्वात् ।। दुःखादेरिति ।। यद्यपि दुःखादिस्वामित्वादिरूपविरुद्धधर्मविवक्षायां नासिद्धिः । दुःखादेरन्तःकरणधर्मत्वेऽपि तत्स्वामित्वस्यात्मनिष्ठत्वात् । तथापि निर्धर्मके चैतन्ये विरुद्धधर्मानङ्गी-कारेणेदमुक्तमिति द्रष्टव्यम् ।। अप्रसिद्धेति ।। उपलक्षणमेतत् । वेदान्तवेद्यस्याखण्डस्य सर्वज्ञत्वानङ्गीकारेणासिद्धिरपीति द्रष्टव्यम् । यद्यप्यसिद्धविशेषणत्वं न दोषः । तत्वेऽपि व्यतिरेकव्याप्तिग्रहसम्भवस्य सिद्धान्त उपपादितत्वात् तथापीदमापातत इति द्रष्टव्यम् । अप्रसिद्धविशेषणतापरिहारार्थमाह– ब्रह्मेति ।
असाधारण्यादिति । साध्यवति घटादौ सर्वज्ञत्वाभावाद् असाधारण्यमित्यर्थः । यद्यप्य-साधारण्यं दशाविशेषे दोषः तथापि अनुकूलतर्काभावे तद्दोषत्वम् अभिप्रेत्योक्तम् ।। ऐक्येति ।। ऐक्यवादिनाऽऽत्मत्वस्य जातित्वानङ्गीकारात् । कल्पितभेदेन जातित्वोपपत्तेरन्यथासिद्धिश्चेत्यपि द्रष्टव्यम् ।। दुःखमिति ।। गुणत्वावान्तरजातित्वानङ्गीकारात् कल्पितभेदेन जातित्वोपपत्ते-रन्यथासिद्धिश्चेत्यपि द्रष्टव्यम् । स्वं दुःखमिति । गुणत्वावान्तरजातिर्गुणत्वविभाजकोपाधिः दुःखत्वादिः । तेन सजातीयं दुःखान्तरम् । तद्भिन्नाश्रितमित्यर्थः । तेन दुःखिभेदसिद्धिः ।। शब्द इति ।। न चाश्रावणेति हेतुविशेषणमिति वाच्यम् । अप्रयोजकत्वात् । यदि चौपाधिकभेदमादाय व्यभिचारपरिहारस्तदा नैव सिद्धसाधनतेति द्रष्टव्यम् ।। योगीति ।। नचायोगीति शरीरविशेषणम् अतो न व्यभिचार इति वाच्यम् । अप्रयोजकत्वापरिहारात् ।। अश्रावणेति ।। गुणाधि-करणत्वादित्युक्ते काले व्यभिचारः । अत उक्तं विशेषेति । तावत्युक्त आकाशे व्यभिचारः । अत उक्तम् अश्रावणेति ।। असिद्धेरिति ।। गुणाश्रयत्वं द्रव्यत्वं, जातिर्वा ? उभयथाप्य-सिद्धिरित्यर्थः ।। आभासेति ।। ‘आकाशं द्रव्यत्वापरजात्या नाना । शरीराकाशसंयोगाधारत्वात् । शरीरवत्’ इत्यभाससाम्यमित्यर्थः । अनुवादकत्वात् । तथा च न तस्यास्तत्र तात्पर्यमिति भावः । यद्यपि जीवेश्वर भेदे प्रत्यक्षादीनां दूषितत्वान्न श्रुतेरनुवादकत्वं तथाप्याभाससिद्धिमङ्गीकृत्येदमुक्तम् । अत एवाह– व्यावहारिकेति ।
उक्तं न्यायम् अन्यत्रातिदिशति– एवमिति । भेदान्तरे जडजीवभेदादावित्यर्थः । जीवेश्वरभेदे प्रत्यक्षं प्रमाणं नेति वदन् प्रष्टव्यः किं जीवधर्मिको भेदो न प्रत्यक्ष उतेश्वरधर्मिक इति । आद्ये न दोष इत्याह– घट इति । अनुभवात् । साक्षिणेति शेषः । न च भेदस्योभयधर्मत्वात् ईश्वर-प्रत्यक्षत्वे कथं भेदस्य प्रत्यक्षत्वमिति वाच्यम् । भेदस्योभयधर्मत्वानङ्गीकारात् । उभयधर्मत्वे द्वित्ववदुभयसत्व एव प्रतीयेतेति भावः । ननु तथापि प्रतियोगि प्रत्यक्षत्वस्याभावप्रत्यक्षत्वे तन्त्रत्वात् । तदभावे कथं भेदस्य प्रत्यक्षत्वमित्याशङ्क्य निषेधति– न चेति । यत्र हीति । तथा च योग्यानुपलब्धिमत्त्वेनैवाभावस्य योग्यत्वम् । प्रकृते च यदि निर्दुःखतादात्म्यमात्मनि स्याद्, उपलभ्येतेति योग्यानुपलब्धिसत्वादिति भावः । प्रतियोगिप्रत्यक्षत्वमात्रं किं संसर्गाभावप्रत्यक्षे तन्त्रमुतान्योन्याभावप्रत्यक्षे इति विकल्प्याद्यं प्रत्याह– जलेति । योग्यानुपलब्धिस्तु तत्र नास्ति । जलत्ववदनुपलम्भसम्भवात् । द्वितीयं प्रत्याह– स्तम्भ इति । स्तम्भवृत्तिस्तम्भत्वादेरिवानुप-लब्धिविरोधित्वात् पिशाचत्वादेरिति भावः ।
ननु तथापि प्रयोजकाभावे कथं प्रत्यक्षत्वमित्यत आह प्रतीतिति । अन्यथेति । जीवेश्वर-भेदस्य प्रत्यक्षत्वाभावे । न चानुमानादिप्रसक्तिमादाय नोक्तदोष इति वाच्यम् । प्रत्यक्षेण विरुद्ध-धर्माद्यग्रहे लिङ्गाभावेनानुमानाद्यसम्भवात् । अनुमानाद्यङ्गीकारे च निर्निमित्तं प्रत्यक्षनिरासानु-पपत्तेश्च । अनुमानादिगम्यत्वेनैव भेदप्रामाणिकत्वसम्भवाच्च । ईश्वरधर्मिकभेदस्य न प्रत्यक्षत्वमिति द्वितीयं निराकरोति– ईश्वरस्येति । ‘तान्यहम्’ इति स्मृतिर्विरुद्धधर्मप्रत्यक्ष एव मानं, न भेदप्रत्यक्ष इति, ‘उत्तमः’ इति स्मृत्यन्तरोदाहरणम् । न चास्य कृष्णवाक्यत्वात् कृष्णस्य चा-ब्रह्मत्वात् कथं ब्रह्मधर्मिकभेदस्य प्रत्यक्षत्वे इयं स्मृतिः प्रमाणमिति वाच्यम् । ‘कृष्णस्तु भगवान् स्वयम्’ इत्यादि स्मृत्यनुरोधेन विश्वरूपप्रदर्शनादिना तस्य परब्रह्मत्वनिर्णयाय ‘अहम्’ इति । न चात्रापि अज्ञानाद्यवच्छिन्न एव भेदप्रतीतिर्न शुद्धचैतन्य इति वाच्यम् । दण्डत्वादेरवच्छेदकत्वेन कारणत्वस्य दण्डमात्रनिष्ठत्ववदज्ञानादेरवच्छेदकत्वेन शुद्ध एव तस्य प्रतीतेः ।
ननु संसाराधारे भेदप्रत्यक्षसाधनम् अर्थान्तरग्रस्तमित्यत आह– संसाराधारस्येति । ननु तथाप्यहमर्थस्य चिदचित्संवलनरूपत्वेन तत्र भेदप्रतीतावपि न शुद्धस्य भेदप्रतीतिरित्यत आह– साधितं चेति । तथा चाहंशब्देन जीवचैतन्यमेवाभिधीयते । ततस्तस्यैव भेदः प्रत्यक्ष इति भावः । न चेति । तथा च न ब्रह्मभेदसिद्धिरिति भावः । इदं बहुजीववादिना चोद्यते उतैकजीववादिना ? आद्य आह– बह्विति । द्वितीय आह– एकेति । ननु बिम्बे विशिष्टे दुःखित्वादेरभावेऽपि ब्रह्मणि तदस्तीत्यत आह– विस्तृतं चेति । अस्तु भेदप्रत्यक्षं, तथापि तस्य प्रत्यक्षानुमानाभ्यां बाधान्न तेन भेदसिद्धिरित्यत आह– साधितं चेति । उपसंहरति– तस्मादिति । न चैतावता जीवेश्वरभेदस्य प्रत्यक्षत्वं, न तु जीवादिपरस्य भेदचतुष्टयस्य प्रत्यक्षत्वम् । अत उक्तन्यायातिदेशेन तत्रापि प्रत्यक्षत्वं साधयति– एवमिति । अनुपपत्तिपरिहारः पूर्ववदेव द्रष्टव्यः । इति भेदपञ्चके प्रत्यक्षम् ।। १७ ।।
न्यायामृतप्रकाशः
१ईश्वरस्येति ।। भेदस्याभावरूपत्वेन तत्प्रत्यक्षत्वे धर्मिप्रतियोग्युभयप्रत्यक्षत्वं तन्त्रमिति तस्याभिप्रायः ।। अप्रत्यक्षत्वादिति ।। प्रत्यक्षाप्रत्यक्षसम्योगोऽप्रत्यक्षः वायुवनस्पतिसम्योगवदित्यर्थः ।। अप्रसिद्धेति ।। तात्विकभेदस्याप्रसिद्धेरित्यर्थः ।। धर्मीति ।। घटादौ तत्समसत्ताकव्यावहारिक-भेदवत्त्वं प्रसिद्धमित्यर्थः ।। असाधारण्यादिति ।। घटादौ साध्यवति सर्वज्ञत्वहेतोरभावादित्यर्थः । नाप्रसिद्धविशेषणमिति भावः ।। आत्मभेदमात्रसिद्धिरिति ।। मात्रशब्दः कात्स््नर्ये बुद्ध्या विवेकेन आत्मशब्देन सम्बध्यते । एवं च सर्वात्मानां भेदसिद्धिरित्यर्थ इत्याहुः । वस्तुतस्तु अनेनानुमानेन आत्मभेदमात्रं सिद्ध्यति न तु तस्य तात्विकत्वं । तात्विकत्वसिद्धिस्तु प्रकारान्तरेण । आत्मत्वस्य जातित्वे तदाश्रयव्यक्तिभेदस्यौपाधिकत्वायोगात्स्वाभाविकत्वसिद्धिरिति द्रष्टव्यम् । कुतो नेत्यत आह– आत्मैक्येति ।। आत्मत्वे जातित्वाभावादित्यर्थः । दुःखं देवदत्तदुःखम् ।। (स्व)सजातीयेति ।। स्वसजातीयेत्यर्थः । स्वशब्देन पक्षीभूतं दुःखं तत्सजातीयं दुःखं यज्ञदत्तीयादिदुःखं तदाश्रयो यज्ञदत्तादिस्तद्भिन्नो यो देवदत्तस्तदाश्रितमित्यनेनानुमानेन देवदत्ताद्यात्मनां भेदः सिध्यति ।
ननु नानेनानुमानेन जीवानां भेदः सिध्यति । स्वशब्दोक्तं यत्पक्षीभूतं दुःखं पदार्थत्वादिना तत्सजातीयं घटादिस्तदाश्रयो मृत्पिण्डस्तद्भिन्नो यो देवदत्तस्तदाश्रितत्वसिद्ध्या जडजीवभेदसिद्धे-रर्थान्तरमित्यत उक्तम् गुणत्वावान्तरजात्येति ।। गुणत्वावान्तरजातिर्दुःखत्वं तया यत्सजातीयं तद्दुःखान्तरमेवायास्यति । ततश्च जीवानां भेदसिद्धिरिति ध्येयम् ।। रूपवदिति ।। तत्र गुणत्वा-वान्तरजातीयरूपत्वं तेन यत्स्वजातीयं रूपान्तरं तदाश्रयो घटः तद्भिन्नो य आश्रयः पटः तदाश्रितमित्यर्थः ।। शब्द इति ।। गुणत्ववति शब्दे गुणत्वावान्तरजात्या शब्दत्वेन सजातीयं शब्दान्तरं तदाश्रय आकाशस्तद्भिन्नाश्रितत्वाभावेन साध्याभावादिति भावः ।। दुःखादीनामिति ।। गुणत्वावान्तरजात्या दुःखत्वेन स्वसजातीयदुःखान्तराश्रयभूतयज्ञदत्तीयान्तःकरणभिन्नदेव-दत्तीयान्तःकरणाश्रितत्व सद्भावेनान्तःकरणभेदसिद्ध्यान्तःकरणभेदस्य चास्माकं सम्मतत्वेन जीवानां भेदासिद्ध्या सिद्धसाधनतेत्यर्थः । स्वसङ्ख्येति ।। तथा च शरीराणाम् अनेकत्वात्तत्रत्यात्मना-मप्यनेकत्वसिद्धिरिति ज्ञेयम् ।। सम्मतवदिति ।। व्यतिरेकेण घटवदित्यर्थः ।। योगिशरीर इति ।। योगसामर्थ्येन गृहीतेषु सौभर्यादिशरीरेषु विद्यमानस्यात्मन एकत्वेन साध्याभावादिति भावः । आत्मा चैत्रात्मा ।। आत्मेति ।। मैत्रात्मेत्यर्थः । व्यावहारिकभेदेनार्थान्तरवारणाय धर्मीत्यादिविशेषणम् । धर्मिभूतचैतन्येत्यर्थः । अन्यथा चैत्रस्य व्यावहारिकत्वेन पुनर्व्यावहारिकभेदमादायार्थान्तरतापत्तेरिति ध्येयम् ।। आत्मेति ।। आत्मा नानेति साध्ये अन्तःकरणोपाधिकं नानात्वमादायाऽर्थान्तरतापत्तेरुक्तं द्रव्यत्वव्याप्येति ।। आत्मत्वजात्येत्यर्थः । तथा चात्मत्वजात्याश्रयतया नानेति यावत् । स्वभावत एव नाना न तूपाधित इत्याशयः । सङ्ख्यादिगुणाधिकरणे द्रव्यत्वव्याप्यजातेरभावेन तदाश्रयतया नानात्वशून्ये कालादौ व्यभिचारवारणाय विशेषपदम् । शब्दाख्यविशेषगुणाधिकरणे स्वाभाविक-नानात्वशून्ये आकाशे व्यभिचारवारणाय अश्रावणेति गुणविशेषणम् ।। घटवदिति ।। द्रव्यत्व-व्याप्यजातिः घटत्वं तदाश्रयतया नानात्वमस्तीत्यर्थः ।। निर्गुणत्वेनेति ।। निर्धर्मकत्वेनेत्यर्थः । तेन हेतुद्वयस्याप्यसिद्धिरिति भावः ।। (उक्त)साध्य एवेति ।। द्रव्यत्वसाक्षाद्व्याप्यजात्या नानात्वरूपे साध्य एवेत्यर्थः ।। शरीरवदिति ।। तत्र द्रव्यत्वव्याप्यजातिः शरीरत्वं तदाश्रयतयैव नानात्वमस्तीत्यर्थः ।। आभाससाम्यादिति ।। शरीरात्मसंयोगाधारत्वेनैव हेतुना आत्मनि अनित्यत्वादेरपि सुसाधत्वा-दित्यर्थः ।। भेदान्तरेऽपीति ।। जड जीवभेदादावपीत्यर्थः ।। यत्र हीति ।। एतच्चानिर्वाच्यभङ्गे स्पष्टं व्याख्यातम् । प्रतियोगिप्रत्यक्षत्वम् अभावप्रत्यक्षत्वे न प्रयोजकम् । अन्वयतो व्यतिरेकतश्च व्यभिचारादित्याह– जलपरमाणाविति ।। ननु तर्ह्यभावप्रत्यक्षत्वे किं प्रयोजकमिति तत्राह– ।। प्रतीतीति ।। ‘स्तम्भः पिशाचो न भवति’ इत्यन्योन्याभावस्य प्रत्यक्षत्वदर्शनात्तदनु सारेणान्योन्याभाव-प्रत्यक्षत्वेऽधिकरणप्रत्यक्षत्वमेव प्रयोजकमिति कल्पनीयमित्यर्थः ।। अन्यथेति ।। जीवेश्वरभेदस्योक्त-रीत्या प्रत्यक्षत्वाप्राप्तत्व इत्यर्थः । श्रुत्या प्राप्तस्य श्रुत्या निषेधे तु श्रुतेरुन्मत्तवाक्यत्वापत्तेरित्याशयः ।। तद्भेदश्रुतेरिति ।। जीवेश्वरभेदस्य प्रत्यक्षसिद्धत्वाभावे तत्प्रतिपादक‘द्वासुपर्णे’त्यादिश्रुतेस्त्वयोच्यमानं प्रत्यक्षप्राप्तभेदानुवादित्वं न स्यादित्यर्थः ।। एवं च जीवस्येश्वराद्भेदसिद्धिः । तथा ईश्वरस्य जीवाद्भेदोऽपि प्रत्यक्षसिद्ध एव । नन्वस्मदादिप्रत्यक्षेण कथं तत्सिद्धिरिति चेन्न । ईश्वरप्रत्यक्षेणैव तत्सिद्धेरुच्यमानत्वात् । नन्वस्माकं कथं तत्प्रत्यक्षावगम इति चेत् तद्वाक्यादेवेत्याह– तान्यहमिति ।। यदुक्तं ‘नाहं निर्दुःखः’ इत्यादिप्रत्यक्षमेव जीवेश्वरभेदे प्रमाणमिति तदयुक्तमित्याशङ्कते– नन्वत्रेति ।। प्रत्यक्ष इत्यर्थः । निर्दुःखाद् ब्रह्मचैतन्यात् नेष्टः मम ।। शुद्धेति ।। जीवचैतन्यस्येत्यर्थः । निर्दुःखाद् ब्रह्मचैतन्यात् । अत्र ‘नाहं निर्दुःखः’ इति प्रत्यक्षे ।। अन्तःकरणानवच्छिन्नेति ।। चैतन्येत्यर्थः ।। भेदेति ।। ‘अहं निर्दुःखो न’ इति भेदप्रतीतेरित्यर्थः ।
नन्वेतावताऽज्ञानाश्रयाच्छुद्धान्निर्दुःखस्य शुद्धस्य भेदः सिध्यति न तु जीवादित्यत आह– संसारेति ।। अज्ञानमेव संसारः । भेद एव भेदविषय एव । तथा च मम मते जीवस्यैव संसारा-धारत्वाज्जीव एव निर्दुःखेश्वरभेदो विवादापन्नः सिद्ध एवेत्यर्थः ।। तथापीति ।। तथा चाहमर्थे निर्दुःखत्वावच्छिन्नप्रतियोगिताको भेदो ह्यत्र प्रतीयते तथा चेश्वरोऽपि निर्दुःखत्वरूपप्रतियोगिता-वच्छेदकावच्छिन्न इति तत्प्रतियोगिको भेदोऽपि प्रतीयत एवेत्यर्थः ।। न निर्दुःखमिति ।। तथा च ब्रह्म न निर्दुःखत्वरूपप्रतियोगितावच्छेदकावच्छिन्नमित्यर्थः ।। बहुजीवेति ।। एकस्य मुक्तावप्यपरस्य संसारिणः सत्वेन तद्दुःखेन ब्रह्मणोऽपि दुःखितया तद्भावरूपमुक्तेरपुरुषार्थत्वादिति भावः । यद्यप्येकजीववादे ब्रह्मभावरूपमुक्तेः पुरुषार्थत्वं युक्तं तथापि जीवदुःखेन न ब्रह्मणो दुःखित्वं युक्तम् । तथा हि दर्पणाद्युपाधिकृतमपि श्यामत्वं प्रतिबिम्ब एव न बिम्बे । यथा वा घटाद्युपाधिकृतं परिच्छिन्नत्वं घटाकाश एव न महाकाशे एवम् अन्तःकरणाद्युपाधिकृतमपि दुःखादिकं जीव एव न ब्रह्मणि । अतो ब्रह्मणोऽपि प्रतियोगितावच्छेदकावच्छिन्न त्वाद्युक्तः । तस्माज्जीवस्य भेद इत्याशयेनाह– एकजीवेति ।।
ननु निर्दुःखत्वादिग्राहिप्रत्यक्षं बाधितं किं न स्यादिति चेत्तत्राह– साधितं चेति ।। न बाध इति ।। साधितमित्यन्वयः । एवं च बाह्यप्रत्यक्षस्यापि यदा बलवत्प्रत्यक्षं विनाऽन्येन बाधो नास्ति तदा किमु वक्तव्यं साक्षिप्रत्यक्षस्य बाधो नास्तीति । प्रकृते च निर्दुःखत्वादिग्राहिप्रत्यक्षं साक्षिरूपमेवेति भावः । एवं जीवेशभेदस्य प्रत्यक्षत्वमुपपाद्य भेदचतुष्टयस्यापि प्रत्यक्षत्वमुपपादयति– एवमिति ।। ननु ‘नाहं चैत्रः’ इत्यत्र चैत्रस्य प्रतियोगित्वात्परात्मनश्चाप्रत्यक्षत्वात्कथं तत्प्रतियोगिताकभेदस्य प्रत्यक्षत्वमित्यत आह– शब्दादित्यादि चेष्टालिङ्गकानुमानेन नाऽहं चैत्र इति परस्परं जीवभेदानुभवः । घटो न ब्रह्मेति जडेश्वरभेदानुभवः । घटो न पट इति परस्परजडभेदानुभवः । नाहं घट इति जडजीवभेदानुभव इति द्रष्टव्यम् ।। भेदपञ्चके प्रत्यक्षविवरणम् ।। १७ ।।
न्यायकल्पलता
जिज्ञासासूत्रोक्तं साधयितुमाह– नन्विति ।। असाधारण्यादिति ।। धर्मिसमसत्तस्य भेदस्य घटादौ सत्त्वेऽपि तत्र सार्वज्ञरूपहेतोरभावात् ।। आभाससाम्यादिति ।। शरीरात्मसंयोगाधारत्वेन हेतुनाऽऽत्मन्यनित्यत्वादेरपि सुसाधत्वात् ।। यत्र हीति ।। एतद्व्याख्यानं ख्यातिबाधान्यथानुपपत्तिभङ्गे ।। यस्य ममाज्ञानमिति ।। नन्वेतावताप्यज्ञानावच्छिन्न एव भेदग्रहो न तु शुद्धे । न हि सुषुप्तिकाले अन्तःकरणानवच्छिन्नत्ववदज्ञानानवच्छिन्नत्वम् ्रअप्यस्तीत्यत आह– अज्ञानाद्याश्रयाभेदेन चेति ।। यादृशं चैतन्यमज्ञानाद्याश्रयस्त्वयोच्यते तस्य निर्दुःखाद् भेदप्रतीतेः । न ह्यज्ञानावच्छिन्नम् अज्ञानाश्रयः । नन्वज्ञानाश्रयशुद्धान्निर्दुःखस्य शुद्धस्य कथञ्चिद् भेदः सिध्यति न तु जीवादत आह– संसाराधार-स्येति ।। मम मते जीवस्यैव संसाराधारत्वाज्जीव एव निर्दुःखेश्वरभेदः पर्यवस्यति । तव तु जीवगतशुद्धांशस्य शोधितत्वंपदार्थरूपस्य निर्दुःखेन भेदः इति जीवब्रह्मभेदसिद्धिः । शोधिततत्वं-पदार्थयोर्भेदपर्यवसानात् ।। चैतन्यान्तरादिति ।। चैतन्यसामान्यादित्यर्थः । चैतन्ये चैतन्यविशेष-भेदसत्त्वेऽपि तत्र तत्सामान्यभेदस्य मयाप्यनङ्गीकारात् । एतेन चैतन्यस्य चैतन्याद्भेदो नास्तीत्ये-तदस्मदनुकूलं भवत्प्रतिकूलं च । न हि भवतां चैत्रमैत्रादिचैतन्यानामैक्यमिति मतमिति परास्तम् । निगमयति– तस्मादिति ।।
।। इति भेदपञ्चके प्रत्यक्षम् ।। १७ ।।